भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.24

2.24.1

सूत उवाच-
हतं श्रुत्वा दितिः पुत्रं सुबलं बलमेव च ।
रुदितं करुणं कृत्वा हा हा कष्टं भृशं मम

2.24.2

एवं सुकरुणं कृत्वा बहुकालं तपस्विनी ।
सा गता कश्यपं कांतं तमुवाच यशस्विनी

2.24.3

तव पुत्रो महापाप इंद्रः सुरगणेश्वरः ।
सागरोपगतं दृष्ट्वा बलं मे ब्रह्मलक्षणम्

2.24.4

वज्रेण घातयामास संध्यामास्यंतमेव हि ।
एवं श्रुत्वा ततः क्रुद्धो मरीचितनयस्तदा

2.24.5

क्रोधेन महताविष्टः प्रजज्वालेव वह्निना ।
अवलुंच्य जटामेकां शुच्यग्नौ स द्विजोत्तमः

2.24.6

इंद्रस्यैव वधार्थाय पुत्रमुत्पादयाम्यहम् ।
तस्मात्कुंडात्समुत्पन्नो हुताशनमुखादपि

2.24.7

कृष्णांजनचयोपेतः पिंगाक्षो भीषणाकृतिः ।
दंष्ट्राकरालवक्त्रांतो जगतां भयदायकः

2.24.8

महाचर्वरिको घोरः खड्गचर्मधरस्तथा ।
सर्वांगतेजसा दीप्तो महामेघोपमो बली

2.24.9

उवाच कश्यपं विप्रमादेशो मम दीयताम् ।
कस्मादुत्पादितो विप्र भवता कारणं वद

2.24.10

तमहं साधयिष्यामि प्रसादात्तव सुव्रत ।
कश्यप उवाच-
अस्या मनोरथं पुत्र पूरयस्व ममैव हि

2.24.11

अदित्यास्त्वं महाप्राज्ञ जहि इंद्रं दुरात्मकम् ।
निहते देवराजे हि ऐंद्रं पदं प्रभुंक्ष्व च

2.24.12

एवं तेन समादिष्टः कश्यपेन महात्मना ।
वृत्रस्तु उद्यमं चक्रे तस्येंद्रस्य वधाय च

2.24.13

धनुर्वेदस्य चाभ्यासं स चक्रे पौरुषान्वितः ।
बलं वीर्यं तथा क्षात्रं तेजो धैर्यसमन्वितम्

2.24.14

दृष्ट्वा हि तस्य दैत्यस्य सहस्राक्षो भयातुरः ।
उपायं चिंतितं तस्य वृत्रस्यापि दुरात्मनः

2.24.15

वधार्थं देवदेवेन समाहूय महामुनीन् ।
सप्तर्षीन्प्रेषयामास वृत्रं दैत्येश्वरं प्रति

2.24.16

भवंतस्तत्र गच्छंतु यत्र वृत्रः स तिष्ठति ।
संधिं कुर्वंतु वै तेन सार्द्धं मम मुनीश्वराः

2.24.17

एवं तेन समादिष्टा मुनयः सप्त ते तदा ।
वृत्रासुरं ततः प्रोचुः सहस्राक्ष प्रचालिताः

2.24.18

सख्यं कर्तुं प्रयच्छेत्स क्रियतां दैत्यसत्तम ।
ऋषयः सप्ततत्त्वज्ञा ऊचुर्वृत्रं महाबलम्

2.24.19

सहस्राक्षो महाप्राज्ञो भवता सह सत्तम ।
मैत्रमिच्छति वै कर्तुं तत्कथं न करोषि किम्

2.24.20

अर्धमैंद्रं पदं वीर सत्वं भुंक्ष्व सुखेन वै ।
वर्तंत्वर्द्धेन इंद्रस्तु असुरा देवतास्तथा

2.24.21

सुखं वर्तंतु ते सर्वे वैरं चैव विसृज्य वै ।
वृत्र उवाच-
यदि सत्येन देवेंद्रो मैत्रमिच्छति सत्तमः

2.24.22

सत्यमाश्रित्य चैवाहं करिष्ये नात्र संशयः ।
छद्म चैवं पुरस्कृत्य इंद्रो द्रोहं समाचरेत्

2.24.23

तदा किं क्रियते विप्रा इत्यर्थे प्रत्ययं हि किम् ।
ऋषयस्त्विंद्रमाचख्युरित्यर्थं प्रत्ययं वद

2.24.24

तन्नस्त्वं सत्यतां ब्रूहि यदि सख्यमिहेच्छसि ।
इंद्र उवाच-
यद्यऽसत्येन वर्तामि भवद्भिः सह छद्मना

2.24.25

ब्रह्महत्यादिकैः पापैर्लिप्येहं नात्र संशयः ।
छद्म चैवं पुरस्कृत्य इंद्रो द्रोहं समाचरेत्

2.24.26

ब्रह्महत्यादिकैः पापैर्लिप्येहं नात्र संशयः ।
इत्युवाच महाप्राज्ञ त्वामेवं स पुरंदरः

2.24.27

एतेन प्रत्ययेनापि सख्यं कुरु महामते ।
वृत्र उवाच-
भवतां शिष्टमार्गेण सत्येनानेन तस्य च

2.24.28

मैत्रमेवं करिष्यामि तेन सार्द्धं द्विजोत्तमाः ।
वृत्रमिंद्रस्यसंस्थानं नीतं ब्राह्मणपुङ्गवैः

2.24.29

इन्द्रस्तमागतं दृष्ट्वा वृत्रं मित्रार्थमुद्यतः ।
सिंहासनात्समुत्थाय अर्घमादाय सत्वरः

2.24.30

ददौ तस्मै स धर्मात्मा वृत्राय द्विजसत्तम ।
अर्धं भुंक्ष्व महाप्राज्ञ ऐंद्रमेतन्महत्पदम्

2.24.31

वर्तितव्यं सुखेनापि आवाभ्यां दैत्यसत्तम ।
एवं विश्वासयन्दैत्यं वृत्र मैत्रेण वै तदा

2.24.32

गतेषु तेषु विप्रेषु स्वस्थानं द्विजसत्तम ।
छिद्रं पश्यति दुष्टात्मा वृत्रस्यापि सदैव हि

2.24.33

सावधानत्वमिंद्रोपि दिवारात्रौ प्रचिंतयेत् ।
तस्यच्छिद्रं न पश्येत वृत्रस्यापि महात्मनः

2.24.34

उपायं चिंतयामास तस्यैव वधहेतवे ।
रंभा संप्रेषिता तेन मोहयस्व महासुरम्

2.24.35

येनकेनाप्युपायेन यथा हत्वा लभे सुखम् ।
तथा कुरुष्व कल्याणि संमोहाय सुरद्विषः

2.24.36

वनं पुण्यं महादिव्यं पुण्यपादपसेवितम् ।
बहुवृक्षफलोपेतं मृगपक्षिसमाकुलम्

2.24.37

विमानमंदिरैर्दिव्यैः सर्वत्र परिशोभितम् ।
दिव्यगंधर्वसंगीतं भ्रमराकुलितं सदा

2.24.38

कोकिलानां रुतैः पुण्यैः सर्वत्र मधुरायतैः ।
शिखिसारंगनादैश्च सर्वत्र सुसमाकुलम्

2.24.39

दिव्यैस्तु चंदनैर्वृक्षैः सर्वत्र समलंकृतम् ।
वापीकुंडतडागैश्च जलपूर्णैर्मनोहरैः

2.24.40

कमलैः शतपत्रैश्च पुष्पितैः समलंकृतम् ।
देवगंधर्वसंसिद्धैश्चारणैश्चैव किन्नरैः

2.24.41

मुनिभिः शुशुभे दिव्यैर्दिव्योद्यानवरेण च ।
अप्सरोगणसंकीर्णं नानाकौतुकमंगलैः

2.24.42

हेमप्रासादसंबाधं दंडच्छत्रैश्च चामरैः ।
कलशैश्च पताकाभिः सर्वत्रसमलंकृतम्

2.24.43

वेदध्वनिसमाकीर्णं गीतध्वनिसमाकुलम् ।
एवं नंदनमासाद्य सा रंभा चारुहासिनी

2.24.44

अप्सरोभिः समं तत्र क्रीडत्येवं विलासिनी ।
सूत उवाच-
एकदा तु स वृत्रो वै कालाकृष्टो गतो वनम्

2.24.45

कतिभिर्दानवैः सार्द्धं मुदया परया युतः ।
अलक्ष्ये भ्रमते पार्श्वं तस्यैव च महात्मनः

2.24.46

देवराजोपि विप्रेंद्रश्छिद्रान्वेषी द्विषां किल ।
स हि वृत्रो महाप्राज्ञो विश्वस्तः सर्वकर्मसु

2.24.47

इंद्रं मित्रं परं जानन्भयं चक्रे न तस्य सः ।
भ्रममाणो वनं पश्येत्सर्वत्र परमं शुभम्

2.24.48

सुरम्यं कौतुकवनं वनितागणसंकुलम् ।
चंदनस्यापि वृक्षस्य छायां शीतां सुपुण्यदाम्

2.24.49

समाश्रित्य विशालाक्षी रंभा तत्र प्रदीव्यति ।
सखीभिस्तु महाभागा दोलारूढा यशस्विनी

2.24.50

गायते सुस्वरं गीतं सर्वविश्वप्रमोहनम् ।
तत्र वृत्रः समायातः कामाकुलितमानसः

2.24.51

दोलारूढां समालोक्य रंभां चारुसुलोचनाम्

2.24.24

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वृत्रवंचनंनाम चतुर्विंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc