न्यायवार्त्तिकतात्पर्यपरिशुद्धि · भाग 6180
तस्य हि साक्षादेव निःश्रेयसहेतुता अभ्युपगम्यते ।
तत्राभयनोद्यपरिहारार्थं निःश्रेयसद्वेविध्यप्रतिपादनमुपस्थाप्यत इति भावः ।
अथ इद्युच्यत इत्यन्तेन पूर्वपक्षः ।
पूर्वः पूर्वो हेतुरुत्तर उत्तरस्तद्वानिति ॥
ननु साक्षात्कारवांश्च देहादिमाश्चेति दुर्घटमिदम् ।
न हि श्रवणादेरिव परे निःश्रेयसे कर्तव्ये साक्षात्कारस्यापि किञ्चित् कर्तव्यान्तरमस्तीत्यत आह--न चैवमिति ।
चोद्यसंभावनाय दृष्टान्तः--न च प्रायश्चित्तेनेवेति ।
न तावत् प्रायश्चित्तस्याधिकारापत्तिः फलम्, आगममन्तरेणादृष्टकर्मणां फलविशेषकल्पनायां प्रमाणाभावात् श्रूयमाणफलपरित्यागप्रसंगाच्च ।
बलवति बाधके सति नेदमनिष्टमिति चेत्--न, अनन्यथासिद्धस्यागमस्य बाधकसहस्रेणाप्यपनेतुमशक्यत्वात् ।
शक्यत्वे वा सुरापयेत्वानुमानमपि दुर्निवारमिति हैतुकानां दत्तः स्वहस्तः स्यात् ।
अत एव न प्रायश्चित्ताचरणदुःखमेव ब्राह्महत्यादीनां फलम्, तत्फलत्वेनाश्रुतेः, प्रायश्चित्तविधिवैफल्यप्रसंगाच्च
अविशेषाधानाच्च ।
अनिच्छेतो ऽपि कर्मबलादेव तत्सिद्धेश्च ।
तस्माददत्तफलान्येव कर्माणि प्रायश्चित्तेन क्षीयन्त इत्येव साधु ।
तथा तद्वदेव तत्त्वसाक्षात्कारो ऽपि करिष्यतीत्यर्थः ॥
अत्र चागमबलप्रवृत्ता आगमेनैव बोधयितुं युज्यन्त इत्याशयवानाह,
नाभुक्तं क्षीयते
[]इति ।
ननु
ज्ञानाग्निः सर्वकर्माणि...भस्मसात् कुरूते तथा ।
[गीता 4.37] इत्येवं विपक्षे ऽपि स्मृतिरस्ति ।
तत् कथं निर्णयो भविष्यतीत्यत आह--अन्त्यसुखेति ।
स्यादप्येवं यदि नाभुक्तमित्यादिस्मृतेरनुग्राहको न्यायो न स्यात्, अस्ति च तथा ।
तथा च प्रयोगः, विवादाध्यासितानि कर्माणि
भोगादेव क्षीयन्ते अचीर्णप्रयश्चित्तकर्मत्वादारब्धशरीरकर्मवत् ।
न चात्रागमविरोर्धः, तस्यागमान्तरविरोधेनानिर्णायकत्वादित्यर्थः ।
न चोत्सर्गसिद्धायाः स्मृतेरसति बाधके ऽन्यथामावो युज्यत इत्याशयवानाह--औत्सर्गिकस्येति ।
ननु,
मिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥
[मुण्डक. 2.2.8] इति श्रुतौ परिपन्थिन्यां कथमुच्यते ऽसति बाधक इति, कथं च तद्विरोधेन स्मृतेर्निर्णायकत्वमनुमानानुग्रहो ऽपीत्यत आह--क्षीयन्त इति ।
न हीयं श्रुतिरदत्तफलानामेव कर्मणां तत्त्वज्ञानात् क्षयमाह, किं तु क्षयमात्रम् ।
तच्चोपभोगेनापि भवन्नकिञ्चिद् विरूणद्धीति भावः ।
देहेषूपभोगो देहोपभोगः ।
अपि च विपरीतापि श्रुतिर्विद्यत इत्याह--तावदेवेति ।
अस्य तत्त्वसाक्षात्कारवतः तावदेव चिरं विलम्बः ।
यावन्न विमोक्ष उपात्तकर्मराशेः सकाशात् फलोपयोगेन ।
अथ तस्मिन् सति संपत्स्यते कैवल्येनेत्यर्थः ।
भोगेन त्वितरे क्षपयित्वा
[]इति वाक्यशेषात् ॥
ननु भोगेन प्रक्षयो ऽनुपपन्न एव, कर्मराशेरनन्ततया अनियतविपाककालतया चेत्यत आह--योगर्द्धीति ।
उक्तम् आदिवाक्ये ।
शङ्कते--न चेति ।
अयमाशयः--यदि तावत् कर्मणामेवायं महिमा, यदेकदैव नानाविधदेहाद्यवान्तरव्यापारैस्तैस्तैरूपभोगः साध्यः, किं योगप्रभावपरिकल्पनया? अथ नैष महिमा नेषाम्, तथापि क्व योगप्रभावस्योपयोगः? न हीश्वरो ऽपि कर्मणां स्वभावं विपर्यासयितुमर्हति ।
तस्मात् स्वप्रतिभया कल्पनीयमेतत् ।
एवं चेद् वरमदत्तफलान्येव योगप्रभावात् क्षीयन्त इति कल्प्यतां लाघवायेति ।
परिहरति--दृष्टानुसारेणेति ।
प्रमाणानुसारेण ॥
यथा ह्युपभोगादेव कर्मणां क्षयः, देहादिषु सत्स्वेव चोपभोगः, लब्धवृत्तिभिरेव कर्मभिर्देहादिसम्भवः, सहकारिलाभ एव तेषां वृत्तिलाभः, ते च सहकारिणः क्वचित्फलोन्नेयाः यथा युगपदनेकेन्द्रियोपग्रहे, क्वचिदागमगम्या यथा वासुदेवसौभरिप्रभृतीनां काययौगपद्य इति सर्वत्र प्रमाणमस्ति, नैवमनुपभुक्तकर्मक्षये ।
यथा च महाप्रलये सर्वकर्मणामेकदैव वृत्तिनिरोध आगमप्रामाण्यादास्थीयते, तथा योगर्द्धिकाले ऽपि सर्वेषां वृत्तिलाभ आस्थेय आगमप्रामाण्यादेवेति न किञ्चित् स्वप्रतिभामात्रेण कल्पितमित्यर्थः तादृशश्च मुनिरपरनिःश्रेयसवानित्यर्थः ।
किमतो यद्येवमित्यत आह--इति न वातपुत्रीयमिति ।
अथ परं निःश्रेयसं कीदृशमित्यत आह--परं त्विति ।
इत्युपपन्नं निःश्रेयसद्वैविध्यमिति ।
पूर्वपक्षनिराकरणायेति शेषः ।
न सुखदुःखतया मनुते रागद्वेषप्रसवहेतुत्वाभावादित्यर्थः ।
न ह्यस्ति सम्भवो न तत्र तृष्यति तच्च तस्य सुखु यादृशमज्ञानिनः तृष्णाजनकम्, न तद् द्वेष्टि तच्च तस्य दुःखमिति यादृशमज्ञानिनो द्वेषजनकमित्यर्थः ।
उक्तं तात्पर्यमक्षरार्थीकर्तुं समर्थितमेव शङ्कते--स्यादेतदिति ।
उपभोगप्रयत्न आस्थेयो मोक्षाय त्वरमाणेनापि कायव्यूहादाविति शेषः ।
यस्तु त त्वरते यदा भविता कर्मक्षयस्तदा भविता मोक्षो ऽपि किं त्वरया? प्राप्ता तावन्निरपाया भूमिरिति समर्थितहृदयः, तस्य तु निःश्रेयसद्वययौगपद्यशड्कापि नास्तीति भावः ॥
नन्वेतावतैव सर्वं सुस्थं किमुत्तरप्रबन्धेनेत्यत आह--तदेवमर्थगतिमिति ।
मिथ्याज्ञानदोषप्रवृत्तीनां प्रवाहरूपाणामिति बोद्धव्यम् ।
प्रवृत्तिश्चात्र कारणरूपा ग्राह्या, कार्यरूपाया अनुच्छेदात् ।
जन्मदुःखयोः प्रवाहरूपयोरूच्छेदक्रमो नास्ति ।
कुतः? पूर्वोपात्तस्येति ।
मूलानुच्छेदादित्यर्थः ।
आगामिवार्त्तिकविरोधं परिहरन्नाह--इदं चेति ॥
यद्यपि दुःखादीनामेकार्थसमवायलक्षणो ऽपि योगः संभवति तथापि शरीरादेर्जन्मनः स नास्ति ।
कार्यकारणभावस्तु तस्यापि स एव ग्राह्य इत्याह--योग्यतयेति ।
कारणस्य हि पूर्ववर्तित्वं युज्यत इत्यत आह--अत्र
चेति ।
उत्तरस्यानन्तरं च पूर्वमेव स्यात्, न च पूर्वं कार्यमित्यत आह--तदनन्तरत्वं चेति ।
अव्यवहितमव्यवधानं
तेनादौ पाठो ऽव्यवहितादिपाठः ।
मिथ्याज्ञाने कारणे तत्कार्या दोषाः अव्यवधानेनैव आदौ पठिता इति शेषः ।
यथैतत् तथान्यत्रापीत्यत आह--एवमिति ।
तेनायमर्थः ।
दुःखादीनां कार्यकारणभावः ।
तेषामेवोत्तरोत्तरापाये
तदनन्तराभावादपवर्गं इति ।
दूषयति--न हीति ।
अपवर्ग एकोर्ऽथंः ।
उत्तरोत्तरापाये तदनन्तराभावादिति च पदद्वयम् ।
केषामिति दुःखादीनामिति च पदं किं भवतीति साकाड्क्षम् ।
तस्मादेकवाक्यत्वलक्षणयोगादेकमेवेदं वाक्यमित्यर्थः ।
यदपि वाक्यभेदेन प्रयोजनाधिक्यमभिहितम्, तदपि नास्तीत्याह--एकनिवृत्त्येति ॥
विश्वतोमुखत्वे ऽप्यसंदिग्धत्वं प्रकरणानुवृत्त्यादिभिरित्यविरोधः ।
सारवत् प्रयोजनवत् ।
अनवद्यं शिष्टानामदुःखप्रतीतिकरम् ।
प्रकृतत्वेनास्तोभमिति व्याचष्टे--अस्तोभमिति ।
यथाव्याख्याते विप्रतिपद्यमानं लक्षणान्तरेण बोधयति--तथा ह्याहुरिति ।
लाघवं वाक्येषु पदकृतम्, पदेषु स्वल्पत्वमक्षरकृतमित्यपौनरूक्त्यम् ।
एतच्च कार्यकारणभावस्य योगविभागेनाभिधीयमानत्वमभ्युपगम्योक्तम् ।
वस्तुतस्तु तेनाप्यसौ सूचनीय एव ।
न हि योगविभागस्य एतत्सामर्थ्यम् ।
अपि त्वर्थाधिक्यसूचनमात्रम् ।
एतच्च विभागे ऽपि लभ्यत इत्याह--इतरेतरेत्यादि ।
ननु सूत्रे मिथ्याज्ञानमात्रमेव श्रूयते, तत् कथमाह तत्रात्मादावित्यत आह--यद्यनि सामेति ।
भाष्यविषयतां वार्त्तिकस्य दर्शयति--तदेतेनेति ।
न खलु यथा कुण्डे बदरं संयोगेन पटे वा शौक्ल्यं समवायेनेत्यर्थः ।
ननु न तावत् सत्तामात्रेण सारूप्यं भ्रान्तावुपयुज्यते जपाकुसुमादिसन्निधानपरिभूतसितिम्नि स्फठिकादावनुपलभ्यमानविशेषस्मरणे ऽपि रजतादिविपर्यासाभावात् ।
तस्मादुपलभ्यमानमेव सारूप्यं तद्धेतुरित्यास्थेयम् ।
तदप्यसंगतम्, सारूप्यस्य भेदाधिष्ठानतया तत्प्रतिभासने भेदस्यापि प्रतिभानाभेदारोपानवकाशात् ।
तस्मात् सदसतोः सारूप्याभावादित्याशड्कैवेयमनुपपन्नेत्यत आह--सर्वत्र हीति ।
न हीदमने, सदृशमिति कृत्वा सारूप्यग्रहणमिति ब्रूमः ।
किं तर्हि? रजतादौ यो धर्मश्चकचिक्यादिः उपलब्धपूर्वः स एव तज्जातीयो वा पुरोवर्तिन्युपलभ्यते यदि तदा भ्रान्ति, नातो ऽन्यथेत्यर्थः ॥
अन्वयं दर्शयित्वा व्यतिरेकमाह--न हीति ।
यद्यपि हस्तिमशकादावपि यथा कथञ्चित् सारूप्यमस्त्येव, तथापि व्यवच्देदकधर्मेणानभिभूतं सारूप्यमिहाभिप्रतम् ।
व्यवच्छेदकानभिभूतत्वं च तत्र नास्तीत्यतः सर्वात्मना वा सारूप्यमेकदेशेन वेत्येवमादि परास्तं वेदितव्यम् ।
शङ्कते--असदृशे ऽपीति ।
इदमत्र विवक्षितम्, सारूप्यं ह्यारोप्यस्यारोपविषयेण चिन्त्यते, अन्यथा वा? अनन्तरे ऽतिप्रसंगः ।
प्रथमे तु न तावत पीतगुणी शुक्लगुणिनि शड्खे आरोप्यते, पीतं चिरविल्वमिदमिति प्रत्ययानुदयात् ।
नापि शुक्लगुणे पीतगुणः, शुक्लगुणस्याप्रतिभासनात् ।
नापि शुक्लत्वसामान्याधारे रूपस्वलक्षणे पीतगुणः, चाक्षुषप्रतीतौ शुक्लत्वसामान्यानवभासे तदाधारस्य रूपस्वलक्षणस्य भासनायोगात् ।
भासने ऽपि वा द्रव्यत्वसामानाधिकरण्यं न स्यात् ।
नापि पीतत्वं सामान्यं शुक्लत्वसामान्याधारे ।
तद्धि तदात्मतया वा आरोप्येत्, तत्संसर्गितया वा? आद्ये शुक्लत्वसामान्याधारा व्यक्तिः पीतत्वसामान्यात्मना प्रथमाना न देशकालनियता स्यात् ।
व्यक्तिर्हि देशकालनियता न सामान्यम् ।
सा चाप्रथितैव ।
न च पीतत्वसामान्यमेव शुक्लगुणव्यक्तिरूपेणरोप्यत इति साम्प्रतम् ।
तथा सति पीतत्वं न प्रतीयेत ।
नापि शुक्लत्वसामान्यमेव पीतत्वसामान्यतदात्मतया आरोप्येत, तथा सति शुक्लत्वेन शुक्लत्वं प्रतीयेत ।
न हि तस्यान्यत् किञ्चिद् रूपमस्ति, येन प्रतीतिपथमवतरेत् ।
सर्वथा अप्रतीतं च नारोपविषय इत्यसंगतिरेवास्य कल्पस्य, संसर्गितया तु सामान्ये आरोप्यमाणे शुक्लगुणस्य शुक्लत्वेनैव प्रतीतिः स्यात् ।
न च पीतिमप्रतीतेर्विनयतारतम्यं स्यात्, सामान्यस्यैकरूपत्वात् ।
तस्मात् पीतगुण शङ्खे समारोप्यत इति वाच्यम् ।
तथा च गुणगुणिनोः क्व सादृश्यवार्तापीत्यर्थः ॥
समाधत्ते--न तत्रापीति, न ह्यत्र पीतगुण आरोप्यो ऽपि तु पीतगुणश्च शड्खश्च आरोपविषयौ, संसृष्टस्वभावत्वं त्वारोप्यम् ।
तथा च संसृष्टस्वभावाभ्यां गुणगुणिभ्यामनयोः असंसृष्टस्वभावयोः सारूप्यमिह प्रयोजकम् ।
उपदर्शितं च तदिति किमप्रयोजकेन गुणिसारूप्येण गुणसारूप्येण वा, सता असता वेत्यर्थः ।
असंबन्धाग्रहो वैयधिकरण्याग्रहो विषयिण विषयमुपलक्षयति ।
तेन व्याधिकरणग्रहणाविषयीकृतत्वं सारूप्यं तयोः, यथा पीतिमाचिरबिल्वयोः तथैव पीतिमशड्खयोरित्युक्तं भवति ।
एकेन्द्रियोपनतसंबन्धिद्वयविषयं सारूप्यमुपपाद्यन्द्रियद्वयोपनीतसंबन्धिद्वयविषयं सारूप्यमुपपादयति--एवं त्वगिन्द्रियेति ।
न चैवं सति
तादात्म्यभ्रमे ऽपि भेदाग्रह एव सारूप्यमस्तु, कृतं चाकचिक्यादिनेति वाच्यम्, तदन्तरेण संस्कारानुद्बोधात्, तेन च
विना रजतारोपनियमानुपपत्तेः ।
इह तु संसृष्टत्वानुभवजनितसंस्कारोद्बोधो यावन्मात्रेण तावदेवोपयुक्तम्, संसर्गस्य च संसृज्यमानावेव विषयः ।
तौ चानुभूयमानावेवेति, किं तदुपनायकसादृश्यान्तरापेक्षयेति सर्वमवदातम् ।
नन्वयमनुभवक्रमो ऽनुभवबाधित एवेत्यत आह--अतिशीघ्रतयेति ॥
ननु सादृश्यं चेद् भ्रान्तिबीजमुपपादितम्, तर्हि सर्वं सर्वत्रारोप्येत्, अस्ति हि केनचित् कस्यचित् कथञ्चित् सारूप्यमित्यत आह--नेति ।
एवं द्विचन्द्रेति ।
तथाविधापेक्षाबुद्धिविषयत्वं द्विचन्द्रभ्रमे, भेदमात्रारोपे तु नानादिग्देशावयवसंबन्धः ।
प्राच्यां प्रतीचीभ्रमे दक्षिणोत्तरान्यत्वे सति दिक्त्वमेव ।
एवमन्यत्रापि अलातचक्रभ्रमे मध्यासंबन्धे सति सर्वदिक्संबन्धः ।
आदिग्रहणादगच्छति गतिविभ्रमे विभागवैपरीत्यम् ।
अस्थूलेषु केशेषु स्थूलविभ्रमे
तावद्देशाच्छादकत्वम् ।
अप्सु दण्डस्य वक्रताभ्रमे तरङ्गवक्रिमदण्डयोरसंसर्गग्रह इत्येवं नेयम् ।
सर्वत्र च तत्त्वाग्रहः
संप्लवत इति ॥
इहात्मनो दुःखहेतुत्वेन शरीरेन्द्रियादिवद् हेयत्वमेव बौद्धैरापादितम् ।
यथा हि, इन्द्रियादिना विना नात्मा दुःखं जनयितुमलम्, एवं नेन्द्रियादिकमपि तमन्तरेण ।
न हि निराश्रयं दुःख नाम ।
अत आत्मापि हेयः ।
तदुक्तम् धर्मकीर्तिना---
न तैर्विना दुःखहेतुरात्मा चेत् ते ऽपि तादृशाः ।
निर्देषं द्वयमप्येवं वैराग्यं च द्वयोस्ततः ॥
[प्र.वा.1.227] इति तच्चैतदसाधीयः तथा हि, न तावदात्मनो हानं रोगादिवद्विनाशलक्षणम्, नित्यत्वात् ।
नापि दन्दशूकदष्टाड्गुलीवद् विप्रयोगादिलक्षणम्, नापि सुतमरणादिवत् प्रतिपत्तिनिरोधलक्षणम्, स्वसंवेदनत्वादिति वेदान्तिनः ॥
वयं तु ब्रूमः---तद्धि तदा स्यात्, यदि ज्ञातस्य सतो दुःखं प्रत्यात्मनो हेतुत्वं सुतमरणादेरिव ।
न त्वेतदस्ति ।
किं नाम? सत्तामात्रेण ।
तस्मादात्मनो हेयत्वव्युत्पादनं वैयात्यमात्रविजृम्भितमेतत् ।
आत्मदृष्टेस्तु हेयत्वव्युत्पादनं मनाक् सदलमित्याशड्क्य निराकरोति--न त्विति ।
अभ्यर्हिततमम् उपकार्यतमम् ।
सत्त्वम् आत्म ।
यद्यपि रागादिनिवृत्तिहेतुर्नैरात्मदर्शनमिति गुडजिह्विका, वस्तुतस्तु न तावन्नित्यात्माभावदर्शनमात्रं रागादिनिवृत्तिहेतुः, चार्वाकादीनामेव वीतरागत्वप्रसंगात् ।
अहङ्कारनिवृत्तिहेतुर्नैरात्म्यदर्शनम्, तत एव रागादिनिवृत्तिरिति चेत्? सापि किं शरीरादौ, चेतने वा? आद्ये सिद्धसाधनम्, शरीरादवहङ्कारस्य मिथ्यात्वात् ।
तन्मूलत्वाच्च रागद्वेषयोः, तन्निवृत्तौ तयोरपि निवृत्तिरिति को नाम नाभ्युपैति ।
न च शरीरादावहङ्कारनिवृत्तेर्नित्यात्मदर्शनं विरोधि, किं त्वनुकूलमेव, न हि शुक्तिकातो रजतं भेदेनाव्यवस्थापयतस्तस्य रजतबुद्धिःनिवर्तते ।
अथ चेतनविषयैवाहङ्कारनिवृत्ती रागादीनपनयतीति विवक्षितम्? हन्तैवं स्वाकारे ऽपीदन्ताव्यवहारिणां पृथग्जनानां वीतरागत्वप्रसंगः ।
न हि ते शरीरादिविविक्तम् अहमिति प्रतियन्ति ॥
अथ बाह्याभ्यन्तरविषयतयाहङ्कारनिवृत्तिरभिप्रेता? सापि किं सर्वथा ज्ञानाभावादेव, चेतनस्यापीदन्तास्पदत्वादेव वा, तस्मिन्नेव नास्तित्वाध्यारोपाद् वा? न तावदाद्यः, अदृष्टित्वप्रसङ्गात् ।
न चैतत् प्रयत्नशतेनापि सिध्यति ।
यथा यथा दृष्टिनिरोधाय प्रयत्नः, तथा तथा दृष्टेः प्रत्यापत्तेः ।
न चादृष्टेरेव रागादयो विनिवर्तन्ते, युगसहास्त्रमपि सुप्तस्य पुनर्जागरावस्थायां रागादिदर्शनात्, नापि द्वितीयः, अहमभावे सतीदमो ऽप्यभावात्, आत्मानि सति परसंज्ञेति त्वयैवोक्तं यतः ।
नापि तृतीयः, ग्रहणाग्रहणयोरूभयोरपि असंभवात् ।
यदि ह्यहमास्पदं चेतनो गृहीतः, कथं नास्तिताध्यारोपः? न गृहीतश्चेत् कुत्र नास्तिताध्यारोपः? न च प्रथमं ग्रहः
पश्चादारोप इति त्वया वक्तुं शक्यते ।
न चापरिस्फरति निषेध्ये निषेधसंभवः ।
स्वप्रतिपष्ठज्ञानमात्रेणेति चेत्--न, ज्ञानस्य स्वप्रतिष्ठताध्रौव्ये ऽपि रागादिदर्शनात् ।
तत्तब्दहिरूपप्लवविरहे सतीति चेत्? तर्हि बहिरूपप्लवविरहे स्वात्मप्रतिष्ठं ज्ञानं रागादिनिवृत्तिहेतुरित्येवंभूतयात्दृष्ट्या किमपराद्धम्, येन तां निरस्य नैरात्म्यदृष्टिरूपादीयते? औदासीन्यदृष्टिरेव नैरात्म्यदृष्टिरिति चेत्? किमिदमौदासीन्यम्? शून्यत्वमिति चेत्? एवं तर्हि स्वात्मदृष्टिरपि दृष्टिर्न स्यादित्यदृष्टित्वप्रसंगः ।
अनालम्बनतया निःसंबन्धित्वमौदासीन्यमिति चेत्? तर्हि निरात्मीयतादृष्टिं वदन् कुतो नैरात्म्यदृष्टिं सुप्त इव प्रलपसीति ।
एवं प्रेत्यभावाभावज्ञानस्येति परमं निदानमिति अनुषज्यते ।
तथा च
इत्यपि गुडजिह्विका ।
वस्तुतस्तु नास्ति कर्म, नास्ति कर्मफलम्, नास्ति प्रेत्यभाव इति ।
यावज्जीवेत् सुखं जीवेन्नास्ति मृत्योरगोचरः
इति न्यायमालम्बमानेन प्राणिवधादत्तादानादावेव घटितव्यम् ।
साधीयश्चैवमस्य कैवल्यमिति ।
न च
सन्तानमादाय प्रेत्यभावादिदृष्टिरूपपत्स्यत इति वाच्यम्, तदा हि तमादाय सोपपद्येत, यदि तद्दृष्टिरनर्थान्निवर्तयेत्
अर्थाच्च प्रवर्तयेत् प्रवृत्तिनिवृत्ती च सैव दृष्टिः करोति या रागद्वेषौ प्रसूते, तन्मूलत्वात् तयोः ।
तथा च तादृशी संतानदृष्टिरपि हेयैव ।
न तादृशी चेन्नास्तिकत्वमेव निर्वाहयेत् ।
तदिदमुक्तम्--सो ऽयं वृश्चिकभियेति ।
तस्माद् यः परलोकार्थो तस्य परलोकिनमात्मानमड्गीकृत्यैव स्वर्गे ऽपपर्गे वा प्रयत्नः, यस्तु नित्यमात्मानं नाभ्युपैति तस्य चार्वाकस्य इव स्वर्गापवर्गावेव न स्तः, कुतस्तदर्था प्रवृत्तिरित्याशयवानाह--सेयमिति ॥
यत्तूक्तम्--आत्मानमभ्यर्हितं पश्यन्निति सो ऽयं कस्य प्रसङ्गः? किं सर्वदुःखोपशममुपकारमपश्यतः, पश्यतो
वा? आद्यश्चेदेवमेतत् ।
न ह्येवंभूतस्य नैरात्म्यदृष्टिरभ्युपपद्यते ।
न ह्यात्मोच्छेदमेव कश्चिदुपकारत्वेन मनुते, अपि तु दुःखं जिहासमान आत्मानं जहाति, आत्मानमनपहाय दुःखस्य हातुमशक्यत्वादिति मन्यमानस्तस्माद् दुःखमजिहासतः सुखं चोपादातुमिच्छतो नैरात्म्यदृष्टेरसंभव एव ।
तथा च तथाभूतस्य नैरात्म्यदर्शिनो नित्यात्मदर्शिनो वा तुल्यः संसारः ।
द्वितीयस्तु कल्पो ऽसंगत एव ।
न हि सर्वदुःखोच्छेदम् एवोपकारं पश्यति सुखाय तदुपकाराय च घटत इति ।
सर्वदुःखोच्छेदश्च सुखं चेति विप्रतिषिद्धमेतत् ।
एवं सर्वदुःखोच्छेदमिच्छति परं चापकरोतीत्येतदप्यसंगतम्, न हि परापकारः सर्वदुःखोच्छेदनिदानमिति हृदि निधायाह--अभ्यर्हितता चेति ॥
सामान्यधर्मो ऽहङ्कारास्पदत्वम् ।
अहमिति कर्तृपदविषयत्वम्, अनेन तत्प्रवृत्तिनिमित्तस्य कर्तृत्वस्यैकदेशमुपलक्षयति ।
तेनायमर्थः, इतरकारकप्रयोक्तृत्वम् बाह्यकारकप्रयोज्यतां च दृष्ट्वा भेदाग्रहे सति शरीरादौ कर्तृत्वमारोप्यात्मत्वेन विपर्यस्यतीति तदिदमुक्तम्--तां खल्विति ।
एवं सिद्धं कृत्वा विपर्ययम् अन्यथाख्यातिरूपमिति शेषः ।
संप्रति सन्दिहानो विशेषत इति शेषः ।
ननु स्थाणावेवायं मम चोरप्रत्ययो वृत्त इत्यागापालाङ्गनं प्रसिद्धमिति तदत्र संशय एव नास्तीत्यत आह--परीक्षकाणामिति ।
प्रतिपत्तुः प्रत्ययात् प्रत्येतव्यात् ।
अव्यतिरेकात् अभेदादित्यर्थः ।
नन्विदं रजतमित्यत्र द्वयं प्रतिभाति, ज्ञानस्यात्मा, पुरोवर्ति द्रव्यं च ।
तत्र पुरोवर्तिनो रजतत्वे प्रतिषिद्धे, अर्थादापद्यते ज्ञानस्येति, तदन्येषां तु प्रतिपत्त्यनारोहादेव नावकार्शः ।
तत् कथमुच्यते वणिग्वीथ्यादाविति, अत आह--आन्तरत्वं त्वस्यानुपलब्धचरं कतस्त्यम्? यद्धि यस्य कदाचिदवगतम्, तदन्यत्र प्रतिषेधे पारिशेष्यात् तत्र गम्यते, न तु प्रतीतिपथमवतीर्णयोरन्यतरत्र प्रतिषेधे पारिशेष्यादितरत्रासंभावितमपि, तथा सति नेदं रजतमिति शुक्तिकायां रजतत्वप्रतिषेधे तदेकज्ञानसंसर्गिणो भूतकादेरपि रजतत्वं विदध्यात् ।
न चैवम् ।
तत् कस्य हेतोः? तस्य रजतत्वं कदाचिदपि नोपलब्धचरं ।
यतः, तथा
स्वात्मानो ऽपि रजतात्मत्वं न कस्यचिदुपलब्धिगोचरः कदाचित् स्वप्ने ऽपि ।
अथ दृष्टमेव सत्यरजतज्ञाने रजताकारत्वमात्मन इत्याशयः? सो ऽयं स्वप्नायते, तत्रापि हि पुरोवर्तिनि रजते अनुभूयमाने स्वात्मनो रजताकारत्वं
कस्य प्रमाणस्य गोचर इति ।
तदनेन स्वाकारस्य बाह्यत्वे साधकप्रमाणाभावो दर्शितः ।
बाधकमपि सूचितम् ।
यथा हि नेदं रजतमिति बाधकबलेन पुरोवर्तिनो रजतत्वप्रतिषेधः, तथा नाहं रजतमित्यपि बाधकं स्फुटमेव ।
अयमेव भ्रम इति चेत्? एवं तर्हि न रजतत्वमारोप्यते बाह्ये, किं तु तस्मिन्नेवाहमास्पदे बाह्यत्वमारोप्यते इत्याशयः ।
तथा सति बाधकप्रत्ययेन तदेवापनेयम्, तस्मिश्चापनीते ऽहं रजतमिति स्यात् ।
एवं च सतीदं रजतमिति कोर्ऽथः? नाहं रजतमिति ।
नेदं रजतमिति कोर्ऽथः? अहं रजतमिति ।
ततश्च यथेदं नेदमहं नाहमित्यनयोर्विरोधात् समुच्चयाभिमानो ऽपि नास्ति, तथा नेदं रजतं नाहं रजतमित्यनयोरपि विरोधात् समुच्चयाभिमानो ऽपि न स्यात् ।
अस्ति च, तस्मादुभयोरपि रजतत्वप्रतिषेधो ऽन्यस्य रजतत्वं व्यवस्थापयतीति पाषाणरेखेयं न दुरूत्तरपांसुपूरणमात्रेणापनेतुं शक्यते ॥
सामर्थ्यातिशयः स्वभावातिशयः ।
अतिशयस्तु विषयजन्यज्ञानापेक्षया ।
सन्तमिवेति सत्यज्ञानाभिप्रायं स्वरूपाभिप्रायं वा ।
विषयसामर्थ्यमिति सामर्थ्यं कारणत्वम्, तभ्दावसिद्धेः ।
अत एवेति कृत्वा वेदान्त्येकदेशिनः अपि
निराकारबौद्धमतानुमतिर्दर्शिता ।
सदसत्त्वेन गृह्णातीति न विकल्पितमतिनिर्दलत्वात् ।
प्रवृत्त्यौपयिको ह्यर्थः प्रकृते प्रकाशते, न तु सदसत्त्वेन गृहीत्वा प्रवृत्तिरूपपद्यते ।
असदेव रजतं प्रकाशते ।
पुरोवर्तिभेदग्रहाच्च शुक्तो
प्रवृत्तिर्नान्यत्रेत्यादि नाशड्कितम्, प्राभाकरपक्षेण तुल्ययोगक्षेमत्वादपोहे निराकरिष्यमात्वाच्च ॥
अनिर्वचनीयख्यातिमनुभवविरोधेन निराकरोति---न चेति ।
त थाहि किमिदम् अनिर्वचनीयत्वम्, किं निरूक्तिविरह एव, आहोस्विन्निरूक्तिनिमित्तविरह एव? न तावदाद्यः, इदं रजतं नेदं रजतमिति
निरूक्तेरनुभूयमानत्वात् ।
नापि द्वितीयः, निरूक्तिनिमित्तं ज्ञानं वा स्यात् विषयो वा? न तावदाद्यस्य विरहः, ख्यातेः स्वयमवाभ्युपगमात् ।
नापि द्वितीयः, विषयो ऽपि किं भावरूपो ऽभावरूपो वा? आद्ये असत्ख्यात्यभ्युपगमप्रसङ्गः ।
द्वितीये तु सत्ख्यातिरेव ।
उभौ न स्त इति चेत्? अथ भावाभावशब्देन लोकप्रतीतिसिद्धावेवोभावभिप्रेतौ, विपरीतौ वा? आद्ये तावद्
यथाभयोर्विधिर्नास्ति, तथा प्रतिषेधो ऽपि, परस्परविधिनिषेधयोवि धिनिषेधनान्तरीयकत्वात् ।
द्वितीये तु न काचित् क्षतिः ।
न ह्यलौकिकविषयसहस्रनिवृत्तावपि सत्यज्ञानविषयनिवृत्तिस्तन्निरूक्तिनिवृत्तिर्वेति ।
अथापि निःस्वभावत्वमनिर्वचनीयत्वम्? अत्रापि निसःप्रतिषेधार्थत्वेन स्वभावशब्दस्यापि भावाभावयोरन्यतरार्थत्वे पूर्ववत् प्रसंगः ।
प्रतीत्यगोचरत्वं निःस्वभावत्वमिति चेत्? अत्र तु स्ववचनविरोधः, प्रतीत्यगोचरश्च प्रतीयते चेति ।
यद् यथा प्रतीयते तत् तथा नेति चेत्? अत्र न विप्रतिपद्यामहे ।
तस्मात् आकारासदनिर्वचनीयख्यातिवादिभिरप्यन्यथाख्यातिरवश्याभ्युपगन्तव्येत् इ ॥
ननु यद्यथासत्प्रकाशते प्रपञ्चो ऽपि तर्हि तथैवास्तु जात्यादिकं चेत्यत आह---यः पुनरिति ।
असच्चेत्? असत्तेयैव प्रकाशेत, न प्रवृत्तिगोचरः स्यात् ।
सत्तया चेत्? नूनं सादृश्यमप्यपेक्ष्यम् ।
न च तदस्ति ।
असदृशस्यापि सत्तया प्रकाशने चातिप्रसङ्ग इत्यर्थः ॥
संविद्विरुद्धम् विचार्यसंविद्विरुद्धम् ।
सर्वसर्वज्ञतापत्तिरतीतानागताभिज्ञतापत्तिश्चेत्यपि द्रष्टव्यम् ।
प्रतिभासमानं युदल्लिखद्विज्ञानं जायत इत्यर्थः ।
औत्सर्गिककार्यानुकूलसहकार्यभिप्रायेण श्यामाकवीजम् उदाहृतम् ।
तत्प्रतिरोधिकारणान्तरसाहित्याभिप्रायेण कृटजबीजमिति ।
विवादध्यासिते विभ्रमे प्रवृत्तिकारणमग्रहो वा स्यात्, इदमिति ज्ञानं वा, रजतमिति ज्ञानसहितं वा, भेदाग्रहसहितं वा उभयमिति? तत्राद्ये न तावदित्यादि दूपणम् ।
द्वितीये तु हन्त भोः इत्यादि ।
तृतीये तु ननु रजतविज्ञानम् इत्यादि ।
चतुर्थे तु साम्यापादने सति ज्ञानधर्मो वा अग्रहो विशेषणम्, वस्तुधर्मो वा? आद्ये साम्यं नास्ति, उभयज्ञानस्यागृहीतभेदस्य भ्रान्तिहेतुत्वेनानभयुपगमात् ।
द्वितीये तु विषयधर्माणामज्ञातानां प्रवृत्तावकिञ्चित्करत्वम् ।
ज्ञप्तौ पुनरस्त्येव ।
तत्र दृष्टान्तमाह--मैवं ज्ञानहेतूनामित्यादि ॥
अथवा दृश्यकारणसाम्ये ऽप्यदृश्यहेतुविशेषवशाद् भ्रान्तिसंभवः, कार्योन्नेयत्वात् सामग्र्याः ।
तदिदमुक्तम्--मैवमित्यादि ।
मामाप्येवमिति चेत्---न, तस्य कारणविशेषस्य स्वातन्त्र्येणाप्रवर्तकत्वात् ।
तदिदमुक्तम्--चेतनेति ।
ज्ञानद्वारेणेति चेत्--न, तस्य पवृत्तिनिवृत्तिसाधारण्यात् ।
तदिदमुक्तम्--बुद्धिपूर्वकत्वे त्विति ।
अतो न साम्यम् ।
तत्सिद्धमित्यादिप्रयोगो विप्रतिपन्नं प्रति ।
नियमेन निश्चयेनेति सामान्यज्ञानस्य विशेषप्रवर्तकत्वव्युदासावद्योतनार्थम् ।
न च फलज्ञानेनानैकान्तिकत्वं तस्याप्रवर्तकत्वादेव ।
तत्साधनज्ञानं तु प्रवर्तकम् ।
तच्च तद्विषयमेवेति ।
कार्यत्वबोधस्तु प्रवर्तक इति निराकरिष्यते ।
अनवभासमानत्वादिति हेतुपक्षे ऽसिद्धत्वं सिद्धसाधनं वा दूषणम् ।
प्रत्यक्षोपवर्णने तु शुक्तिकात्वेनानालम्बनत्वमस्माकमप्यनुमतम् ।
सितभास्वरतया त्वनवभासमानत्वमनुभवविरुद्धमिति परमार्थः ।
दोषवत्त्वादिति हेतुपक्षे ऽनैकान्तिकोद्भावनम् दृष्टान्तमात्रोद्भावने तुवेत्रबीजादिः ।
नेदं रजतमिति उपलक्षणम् ।
शुक्तिरियमित्याद्यपि द्रष्टव्यम् ॥
अनाश्वासस्तु यथार्थत्वाज्ञानं वा स्यात्, यथार्थत्वायथार्थत्वसन्देहो वा? आद्यः प्रामाण्योपायकथनेनैव निरस्तः ।
द्वितीयस्तु विशेषोपलब्धैः प्रागिष्यत एवेत्याह--यथा चेति ॥
ननु क्रमव्यतिक्रमो ऽनादितां प्रतिपादयितुमुक्तः ।
अनादिताप्रतिपादनं पुनः किमर्थमित्यत आह--अनादित्वाच्चेति ।
तस्यापि बाध्यत्वग्रसङ्गादिति ।
तथा च सर्त्यागथ्याज्ञानयोरविशेषप्रसंग इति भावः ।
पूर्वज्ञानस्य मिथ्यात्वमादर्शयत् इति ।
तदुपदर्शितप्रकारासहनतया जायमानमित्यर्थः ।
तज्जनितां प्रवृत्तिं विघटयदिति तदुचितव्यपदेशाभिप्रायम्, विपरीतमभिप्रायं कुर्वदित्यर्थः ।
फलमस्यापहरतीति विषयदारभ्य फलपर्यन्तमित्यर्थः ।
अयमेव विषयापहारो यत्तद्विषयाधिक्षेपस्य स्वभावस्य समुत्पादः ।
स च तत्फलप्रवाहप्रतिक्षेपपर्यन्त इति समुदायार्थः ।
परस्पराभावधर्मिणोरिति ।
ययार्धर्मिणोर्यौ धर्मौ
परस्पराभाववन्तावुपलब्धौ तयोरित्यर्थः ।
बाध्यत्वे हेतुरिति ।
हेतुर्व्यतिरेकलिङ्गलक्षणमिति यावत् ।
तत्त्वविषयबुद्धिधारामिति ध्यानम् इत्यर्थः ।
अनुगतमेकं स्वरूपं समानासमानजातीयव्यच्छेदको धर्मो लक्षणमिति यावत् ॥2 ॥
॥ परिशुद्धिः ॥
सर्वत्र तस्य सुलभत्वादिति ।
स्वाभाविकं तु शास्त्रस्य त्रैविध्यं नास्त्येव तस्य पुरुषायत्तत्वादित्यपि द्रष्टव्यम् ।
प्रयोजनस्येति ।
अवान्तरस्येत्यर्थः ।
चतूरूपोभवतीति प्रतीतिविषय इति शेषः ।
अर्थविपर्ययकीर्ततेन व्याघातादिति ।
प्रत्यक्षप्रमाणानुवादः ।
अतो न साध्याविशिष्टत्वं व्यधिकरणत्वं वा? अवद्यमाने शशविषाणादावलक्षणम्, विद्यमाने त्वनुपयोगिनि गङ्गावालुकादावलक्षणम् ।
अतः समानधर्मदर्शनात् असति निभागे संशयः, तन्निवृत्त्यर्थो विभागारम्भः ॥
ननु सदनुपयोगिसंशयानुच्छेदे किं स्यात्? कथमनुपयुक्तं तदिति जिज्ञासाया अनिवृत्तिः? अपि
चार्थापत्त्यादीनामुपयोगवतामपि परैरूद्घुष्यमाणानामपि लक्षणाकरणात् स्यात् सन्देहः-- किं लक्षणाकरणादसन्ति, अनुपयोगीनि वेति? तत्रैवान्तर्भूतानि वा? अतस्त्तदपनुत्तये विभागः ॥
तथा बौद्धापेक्षया मीमांसकानामधिकप्रमाणलक्षणाभिधानं विनैव प्रमाणानाम् आधिक्यात् ।
सांख्यस्य तु तदपेक्षयैव अधिकप्रमाणलक्षणाभिधानं सत्याधिक्ये ।
तद् इहापि सांख्यापेक्षया अधिकाभिधाने भवति सन्देहः, किं सत्याधिक्ये अथासतीति? तदपनोदनाय विभागवचनम् ।
अत एवाधिक्यमाशड्क्य विभागपरीक्षामवर्तयत् सूत्रकारः ।
पूर्वापरग्रन्थसंगतिश्चात्र स्फुटेत्येतदपि मन्तव्यम् ॥
शक्तेरनभ्युपगमे प्रमाणाभावो मूलम्, असत्प्रतिपक्षेभ्यो दृष्टकारणेभ्य एव कार्योत्पत्तावर्थापत्तेः क्षीणत्वात् ।
प्रतिपक्षता च मन्त्रादीनां सहकारिविरहरूपत्वात् ।
तद्विरहस्य च व्यतिरेकमुखेन सहकारित्वावधारणात् ।
त्रयो हि
भावा भवन्ति कार्यानुकेलाः, तत्प्रतिकूलास्तदुदासीनाश्च ।
तत्रानुकूला दहनादेः पवनादयः ।
तत्प्रतिकूला अपि
द्विविधाः स्वरूपतः सहकारितश्च ।
स्वरूपतो जलावसेकादयः ।
सहकारितो मन्त्रादिप्रयोक्तारः ।
ते हि मन्त्रादीन्
प्रयुञ्जानास्तद्विरहलक्षणं सहकारिणं विरुन्धन्ति ।
उदासीनास्तु तत्रैव रासभादयः ।
तत्रानुकूलत्वमन्वयव्यतिरेकरम्यम् ।
प्रतिकूलत्वं च तदन्वये कार्यव्यतिरेकगम्यम् ।
तच्च तद्विपर्यर्यान्वये पर्यवस्यति ।
उदासीनत्वं च व्यभिचारगम्यम् ।
एवं च सति यत्र यदा यस्य यथानुकूलत्वे प्रतिकूलत्वे वा प्रमाणमस्ति, तत्र तदा तस्य तथैव स्वीकर्तव्यम् ।
किमधिकसामर्थ्यकल्पनया? सर्वश्च परेषां विमर्शसंभवो ऽतीन्द्रियसामर्थ्ये ऽपि समान इत्यर्थापत्तिम् उपेक्ष्यान्यदेवातीन्द्रियशक्तिस्वीकारबीजमाशड्क्य विमृशति--स्यादेतदिति ॥
स्वरूपस्य प्रत्यक्षत्वे साकल्यस्य च कार्यैकव्यड्ग्यत्वे ऽनुमेयमतीन्द्रियं सामर्थ्यम् अवशिष्यत इति पूर्वपक्षार्थः ।
कार्यसंबन्धितां कार्योपलक्षिततामित्यर्थः ।
यदाह-- कार्योपहितं रूपमिति ।
नन्वन्यकार्येणोपधानं तत्कार्येणैव वा? आद्ये अहेतुरेव हेतुः स्यात् ।
द्वितीये त्वितरेतराश्रयत्वम्, तस्य तत्कारणत्वे सिद्धे सति तत्कार्यत्वं सिद्धं स्यात् ।
तत्कार्यत्वे सति च तदुपलक्षितं कारणत्वं भवेदित्यत आह--इदमेव चास्य तदुपधानं यत् तत्कार्योत्पादात् पूर्वमवश्यंभावः ।
युदत्पादात् पूर्व यस्यावश्यंभावः तत् कारणमितरत् कार्यमित्यर्थः ॥
नन्वेवंरूपं कारणत्वं तज्जातीयस्य समामन्यतो ऽनुमीयेत प्रतिव्यक्ति वा? न तावत् प्रतिव्यक्ति, तदुत्तरकार्याभावे ऽपि कासाञ्चिद् विनाशदर्शनात् ।
तज्जातीयस्य तु प्रागेव सामान्यतो ऽवधारितम् ।
तदिह स्मर्यत इत्याशड्क्याह--न च तज्जातीयस्येति ।
यथा यो यो धूमः सो ऽग्निमानिति सामान्यतो ऽवधारणे ऽपि एष धूमो ऽग्निमानिति नवाधारितम् ।
तथेदमुदकं पिपासोपशमननिमित्तमित्यनवधृतभेवावधार्यत इत्यर्थः ।
न च क्वचित् कार्यमकृत्वैव विनष्टे व्यभिचारः, सति सहकारिसाकल्ये कुर्यादिति साध्यत्वात्, तस्य च सहकार्यसाकल्यप्रयुक्तकार्याभाववत्त्वरूपस्य तत्रापि भावादिति ।
तस्माद् या नोभयप्रयत्नप्रसवहेतुः सोपेक्षाबुद्धिः तृतीयेति विषयभेदाद् बुद्धिभेदः ।
स च सुखहेतुर्दुःखहेतुरतद्धेतुश्चेति त्रिविध इति सुव्यक्तमित्यर्थः ॥
अनुमानपदं व्युत्पादयता भाष्यकृता प्रसंगात् लक्षणमप्यभिहितमिति टीकाकृद् अपि स्मृत्यादिव्यवच्छेद्यं दर्शयति--तथा चेत्यादिना ।
यतो भाष्ये लक्षणमप्युक्तम्, अतो वार्त्तिके तदाक्षेपो नानुक्तोपालम्भ इत्याह--तदेतद्भाष्यमनुभाष्येति ।
फलवतः प्रमाणत्वात्, तद्विशेषत्वाच्चानुमानस्य नाफलत्वं युज्यते ।
कथञ्चित् फलान्तरसंभवे ऽप्येतस्य प्रत्यक्षफलं लिङ्गपरामर्शः, सुप्रसिद्धमनुमानमनेन व्याप्यत इत्यपि पूर्वपक्षे द्रष्टव्यम् ।
एवं च सति तत्रेत्यादिनोभसमाधानसंगतिः ।
समाधानान्तरमाहेति ।
कस्मिन्नाक्षेप इत्यत आह--पूर्वोक्तमिति ॥
ननु हानादिविषयं प्रामाण्यमुच्यमानमनुमानस्य स्वगोचरं प्रत्येवोक्तं भवति, हानादावेव तस्य व्यापारानुबन्धात् ।
अत आशड्कैवेयमनुपपन्ना किमत्र समाधानेनेत्याशड्क्य व्यापारानुबन्धितया हानादिरस्य गोचरः, प्रतीपत्यनुबन्धितया तु वहिनज्ञानस्य वहिनरेव विषयः, तदभिप्रायेण च शड्कासमाधाने इत्यभिप्रायवानाह--यद्पीति ।
विज्ञाने यत् प्रकाशते येन विज्ञानं निरूप्यत् इत्यर्थः ॥
न च स्वविषयादन्यद् विषयान्तरमस्य संभवति, अतिप्रसंगादिति भावः ।
पूर्वपक्षिण इति शेषः ।
औत्पत्तिक इति स्वभावाप्रतिबद्धः ।
ननु हेयादिबुद्धयः केन विशेषेण द्वितीयानुमानस्य फलम्, न तु द्वितीयस्य प्रत्यक्षस्येत्याह--परोक्षार्थावगाहितयेति ॥
ननु सामीप्यस्य सादृश्यस्य मानं मितिः संज्ञासंज्ञिपरिच्छेदे प्रमाणमित्युक्ते कुतो व्याघातावकाश इत्यत
आह--अनुमानशब्दवदित्यादि ॥
ननु स्वविषयपरिच्छित्तौ तावत् स्वरूपतः प्रमाणम्, व्यापारवतः कारणविशेषस्य प्रमाणत्वात् ।
नापि वाक्यार्थप्रतिपत्तिरस्याः फलम्, तदानीं तस्या विनष्टत्वात् ।
नच स्मृतिरूपाया अपि शब्दप्रवृत्तेस्तत्फलत्वम्, अनुपयुक्तसमयानामस्मर्यमाणपदार्थानां शब्दस्मरणे ऽपि तदभावादित्यत आह--यत् खलु चैत्रेति ॥
ननु स्वविषयपरिच्छित्तौ प्रधान्यमनुमानादेरपि, तत् कुतः प्रत्यक्षस्य प्रधानत्वाद् इति एकदेशी वक्तीत्यत आह--प्रत्यक्षपरा हीति ।
प्रायेण प्रत्यक्षमात्रपूर्वकमिति साक्षात्, परंपरया तु सर्वमेवानुमानं तथेत्यर्थः ।
उपमानं तु प्रत्यक्षपूर्वकमपि शब्दपूर्वकमेवेति ।
शब्दपूर्वकत्वे सत्येव प्रत्यक्षपूर्वकत्वं तस्य, केवला तु प्रत्यक्षपूर्वकता अनुमानमात्र एवेत्यर्थः ॥
नन्वेवं सति शब्दानन्तरमुपमानमभिधीयतामित्यत आह--स्मरणसहकारितेति ।
यद्यपि शब्दस्यपि प्रमाणस्य वाक्यरूपस्य स्मृतिस्थस्य पदार्थस्मृति पदार्थस्मृतिसहकृतस्यैव वाक्यार्थबोधकत्वम्, तथापि न
क्वचिदप्यनुभूयमानस्य लिड्गं त्वनुभूयमानमपि शब्दस्य विशेषाभिधाने न्यायसिद्धे ऽप्येकदेश्यभिमतप्रयोजनाभिधानं
तदकौशलख्यापनाय यद्यपि प्रथममेकदेशिमतं दुष्यत्वेनाभिमतमेव, तथापि दूषणाभासेन त तद् दुषयितुं शक्यमिति शिक्षयितुं वार्त्तिककृतमनरञ्जयन्नेवोत्तरग्रन्थमवतारयति--तदेतदेकदेशिमतमिति ।
प्रत्यक्षं पूर्व प्राधान्यादित्येके ।
उक्तमुपपादयितुं महाविषयत्वाच्चादौ शब्दोपदेश इत्यपरश्चेद्यचञ्चुः ।
तत्र महाविषयत्वमनैकान्तिकामिति शब्दस्य महाविषयत्वात् आद्यत्वमापादयता प्रत्यक्षस्यानाद्यत्वमिच्छता अन्य एव दृष्टान्त उदाहरणीयः ।
तथा च चित्रादौ विपक्षभूते प्रत्यक्षऽपि गतत्वेन महाविषयत्वमनैकान्तिकत्वमित्यर्थः ॥
तदेतत् प्रसङ्गावस्थायाम्, स्वतन्त्रसाधनपक्षे तु कालात्ययापदिष्टत्वम् ।
शब्दचरमतायाः प्रत्यक्षप्राथम्यस्य च प्रत्यक्षसिद्धत्वादेव ।
व्यतिरेकिपक्षे च विरुद्धत्वमित्यपि द्रष्टव्यम् ।
महाविषयत्वेति ।
पूर्वमुपदिश्यमानं प्रमाणं धर्मि, महाविषयत्वादिति साधारणो धर्मः प्रत्यक्षं वा शब्दो वेति संदेहः ।
साघरणतया न हेतुरिति भाव इति ।
प्राधान्यख्यापनं प्रयोजनं यदि प्राथम्यं विना न सिद्ध्येत् तदानुमानस्यापि प्राधान्यात् प्राथम्यं स्यादित्यर्थः ॥
नन्वसति च संप्लवे का नो हानिः? सति वा किं भेवद् येन भाष्यकारो विचारयति स्मेत्यत आह--स्यादेतदिति ।
व्यवस्थितविषयत्वात् प्रत्यक्षस्यानुमानविषये प्रवृत्तिस्तदा न स्यात, यद्यनुमानमपि व्यवस्थितविषयं भवेदित्यत आह---न चानुमानविषये सामान्यरूप इति ।
अतो न पुनरूक्तम् ।
अव्याख्याने कारणमिति किमिति न व्याख्यातमिति शङ्गानिवृत्तिकारणमित्यर्थः ।
सन्दिग्धेन हीति उपदेशप्रामाण्ये तद्द्वार वह्नावप्युत्तरकालमिति मन्तव्यम्, अतो वहिनं प्रत्याहित उत्पादितः प्रत्ययो निश्चयो यस्येत्यनेन न विरोधः ।
अभ्यर्हिततमं मन्यत इत्येकदेशोत्कीर्तनेन पूर्वोक्तसंप्लवोपपादनं स्मारयति ॥
ननु च निश्चवफलत्वाविशेषे ऽपि प्रत्यक्षत एव आकाक्षानिवृत्तिरिति कुत एतदित्यत आह--तावदयमिति ।
प्रत्यक्षफलसाक्षात्कारस्यैवंस्वभावत्वादित्यर्थः ॥
नन्वड्गं विशेषणमित्येकोर्ऽथः, तत् कुतो व्यापकत्वेनेति व्याख्यायते? कुतश्च पूर्वाचार्यप्रदशितः पन्थाः परिह्नीयत इत्यत आह--तत्त प्रकृतानुपयोगितयेति ।
निरूपधानलक्षणं साक्षात्कारणमाकाक्षानिवर्तनयोग्यं प्रत्यक्षधर्मो ऽनुमानादिषु नास्ति, तेन नानुमानादिपरिच्छिन्नेर्ऽथे आकाक्षानिवृत्तिरिति हि प्रकृतम्, न च विशिष्टार्थग्राहकत्वोपदर्शनेनानुमानादिषु तदभावो दर्शिती भवति ।
विशिष्टार्थग्राहकत्वे ऽपि प्रत्यक्षस्य तभ्दावादित्यर्थः ।
व्यवस्थितानां प्रत्येकमेकत्वादिति द्वितीयासंसृष्टविषयत्वादित्यर्थः ॥
॥ तात्पर्यपरिशुद्धौप्रथमाध्याये
त्रिसूत्री समाप्ता ॥
॥ प्रमाणप्रकरणम् ॥
॥ परिशुद्धिः ॥
प्रत्यक्षादिप्रमाणविशेषलक्षणानामिति स्वरूपकथनार्थम् ।
लक्षण हीत्यादि, अर्थाक्षिप्तेति च
प्रकृतस्वरूपसंगतिकथनार्थम् ।
लक्षण हि जिज्ञासुप्रतिपादनाय, सा चानिर्ज्ञातसामान्यस्य विशेषे नास्ति ।
सामान्यज्ञानं च तल्लक्षणाधीनमतस्तल्लक्षणम् ।
विशेषविभागं च कृत्वा शिष्यस्य जिज्ञासामुत्थाप्य विशेषलक्षणावतारः ।
तथा च सामान्यलक्षणविभागोद्देशज्ञानस्य जिज्ञासदिजननद्वारा विशेषलक्षणज्ञानं प्रति हेतुत्वात् तद्गोचरयोरपि हेतुहेतुमभ्दावं विवक्षित्वोक्तम्--हेतुत्वेनेति ॥
व्यवच्छेदो नास्यामिधेय इत्यत आह--प्रयोजनमिति समानजातीयमनुमानादि प्रमाणत्वेन, अप्रत्यक्षेण तु तदपि विजातीयमेव ।
अतो नासाधारण्यं लक्षणस्य ।
विशेषकत्वं लक्षणधर्मः ।
तत्प्रयोजनमित्यसंगतम् ।
अतः कारकात् फलभूतां क्रियां निष्कृष्य दर्शयति--विशेषकत्वं विशेष इति ।
विपक्षव्यावृत्तप्रत्यक्षप्रतिपादनम् इत्यर्थः ।
कः पुनरनेन लक्षणेन प्रतिपादयिष्यत इत्यत आह--यः खल्विति ।
न च सर्वे व्यामूढाः, येन प्रतिपाद्यप्रतिपादकव्यवस्था न स्यात् ।
न च सर्वत्र व्यामोहो येनानवस्था स्यात्, न च सर्वे व्यामोहहेतवो येनाप्रतिपत्तिः स्यात् ।
न च सर्वाप्रतिपत्तिः, येनाश्रयासिद्धिः स्यादिति भावः ॥
ननु लक्ष्यमप्रसिद्धत्वात् कथं धर्मि? प्रसिद्धत्वे वा किं लक्षणेन? किं चास्याभिधेयम्, यदिभिदधत् तत्परं स्यादित्यत आह--तस्मादिति ।
ननु लक्षणं यदि प्रसिद्धं किं विधेयम्, तस्याप्रसिद्धत्वात् ।
विधेयं चेत् कथं लक्षणम्, तस्याप्रसिद्धत्वादित्यत आह--इतस्त्ववगतलक्षण इति ।
प्रतिपाद्याप्रसिद्धत्वाद् विधेयत्वमग्निहोत्रादिवत्, न तु प्रतिपादकाप्रसिद्धत्वात् ।
प्रतिपाद्यश्च विधेः प्रतीत्यैव लक्षणं यागमिव पश्चात् साध्यं साधयतीत्यर्थः ।
विशेष्यज्ञानं सविकल्पकमित्यर्थः ॥
नन्विन्द्रियार्थसन्निकर्षः प्रत्यक्षकारणमेव न भवति, सत्यपि तस्मिन् परमाण्वादिषु इन्द्रियसंयुक्तव्यवघायकसंयुक्तेषु च घटादिषु तदनुपपत्तेः ।
अतो ऽसिद्धमिदं लक्षणमित्यत आह--अर्थग्रहणेनेति ॥
ननु रूपत्वादिसामान्यं नास्त्येव, तत् किमर्थं संयुक्तसमवेतसमवायाभ्युपगम इत्यत आह--न चेति ॥
ननु सादृश्यमर्थान्तरं रोचयमानानामपि कुतो व्याघातः, न हि तद्विपरीतमिह किञ्चिदभ्युपेतमित्यत आह--तषामिति ॥
नन्वसन्निकृष्टस्यैव सन्निकृष्टाश्रयस्य वा ग्रहणमग्रहणमेव वा भविष्यति, तत् कुतो व्याघात इत्यत आह--इतरथेति ।
असन्निकृष्टस्य हि ग्रहणे इन्द्रियप्राप्यकारिताभ्युपगमव्याघातः ।
सन्निकृष्टाश्रयस्य तु ग्रहणे संयुक्तसमवायाभ्युपगमव्याघातः ।
अग्रहणे च तदभ्युपगमव्याघातः, प्रमाणाभावादित्यर्थः ।
चतुर्थसन्निकर्षाननुभवात् कुतस्तद्व्याघात इत्यत आह--अनुभूयन्ते हीति ।
रूपत्वाद्यनुभवस्य चतुर्थसन्निकर्षकार्यतया तमभ्युपगमयंस्तदनभ्युपगमं व्याहन्तीत्यर्थः ।
उपहितप्रत्ययायोगात् ।
तन्मूलस्य चोपहितव्यपदेशस्य तदभावे ऽनुपपत्तेरित्यर्थः ॥
न च रूपत्वादिसामान्यविशेषविशिष्टरूपाद्युपलब्धिमन्तरेण प्रमाणमस्ति परस्परव्यावृत्तेषु चक्षुरादिषु विशिष्टोपलब्धेरेव प्रमाणत्वे परस्पराश्रयत्वम् ।
न चाविशिष्टोपलब्धिमात्रोपनीतमविशिष्टमिन्द्रियमात्रमुपधिर्विष्टव्यपदेशे रसादिष्वपि रूपादिव्यपदेशप्रसड्गाद् इत्याशयवानाह--न चेन्द्रियाणीति सो ऽयं चाक्षुषत्वाद्युपधिनिबन्धनत्वमिमानः परस्य रूपादिव्यपदेशाभेद इति स
एवोदाहृत्य निराकृतः ।
परमार्थतस्तु नीलमधुरादिव्यपदेशाभेदे सो ऽपि नास्ति ।
तावताप्यस्माकमभिमतलाभ इति ।
शब्दत्वासिद्धौ तु तात्पर्यां, ततः साधारणवचसोपसंहरति--तस्मादिति ॥
ननु नेन्द्रियविशेषणतया कस्यचिद् ग्रहणमस्ति, अन्यविशेषणतया तद्ग्रहणे किमायातमिन्द्रियसन्निकषस्येत्यत आह--विशेषणभावेन चेति ।
न च विशेषणभावपदेनोभयसंग्रहे समवायपदेनापि चतुष्टयसंग्रहो ऽस्त्विति वाच्यम्, विशेषणभावस्य शुद्धस्य प्रत्यक्षानङ्गस्वेन तदङ्गप्रस्ताव विशिष्टस्य सुलभत्वात्, समवायस्य शफद्धस्यापि प्रत्यक्षाङ्गत्वेन प्रस्तुततया तत्पदस्य तावन्मात्राभिधानेनैव पर्यवसितत्वादिति ॥
समवाये चाभावे च विशेषणविशेष्यभावादिति वार्त्तिकम् ।
तच्चानुपपन्नम्, समवायस्य तत्प्रत्यक्षतायाश्वासिद्धत्वादित्यत आह--अवयवेत्यादि ॥
नन्ववयवश्वावयवी चेत्याद्येवापलभ्यते, न तु तयोः सम्बन्धो ऽपीत्यत आह--नान्यथेति ।
एवंभूता हि
प्रतिपत्तिः परस्परासम्बद्धेभ्यो व्यावर्तमाना परस्परसम्बद्धेषु विश्राम्यतीति भावः ॥
ननु सामानाधिकरण्यं समानेनाधिकरणेन सम्बन्ध इति पर्यायौ, तत् किमनेनोक्तम् इत्याशयवान् पृच्छति--किं
पुनरिति ।
न ह्यत्र कुण्डमिव द्रव्यमधिकरणत्वेन परिस्फरति ।
नापि बदराणीव शुक्लत्वपटत्वे आधेयत्वेन, अपि तु य एव शुक्लः स एव पट इत्यभेदेनैव प्रतीतिरित्याशयवानाशड्ते--तादात्म्यमिति चेदिति ।
बुद्धेः पौनरूक्त्यं पूर्वापेक्षया अन्यूनानतिरिक्तार्थत्वम् ।
यदि हि गुणगुणिनोरभेद एव स्यात् तदा तद्वाचकयोरेकार्थत्वात् तरूवृक्षशब्दवत् सहप्रयोगो न स्यात् ।
पटमानयेत्युक्ते यत्मिञ्चित् शुक्ल्मानयेत्, तस्यैव पटत्वात् ।
अपटः पट इतिवदशुक्लः पट इत्यपि विरुध्येति ।
अन्धस्यापि पटो ऽयमितिवत् शुक्लो ऽयमित्यपि प्रतिपत्तिः स्यात् ।
शुक्लाप्रतिपत्तिवद् वा पटप्रतिपत्तिरपि न स्यात् ।
महारजनादिसंयुक्ते शुक्लत्ववत् पटो ऽपि तिरोहित इति न प्रतीयेतेत्येवमादितर्कसहायं प्रत्यक्षमेव पटशुक्लत्वयोर्भेदमाकलयतीति परिहारार्थः ॥
स्यादेतत् ।
एकान्ताभेदे हि सर्वमेतद् दूषणम् ।
वयं त्वनेकान्तवादिनः ।
तथा हि भेदमादायापौनरूक्त्यम्, अभेदमादाय च सामानाधिकरण्यमित्यत आह--न चैकं वस्त्विति ।
भेदाभेदयोः परस्परविरोधादित्यर्थः ।
भेदो हि लौकिकपरीक्षकप्रसिद्धः ।
अभेदे तु सामानाधिकरण्यप्रतिपत्तिः प्रमाणमित्याह परः ।
सा चाभेदं नोल्लिखतीति चिन्तितमधस्तादित्यतो लोकप्रसिद्धयोर्भेदाभेदयोरसंकीर्णतया विरोध एव, लौकिकभेदाभेदातिरिक्तस्तु भेदाभेदनामा समवायो वा स्यात्, वाज्ञ्मात्रं वा, उभयथापि न नो दर्शनहानिरित्याशयवानुपसंहरति--तस्मादिति ॥
ननु यद्यपि सामानाधिकरण्यप्रतिपत्तिन तादात्म्यमुल्लिखति, तथापि भेदसम्बन्धाभ्यां व्यावर्तमाना अभेदं वा अभेदसम्बन्धं वा साधयेत् ।
तथा हि प्रयोगः, पटशुक्लत्वे न भिन्ने सम्बद्धे, सामानाधिकरण्यात् ।
ये पुनर्भिन्ने सम्बद्धे न ते समानाधिकरणे यथा दधिकुण्डे ।
न च तथेमे ।
तस्मान्न तथेत्याशयवानाशङ्कते---सम्बन्धे ऽपीति ॥
भवेदेवम्, यदि भेदसन्बन्धाभ्यामस्य व्यतिरेकः स्वाभाविकः स्यात् ।
किं तु रक्तः पटः, अग्निर्माणवक इतिवत् शब्दवृत्तिभेदोपाधिकः ।
शब्दवृत्तिभेदस्तु सड्केतोपाधिक इत्याह---न शब्देति ।
सामानाधिकरण्यादिति ।
च हेतुर्यथा भेदसम्बन्धाभ्यां व्यावर्तते तथा अभेदसम्बन्धाभ्यामपीत्यसाधारणः ।
अभिन्नं च तत्सम्बन्धि चेति साध्यम्, न चैवंभूतमुभयवादिसंप्रतिपन्नं किञ्चिदस्ति यतो व्यावृत्तेरसाधारणो हेतुः स्यादिति चेत् न, उभयव्यवच्छेदपर्यवसानस्य मनोरथेनाप्यसिद्धेः ॥
यो ह्यभिन्नः स कथं सम्बद्धः, सम्बन्धस्य भेदाधिष्ठानत्वात् ।
यः सम्बद्धः स कथमभिन्नः, तेनैव तस्यासम्बन्धात् ।
भिन्नो ऽपीति चेत्? तथापि भेदमादायैव सम्बन्धो न पुनरभेदमादाय ।
तथा च सम्बन्धो भेदेनैव व्याप्तः ।
अभेदस्त्वसम्बन्धेनैवेति कथम् अभिन्ने सम्बन्धे इति प्रतिज्ञा न व्याहता? प्रकारभेदमादायेति चेत्---न, तस्याभावात्, न हि द्रव्यस्य गुणत्वमप्यस्ति, गुणस्य वा द्रव्यत्वमपि, येनाभेदः स्यात् ॥
उक्तप्रकारेण च भेद एव ।
सत्त्वेनाभेद इति चेत्? किमिदं सत्त्वं सत्ता वा, स्वरूपं वा? स्वरूपं तावद्
गुणो गुण एव, द्रव्यं द्रव्यमेव ।
सत्ता तु ताभ्यामसाधारणाभ्यां साधारणी भिन्ना कथमिव तयोः स्वभावः? केनचिदाकारेण तथेति चेत्? न वैद्रव्यगुणकर्मसाधारणादाकारादसाधारणमाकारं सत्तायाः पश्यामो येन सा तथा स्यात् ।
एवं तेषामपि द्रव्यगुणकर्मणां परस्परासड्कीर्णात् रूपान्न स्वभावान्तरं पश्यामः प्रतीयमानरूपमेवाभिन्नमित्युच्यमाने सत्ता वा न स्यात्, तानि वा न स्युरित्युक्तप्रायम् ।
तस्मात् द्रव्यगुणयोः सत्तैव
साधारणं स्वरूपं स्वभावो धर्मो विशेषणमित्यर्थः ।
द्रव्यत्वगुणयोर्द्रव्यमेव स्वभावो धर्मी विशेष्यमित्यर्थः विशेष्यस्यैकस्यैव विशेषणद्वयद्वारोभयशब्दबुद्धिविषयत्वाद् गुणगुण्यादीनामेवाभेदं भेदाभेदौ वा परे मेनिरे इति यद्युपनिबन्धेनाह--शब्दानां त्विति ॥
नन्वेकान्तभिन्नानां कालतो देशतो वा विवेकख्यातिरूपलब्धा ।
सा गुणगुणिभ्यां व्यावर्तमाना स्वव्याप्यमैकान्तिकं भेदमपि व्यावर्तयतीति अत आह--अयुतसिद्ध्येति ।
अस्त्येवासौ, न तु स्फुटतरो निर्लुठितगर्भतया ।
न च तन्निवृत्तिमात्रेण भेदनिवृत्तिः, लोहदहनयोरभेदप्रसड्गादित्यर्थः ॥
स्यादेतत् ।
भिन्नसंम्बन्ध्यनुभवे ऽपि कुतः सम्बन्धानुभव इत्यत आह---न चासाविति ।
न ह्यगृह्यामाणे विशेषणे विशिष्टप्रतिपत्तिः ।
न च बुद्ध्या बोध्यमनुमीयते प्रत्यक्षोच्छेदप्रसड्गादित्यर्थः ।
यो विशेषणविशेष्यभावः सर्वः संन्धान्तरपूर्वकं इति व्याप्तिरिहैव भज्यत इति परेणापि स्वीकरणीयमेव ।
न ह्यसौ समवायमभावं वा अभ्युपगच्छन् विशेषणतामस्य न स्वीकरोति ।
अन्यथा समवायाभावविशिष्टप्रतीतिमेव न स्वीकुर्यात् ।
किं तु
सम्बन्धान्तररहितो विशेषणविशेष्यभावः प्रत्यक्षाड्गं न भवतीति कदाचिद् ब्रूयात् ।
अतस्तं समानन्यायेन निवारयति--तत्
किमत्रेति ।
यथा विनैव सम्बन्धान्तरेण तद्विशिष्टप्रतिपत्तिः, तथा तस्या एवैन्द्रियकत्वनान्तरीयकः साक्षात्कारः प्रतीयते, विपक्षे त्वनवस्थाप्रसङ्गलक्षणस्तर्कः समान इत्यर्थः ॥
न च गुणकर्मसामान्येष्वपि विशेषणत्वमात्रेणैव ग्रहणमस्तु, कृतं समवायादिनेति वाच्यम् ।
शब्दस्य स्वाश्रयाविशेषणस्यापि समवायेन ग्रहणात् ।
सो ऽपि तृतीयो ऽस्त्विति चेत्---न, गन्धरसयोरतथाभूतयोरपि संयुक्तसमवायेन ग्रहणात् ।
सो ऽपि चतुर्थो ऽस्त्विति चेत्---न, शब्दरूपत्वयोरपि प्रतीयमानत्वात् ।
विशेषणभावेनैवेति चेत्---न, द्रव्यगुणकर्मसामान्यानां सम्बन्धाभावे विशेषणभावस्यैवानुपपत्तेः ।
सम्बन्धश्च प्रसाधितः ।
अतो न समवायाभाववत् प्रत्यक्षबाधः, नाप्यनवस्था, सम्बन्धान्तरनिरपेक्षसम्बन्ध एव विश्रान्तेः इति ॥
स्यादेतत् ।
भूतलमेव घटाभावस्तच्च संयोगादेव प्रतीयते ।
अतः किं तदर्थेन विशेषणभावेनेत्यत आह---न चेति ।
सत्यपि घटादौ भूतरस्य भावात् ।
भूतलव्यवहारवत् घटाभावव्यवहारप्रसड्गादिति शेषः ॥
न च केवल्यमिति ।
केवल्यं हि भूतलधर्मो घटाद्यविरोधी युद्युच्येत न घटादिना सह संभवेत्, तथा च स दोषस्तदवस्थ एव, विरोधी चेत्? स तावन्नोभयवादिसिद्धद्रव्यादिष्वन्यतमः, तेषां घटेन सह संभवात्, अभावव्यवहारकाले ऽपि च केषाञ्चिदसंभवात्, भूतलधर्माणां च तेषां घटैनाविनाशादनावृतेश्च ।
तदतिरिक्तं तु दशमं द्रव्यम्, पञ्चविशतितमो वा गुणः, षष्ठं वा कर्म, सामान्यविशेषसमवाया न संभवन्त्येव, तस्य द्रव्याद्यन्यतमत्वेन तदविनाभाविधर्मापत्तेः ।
अनापत्तौ वा तत्त्वानुपपत्तेः ॥
स खल्वयं सप्तमः पदार्थो भवेत्? तत्राप्यसौ भावनिषेधाकारो वा स्यात्, अन्यथा वा? न तावदन्यथा ।
तथा सति अविरोधित्वप्रसंगात् ।
निषेधाकारो ऽपि यद्यनुत्पन्नो ऽपि न निवर्तते, तदा घटादिव्यवहारः कदाचिदपि न स्यात् ।
उत्पन्नो वा यदि निवर्तेत, तदा विनष्टो ऽपि घटः कदाचिदुपलभ्येत ।
अतः पदार्थानां सप्तमो निषेधरूपो ऽनुत्पन्नप्रध्वंसी च उत्पन्नविनाशी च भूतलादिधर्मः कैवल्यमभाव इति एकोर्ऽथ इति ।
तदिदमुक्तम्--न घटाभावादन्यो घटाभाव एवेत्यर्थः ॥
स्यादेतत् यद्यपि ज्ञेयरूपं तत्त्वान्तरं नास्ति, तथापि ज्ञानरूपं भविष्यति ।
विषयश्च तस्य दृश्ये प्रतियोगिनि भूतलमेवेत्यत आह--न चेति, यथा भूतलपक्षे घटवत्यपि प्रसड्गो भवति, तथा भूतलज्ञानपक्षे घटवभ्दूतलज्ञाने ऽपि प्रसङ्ग इत्यर्थः ॥
ननु दृश्ये प्रतियोगिनीत्युक्तं घटवभ्दूतलज्ञाने तु घटो न दृश्यः किं तु दृश्यमान इत्यत आह---नहीति ।
न हि दर्शनानर्हे दृश्यत इत्यर्थः ।
दर्शनार्हे हि घटः तत्र यदि न नास्ति तदा भूतलवदकामेनाप्युपलभ्येतैव, भूतलमपि वा नोपलभ्येत, तुल्ययोगक्षेमत्वात् ।
तस्माद् भूतलोपलब्धावपि तदनुपलम्भस्तदभावमादायैवोपपद्यत इति ।
यद्यप्युपलभ्याभावमड्गीकारयितुं शक्यते तर्कगत्या परः, तथापि स्ववचनविरोधमप्यपश्यन्तं प्रति किं तेनापीत्याशयवानाह---दृश्ये ऽनुपलभ्यमान इति ॥
अनुपलम्भो ह्युपलम्भाभावाक वा स्यात्, दृश्ये स्मर्यमाणे भूलोपलम्भ एव वा, घटोपलम्भे वा स्मर्यमाणे केवलात्मोपलम्भः? न तावद् द्वितीयतृतीयौ, स्मर्यमाणे दृश्यमाने घटे भूतलोपलम्भे सति घटवत्यपि प्रसङ्गस्य
दुर्निवारत्वात् ।
तस्मादुपलम्भाभाव एवानुपलम्भः ॥
नन्व्नेनैव सर्वव्यवहारोपपत्तो किमुपलभ्याभावेनेत्यत आह--किमपराद्धमुपलभ्याभावेनेति ।
तथा हि यथोपलम्भनिषेधकात् प्रमाणादुपलम्भाभावसिद्धिस्तथोपलभ्यनिषेधकात् प्रमाणबलादेवोपलभ्याभावसिद्धिरपि भवति ।
भवति हि घटं नोपलभैतिवत् घटो नास्तीति प्रतीतिः ।
न चैकविषयत्वमनयोः, निमीलितलोचनस्य ह्युपलम्भाभावनिश्चय उपलभ्याभावे च सन्देहो जिज्ञासा च कथञ्चिद् भूतलनिश्चये ऽपि ।
न चैतदेकत्रैकदा संभवतीत्याशयवानुपसंहरति---तस्मादिति ।
असदिति सन्निषेध इत्यर्थः ॥
स च दृश्यानुपलब्धरेवावगम्यते, अक्षव्यापारस्याधिकरणग्रहणोपक्षीणत्वादिति केचित् ।
तदनुपपन्नम्, अन्धस्यापि त्वगिन्द्रियोपनीते घटादौ रूपविशेषाभावप्रतीतिप्रसड्गात् ।
अस्ति हि तस्याधिकरणस्य ग्रहणम्, अस्ति च प्रतियोगिस्मरणम्, अस्ति च नीले शुक्लत्वस्य योग्यस्याभावो ऽनुपलब्धिश्च ॥
अधिकरणग्राहकेणेन्द्रियेण ग्राह्याभाववादिनो ऽपि समानमेतदिति चेत्---न, प्रतियोगिग्राहकेणेन्द्रियेण
तदभावो गृह्यते भावायत्तत्वात् तस्येति सिद्धान्तमर्मत्वात् ।
ममापि यदभावो ऽनुपलब्ध्या बोध्यः तद्ग्राहकेणेन्द्रियेणाधिकरणग्रहणे स गृह्यत इति सिद्धान्तसारमिति चेत्---न, वायौ त्वगिन्द्रियोपनीते
रूपाभावप्रतीत्यनुदयप्रसड्गात् ।
न हि रूपग्राहकेण तत्राधिकरणमुपनीतम् ।
तत्रापि तावच्चक्षुरिन्द्रियं संबद्धमिति चेत्? एवं तर्हि तस्य नाधिकरणग्रहणे व्यापारः, नापि प्रतियोगिस्मरणे रूपाभावप्रतीत्या च नियमेन अपेक्षत इत्यायातम्, अनन्यथासिद्धमैन्द्रियकत्वमभावस्येत्यन्यथासिद्धत्वप्रलापं गजनिमीलनेनावधीर्य विद्धवदाह---इन्द्रियव्यापारे सति तत्प्रत्ययादिति ।
आन्तरालिकमेव व्यापारं व्यवधायकमिति भ्रान्तं प्रतिबोधयन्नाह---न च प्रतियोगीति ॥
प्रतियोगिस्मरणमित्यत्र वाक्छलवादिनमुत्थाप्य बोधयति---न च शब्दस्मरणादीनामिति ।
अभावज्ञानोत्पत्ताविन्द्रियार्थसन्निकर्षो न कारणं व्यभिचारादिति वादिनम् उत्थापयति---ननु स्वरूपेति ।
तदियमिति ।
प्रमाणान्तरं तु तेन संभवतीत्यभिमानः परस्येत्यर्थः ।
सेयमनुपलब्धिः सत्तामात्रैणाभावं गमयेत, स्वज्ञानेन वा? न तावदाद्यः, तदानीं गेहस्य विप्रकृष्टस्य व्यवहितत्वेन योग्यानुपलब्धेरसत्त्वात् ।
न द्वितीयः, अनवस्थाप्रसड्गात्, अनुपलब्धेरप्यभावरूपतया अनुपलब्ध्यन्तरसाधनीयत्वात् ॥
योग्यस्य स्मरणाभावस्तावदस्तीति चेत्---न, अभावे विपर्ययसंशयाभावप्रसंगात् ।
भवति हि कदाचित् प्रतियोग्यधिकरणयोः स्मरणे ऽप्यसतो ऽपि सभ्दावप्रतीतिः, सतो ऽभावप्रत्ययः, कथमन्यथा नास्तीत्युक्त्वा झटिति संजातवाधः प्राह, न हि न हि भ्रान्तो ऽस्मि, दृष्ट एवासौ तत्र मयेति, अस्तीति वा प्रथममुक्त्वा पश्चान्नास्तीति ।
किमासीन्नवेति नावधारयामीति वेति ।
न हि प्रतियोगिनमधिकरणं वानुपलब्धमेवान्यथाकारं स्मरति ।
न च स्वरससिद्धस्य स्मरणस्यानुपलभ्यमानस्यैव विपर्ययः संभवति ।
इयती च सामाग्री यदुत प्रतियोग्यधिकरणस्मरणं तत्तास्मरणं चेति ।
न वा साधारणं प्रमाकरणमदूषयन्त एव दोषा विपर्ययहेतवः, सर्वत्रानाश्वासप्रसड्गात् ।
त्वयाप्येतत् समर्थनीयमिति चेत्---न, योग्यास्मरणस्य मया लिङ्गत्वेनेष्टत्वात् ।
लिङ्गविपर्ययसंशयाभ्यां च तल्लैड्गिकसंशयविपर्यययोः सुलभत्वात् ।
यदा तु सुनिपुणैकज्ञानग्रहणयोग्यस्य चैत्रस्य गेहस्मरणैऽप्यस्मरणलक्षणं लिङ्गमवधार्यते, तदा लिड्गिप्रतीतिरविपरीता भवत्येव ।
अत एव क्षणं ध्यात्वेत्याह ।
अन्यथा ध्यानमप्यनुपपन्नम् ।
अस्मरणमात्रस्य हि व्यभिचारम् उपलभ्य तदनादृत्य विशिष्टास्मरणं ज्ञातुकामस्य प्रणिधानमुपपद्यते ।
तस्मात् लिङ्गत्वेनैव अस्मरणमुपयुज्यते ।
किं तु तदपि कथं ज्ञातव्यमित्यवशिष्यते? तत्राह---नैतदिति ।
व्यधिकरणतां परिहर्तुं प्रयोगं दर्शयति---तथा हीति ॥
न चावच्छेद्यावच्छेदकयोर्वैयधिकरण्यं दोषः, विशेषण एव तन्नियमात्, अत्र तूपलक्षणत्वात्, वैयधिकरण्ये ऽप्युपलक्षणत्वाविरोधात्, न[?]अतावन्मात्रेणैवोपयोगात् ।
उपलक्षितं तु साध्यसमानाधिकरणमेव ।
अत एवानुत्पन्नपादविहारस्य अचलचक्षुष इत्यादि व्यधिकरणमेव दर्शयति स्म वार्त्तिककारः ।
टीकाकारो ऽपि तथा अनुमेने, यतो नान्यथाकृतवान् ।
परैरपि यद्यदा यज्जाननसमर्थमिति वदभ्दिः स्वीकृतमेवैतत् ।
तत् कस्य हेतोः? तथैव प्रतिबन्धसिद्धेः ॥
नन्विन्द्रियार्थसन्निकर्षव्यभिचारस्तदवस्थ इत्यत आह---न च यदिति ।
साक्षात्कारिणी हि
प्रतीतिरस्मदादीनामिन्द्रियार्थसन्निकर्षं न व्यभिचरति, इयं त्वानुमानिकी पारोक्ष्यवती तस्मान्न क्वचिद् व्यभिचारशड्का ।
यद्यनुमानगम्यो ऽभावः, कथं प्रत्यक्षस्य तत्र प्रवृत्ति? अनयोरसड्कीर्णविषयत्वादिति तु कदाचिद् ब्रूयात् ।
तच्च संप्लवव्यवस्थापनयैव समाहितमित्यर्थः ॥
न तर्हि इत्यादिभाष्येण कः सूत्रावयवो व्याख्यात इति शड्कामपनयन्नेव वार्त्तिकमवतारयति---संप्रतीति ।
ननु लक्षणं तथाप्यदुष्टमित्यत आह---प्रत्यक्षकारणेति ।
कारणावधारणाभिमानिनश्चोद्यमित्यर्थः ।
विषयसंयोगिचक्षुरालोकश्चेति वदता विषयसंयोगेनैवालोकव्यापारो न त्वगिन्द्रियाधिष्ठानसंयोगेनेत्युक्तम् ॥
एतच्चान्धकारमध्यवर्तिनाप्यालोकमध्यवर्तिविषयोपलब्धेरालोकमध्यवर्तिनापि चान्धकारमध्यस्थानुपलब्धेरून्नेयम् ।
ननु महत्त्वानेकद्रव्यवत्त्वयोः परस्पराविनाभूतयोरगृह्यमाणविशेषत्वेनोभयोरपि चाक्षषत्वं प्रति कारणत्वात् समुच्चय एव ।
विशेषे वा एकस्यैव कारणत्वम्, कुतो विकल्पः? परस्परव्यभिचारिणो ह्यर्थक्रियायां विकल्पसम्भवो न त्विमे तथा ।
तस्माच्चाक्षुषद्रव्यलक्षणे कर्तव्ये ऽनयोर्विकल्पोपन्यासः कर्तव्यः ।
उभयोपादाने चासमर्थविशेषणं लक्षणं भवेदित्यर्थः ।
अत एवाग्रे सत्यप्येवं लक्षणकत्व इत्याह उक्तसामग्रीसम्भवे ऽपि चक्षुरवयविनो न प्रत्यक्षता, अत उक्तं वार्त्तिककृता उपलब्धिफलः संस्कार इति ।
स च दुर्निरूपः ।
तथाहि गुणिधर्मो वासौ स्यात्, गुणधर्मो वा स्यात्? तत्र गुणिधर्मत्वे तब्दले रूपस्पर्शयोरविशेषेण ग्रहणम्, न तु क्वचिद् ग्रहणम् अग्रहणं च क्वचिदिति ।
तदेकार्थसमवेतयोर्ग्रहणमेवेति चेत्---न, निशि निदाघसमये तेजः-स्पर्शग्रहे ऽपि रूपाग्रहात्, चन्द्रातपरूपग्रहे ऽपि स्पर्शाग्रहात्, गुणधर्मस्त्वनित्यो न भवत्येव, नित्यस्तु सामान्यरूपो न संस्कारशब्दवाच्यो नाप्युपलब्धिफलः, तस्य
स्वेपलब्धेरन्यत्रानिमित्तत्वादित्यत आह--धर्माधर्मनिमित्त उभ्दवसमाख्यात इति ।
रूपादीना स्वकारणवशादेव स स्वभावभेदो जायते केषाञ्चित्, यत्रोभ्दवत्वं नाम सामान्यविशेषः समवैति ।
स च धर्माधर्मजन्यतया संस्कार इत्युच्यते, उपलब्धिफलश्च भवतीत्यर्थः ।
प्रत्यक्षलक्षणतया तत्कारणमुक्तम्, न तु कारणतयैव ।
न च कारणं लक्षणमित्येकम् ।
उत्पत्तिव्यवस्थापकं हि लक्षणमलक्षणं वा, कारणस्वरूपव्यवस्थापकं तु कारकमकारकं वा लक्षणम् ।
न चैवमालोकादयः, तेषामतिव्यापकतया अव्यापकतया च प्रत्यक्षस्वरूपाव्यवस्थापकत्वात् ।
उत्पत्तिव्यवस्थापकाः पुनरेते भवन्ति ।
तेषामन्यतमापाये ऽपि प्रत्यक्षानुपपत्तेरित्याशयवान् परिहारं व्याचष्टे---प्रत्यक्षलक्षणेति ॥
ननु यद्यपि स्वरूपतः सन्तानतो वा इन्द्रियाभेदादिन्द्रियमनःसन्निकर्षाभेदो यथायथं संभवति, तथापि विज्ञानाभेदो व्यक्तिकृतो जातिकृतो वा स्यात् ।
पूर्वस्मिन्निन्द्रियार्थसन्निकर्षाभेदे ऽपि धारावाहिकविज्ञानानि भिद्यन्ते ।
उत्तरत्र तु इन्द्रियार्थसन्निकर्षभेदे प्यभेद एव, सर्वेषां साक्षात्कारिजातीयत्वादिति ।
तत् एकदेशिपरिहारो गर्भस्त्रावेणैव गत उपन्यासयोग्यो ऽपि न भवतीत्याशयवानाह---यदा हीति ॥
अस्ति हि स्वरूपजातिकृतभेदातिरिक्तो विषयकृतो विशेषो बुद्धीनाम् ।
स चेन्द्रियार्थसन्निकर्षभेदादेव दृष्टः, नेन्द्रियमनःसन्निकर्षभेदात् ।
यत्र तु धारावाहिज्ञाने नेन्द्रियार्थसन्निकर्षो भिद्यते, तत्र ज्ञानस्यापि न विषयकृतो भेद इत्यर्थः ।
तदिदमुक्तम्---क्रमवन्ति हास्तिकाश्वीयादिविज्ञानानीति ।
निराकरणे ऽप्येतदनुरूपमुदाहरति---यदा इति ।
तस्यैव गोश्चक्षुषा संयोगेन तत्रैव गवि समवायेन प्रथमं शुक्लगुणज्ञानं पश्चाद् गमनकर्मज्ञानमिति भेदे ऽभेदादिति ।
समानमित्यर्थः ॥
यद्यप्यप्रसिद्धत्वमव्यपदेशकत्वव्यापकत्वात् तदभिधानेनैव लब्धम्, तथाप्यालोकविषयसन्निकर्षो ऽव्यपदेशकत्वे ऽपि प्रसिद्धः, इन्द्रियमनःसन्निकर्षस्त्वव्यपदेशको ऽप्रसिद्धश्च इत्येतावता प्रकारान्तरत्वम् ॥
नन्वन्यतरातीन्द्रियाधारत्वमिन्द्रियार्थसन्निकर्षस्याप्यस्ति, उभयातीन्द्रियाधारता तु आत्ममनःसन्निकर्षस्यापि नास्तीत्यत आह--आत्मा तु यद्यपीति ॥
ननु विशिष्टकर्माभिनिर्वर्तितत्वेन प्रसन्नान्धानन्धकृष्णसाराणां न कश्चिद्विशेषः, न हि रूपोपभोगानर्थिनः कृष्णसारे तृष्णा तत्कर्मसंभवः ।
असंभवे च कथमस्योत्पत्तिरिति? अतः कार्ये ऽपि कर्मणः सहकारितामाह--एतदुक्तं भवतीति ।
कर्मक्षयात् इत्युपलक्षणम्, प्रतिबन्धात्, सहकारिविरहाच्चेत्यपि द्रष्टव्यम् ।
यदि हि रथादिसंयोगानां नभोव्यापकत्वं भवेत् तदा तत्कार्यस्यपि शब्दस्य सर्वत्रोत्पादप्रसड्गेः ।
असमवायिकारणप्रादेशिकत्वानुरोधेन हि
व्यापकगुणाः प्रदेशावच्छेदेन जायन्ते ।
इह तु तदभावादनवच्छिन्नदेशतैव स्यात् ।
ततश्च तद्द्वारेणोपलम्यमाना रथादयस्तत्संयोगाश्च न नियतदेशतया प्रतीयेरन्नित्याशयवानाह---मा भूतसर्वत्रेति ॥
नन्वाकाशप्रत्यक्षतापक्षः किमिति नाशड्कित इति परिहरत्नाह--नास्माकमिति ।
त्वगादिभिरिति तत्र त्वगुदाहणमुक्तम् ।
रसनोदाहरणं तु तिक्तत्वाभावविशिष्टो मधुरतरो गुडः ।
तथा घ्राणोदाहरणं पूतिग्रन्धाभावविशिष्टा सुरभितरा कस्तूरिकेत्यतो बहुवचनाविरोधः ।
बौद्धसिद्धान्ते च गुणगुणिनोरभेदाद् गुणिमूर्तत्वमेव गुणमूर्तत्वम् ।
गुणग्राहकमेवेन्द्रियं गुणिग्राहकम् ।
गुणाभाव एव च गुण्यभावः ।
अतो मूर्ताभावविशिष्टग्रहे उदाहरणीये
अल्पाभावविशिष्टग्रहमाहेति ॥
ननु मा भूत् सहान्तरेण ग्रहणं सान्तर इति वा ग्रहणं हेत्वर्थः, शरीरेन्द्रियाधिष्ठानासम्बन्धस्य ग्रहणमर्थो भविष्यति ।
न ह्ययमन्यथासिद्धः, एतस्यैवोत्तरोपाधित्वेन प्रयोजकत्वादित्यत आह---इन्द्रियसम्बन्धो भवतु मा वेति ।
यच्छरीरसम्ब्द्धं तदवश्यमिन्द्रियसम्बद्धमिति ।
यदिन्द्रियसम्बद्धं तदवश्यं शरीरसम्बद्धमिति वा न प्रमाणमस्ति,
तयोर्विभिन्नत्वात्, विभिन्नाश्रयत्वाच्च ।
न ह्यस्ति नियमो यत् प्रदीपेन सम्बण्सते तदवश्यं मल्लिमयापि यद् वा मल्लिमया तदवश्यं प्रदीपेनापि ।
तस्मात् तत्र साधाकबाधकप्रमाणाभावात् सन्देह एवेत्यर्थः ।
तस्मात् तदन्यथासिद्धिरेवेत्यसिद्धिव्यवच्छेदार्थं सजलसतेजःपटादिग्राहिणा प्राप्यकारिणा त्वगिन्द्रियेण विरुद्धमपि सहान्तरेण ग्रहणं द्रष्टव्यम् ॥
आवरणानुपपत्तिरूपस्य तर्कस्योपस्कुर्वाणः प्रयोगेण प्रमाणमाह--प्रयोगस्त्विति ॥
इह द्विविधः सम्बन्धः प्राप्तिलक्षणो यथा, आलोकादीनां घटादिभिः ।
तद्विपरीतश्च यथा, अभिधानज्ञानादीनामभिधयज्ञेयादिभः ।
तत्र स्वविषयं प्राप्येति सिद्धसाधनव्युदासार्थम् ।
जनकत्वादित्युक्ते शब्दादिभिरप्राप्तस्वविषयप्रतिपत्त्यादिजनकैरनैकान्तिकमतस्तदप्राप्तावजनकत्वादिति ।
एतावन्मात्रेण तु सर्वथा
अजनकैरनैकान्तिकमतो जनकत्वे सतीति ।
युक्त्यन्तरम् तर्कान्तरम्, दूरान्तिकाननुविधानप्रसङ्गः ।
अस्यापि विपर्ययेण प्रयोगो द्रष्टव्यः ॥
ननु प्राप्तत्वाविशेषे सूर्यमण्डलवन्मेरूपृष्ठमध्यन्दिनोल्काप्रकाशावपि गृह्णीयात् ।
अथानुभ्दूताभिभूततया न सूरसदनादीनां ग्रहणम्, उभ्दूतानभिभूतत्वात् सूर्यमण्डलं गृह्यत इति, एवं तर्हि विषय एव स कश्चित् तादृशो यो गृह्यते नेतर इत्यभ्युपेयताम्, किं व्यभिचारिप्राप्तिपरिग्रहेगोत्यत आह---प्राप्तौ त्विति ।
विषयमाहात्म्यं हि प्राप्तिसहकारि, न तु स्वतन्त्रम् ।
न हि स्पर्शरसादयो ग्रहणयोग्या इत्यप्राप्तैरेव त्वगादिभिर्गृह्यन्ते, प्राप्यकारित्वाद् वा तैरनुभ्दूताभिभूता अपि ते प्राप्तत्वमात्रेण गृह्यन्त इत्यर्थः ॥
यद्यपि क्षणभङ्गपरिणामनये ऽपि प्राप्तानामेव परस्परं कर्तृकरणकर्मणां कार्यजननम्, न त्वप्राप्तानामपि, न हि परस्परमप्रत्यासीदन्तः सहकारिप्रत्यया भावानतिशाययन्तो दृश्यन्ते ।
प्रत्यासत्तिस्तु निरन्तरोत्पाद एव तेषाम् ।
सैव च स्वरूप्योग्यता ।
तथा च स्वरूपयोग्यतामिन्द्रियार्थयोब्रुवता निरन्तरोत्पाद एव वक्तव्यः, न पुनर्व्यवहितविप्रकृष्टोत्पन्नानां क्वचिदपि स्वरूपयोग्यता नाम ।
तस्मात् प्राप्तौ स्वरूपातिरिक्तायां विप्रतिपद्येत, न तु निरन्तरोत्पादे ऽपि तत्राधिकाप्राप्तिः साधनमर्हतीत्याशयवानाह---निषेत्स्येते हीति ॥
एवं निवारिताभिमानः परदर्शने ऽपि प्रमाणमपश्यन् सन्दिग्ध इति ॥
ननु जनकत्वे सतीति निर्णयहेतुं पश्यन् कथं नाम सन्दिग्ध इत्यत आह---अयमभिसन्धिरिति ।
अदृश्यमानप्राप्तावयस्कान्ते ऽपि दृष्टत्वादनैकान्तिकस्याभिमन्यते पर इत्यर्थः ।
त्वगादीनां दण्डादीनां च प्राप्तानामेव कार्यजनकत्वं पश्यन् कथमिव सर्वत्र विप्रतिपद्यत इत्यतो विप्रतिपत्तिबीजमाह---योग्यतयैवेति ।
नन्वयस्कान्तस्याप्राप्यकारित्वे हेत्वन्तरे ऽपि कः प्रतीकार इत्यत आह---अयस्कान्तमणेरिति ।
ननु तस्य वृत्तिभेदः अनुपलम्भबाधित इत्यत उक्तम्---चक्षुष इवेति ।
तुल्ययोगक्षेमत्वादित्यर्थः ॥
व्यवधानविप्रकर्षौ हि अनिरन्तरोत्पादो वा स्यादप्राप्तिर्वा, स्वरूपयोग्यता वा? तत्रानिरन्तरोत्पादाभावो
निरन्तरोत्पादः स्यात् ।
न च कृष्पासारस्यार्थेन मणेर्वा लोहेन निरन्तरोत्पादः संभवति ।
अप्राप्त्यभावस्तु प्राप्तिरेव, तथा च कः प्रतिकूलो ऽनुकूलमाचरति? अयोग्यताभावस्तु योग्यतैव ।
स च बौद्धनये कारणजातीयस्य निरन्तरोत्पादान्न भिद्यत इत्युक्तम् ।
तस्मात् स्थिरनये कार्यं जनयन्ति कारणानि परस्परप्राप्तिं वा व्यभिचरन्ति,
प्राप्तिर्वा स्वरूपयोग्यताप्रयुक्तां व्याप्तिमुपजीवतीत्यवशिष्यते ।
तत्राह---प्राप्तेरेवेति ॥
ननु लक्षणान्तरेण व्यवस्थिते लक्ष्ये कथमन्योन्याश्रयत्वमित्यत आह---अगतिर्वेति ।
तद्धि लक्ष्यसापेक्षमनपेक्षं वा? आद्ये अन्योन्याश्रयत्वदोषादेवागतिः ।
उत्तरत्र तु अवगते लक्ष्ये तत्सापेक्षेण लक्षणेन किं गमयितव्यमित्यगतिरेवेत्यर्थः ।
अस्ति हीति ।
यदि विज्ञानाभिन्नहेतुजत्वात् सुखं विज्ञानजातीयं स्यात् सुखाभिन्नहेतुजत्वात् तदपि सुखजातीयं भवेत् ।
विज्ञानं न सुखेनाभिन्नहेतुजमिति चेत्? एवं तर्हि कथं सुखमपि विज्ञानेनाभिन्नहेतुजमित्यर्थः ।
ननु ज्ञानहेत्वनुगमः सुखे ऽप्यस्ति, न तु सुखहेत्वनुगमो ज्ञाने, अतो यत्कारणानुगमो
यत्र तज्जातीयत्वं तत्रास्तु ।
यथाड्कुरमात्रकारणानुगमे यवाड्कुरस्याप्यड्कुरजातीयत्वम् ।
न तु सर्वस्य यवाड्कुरत्वम् तत्कारणानुगमाभावादित्याशयवान् आशङ्कते---अवान्तरेति ।
न ह्यस्ति नियमो यज्जातीयकार्यहेतुचक्रानगमो यत्र तत्र तज्जातीयत्वमिति ।
बीजजातीयकार्यहेतुचक्रानुगमे ऽप्यड्कुरस्य बीजाजातीयत्वादिति सामान्योपसंहारे ऽनैकान्तिकत्वम्, विशेषोपसंहारे तु
सन्दिग्धानैकान्तिकत्वमाह---न किञ्चिदिति ॥
आकस्मिकत्वप्रसङ्गभयाद्धि कार्यभेदोपपत्तये सकलकारणभेदमनुसरन् प्रयस्यति भवान्, स च कार्यभेदः किञ्चित्कारणभेदेनैव बीजाड्कुरादिवत् ज्ञानसुखादावप्यनाकस्मिक इत्यर्थः ।
तदिदमुक्तं तदर्थत्वाच्चेति ।
ननु रूपरसगन्धस्पर्शानां हि उपादानभेदाभेदमात्रानुविद्धं तज्जातीयातज्जातीयत्वम् ।
न ह्यस्ति संभवो रूपाद्युपादानं चारूपादिकं चेति ।
अतो ज्ञानोपादानत्वे सुखं ज्ञानजातीयमेव स्यात् ।
अज्ञानत्वे वा न ज्ञानोपादानत्वमिति यदि प्रत्यवतिष्ठते तत्राह---न चेति ।
यदि ह्येकजातीयोपादानतयैकजातीयत्वं भवेत्, अवान्तरैकजातीयमपि किं न स्यात्? तथा चैकस्मात् समनन्तरप्रत्ययादनेकावान्तरजातीनयानुत्पादप्रसङ्गः ।
दृश्यते च रूपज्ञानाद् रूपज्ञानं रसज्ञानादिजातीयं च ।
साक्षात्कारिणः साक्षात्कारश्चासाक्षात्करश्चेत्यादि ॥
अथ विलक्षणानेकसहकारिप्रवेशादनेकावान्तरजातीयकार्यकरणस्वभावस्य कस्यनचिदेवोत्पादनियम उपपाद्य ।
एवमवान्तरजातिभेदोपपादनवद्विवक्षितैकजातीयोपादानत्वे ऽपि विलक्षणानेकसहकारिप्रवेशाद् विवक्षितानेकजातीयकार्यकरणस्वभावस्य कस्यचिदेवोत्पादनियम उपपत्स्यत इत्यर्थः ॥
सो ऽयमेकोपादानकत्वे ऽप्यवान्तरजातिभेदाभ्युपगमः परेषां दृष्टान्तार्थमुभ्दावितः अपि चेत्याद्युभ्दावितं सन्दिग्धव्यावृत्तिकत्वं स्फुठयितुमतो नासङ्गतमिति ।
तदेतत् सकलं बौद्धसिद्धान्ताभ्युपगमेनोक्तम् ।
परमार्थतस्तु यदुपादानवत् तत्सजातीयं यद्व्यापकोपादानवत् तद्गुणजातीयमिति नियमः ।
अतः परमनियमः ।
तद्यदि सत्तया गुणत्वेन वा सुखज्ञानयोरेकजातीयत्वं साध्यते, तदा सिद्धसाधनम् ।
अन्यत्रानियमे ऽसड्कीर्णमुदाहरणम् आह---अत एवेति ।
एकोपादानत्वे ऽपि रूपादीनां न व्यक्तिकृतो भेदः, नाप्यवान्तर जातिकृतः नापि गुणतया पिठरोपादानत्वे ऽपि कर्मणो ऽगुणत्वात् ।
अत्रोपादानमात्रबलेन यथा द्रव्यगुणकर्मणामसतामेव सत्त्वं बहिः, तथा आन्तरमपि ज्ञानसुखादीनाम् ।
यथा च तेषाभवान्तरकारणभेदाद् द्रव्यत्वं पृथिव्यादीनाम्, गुण्त्वं रूपादीनाम्, कर्मत्वमुत्क्षेपणादीनाम्, तथावान्तरकारणभेदाद् दर्शनस्पर्शनस्मरणादीनां ज्ञानत्वं निरूपाध्यनुकूलानूकूलतरादीनां सुखत्वमित्यादि ।
एकमवान्तरासाधारणनिमित्तादिभेदाद् यथा पृथिव्या घटादिभेदो, रूपस्य शुक्लादिभेदः, उत्क्षेपणस्य च पाटवादिभेदस्तथा ज्ञानस्यापि दर्शनादिभेदः सुखस्यापि तारतम्यादिभेदो भविष्यतीत्यर्थः ॥
स्यादेतत्, अज्ञानरूपतायां पुनः किं प्रमाणमित्यत उपसंहारव्याजेनाह---तस्मादिति ।
यद्यपि विज्ञानसुखादीनां भिन्नजातीयत्वमनुभवसिद्धम् ।
न हि चन्दनमहं जानामीत्यत्र सुखं परिस्फुरति तदाहं सुखीति स्यात् ।
नापि सुख्यहमित्यत्र ज्ञानं परिस्फुरति तदा जानामीति स्यात्, न चैतदस्ति ।
ज्ञानविशेषः सुखं तथाविधे च सुखबुद्धिर्भवत्येवेति चेत्---हन्त भोस्तस्य ज्ञानविशेषस्य विषयविशेषो ऽप्यस्ति न वा? नास्ति चेत्? निर्विषयज्ञानं सुखमिति प्राप्तम् ।
न चैतद् दृष्टमिष्टं शकयं वा साधयितुम् ।
अस्ति चेत्? बाह्य आभ्यन्तरो वा? न तावद् बाह्यः कश्चिद् विषयभेदो ऽस्ति ।
यदेव हि रागवता गीतमनुभूयते तदेव वीतरागेणापि ।
तदेव गीतम्, परं रागवता अनुकूलतया, वीतरागेण तु तद्विपरीततयेति चेत्? किमनुकूलत्वमस्य निरूपाधिकम्, सोपाधिकं वा? कथं कञ्चित् प्रति, सोपाधिकत्वे स एवोच्यताम् ।
इच्छैवोपाधिरिति चेत्---न, इतरेतराश्रयत्वप्रसड्गात् ।
इष्यमाणत्वादनुकूलत्वम्, तेन चेष्यमाणत्वमिति ॥
तस्मात् तस्य ज्ञानविशेषस्य सुखत्वेनाभिमतस्याभ्यन्तर एव विषयविशेषो निसर्गानुकूलस्वभाव एष्टव्यः, यद्धेतुतया बाह्यो विषयो ऽनुकूलतयाभिमतत्वेनेष्यमाणो भवति स एवोक्तरूपो विषयः सुखमित्युच्यते ।
तथापि मूढधियां व्यवहारार्थं समानासमानजातीयव्यवच्छेदका धर्मा ज्ञानादीनामुक्ताः ।
तत्रार्थप्रवणत्वं ज्ञानस्यार्थनिरूपणाधीननिरूपणत्वमित्यर्थः ।
तदप्रवणत्वमज्ञानलक्षणम् ।
तत्राप्यनुकूलवेदनीयत्वं सुखलक्षणम्, प्रतिकूलवेदनीयत्वं दुःखस्येत्येवमादि समानतन्त्रानुसादेण बोद्धव्यमित्यर्थः ॥
नन्वज्ञानात्मकत्वे घटादिवदवश्यसंवेद्याः सुखादयो न भवेयुः ।
अवश्यसंवेद्याश्च ते ।
न ह्यसंविदिते
सुखे प्रमाणमन्यदस्ति ।
तदेतद् ज्ञानात्मत्वे परमुपपद्यते स्वसंवेदनत्वादित्यत आह---तीव्रसंवेगितयेति ।
सन्ति हि पदार्थाः स्वकर्मोपार्जितत्वाविशेषे ऽपि केचिदध्यक्षा एव, यथा स्वशरीरादयः ।
केचित् तु परोक्षा एव, यथा तदन्तर्गतनाडीसंस्थानादयः ।
एवमज्ञानत्वाविशेषे ऽपि कारणलब्धस्वभावभेदाः केचित् अवश्यसंवेद्याः सुखादयः केचिदन्यथेत्यर्थः ॥
सगोत्रमुत्थापयति---स्यादेतदिति ।
तथापि जागरावस्थायां तावदनुभवजननद्वारा सुखोत्पत्ताविन्द्रियार्थसन्निकर्ष उपयुज्यते ।
अन्यथा सुखवदनुभवो ऽपि तेन विनैव स्यात् ।
न च साक्षात्कारणमेव कारणम्, तथा सति व्यापारिण उदासीनाः प्रसज्येरन् ।
व्यापाराव्यवधायकत्ववादस्त्वत्रापि तुल्य इत्यत आह---इन्द्रियार्थसन्निकर्षस्य त्विति ।
ज्ञानमात्रमव्यापारीभूतं तत्र उपयोगादित्यर्थः ॥
अयमाशयः ।
भवेदेवं यदीन्द्रियार्थसन्निकर्षस्य ज्ञानं व्यापारः स्यात् ।
सहि कार्यासवानो व्यापार्यव्यभिचारी भवति ।
ज्ञानं पुनः कार्यावसानमपि इन्द्रियार्थसन्निकर्षम् अतिपतत्येव स्वप्नान्तिके ।
अन्यथा तु व्यापारकल्पनायामनियमप्रसङ्गः इति ।
परिहरति---तदयुक्तमिति असिद्धेरप्रतीतेः ।
प्रमाणाभावादिति शेषः ।
ननु मानसः अत्रानुभवः प्रमाणमित्यत आह---तद्ज्ञानस्येति ।
कुतो मिथ्यात्वावगतिरित्यत आह---यथा हीति ।
आलम्ब्नं त्वस्य विपर्यासस्य यथा पूर्वानुभूता स्मरणार्हा कामिनीत्येवं तज्जान्मपूर्वानुभूतं स्मरणार्हं सुखमेव ।
विपर्यासत्वं पुनरेतावतैवास्य यत् विप्रकृष्टदेशकालयोः कामिनीतज्जन्यसुखयोः सन्निकृष्टदेशकालतयावभासः ।
न पुनरकामिन्यसुखयोः कामिनीसुखत्वेन प्रतिभानम् ।
तथा सति कामिनीत्वसुखत्वनिषेधेनान्यस्य कस्यचित् प्रतिभासनं बाधकं भवेत् ।
न च वाच्यम् यदि न स्वप्नान्तिके सुखमुत्पद्यते न
नस्मै घिरही स्पृहयेदिति, मोहादसाधने ऽपि प्रवृत्तिदर्शनात् ।
शीतापनुत्तये गुञ्जापुञ्ज इव मर्कटानाम् ।
तदिदमुक्तम्---स्मरणविपर्यास इति ।
स्मरणे प्राप्ते विपर्यासः स्मरणविपर्यासः अनुभवलक्षणस्तद्विषय एवेत्यर्थः ॥
ननु सुखदुःखोत्पादप्रयोजनौ धर्माधर्मौ यदसुखदुःखारूपान् देहादीन् उत्पादयतः तत्तदर्थतयैव, एवं तयोः सर्वोत्पत्तिमतां निमित्तत्वं निर्वहति ।
इदं तु स्वप्नज्ञानं न सुखरूपम्, संखसाधनमपि यदि न स्यात्, न तर्हि धर्मनिमित्तकम् ।
नाप्यधर्मनिमित्तकमदुःखत्वादतद्धेतुकत्वाच्च ।
ततश्चादृष्टनिरपेक्षोत्पत्तिरस्य च बह्वाकुलयेदित्यत आह---सुखेति ।
सुखाद्युपभोगो ह्यदृष्टस्य प्रधानं प्रयोजनम् ।
न च सुखादि स्वरूपतः उपभोगः, किं तु तदनुभवः ।
स च प्रत्युत्पन्नसुखाद्यनालम्बनत्वे ऽपि पूर्वोत्पन्नम् आलम्ब्य जायमानः सर्वं समञ्जसयति ।
न च सर्वत्रैवमस्तु सामग्रीवैचित्र्यात्, सत्यमिथ्याप्रत्ययविभागव्यवस्थापनात् ॥
न ह्येकदोपलब्धरजतविषयसंस्कारवशादरजते ऽपि रजतप्रत्ययः इति सर्वदैवमेवास्त्विति वक्तुमुचितम् ।
यस्तु मन्यते स्वप्ने तावत्सुखादिकमनुभूयत इत्यविवादम् ।
तत्र तु बाधकं भवद् द्विरूपं भवेत्---असुखमेतदिति वा, नासीत् सुखमिति वा ।
न चैतदस्ति ।
जागरावस्थायां तु नासीत् कामिनीति युज्यते बाधकं स्थिरत्वात् ।
सहसापसरणस्याप्यसंभवात् ।
तत्कार्याणां च दशननखक्षतादीनामननुवृत्तेः ।
चरमधातुविसर्गादीनां चानुवृत्तावप्यतत्कार्यत्वात् ।
तत्कार्यत्वेन तदनुवृत्तावन्येषामपि तत्कार्याणाम् अनुवृत्तिप्रसड्गात् ।
नास्तीदानीं सुखमिति त्विदानीन्तरसुखस्य बाधो न प्राक्तनस्य, क्षणिकत्वात् तस्य ।
तत्कार्याणां च हर्षाश्रुपुलकादीनामनुवर्तमानानामुपलम्भादन्यथा आशुतरविनाशिनां क्षणान्तरे ऽदर्शनात् तदनुभवानामप्रामाणिकत्वमेव स्यात् ।
तस्मातबाधितानुभवसिद्धत्वादस्ति स्वप्नान्तिके सुखमिति तं प्रत्याह---न चासतीति ।
यद्यपि स्वप्नान्तिकसुखस्य जागरावस्थायामाहत्य बाधकं नास्ति, तथापि स्वप्नान्तिक एव तत्कारणत्वेन प्रतीतानां चन्दनवनितादीनामस्ति बाधकम् ।
मूल पाठ: Nyāyavārttikatātparyapariśuddhi 1 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0