भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.112

2.112.1

कुंजल उवाच-
तदेव गानं च सुरांगनाभिर्गीतं समाकर्ण्य च गीतकैर्ध्रुवैः ।
समाकुला चापि बभूव तत्र सा शंभुपुत्री परिचिंतयाना

2.112.2

आसनात्तूर्णमुत्थाय महोत्साहेन संयुता ।
तूर्णं गता वरारोहा तपोभावसमन्विता

2.112.3

तं दृष्ट्वा देवसंकाशं दिव्यरूपसमप्रभम् ।
दिव्यगंधानुलिप्तांगं दिव्यमालाभिशोभितम्

2.112.4

दिव्यैराभरणैर्वस्त्रैः शोभितं नृपनंदनम् ।
दीप्तिमंतं यथा सूर्यं दिव्यलक्षणसंयुतम्

2.112.5

किं वा देवो महाप्राज्ञो गंधर्वो वा भविष्यति ।
किं वा नागसुतः सोयं किंवा विद्याधरो भवेत्

2.112.6

देवेषु नैव पश्यामि कुतो यक्षेषु जायते ।
अनया लीलया वीरः सहस्राक्षोपि जायते

2.112.7

शंभुरेष भवेत्किंवा किंवा चायं मनोभवः ।
किंवा पितुः सखा मे स्यात्पौलस्त्योऽयं धनाधिपः

2.112.8

एवं समा चिंतयती च यावत्तावत्त्वरं रूपगुणाधिपा सा ।
समेत्य रंभासु महासखीभिरुवाच तां शंभुसुतां प्रहस्य

2.112.112

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने द्वादशाधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc