भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.23

2.23.1

ऋषय ऊचुः-
विचित्रेयं कथा पुण्या धन्या यशोविधायिनी ।
सर्वपापहरा प्रोक्ता भवता वदतां वर

2.23.2

सृष्टिसंबंधमेतन्नस्तद्भवान्वक्तुमर्हति ।
पूर्वमेव यथासृष्टिर्विस्तरात्सूतनंदन

2.23.3

सूत उवाच-
विस्तरेण प्रवक्ष्यामि सृष्टिसंहारकारणम् ।
श्रुतमात्रेण यस्यापि नरः सर्वज्ञतां व्रजेत्

2.23.4

हिरण्यकश्यपेनापि व्यापितं भुवनत्रयम् ।
तपसाराध्य प्रबह्माणं वरं प्राप्तं सुदुर्लभम्

2.23.5

तस्माद्देवान्महाभागादमरत्वं तथैव च ।
देवाँल्लोकान्स संव्याप्य प्रभुत्वं स्वयमर्जितम्

2.23.6

ततो देवाः सगंधर्वा मुनयो वेदपारगाः ।
नागाश्च किन्नराः सिद्धा यक्षाश्चैव तथापरे

2.23.7

ब्रह्माणं तु पुरस्कृत्य जग्मुर्नारायणं प्रभुम् ।
क्षीरसागरसंसुप्तं योगनिद्रां गतं प्रभुम्

2.23.8

तं संबोध्य महास्तोत्रैर्देवाः प्रांजलयस्तथा ।
संबुद्धे सति देवेशे वृत्तं तस्य दुरात्मनः

2.23.9

आचचक्षुर्महाप्राज्ञ समाकर्ण्य जगत्पतिः ।
नृसिंहरूपमास्थाय हिरण्यकशिपुं व्यहन्

2.23.10

पुनर्वाराहरूपेण हिरण्याक्षो महाबलः ।
उद्धृता वसुधा पुण्या असुरो घातितस्तदा

2.23.11

अन्यांश्चघातयामास दानवान्घोरदर्शनान् ।
एवं चैतेषु नष्टेषु दानवेषु महत्सु च

2.23.12

अन्येषु तेषु नष्टेषु दितिपुत्रेषु वै तदा ।
पुनः स्थानेषु प्राप्तेषु देवेषु च महत्सु च

2.23.13

यज्ञेष्वेव प्रवृत्तेषु सर्वेषु धर्मकर्मसु ।
सुस्थेषु सर्वलोकेषु सा दितिर्दुःखपीडिता

2.23.14

पुत्रशोकेन संतप्ता हाहाभूता विचेतना ।
भर्तारं सूर्यसंकाशं तपस्तेजः समन्वितम्

2.23.15

दातारं च महात्मानं भर्तारं कश्यपं तदा ।
भक्त्या प्रणम्य विप्रेन्द्र तमुवाच महामतिम्

2.23.16

भगवन्नष्टपुत्राहं कृता देवेन चक्रिणा ।
दैतेया दानवाः सर्वे देवैश्चैव निपातिताः

2.23.17

पुत्रशोकानलेनाहं संतप्ता मुनिसत्तम ।
ममानंदकरं पुत्रं सर्वतेजोहरं विभो

2.23.18

सुबलं चारुसर्वांगं देवराजसमप्रभम् ।
बुद्धिमंतं सुसर्वज्ञं ज्ञातारं सर्वपंडितम्

2.23.19

तपस्तेजः समायुक्तं सबलं चारुलक्षणम् ।
ब्रह्मण्यं ज्ञानवेत्तारं देवब्राह्मणपूजकम्

2.23.20

जेतारं सर्वलोकानां ममानंदकरं द्विज ।
सर्वलक्षणसंपन्नं पुत्रं मे देहि त्वं विभो

2.23.21

एवमाकर्ण्य वै तस्याः कश्यपो वाक्यमुत्तमम् ।
कृपाविष्टमनास्तुष्टो दुःखिताया द्विजोत्तम

2.23.22

तामुवाच महाभाग कृपणां दीनमानसाम् ।
तस्याः शिरसि संन्यस्य स्वहस्तं भावतत्परः

2.23.23

भविष्यति महाभागे यादृशो वांछितः सुतः ।
एवमुक्त्वा जगामासौ मेरुं गिरिवरोत्तमम्

2.23.24

तपस्तेपे निरालंबः साधयन्परमव्रतः ।
एतस्मिन्नंतरे सा तु दधार गर्भमुत्तमम्

2.23.25

सा दितिः सर्वधर्मज्ञा चारुकर्मा मनस्विनी ।
शतवर्षप्रमाणं सा शुचि स्वांता बभूव ह

2.23.26

तया वै जनितः पुत्रो ब्रह्मतेजः समन्वितः ।
अथ कश्यप आयातो हर्षेण महतान्वितः

2.23.27

चकार नाम मेधावी तस्य पुत्रस्य सत्तमः ।
बलमित्यब्रवीत्पुत्रं नामतः सदृशो महान्

2.23.28

एवं नाम चकाराथ व्रतबंधं चकार सः ।
प्राह पुत्र महाभाग ब्रह्मचर्यं प्रसाधय

2.23.29

एवमेवं करिष्यामि तव वाक्यं द्विजोत्तम ।
वेदस्याध्ययनं कुर्यां ब्रह्मचर्येण सत्तम

2.23.30

एवं वर्षशतं साग्रं गतं तस्य तपस्यतः ।
मातुः समक्षमायातस्तपस्तेजः समन्वितः

2.23.31

तपोवीर्यमयं दिव्यं ब्रह्मचर्यं महात्मनः ।
दितिः पश्यति पुत्रस्य हर्षेण महतान्विता

2.23.32

तमुवाच महात्मानं बलं पुत्रं तपस्विनम् ।
मेधाविनं महात्मानं प्रज्ञाज्ञानविशारदम्

2.23.33

त्वयि जीवति मेधाविन्प्रजीवंति सुता मम ।
हिरण्यकशिपाद्यास्ते ये हताश्चक्रपाणिना

2.23.34

वैरं साधय मे वत्स जहि देवान्रिपून्रणे ।
सा दनुस्तमुवाचेदं बलं पुत्रं महाबलम्

2.23.35

आदाविंद्रं हि देवेंद्रं द्रुतं सूदय पुत्रक ।
पश्चाद्देवा निपात्यंतां ततो गरुडवाहनः

2.23.36

तयोराकर्ण्य सा देवी अदितिः पतिदेवता ।
दुःखेन महताविष्टा पुत्रमिंद्रमभाषत

2.23.37

दितिपुत्रो महाकायो वर्द्धते ब्रह्मतेजसा ।
देवानां हि वधार्थाय तपस्तेपे निरंजने

2.23.38

एवं जानीहि देवेश यदि क्षेममिहेच्छसि ।
एवमाकर्ण्य तद्वाक्यं स मातुः पाकशासनः

2.23.39

चिंतामवाप दुःखेन महतीं देवराट्तदा ।
महाभयेन संत्रस्तश्चिंतयामास वै ततः

2.23.40

कथमेनं हनिष्यामि देवधर्मविदूषकम् ।
इति निश्चित्य देवेशो बलस्य निधनं प्रति

2.23.41

एकदा हि बलः सोपि संध्यार्थं सिंधुमाश्रितः ।
कृष्णाजिनेन दिव्येन दंडकाष्ठेन राजितः

2.23.42

अमलेनापि पुण्येन ब्रह्मचर्येण तेन सः ।
सागरस्योपकंठे तं संध्यासनमुपागतम्

2.23.43

जपमानं सुशांतं तं ददृशे पाकशासनः ।
वज्रेण तेन दिव्येन ताडितो दितिनंदनः

2.23.44

बलं निपतितं दृष्ट्वा गतसत्वं गतं भुवि ।
हर्षेण महताविष्टो देवराण्मुमुदे तदा

2.23.45

एवं निपात्य तं दैत्यं दितिनंदनमेव च ।
राज्यं चकार धर्मात्मा सुखेन पाकशासनः

2.23.23

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे बलदैत्यवधोनाम त्रयोविंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc