भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.113

2.113.1

रंभोवाच-
तप एतत्परित्यज्य किंवा लोकयसे शुभे ।
तपसः क्षरणं स्याद्वै पुरुषस्यापि चिंतनात्

2.113.2

अशोकसुंदर्युवाच-
तपसि मे मनो लीनं नहुषस्यापि काम्यया ।
न मां चालयितुं शक्ता देवासुरमहोरगाः

2.113.3

एनं दृष्ट्वा महाभागे मे मनश्चलते भृशम् ।
रंतुमिच्छाम्यहं गत्वा एवमुत्सुकतां गतम्

2.113.4

एवं विपर्ययश्चासीन्मनसो मे वरावने ।
तन्मे त्वं कारणं ब्रूहि यद्यस्ति ज्ञानमुत्तमम्

2.113.5

आयुपुत्रस्य भार्याहं देवैः सृष्टा महात्मभिः ।
कस्मान्मे धावते चेत उत्सुकं रंतुमेव च

2.113.6

रंभोवाच-
सर्वेष्वेव महाभागे देहरूपेषु भामिनि ।
वसत्यात्मा स्वयं ब्रह्मज्ञानरूपः सनातनः

2.113.7

यद्यपि प्रक्रियाबद्धैरिंद्रियैरुपकारिभिः ।
मोहपाशमयैर्बद्धस्तथा सिद्धस्तु सर्वदा

2.113.8

प्रकृतिं नैव जानाति ज्ञानविज्ञानकीं कलाम् ।
अयं शुद्धश्च धर्मज्ञ आत्मा वेत्ति च सुंदरि

2.113.9

गच्छंत्यपि मनस्तापमेनं दृष्ट्वा महामतिम् ।
पापमेवं परित्यज्य सत्यमेवं प्रधावति

2.113.10

भर्तायमायुपुत्रस्ते एतत्सत्यं न संशयः ।
अन्यं दृष्ट्वा विशंकेत पुरुषं पापलक्षणम्

2.113.11

एवं विधिः कृतो देवैः सत्यपाशेन बंधितः ।
यदस्या आयुपुत्रोपि भर्तृत्वमुपयास्यति

2.113.12

एवमाकर्णितं भद्रे आत्मना तं च सुंदरि ।
तद्भावसत्यसंबंधं परिगृह्य स्थितः स्वयम्

2.113.13

अन्यं भावं न जानाति आयुपुत्रं च विंदति ।
प्रकृतिर्नैव ते देवि पतिं जानाति चागतम्

2.113.14

एवं ज्ञात्वा प्रधानात्मा तवाद्यैव प्रधावति ।
आत्मा सर्वं प्रजानाति आत्मा देवः सनातनः

2.113.15

अयमेष स वीरेंद्रो नहुषो नाम वीर्यवान् ।
तस्माद्गच्छति चेतस्ते सत्यं संबंधमिच्छते

2.113.16

ज्ञात्वा चायोः सुतं भद्रे अन्यं चैव न गच्छति ।
एतत्ते सर्वमाख्यातं शाश्वतं त्वन्मनोगतम्

2.113.17

हुंडं हत्वा महाघोरं समरे दानवाधमम् ।
त्वां नयिष्यति स्वस्थानमायोश्च गृहमुत्तमम्

2.113.18

हृतो दैत्येन वीरेंद्रो निजपुण्येन शेषितः ।
बाल्यात्प्रभृति वीरेंद्रो वियुक्तः स्वजनेन वै

2.113.19

पितृमातृविहीनस्तु गतो वृद्धिं महावने ।
यास्यत्येव पितुर्गेहं त्वयैव सह सांप्रतम्

2.113.20

एवमाभाषितं श्रुत्वा रंभायाः शिवनंदिनी ।
हर्षेण महताविष्टा तामुवाच समुद्रजाम्

2.113.21

अयमेव स सत्यात्मा मम भर्ता सुवीर्यवान् ।
मनो मे धावतेऽत्यर्थं शोकाकुलितविह्वलम्

2.113.22

नास्ति चित्तसमो देवो जानाति सुविनिश्चितम् ।
सत्यमेतन्मया दृष्टं सुचित्रं चारुहासिनि

2.113.23

मनोभवसमानं तु पुरुषं दिव्यलक्षणम् ।
न धावति महाचेत एनं दृष्ट्वा यथा सखि

2.113.24

तथा न धावते भद्रे पुंसमन्यं न मन्यते ।
एनं गंतव्यमावाभ्यां सखीभिर्गृहमेव हि

2.113.25

एवमाभाष्य सा रंभा गमनायोपचक्रमे ।
गमनायोत्सुकां ज्ञात्वा नहुषस्यांतिकं प्रति

2.113.26

तामुवाच ततो रंभा कस्माद्देवि न गम्यते ।
सूत उवाच-
सख्या च रंभया सार्द्धं नहुषं वीरलक्षणम्

2.113.27

तस्यांतिकं सुसंप्राप्य प्रेषयामास तां सखीम् ।
एनं गच्छ महाभागे नहुषं देवरूपिणम्

2.113.28

कथयस्व कथामेतां तवार्थे आगता यतः ।
रंभोवाच-।
एवं सखि करिष्यामि सुप्रियं तव सुव्रते

2.113.29

एवमुक्त्वा गता रंभा नहुषं राजनंदनम् ।
चापबाणधरं वीरं द्वितीयमिव वासवम्

2.113.30

प्रत्युवाच गता रंभा सख्या वचनमुत्तमम् ।
आयुपुत्र महाभाग रंभाहंसमुपागता

2.113.31

शिवस्य कन्यया वीर तयाहं परिप्रेषिता ।
तवार्थं देवदेवेन देव्या देवेन वै पुरा

2.113.32

भार्यारूपं वरं श्रेष्ठं सृष्टं लोकेषु दुर्लभम् ।
दुष्प्राप्यं तु नरश्रेष्ठैर्देवै सेंद्रैस्तपोधनैः

2.113.33

गंधर्वैः पन्नगैः सिद्धैश्चारणैः पुण्यलक्षणैः ।
स्वयमेव समायातं तवार्थे शृणु सांप्रतम्

2.113.34

स्त्रीरत्नं तन्महाप्राज्ञ संपूर्णं पुण्यनिर्मितम् ।
अशोकसुंदरी नाम तवार्थं तपसि स्थिता

2.113.35

अत्यर्थं तु तपस्तप्तं भवंतमिच्छते सदा ।
एवं ज्ञात्वा महाभाग भजमानां भजस्व हि

2.113.36

त्वामृते सा वरारोहा पुरुषं नैव याचते ।
नहुषेण तयोक्तं तु श्रुत्वावधारितं वचः

2.113.37

प्रत्युत्तरं ददौ चाथ रंभे मे श्रूयतां वचः ।
तत्तु सर्वं विजानामि यत्त्वयोक्तं ममाग्रतः

2.113.38

ममाग्रे कथितं पूर्वं वशिष्ठेन महात्मना ।
सर्वमेव विजानामि अस्यास्तु तप उत्तमम्

2.113.39

श्रूयतां कारणं भद्रे यथासौख्यं भविष्यति ।
अहत्वा दानवं हुंडं न गच्छामि वरांगनाम्

2.113.40

सर्वमेतत्सुवृत्तांतमहं जाने तथैव हि ।
ममार्थे तव संभूतिस्तपश्च चरितं त्वया

2.113.41

मम भार्या न संदेहो भवती विधिना कृता ।
ममार्थे निश्चयं कृत्वा तप आचरितं त्वया

2.113.42

हृता तस्मात्सुपापेन भवती नियमान्विता ।
सूतिगृहादहं तेन दानवेनाधमेन वै

2.113.43

बालभावस्थितो देवि पितृमातृविना कृतः ।
तस्मात्तं तु हनिष्यामि हुंडं वै दानवाधमम्

2.113.44

पश्चात्त्वामुपनेष्येऽहं वशिष्ठस्याश्रमं प्रति ।
एवं कथय भद्रं ते रंभे मत्प्रियकारिणीम्

2.113.45

एवं विसर्जिता तेन सत्वरं सा गता पुनः ।
अशोकसुंदरीं देवीं कथयामास तस्य च

2.113.46

समासेन तथा सर्वं रंभा सा द्विजसत्तम ।
अशोकसुंदरी सा तु अवधार्य सुभाषितम्

2.113.47

नहुषस्य सुवीरस्य हर्षेण च समन्विता ।
तस्थौ तत्र तया सार्द्धं सुसख्या रंभया तदा

2.113.48

भर्तुश्च कीदृशं वीर्यमिति पश्यामि वै सदा

2.113.113

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने त्रयोदशाधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc