भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.22

2.22.1

व्यास उवाच-
प्रश्नमेकं महाभाग करिष्ये सांप्रतं वद ।
त्वयैव पूर्वमुक्तं हि सुव्रतं च प्रतीश्वरम्

2.22.2

पूर्वाभ्यासेन संध्यायन्नारायणमनामयम् ।
कस्यां ज्ञात्यां समुत्पन्नः सुव्रतः पूर्वजन्मनि

2.22.3

तन्मे त्वं सांप्रतं ब्रूहि कथमाराधितो हरिः ।
अनेनापि स देवेश कोयं पुण्यसमाविलः

2.22.4

ब्रह्मोवाच-
वैदिशे नगरे पुण्ये सर्वऋद्धिसमाकुले ।
तत्र राजा महातेजा ऋतध्वजसुतो बली

2.22.5

तस्यात्मजो महाप्राज्ञो रुक्मभूषणविश्रुतः ।
संध्यावली तस्य भार्या धर्मपत्नी यशस्विनी

2.22.6

तस्यां पुत्रं समुत्पाद्य स आत्मसदृशं ततः ।
तस्य धर्मांगदं नाम चकार नृपनंदनः

2.22.7

सर्वलक्षणसंपन्नः पितृभक्तिपरायणः ।
रुक्मांगदस्य तनयो योयं भगवतां वरः

2.22.8

पितुः सौख्याय येनापि मोहिन्यै तु शिरो ददे ।
वैष्णवेन च धर्मेण पितृभक्त्या तु तस्य हि

2.22.9

सुप्रसन्नो हृषीकेशः सकायो वैष्णवं पदम् ।
नीतस्तु सर्वधर्मज्ञो वैष्णवः सात्वतां वरः

2.22.10

धर्मांगदो महाप्राज्ञः प्रज्ञाज्ञानविशारदः ।
तत्रस्थो वै महाप्राज्ञो धर्मोसौ धर्मभूषणः

2.22.11

दिव्यान्मनोनुगान्भोगान्मोदमानः प्रभुंजति ।
पूर्णे युगसहस्रांते धर्मो वै धर्मभूषणः

2.22.12

तस्मात्पदात्परिभ्रष्टो विष्णोश्चैव प्रसादतः ।
सुव्रतो नाम मेधावी सुमनानंदवर्द्धनः

2.22.13

सोमशर्मस्य तनयः श्रेष्ठो भगवतां वरः ।
तपश्चचार मेधावी विष्णुध्यानपरोभवत्

2.22.14

कामक्रोधादिकान्दोषान्परित्यज्य द्विजोत्तमः ।
संयम्यचैन्द्रियं वर्गं तपस्तेपे निरंतरम्

2.22.15

वैडूर्यपर्वतश्रेष्ठे सिद्धेश्वरस्य सन्निधौ ।
एकीकृत्य मनश्चायं संयोज्य विष्णुना सह

2.22.16

एवं वर्षशतं स्थित्वा ध्यानेनास्य महात्मनः ।
सुप्रसन्नो जगन्नाथः शंखचक्रगदाधरः

2.22.17

तस्मै वरं ददावन्यं सलक्ष्म्या सह केशवः ।
भोभोः सुव्रत धर्मात्मन्बुध्यस्व विबुधांवर

2.22.18

वरं वरय भद्रं ते कृष्णोऽहं ते समागतः ।
एवमाकर्ण्य मेधावी विष्णोर्वाक्यमनुत्तमम्

2.22.19

हर्षेण महताविष्टो दृष्ट्वा देवं जनार्दनम् ।
बद्धांजलिपुटो भूत्वा प्रणाममकरोत्तदा

2.22.20

सुव्रत उवाच-
संसारसागरमतीव महासुदुःखजालोर्मिभिर्विविधमोहचयैस्तरंगैः ।
संपूर्णमस्ति निजदोषगुणैस्तु प्राप्तस्तस्मात्समुद्धर जनार्दनमाशुदीनम्

2.22.21

कर्मांबुदे महति गर्जतिवर्षतीव विद्युल्लतोल्लसतिपातकसंचयैर्मे ।
मोहांधकारपटलैर्मम नास्ति दृष्टिर्दीनस्य तस्य मधुसूदन देहि हस्तम्

2.22.22

संसारकाननघनं बहुदुःखवृक्षैः संसेव्यमानमपि मोहमयैश्च सिंहैः ।
संदीप्तमस्ति करुणाबहुवह्नितेजः संतप्यमानमनिशं परिपाहि कृष्ण

2.22.23

संसारवृक्षमतिजीर्णमपीह उच्चं मायासुकंदकरुणा बहुदुःखशाखम् ।
जायादिसंगच्छदनं फलितं मुरारे तत्राधिरूढपतितं भगवन्हि रक्ष

2.22.24

दुःखानलैर्विविधमोहमयैः सुधूमैः शोकैर्वियोगमरणांतिक सन्निभैश्च ।
दग्धोस्मि कृष्ण सततं मम देहि मोक्षं ज्ञानांबुदैः समभिषिंच सदैव मां त्वम्

2.22.25

घोरांधकारपटले महतीव गर्ते संसारनाम्निपतितं सततं हि कृष्ण ।
त्वं सत्कृपो मम हि दीनभयातुरस्य तस्माद्विरज्यशरणं तव आगतोस्मि

2.22.26

त्वामेव ये नियतमानसभावयुक्ता ध्यायंति ज्ञानमनसा पदवीं लभंते ।
नत्वैव पादयुगलं च महासुपुण्यं यद्देवकिन्नरगणाः परिचिंतयंति

2.22.27

नान्यं वदामि न भजामि न चिंतयामि त्वत्पादपद्मयुगलं सततं नमामि ।
कामं त्वमेव मम पूरय मेद्य कृष्ण दूरेण यातु मम पातकसंचयस्ते

2.22.28

दासोस्मि देव तव किंकरजन्मजन्म त्वत्पादपद्मयुगलं सततं स्मरामि

2.22.29

यदि कृष्ण प्रसन्नोसि देहि मे सुवरं प्रभो ।
मन्मातापितरौ कृष्ण सकायौ मंदिरे नय

2.22.30

आत्मनश्च महादेव मयासह न संशयः ।
श्रीकृष्ण उवाच-
एवं ते परमं कार्यं भविष्यति न संशयः

2.22.31

तस्य तुष्टो हृषीकेशो भक्त्या तस्य प्रतोषितः ।
प्रयातौ वैष्णवं लोकं दाहप्रलयवर्जितौ

2.22.32

सुव्रतेन समं तौ द्वौ सुमना सोमशर्मकौ ।
यावत्कल्पद्वयं प्राप्तं तावत्स सुव्रतो द्विजः

2.22.33

बुभुजे बुभुजे दिव्याँल्लोकांश्चैव महामते ।
देवकार्यार्थमत्रैव काश्यपस्य गृहं पुनः

2.22.34

अवतीर्णो महाप्राज्ञो वचनात्तस्य चक्रिणः ।
ऐंद्रं पदं हि यो भुंक्ते विष्णोश्चैव प्रसादतः

2.22.35

वसुदत्तेति विख्यातः सर्वदेवैर्नमस्कृतः ।
ऐंद्रं पदं हि यो भुंक्ते सांप्रतं वासवो दिवि

2.22.36

एतत्ते सर्वमाख्यातं सृष्टिसंबंधकारणम् ।
अन्यदेवं प्रवक्ष्यामि यदेव परिपृच्छसि

2.22.37

व्यास उवाच-
धर्माङ्गदो महाप्राज्ञो रुक्माङ्गदसुतो बली ।
आद्ये कृतयुगे जातः सृष्टिकाले स वासवः

2.22.38

तत्कथं देवदेवेश अन्यो धर्माङ्गदो भुवि ।
अन्यो रुक्मांङ्गदो राजा किं चायं त्रिदशाधिपः

2.22.39

एतन्मे संशयं जातं तद्भवान्वक्तुमर्हति ।
ब्रह्मोवाच-
हंत ते कथयिष्यामि सर्वसंदेहनाशनम्

2.22.40

देवस्य लीलासृष्ट्यर्थे वर्तते द्विजसत्तम ।
यथा वाराश्च पक्षाश्च मासाश्च ऋतवो यथा

2.22.41

संवत्सराश्च मनवस्तथा यांति युगाः पुनः ।
पश्चात्कल्पः समायाति व्रजाम्येवं जनार्दनम्

2.22.42

अहमेव महाप्राज्ञ मयि यांति चराचराः ।
पुनः सृजति योगात्मा पूर्ववद्विश्वमेव हि

2.22.43

पुनरहं पुनर्वेदाः पुनस्ते देवता द्विजाः ।
तथा भूपाश्च ते सर्वे स्वचरित्रसमाविलाः

2.22.44

प्रभवंति महाभाग विद्वांस्तत्र न मुह्यति ।
पूर्वकल्पे महाभागो यथा रुक्मांगदो नृपः

2.22.45

तथा धर्मांगदश्चायं संजातः ख्यातिमान्द्विजः ।
रामादयो महाप्राज्ञा ययातिर्नहुषस्तथा

2.22.46

मन्वादयो महात्मानः प्रभवंति लयंति च ।
ऐंद्रं पदं प्रभुंजंति राजानो धर्मतत्पराः

2.22.47

यथा धर्मांगदो वीरः प्रभुंजति महत्पदम् ।
एवं वेदाश्च देवाश्च पुराणाः स्मृतिपूर्वकाः

2.22.48

एतत्तु सर्वमाख्यातं तवाग्रे द्विजसत्तम ।
चरितं सुव्रतस्याथ पुण्यं सुगतिदायकम्

2.22.49

अव्यक्तं तु महाभाग प्रब्रवीमि तवाग्रतः

2.22.22

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे ऐंद्रे सुव्रतोपाख्यानंनाम द्वाविंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc