भाषा

ENहिગુ
ग्रंथ पाठ

न्यायवार्त्तिकतात्पर्यपरिशुद्धि · भाग 81100

कारणे च बाधिते कार्यं बाधितमेव यथा स्वप्नान्तिकदृष्टपयोदपटलबाधे
तदाश्रयो विद्युदुद्योतः ।
हर्षाश्रुप्रभृतयस्तु न सुखकार्याः किं तु सुखज्ञानकार्या इति न तावन्मात्रेण तत्संभवोपपत्तिः ।
तस्मात् स्वप्नान्तिकोदाहरणबलेन ज्ञानमात्रकार्यतो सुखस्य सिध्यतीति मनोरथाद्युदाहृत्य परिहृतम् ॥
चतुर्धा खलु संसारिणां सुखमुत्पद्यते ।
किञ्चिदभ्यासाद् यथा मृगयादिषु ; किञ्चिदभिमानाद् यथा चन्दनादिषु ; किञ्चित विषयसंभोगाद् यथा सुरभिमधुरगौरगान्धारादिषु ; किञ्चिन्मनोरथादिसंप्रत्ययमात्राद् यथा भविष्यत्पुत्रादिजन्मदिनमहोत्सवानुचिन्तनादिषु ।
ते चामी स्वरूपभेदवन्तो ऽनुभूयन्ते ।
न हि यथा मनोरथेषु सुखं तथा विषयसंभोगे ।
तथा सति तत्परित्यागेनान्योपादानवैयर्थ्यात् ।
तावदेव हि बुभुक्षितो मोदकान् मनोरथयति
यावदमी नास्य परमार्थतः सन्निधीयन्ते ।
अथ मनोरथव्यसनमपहाय तत्रैव नियमतः प्रवर्तते, तदेकजातीयत्वे सर्वमसमञ्जसं स्यात् ।
जातिभेदे तु कारणभेदो ऽवश्याभ्युपेतव्य इत्यर्थः ॥
तदत्रेन्द्रियार्थसन्निकर्षस्य सत्त्वमनुविधत्वे सुखोत्पत्तिरिति सिद्धान्तिनो विवक्षितम् ।
तच्चान्यथासिद्धमिति मन्वानः पुनः पूर्वोक्तं स्मारयति---ज्ञानमात्रमेवेति ।
नात्र तत्सत्त्वानुविधानमात्रं विवक्षितम् ।
किं नाम? जातिभेदः
कारणभेदमाक्षिपति ।
स च कारणभेदो ऽनुविहितभावाभाव एव सिध्यतीत्यत्र विवक्षितमिति प्रतिपिपादयिषुरुक्तम् एवानुभाषते ।
न, विषयासन्निधान इति ।
तदिदमुक्तम्---तादृशस्य सुखभेदस्य अनुत्पादादिति ।
यादृश इन्द्रियार्थसन्निकर्षादुत्पद्यत इति शेषः ॥
शङ्कते--विषयेति ।
ज्ञानाभेदे हि भिन्नजातीयं सुखं कारणान्तरं भिन्नमाक्षिपेत् ।
इह तु ज्ञानमेव भिन्नजातीयमित्यर्थः ।
परिहरति--हन्तेश्वरस्यापीति ।
ननु विषयसाक्षात्कारो ऽपीष्टोपलब्धिलक्षणः सुखहेतुः ।
स च तादृशो नास्तीश्वरे तस्य बुभुक्षाविरहात् , कथं तस्य सुखोत्पादप्रसङ्ग इत्यत आह--योगर्द्धिसम्पन्नानामिति ।
ननु ते ऽप्यलंप्रत्ययवन्तः कथमिव सुखभाजो भवेयुरित्यत आह--असत्यामिति ।
न हि ते सर्वदैव प्रतिपक्षधारणावन्तो मा भूदमीषां सर्वदा भोगविरहाद् धर्माधर्मप्रचयतादवस्थ्यम् ।
तस्माद् यदा प्रतिपक्षधारणा नास्ति तदा विषयसाक्षात्कारमात्रादेव तेषां सुखं प्रसज्येतेत्यर्थः ॥
न च वाच्यम्, यदि भवेदेवं कीदृशो दोष इति ।
कायव्यूहे शरीरेन्द्रियनिर्माणवैयर्थ्यप्रसड्गात् ।
इष्टानिष्टसाक्षात्कारस्य एकस्मिन्नेव शरीरे मनसैव सिद्धत्वात् ।
न चेन्द्रियाणामर्थानां च परस्परमसन्निकृष्टानामेव सत्तामात्रैण क्वचिदात्मधर्मसमुत्पादे सामर्थ्यमधिगतम्, तस्माद् योगर्द्धिमतां सत्यपि विषयसाक्षात्कारे इन्द्रियार्थसन्निकर्षाभावात् सुखं नास्तीत्यभिप्रेत्योपसंहरति--तस्मादिति ।
तदयं प्रमाणार्थः, योगर्द्धीनीन्द्रियाणि सुखदुःखसमुत्पादप्रयोजनानि, सुखदुःखतब्दोधान्यत्वे सत्यन्यत्राचारितार्थत्वात्,
इष्टानिष्टोपलब्धिवत् ।
न चायमसिद्धः ।
अन्यत्र हि चरितार्थत्वं साक्षात्कारे संभाव्येत, स तु योगजधर्मसहकृतेन मनसैव जनितः ।
ते च सुखदुःखे सन्निकृष्टैरेवेन्द्रियैर्जन्येते, बाह्येन्द्रियजन्यत्वे सत्यात्मघर्मत्वात्, अस्मादादिविषयसाक्षात्कारवदिति ।

सो ऽयं सन्निकर्षो यदा नास्ति तदा तेषामपि न सुखादिकमिति ।
तदिदमुक्तम्--स चेति ॥
नन्विन्द्रियार्थसन्निकर्षजन्मा विषयसाक्षात्कारः सुखादिहेतुः, न च तथा सिद्धानामस्ति, अतो न तेषां सुखोत्पादप्रसङ्ग इत्यत आह--अपि चेति ।
न तावदिन्द्रियजन्याजन्ययोः साक्षात्कारयोः कश्चिदाजानतो विशेषः, किं तु इन्द्रियार्थसन्निकर्षरूपकारणसम्बन्ध एव विशेषः ।
स च यदि कार्ये विवक्षितः, कथं न तस्य कारणता सुखादिकं प्रति? अविवक्षितश्चेत्, सिद्धानामपि तदुत्पादप्रसड्गो दुर्वारः, तुल्ययोगक्षेमत्वात् ।
तस्मात् चरमभाविन्येव साक्षात्कारे सति किमिन्द्रियेणेत्यहृदयस्याभिप्रायः अवशिष्यते ।
तत्र चातिप्रसङ्ग इत्यर्थः ।
अत्रैवार्थे वृद्धसंमतिमाह--स्रगादीति ।
अत्र स्रगादीति कारणचक्रकथनम् ।
यदुत्पद्यत इत्यनुकूलप्रवेदनीयं स्वरूपम् ।
अनुग्रहादीति कार्यम् ।
अनुग्रहो भोगापरनामा सुखप्रत्ययः ।
अभिष्वङ्गः पुनः पुनः सुखप्रवाहस्याविच्छेदेच्छा ।
प्रसादः सुखविषयग्रहणपाटवमिति ॥
नन्वव्यपदेश्यव्यवसायात्मकपदयोः संग्राह्यं व्यवच्छेद्यं वा न पश्याम्ः प्रत्युत परस्परविरुद्धयोरनयोरेकस्मिन् प्रत्यक्षे ऽसमावेश एवेत्यत आह--इह द्वयीति ।
संगृहीतापि स्वशब्देनोपात्ता किमिति चेदिति शड्काशेषः ।
उत्तरम्--तत्र विप्रतिपत्तेः ।
यतस्तत्र विप्रतिपत्तिस्ततस्तां निषेद्धुमित्यर्थः ।
व्यपदिश्यते व्यवच्छिद्यते ऽनेनेति व्यपदेशः, सा च व्यवच्छित्तिर्व्यावृत्तिप्रतीतिरूभाभ्यां क्रियत इति तदुभयमाह--विशेषणमिति ॥
तत्र समानाधिकरणं व्यवच्छेदकं विशेषणम् ।
व्यधिकरणं तूपलक्षणम् ।
यथा दण्डी देवदत्तो जटाभिस्तातस इति ।
न तु सेदव विशेषणम्, अतिव्यापकतया अलक्षणत्वात् ।
लक्षणविशेषणमेतदिति चेत्? अथ लक्षणं किम्? स्वोपरक्तप्रतीतिजनकत्वमिति चेत्? एतदेव किमुक्तं स्यात् अवच्छेदकत्वमन्यद्वा? न तावदाद्यः, उपलक्षणस्याप्यवच्छेदकत्वात् ।
अत एव सदिति विशेषणमिति चेत्--न, सतो ऽपि कस्यचिदुपलक्षणत्वेनेष्टत्वात् ।
अन्युत्तु समानाधिकरणव्यवच्छेदकत्वान्नान्यत् ।
तस्मात् सद् वा असद् वा समानाधिकरणं व्यवच्छेदकं विशेषणं विपरीतमुपलक्षणमिति ।
अत एव विशेषणमात्रमुदाहरन्नोपलक्षणम्, तत् कस्य होतोः? तदेव व्याधिकरणतयोपलक्षण
यतः ।
व्यपदेश्यं विशेष्यमिति यावदिति ।
व्यवच्छेद्यमिति यावदित्यर्थः ।
एवमुत्तरत्रापि ।
नामधेयान्विताः नामधेयात्मान इत्यर्थः ।
एतदेव व्यतिरेकतो दर्शयति--नास्तीति ।
नामधेयेन सह वियुज्यते विभिद्यत इत्यर्थः ।
तैरित्यत्र कारणताभ्रमो मा भूदित्येतदर्थमुपेतदेनापूर्य व्याचष्टे--अर्था हीति ।
तदयं समुदायार्थः ।
नामधेयात्मानोर्ऽथास्तत्सामानाधिकरण्येन प्रतीयमानत्वात् ।
यत् पुनर्यदात्मकं न भवति न तत् तत्सामानाधिकरण्येन
प्रतीयते ।

यथा गोरश्वसामानाधिकरण्येन ।
प्रतीयन्ते चार्थाः शब्दसामानाधिकरण्येन तस्मात् तदात्मान इति ॥
ननु गवाश्वादीनां सामानाधिकरण्यव्यावृत्ति किमभेदव्यावृत्तेरूत तत्प्रतीत्योरूपायोपेयभावव्यावृत्तेरिति संदिह्यत इत्यत आह--न चेति ।
अपि च यदि शब्दार्थयोः सामानाधिकरण्ये उपायोपेयभाव उपाधिः स्यात्, उपायत्वनिवृत्तावेव तदपि निवर्तेत, न च निवर्तत इत्यत आह--अपि चेति ॥
हेत्वन्तरमाह--किं चेति ।
उत्कर्षः प्राशस्त्यम् ।
उपकर्षो ऽप्राशस्त्यम् ।
न चेदं व्यवहारमात्रम् ।
शब्दनिबन्धनो
ह्युत्कर्षापकर्षव्यवहारः तथाभूतवस्तुप्रत्ययादेव भविष्यति ।
यथा षड्जाद्युत्कर्षापकर्षव्यवहारनिबन्धनो मयूराद्युत्कर्षापकर्षव्यवहार इति दृष्टान्तार्थं षड्जादिष्वित्युक्तम् ।
अन्यथा नामधेयतादात्म्यप्रसाधनप्रस्तावे किमनेन ।
अत एव सिद्धान्ते संज्ञानिवेशनमित्याह ।
प्रयोगस्तु नामधेयात्मानोर्ऽथा तदुत्कर्षापकर्षानुविधायित्वात् ।
यत् पुनर्यदात्मकं न भवति न तत् तदुत्कर्षाद्यनुविधायि, यथा गौरश्वस्येति ॥
ननु यद्यर्थप्रत्ययो नामधेयोत्कार्षाद्यविधत्ते तत् तस्यैव तादात्म्यमस्तु, किमायातमर्थस्येत्यत आह--प्रत्ययस्येति ।
साक्षादनभिधाने ऽपि गुणगुण्यादेरपि योग्यतया सपक्षत्वेन तद्गतसामानाधिकरण्येन विरोध उभ्दावयितुं न शक्यत इति तदुपेक्ष्यान्यथा शङ्कते--अस्तीति ।
अस्ति हि शुक्लभास्वरत्वादिभिः युक्तिकागतै रजतत्वस्य सामानाधिकरण्यप्रत्ययो नतु तादात्म्यं परस्परं धर्मिणोरित्यर्थः ।
पुनरुक्तभ्रमो मा भूदित्येतदर्थम् आह--उक्तमपि व्यपदेशमिति ।
व्याख्यानस्य चैतत् प्रयोजनम्, यद्धेत्वन्तरसूचनम्, तथा च प्रयोगः, रूपाद्यर्थविषयं ज्ञानं रूपादिशब्दविषयम्, नियमतस्तेन व्यपदिश्यमानत्वात्, यत् तु यद्विषयं न भवति, न तन्नियमतस्तेन व्यपदिश्यते यथा रूपविज्ञानं रसेनेति ।
अनुविद्धता संश्लेषलक्षणार्थेनैव विज्ञानस्य नास्ति, कुतस्तरां तदात्मनापि शब्देन भविष्यतीत्यत उक्तमिवेति ।
यथा ह्यर्थो ज्ञानान्तर्निविष्ट इव विषयतया
परिस्फुरति, तथा शब्दो ऽपीत्यर्थः ।
शब्दानुव्याधवदेव शब्दसंभिन्नविषयमेवेत्यर्थः ।
न चेदमप्रामाणिकं, यदवोचत् प्रमाणमित्यादिशेषौ ।
शब्दस्यानुभवः, संस्कारः, स्मरणं, समुच्चारणेच्छा, प्रयत्नः, स्थानाभिघातः, शब्दाभिव्यक्तिरिति स्वात्मान्येव क्रमावगमः ।
तदतो बाले ऽपि प्रथमतः शब्दमुच्चारयति एष एव क्रम उन्नीयत इत्यर्थः ॥
प्रथमे पक्षे ऽसिद्धो हेतुः अप्रसिद्धविशेषणश्च पक्षः शब्दब्रह्मण एव वाजिविषाणायमानत्वात् ।
दृश्यत्वादृश्यत्वलक्षणविरुद्धधर्माध्यासस्य भेदापादकत्वात् विपरीतप्रमाणोपपत्तिश्चेत्यपि द्रष्टव्यम् ।
द्वितीये तु भागासिद्धो हेतुरित्यर्थः ।
न हि अविशदे ऽपि बालमूकादिशब्दे प्रमाणमस्ति ।
न हि भावना वा तज्जनिता स्मृतिर्वा पूर्वानुभूतस्य सत्तायाम् इदानीमनुभूयमानसंभेदे वा प्रमाणमस्ति ।
तथा सति विनष्टो घटः स्मर्यमाणत्वात् सन्नेव स्यात् ।
अनुभूयमानं न भूतलं घटसंभिन्नं भवेदेवं चोच्छिन्नमघटं भूतलमिति ।
तस्मादभ्युपेत्य विरुद्धधर्माध्यासवादो मन्तव्यः ॥
ननु बालेनानुभूयमानं रूपं तावद् विशदमेव ।
ततश्च तदात्मा रूपशब्दो ऽपि कथमविशदः स्यात्, कथं चाप्रामाणिको रूपस्य प्रामाणिकत्वात्, केवलमव्युत्पन्नो ऽपि शब्देन व्यवहरेदिति प्रसज्येत, तदसंबद्धम् ।
न हि शब्दात्मताप्रत्ययं व्यवहाराङ्गम् आचक्ष्महे, किं तु सम्बन्धग्रहणमित्यत आह--न चेति ॥
अयमप्यभ्युपगमवाद एव ।
शब्दो हि वक्तृवक्त्रावरुद्धनभोभागावच्छिन्नतया श्रोत्रेण प्रतीयते ऽप्रतीयमाने ऽप्यर्थे ।

अर्थो ऽपि पुरोवर्तितया चक्षुषा प्रतीयते ऽनवगते ऽपि शब्दे ।
तदयं बालो यद् रूपं पश्यति स एव रूपशब्द इति लोष्टलड्डुकदृष्टान्तमनुहरतीति ।
सो ऽयं भेदप्रत्ययो भ्रानत इति यदि शङ्कते तत्राह--न चेति ।
अयमप्यभ्युपगमवाद एव, न ह्यस्ति भ्रान्तत्वे ऽस्य प्रमाणम् ॥
स्यादेतत्, बालमूकादिज्ञानानां शब्दसंभेदस्तावत् सान्देहिक एवास्तु, व्युत्पन्नानां पुनः सविकल्पा धियः शब्दसामानाधिकरण्येन जायमानाः शब्दात्मकत्वमर्थस्य व्यवस्थापयन्तु ।
तथा सति बालमूकादिविज्ञानानां
तद्विषयत्वात् शब्दसंभिन्नविषयत्वमर्थतः सिद्धं भवतीत्यत आह--सामानाधिकरण्यनिरासायेति ।
सास्नादिमद्रूपस्येति ।
न तु गकारादिरूपस्येति तात्पर्यम् ।
अयं शब्दो गकाराद्याकारो न तु सास्नाद्याकार इति तात्पर्यम् ।
ननु यो डित्थ इति डित्थशब्दमेवोच्चारयसि, न त्वयं डित्थशब्द इति तमेव निषेधसि चेति किमिदमित्यत आह--औत्सर्गिकं हीति ।
अर्थपरता ह्यस्य स्वपरतानिषेधेनैवाविरोधतः सिद्ध्यतीत्यर्थः ।
तत् किं सर्वत्रैवमेव? नेत्यत आह--क्वचित् पुनरिति ॥
यत्र तर्हि असंभदेन संकेतग्रहे नित्यादिपदानि सन्ति, तत्रासंकेतितत्वान्न तावदर्थपरः, स्वपरो ऽपि यदि न स्याद् व्यर्थः प्रयोगः स्यादित्यत आह--यत्रापीति ।
यथा हि गौर्वाहीक इत्यत्र गोत्वं गोगुणयोगलक्षकत्वेन वाहिकोपाधिर्न तत्समवायात्, तादात्म्याद् वा, तथा हि डित्थो ऽयमित्यत्रापि डित्थशब्दो वाच्यत्वोपलक्षकतया पिण्डोपाधिर्न तु तत्समवायात् तादात्म्याद् वेति ।
यथा चात्र वाहीके गौरिति प्रत्ययाभावः प्रमाणम्, तथात्रापि वृक्षविशैषे डित्थो ऽयमिति प्रत्ययाभावः प्रमाणमिति समुदायार्थः ॥
ननु शब्दपुरःसरत्वनियमाद् विकल्पस्य तदुपायता वा तद्विषयत्वं वा स्यात्, तत्पुरःसरत्वनियमस्यातदुपायादतद्विषयत्वान्नियमतो व्यावृत्तेः तत्र यद्यर्थविकल्पस्तच्छब्दविपयस्तदा सिद्धं नः समीहितम् ।
अथोपायस्तदा ज्ञातो ऽज्ञातो वा? अज्ञातत्वे निर्विकल्पकत्वानुपपत्तिरेव, तस्मात् शब्द उपायो भवन् ज्ञात एव वक्तव्यः ।
न चासन्निहिते ज्ञानमस्ति ।
तस्मादर्थतादात्म्यात् शब्दस्यार्थसन्निधानमेव तत्सन्निधिः इत्यर्थालोचनमेव तदालोचनमित्यनिच्छतापि स्वीकर्तव्यमित्यत आह--यत्त्विति ॥
न तावत् शब्दः पूर्वं नियमतो भवति विकल्पस्य ।
किं नाम? व्युत्पन्नस्य शब्दस्मरणपुरःसरत्वं नियमवद् दृष्टम् ।
न चैतावतैव घटज्ञानस्य घटशब्दविषयत्वम् ।
तथा सति घटाभावज्ञानस्यापि घटविषयता स्यात्, तत्स्मरणपुरःसरत्वात् ।
तस्माद् घटे विकल्पयिततव्ये अनुपायो विषयश्च घटशब्दः किमिति नियमतः स्मर्यत इत्यवशिष्यते ।
तत्रेयं स्मरणपरिपाटी कथितेति ।
शब्दपुरःसरा शब्दस्मरणपुरःसरा इत्यर्थः ॥
अत्रैव वृद्धसंमतिमाह--यदाहुरिति ।
प्रतिसम्बन्धिपिण्डदर्शनसहकृतस्तत्संस्कारः स्मृतिं जनयति, धूमानुभवसहकृत इव महानसस्थदहनानुभवप्रभवः संस्कारः तत्स्मृतिम् ।
न चैतावता नियमेव शब्दस्मरणपिण्डविकल्पयोरूपायोपेयभावः, शब्दस्य वा विकल्पविषयत्वं सिध्यति, येन तयोस्तादात्म्यमाशड्क्येत ।
तथा सति वह्निस्मरणधूमविकल्पयोरपि तथाभावः स्यात्, वह्नेरपि वा धूमविकल्पविषयता भवेदिति वार्त्तिकार्थः ॥
स्यादेतत् ।
सर्व एव व्यवहारः स्वार्थः परार्थो वा विकल्पसाध्यो न त्वालोचनेनापि कश्चिदर्थः साधयितव्यो ऽस्ति ।
अतो निष्प्रयोजनमिदं कथमुत्पद्यत इत्यत आह--तस्मादिति ।
न तावत् सर्वस्यैवोत्पत्तिमतः प्रयोजनं पिशितचक्षुषः साक्षात्कुर्मः ।
न च प्रयोजनाप्रतिपत्तिमात्रेण पटुतरप्रत्यक्षपरिकलितमपि कार्यं नानुमन्यामहे ।
तदेतत् प्रयोजनाप्रतिपत्तिलक्षणमलीकमुत्तरम् ।
तथापि स्फुटं सविकल्पकोत्पत्तिरेवास्य प्रयोजनम् इति सादर्शितेति ॥
नामधेयस्मरणायेति ।
नामावच्छिन्ने विकल्पे कर्तव्ये यतो न विशिष्यते विशेषेण न गृह्यते, अतो वैधर्म्यस्य योग्यप्रमाणबाधितत्वात् तदर्थज्ञानं तादृगेव भवति तत्समानजातीयमेव भवतीत्यर्थः ।

अतो भाष्यपौनरूक्त्यं परिहरतो न साध्याविशिष्टो हेतुरिति ॥
व्यपदेशव्याख्यया भाष्यकारेण सूचितं हेतुं स्फुटयति--नन्विति ।
अर्थव्यपदेशाकारम् अर्थव्यपदेशविषयम् ।
विषयिरूपज्ञानस्य तावद्रूपविषयतोभयवादिसिद्धा ।
तस्य च तद्व्यपदेशविषयता तदा स्यात् यदि रूपतद्व्यपदेशयोरभेदः स्यादित्यर्थः ॥
अन्येनान्यस्य व्यपदेशे अतिप्रसड्गो व्यवहारविलोपश्च विप्रलम्भादित्यत्र तन्नामधेयत्वादेव नियम इति स्फुटं भाष्य एव ।
स्वरूपेणैव विषयेणैव वा किमिति ज्ञानं न व्यपदिश्यत इत्येतद् विवृण्वन् परिहरति--अर्थाकारमेवेति ।
आत्मानं प्रति तावत् स्वरूपेणैव ज्ञानमज्ञानाद् व्यवच्छिद्यते, ज्ञानान्तरात् तु विषयेणापीत्येतत् को नाम नाभ्युपैति? परस्य तु नित्यपरोक्षं परज्ञानम् ।
अत एव तद्विषयो ऽपि तत् कथं स्वरूपविषयाभ्यां परो बोध्यताम्? कथं वा अबोधितो व्यवहरताम्? तस्मात् तज्ज्ञानवाचकेन ज्ञानमर्थवाचकेन चार्यमसौ प्रतिपाद्यः ।
न चाज्ञातेन
वाचकेन वाच्यमधिगत्तुमर्हतीत्यवर्जनीयतया प्रतिपादको वाचकमुच्चारयति ।
नचैतावता अर्थशब्दयोरभेदसिद्धिः ।
न हि प्रमाणव्यतिरेकेण प्रमेयमधिगन्तुं न शक्यते इत्येतावतैव तयोरभेदः स्यादिति तदिदमुक्तम्--अन्यथा अशक्यत्वादिति ॥
ननु कदाचिदर्थज्ञानकाले ऽपि शब्दो व्याप्रियत एव, यदा प्रयोजकवृद्धात् प्रयोज्यवृद्धोर्ऽथमधिगच्छतीत्य आह--प्रतीयमानतया विषयतयेत्यर्थः ॥
स्यादेतत् ।
उत्कर्षापकर्षाद्यनुविधायित्वं हेतुः कीदृगित्यत आह--तदनेनेति ।
न तावत् तारतमत्वादेरूत्कर्षान्मयूरादेरिव गवादेरप्युत्कर्षः प्रतीयते ।
न हि गोशब्दे कर्णजपिते ऽपभ्रष्टे वा अणीयान् गौः कृश उपहताकृतिर्विकृतो वा प्रतीयते, विपरीते वा विपरीतः ।
नापि साधुत्वादिभेदवतो गोशब्दस्य प्राशस्त्यमप्राशस्त्यं च किञ्चिदस्ति ।
नन्दाभद्रेत्यादिमङ्गलसंज्ञानिवेशस्य त्वर्थमङ्गल्यादिव्यभिचारः स्फुटतर एव, अभद्रादावपि भद्रादिव्यपदेशात् ।
तस्माद् व्यवहारोत्कर्षापकर्षमात्रेण नोभदसिद्धिरतिप्रसड्गादित्यर्थः ॥
अस्यैव साक्षादव्यपदेश्यपदात् प्रतीयमानस्यैव ।
शब्दानुव्याधरहितता शब्दार्थानुव्याधरहिततोपपत्तिरित्यतो ऽस्य निराकरणं सूचितमिति पूर्वोक्तेन न विरोधः ॥
ननु वार्त्तिकतात्पर्यव्याख्यानमुपक्रम्य भाष्यव्याख्या अकाण्डकूष्माण्डपतनवृत्तान्तमनुहरतीत्यत आह--तदेतभ्दाष्यमिति ।
तदेतद् वार्त्तिकं व्याख्यातुमयमस्माकं भाष्यव्याख्यापरिश्रम इत्यर्थः ।
शब्दो हि यत्कार्यो यत्कारणं यद्ग्राह्यो यत्प्रमाणं यद्विरोधि यद्धर्मा यद्रूपो यद्विषयः, तदकार्यस्तदकारणं तदग्राह्यस्तदप्रमाणं तदविरोध्यतद्धर्मातद्रूपो ऽतद्विषयोर्ऽथः प्रत्यक्षत एवावसीयते ।
तदेतदस्यार्थज्ञानस्य विषयभेदानुविधायित्वं शब्दाभ्देदग्राहकत्वम् ।
यदि पुनरेषा प्रतीतिर्भेदमुल्लिखन्त्यप्यवधीर्यते, तदोक्तधर्माणामविरोधे धर्मिपरिवर्तेनाप्युपलम्भाः स्युः ॥
तत्रोदाहरणार्थं कांश्चिदाह--चाक्षुषं हीति ।
चाक्षुषं हि चक्षुषैव जन्यते, रूप एव नियतम् रूपेणेव निरूप्यते; न शब्दे प्रवर्तते, न शब्देनैव निरूप्यत इत्यर्थः ।
एवमुत्तरत्रापि ।
विषयिविषयानियमप्रसड्गामुक्त्वा कर्मकरणानियमप्रसङ्गमाह--अपि चेति ।
ननु श्रोत्रमेवास्य कदाचिन्नास्तीत्यत आह--अस्ति हीति ।
किमत्र प्रमाणमत आह"--शब्दज्ञानं चेति ।
ननु लोचनाभावे ऽप्यग्रहणमुपपद्यत इत्यत आह--अस्ति हीति ।
किमत्र प्रमाणमत आह--रूपज्ञानं चेति ।
उपलक्षणं चैतत् ।
अर्थसामान्यस्य सर्वेन्द्रियग्राह्यत्वात् शब्दसामान्यमपि सर्वेन्द्रियैर्गृह्येत, शब्दसामान्यस्य वा श्रोत्रेन्द्रियैकवेद्यत्वात् अर्थसामान्यमपि श्रोत्रेन्द्रियैकवेद्यं भवेत् ।
तथा चेन्द्रियान्तराणां वैयर्थ्यमित्यपि द्रष्टव्यमिति ॥
इतरेतराभाववत्ताव्यवहाराभावप्रसङ्गमाह--अशब्द इति ।

उपलक्षणं चैतत् ।
अनुत्पन्नो विनष्टो ऽत्यन्तासन्नित्यत्राप्यभावत्रये विवक्षितविपरीतमापद्यत इति मन्तव्यम् ।
इतरेतराभावव्यपदेशे विरोधप्रसङ्गमाह--अभाव इति ।
अत्राप्यनुत्पादो विनाशो ऽत्यन्ताभाव इति विरुद्धं स्यादिति मन्तव्यम् ।
इह ह्यर्थशब्देनेन्द्रियग्राह्य एवाभिप्रेतोर्ऽयमाणतयेति व्याख्यानात् ।
इन्द्रियस्य च ग्राह्यः स एव यस्तज्जन्यज्ञानविषयः ।
तदमी चक्षुरादिसन्निकृष्टा अप्यन्यविषयज्ञानापेक्षाया
अतदर्था एव ।
एवं चेन्द्रियगतिज्ञाने कः प्रत्यक्षतायाः प्रसङ्गः?
न हि तदपेक्षया धटादयस्तदर्थाः ।
तस्मादप्रसक्ते ऽप्यर्थशब्दस्य पदार्थमात्रपरत्वमभ्युपगम्य परिहारे गत्यन्तरं वार्त्तिककृता दर्शितम् ।
तच्च दुःखबोधमिति व्याचष्टे--नैतदिति ।
नैतदिन्द्रियार्थसन्निकर्षादुपजायते सत्तामात्रव्यवस्थितात् ।
इन्द्रियार्थसन्निकर्षो ह्यज्ञायमान एव सत्तामात्रव्यवस्थितः प्रत्यक्षे विवक्षितः ।
अनुमाने तु लिङ्गस्य ज्ञायमानत्वमेव विवक्षितम्, न तु सत्तेत्यर्थः ॥
नन्वनुमाने ऽपि लिड्गासत्तैव कि न विवक्षितेत्यत आह--अत एवेति ।
तत्स्मरणमात्रादेवेति ।
मात्रग्रहणं सत्ताममिप्रेत्य नत्वनुमेयज्ञानं प्रति कारणताममिप्रेत्य, धूमस्यैव ज्ञायमानस्य तत्कारणत्वात् ।
अन्यथा तत्कालाननुविधानप्रसड्गात् ।
चत्र हि विषयानपेक्षं ज्ञानमेव कारणं तत्र न विषयकालानुविधानम् ।
यथा अभावज्ञाने प्रतियोगिज्ञानजन्ये प्रतियोगिनः ।
अपि च लिड्गानपेक्षस्य लिङ्गज्ञानस्य लिड्गिज्ञानजनकत्वे प्रमाणादीनां गतिद्वयवादो ऽपि तत्र तत्र न स्यात् ॥
तदयमर्थः ।
इन्द्रियार्थसन्निकर्षात् सत्तामात्रव्यवस्थितादुत्पद्यते ज्ञानं तत्साधकतमं प्रत्यक्षम् ।
लिड्गात् तु
पञ्चरूपसम्पन्नादपि ज्ञायमानादेवासतो ऽपि यदुत्पद्यते ज्ञानं तदनुमानमिति ॥
नन्विन्द्रियविषयेष्वित्यध्याहारस्तर्हि सूत्रे पूर्वेषां किं मूलम् इत्यत आह--इमं चेति ।
न ह्यनुमेयस्येन्द्रियेण सन्निकर्षादिति वदता ह्येवमुक्तं यस्येन्द्रियेण सन्निकर्षात् तज्ज्ञानमुत्पद्यते नासौ तस्य विषयः, यस्तु विषयो न तस्येन्द्रियेण सन्निकर्षात् इदं जायते ।
तस्मादिन्द्रियार्थसन्निकर्षादुपजातं विज्ञानं यदि तदर्थविषयमेव भवति, तदा तत्प्रत्यक्षम् ।
न चैतत् सूत्रात् लभ्यते ।
तस्माद् वार्त्तिककृता एव कृतो ऽयमध्याहार इति केश्चिद् बुद्धम् ।
स
चायमसङ्गतो बोधः, अध्याहारस्योभयथाप्यनुपपत्तेः, तद्व्यावर्त्यस्यान्यथैव व्यावर्तितत्वादप्रसक्तेश्चत्यर्थः ॥
इन्द्रियार्थसन्निकर्षादुत्पन्नस्य हि ज्ञानस्य व्यभिचारसंभादव्यभिचारीति विशेषणं यद्यपि नानुपपन्नम्, तथाप्येतद्व्यावर्त्त्यस्य सामान्यलक्षणेनैव व्यावृत्तत्वात् निष्प्रयोजनमिदम् ।
अवश्यं च तदनुवर्तनीयम् ।
न हि यत इत्यध्याहृतपदेन करणमात्रं परामृश्यते तस्याप्रकृतत्वात्, किं तु प्रमाकरणम् ।
तथा चायमर्थः, इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं यतः प्रमाणाद् भवति तत्प्रत्यक्षम् ।
एवं च व्यभिचारिणि कः प्रसङ्ग इत्यत आह--यद्यपीति ॥
नन्वव्यभिचारिपदकरणं प्रमाणपदानुवर्तनं वेति कश्चिद् विशेष इत्यत आह--अन्यथेति ।
अव्यभिचारिपदं प्रमाणपरमित्यर्थः, प्रमाणस्यैवाव्यभिचारित्वात् ।

यद्यपि तत्र तत्पूर्वकमिति लक्षणपदपर्यालोचनयैव व्यभिचारिनिरासः,
न ह्युक्तरूपे द्वे प्रत्यक्षे पूर्वं यस्य ज्ञानस्य तद्व्यभिचारिणीमपि प्रमां जनयेत् ।
अत एव तदर्थं तत्र सामान्यलक्षणानुवर्तनमसारमेव ।
तथाप्येवंभूतप्रत्यक्षद्वयजनिते संस्कारे निर्णये च अनुमानत्वप्रसङ्गस्तदवस्थ एव ।
तस्मात् तन्निवृत्त्यर्थं प्रमाणपदं न कृतं चेदवश्यमनुवर्तनीयमित्यर्थः ।
यद्येवं किमव्यभिचारिपदप्रयोजनमित्यत आह--तथापीति नोपयुज्यते न च शक्यते परस्पराश्रयप्रसड्गादित्यपि द्रष्टव्यम् ।
तथापि नियमो न स्फुटीभूत इत्यत आह--तत्रेति ॥
नन्वनुमानवदव्यभिचारसिद्ध्या फलसिद्धिर्न प्रत्यक्षे यथा, तथा शब्दे ऽपि ।
ततस्तदवबोधनार्थ तत्राप्यव्यभिचारिपदावतारप्रसङ्ग इत्यत आह--शब्दादौ त्विति ।
प्रत्यक्षे फलाव्यभिचारनिर्णयेनैवाव्यभिचारनिश्चय
इति नियमो नान्यत्रेत्यर्थः ।
अव्यभिचारिपदोपादानं फलविशेषणतयेति शेषः ।
अयं च नियमः स्वरूपतो ऽपि फलद्वारैव प्रत्यक्षमुन्नीयते, न त्वन्यथेति ।
अनुमानादिकं तु प्रतीतं सत्फलाय कल्पते, न त्वन्यथेति नियमे सति स्यादिति ।
अयमप्यर्थाक्षिप्ततया प्रागेव दर्शितो द्वयीति ।
अपरमप्युत्पत्तिज्ञप्तिभ्यां नियमद्वयं श्लिष्टमाह--अथवेति ॥
कारणमुत्पादकं प्रत्यायकं च उभयं साधयति---न हीति ।
उपाधिशड्कानिवृत्त्यर्थं तर्कसहायत्वोपवर्णनम् ॥
आगमस्यापि च वक्तृश्रोतृगतत्वेन प्रत्यक्षापेक्षा उत्पत्तौ ज्ञप्तौ च चतो ऽतः संमुग्धमाह--एवमिति ।
तथाप्ययमर्थः कथमव्यभिचारिपदोपादानमात्रत् लभ्यत इत्यत आह--न हीति ।
तदयं संक्षेपः ।
सो ऽयं सूत्रकारस्येह विशेषतः प्रयत्नो ज्ञापयति यदेतस्मिन्नव्यभिचारिण्यन्यत्र व्यभिचारशड्कैव नास्ति, अत इहैव तद्ग्रहाय विशेषतो यतितव्यमिति ।
यद्यपि ज्ञाप्तिपक्षे लौकिकवचसां प्रवृत्तिसामर्थ्यादिना व्यभिचाराभावग्रहः, तथापि पारलौकिकागमाव्यभिचारनिश्चय आप्तोक्तत्वेनैव ।
तच्च मूलभूतप्रत्यक्षशुद्धेरेवेति ॥
ननु भाष्यवार्त्तिकायोः का गतिः? न ह्ययमर्थस्ततः प्रतीयते ।
किं नाम? व्यभिचारिव्यावृत्तिमात्रमित्यत आह--तस्मात् सुष्ठूक्तमिति ।
स एवार्थः, किं तु नियम्यतया, न तु विधेयतयेत्याशयः ।
उच्चावचमुच्चलत इति जलसादृश्य संकीर्तनं भ्रान्तिबीजतया ।
उपघातदोषान्नयनस्यातपादिना ।
एतदुक्तं भवति ।
उपदर्शितार्थाप्रापकत्वं व्यभिचारः ।
न चार्थेन कश्चिदर्थ उपदर्शितो यमप्रापयन्नर्थो व्यभिचरेत् ।
अन्यथार्थोपदर्शनस्वभावस्य चोत्पत्तिः, न
चार्थोपदर्शनस्वभावो न चान्यथोत्पन्नः ।
तस्मादेवंभूतो व्यभिचारो ज्ञानस्यैव न चार्थस्य ।
तदिदमुक्तम्--प्रत्ययो भ्रान्तो जायत इति ।
वृद्धसंमतिमाह--यथाहुरिति ।
अन्ध इति यम्यग्दर्शनोपायरहितत्वमात्रपरम् ।
न पश्यतीत्यपि सम्यग्ज्ञानाभावमात्रोपलक्षणपरम् ।
तेन पुरुषापराधः स भवतीति ।

अत्रादर्शनं विपरीतदर्शनं वेत्यपराध इत्यर्थः ।
यथा हि स्थाणुरदृश्यमानस्तथैव पुरुषत्वेनापि दश्यमान इति तात्पर्यम् ॥
यद्यनि संशयो ऽपि सामान्यलक्षणानुवृत्त्यैव निरस्तस्तस्याप्रमाणफलत्वात्, तथाप्यव्यभिचारिपदं नियमज्ञापनार्थमवश्यं कर्तव्यम् ।
तेन च व्यभिचारिव्युदासमुखेनैव नियमः प्रदर्शयितव्यः ।
संशयो ऽपि
व्यभिचारिजातीयः, अतस्तेनैवास्य व्युदासो युक्त इत्याशयवान् आह--अव्यभिचारिपदेनैवेति ॥
ननु व्यभिचारित्वमेवास्य कथम्? विपर्याज्ञानं हि निश्चयाकरम्, अयं तु न तथेत्यत आह--नो खल्विति ।
न हि निश्चयत्वं प्रयोजकमत्र, किं तु विसंवादः ।
स च प्राप्त्ययोगः ।
न च प्राप्तियोगो द्विरूपस्य वस्तुनः, क्वचित् कदाचित् केनचिद् अप्राप्तेरित्यर्थः ॥
न च वाच्यं भ्रान्तेरभ्रान्तिप्रतियोगित्वादनियतस्य चार्थस्य क्वचिदपि
प्रमाणागोचरत्वादसत्ख्यातेरनभ्युपगमाच्च सर्वमिदमसमञ्जसमिति ।
नो खलु दोलायमानः स्थाणुपुरुषव्यतिरिक्तः
कश्चिदनियतो नामार्थः परिस्फुरति यत्रासमञ्जसं स्यात् ॥
ननु स्थाणुपुरुषावुभावपि यद्यारोपितौ तदोभयोपमर्दात्मना बाधकेन भवितव्यम् ।
अथान्यतदस्यारोपस्तदा अपरस्य पारमार्थिकत्वात्तत्प्रतिपत्तेरबाध्यत्वमेव स्यात् ।
यथा युक्तौ रजतांशस्य मिथ्यात्वे शुक्लभास्वरत्वादिनिश्चयस्य सत्यत्वम्, तथा च स्थाण्वंशे निश्चयः पुरुषांशे त्वेककोटिसन्निवेशवानेव विभ्रम इति संशयो दत्तजलाञ्जलिः प्रसक्तः ।
तस्माद् उभयस्मरणमात्रात्मको ऽयमिति स्यात् ।
न स्यात्, यत्र तावदुभयोरनुभयात्मके पाषाणस्तम्भादौ समारोपस्तत्रोभयोपमर्दात्मक एव बाधक इति किमत्र वक्तव्यम्? यत्राप्येकतरारोपस्तत्रापि नापरांशे निश्चयः, परस्परप्रतिक्षेपोपस्थितिव्याहत्या अनिश्चयात्मकस्यैव ज्ञानस्योत्पादात् ।
यत्र हि रजतत्वारोपे ऽपि शुक्लत्वादौ निश्चयस्तत्रारोपितानानोपितयोर्मिथो विरोधाभावः ।
तस्मादारोपितानारोपितत्वाविशेषे ऽपि यत्रारोपितानारोपितौ परस्पराविरुद्धौ स विपर्ययः ।
यत्र तु परस्परविरुद्धौ स संशय इति सर्वमवदातम् ।
यद्येवं संशयो ऽपि विपर्ययान्तर्भूतस्तदपाकरणेनैवापाकृतश्च ।
किमर्थं तर्हि व्यवसायात्मकपदं सूत्राकारश्चकार? सन् वा स उदारार्थो व्याख्यातृभिः किमित्युपेक्षितः? तथाभूतोर्ऽवाचीनैः कथमुन्नीयत इत्यत आह--तस्मादिति ॥
स्यादेतदिति ।
स्यात् तदवबोधार्थं, यदि तत्प्रत्यक्षं स्यात्, न त्वेतदस्तीत्यर्थः ।
हेतुमाह--अभिलापेति ।
अभिधानाकारसंसर्गयोग्याभिधेयाकारं हि तदित्यर्थः ।
विपक्षाद् व्यतिरेकमाह--न चेति ।
अभिधानाभिधेयसंसर्गे हि तदाकारयोः संसर्गनियमः ।
स च संयोगसमवायकार्यकारणभावरूपस्तावन्न संभवतीत्याह--न ह्यर्थे शब्दाः सन्तीति ।
संयोगेन समवायेन कार्यतया वेति शेषः ।
तदात्मानो वेति ।
न हीत्यनुषज्यते ।
उपपत्तिमाह---तथा सतीति ।
न चेति ॥
स हि संवेदनधर्मो ग्राह्याकाररूपो वा स्यात्? तन्निरपेक्षग्राहकाकाररूपो वा? न तावदाद्यः, अर्थासंस्पर्शी यतः, अर्थासंस्पर्शश्चास्यातद्वृत्तित्वादतदुत्पत्तेश्चेति पूर्वैव युक्तिरित्याशयः ।
नापि द्वितीयः, अर्थेषु तन्नियोजनात् ।
अर्यमानेषु बाह्येष्वर्थेष्वेव तस्यामिलापस्य नियोजनात् ।
नियोगतो बाह्यसामानाधिकरण्येन प्रतीतेरित्यर्थः ॥

एतदुक्तं भवति संवेदनाकारो हि ज्ञातृत्वादिस्तत्सामानाधिकरण्येन प्रतीयते ।
अभिलापस्तु बाह्यसन्नियुक्तस्तत्सामानाधिरण्येनेत्यतो न संवेदनधर्मः ।
तस्माद् विषयतः स्वरूपतश्च यतो ऽस्य नाभिभलापसंसर्गयोग्यतासम्भवस्तस्मादिदमर्थात् सरूपकादुपजायमानं ज्ञानं विकल्परूपमर्थमेवादर्शयेदिति प्रसङ्गः ।
नामिलापमर्थसंसर्गितयेति शेषः ॥
स्यादेतत् ।
स्वकारणदुपजातस्य कारणमकारणं वा कश्चिदेव विषयः ।
एवं चार्थादुपजातस्याप्यनेको ऽभिलापो ऽप्यस्य विषयो यदि स्यात् को दोष इत्यत आह---न हीति ।
रूपाच्चक्षुषो विषयादुपजायमानं चाक्षुषं विज्ञानं नयनाविषयरससहितमतद् रूपमिति ॥
एतदुक्तं भवति ।
साकारवादसिद्धौ तावदनुपप्लुतमाकारमादधदेवार्थो विषयः ।
न च शब्दसंसर्गयोग्यता
अर्थस्यास्ति येन तदाकारं ज्ञानं भवेत् ।
न चेन्द्रियविज्ञानं शब्दः स्वतन्त्र एवाकाराधायको, विकल्पकाले तदभावात् ।
भावे ऽपि वा स्वतन्त्रः प्रतिभासेत नार्थसंसर्गितयेत्युक्तम् ।
निराकारपक्षे ऽप्यात्मानात्मप्रकाशनशक्तेर्विज्ञानस्य स एव विषयो यत्रेन्द्रियं
नियतसामर्थ्यम्, अन्यथातिप्रसड्गात् ।
न च चक्षुरिन्द्रियान्तरविषये समर्थम् ।
न च चक्षुर्विषयस्यैव शब्दसंसर्गो ऽस्तीति चिन्तितमिति ॥
प्रसङ्गमुक्त्वा विपर्ययार्थमाह--तस्मादिति ।
अमिलापसंसर्गानपेक्षमर्थं तत्संसर्गिणमादर्शयदध्यवस्यद् विकल्पवासनोत्थापितं नार्थसामर्थ्यसमुत्थमिति भावः ॥
विपर्यये किं बाधकमित्यत आह--अनियतार्थग्राहि यतः, विकल्पगतमर्थाकारं प्रत्यनियामकत्वात् तस्येत्यर्थः ॥
एतदुक्तं भवति, यदि हि प्रतिभासमानोर्ऽथोपि विकल्पस्य जनको भवेत्, तदा तदाकारं नियमयेत्, न तु नियमयति, तदसन्निधावपि विकल्पवासनावशात् तस्य तथाविधाकारोपस्थितेः ।
नन्विन्द्रियमस्य जनकमस्तु, न हि तस्याकारनियामकतया कारकत्वमित्यत आह--मानसमिति ।
मनोमात्रप्रभवमित्यर्थः ॥
इन्द्रियमपि हि ज्ञानजनकं भवदाकारनियामकार्थसन्निकर्षेणैव, न तु तन्निरपेक्षम् ।
न चास्य तथाविधार्थसन्निकर्षो ऽस्तीत्युक्तमिति भावः ॥
ननु विवादाध्यासिते विकल्पे दृश्यतयैवार्थाकारः परिस्फुरति ।
न चैवमुभयवादिसिद्धार्थसन्निधिनिपेक्षविकल्पेष्वपरोक्षतयार्थः प्रकाशते, तद्विशेषो विकल्पोर्ऽथसन्निधिसापेक्षः ।
तथा चार्थस्य तदाकारनियामकत्वात् तज्जनकत्वमनिच्छताप्यभ्युपेयम् ।
अन्यथोत्प्रेक्षाव्यापारत्वाद् विकल्पस्य प्रवर्तकत्वमपि न निर्वहेदित्यत आह--आत्मीयमिति ॥
उत्प्रेक्षा असदारोपणं यतो भवत्यवश्यमतो ऽप्येवमुत्प्रेक्षामह इति व्याहारः ।
तिरस्कारो ऽनध्यवसायः ।
दर्शनं साक्षात्करणम् ।
पुरस्कारो भेदाग्रहो वा, तद्धेतुक आरोपो वा ।
तत्सिद्धमिति ।
प्रसड्गाद्युपनिबन्धेन ।
यदि विवादाध्यासिता विकल्पा अर्थसामर्थ्यलब्धजन्मानः, तदा न शब्दकल्पनानुगता इत्यर्थः ।
तदनुगतत्वमिति ।
शब्दकल्पनानुगतत्वम् ।
तस्योपलब्धिरभिलापानुगतत्वं निराकुर्वती अर्थसामर्थ्यजत्वं विरूणद्धीति शेषः ॥

असिद्धविरुद्धयोरसम्भवादिह सम्भाविततया पूर्वोक्तस्मारणपुरःसरं सन्दिग्धानैकान्तिकत्वाशड्कामेवापनयति--न चेति ।
अर्थरूपमनुकुर्यादर्थरूपसदृशाकारं भवेदित्यर्थः ।
तादात्म्यतदुत्पत्तिभ्यामसंबद्धरूपानुकारे नियामकाभावात् सर्वरूपानुकारेण सर्वेषां सर्वज्ञतापत्तिः ।
सद्रूपानुकारमात्रत्वात् तद्विषयताया इति भावः ।
न हि तादात्म्यतदुत्पत्तिलक्षणः सम्बन्धः स्वरूपेणोपपुज्यते ।
कि नाम? नियामकतया, तदत्र सड्केत एव नियामको यदि स्यात् को दोष इत्याशयवानाशङ्कते--सड्केतेति ।
तदेव दृष्टं सत् स्मारयेदेतान्नियमेनेति शेषः ।
किमेतावपीत्यत आह--तत्रैव चेति ।
अनुगतमनुगमगोचरः ।
अत एव सामान्यं देशकालानुगतम्, तत्रैव सड्केतस्य सुकरत्वादिति भावः ॥
किमेतावतापीत्यत आह--न च तत्तत् दृष्टं साक्षात्कृतं किं तु स्वलक्षणं दर्शनगोचरः ।
सरूपकत्वादिति शेषः ।
सरूपकत्वमेवास्य कुत इत्यत आह--तदेव हीति ।
परमार्थो ऽकृत्रिममनारोपितं रूपं तेनास्तीति परमार्थसत् ।
एतदेव कुत इत्यत आह--विज्ञानस्य कारणम् ।
विज्ञानस्येति प्रकृतोपयोगात् कारणमर्थक्रियासमर्थं यत इत्यर्थः ॥
ननु सामान्यमपि किं न दर्शनगोचर इत्यत आह--न तु सामान्यमिति ।
कुतः? सर्वसामर्थ्यरहितं हि तत् ।
सर्वः पुरुषार्थो हेयोपादेयरूपस्तस्य सामर्थ्यं शक्तिः, तद्रहितं यस्मात् तत् ।
न हि किञ्चित् पुरुषप्रयोजनं सामान्यसाध्यमस्ति ।
अतोर्ऽथक्रियायामशक्तत्वात् न तत् परमार्थसत् असत्त्वान्नतद्विज्ञानजनकम् ।
अजनकत्वान्न सरूपकम् ।
असरूपकत्वान्न दर्शनगोचर इत्यर्थः ॥
ननु सामान्यस्य तावदर्थक्रियाविरहाद् दर्शनगोचरत्वं मा भूत्, दर्शनगोचरस्यैव तु वाच्यतास्तु ।
सड्केतो ऽपि तत्र केनाप्युपायेन भविष्यति ।
तन्निर्विचिकित्समेव तर्ह्यर्थक्रियासमर्थवस्पुप्रतिपादनाभिप्रायवन्तः प्रयोजकवृद्धाः प्रयोज्यवृद्धाश्च तथाविधार्थप्रतिपत्तिमन्तः शाब्दे व्यवहारे उपलभ्यन्त इत्यत आह--अपि चेति ।
न ह्यौप्ण्यात् अतिरिक्तो वह्निर्नामास्ति बौद्धराद्धान्ते ।
न चोभयवादिसंप्रतिपत्तिविषयः प्रतीतमौष्ण्यं शीतापनोदनं करोतीत्यपि कदाचित् ।
अकुर्वद्धि सर्वथा अप्रतीतं न कुर्यादारोपितं वा ।
न च वह्निशब्दात् सर्वथा वह्नेरप्रतीतिः ।
तस्मात्
शब्दकल्पनोल्लिखितमवस्त्वेव वस्त्वाभासमित्यभिप्रायः ॥
जात्यादीन् परमार्थिकानभ्युपेत्याह--तन्नेति ।
विवेकेन देशभेदेनेत्यर्थः ।
अवच्छेद्यावच्छेदकभावेन हि मिथो योजना विशेषणविशेष्यभावः ।
स च विविक्तदेशताप्रतीत्या व्याप्तः ।
सा चातो निवर्त्तमाना स्वव्याप्यं विशेषणविशेष्यभावमादायैव निवर्तते ।
ततश्च जात्यादीनां परस्परमसम्बन्धान्न स्वतनत्रेषु तेषु शब्दो ऽपि सुकरसड्केतेः ।
तथा च न संसृष्टवेदनमित्यर्थः ॥
एतेन शब्दस्य विवेकग्रहसंभवे ऽपि तद्योजना निरस्तो बोद्धव्या ।

एकमसमुदितम् ।
अविभागमनंशम् ।
स्वलक्षणं
त्रैलोक्यविलक्षणम् ।
तथातथेति ।
गुणकर्मादिसमुदितत्वेन साधारणत्वेन विकल्प्यते ।
न तु दश्यत इत्यर्थः ॥
अपि च परमार्थसद्वस्तुत्रयवेदने ऽपि विवेकेनेति शेषः ॥
ननु न ह्येकज्ञानविषयौ समानकाले ऽड्गुल्यौ न कार्यकारणभूते इति नियतपूर्वापरत्वे ऽपि ते सर्वज्ञैकविज्ञानगोचरौ न तथेति युक्तं वक्तुम् ।
यद्युच्येत को दोषः? न ह्युपलब्धिभेदाभेदप्रयुक्ते कारणाकरणत्वे ।
किं तर्हि? यदनपेक्षं तत् कारणम् सापेक्षं च कार्यमिति, तदत्रापि समानम् ।
एकज्ञानगोचरत्वे ऽपि यदवच्छेदकं
तद्विशेषणम्, अवच्छेद्यं च विशेष्यमिति ।
यत्तु नैवं न तत् यथेत्यत आह--विशेषणं खल्विति ।
नान्यथेति ।
अतिप्रसड्गादिति शेषः ।
तर्हि उपकारो ऽपि कश्चिदस्त्वित्यत आह--न चैकेति ।
किमिति न स्यादित्यत आह--तयोरिति ।
प्रसड्गादिति शेषः ।
स्वरूपतः पौर्वापर्यनियमः कार्यकारणभावः ।
ज्ञाप्तितस्तु ज्ञाप्यज्ञापकभावः ।
स चायमेकज्ञानगोचरयोरेककालयोश्च द्विरूपो ऽपि नियतो नास्ति यस्मादित्यर्थः ॥
स्यादेतत् ।
यद्यप्युक्तस्वरूपमुपकारद्वयं न संभवति तथाप्याधाराधेयभावो भवेत्, स हि समानकालयोरेव कुण्डबदरयोर्दृष्टः ।
क्षणभङ्गस्तु त्वयाप्युपपादनीयो मयापिभञ्जनीय इत्यत आह--अपि चेति ।
यद्यपि तीर्थिकैः कुण्डाधावशान्न बदरस्यैव अपतनधर्मकस्योत्पादः स्वीक्रियते स्थैमश्रद्धाजडत्वात्, तथापि गतिनिवृत्तिलक्षणां गुरुत्वप्रतिबन्धकसंयोगलक्षणां वा स्थितिं तद्धर्मभूता विदधदेव बदरस्य कुण्डमाधारतया अभ्युपेतं तैः ।
किं चातो ऽत आह--तद्वदिहापीति ।
एतावतापि किमित्यत आह--न च शक्त्यन्तरैरिति ॥
यद्यपि बदरवज्जात्यादीनां धर्मस्य कस्यचिदुपजनापायरूपमुपकारं नाभ्युपगच्छत्येव परः, तथाप्यभ्युपगमवादो ऽयं सौगतस्येति मन्तव्यम् ॥
तथा चेति ।
सन्नित्यनेन हि विकल्पेन सत्त्वोपकारसमर्थो विषयीकृतः न च ततो ऽन्यः कश्चिद् द्रव्यत्वाद्युपकारसमर्थो ऽसत्त्वोपकारसमर्थो ऽस्ति, यत्र द्रव्यादिविकल्पाः सार्थकाः स्युः ।
तस्मादेते द्रव्यवत्वाद्युपकारसमर्थेर्ऽथे सत्त्वोपकारसमर्थाभेदिनि प्रवर्तमानास्तदधिकरणमर्थमस्पृशन्तो ऽनर्थकाः प्रसक्ता इति समुदायार्थः ॥
बौद्धस्यातिपरामर्शकुशलतां चोद्यस्य चातितुच्छतामालक्ष्यास्माकमेव मतिलाघवं संभावयिष्यतीत्याशड्क्य तद्ग्रन्थं लिखति--यदाहेति ।
अयं वार्त्तिकार्थः ।
यस्य दर्शने नानोपाधेरप्यर्थस्य धीः विकल्पधीर्ग्राहिका भेदिनो विशिष्टस्य ।
नानोपाध्युपकाराड्गं या शक्तिस्तदेकात्मनस्तस्य ।
सर्वात्मना सर्वैः उपाधिभिरेकस्वभावस्यैवोपकार्यस्य विशेष्यस्य ग्रहे सति को भेदो भिद्यत इति भेदो विशिष्यत इति यावत् ।
अनिश्चितः स्यात्? अपि तु सर्वोपाधिमिर्विशिष्टो निश्चित एव स्यादित्यर्थः ।
एमस्योपाधेः उपकारकस्वभावे ग्राह्ये गृह्यमाणे सति नोपकारा उपकारकाः स्वभावा उपाध्यन्तराणां ततो ऽपरे भिन्न विद्यन्ते ये तस्मिन्नेकोपकारकस्वभावे दृष्टे ऽपि न दृष्टाः स्युः ।
किं नाम? स एर्वेकस्वभावः सर्वेषामुपकारकः ततसद्ग्रहे तदेकोपाधिविशिष्टग्रहे ।

सकलग्रहः सकलोपाधिविशिष्टग्रहः प्रसक्त इत्यर्थः ॥
ननु वरं वस्तुस्वभाववादमास्थायानुपकार्यानुपकारकयोरपि विशेषणविशेष्यभावं स्पष्टदृष्टमुपपादयितुं शक्ताः परे ।
उपाधुपाधिमभ्देदाच्चापौनरूक्त्यम् ।
न पुनः सौगताः सत्त्वादीनामुपाधीनां वस्तुत्वानभ्युपगमात् ।
एवं च त्वच्छरास्त्वय्येव निपतिता इत्यत आह--अस्माकं त्विति ।
यच्च गृह्णन्ति सामान्यमात्रम्, यच्चाध्यवस्यन्ति सन्तानम् ।
न मनागपि सामान्येनापि रूपेण ।
गाहन्ते गोचरन्ति ।
तस्यालीकतया वस्तुधर्मत्वाभावादित्यर्थः ।
तर्हि कथमविसंवादकाः प्रवर्तका वेत्यत आह--पारम्पर्येणेति ।
ततः किमित्यत आह--अत इति ।
यत्र विषयाधीना धीः तत्र
तदायत्तौ विशेषाविशेषौ, अत्र तु विपर्ययो विषयस्यैव प्रतिभाससत्तया बुद्ध्यधीनत्वात् ।
तदिह विकल्पस्य विषयो विशेष्यः ।
तत्तद्वद्विशेषणविशिष्टतयापि किं भिन्नो ऽभिन्नो वेत्यत्र विकल्प एव साक्षी, न विचार इत्यर्थः ॥
ननु परमार्थसन्नर्थो मा भूद्विकल्पस्य विषयः, जनकस्तु भविष्यतीत्यत आह--अपि चेति ।
न विकल्पिकामपीति ।
अपिर्भिन्नक्रमः ।
अर्थो विकल्पस्य न गोचरो जनको ऽपि नेत्यर्थः ॥
अर्थोपयोगः सन्निकर्षः ।
न च यदेवेत्यादि ।
न्यायादिति ।
वाच्यमिति शेषः ।
नो खल्विति ।
स्मरणेन्द्रिययोरेकविषयसामर्थ्याभावात् न परस्परापेक्षत्वम् ।
ततश्च स एवार्थोपयोगीऽविशिष्ट इत्यर्थः ।
एकगोचरत्वमेवानयोः कुतो नेत्यत आह--तद्गोचरत्वे चेति ।
अननुभूतपूर्वाणामप्यर्थानां चक्षुषोर्व्यापारमात्रेण
पूर्वावस्थास्मरणप्रसङ्ग इत्यपि द्रष्टव्यम् ।
तेन स्यात् ।
तथा सति प्रसज्येतेत्यर्थः ।
अक्षापाये ऽपि नेत्रधीरित्युपलक्षणम् ।
वासनाभावे स्मृतिधीरित्यपि द्रष्टव्यम् ।
सहते प्रतीक्षत इत्यर्थः ॥
सिद्धान्तमुपक्रमते--अत्रेति ।
गौरयमित्यादेर्विकल्पस्य तावदभिलापसंसर्गयोग्यप्रतिभासवदर्थसाक्षात्कारो ऽप्यनुभवसिद्धः ।
अस्ति चोस्येन्द्रियार्थान्वयव्यतिरेकानुविधानम्,
तदन्यथासिद्धम्, तयोरालोचनमात्र एव चरितार्थत्वादिति चेत्? तत् किमिदानीमालोचनस्यायं महिमा विकल्पोपजननं प्रति? तथा सति तस्मान्न कदाचित् अप्यालोचनं जायेत ।
वासनापरिपाकविरहान्न तथेति चेत्? स खलु वासनापरिपाको यदि नियमादिन्द्रियार्थमध्यमधिशेते कथं न तदपेक्षा कार्यस्य? काकतालीयश्चेत्? सन्निधिसन्निहितेष्वपीन्द्रियार्थेषु कदाचिद् विशिष्टाद् वासनापरिपाकात् साक्षात्कारवान् विकल्प उत्पद्यत ।
न वै साक्षात्कावान् विकल्पः कश्चित्, किं तु निर्विकल्पकभेदाग्रहात् तद्वानिवावभासत इति चेत्--न, प्रमाणाभावात् ।

न
हि विवादाध्यासितविकल्पगतो दर्शनव्यापारो ऽयमौपाधिक इत्यस्ति प्रत्यक्षम् ।
नाप्यनुमानम् ।
दर्शनव्यापारता कल्पनापोढत्वेन व्याप्ता, तच्चातो निवर्तमानं तामपि निवर्तयतीति चेत्--न, विपर्ययस्यापि वक्तुं सुकरत्वात् ।
तथाहि
दर्शनव्यापारत्वं कल्पनानुगतत्वेन व्याप्तम् ।
तच्च तदनुगतत्वमालोचनान्निवर्तमानं स्वव्याप्यं दर्शनव्यापारत्वमपि निवर्तयति ।
तथा च विकल्पसान्निध्यादौपाधिको दर्शनव्यापारो ऽयमालोचनमिति किं न स्यात्? अनुभवस्तूपाधिशङ्कया त्वयैवासाक्षीकृतः ।
अनागते विकल्पे कथमिव तद्धर्मो निर्विकल्पके प्रतिभासेतेति चेत्--न, कालभेदस्योभयत्रापि तुल्यत्वात् ।
उपादानोपादेयभावश्च नियमहेतुः समानः ॥
ननूपादाधर्मा उपादेयमनुगच्छन्ति ।
न तूपादेयधर्मा उपादानमिति चेत्--न, वस्तुतो ऽवस्तुधर्माणामप्रतिसंक्रमात् ।
आभिमानिके तु प्रतिसंक्रमे ऽनियमः ।
उपादानप्रत्ययबलादुपादेयप्रत्ययस्तथोत्पद्यत इति चेत्? हन्त यदि साक्षात्कारः साक्षात्कारवानुत्पद्यते कथमस्य तथात्वमौपाधिकम् ।
तावन्मात्रादेवेन्द्रियादिनिरपेक्षादुपजातमित्येतावतैव तदौपाधिकमित्युच्यत इति चेत्--न, समनन्तरप्रत्ययसाक्षात्कारमहिम्ना साक्षात्कारोत्पत्तावसाक्षात्कारानुत्पादप्रसड्गात् ।
न चासाक्षात्कारिणः साक्षात्कारः कदाचिदुपपद्येत ।
सहकारिविशेषादेवमपि स्यादिति चेत्? तर्हि यादृशि कार्ये यादृगन्वयव्यतिरेकानुविधानं दृष्टम्, तादृशस्य तत्र सहकारित्वमास्थेयम् ।
दृष्टं चोभयवादिसंप्रतिपन्ननिर्विकल्पके साक्षात्कारं प्रतीन्द्रियार्थयोः सामर्थ्यम्, न विकल्पस्य इत्युक्तप्रायम् ॥
एवं तावदर्थंसाक्षात्करणं स्वाभाविकम् ।
तन्नान्तरीयकतया इन्द्रियार्थसामर्थ्यसमुत्थत्वमस्य स्थितम् ।
अविसंवादित्वमप्यस्यानोपाधिकम् ।
तथाहि, यद्यस्य पारमार्थिको विसंवादः स्यात्, तदा प्रतीयमानो ऽप्यौपाधिको ऽयमविसंवाद इति संभाव्येत, स च देशकालाकारकृतस्तावन्न भवति ।
अननुगतमेवानुगततया दर्शयतीति चेत्--न, असाधारणस्य स्वलक्षणस्य विकल्पेनासंस्पर्शात् ।
संस्पर्शे वा तज्जन्यत्वप्रसङ्गः ।
अजनकस्यैव तु वस्तुसतो विषयत्वे प्रत्यक्षत्वमर्थसामर्थ्यसमुत्थत्वेन व्याप्तमिति सुप्तप्रलापः ।
विकल्पस्तावत् साधारणं स्वरूपमुल्लिखन्नेव प्रवर्तयति ।
तच्च सर्वसामर्थ्यरहितम् ।
न चार्थक्रियार्थी तदसमर्थं दृष्ट्वा प्रवर्तते, ततो ऽसमर्थमेव समारोपितसामर्थ्यं विकल्प्यते ॥
तथा च कथमस्य विपरीतारोपरूपस्य संवादो नामेति चेत्--न, यदि हि सामर्थ्यमेवारोपयेत्, असाधारणमेवोल्लिखेत् ।
न ह्यन्यदसाधारणाद्रूपात् समर्थं नाम तव दर्शने ।
तस्मात् समर्थमिव तद्दर्शयति विकल्पः ।
इवार्थश्च न तत्रारोप्यः, विकल्पार्थस्य समर्थेनासादृशत्वात् ॥
नन्वसामर्थ्यव्यावृत्तिमात्रमेव सामर्थ्यं न तु तत्त्वान्तरम्, तस्य च न साधारणरूपविरोधः ।
तथा चैकात्म्यप्रथनं न विरुद्धमिति चेत्--न, अविरोधे सति समारोपानुपपत्तेः ।
न हि यद् यत्राविरुद्धं सत् प्रथते तत् तत्रारोपितं नाम ।
तस्माद् भेदाग्रहात् प्रवृत्तिः ।
न च स एव विसंवादः ।
तथा च सत्यालोचनमपि विसंवादि स्यात्, कल्पनालोचनयोर्भेदानुल्लेखात् ।
एतेन स्वप्रतिभासे ऽनर्थे अर्थाध्यवसायेन प्रवृत्तेरिति परास्तम् ॥
अनर्थत्वं हि विकल्पादभेदो विकल्प्यस्य स्यात्, आलोचनीयाद् भेदो वा? न तावत् कल्पनागोचरस्यालीकस्य कल्पनया अभेदः संभवति, येन भेदोल्लिखनमारोपः स्यात् ।

आलोचनीयाद् भेदे ऽपि
नाभेदप्रथेति नारोपः ।
स्वप्रतिभासे ऽनर्थ इति वचनात् नैष दोषः ।
स खल्वाकारो विकल्पादभिन्नो ऽपि भिन्न आरोप्यत इति चेत्? यदि तावत् विज्ञाननयमालम्ब्यैतदुच्यते, तदालोचनस्याप्येषैव गतिरिति तस्याप्यारोपरूपत्वात् ।
ग्राह्याकारे ऽप्रामाण्यं विकल्पस्यापि स्वात्मनि च संवेदनत्वादुभयोरपि प्रामाण्यमेवेति न कश्चिद् विशेषः ॥
अथ बाह्यमर्थमधिकृत्य प्रस्तुतेयं कथा? तथापि यादृशाकारो विकल्पस्तादृशाकार एव बाह्यतया प्रतिभासेत? न चासौ साधारणाकारः समस्ति ।
ततो येदतत् साधारणं रूपमाभाति तन्न विकल्पाकारमभिनिविशते
इति बहिरेवावतिष्ठते ।
बाह्यत्ववत् साधारणत्वमप्यस्यारोप्यत इति चेत्--न, असाधारण्यस्य पारमार्थिकस्य क्वचिदप्यनुपलब्धेरारोपयितुमशक्यत्वात् ।
असदुल्लेखे त्वलीकालम्बनत्वमेव विकल्पस्याभ्युपगतं स्यात् ।
तत्र चारोपसंभावनैव नास्तीत्युक्तम् ॥
पूर्वापरयोर्विकल्पाकारयोरभेदानुसन्धानमेव साधारण्यमिति चेत्--न, आकारिणां भेदप्रतीतावाकाराणामेकत्वेन प्रतिसन्धातुमशक्यत्वात्, तयोस्तादात्म्याम्युपगमात् ।
विकल्पस्यात्माप्याकारो भिन्नो बाह्यतयारोपितः ।
ततो विकल्पात्मानां भेदावसाये ऽपि नाकाराणां भेदावसायः ।
ततस्तदेकतयानुसन्धानमिति चेत्? हन्त, यद्ययमाकारो विकल्पात्मा तथेति प्रतीयेत, कथं बाह्यत्वेनारोप्येत? तादात्म्याप्रतीतिस्तूभयथापि स्यात्, अस्वसंवेद्यत्वाद् विकल्पस्य, स्वसंवेदनत्वेन वा, ततो भिन्नात्वात् तादात्म्यस्य ।
आद्यः तावत् सौगतैरनभ्युपगमादेव दुःस्थः ।
द्वितीयस्तु सर्वैरेवावगतः ।
अवगतं न तु निश्चितमिति चेत्--न, निश्चयानिश्चयलक्षणविरुद्धधर्मसंसर्ङ्गेण भेदापत्तेः ।
व्यावृत्त्योर्भेद एव न तु वस्तुनीति चेत्? अथ केयं व्यावृत्तिर्नाम? न किश्चिदिति चेत्? एवमस्तु ।
तथा च नारोपवार्तापि ।
ततो नास्योपदर्शितार्थविसंवादगन्धो ऽपि ।
असदर्थप्रकाशनमेव विसंवादनमिति चेत्? आस्तां तावदेवत्, यथाविषयमात्रमत्र विवक्षितम्, प्रकृतोपयोगात् ।
एवं चाविपरीतार्थत्वात् प्रामाण्यम् ।
प्रमाणस्य सतः साक्षात्कारित्वात् प्रत्यक्षत्वम् ।
अस्मदादिप्रत्यक्षत्वाच्च इन्द्रियार्थसामर्थ्यसमुत्थत्वम् ।
एवं सति सर्व एव सौगतेनप्रयुज्यमानाः कालात्ययापदिष्टतया प्रतिपक्षहेतवः पदमध्यारोपयितुमसमर्थाः प्रागेव विकल्पस्याप्रत्यक्षतां साधयितुम् ।
तथापीदमवशिष्यते, यदेतावतापि न परमार्थसद् विषयस्य प्रामाण्यं साधितम् ।
तत्र चावयोर्विवाद इति तत्राह--स्याद्विरोध इति ॥
ननु परमार्थसतो ऽभिलापसंसर्गयोग्यता अशक्यव्युत्पादनैव क्षणिकत्वात् जगत इत्यत उक्तम्--स्थेमभाजमिति ।
ननु स्थैर्यसिद्धावपि जात्यादीनां दुरूपपादत्वात् कथं परमार्थसतो ऽभिलापसंसर्गयोग्यतेत्यत उक्तम्--जात्यादिमन्तम् ।
तथा चेति ॥
यद्यप्युक्तरूपार्थव्यवस्थापने सति कालात्ययापदिष्टो ऽयं प्रसङ्गहेतुः, तद्दर्शनेचापक्षधर्मः,न ह्यस्ति संभवो विकल्पस्यार्थसामर्थ्यसमुत्थत्वं निश्चितमनिश्चितं च तदर्थस्य परमार्थसत्त्वम्, तथापि परो ऽपि तन्निराकरणसिद्ध्यैव प्रत्यवस्थितो न राजाज्ञया निराकरणीयः ।
तस्मादापाततस्तत्सन्देहे सन्दिग्धविपक्षवृत्तित्वमेवास्त्वित्यर्थः ।
एतेन विपर्ययो ऽपि निराकृतो बोद्धव्यः ॥
नमु सन्तु जात्यादयः परमार्थभूतास्तथापि यदि ते ऽपि पिण्डात्मभूताः कथं भेदेन प्रतिभासरेन्? तथा अप्रतिभासमानाश्च कथं विशेष्यतया विशेष्यमवच्छिन्द्युः, अनात्मभूताश्चेत् कथं सामानाधिकरण्यमश्नुवीरन्नित्यत आह--न चेति ।
तथापि शब्दो भिन्नात्मा अतद्वृत्तिः कथमवच्छेदकः स्यात्, यदि तद्गतस्तदात्मा वा न प्रतीयेत ।
एवमेव त्ववच्छेदे ऽतिप्रसङ्गः ।
अवच्छेदप्रतीतौ तु भ्रान्तिरित्याशङ्कते--न चेति ॥
अभेदकल्पनमवच्छेदकल्पनम् ।
तच्च तदात्मतया तत्संसर्गितया वा? उक्तमेतत् इति न हि तद्वृत्तितयैव तत्संसर्ग इति नियमः, अपि तु तटस्थेनापि ज्ञानेनेव ज्ञेयस्य वाचकेन वाच्यस्य न विरुद्ध इत्यर्थः ॥

ननु तटस्थो ऽप्ययमवच्छेदको न सत्तामात्रेण, अपि तु ज्ञातः ।
न तु शब्दज्ञाने तदानीं श्रवणस्य व्यापारः, विषयस्य विप्रयोगात् ।
सव्यापारे चक्षुषि मनसस्तत्र व्यासड्गाच्च ।
तस्माद्यथा स्व्प्नावस्थायामिन्द्रियोपरमे ऽपि पूर्वसंस्कारपाटवान्मनसैवैकेन अविद्यमाना अप्यर्था विषयीक्रियन्ते, तथा अशब्दव्यावृत्तिविकल्पजनितवासनापटुना चक्षुषैव मनसा वा शब्दो ऽपि विषयीक्रियत इत्यविद्यमानशब्दालम्बनत्वाद् भ्रान्तिरेवेत्यत आह--न च शब्दार्थयोरिति ।
एकेन्द्रियग्राह्यतेत्यत्र प्रसङ्ग इति शेषः ॥
अयमर्थः, यदि मनो ऽभिप्रायेणैकेन्द्रियग्राह्यता प्रसज्यते न किञ्चिदनिष्टम्, तस्य सर्वविषयत्वात् ।
अथ
बाह्येन्द्रियमभिप्रेत्य, तत्रापि किं नाम योजनात्मके विकल्पे, किं वा जात्यादियोजनात्मके? तत्र नाम्नो विशेषणत्वपक्षस्तावदनभ्युपगमेनैव परिहृतः ।
उपलक्षणत्वं तु तटस्थस्यैवेति प्रतिपादितमेव ।
तच्चेन्द्रियान्तरोपनीतस्यपि निर्वहतीति नैन्द्रियके विकल्पे नामस्फुरणमुपयुज्यते ।
जात्यादियोजनायां तु शब्दस्मरणस्यापि नास्त्युपयोगः, प्रागेव तद्ग्रहणस्य, तस्यानवच्छेदकत्वात् ।
केवलं किमिति नियमतः स्मर्यते शब्द इत्यवशिष्यते ।
तत्रेदमुक्तम्--किं त्विति ॥
तत्किमिदानीं शब्दस्मरणस्य न कश्चिदस्त्युपयोग इत्यत आह--इन्द्रियजविकल्पोत्पादं प्रति ।
व्यवहारं प्रति
त्वस्त्येवोपयोग इत्यर्थः ।
सड्केतसमयेति ।
पूर्वावस्थास्मरणग्रहणयोरन्यतरोपलक्षणपरम् ।
शब्दस्तु न निवेशयत्यात्मानं गृहीतः स्मृतो ऽपीति शेषः ।
चक्षुषापि स एवायं दृश्यते, न तु पूर्वहृदयस्थः शब्दो ऽपीत्यर्थः ।
एतदेव व्याख्याय श्लोकान्तरेण द्रढयति--अननेन हीत्यादि ।
न तु शब्दनिवेशनमपीति ।
शब्दरूपमपि विषयमित्यर्थः ॥
यद्यपि संज्ञा हीत्यादि श्लोके सा तटस्थेत्येतावदेव प्रकृतोपयोगि, तथाप्यनागतं प्रतिविधित्सुरवयवान्तरं व्याचष्टे--नार्थेन्द्रियेति ।
अर्थसहितमिन्द्रयमर्थेन्द्रियम् ।
यद्यपि क्षणमङ्गपक्षे ऽपि,
प्रत्येकमसमर्थेषु येषु संभाव्यते गुणः ।
संहतौ हेतुता तेषाम्
इति न्यायेनातिशयपरम्परोत्पादेन पूर्वावस्थास्मरणादिसहकारिमध्यमध्यासीनं यदेवेन्द्रियं तदेव विकल्पजनकं नेतरदिति नास्ति कश्चिद् विरोधः ।
तथापि विकल्पस्य स्थिरविषयत्वात् क्षणिकत्वस्वीकारे निर्विषयत्वमापाद्येतेति निस्फलः प्रयासः स्यादिति मन्यमानः स्थैर्यमालम्ब्यैव परिहरति--न च जनकत्वेति ।
स्यादेतदिति ।
स्यादेतत्सहकारित्वं संस्कारस्येन्द्रियं प्रति, यद्यनयोर्विषयभेदो न स्यादित्यर्थः ।
तत्किमिति ।
इन्द्रियसंस्कारयोः परस्पराधिपत्यं विषयभेदात् कीदृशान्न भवति किं प्रतिपत्त्यनुबन्धिनो, व्यापारानुबन्धिनो वा? न तावदाद्यः, तथाविधविषयभेदे ऽपि गन्धज्ञानचक्षुषोः परस्पराधिपत्येन रूपज्ञानोत्पत्तिदर्शनात् ।
द्वितीयस्त्वसिद्धः, तस्य कार्येणानुविधीयमानतामात्रोन्नेयत्वात् ।
एतच्चोमयमप्युभयवादिसिद्धमित्यर्थः ॥
ननु व्यापारनुबन्धितया संस्कारस्य यदि पुरोवर्ती विषयः, तदा अतीतावस्थास्फुरणं न स्यादेव ।
न ह्यन्यविषयो व्यापारः, अन्यत्र क्रियेत्यभ्युपगमः ।
तस्मादतीतविषयत्वात् क्रियायाः व्यापारानुबन्धितयापि संस्कारस्य स एव विषयः, न तु पुरोवर्ती ।
एवमिन्द्रियस्यापि यद्यतीतावस्थस्यैव व्यापारवतो विषयः, तदा पुरोवर्तिविषयस्फुरणं न स्यात् ।

तस्मात् तस्यापि व्यापारवतः पुरोवर्त्येव विषय इति व्यापारतो ऽपि कथमेकविषयतेति? समनन्तरप्रत्ययस्तु प्रतिपत्तितो गन्धविषयो ऽपि व्यापारतो रूपविषयः ।
रूपविषयव्यापारमेव चक्षुरपेक्षते ।
न हि चक्षुष्यपि सहकारिणि गन्धज्ञानाद् गम्धज्ञानम्, अपि तु रूपज्ञानमेवेति ॥
नैतत्साधीयः, सहकारीभेदादेव व्यापारभेदस्यापि नियमात् ।
न हि चक्षुरादिसहकारिविरहे ऽपि गन्धज्ञानस्य रूपविषयव्यापारनियमः ।
तथा सति गन्धज्ञानाद् रसनादिसहकारिणो ऽपि रूपज्ञानमेव स्यात्, न रसादिज्ञानम् ।
तस्मात् केवलस्य चक्षुषो यद्यपि रूपमेव व्यापारविषयः, तथापि पूर्वावस्थासंस्कारसहकारिमतस्तद्वानेव पुरोवर्ती व्यापारविषय इति न कश्चिद् विरोधः ।
पूर्वावस्था चक्षुषा असन्निकृष्टा कथं तद्व्यापारविषय इति ।
अवशिष्टं तु शङ्कते--नन्वतीतेति ।
अत्र तत्संबन्धमेव तद्व्यापारविषयत्वं स्यात्, संबन्धस्य तद्व्यापकत्वं वा? आद्यं निराकारोति--तत्किमिति ।
द्वितीयं शङ्कते--नन्वसंबद्धमिति ॥
प्रधानव्यापारविषयता ह्यवान्तरव्यापारविषयतया व्याप्ता, सा चातीतावस्थातो निवर्तमाना तामपि निवर्तयति ।
अथ सविकल्पके जनयितव्ये पूर्वावस्थास्मरणमेवावान्तरव्यापारो न तु विषयसम्बन्धः, तदा लक्षणविरोधो दूषणमित्यर्थः ।
मा भूदिति ।
इन्द्रियागोचरः इन्द्रियसन्निकर्षगोचर इत्यर्थः ।
न चेति ।
अयमाशयः, न तावत् सर्वथैवातीतावस्था नेन्द्रियसन्निकृष्ट, संयुक्तविशेषणतायाः संभवात् ।
अस्यापि संयुक्तसमवायवत् प्रत्यक्षज्ञानोत्पादकतया सन्निकर्षपदेन संग्रहात् ।
यद्यपि समवायेतरभावरूपधर्मेषु संबन्धान्तरगर्भ एव विशेषणविशष्यभावः, तथापि विद्यमानधर्मविषयैव सा व्यवस्थितिरिति न कश्चित् सूत्रविरोध इति यद्यपि रहस्यम्, तथापि अतीतावस्थायाः संबन्धानभ्युपगमे ऽपि न काचिल्लक्षणक्षतिः ।
न हि यावत्प्रत्येतव्यगोचर इन्द्रियसन्निकर्ष
इति सूत्रम् ।
किं तर्हि? इन्द्रियार्थसन्निकर्षजनितं विज्ञानं प्रत्यक्षफलम् ।
तथाविधफलविषयोर्ऽथः प्रत्यक्षः ।
तथाविधफलसाधनं प्रत्यक्षं प्रमाणमिति ॥
स्यादेतत् ।
कार्यमेकमधिकृत्येन्द्रियसन्निकर्षसंस्कारयोः परस्परसहकारिता, तदेव त्वेकमनयोः कुत इत्याशयवान् चोदयति--ननु पूर्वापरेति ।
सूचीकटाहन्यायेन पश्चादुक्तमपि प्रथमं विवृणोति--तथा हीति ।
यद्यपि तदित्युल्लेखो न सर्वविकल्पव्यापी, तथापि प्रतिसन्धानज्ञाने तावदस्ति ।
तस्य च प्रामाण्यं स्थिरवादिभिरवष्याभ्युपेतव्यम् ।
अन्यथा सर्वमालूनविशीर्णमापद्यते ।
परेणापि तदेव विशेषतो निराकर्तव्यम् ।
तन्निराकरणेनैव हि जात्याद्यभावे अप्रतिसन्धानात्मकस्यापि विकल्पस्य प्रत्याख्यानमयत्नसिद्धमित्यभिसन्धिः ॥
ननु विरुद्धधर्मसंसर्गो ऽपि स्यात्, न च भेद इत्यत आह--त्रैलोक्यस्यैकत्वप्रसड्गात् ।
तथा च
भेदव्यवहारस्याकस्मिकत्वप्रसङ्ग इत्यर्थः ।
विषयभेदश्चेति ।
यद्यपि विषयभेदवतो ऽपि सर्वज्ञविज्ञानस्यैकत्वमक्षतमेव, तथापि क्षणिकानेककालीन (?) नीलालम्बनत्वमव यदि प्रतिसन्धानस्य परो ऽभ्युपगच्छेत्, न तस्य काचिदिष्टसिद्धिः ।
नाप्यस्माकमिदमनिष्टं किं तु तदपरिस्फरणमेव विकल्पे ।
तस्मादारोपितैकत्वविषयत्वमस्य पारमार्थिकैकत्वविषयत्वं वा? तत्र प्रथमं यदि परो ऽभ्युपगच्छेदनुकूलयेदेवास्मान् तस्मात् नानावस्थाविशिष्टपारमार्थिकैकविषयतयास्त्येकत्वं पराभिप्रायगोचरः ।
तच्च विषयभेदापादनेनैव निरस्यत इत्यमिसन्धिः ॥

अत्रोच्यत इति ।
यद्यपि तदिदमितिज्ञानं पूर्वावस्थायामप्यपरोक्षमेव ।
न हि तदित्युल्लेखादेव परोक्षत्वम् ।
तथा सति शाब्दलैड्गिकविकल्पानां तदित्युल्लेखविरहिणाम् अपरोक्षत्वप्रसड्गात् ।
नापीदमास्पदत्वादेव साक्षात्कार इति बौद्धस्याभ्युपगमो ऽपसिद्धान्तप्रसड्गात् ।
किं तु सन्निहितविषयमसन्निहितविषयं वा यदेव लिड्गादिनिरपेक्षेण इन्द्रियेण विज्ञानं जन्यते, तदेवापरोक्षरूपं समुत्पद्यते ।
अनिन्द्रियजं तु परोक्षमिति विभागः ।
तत्र परोक्षमपरोक्षं वानुभूतावस्थाविशिष्टविषयतया तदित्युल्लिख्यते ।
सन्निहितविषयतयेदमिति ।
सो ऽयं विषयकृतो विशेषः ।
तथाप्यभ्युपगमवादे ऽपि न कश्चिद् विरोध इति प्रतिबन्दिग्रह इति मन्तव्यम् ।
तस्माद् विषयभेदादविरोध इति त्वया समाधातव्यमिति चेत्? नन्विहापीति ॥
तत् किमिदानीं विकल्पविकल्पनीययोर्यथा भेदस्तथैव तदिदन्तास्पदयोरपीति? नन्वेवं सति दत्तः स्वहस्तो बौद्धानामित्यत आह--सम्बन्धेति ।
विशेषणे उत्तरत्राप्येवम्, विशेष्यं त्वेकमेव ।
तत्र चापरोक्षत्वमेवास्येत्याशयः ।
यो ऽपीति ।
अत्रापिनानादिग्देशसम्बन्धः प्रतिबन्दीकर्तव्यः ॥
ननु प्रत्यभिज्ञानान्नानाकालसबद्धैकत्वसिद्धौ परस्पराविनाभावभङ्गप्रसङ्गः, तच्च लूनपुनर्जातकदलीकाण्डादौ व्यभिचारदर्शनादप्रमाणमेव ।
न च कदलीकाण्डप्रत्यभिज्ञानतः पद्मरागप्रत्यभिज्ञानस्य कञ्चिद् विशेषमुपलभामहे ।
ननु नानादिग्देशसंबद्धस्यापि तव कदाचिदेकत्वमुपलभ्यते, तत् कथं तस्याप्येकत्वनिश्चयः? अथ नानादिग्देशसंसर्गः स्वाश्रयं भेदयित्वा न निवर्तत इति निःस्वभावता वापादयेत्, अनैकान्तिको वा स्यात् ।
अतो नायं विरुद्धः ।
सिद्धास्तर्हि संयोगावयव्यादयः ।
तुल्यं चैतत् कालभेदे ऽपि ।
तथा हि यदि पूर्वापरकालसंबन्धो वस्तुनि विरुध्येत, विज्ञाने ऽपि विरुध्येत ।
तथा च विज्ञानमप्येकमतीतवर्तमानविषयं न स्यात् ॥
एवं च बुद्धीनां नियतार्थतया प्रतिसन्धानगन्धो ऽपि न स्यात् ।
तथा च मूलाभावान्निरीहं जगज्जायेत ।
सर्वज्ञश्च दत्तजलाञ्जलिः प्रसक्तः ।
अतीतवर्तमानविषयत्वे ऽपि नैकं ज्ञानमतीतं वर्तमानं च स्वीक्रियत इति चेत्? अथ किमिद्र च वर्तमानत्वम् सत्त्वं सदन्तरसंबन्धो वा? एवं चातीतत्वमपि नष्टत्वं नष्टान्तरसंबन्धो वा ।
तत्र सदन्तरनष्टान्तरसंबन्धः प्रतिसन्धाने सर्वज्ञविज्ञाने चास्त्येव नष्टानष्टविषयत्वात् ।
तदविषयत्वे
प्रतिसन्धानत्वसर्वज्ञत्वानुपपत्तेः ।
सत्त्वनष्टत्वे परस्परं विरुध्येते, ते चैकत्र प्रतिसन्धाने न स्त इति चेत्? एवं तर्हि पद्रागमणिरप्युत्पत्तेरारभ्य स्वावयवविभागपर्यन्तं सत्स्वरूपः ।
नास्य नष्टत्वसंसर्गः ।
स एव तु सता केनचित् संसृष्टः केनचिदसता प्रतिसन्धानमिव सदसभ्द्यां विषयाभ्यामिति ।
तन्नास्ति विरुद्धधर्मसंसर्गः ।
ततः परिमाणभेदादयो विरुद्धधर्मसंसर्गा वक्तव्याः ।
ते यत्र पद्मरागादौ न सन्ति तत्रौत्सर्गिकमेकत्वमेवेति समः समाधिरित्यभिप्रायेण देशमन्तर्भाव्योपसंहरति--तस्मादिति ।
न चान्यस्य संबन्धिनः कालस्य भेदो विरुद्धधर्मसंसर्गः अन्यस्य पद्मरागमणेर्भेदं नानात्वम् ।
न चेन्द्रियेति ।

यदि विकल्पजातीयं प्रतीन्द्रियार्थसन्निकर्षो न कारणं
व्यभिचारादिति परस्याभिप्रायस्तदानुज्ञैवोत्तरम् ।
न हि वयमपि विकल्पमात्रं प्रति तस्य कारणत्वं ब्रूमः, किं तु साक्षात्कारिविज्ञानं प्रति ।
न चासौ इन्द्रियार्थसन्निकर्षमन्तरेणापि भवतीति सारम् ।
निर्विकल्पकप्रतिबन्दिग्रहस्त्विममर्थं सुखेन ग्राहयितुम् ॥
स्यादेतत् ।
विकल्पस्योभयथासंभवे हि सामान्यव्यभिचाराद्विशेषमादाय कार्यकारणतावधारणं स्यात् ।
न तु साक्षात्कारादिरस्य विशेषो ऽस्ति, औपाधिकत्वात् तस्येति आशड्क्य निराकरोति---न च विकल्पगत इति ।
विकल्पगतः साक्षात्कारलक्षणो धर्मस्तावदनुभूयत इत्यविवादम्, तस्यौपाधिकत्वं न तावदानुभविकमित्याह---सर्वा
एव हीत्यादि ।
तस्माद् दर्शनव्यापारा विकल्पा इन्द्रियार्थसन्निकर्षजन्मान इति योजना ।
नाप्यौपपत्तिकम्, उपपत्तेः प्रागेव निराकृतत्वादित्याशयः ।
नन्विन्द्रियविषय एव यदि शब्दो ऽपि प्रवर्तेत, सो ऽपि साक्षात्कारिणमेव विकल्पमादध्यात्, इन्द्रियमपिचोत्प्रेक्षाव्यापारिणम्, विषयविशेषमन्तरेण ज्ञाने विशेषाभावात् ।
तस्माद् शब्दैकविषयतया प्रवर्तमानो विकल्पो नेन्द्रियविशयं स्पृशति, तदस्पर्शे च न स्वाभाविकमस्य साक्षात्कारित्वमित्याशनयवानाशड्क्य निराकरोति---न च शब्देति ।
एकत्रार्थे इन्द्रियं कारणम् अन्यत्र तन्निरपेक्षः शब्दादिरित्यर्थः ।
तुच्छतयोपेक्षणीयमपि शिष्यहिततया दूषयति---न च वह्नीति ।
वह्निज्ञानादुष्णज्ञानादित्यर्थः ।
शीतद्रव्यापगमः, तदपगमे वा तदनुपलम्भः, तद्धेतुकदुःखाभावो वा शीतापनोद इत्युच्यते, स चोष्णद्रव्योपगमसाध्यो न तु तदुपलम्भसाध्यः ।
अन्यथा सन्निपातमूढस्य स्वेदने ऽपि दोषापगमो न स्यात्, उष्णद्रव्यानुपलम्भात् ।
तुहिनाचलगुहामध्यवर्तिनि च सर्वज्ञे वडवानलसाक्षात्कारवति तुहिनाचलविलयः स्यादित्यर्थः ॥
यस्यापीत्यादिवार्त्तिकार्थं दूषयति---न चैकेनेति ।
उपाधयः सत्त्वादयस्तैः विशिष्टत्वं तैर्विशेषणैः सम्बन्धः ।
अयमर्थः ।
एकेनैव स्वभावेन तावदुपकरोति सर्वोपाधीनामिति परमार्थः ॥
तत्रोपकारकस्यैकस्वभावतया उपकाराणामवच्छेदानामुपकार्याणां चोपाधीनां तदैकत्वं स्यात्, यद्युपकारस्वभावान्तर्भूतत्वं तेषामभ्युपेयेत, न चैवमातिष्ठामहे ।
त्वयाप्येवमेव समर्थनीयं किं त्वलीकविषयतयेति विशेषः ।
स एष न्यायो यदि परमार्थसत्यपि स्यात्, कीदृशो दोषः? न केवलं काल्पनिके व्यवहारे तवेदं समर्थनमपि तु पारमार्थिके ऽपीत्याह---अपि चेति ।
परमाणुस्वभाव इति षष्ठतत्पुरुषः ।
परमाणवो ज्ञानस्य स्वभाव इत्यपि द्रष्टव्यम् ।
परमाणुस्वभावत्वे ज्ञानस्यापि नानात्वप्रसड्गात् ।
तथा चैकेकपरमाणुनियमे स्थूलप्रतिभासो भ्रान्तो ऽपि न स्यात् ।
ज्ञानस्वभावत्वे ऽपि च परमाणुनामप्येकत्वप्रसड्गादमूर्तत्वादिप्रसड्गाच्चेति स एव दोष इत्याद्युत्तानं दूषणमुत्सृज्य अन्यमाह---तेषां सर्वान् प्रतीति ।
परमाणूनामेकज्ञानस्वभावत्वे वा न ते द्वितीयेन विदिता स्युरित्यपि द्रष्टव्यम् ।
यद्यपि तादात्म्याभावे ऽपि ज्ञानज्ञेययोः कार्यकारणभावः संबन्धो विषयविषयिनियमार्थं बौद्धेन स्वीकृतस्तथापि कार्यकारणभावे ऽपि को नियन्तेति तुल्यो ऽनुयोगः ।
अतः स्वभावेनैवोत्तरयति---स्वभाव एवेति ॥
भावाभावयोः समवायतद्वतोर्विषयविषयिणोश्च वयमपि स्वभावेनैव परस्परोपहितं सम्बन्धमातिष्ठामहे ।
द्रव्यगुणकर्मजातितद्वतां यद्यपि स्वभावेनैवोपाध्युपाधिमभ्दावः, तथापि सम्बन्धो ऽप्यनुभूयमानो विना बाधकं नोपेक्षितुं युज्यते ।
यथा स्वभाविके विषयविषयीभावे कार्यकारणभावस्त्वया नोपेक्षितः, तस्मादतिरिक्तसम्बन्धे क्षणभङ्गसाधनं बाधकमवशिष्यत इत्यर्थः ॥
न तावद्विशिष्टव्यवहार एव नास्ति, तस्य स्पष्टतया निह्नोतुमशक्यत्वात् तदभावे सर्वव्यवहाराभावप्रसड्गाच्च ।
तस्मादस्मदुक्तप्रकारेर्ष्यया प्रकारान्तरेणायमुपपादनीयः ।

तत्राह---भिन्नज्ञानागोचरत्वे ऽपीति ।
अपिशब्छः चोद्याभासतुल्यतामात्रेण ।
नन्वस्ति व्यवहारो न तु वास्तवः, स च
यथाकथञ्चिद्वासनाद्वारेणापि निर्वहेत्, येषां त्वयं वास्तवः, तैरर्थद्वारैवास्य निर्वाहश्चिन्तनीय इन्याशङ्कते--ताभयामिति ॥
त्वदुक्तमेव वासनाद्वारमुपादाय येति वास्तव एवायं व्यवहारः स्यात्, तदा कीदृशो दोष इत्याशयवानाह--अस्तु तावदिति ।
तथापि वास्तव एवायमित्यत्र किं प्रमाणमित्यत आह---तथा सतीति ।
अस्येन्द्रियार्थसन्निकर्षजत्वे स्वाभाविकं साक्षात्कारित्वमेव प्रमाणमित्यर्थः ।
निर्विकल्पकोपधानं कल्पेत विनाप्रमाणमिति शेषः ।
यदि हि स्वकारणबलेन नोत्पत्तेरविचारकत्वं मानसस्याप्यविचारकत्वप्रसङ्ग
इत्याशयवाना---हन्तेति ।
मनसः सर्वविषयत्वं न तावद् व्यापारानुबन्धितया परस्य विवक्षितम्, इन्द्रियार्थसन्निकर्षस्यापि संस्कारसहितस्य तथाभावव्यवस्थापनात् ।
तस्मात् प्रतिपत्त्यनुबन्धितया वा स्यात्, सर्ववासनाधारतया वा? आद्यं दूषयति--यदि पूर्वकमिति ।
अस्माकं तु मनः सर्वविषयकमपि न प्रतिपत्त्यनुबन्धितया असर्वविषयमप्रतिपत्तिरूपत्वात् इति भावः ।
न च सकलसंस्काराधारतयेत्याह--अचेतनतया न विचारकम् इति ।
विचारौपयिकसकलवासनानाधारत्वादित्यर्थः ।
त्वदभिप्रेतस्य च मनसः सकलवासनाधारकत्वं निषेत्स्यत इत्यनेनाभिप्रायेणाह--तस्मादात्मैवेति ।
स्थितं ज्ञानं ज्ञानवासनेत्यर्थः ।
अत्र हेतुः--स हि बौद्धेति ।
अत्र
प्रमाणम्--गम्यत इति ।
अतः स्मरणे ऽस्य सामर्थ्यम् ।
चो हेतौ ॥
ननु यद्येवंभूतचेतनाधिष्ठितमिन्द्रियम्, तर्हि निर्विकल्पकोत्पत्तिकाल एव लब्धसस्कारसचिवतया विकल्पमेव जनयेदित्यत आह--स खल्विति ।
प्रागालोच्य उद्बुद्धसंस्कारसमुपजातस्मृतिसहायः पश्चाद् विकल्पयतीति योजना ।
एवं तर्हीन्द्रियार्थसन्निकर्षादालोचनम्, संस्कारोद्बोधः, ततः स्मृतिः, तत्सहायश्च विकल्पयतीति न चक्षुषः कश्चिदुपयोग इत्यत आह--चक्षुषेति ॥
नन्वेवंभूता सामग्री मिलितापि यदि चक्षुर्व्यापारविरहे न विकल्पिकां धियम् उपजनयेत्, ततस्तस्यापि कारणत्वं कल्प्येत, नत्वेतदस्तीत्यत आह--गौरयमिति ।
एतेन साक्षात्कारं प्रति तस्यान्वयव्यातिरेकौ स्त इति दर्शितम् ।
एतदेवाभिप्रेत्योत्तरश्लोकमाह--यथाहेति ।
सह चेतनया वर्तत इति सचेतनः ॥
तथापि क उपकारः समर्थित इत्यत आह--तेनेति ।
ज्ञाप्यज्ञापकभाव इत्युपलक्षणम्, कार्यकारणभावो ऽपि न सर्वत्रास्तीति द्रष्टव्यम् ।
क्वचित्तु द्रव्यगुणकर्मणाम् अस्तीति नोदाहृतः ।
तदर्थालोचनानुगतं स्मरणं ययोस्ते विशेषणविशेष्ये तथोक्ते तयोः ।
अतदधिकरणव्यवच्छेदप्रतीतिजननमेव विशेषणेन विशेष्यस्योपकार इत्यर्थः ।
यद्यपि स्वाभाविको विशेषणविशेष्यभावो नोपकारमपेक्षत इति तत्र तत्र वक्ष्यति ।
न चोपकार्योपकारकभावो ऽप्युपकारान्तरप्राप्तः, तथा सत्यनवस्थापातात् ।
तथापीह संभवप्राचुर्येणाभिधीयत इति मन्तव्यम् ॥
ननु यदि स्वाभाविकमनयोर्विशेषणविशेष्यत्वम्, प्रथमतः स्वभावे गृह्यमाणे किं न गृहीतम्, न च स्वभावस्तदानीं न गृहीत इत्यत आह--अर्थौ हीति ।
न खलु रूपपरमाणुषु स्पर्शादिपरमाणवो ऽपि स्वभावतः स्थिता इत्येतावतैव प्रतीतिपथमवतरन्ति ।
सामग्र्यभावान्न तथेति चेत्? स इहापि समान इत्यर्थः ।

अत एव प्रमाणं कृत्स्नवृत्तीति मत्वा यदापादितम्, तदपि नास्तीत्यत आह--तेनेति ॥
स्वरूपाभिप्रायेण कृत्स्नवृत्तित्वं प्रमाणस्यानुमन्यामहे एव, स्वाभाविकसमस्तसम्बन्धाभिप्रायेण तु सर्वज्ञेतरधियामप्रामाण्यमापादयतीति उपसंहारं स्थाने संकलय्याहा---सविकल्पकं त्विति ।
पश्चादपि जायमानमिति योजना आलोचनादिति शेषः ।
तस्मात् सर्वं तुल्यम् ।
क्षणभड्गे परं विवादो ऽवशिष्यत इत्याशयवानाह---अक्रमस्यापीति ।
विवादाध्यासिता इति ।
साक्षात्कारिण इत्यर्थः ।
तेन तदितरव्युदासः ।
सिद्वसाध्यताव्युदासार्थं स्वगोचर इति ।
पीतः शड्ख इत्यादिना व्यभिचारनिवृत्त्यर्थम् अव्यभिचारित्वे सतीति ।
अत्र च कृतः प्रयत्नः ॥
न चैतन्मन्तव्यमिति भाष्यमिति इन्द्रियार्थसन्निकर्षमन्तरेणापि संशयोत्पत्तिदर्शनात् अतत्कारणतया प्रसङ्ग एवास्य नास्ति ।
कुतो ऽन्वाचीयमाने ऽपि व्युदास इति पूर्वः पक्षः ।
यद्यपि न सवः संशयः इन्द्रियार्थसन्निकर्षजस्तथापि साक्षात्कारवानवश्य तज्जन्यः ।
तस्माद् व्युदासो ऽन्वाचीयत इति प्रकारणार्थः ॥
स्यादेतदित्यादि ।
मन एव केवलमिन्द्रयनिरपेक्षं बहिर्व्याप्रियमाणं साक्षात्कारिसंशयादि जनयति, दृष्टो
ह्यस्यानुव्यवसीयमानज्ञानविशेषणे घटदौ व्यापारः, इन्द्रियव्यापारविगमे ऽपि सौदामिनीसंपातादौ सकृदुपजातस्यार्थनिश्चयस्य समन्धकारे ऽप्यनुव्यवसीयमानत्वात्, तस्य चानुव्यवसायस्य साक्षात्कारिजातीयत्वात् ।
तस्मात् अप्रसङ्ग एव पुनरापतित इति ।
मनसा ह्यनुव्यवसीयमानज्ञानलक्षणविशेष्यसन्निकृष्टेन असन्निकृश्टो घटादिरवच्छेदकतया व्यवसीयते ।
चक्षुषेव घटसन्निकृष्टेन प्रागुपलब्धा तदवस्था ।
संशयज्ञानं तु नोर्ध्वार्थोपलब्धिविषयम्, नापि स्थाणुपुरुषस्मृतिविषयम्, किं त्वनिर्धारितस्थाणुपुरुषत्वोर्ध्वपदार्थविषयम् ।
न च तत्सन्निकृष्टं मनः ।
बाह्येन विशेष्येणाप्यसन्निकृष्टं मनः कथमिव ज्ञानमुत्पादयेत्? उत्पादने
वान्धबधिरादेरप्युत्पादयेत् इति सिद्धान्तः ॥
तत्पूर्वं व्यवसायोत्पत्तौ ।
स्वविषयप्राप्तिसम्पत्तय इति शेषः ।
तथा च संशयज्ञानोत्पादे ऽपीति सहकारितयेति शेषः ।
अव्यापकत्वेनेत्यादि चोदयति पार्श्वस्थः ।
परिहरति पूर्वपक्षी ।
पुनः पार्श्वस्थस्य शड्का मा भूदिति ।
अत आहेति ।
पूर्वपक्षी ।
न च सुखादौ प्रमाणान्तरमस्ति ।
प्रत्यक्षं विहायेति शेषः ।
संवेदनत्वे हि तेषां स्वसंवेदनता शड्कास्पदमपि स्यादिति शेषः ।
नन्विन्द्रियस्य वै सत इति वदतो भाष्यकृतो मनस इन्द्रियत्वमिष्टमेवेत्यत आह---न च तदिति ।
मनस इन्द्रियत्वाभ्युपगमो वात्स्यायनीये गौतमीयसूत्र विरुद्ध इत्यर्थः ।
मा भूद् विभागपरमिदं सूत्रम्, तथापि सूत्राकारस्य मन इन्द्रियं यद्यभिमतमिन्द्रियप्रकरण एव लक्षयेदित्यत आह---तत्र चेति ।
इन्द्रियत्वेन तत्प्रकरण एवाभिघाने प्राप्ते यदन्यत्र करोति तेनाधिकमस्य किञ्चिद् रूपं विज्ञेयमिति सूचयति, न त्विन्द्रियत्वमेव न सहत इत्यर्थः ।

मूल पाठ: Nyāyavārttikatātparyapariśuddhi 1 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc