भाषा

ENहिગુ
ग्रंथ पाठ

न्यायवार्त्तिकतात्पर्यपरिशुद्धि · भाग 101120

दर्शयिष्यति हि वातिककार इत्यागामिका फक्किका भ्रमनिरासार्थं भूताभूतेति ।
शब्दो ऽत्र दुष्टो, न त्वभिप्राय इति ।
उपलक्षणं चैतत् ।
सगुणानां चक्षुरादीनामिन्द्रियभावो, मनस्तु न सगुणमिन्द्रयमित्यत्रापि यो विशेषगुणो येनेन्द्रियेण गृह्यते तज्जातीयेन गुणेन सह वृत्तिः सगुणत्वम् ।
ग्राह्यविशेषगुणजातीयविरहश्च मनस इति यद्यभिप्रेतं भाष्यकृता तदैतदपि वैधर्म्यमेव, किं त्वेभिरक्षरैरेतदप्यभिधातुं न शक्यते ।
विभक्तिविपरिणामेन तु भाष्यं सुगमम् ।
तथा हि, इन्द्रियभूतानामेषां सगुणत्वं ग्राह्यैर्गुणैः सह संबन्धश्चक्षुरादीनाम् ।
मनसस्त्विन्द्रियमूतस्यैव न सगुणत्वम्, न ग्राह्येन गुणेन सह संबन्ध इति ।
तस्मादत्रापि शब्ददोषः, न त्वभ्रिपायदोष इति मन्तव्यम् ॥
नन्वनभिमतनिषेधेन मतसुन्नेष्यत इति शङ्कते---न चेति ।
निराचष्टे--अभावस्येति ।
यावदनभिमतनिषेधेनाभिमतलाभे गरीयो गौरवमापद्येत, तत्तन्निषेध्यम् अनुपनीय निषेधस्य प्रतिपादयितुमशक्यत्वात् ।
विशेषविधौ तु शेषनिषेधो लघीयानिति भावः ॥
सत्राकारवचनस्य विवादास्पदत्वात् कथं तेनैव निर्णय इत्यत आहेति पूरयति भाष्यकार इति ।
शाब्देत्यनेन शब्देन्द्रियसमाहारजमयमसावश्व इति ज्ञानं व्यवच्छेद्यमभिमतं वार्त्तिककृत इति केषाञ्चिन्मतमपनयति---न खल्विति ॥
वाच्यत्वेन हि विशेषणतया गृहीतेन निशेष्यनिष्ठेन भवित्वयमतः केवलवाच्यत्वप्रस्तावे ऽपि तथैवोदाहृतम् ।
इन्द्रियव्यतिरेकव्यभिचाराच्च तद्व्यतिरेको न शड्कितः ।
गृहीते ह्यश्वत्वे तदसन्निकर्षे ऽपि यो ऽयं पिण्डस्त्वया दृष्टो ऽयमसावश्व इत्युपदेशात् केवलादेव वाच्यत्वप्रतीतिदर्शनात् ।
नस्मादिन्द्रियस्य संबन्धिसमर्पण एव व्यापारः ।
एवमुत्तरत्रापि तव्यार्थः सड्केतयितुरभिप्रायविशेषः ।
यद्यपि पराभिप्रायस्तदुपहितो वार्थो नेन्द्रियगोचरः, तथाप्यभ्युपगम्याशङ्कते---अथायमपीति ।
इदमैन्द्रियकमिदम् अतीन्द्रियमिति हि साक्षात्कारासाक्षात्कारोन्नेयो ऽयमर्थः ॥
तत्र स्पष्टग्रहणरूपत्वात् साक्षात्कारापरव्यपदेशादैन्द्रियकमेतदिति युक्तं स्यात्, न त्वसाक्षात्कारादपि ।
तयोश्च को ऽत्र मनसा वेद्यत इति भवानेव परिभावयतु ।
तत्र साक्षात्कारित्वपक्षे प्रत्यक्षमेवेदमतो न व्यवच्छेदनीयम्, असाक्षात्कारित्वपक्षे च नेदम् ऐन्द्रियकमिति प्रथमपदेनेव व्युदस्तम् ।
नाव्यपदेश्यपदस्यावकाश इति गाथापाठस्यार्थः ॥
किमर्थं तर्ह्यव्यवदेश्यपदम्, कश्चास्य वार्त्तिकस्यार्थ इत्यत आह---व्यवसायात्मकपदेन त्विति ।
एकपदपरिग्रहं स्फुटं मन्वानो ऽपि द्विपदपरिग्रहं व्याचष्ट---द्विपदेति ॥
उत्तरप्रबन्धोपयोगं दर्शयन्नाह--तदेवमिति ।
लक्षणमिदमनुमानम् ।
तच्च तदाभासाद् विवेकेन सुगमं भवति ।
स च तदाभासेषु आविष्कृतेषु भवतीत्याशयवतः अयमारम्भ इत्यर्थः ।
ततोर्ऽथादित्यत्र हि पञ्चम्या हेतुत्वमर्थस्य विज्ञानं प्रतिदर्शितम् ।
तत्परश्च एवकारः एवं संबध्यते--स व्यपदेशकोर्ऽथो हेतुरेव यस्य न पुनरहेतुरपि तद्विज्ञानं प्रत्यक्षमिति ।
एवं चायोगव्यवच्छेद एव ।
तथाप्यन्ययोगव्यवच्छेदो ऽपि वार्त्तिककृता निराकर्तव्य इति व्याख्यायामुभयं दर्शितवान् ।
यदि तत एव तभ्दवति, नार्थान्तरादित्यव्यपदेशकादित्यतो न विरोधः ॥
नन्वनुमानविशेषस्तावत् कश्चिदव्यपदेशकादेवोत्पद्यते ।
ततो न तस्य व्युदासः कृत इत्यत आह--ततोर्ऽथादित्यत्र हीति ।
प्रत्यक्षजातेरिदं लक्षणम् ।

तस्याश्च प्रतियोगिन्यनुमानादिजातिरेव, तथा च तस्या एव
जातेर्व्यवच्छेदो विवक्षितः ।
स चैतावतैव सिद्ध इत्यर्थः ॥
यत्रैव यज्जातीय एव ।
तदयोगस्तस्य व्यपदेशकस्य हेतुत्वेनायोगस्तदप्रत्यक्षमिति ।
तेन व्यपदेशो हि तदुपाधिकं निरूपणमि विवक्षितम् ।
न च ज्ञानं कर्त्रा करणेन वा निरूप्यते, अपि तु कर्मणैवेत्यर्थः ।
अभिधानापर्यवसानात् शब्दव्यापारापर्यवसानात् ।
तच्छब्दस्य पूर्वप्रक्रान्त एवार्थे सड्केतितत्वात्, तदनभिधाने ऽवाचकत्वप्रसड्गादिति भावः ।
पूर्वप्रक्रान्तश्च व्यपदेशक एव ।
स चार्थ एवेति विशेष्यः प्राप्यते, नान्तरीयकत्वादित्यर्थः ।
नैवं वार्त्तिकमित्यत आह---अभ्युपेत्य त्विति ।
अनुमानादिव्युदासार्थं ह्ययोगव्यवच्छेदः ।
स
चान्ययोगव्यवच्छेदे ऽपि सिध्यतीत्यर्थः ॥
नन्वन्योगव्यवच्छेदो ऽशक्य एव, इन्द्रियादेरव्यपदेशकस्यापि तत्कारणत्वादत आह--अन्यव्यवच्छेदे ऽपीति ।
इन्द्रियादयो ह्यव्यपदेशका अपि व्यपदेशकाधिपत्येनैव ज्ञानजनका इत्यविरोधितया न ते व्यवच्छेद्याः ।
लिड्गादयस्तु व्यपदेशकाधिपत्यनिरपेक्षतया तद्विरोधिन इति त एवान्ये व्यवच्छेत्तव्या इत्यर्थः ॥
ननु सर्वं च स्वविषयादिति वार्त्तिकमसङ्गतमेव, स्मृत्यनुमितिभ्रान्तीनां स्वविषयापनुत्पत्तेरत आह--यत्संवृतित्वेनेति ।
ननु भ्रान्तिज्ञानमपि न व्यपदेशकम् अन्तरेण भवति, तत् कुतश्चोद्यमतस्मादपीत्यत आह--पुरोवर्तीति ।
अतस्मादपीत्यत्र यद्यपि न श्रूयते, तथापि व्यपदेशकादपि न भवतीति बोद्धव्यमित्यर्थः ।
तदिदमुक्तम्--येन विशेषरूपेण तस्य व्यपदिश्यते न ततस्तभ्दवतीति ।
तस्माद् यत्तत एव भवति ततो भवत्येवेत्यर्थः ।
अततश्च न ततश्चेत्यर्थः ॥
ननु व्यपदेशकादनुत्पत्तेरित्यव्यपदेशकादुत्पत्तेरिति वा चोद्यमुपक्राभ्याशक्ते रजतात् नोत्पद्यत इति वाक्छलमात्रामित्यत आह--न ह्यतस्मादारोपिताद् रूपादिति ।
अयमर्थः ।
मिथ्याज्ञाननिरासो ह्यन्ययोगव्यवच्छेदेन वा, अयोगव्यवच्छेदेन वा? न तावदाद्यः, अन्ययोगव्यवच्छेदस्य तत्रापि भावात् ।
तदा हि स न स्यात् ।
यद्यव्यपदेशकस्यैव, वणिग्वीथ्यां स्वतन्त्रस्य रजतस्य हेतुत्वं स्यात् ।
न चैतदस्ति ।
तदिदमुक्तम्--न ह्यतस्मादारोपितात् तत्रासतस्तन्मिथ्याज्ञानं भवति ।
नापि द्वितीयः, व्यपदेशकस्य हेतुत्वादेव ।
रजतं व्यपदेशकं न हेतुरिति चेत्? कथं पुना रजतं व्यपदेशकं स्वातन्त्र्येण पुरोवर्त्यात्मना वा? न तावदाद्यः,
सामानाधिकरण्यानुपपत्तेः, स्वमिथ्यात्वप्रसड्गाच्च ।
पुरोवर्त्यात्मना च प्रत्यन्तरे तद् भवति व्यपदेशकम् ।
स च पुरोवर्त्यात्मा हेतुरेवेत्ययोगव्यवच्छेद एव ।
तदिदमुकम्--आरोपितं तु रजतमस्य विषयो दृश्यमानाकारतयेति ।
अयं त्वभिप्रायः स्यात्, यादृशाकारेण व्यपदेशकोर्ऽथः तादृशादुत्पन्नं ज्ञानं प्रत्यक्षमिति ।
न त्वयं लक्षणपदानामर्थः ।
न चाभिप्रायविशुद्धिमात्रेण परः प्रतिपादयितुं शक्यते, प्रत्यभिज्ञास्वसंवेदनाव्यापकत्वाच्च ।

एतच्च जैमिनीये स्फुटीभविष्यति ॥
तदेतल्लक्षणमाभिप्रायिकमप्यस्मन्नये कदाचित् संभाव्येत, त्वन्नते तु विरुद्धमसिद्धं चेदमुक्तं वार्त्तिककृता ।
तदेतद् व्युत्पादयति--यद्यप्येतदिति ।
व्यपदेशको ह्यर्थो वर्तमानतया सर्वत्र प्रत्यक्षस्य विषयः ।
स चेद्धेतुरेवैवमतीतः स्यात् ।
तथा च प्रत्यक्षत्वे साध्ये ऽप्रत्यक्षत्वमेव सिध्यतीति भवति विरुद्धत्वमित्यर्थः ।
अथ वर्तमान एव व्यपदेशकस्तदा समानकालतया ततोर्ऽथादित्यसिद्धमाह--तत्समानेति ॥
यत्तु केनचित् प्रलपितम्--अपरोक्षज्ञानावभासितैव वर्तमानतेति, तत् तुच्छमित्युपेक्षितवान् ।
तथा ह्यपरोक्षैकसर्वज्ञविज्ञानावभासितया सर्वेषामर्थानामेककालत्वात् सव्येतरगोविषाणवत् कार्यकारणभाववार्तैवोच्छिद्येत ।
पूर्वोक्तश्चानुयोगस्तदवस्थ एवेति ॥
भिन्नकालं कथं ग्राह्यम्
इत्यादिना कार्यकारणभावविशेष एव ग्राह्यग्राहकभावः ।
स च भिन्नकालयोरेव भवतीति स्वभाषया समर्थितं परेण ।
न च वयं भिन्नकालयोः कार्यकारणभावविशेषम् अवजानीमहे; किं त्वतीतस्य वर्तमानतयावभासनं तस्य वा सत्यत्वम् ।
न च तदनेन समर्थितमित्यर्थः ॥
ननु ज्ञानाकारार्पणक्षममिति वदतैव समर्थितमेतत् ।
अनेने हि न प्रतिभासमानतयार्थो ग्राह्य इति व्यवह्नियते ।
किं नाम? आकारार्पकतयेति दर्शितम् ।
आकार एव त्ववभासममानतया ग्राह्यः, स च ज्ञानात्मभूततया वर्तमान एवेति न कश्चिद् विरोध इत्यत आह--अनहड्कारेति ।
विज्ञानाद् भिन्नस्य नीलादेरनुभवो
यदि सत्यो, न ज्ञानगताकारवेदनम् ।
असत्यश्चेन्न प्रतयक्षं प्रमाणमिति सेयमुभयतः पाशा रज्जुरित्यर्थः ॥
अपि च भवत्वाकारवेदनम्, भवतु वार्थस्याकारार्पकत्वं वा , तथापि
ततोर्ऽथाद्विज्ञानं प्रत्यक्षम्
इत्यसिद्धं लक्षणम् ।
तथा हि प्रतिभासमानस्यैव ज्ञानं व्यपदिश्यते, न त्वप्रतिभासमानस्य ।
आकारश्च प्रतिभासने न तु जनको ऽप्यर्थः ।
तस्माद् व्यपदेशकोन जनकः, जनकश्च न व्यपदेशक इति ॥
अत्र शङ्कते---न चेति ।
प्रतिभासमानाकारद्वारार्थो व्यपदेशको जनकश्चेत्यपि न चेत्यर्थः ।
कुतः?
भाक्तत्वप्रसड्गात् ।
किमतो यद्येवमित्यत आह---न च गौणमुख्येति ।
यथा ह्यविनाभावमन्तर्भाव्यैव गड्गाशब्दस्तीरे, लक्ष्यमाणगुणयोगमन्तर्भाव्यसिहशब्दो माणवके वर्तते, न तथा धूमप्रत्यक्षमग्नौ सिंहप्रत्यक्षं माणवके, प्रमाणान्तरोच्छेदप्रसड्गादित्यर्थः ।
तदिदमुक्तम्--भिन्नप्रस्थानत्वादिति ॥
एतेनैतदपि निरस्तम्, यदाहुः--प्रत्यक्षसिद्धेनाकारेण अर्थो ऽनुमीयत इति फलतः प्रत्यक्षोर्ऽथ इति ।
अनुमीयत इति कोर्ऽथः? अनुमितौ परिस्फुरतीति, तच्च बौद्धनये स्वप्ने ऽपि दुर्लभम्, अनुमितेरपि स्वाकारालीकयोरेवान्यतरस्मिन् पर्यवसितत्वात् ।
यश्च सर्वथैव ज्ञानागोचरः स व्यवह्नियत इति कुतः? तस्मादाकारवादपक्षेबाह्योर्ऽथो हेयः, तदभ्युपगमे वा आकारवाद इत्यनेनाभिप्रायेणाह--तस्मान्निराकारमिति ॥
शङ्कत इति ।
न हि किञ्चिद् वस्तुभूतं वाच्यं नाम सौगतानां समस्ति, लक्षणवाक्येन तु व्यवहारमात्रं प्रसाध्यते, स चातद्व्यावृत्तिनिष्ठ इत्यर्थः ।

ज्ञानस्य कल्पनापोढस्य प्रत्यक्षतया व्युत्पाद्यमानस्य कथं सर्वेर्ऽथा प्रत्यक्षतया प्रसज्येरन्नित्यत आह--न हीति ।
दिग्नागस्यातिव्यापकतया अलक्षणम्, कीर्तेस्त्वव्यापकतया विकल्पप्रत्यक्षानवरोधात्, तस्य च प्रत्यक्षतया व्युत्पादनात्, अनिष्टमात्रस्यातिप्रसञ्जकत्वादिति सिद्धान्तः ।
स्वदर्शनसमाधित्सया वार्त्तिकमिति दर्शयितुं चोदयति--ननु यदीति ।
सामान्यान्वितम्, अभिधीयत इति वार्त्तिकशेषः ।
मनुष्यत्वजातिमानित्यर्थ इति ।
मनुष्यशब्दस्य ब्राह्मणो ब्राह्मणत्वादिजातिमत्तया अवाच्यो ऽपि मनुष्यत्वजातिमत्तया वाच्य एवेत्यर्थः ॥
पौनरुक्त्यं परिहरन्नाह--अथाश्चकर्णेति ॥
ननु व्यत्यये ऽपि सत्संप्रयोग इति स्यात्, न तु तत्तच्छब्दस्य प्रकृततया विषयः कश्चिदस्तीत्याह--बुद्ध्येति ।
यद्यपि प्रत्यक्षज्ञानमप्यनेन लक्षणेन स्वात्मनि प्रत्यक्षं न स्यादेव, तथापीन्द्रियार्थसन्निकर्षजन्यत्वमात्रं तावत् तत्राप्यस्तीति कदाचित् परो ब्रूयादित्यत आह--अनुमानादीति ।
एतेन ततोर्ऽथादित्यस्याभिप्रायशेषो दूषितः, प्रत्यभिज्ञानस्वसंवेदनयोरव्यापकत्वादिति
॥ 4 ॥
अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोदृष्टं च ॥1.1.5 ॥
॥ परिशुद्धिः ॥
सूत्रं पठति ।
व्याख्यातुमिति शेषः ।
सूत्रावतारमात्रमसहमानं प्रत्याह---अत्रेति ।
साधर्म्येण हि नियमवतेति
शेषः ।
उपलक्षणं चैतत् ।
वैधर्म्येणेत्यपि द्रष्टव्यम् ।
अप्रामाण्यविधानं प्रामाण्यनिषेध एव ।
नाप्रत्यक्षं प्रमाणमित्यनेन हि विशेषनिषेधेन कण्ठतः अनुमानप्रामाण्यनिषेधोर्ऽथतः प्रत्यक्षप्रामाण्यविधिश्च विवक्षितः ।
न चैतदुभयमपि प्रमाणम् अन्तरेण सिध्यति ।
न चात्र प्रत्यक्षमेव प्रभवतीति चिन्तितमादिवाक्ये ।
नापि शब्दोपमाने, स्वप्रत्यये तयोरनवकाशात्, परप्रत्यये ऽपि धर्म्यसिद्धेः ।
सिद्धावपि परस्याप्तत्वानिश्चयात् ।
तस्मादतीन्द्रियविधिनिषेधयोरनुमानमनड्गीकृत्याशक्यत्वादशक्यापह्नवमनुमानमित्यर्थः ।
दृष्टसाधर्म्यं च नियतमिति शेषः ।
कथं तेनैव तस्याप्रामाण्यमिति व्याघातमात्रं विवक्षितम्? तेनायमर्थः---यद्यनु मानमप्रमाणम्, कथं तेनैव विधिनिषेधसिद्धिः? अथ तेन विधिनिषेधसिद्धिः, कथं तस्याप्रामाण्यमिति? किं चानुमानमनड्गीकृत्य परप्रत्यायनाय शब्दप्रयोगो ऽप्ययमशक्यः---परवेदनप्रतिपत्तेरव तदन्तरेणाशक्यत्वात् ।
न चेत् परप्रत्यायनम्, नूनमौन्मत्त्यमाविष्करोति वक्तुरित्याह---अपि चेति ॥
सूत्रे विभागो ऽप्यस्तीति व्यवच्छिद्याह--लक्षणसूत्रतात्पर्यमाहेति ।
स्यादेतदतिव्यापकमिति ।
अत्राव्यापकं चेत्यपि द्रष्टव्यम्, अत उभयव्युत्पादनोपसंहारविरोधः ।
विग्रहत्रयप्रदर्शनं विग्रहत्रयं द्रष्टव्यमित्यर्थः ।
व्याप्तिस्मृतिसहायाद् द्वितीयलिङ्गदर्शनादेवानुमितिसिद्धेरलं तृतीयलिङ्गदर्शनकल्पनयेति यथाश्रुतभाष्यानुसारिणः तान् रिस्यति न चेति ॥
स एष संस्कारोद्बोधमधिकमभ्युपगच्छतो दोष उक्तः ।
यस्तु सहकारिलाभादन्यो न कश्चिदुद्बोधो नामेति मन्यते, तं प्रत्याह--विनश्यदवस्थस्येति ।
न हि व्याप्तिस्मरणमात्रादनुमितिः, नापि लिङ्गदर्शनमात्रात् ।
किं तर्हि?
व्याप्तिविशिष्टलिङ्गदर्शनात् ।

न च व्याप्तिविशिष्टं लिङ्गमेकैकस्योभयस्य वा गोचरः, किं तु स्वतन्त्रमुभयमुभयस्य ।
न च स्वतन्त्रोभयज्ञाने ऽपि विशिष्टज्ञानं भवति ।
तदिदमुक्तम्--परस्परवार्तानभिज्ञतया स्वतन्त्रस्वस्वविषयपर्यवसिततया ।
मिथो घटनायोगो विशिष्टप्रत्यययोग इत्यर्थः ।
न च स्वतन्त्रमेतदुभयमेकात्मसमवायमात्रेणानुमिति भावयिष्यतीति वाच्यम् ।
द्वितीयलिङ्गदर्शनं हि वसतुगत्या लिङ्गविषयमित्येतावतैव व्याप्तिस्मृतेः सहकारिलिङ्गत्वरूपोल्लेखितया वा? न तावदाद्यः, दूराद् धूमविषयवस्तुत्वज्ञानस्यापि प्रकारान्तरायातव्याप्तिस्मृतिं प्रति सहकारित्वप्रसड्गात् ।
द्वितीयस्तु द्वितीयलिङ्गदर्शने
नास्त्येव ।
तदिदमुक्तम्--वृत्त्या सल्वयं घटयेत्, व्यापारेण न रूपतो नोभयसमवायितामात्रेणातिप्रसड्गादिति ॥
तस्मात् लिङ्गत्वोल्लेखि तृतीयं लिङ्गदर्शनमास्थेयमित्त्याह--तस्मादिति ।
इह तादात्म्यतदुत्पत्तिस्वरूपादिनिश्चये प्रतिबन्धनिश्चयस्तदा न स्यात् यदि ते एव प्रतिबन्धः, ताभ्यां समानोपायो वा प्रतिबन्धः, तयोरेव वा प्रतिबन्धपर्यवसानम्, ते एव वा प्रतिबन्धनिश्चयोपायः ।
तत्रोपायत्वं सहचारावसाये वा, व्यभिचारशड्कानिरासे वा, व्यभिचारशड्काप्युपाधिदर्शनाद् वा, उपाधिशङ्कया वा, भूयो भूयः सहचरितयोः अप्युलब्धयोः कयोश्चिदर्थयोर्व्यभिचारानुसन्धानमात्रेण वेति? तत्र च सहचारावसायः तावदिन्द्रियसन्निकर्षाधीनोत्पत्तिः तदुत्पत्त्यनिश्चये ऽपि वह्निधूमयोः सिध्यति, व्यभिचारशड्कापि दर्शनयोग्योपाध्यधीना योग्यानुपलम्भबाधादेव निरस्ता ।
अतीन्द्रियास्तु उपाधयः अन्यत्र प्रमाणपरिदृष्टाः शड्किता अपि यथा निवर्तन्ते, तथा वक्ष्यामः ।
प्रमाणपथानवतीर्णोपाधिशड्का तु तदुत्पत्तिनिश्चयमप्यास्कन्दतीति कथं सा
तेन निवर्तनीयेत्याह--अत्रोच्यत इति ।
सहचरितयोर्व्यभिचारदर्शनमात्रेण तु व्यभिचारशड्का कार्यकारणयोरपि समाना, तदुत्पत्तिलक्षणविशेषसिद्धौ विपक्षे बाधकप्रमाणवृत्त्या शड्गानिवृत्तिरिति यदि, तदास्माकमपि स्वाभाविकसंबन्धसिद्धौ विपक्षे बाधकप्रमाणवृत्त्यैव शड्कानिवृत्तिरिति समः समाधिः ।
विशेषस्तु स्वाभाविकसंबन्धस्य व्यापकत्वम्, अव्यापकत्वं तु तदुत्पत्त्यादेरित्याह--अपि चेति ।
तदिदमुक्तम्--स च यो वा स वेति ।
न च समानोपायत्वादुभयोरन्यतरानिश्चये नान्यतरनिश्चय इति साम्प्रतम्, प्रतिबन्धानिश्चये ऽपि हुताशभस्मनोः कार्यकारणभावावधारणात् ।
कार्यकारणभावानिश्चये ऽपि धामधूमयोः प्रतिबन्धावबोधात् ।
यदनतीतमेव वह्निमनुमिमत इत्याह--अपि च कार्यादिति ।
तयोरेव प्रतिबन्धः पर्यवस्यतीति पक्षं निराचष्टे--अपि च रसादिति ॥
यत्तु भेदे सति व्याप्यव्यापकाभाव एव कार्यकारणभाव एव कार्यकारणभाव इति व्युदपादि प्रज्ञाकरेण तत् पापादपि पापीयः ।
तथा हि नियामकविरहे भिन्नायोरव्यभिचारः शड्काकलड्काड्कितत्वात् दुरवधारण इति तामपनेतुं कार्यकारणभावो ऽनेनोपनीतः, स चेद् रूप एव कथं तन्निश्चयेनैवाव्यभिचारनिश्चयः?
न चैतत् कीर्तेरनुमतं यद् रसेन रूपानुमाने ऽन्यथाभ्युपायमाह--यदि च सर्वलोकसिद्धमतिवाह्य स्वयङ्कृतलक्षणैर्व्यवहारः, तदा भेदे सतीत्येतदपि परिहीयताम् ।
अव्यभिचारमात्रं तदुत्पत्तिरित्येवास्तु ।
लघु चैवं सति लक्षणं स्यात् ।
तदात्मनो ऽपि एतदस्तीति चेत्? अस्तु शिशपापि वृक्षकार्यम् ।
कथं तेनैव तत्कर्तव्यमिति चेत्? को दोषः? असिद्धं सिद्धेन साध्यते, नतु तदेव सिद्धमसिद्धं चेति चेत्? हन्तैवमनागतमपि कथं व्यापकतामात्रेण कारणमसिद्धत्वात्? वर्तमानमपि कथं व्याप्यतामात्रेण कार्यं सिद्धत्वात्? एवं समानकाले ऽपि कथमविनाभावमात्रेण कार्यकारणभूते, असिद्धावस्थायामुभयोरप्यसाधकत्वाविशेषात्, सिद्धावस्थायामुभयोरप्यसाध्यत्वाविशेषात्? तस्मात् पूर्वकालभावनियमः कारणत्वं कश्चाद्भावितानियमः कार्यत्वम् ।
अविनाभावस्तु नियममात्रमित्येव ज्यायः ॥
अपि च रसरूपयोः कार्यकारणभावनिश्चयो वह्निधूमयोरिव प्रत्यक्षानुपलम्भसाध्यो वा स्यात्, क्षणभङ्गसिद्धौ पुञ्जात् पुञ्जान्तरोत्पात्तिरिति न्यायेन वा? आद्यस्तावत् क्षणयोरशक्य एव, तयोरेव प्रत्यक्षानारोहात् ।
तत्र तस्यानिश्चायकत्वात्, सन्तानयोरपि दुरवबोधः ।
न हि वह्नेरिव रूपस्य पूर्वकालतानियमं धूमस्येव रसस्य प्रश्चाद्भावितानियमं लौकिकाः प्रतिपद्यन्ते ।
क्षणभङ्गसिद्धिन्यायस्तु न लौकिक इति वस्तुतो लौकिकानां रसतो रूपानुमानं न स्यादित्याह---लौकिकानां चेदमिति ॥
अपि च इत्यनेन ते एव प्रतिबन्ध इति निरस्तम् ।
तादात्म्यं तु गम्यगमकभावे प्रत्युत विरुद्धमित्याह--अपि चेति ।
न हि तदेव कर्म निश्चेयम्, कर्तृ च स्वनिश्चयेन निश्चायकं च, निश्चितानिश्चितयोः परस्परविरोधादित्यर्थः ।
भवत्वभेदे ऽपि गम्यगमकभावः, तथापि न शिशपात्वेन वृक्षत्वानुमानमनवसरदुस्थात्वात् ।
न ह्यस्ति संभवः सामान्यमनिश्चितं निश्चितस्तु विशेष इत्याशड्क्य केनचित् समर्थितम् उत्थाप्य दूषयति---यत्विति ।
भिन्नयोरेव व्यावृत्त्योर्गम्यगमकभावः किं त्वभिन्नाध्यवसेयसंबन्धात् तयोरपि तादात्म्यं व्यवह्नियत इति ।

स यद्यभिन्नदेवदत्तसंबन्धात्, छत्रकुण्डलयोरप्यभेदं व्यवहरति को वारयिता? केवलं प्रमाणप्रयोजनयोर्व्यावृत्तिर्लौकिकविरोधश्चेत्यनेनाभिप्रायेणोपसंहरति---तस्मादित ॥
अस्येदं कार्यं कारणमित्येकः संबन्धः ।
स्वाभाविकं संबन्धमुपसंहृत्य तस्य स्वरूपमाह---तथा हीति ।
स्वाभाविको निरूपाधिरित्यर्थः ।
यद्यपि व्यभिचाराव्यभिचारव्याप्ते औपाधिकत्वानौपाधिकत्वे, ताभ्यां च
व्यभिचाराव्यभिचाराविति नियमः ।
तौ हि न तावन्निर्निमित्तौ सार्वत्रिकत्वप्रसड्गात्, नियतविषयौ चोपलभ्येते ।
नाप्यनिमित्तौ ।
सोपाधेरप्यव्यभिचारे निरूपाधेरपि व्यभिचारे अनियमप्रसड्गात्, , तथा सति कार्यात्मनोरपि कारणात्मव्यभिचारः प्रसज्येत ।
तस्मादुपाधाववश्यं व्यभिचारो ऽनुपाधौ अवश्यमव्यभिचारः ।
व्यभिचारे ऽवश्यमुपाधिरव्यभिचारे ऽवश्यमुपाध्यभावः ।
तथापि यत्र स्फुटो व्यभिचारस्तत्र निष्फलमुपाध्यनुसरणं तदर्थत्वात् तस्य ।
अस्फुटे तु व्यभिचारे तस्योपयोगः ।
न तूपाधितदमावसिद्धये व्यभिचाराव्यभिचारपर्येषणमुपयुज्यते ।
व्यभिचारादिसिद्धौ सत्यामुपाधितदभावपरीक्षाया निष्फलत्वात् ।
तस्मादन्योन्यव्याप्तिप्रदर्शनमात्रप्रयुक्तो व्यभिचारमुद्भाव्याप्युपाधिमाह--यदा त्विति ।
यतो न स्वाभाविको न निरूपाधिकः, ततो न नियतो नाव्यभिचारीत्यर्थः ॥
अथ धूमादीनामपि वह्न्यादिभिः कथं स्वाभाविक इत्यत आह---स्वाभाविकस्त्विति ।
नन्वस्फुटे व्यभिचारे
सफलमुपाध्यनुसरणम् ।
तत् किमत्र नासौ स्फुट इत्यत आह---क्वचिद्व्यभिचारस्यादर्शनादिति ।
ननु क्वचित् कदाचिद् व्यभिचारो ऽपि स्यादयोग्यत्वाच्च न दृश्येतापीत्यत आह---अनुपलभ्यमानस्यापि कल्पनानुपत्तेः, अनुपलभ्यमानव्यभिचारकल्पनाद्वारीभूतोपाध्यभावादित्यर्थः ।
अतो नियतः अव्यभिचारीत्यर्थः ॥
ननूपाध्यभावे ऽनुपलभ्यमानव्यभिचारकल्पनानवकाशः, स एव तूपाध्यभावः कुतस्त्य इत्याशङ्कते---न चेति ।
परिहरति---अवश्यमिति ।
उपाधिर्हि प्रमाणपदवीमवतीर्ण एव वक्तव्यः ।
अन्यथा सर्वैः प्रमाणैः सर्वदा सर्वत्र सर्वेषां जात्या कश्चित् अनुपलभ्यमानो ऽपि स्यादुपाधिरिति शड्का तदुत्पत्तावपि ब्रह्मणाप्यपनेतुमशक्या ।
नानाप्रमाणगोचरार्थसाक्षात्कारवतः सर्वज्ञस्यापि स्वभावत एवानुपलभ्यः कश्चिदर्थो भवेत्, भवेच्च सर्वप्रमाणापोढमपि कदाचिदद्वैतम्, प्रकृतिपुरुषौ वा, निःस्वभावता वा जगतः, वेदानां वाप्रामाण्यम् ।
तत् कथं चैत्यवन्दनादावपि भिक्षुः प्रवर्तेत? अर्थसन्देहात् प्रवृत्तिरिति चेत्? यत्र प्रमाणानि परिभूय शड्कापिशाची प्रसरति कुतस्तत्रार्थसंभावनापि? आस्तां तावत् परलोकप्रवृत्तिः, इहलोकप्रवृत्तिरपि न
स्यात् इत्याह---अन्तत इति ॥
यद्यपि विशिष्टाहारानन्तरं भूयो भूयः पुष्टिधातुसाम्यादि दश्यते, मरणं तं रोगाद्यनन्तरमेव, तथापि आहारविशेषो मरणस्यैव हेतुः कदाचिद् भवेत्, कथमन्यथान्ते तदन्तरमस्योपलम्भः ।
यत्त्वियन्तं कालं न मारितवान्
तन्मन्त्रप्रतिबद्धवह्निवत्, केनचित् प्रतिबद्धत्वात् ।
स एव प्रतिबन्धकः पुष्ट्यादिहेतुरित्यपि संभाव्येत ।
रोगादिकमेव च पुष्ट्यादिहेतुः, तत्तु पुष्ट्यादिकाले अदृश्यत्वादेव नापलभ्यते ।
न हि पुष्ट्यादिकारणैर्दृश्यैरेव भवितव्यमित्यपि कदाचित् स्यात्, यथा चाप्रामाणिकोपाधिशड्क्या व्यभिचारित्वशङ्कया वा अनुमाननिवृत्तिः, तथाप्रामाणिकानर्थशङ्कयैव विशिष्टाहारभोजनादिनिवृत्तिरित्यर्थः ।
तस्मादुत्प्रेक्षितार्थनिश्चयवत् तच्छड्कापि बन्ध्यैव, प्रमितस्यैव तु निश्चयवत् शड्कापि समीहोपयोगिनीत्याह---तस्मादिति ॥
तदयं संक्षेपः ।
व्यभिचार एव प्रतिबन्धाभावः ।
उपाधेरेव व्यभिचाराशड्का ।

प्रमाणनिश्चित एवोपाधित्वेन शङ्कनीयः ।
साधने सोपाधिः साध्ये निरूपाधिरेव उपाधित्वेन निश्चेयः ।
अतो ऽन्यश्चान्यथात्वेनेति ।
प्रमाणपरिदृष्टेष्वेव कश्चिदुपाधिर्भविष्यतीत्यत आह---प्रयत्नेनेति ॥
अयं प्रयत्नार्थः ।
प्रत्यक्षोपलभ्यास्तावद् योग्यानुपलब्धेरेव निरस्ताः ।
प्रमाणान्तरपरिदृष्टानामपि व्यापकानामुपाधित्वे वह्नेः सार्वत्रिकत्वप्रसङ्गः ।
अव्यापकानमपि नित्यानाम् उपाधित्वे बह्नेः सदानुवृत्तिप्रसङ्गः ।
अनित्यास्तु त्रिविधाः उभयाव्यभिचारिणः, उभयव्यभिचारिणः, अन्यतराव्यभिचारिणश्चेति ।
तत्र प्रथमद्वितीया उपाधिलक्षणाभावादेव नोपाधयः ।
अन्यतराव्यभिचारिणश्च द्विविधाः---धूममात्राव्यभिचारिणो वह्निमात्राव्यभिचारिणश्चेति ।
पूर्वे लक्षणाभावादेव नोपाधयः ।
वह्निमात्राव्यभिचारिणो ऽपि द्विविधाः, व्याप्यमात्ररूपा उभयरूपाश्चेति ।
पूर्ववदेव पूर्वे ।
उभयरूपास्तु सामग्रीतः ।
नापि परे विद्यन्ते ।
सा च न क्वचिदुपाधिः, धूमस्य वह्निनेव तयापि स्वभावसंबन्धात् ।
वह्निजननसामग्र्यां वह्नेरप्यन्तर्भावाच्च ।
न च कृतकत्वानुष्णत्वयोः संबन्धे तेजोजातीयेतरत्ववदिहापि साध्यधर्मजातीयेतरत्वमुपाधिः, तस्य प्रमाणबाधैकमात्रनियतत्वात् ॥
अत एव उपाधिमपश्यन्तो ऽपि विरोधिप्रमाणसदसद्भावनिश्चयव्यग्रतया मुहूर्तम् अनुमितौ विलम्बामहे ।
तदेवं सर्वथोपाध्यनुपलम्भात् तदभावनिश्चयो यथा धूमसंबन्धे तथान्यत्रापि द्रष्टव्यः ।
तर्कश्च सर्वशड्कानिराकरणपटीयान् विजयत इति ॥
ननु प्रमाणसिद्धे वस्तुनि स्वभावो ऽवलम्बनम्, न तु स्वभावावलम्बनेनैव वस्तुव्यवस्थेत्याशयवान् पृच्छति---केन पुनरिति ।
प्रथमदर्शनेनैव वह्निधूमयोः अव्यभिचारग्रहणम्, द्वितीयादिभिस्तु शड्कामात्रमपनीयत इति केषाञ्चिन्मतमपनयन्नेव प्रकृतं प्रपञ्चयति---यदा तावदिति ।
अत्र चैष परमार्थः ।
यो ऽयमुपाधिमादाय येन सह संबध्यते स निरूपाध्यवस्थायां तस्यागमको यथा वह्निर्धूमस्य ।
सोपाध्यवस्थायामप्युपाधेः, केवलस्यैव सामर्थ्ये स एव गमको न तूपहितः ।
यथाहारपरिणतिभेदस्यैव गमकत्वे मैत्रतनयत्वम् ।
यत्र तूपाधिः केवलो व्यभिचारी तत्र सोपाधिरपि गमक एव ।
यथार्द्रेन्धनवान् वह्निर्धूमस्येति ।
तत् कस्य हेतोः? विशिष्टस्य निरूपाधित्वादिति भूयोदर्शनमिति ।
तज्जनितसंस्कारसहितमिन्द्रियमित्यर्थः ॥
अग्रे चैतदेव स्फुटीकृतमित्यविरोधः ।
मणिभेदतत्त्ववदिति ।
यथा मणिर्यैर्यैर्विशेषैः तत्तद्व्यवहारविषयो भवति, धारयितुश्च तत्तत्फलभेदसंपादकश्चोन्नीयते, ते ते सूक्ष्मा विशेषाः परीक्षकैर्भूयोभिर्दर्शनैरून्नीयन्ते, तथात्रापीति ।
तथा
हि, प्रथमतस्तावद् भूयोदर्शनं काकतालीयन्यायव्युदासाय ।
ततः सातत्योर्ध्वगत्यादिविशेषावसायाय ।
तत उपाधिशड्कानिराशाय ।
अत्र च न वारंसख्यानियमे ऽभ्युपयोगः, मृदुमध्याधिमात्रबुद्धिभेदेन पुंसां विचित्रशक्तित्वात् ।

न चैवं सति लक्षणशास्त्रवैयर्थ्यम्, अनियतवारविशिष्टतत्त्वसाक्षात्कारावधियोगाभ्यासोपदेशवदिहापि निरूपाधिसंबन्धबोधावधिनियमात् ।
कार्यकारणभावावगमे ऽप्ययमेव मार्गो, न तु पञ्चप्रत्यक्षानुपलम्भाः ।
अन्यतो ऽनागतस्य तत्रासतस्तदनन्तरम् उपलम्भे ऽपि ततो ऽन्यस्मादनुत्पत्तेः भावमात्रेण निश्चेतुमशक्यत्वात् ; काकतालीयन्यायेनापि संभवात् ।
भूयःप्रवृत्तौ तु यदि न व्यभिचारोपलम्भः, उपाध्युपलम्भो ऽपि न स्यात्, द्वयोपगमे तु तन्नियतः संबन्ध इति ॥
स्यादेतत् ।
धूमादीनां मैत्रतनयत्वादीनां च भूयोदर्शनत्वाविशेषे ऽपि कुतो विशेषादेकस्य गमकत्वमपरस्य नत्यत आह---न चेति ।
यत् त्वत्रोक्तम्, यथा ह्यनार्देन्धने वह्नौ न धूम इति वह्नेस्तत्संबन्धे तथाविधमिन्धनमुपाधिः ।
तथा यदि मैत्राज्जातस्यापि कस्यचिद् विवक्षिताहारपरिणतिविरहेण श्यामतोपालप्स्यत स
उपाधिर्निरचेष्यत ॥
न त्वेतदस्ति ।
तथा सत्यपि चोपाधिवादो व्यर्थः, व्यभिचारादेव मैत्रतनयस्याहेतुत्वादिति ।
तदिदमनवधारितोपाधिलक्षणस्य साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं न किञ्चिदेव ॥
तथा हि नोपहितस्य निश्चित एव साध्यव्यभिचारः, उपाधेर्लक्षणं किं नाम? साधनाव्यापकत्वे सति साध्यव्यापकत्वम् ।
तच्च साध्याभिमतधूमश्यामत्वे प्रति व्यापकत्वेम् आर्द्रेन्धनान्नपानपरिणतिभेदयोरविशिष्टम्, अविशिष्टं च साधनाभिमतदहनमैत्रतनयत्वे प्रति तयोरव्यापकत्वम् ।
इयांस्तु विशेषः, वह्नेर्धूमेनेवार्द्रेन्धनेनापि साक्षादेव विनाभाव उपलभ्यते ।
मैत्रतनयस्य तु श्यामत्वेनेवान्नपानपरिणामेनाप्युपाधेरेवोन्नीयत इति ।
ननु वज्रे लोहलेख्यत्वं प्रति पार्थिवत्वहेतोः क उपाधिः? प्रशिथिलावयवत्वम् ।
तर्हि तन्निवृत्तौ पवेरिव स्फटिकादावपि लोहलेख्यत्वनिवृत्तिप्रसङ्गः ।
न खलु निबिडावयवत्वेन उभयोः कश्चिद् विशेषः ।
न मृदादिभ्यो निबिडावयवत्वे ऽपि स्फटिकस्य प्रशिथिलावयवत्वादेव ।
न ह्यद्भ्यो मेदिनी निबिडेति न प्रशिथिलावयवा ।
इयांस्तु विशेषः ।
यथा यथा शैथिल्यापकर्षस्तथा तथा लेखितुः प्रयत्नप्रकर्षः ।
यदि तु शैथिल्यमप्रयोजकं तदा मृत्काष्ठपाषाणादिषु प्रयत्नप्रकर्षो ऽपि विफलः, पार्थिवत्वस्य सर्वत्राविशेषात् ।
स्फटिके कथमेषा प्रतिपत्तिरिति चेत्? लोहलेख्यत्वादेव ।
लोहलेख्यत्वप्रशिथिलावयवत्वयोः समव्याप्तिकत्वात् ।
अत एवानयोरेकतरप्रवृत्तिनिवृत्त्योरेवान्यतरप्रवृत्तिनिवृत्ती, न तु पार्थिवत्वप्रवृत्तिनिवृत्त्योरेव लोहलेख्यत्वप्रवृत्तिनिवृत्ती, वज्रे ऽदर्शनात् ; जलादौ दर्शनाच्च ।
वह्नावनुष्णत्वसाधनस्य तु कृतकत्वस्य तज्जातीयेतरत्वलक्षणमुपाधिः, स च बाधैकनियतविषय इति नातिप्रसङ्ग इत्युक्तम् ।
तदेतत्सर्वं हृदि निधायाह---इत्यादय इति ॥
यद्यपि द्वितीयलिङ्गदर्शनस्य स्मृत्या सह विनश्यदवस्थस्यैव परामर्शजनकत्वं क्वचित्, तथापि यत्र दृष्टमात्र एव वह्निनिवृत्तौ निवृत्तो धूमः कालान्तरे जिज्ञासावशात् परामृश्यते, तत्र द्वयोरपि लिङ्गदर्शनयोरतीतत्वमित्याशयवतोक्तम्---यद्यपीत्यादि ॥
येन च परामर्शो नेष्यते तेन वाक्यस्य चतुर्थो ऽवयव अपनयो ऽपि नेषितव्यः ।
पक्षधर्मताप्रतिपादनेन तस्योपयोगः परार्थानुमाने ।
स्वार्थानुमाने तु सा द्वितीयलिङ्ग दर्शनादेवावगतेति किं परामर्शेनेति चेत्---न, पक्षधर्मता हि व्याप्त्या सह प्रतिसंहितानुमानोपयोगिनी, तादृशी चोपनयेन प्रदर्श्यते, न तु द्वितीयलिङ्गदर्शनेन ।
तस्य तु व्याप्त्यनुसन्धानरहितं पक्षधर्मतामात्रमेव गोचरः ।
न च तदनुमानोपयोगि ।
तस्मादुपनयार्थो न द्वितीयलिङ्गदर्शनविषयः ।
ततः स्वार्थानुमाने यद्यस्ति तस्योपयोगः, नूनं परामर्शो ऽपि तृतीयः स्वीकर्तव्यः ।
नास्ति चेत्, परार्थानुमाने ऽपि लिङ्गपरामर्शैकार्थः उपनयो ऽपि नादरणीयः, तुल्यविषयत्वादित्याशयवान् संकलय्यानयोः समानविषयत्वमाह---संबन्धेति ॥
ननु व्यापारानुबन्धितया विषयत्वम्, विषयत्वे च व्यापारानुबन्ध इति परस्पराश्रयत्वम् ।
अथ व्यापारानुबन्धितयैव विषयत्वम्? तथाप्यसंबद्धत्वाविशेषात् कथं तस्यैव व्यापारानुबन्धितेत्याशड्क्य परिहरति--न चातिप्रसङ्ग इति ।

न धूमज्ञानस्याग्निः स्वतन्त्रस्य व्यापारविषयो येनासंबद्धत्वाविशेषादतिप्रसङ्गः स्यात्, किं तु ज्ञेयविशेषणस्य, तस्य च ज्ञायमानस्य धूमस्याग्निना सह नियामकः स्वभावसंबन्ध एव, अतो नातिप्रसङ्गः इत्यर्थः ॥
पूर्वं लक्ष्यपदार्थप्रश्नावसरे अनुमीयते ऽनेनेति कारणार्थ इत्युत्तरं दत्तम् ।
इदानीमनुमितिः कस्याञ्चिदवस्थायामनुमानं प्रमाणं भवेन वेति विज्ञासाप्रश्ने भावः करणं वेत्युत्तरम् ।
अतो न विरोधो ऽशतः, पौनरूक्त्यं वा ।
अतः टीकाकृद् अपि व्यापारत्वेनाप्रमाण्यं पूर्वपक्षयित्वा फलान्तरहेतुत्वेन प्रामाण्यं समर्थयति स्म ।
इह यद्यपि विज्ञानप्रमाणयोरन्यतराधिकारेण संस्कारनिर्णययोर्व्युदासः, विज्ञानाधिकारे हि तत्पूर्वकम् अनुभवकारणमनुमानमिति सूत्रसंबन्धः ।
न चैवंभूतौ संस्कारनिर्णयविशेषौ, तयोरनुभवं प्रत्यहेतुत्वात् ।
प्रमाणाधिकारऽपि फलतः स एवार्थः, तत्पूर्वकं प्रमाकरणमनुमानमिति सूत्रसंबन्धात् ।
तथापि विवक्षाभेदात् विकल्पेनोभयमुभयत्र संभन्त्स्यत इति विवक्षित्वा एकैककनिष्ठतयैकैकं दर्शितमिति तथैव व्याख्यातवान् ।
वस्तुतस्तु उभयमुभयत्र संबद्धम् इति निगर्वः ।
विपक्षावृत्तिरिति वार्त्तिके बहुव्रीहिसमासस्थितो विशेषणतया व्यतिरेको निष्कृष्य स्वप्रधानतया तत्पुरुषपदेन प्रदर्शितो विपक्षावृत्तिर्व्यतिरेक इति ।
अतो न वार्त्तिके हेतुसामानाधिकरण्यविरोधः ।
व्यतिरेकाभावं व्यतिरेकनिरूपणाभावम् इत्यर्थः ।
इहावस्तुनो विधिनिषेधव्यवहारविषयत्वं लौकिकसमीहानुरोधाद् वा,
शुक्तिरजतवद्रज्जुसर्पवच्च प्रमाणानुरोधाद्, वा गन्धं प्रति पृथिवीवदुदकवद् वा, वचनमात्रानुरोधाद् वा प्रधानवत् शशविषाणवच्च, मूढप्रश्नानुरोधाद् वा धर्मान्तरं प्रति पूर्ववदेव स्ववचनविरोधभयाद् वेति ॥
तत्र प्रथमस्तावदवस्तुन्यसंभवी, लौकिकप्रवृत्तिनिवृत्त्योर्वस्तुमात्रविषयत्वात् द्वितीयादिष्वेव च परम्परया प्रविशतीति न
पृथक् निराक्रियते ।
द्वितीयनिराकरणाय प्रामाणिकनिषेधव्यवहाररीतिमाह---सद्भ्यामिति ।
यदि तद्विविक्तेतरस्वभावो ऽभावो यदि चोमयथातिरिक्तस्वभावः, उभयथापि निषेध्यनिषेधाधिकरणाभ्यामेव निरूप्यते, न त्वेकेन सता निषेध्येन निषेधाधिकरणेन वेत्यर्थः ॥
ननु सत एव कुतश्चित् प्रमाणप्रतीतान्निवर्त्स्यतीत्यत आह---पक्षादन्यस्येति ।
तदनेनासत्यधिकरणे निवृत्तिनिरूपणं प्रतिषिद्धम्, निवृत्तौ तु मूकतैवोचितेति हृदयम् ।
निवृत्तिरेव प्रतिषिद्धेति ।
भ्रान्तस्तु चोदयति---न निवर्तते चेदिति ।
निरूपणम् आदायैव परिहरति---यस्येति ।
यत्र खलु भावः सर्वथैव न निरूपितः तदधिकरणतया
तस्यान्यत्रोपलब्धस्याभावो निरूप्यत इति दृष्टम्, यथा गवि दृष्टस्य श्रुङ्गस्य शशे ।
यत्र तु शृड्गाभावो ऽपि गगनकमलादौ निरूपयितुं न शक्यते, तत्र शृङ्गमेव निरूप्यत इत्यलौकिकमित्यर्थः ।
पुनर्भ्रान्तः शङ्कते--तत् किमिदानीमिति ।
स्ववचनविरोधभयमाशङ्कते--ननु चेति ॥
तदुक्तं ज्ञानश्रिया
धर्मस्य कस्यचिदवस्तुनि मानसिद्धा
बाधाविधिव्यवहृतिः किमिहास्ति नो वा ।
क्काप्यस्ति चेत् कथमियन्ति न ढूषणानि
नास्त्येव चेत् स्ववचनप्रतिरोधसिद्धिः ॥
इति ।
यद्यपि स्ववचनविरोधभियापि सर्वथाविचारासहोर्ऽथः स्वीकर्तुं न शक्यते, वचनाद् विचारो गरीयानिति न्यायात्, अन्यथा विकल्पशब्दौ न वस्तुगोचराविति स्ववचनविरोधादेव परिहर्तव्यम् ।
तथा हि स्वलक्षणस्यासाधारण्येनाशक्यसमयगोचरतया, शब्दस्य च समयाधीनप्रवृत्तिकतया विकल्पस्य च तदेकविषयतया
न तयोर्वस्तुगोचरत्वमिति विचारे,
शब्दस्य काचिदपि वस्तुनि मानसिद्धा
बाधाविधिव्यवहृतिः किमाहास्ति नो वा ।

अस्त्येव चेत् कथमियन्ति न दूषणानि
नास्त्येव चेत् स्ववचनप्रतिरोधसिद्धिः ॥
इति तुल्या विभीषिका ।
तथापि तत्त्वं निरूपयन् परिहरति---न वै तत्त्वत इति ॥
ननु यदि नैकतरनिषेधो विधिर्वा तत् किमुभयविधिः निषेधो वा? तथा सति अतितरा दुर्घटमापद्येतेत्यत आह---नो खल्विति ।
ननु सर्वव्यवहाराभाजनमित्यपि निषेधव्यवहारभाजनत्वेनैव निर्वहेत्, अन्यथा पुनरपि स्ववचनप्रतिरोध इत्यत आह---उपयोगे वेति ।
स्ववचनप्रतिरोधभयाद्धि तदा निषेधव्यवहारगोचरत्वस्वीकारः स्याद्
यदि तथा सति भयं निवर्तेत ।
न त्वेतदस्ति ।
नो खलु सकलव्यवहाराभाजनं च तन्निषेधव्यवहारभाजनं चेति वचनं
परस्परमविरोधि ।
विधिव्यवहारमात्राभिप्रायेणाभाजनत्वव्यवहारे कुतो विरोध इति चेत्? हन्त ! सकलविधिनिषेधव्यवहाराभाजनत्वेन किञ्चिद् व्यवह्नियते न वा? उभयथापि स्ववचनविरोधः ।
उभयथाप्यवस्तुनैव तेन भवितव्यम्, वस्तुनः सर्वव्यवहारविरहानुपपत्तेः ।
नेति पक्षे सकलविधिनिषेधव्यवहाराभाजनमित्यनेनैव व्यवहारेण विरोधात्, अव्यवहृतस्य निषेद्धुमशक्यत्वात् ।
व्यवह्नियत इति पक्षे तु विषयस्वरूपपर्यालोचनेनैव विरोधात् ।
न हि सर्वव्यवहाराभाजनं च व्यवह्नियते चेति च ॥
अपि च यद्यवस्तुनो निषेधव्यवहारगोचरत्वम्, विधिव्यवहारविषयतापि किं न स्यात्? प्रमाणाभावस्योभयत्रापि तुल्यत्वात् ।
बन्ध्यासुतस्यावक्तृत्वे ऽचेतनत्वादिकमेव प्रमाणम्, वक्तृत्वे तु न किञ्चिदिति---चेत्---न, तत्रापि सुतत्वस्य विद्यमानत्वात्, न हि बन्ध्यायाः सुतो न सुतः ।
तथा सति स्ववचनविरोधात् ।
वचनमात्रमेतन्न तु परमार्थतः सुत एवासाविति चेत्? अचेतनस्याप्येवंरूपत्वात्, चेतनादन्यत्
स्वभावान्तरम् एवाचेतनमित्युच्यते ।
चैतन्यनिवृत्तिमात्रमेव विवक्षितमिह, तच्च संभवत्येवेति चेत्---न तत्राप्यसुतत्वनिवृत्तिमात्रस्यैव विवक्षितत्वात् ।
असुतत्वनिवृत्तिमात्रस्य स्वरूपतः कृतिज्ञप्त्योरसामर्थ्ये समर्थमर्थान्तरमवसेयम् अनन्तर्भाव्य कुतो हेतुत्वमिति
चेत्---न, अचैतन्ये ऽप्यस्य न्यायस्य समानत्वात् ।
व्यावृत्तिरूपमपि च तदेव गमकं यदतस्मादेव, यथा शिंशपात्वम् ।
बन्ध्यासुतस्त्वसुतादिव घटादेः, सुतादपि देवदत्तादेः व्यावर्तते, अतो न हेतुरिति चेत्? नन्वचैतन्यमप्यस्यैवं रूपमेव ।
न हि बन्ध्यासुतश्चेतनादिव देवदत्तादेरचेतनादपि काष्ठादेर्न व्यावर्तते ।
अतो न हेतुरिति ।
वक्तृत्वं वस्त्वेकनियतो धर्मः स कथमवस्तुनि साध्यो विरोधादिति चेत्? स पुनरयं विरोधः कुतः प्रमाणात् सिद्धः, किं वक्तृत्वविविक्तस्यावस्तुनो नियमेनोपलम्भात्, आहोस्वित् वस्तुविविक्तस्य वक्तृत्वस्यानुपालम्भादिति? न तावदवस्तु केनचित् प्रमाणेनोपलम्भगोचरः ।
तथात्वे वा नावस्तु ।
नाप्युत्तरः समानत्वात् ।
न ह्यवक्तृत्वमपि वस्तुविविक्तं कस्यचित् प्रमाणस्य विषयः ।
तद्विविक्तविकल्पनमात्रं तावदस्तीति चेत्?
तत्संसृष्टिविकल्पने ऽपि को वारायिता?
ननु वक्तृत्वं वचनं प्रति कर्तृत्वम्, तत् कथमवस्तुनि, तस्य सामार्थ्यविरहलक्षणत्वादिति चेत्? अथावक्तृत्वमपि कथं तत्र, तस्य वचनेतरकर्तृत्वलक्षणत्वात् ।
सर्वसामर्थ्यविरहे वचनसामर्थ्यविरहो न विरुद्ध इति चेत्? अथ सर्वसामर्थ्यविरहो बन्ध्यासुतस्य कुतः प्रमाणात् सिद्धः? अवस्तुत्वादेवेति चेत्? नन्वेतदपि कथम्? सर्वसामर्थ्यविरहादेवेति चेत्? सोयं केवलैर्वचनैरितस्ततो निर्धनाधमर्णिक इव साधून् भ्रामयन् परस्पराश्रयदोषमपि न पश्यति ॥
क्रमयौगपद्यविरहादिति चेत् न, तद्विरहसिद्धावपि प्रमाणानुयोगस्यानुवृत्तेः ।
सुतत्वे च परामृष्यमाणे तदविनाभूतसकलवक्तृत्वादिधर्मप्रसक्तौ कुतः क्रमयौगपद्यविरहसाधनस्यावकाशः? कुतस्तरां चावस्तुसाधनस्य? कुतस्तमां चावक्तृत्वादिसाधनानाम्? ततश्च प्रमाणमेव सीमा व्यवहारनियमस्य, तदतिक्रमे त्वनियम एवेत्यनेनाभिप्रायेणेदमुक्तम् ।
उपयोगे वा निषेधव्यवहारोपयोगे वा ।
न निरूपाख्यो न विधिव्यवहाराविषयः ।

यस्मिन् किञ्चिन्निषिध्यते प्रमाणेन, तस्मिन् किञ्चिद् विधीरऽपीति नियमादित्यर्थः ।
तत्र प्रष्टुरूत्तरे वक्तव्ये न
विरुद्धमनर्थकं वा वक्तुमुचितमित्याशयवानाह---कसतर्हीति ।
उत्तरम्---अथेति ।
अनुत्तरविषये अहृदयैर्यदेवोत्तरीक्रियते, तदेव विरुद्धमित्यर्थः ॥
न च केवलमत्रोत्तरदः, प्रष्टाप्यहृदय एव ।
न ह्यप्रतीते देवदत्तादौ स किं गौरकृष्णो वेति वैयात्यं विना प्रश्नः ।
तत्रापि यद्येको ऽप्रतीतपरमार्थविषय एवोत्तरं ददाति न गौर इति, अपरो ऽपि किं न दद्याद् गौर इति? न चैवं सति काचिदर्थसिद्धिः, प्रमाणाभावविरोधयोरूभयत्रापि तुल्यत्वात् ।
तदिदमुक्तम्---अहृदयवाचामिति ।
नन्वप्रतीते व्यहाराभाव इति युक्तम्, कूर्मरोमादयस्तु प्रतीयन्त एव ।
न ह्येते विकल्पाः कञ्चिदर्थभेदमनुल्लिखन्त एवोत्पद्यन्ते ।
न च प्रमाणास्पदमेव व्यवहारास्पदमित्यस्ति नियम इत्यत आह---न चात्यन्तेति ।
यद्यपि सर्वथाप्रतीते व्यवहाराभाव इति वदतो बौद्धस्यापि स्ववचनविरोध एव, तथाप्ययं विरोधः प्रागेवोद्भावितप्राय इत्येनमुपेक्ष्य शड्कामात्रं समर्थितम् ॥
तथा हि शशविषाणमिति ज्ञानमन्यथाख्यातिः स्यादसत्ख्यातिर्वा? न तावदाद्यस्ते रोचते, तथा सति किञ्चिदारोप्यं किञ्चिदारोपविषय इति स्यात् ।
तथा चारोपविषयस्तत्रैवास्त्यारोपणीयं त्वन्यत्रेति जितं नैयायिकैः ।
नापि द्वितीयः, कारणानुपपत्तेः ।
इन्द्रियस्य ज्ञानजनने स्वविषयाधिपत्येनैव व्यापारात्, लिङ्गशब्दाभासयोरप्यन्यथाख्यातिजनकत्वात् ।
अपहस्तितस्वार्थयोश्चासत्ख्यातिजनकत्वे शशविषाणशब्दात् कूर्मरोमादिविकल्पानामप्युत्पत्तिप्रसङ्गः, नियामकाभावात् ॥
स हि सड्केतो वा स्यात्, शब्दस्वाभाव्यं वा? न तावदाद्यः, सड्केतविषयाप्रतीतेर्निराकृतत्वात् ।
अत एव प्रतीतेरितरेतराश्रयत्वम् ।
पदसड्केतबलेन तु प्रवृत्तौ स्वार्थापरित्यागात् ।
तथा चानन्विताः पदार्था एवान्विततया परिस्फुरन्तीति विपरीतख्यातिरेवावर्तते ।
स्वार्थपरित्यागे तु पुनरप्यनियमः, असामयिकार्थप्रत्यायनात् ।
शब्दस्वाभाव्यात् तु नियमे व्युत्पन्नवदव्युत्पन्नस्यपि तथाविधविकल्पोदयप्रसङ्गः ।
वासनाविशेषादिति चेत्? अथासदुल्लेखिनः प्रत्ययस्य वासनैव कारणमुत वासनापि? न तावदाद्यः, शशविषाणादिप्रत्ययानां
सदातनत्वप्रसड्गात् ।
कदाचिद् वासनायाः, प्रबोधात् कदाचिदिति चेत्---न, प्रबोधो ऽपि सहकार्यन्तरं वा, अतिशयपरम्परापरिपाको वा? आद्ये वासनैवेति पक्षानुपपत्ति ।
द्वितीयो ऽपि यदार्थान्तरप्रत्यासत्तेस्तदा पूर्ववत् ।
स्वसन्ततिमात्राधीनत्वे तु बाह्यवादव्याघातः, नीलादिबुद्धीनामपि वासनापरिपाकादेव उत्पादात् ।
वासनापीति पक्षे तु
तदन्यो ऽपि कश्चद्धेतुर्वक्तव्यः ।
स विचार्यमाणः पूर्वं न्यायं नातिवर्तत इति ॥
न च शशविषाणादिशब्दानामसदर्थैः सह सम्बन्धावगमो ऽपि ।
तथा हि परबुद्धीनामनुल्लेखात् तद्विषयस्याप्यनुल्लेख एव ।
न चार्थक्रियाविशेषो ऽप्यस्ति यतो विषयविशेषमुन्नीय तत्र सड्केतो गृह्यताम् ।
न च
सड्केतयितुरेव वचनात् तदवगमः ।
तद्विषयाणां वचनानां सर्वेषामेवाप्रतीतविषयत्वेनागृहीतसमयतया अप्रतिपादकत्वात् ।
न च शशविषाणशब्दमुच्चारयतः कश्चिदभिप्रायो वृत्तः, तद्विषयो ऽस्य वाच्य इति सुग्रहः समय इति वाच्यम् ।
न ह्येवमाकारः समयग्रहः ।

गां बधानेत्युक्ते अप्रतीतशब्दार्थस्य अभिप्रायमात्रप्रतीतौ समयग्रहप्रसड्गात् ।
न च विशेषान्तरविनाकृतः कल्पनामात्रविषयो ऽस्य वाच्य इति साम्प्रतम्, घटकूर्मरोमादीनापि तदर्थत्वप्रसड्गात् ।
न च सर्वे प्रतिपत्तारः स्ववासनया असदर्थशब्दसम्बन्धप्रतिपत्तिभाज इति साम्प्रतम् ।
परस्परवार्तानभिज्ञतया अपरार्थत्वप्रसड्गात् ।
न हि स्वयङ्कृतं सड्केतमग्राहयित्वा परो व्यवहारयितुं शक्यते ।
न च व्यवहारोपदेशावन्तरेण ग्राहयितुमपि ।
न च गां बधानेतिवत् शशविषाणापदार्थे वृद्धव्यवहारः ।
न चायमसावश्च इतिवदुपदेशः ।
न च यथा गौस्तथा गवय इति वदुपलक्षणातिदेशः ।
न चेह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबतीतिवत् प्रसिद्धपदसामानाधिकरण्यम् ।
तदमूः शशविषाणादिकल्पना नासत्ख्यातिरूपाः, तथात्वे कारणाभावात् भूकस्वप्नवदसाव्यवहारिकत्वप्रसड्गाच्च ।
तस्मादन्यथाख्यातिरूपा एवेति नैतदनुरोधेनाप्यवस्तुनो निषेधव्यवहारगोचरत्वमित्यर्थः ॥
भवतु तथापि नासौ सिद्ध्युपालम्भयोगीत्याह---कल्पितगोचरश्चेति ।
तथा हि को ऽयं व्यतिरेको नाम? यद्यतो व्यतिरिच्यते तस्य तत्राभावो वा, तदभावस्वभावत्वं वा? तत्र न तावत् क्रमयौगपद्ययोः शशविषाणे ऽभावः प्रमाणगोचरः, वृक्षरहितभूभृत्कटकवत् क्रमयौगपद्यरहितस्य शशविषाणस्य प्रमाणाविषयत्वात् ।
नापि क्रमयौगपद्याभावरूपत्वं शशविषाणस्य प्रामाणिकम्, घटाभाववत् शशविषाणस्य प्रमाणेण अनुपलम्भात् ।
घटाभावो ऽपि न प्रमाणगोचर इति चेत्--न, तस्य तद्विविक्तेतरस्वभावस्यापि प्रमाणत एव सिद्धेः ।
असिद्धौ वा तत्राप्यव्यवहार एव ।
घटस्तावत् स्वाभावविरहस्वभावः प्रमाणसिद्धः ताद्रूप्येण कदाचिदप्यनुपलम्भात् ।
एतावतैव तदभावो ऽपि घटविरहस्वभावः सिद्ध इति चेत्---न, घटाभावस्य तद्विरहस्वभावत्वानभ्युपगमात् ।
न चान्यस्य स्वभावे प्रमाणगोचरे तदन्यो ऽपि सिद्धः स्यात्, अतिप्रसड्गात् ।
एवंभूतावेव घटतदभावौ यदेकस्य परिच्छित्तिरेवापरस्य व्यवस्थितिरिति चेत्---न, घटवद् घटाभावस्यापि प्रामाणिकत्वानभ्युपगमे स्वभाववादानभ्युपगमात् ।
प्रमाणसिद्धे हि वस्तुनि स्वभाववादालम्बनम् ।
न तु स्वभाववादालम्बनेनैव वस्तुपरिच्छित्तिरिति हि भवतामेव तत्र तत्र जयदुन्दुभिः ।
यदुक्तं वार्तिकालड्कारे,
यक्तिञ्चिदात्माभिमतं विधाय
निरूत्तरस्तत्र कृतः पदेण ।
वस्तुस्वभावैरिति वाचयमित्थं
तदोत्तरं स्याद् विजयी समस्तः ॥
तत् किमिदानीं स्वाभावविरहस्वभावो घटः प्रमाणानैव सिद्धः? तव दृष्ट्या एवमेतत् ।
घटो हि यादृक्तादृक्स्वभावस्तावत् प्रमाणपथमवतीर्णः तस्य यदि परमार्थतः अभावो ऽपि कश्चित् स्यात्, परमार्थतः सो ऽपि तद्विरहस्वभाव इति तथैव प्रमाणावेदितः स्यात् ।
न चैतदभ्युपगम्यते भवता ।
तस्माद् घटवत् तदभावस्यापि प्रामाणिकत्वेनैवानयोः परस्परविरहलक्षणव्यतिरेकसिद्धिः ।
अप्रामाणिकत्वे वा अनयोरपि न तथाभाव इति शशविषाणादिष्वपीयमेव गतिः ॥
ननु काल्पनिकरूपसंपत्तिरेवास्त्वनुमानाङ्गमित्यत आह---तस्याः सर्वत्र सुलभत्वादित ।
दहनवत्त्वादिसाधने प्रमेयत्वादौ शब्दानित्यत्वादिसाधने चाक्षुषत्वादौ नित्यत्वादिसाधने कृतकत्वादावित्यर्थः ।
ननु पक्षसपक्षविपक्षास्तावद् वस्त्ववस्तुभेदेन द्विरूपाः ।
तत्र ये कल्पनोपनीताः, तत्र काल्पनिका एव
पक्षधर्मत्वान्वयव्यतिरेकाः ।
प्रमाणोपनीतेषु तु प्रामाणिका एवेति विभागः ।
तदिह काल्पनिकान्निरग्नेर्यद्यपि प्रमेयत्वादेर्व्यावृत्तिः काल्पनिकी सिद्धा, तथापि प्रामाणिकात् जलह्नदादेः प्रामाणिक्येवैषितव्या, सा च न सिद्धेति कुतस्तस्य हेतुत्वम्? एवं प्रामाणिकात् शब्दे ऽपि पक्षीकृते प्रामाणिक एव हेतुसद्भावो ।

वक्तव्यः न चासौ चाक्षुषत्वस्यास्तीति सो ऽपि कथं हेतुः? एवं कृतकत्वस्यापि वस्त्वेकनियतस्य धर्मस्य वास्तव एवान्वयो वक्तव्यः ।
वस्तुनो विपक्षाच्च वास्तव एव व्यतिरेको वक्तव्यः ।
न च तस्य तौ स्तः ।
तत् कथमसावपि हेतुरिति ।
? प्रलपितमेतत् ।
न हि नियामकमन्तरेण संपदं प्रति कल्पना त्वरते, विपदं प्रति तु विलम्बत इति शक्यं वक्तुम् ।
तथा च निरग्निकमपि कूर्मरोम सधूममिति कल्पनामात्रेण विपक्षवृत्तित्वाद् धूमो नाग्नि गमयेत् ।
वास्तव्यां रूपसंपत्तौ किममेन काल्पनिकदोषेणेति चेत्? तर्हि वास्तव्यामसंपत्तौ किं काल्पनिक्या तयेति समानम् ।
विरोधाविरोधौ विशेष इति चेत्? कुत एतत्? उभयोरेकत्र वस्त्ववस्तुत्वादन्यत्रावस्तुवदिति चेत्? तत् किं काल्पनिको ऽपि
धूमो वस्तुभूतो येन कूर्मरोम्णस्तेन सह विरोधः स्यात्?
क्वचिद् वस्तुभूत इति चेत्? निर्धूमत्वमपि क्वचिद् वस्तुभूतमिति तेनापि विरोध एव ।
तस्माद् यथा काल्पनिकी विपत्तिर्न दोषाय, तथा काल्पनिकी संपत्तिरपि न गुणायेति तस्याश्च सर्वत्र सुलभत्वादिति टीकार्थः ।
एतच्चाभ्युपेत्योक्तम्---वस्तुतस्तु न न निरूपाख्यं कस्यचिद् व्यवहारस्य भाजनमिति ॥
ननु यद्यावयोरकुशलतया स्ववचनविरोधः, अथ प्रष्टुः किमुत्तरं वक्तव्यमित्यवशिष्टमुपसंहरन् परिहरति---तस्मादिति ।
यत्र वचने सर्वथैव विरोधसतत्रावचनमेव श्रेय इत्यर्थः ।
एतेन मूकताहेतुविकल्पाः परिहृता बोद्धव्या इति ॥
नन्वेकरूपमविकलमिदं कथं गमकम्? गमकत्वे वा व्यतिरेकविकलवद् रूपान्तरविकलमपि तथा किं न स्यादविशेषादित्याशड्क्याह---न चैतावतेति ।
रूपान्तरवैकल्यवन्न व्यतिरेकवैकल्यमविनाभावक्षतिमावहतीत्यर्थः ।
एवं तर्हि सत्यपि विपक्षे व्यतिरेको न पर्येषणीय इत्यत आह---विपक्षसम्भवे त्विति ।
विपक्षे सति तत्र वृत्तिशड्का, ततस्तन्निवृत्त्यर्थं तदुपयोगः ।
विपक्षाभावे तु शड्कैव नास्ति, यथोक्तं प्राक् ।
न हि तायाभ्यवहरणे ऽप्यसमर्थस्य मुमूर्षोः शष्कुलीभक्षणं शङ्कते चेतन इत्यर्थः ॥
स्वमते त्विति ।
अस्य तु काल्पनिको ऽपि विपक्षः परेणाभिधातुं न शक्यते, अभिधाने सपक्षत्वापत्तेः असपक्षत्वे ऽनभिधानप्रसड्गात्, ततश्चाभिधेयत्वे साध्ये यः कश्चिद्धेतुरूपादीयते, तस्य किं विपक्षे वृत्तिरवृत्तिर्वेति प्रश्ने अनेनोत्तरकोविदेन किं वक्तव्यम्? मूकीभूय तिष्ठासोस्तु न कश्चित् प्रतिमल्ल इति स्वयमेवोल्लपितमनेन ।
न त्वेवंभूतो ऽहेतुरेव दोषाभावात्, अरूचिमात्रस्य सर्वत्र सुलभत्वादिति भागासिद्धिनिराकारणाय व्याप्त्येति वदतः ॥
पूर्ववदित्यतिशायने मतुपो विधानम् ।
अतिशयश्च व्याप्तिरेवेत्याशयः ।
तदिदम् उक्तं टीकाकृता---अस्ति गन्धवत्वस्य साध्यं न तु व्याप्त्येति ।
ननु साध्यसजातीये शेषशब्दस्य न काचिद् वृत्तिरित्यत आह---साध्यस्योपयुक्तत्वादिति ।
पौनरूक्त्यभ्रममपाकरोति---पदानि विभज्येति ।
न मन्तर्भाव्य व्याख्याने सामान्यतोदृष्टपदमेवं योजनीयम्, उक्तविशेषरहितत्वेन विपक्ष एव सामान्य इत्युच्यते ।
तत्रादृष्टम् ।
सप्तम्यास्तसिः ।
योग्यदर्शननिवृत्त्या च दृश्यनिवृत्तिर्विवक्षिता, तेन विपक्षे असदित्यर्थः ।
अतः सिद्धवत्
त्रिरूपसंपत्तिमभ्युपेत्य रूपद्वयसंपदे चकारमवतारयति---तथा चेति ॥
तदेवं तत्पूर्वकमित्यनेन लिङ्गपरामर्शो ऽनुमानमिति लक्षणार्थे व्याख्याते, अथ किं लिङ्कम्, कतिविधं वेति जिज्ञासायां त्रिविधमित्यवच्छेदेन व्याख्याय, किं लक्षणम् इति जिज्ञासायां पूर्ववदित्याद्येकवाक्यतया व्याख्यानेन परामर्शविषयः संज्ञितो विभक्तो लक्षितश्च ।
विषयविषयिणोरभेदविवक्षया च सामानाधिकरण्यमिति मन्तव्यम् ।
एवम् अन्यान्यपीति ।
तद्यथा, मनोज्ञमत्तकाशिनीसंदर्शनेन संसारिरागानुमानम्, शत्रुदर्शनेन क्रोधानुमानम्, विषयभोगेन सुखानुमानम्, रोगादिना दुःखानुमानम्, अविकलेन्द्रियस्य योग्यविषयावधानेन ज्ञानानुमानम्, श्रद्धावतां यथाविधि यागाद्यनुष्ठानेन धर्मानुमानम्, निषिद्धाचरणेनाधर्मानुमानम्, पट्वभ्यासादरप्रत्ययैः संस्कारानुमानम्, मिथ्याप्रत्ययेन भविष्यत्संसारप्रवाहानुमानमित्यध्यात्मम् ।

बाह्ये च ज्वलन्तं तृणराशिमुपलभ्य भविष्यद्भस्मानुमानम्, तथाविधवृष्ट्या भविष्यन्नदीपूरादिज्ञानम्, प्रकारान्तरावगतेन वायुना त्वरावता वृक्षादिसंक्षोभानुमानमित्यादि नेयम् ॥
दुरवबोधमिति ।
सामान्यतोदृष्टस्वरूपस्यैवाविवेचनादित्यर्थः ।
उदाहरणद्वारेण तद्विवेचनं
भविष्यतीत्याह---शेषवदुदाहरणानतर्गतं चेति ।
शेषवल्लक्षणयोगे ऽपि तदुदाहरणान्तरवैलक्षण्येनेदमेव सामान्यतोदृष्टपदार्थे भविष्यतीत्यत आहा---न चैतावतेति ।
न तावदश्वकर्णादिशब्दवदयं सूर्यव्रज्यानुमाने वर्तते, अन्यत्रापि वृद्धप्रयोगात् ।
नापि सूत्रकारस्यैव परिभाषेयम्, निष्प्रयोजनत्वात् ।
तस्मादुदाहरणवैलक्षण्यमात्रविवक्षयेदमुच्यते ।
तथा चातिप्रसङ्ग इत्यर्थः ।
तस्माद् भाष्यकारव्याख्यानविरुद्धोदाहरणमात्राख्यानमरोचयमानः सामान्यतोदृष्टपदं व्याख्यायान्यथोदाहरणमाहेति योजना ।
क्षयवृद्धिप्रत्ययाविषयत्वे सतीति स्पष्टार्थम्, प्राड्मुखोपलभ्यत्वे परिवृत्त्य तत्प्रत्ययविषयत्वादिति पर्यालोचनयैवाविनाशस्य प्राप्तत्वात् ॥
न ह्युपलब्धविनाशे उपलब्धं प्रत्यभिज्ञायते भ्रान्तावप्यनुपलब्धमेवोपलब्धतयेति ।
प्राड्मुखोपलभ्यत्वे चेत्यस्य टीकया स्फोरितस्य प्राड्मुखोपलब्धस्य प्राड्मुखेनानुपलम्भे सतीत्यर्थः ।
नरान्तरस्य तत्समानदेशस्थस्येति मन्तव्यम् ।
अन्यथा मार्तण्डमण्डलस्यापि लोकान्तरवर्तिपुरुषापेक्षया प्राड्मुखोपलभ्यता दुर्वारेत्यसिद्धं विशेषणं स्यात् ।
तदेतत् नरपदेन सूचितम् ।
तदभिमुखदेशसंबन्धादिति शिष्यहिततया व्यभिचारौपयिकपादविहरणज्ञापनाय ।
न हि यथातथा पादविहारणमात्रमस्य हेतोः क्षतिमावहतीति ।
सत्यविनाशे इति च द्रष्टव्यम् सति द्रष्टव्यत्व इति वेति शेषः ॥
इह यद्यपि दिशः प्रत्यक्षत्वे साध्ये ऽड्गुल्या निर्देशो व्यधिकरणः, तरूनगरादिषु एवाड्गुल्या व्यपदेशात् ।
दिशः सामानाधिकरण्यं त्वड्गुलीव्यपदेशस्य न तदधिकरणतासाधनमन्यथासिद्धत्वात् ।
तथापि यस्यां दिशि एते तरवः सा प्राचीति तर्वादिभेदेन अप्यड्गुल्या व्यपदेशो ऽस्तीति न व्यधिकरणत्वमाहत्याभिधातुं शक्यत इत्यनेनाभिप्रायेण अन्यथासिद्धिमेव वार्तिकार्थमाह---अन्यथासिद्धतयेति ।
उपलक्षणं चैतत्, चलन्तीं पताकामुपलभ्यायं वायुर्वातीति अडगुलीनिर्देशस्याचाक्षुषे वायावपि गतत्वेन व्यभिचारस्य अपि संभवात् ।
रूपेण स्पर्शानुमानमित्यादावादिग्रहणेन रसेन रूपानुमानम्, गन्धेन रसानुमानमित्यादि ।
वृक्षादर्शने सन्देहे वा न शिशपादर्शन निश्चयो वा ततो ऽनवसरपराहतमेवानुमानम् ।
वृक्षशब्दप्रयोगलक्षणव्यवहारानुमानं तु न स्वार्थम्, अविदितसमयेनाशक्यत्वात् ; विदितसमयस्य च व्यर्थत्वात् ।
परो ऽपि यदि व्युत्पन्नो, यदि विदितशब्दप्रवृत्तिनिमित्तः,
तदा स्वयमेव व्यवहरेत् ।
विपरीतस्तु शिशपात्वमपि न प्रतीयात् ।
अव्युत्पन्नश्चेत्, समयमग्राहयित्वा व्यवहारयितुमशक्य एव ।
न चायं समयग्रहप्रकारः ।
तथा सति शिशपात्वादयं वृक्षो व्यवहर्तव्यः इति शिशपात्वमेव वृक्षशब्दप्रवृत्तिनिमित्तमाकलयेत् ।
न च शिशपात्वादयं वृक्षशब्दप्रवृत्तिनिमित्तवानिति वाक्यार्थः, विदिततन्निमित्तं प्रति व्यर्थत्वात् ; विपरीतं प्रत्यप्रद्धिविशेषणत्वप्रसड्गात्, सामान्योपक्रमे समयग्रहानुपपत्तेः ; पुरुषेच्छामात्राधीनत्वाचच समयस्य पक्षधर्मतया नियन्तुमशक्यत्वात् ; अविदितसमयं प्रति चान्वयोपक्रमस्यायुक्तत्वादित्यत आह---श्रुतेनेति ।
तदनेन ये चान्ये साध्यसमानकालाः, ते सर्वे सामान्यतोदृष्टानुमानसंग्राह्यत्वेन उपलक्षिता इति ॥
स्वमतेन व्याख्यानान्तरम्, न तु तात्पर्यान्तरमित्यर्थः, पूर्वं साध्यं तद्यस्य व्याप्त्येत्यनेनैकतात्पर्यत्वात् ।
अनेनैवाभिप्रायेणाह---अत्रापि यथासंभवमिति ।
नानन्तर्भावचकारनिरपेक्षते चास्मिन् व्याख्याने पूर्वस्माद् विशेषः ।
सामान्येन कार्यं वा कारणं वा अनुभयात्मकं वा अविनाभावितया दृष्टं निश्चितं सामान्यतोदृष्टमेव च योजना ।
तदिदमुक्तम्---असन्दिग्धतामाहेति ।

तत्र तत्पूर्वकमिति ।
स्वरूपविप्रतिपत्तिनिवृत्तिः स्वलक्षणसामर्थ्येन न्यूनाधिकसंख्यत्वाशड्कानिवृत्तिः प्रथमं तात्पर्यम् ।
नियमज्ञापने त्वशक्यलक्षणत्वशड्कानिवृत्तिस्तात्पर्यमिति न पौनरूक्त्यमिति वृत्तवर्तिष्यमाणानुकीर्तन फलम् ॥
यद्यपि प्रतिपन्नं प्रत्यनुमानस्य न संशयविपर्ययनिवृत्तिरज्ञातज्ञानं वोपयोगः, तथाप्यध्यवसिताभ्यनुज्ञानं वस्तुबलायातमपेक्षिते विषये ऽनुपेक्षणीयमेवेति तस्याप्यनुमानप्रतिपाद्येषु गणना ।
तेनादिवाक्ये प्रतिपन्नः प्रतिपादयितेति प्रतिपन्न एव प्रतिपादयिता, न तु प्रतिपन्नः प्रतिपादयितैवेति बोद्धव्यम् ॥
पुनः पौनरूक्त्यपरिहारार्थं वृत्तवर्तिष्यमाणे अनुकीर्तयति---पूर्वं सिद्धवदिति ।
साक्षात्कृत्यनुमित्योः क्रिययोस्तुल्यता विषयगता द्रष्टव्या ।
तेनायमर्थः ।
व्याप्तिग्राहकप्रमाणयोग्यो धर्मो यत्रानुमीयते तत् पूर्ववदनुमानम् ।
तदयोग्यस्तु यत्र तत् सामान्यतोदृष्टमिति ।
धूमत्वैकार्थसमवायिभिरिति ।
सतात्पर्यं विशेषणम् ।
न हि संततमूर्ध्वगमनमात्रेणाग्निरनुमातुं शक्यते, धूलीपटलादौ व्यभिचारात् ।
एकद्रव्यत्वादित्यस्य सपक्षे रूपादावन्वयस्य
स्पष्टत्वात् विपक्षव्यतिरेक एवोक्तः ।
द्विविधमेव हीति ।
न त्वत्रान्वयाभिधानमात्रेण केवलव्यतिरेकिशड्का कर्तव्या ।
समानजातीयारम्भकत्वं शब्दस्य असिद्धमतः साधयति---कार्यत्वादिति ।
कार्यत्वं पुनरस्यानुपलब्धिकारणभावे सति अनुपलब्धस्योपलभ्यमानत्वाद् वा प्रत्यक्षाद् वेति ।
सर्वत्रोपलब्धिप्रसड्गादित्यस्य विपर्ययेण हेतुः ।
प्रयोगस्त्वेवम्---अव्याप्यवृत्तिः शब्दः, आश्रयाप्राप्तावपि क्वचिदनुपलभ्यमानत्वे सति क्वचिदुपलभ्यमानत्वात् संयोगवदिति ॥
यद्यपि चैतावन्मात्रेण गुणत्वं सिध्यति, तथापि भाष्यकारीयो हेतुरूपेक्षितः स्यादित्यतो ऽव्यापकतामात्रं प्रसाध्यैव प्रकृते लगयति---कर्णेति ।
अत्रापि प्रयोगः, शब्दो वीचीतरङ्गन्यायेन कर्णशष्कुलीमन्तमाकाशदेशमासादयति, प्रकारान्तरासंभवे सत्युपलभ्यमानत्वादिति व्यतिरेकी ।
उदाहरणार्थं विवेचयति---इदं त्विति ।
सदाद्यभेदः सत्तायोगः, अनित्यत्वम्, कारणवत्त्वम्, सामान्यविशेषवत्त्वमिति ।
साध्यधर्मिण्यस्मदादिभिः कदाचित् प्रत्यक्षेणानुपलम्भादित्यर्थः ॥
आभिप्रायिको ह्यर्थः पक्षधर्मताया विषयः ।
स एवाभिप्रायेण व्याप्यते, येन विना प्रतिज्ञातोर्ऽथो नोपपद्यते ।
उभयथा संभावनायाकेकतरत्र बाधकोपपत्तावन्यतरः प्रमाणान्तरगोचरः, तत्र विधायकप्रमाणाभावे केवलव्यतिरेकिणो ऽवतारः ।
तथा हि
क्षित्यादिकं सकर्तृकं कार्यत्वादित्यत्र सर्वज्ञत्वमन्तरेण क्षित्यादीनां कर्तृत्वमेव नोपपद्यते, परमाण्वदृष्टादीनामज्ञाने तदधिष्ठानानुपपत्तेः ।
तदधिष्ठाने वा असर्वज्ञत्वानुपपत्तेः ।
तस्मात् सर्वज्ञत्वमन्तरेण प्रतिज्ञातार्थानुपपत्तौ तदभिप्रायव्याप्तम् ।
आभिप्रायिकत्वाच्च पक्षधर्मतागोचरः ।
इच्छादयः परतन्त्रा गुणत्वादित्यत्र पुनरात्मा नाभिप्रायव्याप्तः ।
न हीच्छादीनां क्षित्यादिपारतन्त्र्यमसंभावित्, अपि तु मानसप्रत्यक्षवेद्यत्वादिभः बाधितम् ।
धूमगतनीलत्वेनेव धूमस्यापालालत्वम् ।
तस्मादुभयथापि संभवादात्मा नैवाभिप्रायव्याप्तः, तदव्याप्तत्वाच्च न पक्षधर्मता तमङ्कमारोपयितुमर्हति, अपि त्विच्छासंबद्धपरमात्रमादायैव निवर्तते ।
एतदुत्तरकालं क्षित्यादौ बाधिते तदन्यासिद्धौ विधायकप्रमाणाभावान्निषेधमुखेन व्यतिरेकी प्रवर्तते ।
तमिमं विशेषं हृदि निधायोक्तम्---बाधकैरपनीते द्रव्याष्टकगुणत्व इति ॥

ननु सामान्यतोदृष्टाद् यद्रूपं सिद्धम्, न तत् केवलव्यतिरेकिणा साध्यम् ।
यादृशं च तेन साध्यम्, तादृशं
न क्वचित् सिद्धम् ।
तथा चाप्रसिद्धविशेषणः पक्षः ।
न च तथाभूते सन्देहो ऽपि कारणाभावात् ।
समानासमानधर्मविप्रतिपत्तीनामनुपलब्धचराविषयत्वादित्यत आह---यद्यपि चायमिति ।
स्वरूपेण असाधारणरूपेणेत्यर्थः ॥
न हि वाक्यार्थसयापूर्वतया पदार्थानां विशेषणविशेष्यभावो विहन्यते ।
तथा सति, अन्वयिनोप्यनुत्थानमिति प्रलीनमनुमानेन ।
न च द्रव्याष्टकातिरिक्तादिपदार्था एवापूर्वे, येनाप्रसिद्धविशेषणता स्यात् पक्षस्य ।
न चैवं सति शशशृङ्गधनुर्धरादावपि प्रसङ्गः, तत्रापि तदार्थमात्राप्रसिद्धेः सर्वत्र सुलभत्वादिति वाच्यम् ।
सामान्यतोदृष्टपूर्वकत्वनियमसीमायाः दुर्लड्घ्यत्वात् ।
अन्यथा सामान्यतो ऽप्यसिद्धः कथं निष्प्रमाणकशब्दसामर्थ्यमात्रमाश्रित्य परामृश्येत ।
अपरामृष्टश्च कथं प्रमाणव्यवहारमवतारयेत् ।
तदिदम् उक्तम्---अदूरविप्रकर्षेण परामृष्ट इति ।
विशेषसिद्धेः सामान्यसिद्भिरदूरविप्रकर्षः, तदसिद्धिस्तु तद्विपर्यय
इत्यर्थः ॥
एवं च संशयो ऽप्यत्र वादिविप्रतिपत्तेरेव सुगमः, इच्छादीनामुभयवादिसिद्धे सामान्यतो ऽधिकरणे द्रव्याष्टकातिरिक्तानतिरेककोट्योरूभाभ्यां समुत्थापनात् ।
अथवा प्रत्येकोत्थितः संशयः समुदाये विश्राम्यतीति न्यायः ।
तथा हि गुणत्वं पृथिव्याश्रिते गन्धादौ, तदतिरिक्ताश्रिते स्नेहादौ च दृष्टम्, इच्छादिषु च दृश्यते ।
तत् किमिच्छादयः पृथिव्याश्रिता, उत तदतिरिक्ताश्रिता इत्यनेनाकारेण सर्वद्रव्येषु भवन् सन्देहः समानधर्मदर्शनादेव द्रव्याष्टकतदतिरिक्तकोट्योरेव पर्यवसितो भवति ।
तदिदमुक्तम्---धर्मिणि चेत्यादि ॥
विभागवचनादेवेत्यादिभाष्यवक्रव्याख्यायाः शड्कापोषणे तात्पर्यम् ।
ननु सदसती तत्त्वमित्यत्र सदसच्छब्दाभ्यां भावाभावावुक्तौ ।
तदिह वर्तमानावर्तमानार्थत्वव्याख्यानं तद्विरुद्धमपि कुत उपादीय इत्यत आह---प्रत्यक्षं हीति ।
अथ तथैव किं न स्यादित्यत आह---यद्यपीति ।
न विशेषण्त्वं स्वातन्त्र्येण स्वातन्त्र्याभिधानेनेत्यर्थः ।
आहो न्यायोप्यस्तीत्यस्याक्षरार्थेन नः संबन्धानुपपत्तेः, तात्पर्यार्थेनसंबन्धमाह---न सन्देह
इति ।
न्यायाभावेन हि तर्कस्य निश्चयापर्याप्तौ सन्देहस्तदवस्थ इत्याशड्कितम्, अतस्तन्निषेध एवोत्तरं युक्तमिति ।
अस्त्येव न्यायः, सन्देहविरोधिनिश्चयसमर्थो यत इति शेषः ।
निमित्तत्वं यदि विषयत्वं तन्नात्मनि दृष्टान्ते ।
अथोपादानत्वम्, न तत्साध्ये समवाय इत्यत आह---निमित्तत्वं कारणत्वमिति ॥
ननु व्यापकत्वं परममहत्परिमाणयोगः, सर्वसंयोगिसमानदेशता वा ।
तदुभयमपि समवाये न संभवतीत्यत
आह---सत्युपलब्धीति ।
उपलभ्यतेत्युच्यमाने घटादेरपि व्यापकत्वप्रसङ्गः ।
अत उक्तं सर्वत्रेति ।
देशस्यावच्छेदकतामात्रेण सप्तम्या निर्देशो वने सिहनाद इतिवत् ।
तथाप्यसिद्धं लक्षणम्, न ह्यात्मादयः सर्वत्रोपलभ्यन्ते इत्यत उक्तम्---सत्युपलब्धिकारण इति ।

तथापि विषयस्याप्युपलब्धिकारणत्वाद् यत्र यत्र घटादिपरमाण्वन्ताः स्वोपलब्धिसामग्रीसहिताः, तत्र तत्रोपलभ्यन्त एवेति तैरेव व्यभिचार इत्यत उक्तम्---अन्तरेति ।
एतच्च द्रव्यरूपकारणान्तराभिप्रायेण द्रष्टव्यम् ।
अन्यथा यत्र घटादयो न सन्ति, तत्र ततो ऽन्यस्य तदुपलब्धिकारणस्य तदिन्द्रियसंयोगस्याभावादेव तेषामनुपलम्भः, तत्सद्भावे तु सर्वत्रोपलम्भ एव इत्येतदप्याशड्क्येत ।
तथापि परमाण्वादिगुणैरेव यावद्द्रव्यभाविभिराश्रयाधीननिरूपणैर्व्यभिचारः, तन्निवृत्त्यर्थमनेकसंबन्धित्वे सतीति द्रष्टव्यम् ।
एतच्च सर्वत्रेत्यनेन टीकाकृता सूचितम् ।
यद्यपि च सर्वत्रास्तित्वं व्यापकत्वम्, तथापि लक्षणमन्तरेण तद् दुरवबोधमिति तदेवोक्तमिति ।
न्यायेतिकर्तव्यताभूतं तर्कं पृच्छति ।
कर्त्रा अव्यापार्यमाणस्य करणस्य स्वयं व्यापारायोगादित्याशयवानिति भावः ॥
अथोक्तमनवस्थानप्रसङ्गमवतारयितुं किमित्यनाधारत्वप्रसङ्ग उच्यते, यावता स्वतन्त्र एवायं प्रसङ्गः किं
न स्यात्? न हि कार्यस्यानाधारत्वमस्येष्टमेवेत्यत आह---स्यादेतदिति ।
पश्चात् तुर्या संयुक्त इति शेषः ।
न ह्युत्पन्नो ऽप्यसंयुक्त एव तुर्या प्रथमेक्षणे पट इति कस्यचिन्निश्चयः, अथ च प्रमाणबलादिष्ट एवायमर्थः, तथोत्पन्ने ऽपि प्रथमे क्षणे तन्तुष्वसमवेत एवेष्यत इति पादौ प्रसार्य तिष्ठतो नेदमुत्तरमित्यर्थः ।
तस्मादनवस्थाप्रसड्गावतारणायैवेदमुक्तमित्याह---समवायश्चेतीति ।
यद्यप्युपाधिकथनेनैव वृत्तिमत्त्वस्य प्राप्तिधर्मत्वं निराकृतम्, तथापि प्राप्तित्वस्यानैकान्तिकत्वसूचनाय पुनरप्यनवस्थाप्रसङ्गमवतारयति---अथेति ।
अनवस्थाभिया अवश्यमन्ततः काचित् प्राप्तिश्च न च वृत्तिमतीति स्वीकर्तव्यम्, ततश्च तथैव प्राप्तिमत्त्वमनैकान्तिकमित्यर्थः ॥
अथानवस्थास्वीकारे को दोष इत्याशड्क्य निराकरोति---नन्वियमिति ।
अनादितायां ह्यड्कुरोत्पादानुगुणसमयसंभविना बीजेन जनिते ऽड्कुरेण जनिते बीजे वर्तमानं बीजत्वं तस्याड्कुरपूर्वकतामवगमयतीति युज्यते, अविकलस्य हेतोः प्रमाणस्य विद्यमानत्वात् ।
इदंप्रथमतायां तु कार्योत्पादानुगुणसमये भविष्यत्प्रवाहस्यासत्त्वात् प्रथमस्यानुत्पादे तदाश्रयस्य हेतोस्तस्मिन्नसत्याश्रयासिद्धतया सर्वस्यागमकत्वे प्रमाणाभाव इत्यर्थः ॥
अभ्युपेतकणादाप्तत्वस्य शास्त्रविरोधश्चेत्यादि ।
कार्यमकृतकसंबन्धवदिति प्रतिज्ञायां घटादेर्भूतलादिनाप्यकृतक एव संबन्धः स्यात्, स चानिष्ट इति प्रतिज्ञां विशिनष्टि---स्वोपादानेनेति ।
स्वसमवायिनेत्यर्थः ।
कार्यमिति च समवेतमात्रोपलक्षणपरम्, अन्यथा जात्यादिषु विपक्षेषु संभवे हेतोर्विरोधः स्यात् ।
अथवा प्रतिज्ञा यथाश्रुतैव, आधारवत्त्वादित्यत्राधारशब्देन नाश्रयमात्रं विवक्षितम्, किं त्वधिकरणं कारकम् ।
तेनाधिकरणकारकवत्त्वाद् इत्यर्थः ।
न च वाच्यम्---कारकवत्त्वमात्रेणैव पर्याप्तौ किमधिकरणग्रहणेनेति, प्रध्वंसेन विरोधप्रसड्गात् ।
न कार्यस्य कार्यः संबन्ध इत्यर्थः ।
मिथः संबध्येते ।
आधार्याधारभावेनावतिष्ठेते इत्यर्थः ।
सो ऽपि समवाये नास्ति समवायान्तराभावादित्यर्थः ।
सन्नप्यसौ न कार्यमाधारवत् करोति, स्वसमवायेनैव तस्याधारवत्त्वात्, तदभावे त्वेकार्थसमवायो ऽपि न स्यादित्यर्थः ।
सहोत्पादे कार्यमनाधारं स्यात् ।
सर्वदेति शेषः ।
समवायिकारणाभावे ऽसमवायिकारणशड्कापि नास्ति, तत्प्रत्यासन्नस्वभावत्वात् तस्येत्यभिप्रायवता तदुपेक्ष्य निमित्तमात्रादुत्पत्तिराशड्क्य निराकृता ॥
ननु विधीयमाननिषिध्यमानव्यतिरेकेण जगति न स्वतन्त्रो नाम ।
तत् कथं धर्मत्रैविध्यमित्यत आह---अत्र चेति ।
विधीयमानो वर्तमान इत्यर्थः ।
प्रतिषिध्यमानः अवर्तमान इत्यर्थः ।
तत्र ये वर्तमानाः, तेषां कश्चित् परतन्त्रो वृत्तिमानित्यर्थः ।
कश्चित् स्वतन्त्रो वृत्तिरहित इत्यर्थः ।
प्रतिषिध्यमानास्तु परतन्त्रा न सन्ति, असत्त्वादेव इति ।

तदेवं विधीयमानः स्वतन्त्रो विधीयमानः परतन्त्रः प्रतिषिध्यमानः स्वतन्त्रश्चेति तिस्रो विधा इत्यर्थः ।
तदेवमवर्तमानो घर्मः प्रतिषिध्यमानतयैव व्यवह्रियते, न चासौ प्रत्यक्षविषयः, किं त्वनुमानविषय इति दर्शितम् ।
तच्चानुपपन्नमिति शड्कावार्त्तिकार्थम् आह---नन्विति ।
असन्नित्युद्देश्यम् ।
तेनायमर्थः, असन्नवर्तमानो न केवलं प्रतिषेधव्यवहारविषयः, किं तु विधीयमानो ऽपि, विधिव्यवहारविषयो ऽपि ।
एवमसौ न केवलम् अनुमानविषयः, प्रत्यक्षश्च ।
क्वचित् प्रत्यक्षविषयश्चेत्यर्थः ।
क्केत्यत आह---यथेति ।
कथमसौ विधीयमान इत्यत आह---जायमान इति ।
कथमसौ प्रत्यक्षविषय इत्यत आह---विस्फारितेति ।
कथमसाववर्तमान इत्यत आह---न चासाविति ।
असत्तया सत्तया वानभ्युपगमादिति सत्ताया जायमानतया विरोधात्, असत्तया विधिविषयतयेति भावः ।
कथं नाभ्युपगम्यते न हि सत्तासत्ताभ्यामन्यः प्रकारो ऽस्तीत्यत आह---निषेधविषयतया त्विति ।
विधीयमानतापक्षे हि जायमानताभ्युपगमे उभयथापि विरोधो, न तु प्रतिषिध्यमानतापक्षे ऽपीत्यर्थः ॥
तस्मात् जायमाने घटे न विधायकप्रत्यक्षप्रवृत्तिः, विरोधात् ।
निषेधकं तं प्रत्यक्षं प्रवर्तमानमपि तन्निषेधमेव गोचरयेत्, न तु निषेध्यं घटम् ।
ततः सिद्धो विषयभेद इति सारम् ।
उपपादनीय इति सत्कार्यवादमपनीय ।
अपरे त्विति ।
अर्थातिरेकमात्रम् ।
अर्थपदातिरेकमात्रम् ।
एवमुत्तरत्रापि ॥
ननु केनैतदुक्तम्, यदुभयपदव्यभिचार एव विशेषणसमासो भवतीत्यत आह---विशेषणमिति ।
ननु तथाप्युभयोरपि पृथिवीद्रव्यशब्दयोरूभयवाचित्वात् कथं विशेषप्रतिपत्तिरित्यत आह---न चेति ।
न हि भवति पृथिवीत्वं द्रव्यत्वमित्युपलक्षणम् ।
पृथिवीत्वं द्रव्यम्, द्रव्यत्वं च पृथिवीत्यपि न भवतीत्यपि द्रष्टव्यम् ।
न च नान्तरीयकार्थशब्दयोरपीयमेव गतिरस्त्विति वाच्यम्, अनियमप्रसड्गात् ।
नान्तरीयकत्वार्थयोरपि सामानाधिकरण्यादर्थत्वनान्तरीकयोरपीति ।
ततस्तद्व्यवच्छेदार्थं पुनरपि प्रयत्नान्तरमास्थेयम् ॥
तस्मादनेकार्थत्वे ऽपि विशेषपर एवायं नान्तरीयकशब्द इत्यकामेनाप्यभ्युपेयम् ।
तथा च पूर्वदूषणानिवृत्तिरिति ।
ननु अनियतप्रसरेणासति नास्तीति सहितेनेष्टलाभो यद्यपि तथापि सर्वथा सपक्षावृत्तिरसाधारणो ऽपि निवर्तयितव्यः, न हि पक्षव्यापको विपक्षे च नास्त्येवैतावतैव तस्य निराकरणम्, तस्याप्येवंभूतत्वात् ।
तस्मात् तत्तुल्ये सद्भाव इति कर्तव्यमेवेत्याशड्क्याह---प्रसक्तमप्रतिषिद्धमनुमतमेवेति ।
प्रसक्तस्य प्रतिषेधादुपादाने तद्विपरीतस्य हानमर्थायातमित्यर्थः ।
न चासंभवो ऽपि प्रसक्तो, येनानिषेधात्
तस्याप्युपादाने तद्विपरीतहानं संभाव्येत ।
प्रथमे पदे संभवस्य विधेयत्वेन इवासंभवस्य निषेध्यत्वेनानुपादानादिति ।
समुच्चीयमानेत्यादि वैचित्र्येण हि निपातसंबन्धे वाक्यभेदप्रसङ्गः, अथैकवाक्यत्वमिच्छन्नवैचित्र्येणैव निपातसंबन्धमिच्छेदित्यर्थः ।
एतदेवानूद्यमानसमुच्चयमाशड्क्यमानः स्फुटयति---न चेति ।
उदितं ह्यनूद्यते, नत्वनुदितम् न चोभयत्वविशिष्टं हविरूदितम् ।

किं तु हविर्मात्रम् ।
तथा चानुवादपक्षे उभयत्वमविवक्षितम् ।
उभयत्वविवक्षायां तु नायमनुवादः, किं तु वाद एव ।
तथा च वाक्यभेदः ।
एवं दार्ष्टान्तिके ऽपि यदि साध्यायोगव्यच्छेदविशिष्टो हेतुरूदितः, युक्तमिदानीं यत्तथासावनूद्यते, न त्वेतदस्ति ।
हेतुमात्रं त्वविशिष्टमुद्दिष्टम् ।
विशिष्टस्य तु तस्यायमेव प्रथमो वादावतारः ।
तद्यदि यस्येत्ययमनुवादो, नूनमनुमेये सद्भाव एवेत्यविवक्षितं विशेषणम्, विवक्षिते तस्मिन्ननेनैव वाक्येन विशिष्टो वादः कर्तव्यः ।
पश्चादिदमेवावृत्त्यानुवाद इति वाक्यभेद इत्यर्थः ।
सो ऽयं प्रयत्नान्तरीयस्थानशब्दस्यार्थः ॥
ननु यद्यनूद्यमानमशक्यं विशेष्टुम्, अथार्तिरपि कथं हविषा विशेष्यत इत्यत आह---अत्र हि यद्यपीति ।
अनन्यगतिकत्वात् प्राप्तेन हविषा विशेषणमार्तेः ।
उभयत्वस्य तु न पूर्वप्राप्तत्वम्, नापि तदन्तरेणार्तिरशक्यप्रतिपत्तिः, साध्यायोमव्यवच्छेदः अपि हेतोरीदृश इत्यर्थः ।
यद्येवमुभयवचनं किमर्थमित्यत आह---प्रतीयमानमपि उभयत्वमविवक्षितम् ।
विशेषणतयेति शेषः ॥
अयं वाक्यार्थः ।
आर्तिविशेषणतया हविस्तावदुपादातव्यम्, तस्य चाज्यपुरोडाशाद्यनेकरूपत्वादुभयत्वमप्यस्तीति प्रायिकतया तदप्युपात्तम् ।
तेनेदं सिद्धं भवति, एकमनेकं वा हविर्यस्यार्तिमार्च्छेदित्यादि ।
उभयत्वविवक्षापक्षे तु नैकैकहविरार्तौ प्रायश्चित्तविधिः स्यादिति दोषः ॥
न चैवमस्त्विति वाच्यम्, वाक्यभेदप्रसङ्गस्य तादवस्थ्यादिति ।
न चानुमेये सद्भाव एव, तत्तुल्य एव सद्भाव इति वाक्यद्वयमेवेदमुभयविधायकमस्तु, को दोष इति वाच्यम्, त्रिरूपसंपन्नस्य हेतुरूपस्यैकस्यार्थस्यालाभप्रसड्गात् ।
वाक्यभेदे ह्यवश्यमर्थभेद इति न्यायात् ।
शङ्कते---अथेति ।
अवान्तरवाक्यभेदे ऽपि महावाक्यस्यैकत्वात्, विवक्षितैकार्थप्रतिलम्भ इति शड्कार्थः ॥
अत्र नैयायिकसमाधानमाशड्क्य बौद्धः स्वभाषया निराकरोति---न चेति ।
यद्यपि तत्तुल्य एवेत्यन्ययोगव्यवच्छेदस्य विपक्षमात्रविषयत्वं तदा स्याद् यदि विषयान्तरसंकोचः स्यात्, स च तदेकवाक्यतयेति परस्पराश्रयदोषः ।
अन्यथोभयोरपि तत्तुल्यान्यत्वाविशेषे विपक्षयोगस्य व्यवच्छेदो न त्वनुमेययोगस्येति कुतः? विहितत्वात् तस्येति चेत्? अत एव विरोधादेकवाक्यत्वासङ्गतिरित्युच्यते, यस्मात् तदेकवाक्यतायामेव सत्यां विपक्षमात्रविषयत्वमस्य वक्तुं शक्यते ।
सापि तस्मिन् सत्येवेति दुरूत्तरदोषापत्तिः ।
तथापि बौद्धनये शाब्द्धं व्यवहारमाश्रित्य समुच्चय एव न निर्वहेत्, कृतमनया विरोधे सूक्ष्मेक्षिकयेत्याशयवानाह---अन्यापोहेति ।
सो ऽयं साधारणो ऽपि न्यायो ऽप्रस्तुतत्वभिया विशेषनिष्ठतयावतारित इति ॥5 ॥
॥ परिशुद्धिः ॥
यथोद्देशं च लक्षणादिति भावपदम् ।
लक्षणमाह इत्यनयोर्मध्ये इतिः पूरणीयः ।
अत्रापीत्यपिशब्दः प्रत्यक्षलक्षणोपक्षया ।
ननु साध्यते ऽनेनेति साधनमित्येवास्तु, संभवति चायमर्थो ज्ञानस्य करणतायाम्, तस्य प्रसिद्धसाधर्म्यसमुत्थत्वादित्यत आह---तदेतदिति ।
न सामान्यातिरिक्तं सादृश्यम्, अनाश्रितस्यान्याश्रयत्वे द्रव्यत्वप्रसड्गात्, अनन्याश्रितस्याप्ययुतसिद्धोभयव्यड्ग्यत्वे समवायत्वप्रसड्गात्, गोगवयादियुतसिद्धनिष्ठाभिव्यक्त्यनुपपत्तेश्च ।
युतसिद्धाभिव्यड्ग्यत्वे ऽभावत्वप्रसड्गात्, अयुतसिद्धावयव्यवयवादिनिष्ठाभिव्यक्त्यनुपपत्तेश्च ।
नित्यस्यानेकाश्रयत्वे जातित्वप्रसड्गात् एकाश्रयत्वे तस्य नाशे अनाश्रयस्यावस्थानानुपपत्तेः नित्यत्वे प्रमाणाभावप्रसड्गाच्च ।
सामान्यं ह्येकाश्रयनाशे ऽपि आश्रयान्तरे ताद्रूप्येणैव
प्रत्यभिज्ञानात् नित्यमिति व्यवस्थाप्यते ।

इदं तु न तथेति कथं नित्यमिति ज्ञातव्यम्?
प्रत्युतानित्यैकाश्रयत्वादेवानित्यत्वमेवानुमीयते, नित्यैकवृत्तित्वे तु स्वरूपसतो विशेषत्वप्रसंगात् ।
सत्तासतो गुणत्वापत्तेः ।
अनित्येषु च सदृशव्यवहारहानप्रसड्गात्, अनित्यस्य त्वनेकाश्रयत्वे गुणवतो द्रव्यत्वप्रसड्गात् ; निर्गुणत्वे गुणत्वप्रसड्गात् ।
एकाश्रयत्वे संयोगविभागयोरनपेक्षकारणस्य कर्मत्वप्रसड्गात् ।
तद्विपरीतस्य तु गुणत्वप्रसड्गात् ।
गुणेषु च कर्मसु च सादृश्यव्यवहारो न स्यात्, तेषां समवायिकारणत्वाभावेनानित्यधर्मायोगात् ।
आश्रयसादृश्येन तद्व्यवहारोपपत्तौ विसदृशाश्रयाणां गुणकर्मणां तद्व्यवहारानुपपत्तेः, कारणत्रयविचारानुपपत्तेश्चेत्यर्थः ।
साधर्म्यप्रसिद्धिरपि द्रष्टव्येति ।
सूत्रे सा च कर्मधारयसमाश्रयेण ।
इत्याप्तवाक्यादिति वाक्यादारभ्यं प्रत्यक्षपर्यन्तेनेति हृदयम् ॥
प्रज्ञापनीयस्य गवयशब्दवाच्यतयेति वदता अतिदेशवाक्यस्याकृतसमयसंज्ञासमभिव्याहारो दर्शितः ।
तथापि करणव्युत्पत्त्या साधनपदव्याख्यानस्य परित्यागे न काचिदुपपत्तिर्दर्शिता, प्रज्ञापनपदस्यापि करणव्युत्पत्तिसंभवादत
आह--पिण्डस्य हीति ।
प्रत्यक्षात् सादृश्यात् प्रजानन् तेन प्रज्ञाप्यत इति वदन् सादृश्यस्यैव प्रज्ञायमानस्य कारणत्वमभिप्रैति ।
तथा च तेन सह साध्यसाधनपदस्य व्यधिकरणत्वादन्यस्य च करणस्याभावात् साध्यसाधनपदमनर्थकमापद्येत, यदि भावसाधनं न स्यात् ।
न च तज्ज्ञानमेवास्तु करणमिति वाच्यम्, अवान्तरव्यापारविरहिणः करणत्वायोगात् ।
असमीचीने ऽपि सादृश्यज्ञाने तथाभावप्रसड्गाच्च ।
तदपि हि सादृश्यज्ञानमेव ।
प्रमाणानुवृत्त्या तन्निवृत्तिरित्यपि न वाच्यम्, वृत्तैरेव पदैः समीहितसिद्धावनुवृत्तेरनवकाशात् ।
सापि हि ग्रन्थवैचित्र्यमापादयन्ती पदान्तरवृत्तिरेव ।
तथापि प्रज्ञानं प्रसिद्धिपदार्थोन तु प्रज्ञापनमित्यत आह---इत्येतदर्थे ।
प्रमाणस्य व्यापारो ऽव्यवधानेन फलोपरक्ता प्रातिस्विकी क्रिया ।
ज्ञायमानस्य सादृश्यस्य करणत्वमाविष्कर्तुं तस्यान्यत्र अचरितार्थः फलानुगुणो व्यापारो दर्शित इति तात्पर्यार्ऽथः ॥
तत्रेति ।
तात्पर्यार्थाक्षरार्थयोः ।
लक्ष्यपदं हि लक्षणव्यवस्थापकं न भवति परस्पराश्रयत्वमगतिर्वेति दोषात् ।
ननु उपस्थापकमपीत्याशयवानाशड्क्य द्वितीयपदोपादानतात्पर्यमाह--यद्यपीति ।
नन्वेवं सति प्रथमैवास्तु, न चेयमशोकवनिका, तस्याः प्रथमत्वादेव प्रथमं बुद्धावुपनिपातात् ।
न साध्यसाधनपदेन फलवाचिना सामानाधिकरण्यानुपपत्तेः ।
अस्तु तर्हि तदपि करणसाधनम् ।
एवं यत इत्यध्याहारकष्टसृष्टिरपि न स्यात् ।
सत्यमेवैतत्, किन्तु फलाभावेनैव हेतुनोपमानस्य प्रामाण्यमपनीयते परेण ।
तस्मात् तदवबोधाय निष्कृष्य फलमस्य दर्शनीयमिति तथैव सूचितवान् ।
एतच्चाग्रे स्फुटमिति नेह टीकाकृता दर्शितम् ॥
भाष्यवार्त्तिकयोः विरोधमाशड्क्याह---वार्तिककारेणेति, तृतीयासमास इत्युपलक्षणम् अर्थसिद्धः
कर्मधारयसमासो ऽपि न निरस्त इति द्रष्टव्यम्, अविरुद्धत्वात् ।
प्रसिद्धं साधर्म्यं यस्येति बहुव्रीहावपि कर्मधारयार्थस्य प्रविष्टत्वात् ।
एवं प्रसिद्धेन साधर्म्यमित्यत्र तृतीयातत्पुरुषस्य प्रवेशाद् विरोधान्तरमाशड्क्याह---भाष्यकारेण हीति ।
नायमर्थो भाष्याक्षरेभ्यः श्रूयत इत्यत आह---आक्षिप्रेति ।

मूल पाठ: Nyāyavārttikatātparyapariśuddhi 1 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc