न्यायवार्त्तिकतात्पर्यपरिशुद्धि · भाग 4160
तत्रात्मलक्षणधर्मिसिद्धावागमः,
अयमात्मा [बृह 4.4.3], अपहतपाप्मा [छान्दोग्य 1.2.9], अजरो ऽमरः [बृह 4.4.25], स एष नेति नेत्यादि [बृह 3.9.26] ।
अनुमानं चेच्छादि [सूत्र-1.1.10] समुत्थम् ।
जन्माभावरूपलिङ्गसिद्धौ तु,
अशरीरं वाव सन्तम्
[छान्दोग्य 8.12.1] इत्याद्यागमः ।
अनुमानं तु प्रवृत्त्यभावः ।
प्रवृत्त्यभावे ऽपि,
यस्त्वात्मतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥
[गीता 3.1.7] इत्येवमादि ।
अनुमानं तु दोषाभावः ।
दोषाभावे ऽपि,
रसो ऽप्यस्य परं दृष्ट्वा निवर्तते ।
[गीता 2.49] इत्येवमादि ।
अनुमानं तु मिथ्याज्ञानाभावः ।
अत्रापि
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
[मुण्डक 2.2.8] इत्यादि ।
अनुमानं तु तत्त्वज्ञानसद्भावः ।
आत्मतत्त्वज्ञाने ऽपि
आत्मा वा अरे दृष्टव्यः ।
[बृह 4.5.8] इत्येवमादि ।
अनुमानं तूपायाभ्यासप्रकर्ष इत्येवमादि ।
उपलक्षणं त्वागमानुमानग्रहणम् ।
प्रत्यक्षमपि द्रष्टव्यम्, एवं शरीरादिष्वप्यूह्यम्, अनुमानमेवात्रार्थे प्रमाणमिति विप्रतिपन्नं प्रतिपिपादयिषतामिति शेषः उपनिषदापि
तमेव विदित्वातिमृत्युमेति ।
[श्वेता 3.8] इत्यादीनां प्रामाण्यात् ।
सन्तानानुमानस्य च पृथगुपदेशाच्च प्रमेयस्य प्रमाणादिभ्यः प्रथमसूत्रे एतद्विवरणाद्वचवच्छेत्तुरग्रन्थमेवावतारयति--यदि चेति ।
विहितत्वादाद्येन सूत्रेणेति ।
श्रुत्यर्थाभ्यामिति शेषः ।
तदियता
प्रबन्धेन वार्त्तिककृता किं कृतमित्यत आह--तदनेनेति ॥
उत्तरवार्त्तिकविषयीभूतभाष्यं तावद् व्याचष्ट--अथ किमिति ।
ननु द्वितीयसूत्रार्थो नात्रोदितः, तत् कथं तत्रानूद्यत इत्यत आह-- निःश्रेयसेति ।
अत्र च हेत्वाद्यनुवादत्रार्त्तिकं नास्त्येवेत्यनाशङ्कनीयम्, टीकाकृता सिद्धवदुत्थापितत्वात् ।
क्वचिल्लिप्यभावस्य लेखकदोषेणाप्युपपत्तेः ।
अन्यथा भाष्यतात्पर्यार्थानुवादकत्वात् ।
व्याचष्ट इति तु यद् व्याख्यातम्, तदभिप्रायं तेन तच्चैतदुत्तरसूत्रेणानूद्यते इत्यस्यानुवादानन्तरमव्याख्याने ऽपि न दोषः ।
एवं चार्थं द्वितीयसूत्र इत्यादिना पूर्वमेव व्याख्यातत्वात् तु नेहेदं व्याख्यातमित्यर्थः ॥
ननु द्वेषः किहेय एव न वा प्रवृत्तिहेतुरित्यत आह--उपलक्षणमिति ।
ननु हानपदमात्यन्तिकपदसमभिव्याहारादपवर्गे वर्तते, तत् कथं तत्त्वज्ञानमित्युच्यत इत्यत आह--हीयते हीति ।
करणव्युत्पत्तिमाश्रित्यानेन तत्त्वज्ञानं विवक्षितम् ।
भावव्युत्पत्त्या त्वात्यन्तिकपदसमभिव्याहारादपवर्ग इत्यर्थः ।
तत्त्वज्ञानपदस्य व्युत्पत्तिसंदेहमपनयन्नेवाह-- तस्य प्रमाणस्येति ।
एतेनादिवाक्यविरोधः परिहृतः ।
अर्थपदानीति भाष्यगतस्यार्थपदस्य त्वन्यथार्थो भविष्यतीति यदुक्तं तदाह--पुरुषार्थस्थानानीति ।
तात्पर्यमित्यर्थः ।
वार्त्तिकस्येति शेषः ॥
प्रस्थानं प्रकार इत्थम्भावः तथा चेत्थम्भूतत्वादान्वीक्षिक्या इति यद्यप्यभिमतमेव, तथापि निरूपपत्तिक इत्थम्भावः स्यादित्यत आह--प्रस्थानं व्यापारः ।
तदनेन भाष्यगतस्य प्रस्थानपदस्य प्रकृत्यर्थो ऽभिहितः, प्रत्ययार्थस्तु संशयादिभिः पदार्थैः पृथक् प्रस्थाप्यते इति वदता भाष्यकारेणैव दर्शितः ।
तदेतदुक्तं भवति, न्याव्युत्पादने व्यापारवत्तया हि इयमान्वीक्षिकी विद्यान्तराद् भिद्यते ।
स च संशयाद्यड्गोपाङ्गव्युत्पादनेनैव व्युत्पादितो भवति ।
ततो ऽस्याः संशयादयो ऽपि विषयभूताः तानन्तरेण निर्विषयतया विद्यैव न स्यात् ।
विषयान्तरवत्तया विद्यान्तरमेव वा स्यादिति ।
अत्रेव शङ्कते--न च वाच्यमिति ।
न ह्यन्या विद्याः स्वं स्वमर्थं प्रतिपादयन्त्यो ऽपि कथमेतदित्यश्रद्धामलमपनेतुमीशते विनैनामान्वीक्षिकीमित्याशयवान् परिहरति--एतस्या एवेति ।
वार्त्तिकान्तरविषयं भाष्यं दर्शयति--स चाचमित्यादिभाष्यमिति ।
निर्दलं देश्यं दीपयति ज्ञानमिति ।
उपलब्धो ऽनिर्णोतश्चेति व्याघातो ऽनुपपन्न एव उपलब्धेर्निर्णयपर्यायत्वस्यानन्तरमेव निराकृतत्वात् ।
नापि प्रमाणप्रवृत्तिविषय उपलब्धो भवन्निर्णोत एव भवेदित्यत आक्षेप्तुरभिप्रायन्तरं दर्शयति--पञ्चरूप इति ।
यथा प्रत्यक्षमागमो वा अज्ञाते ऽप्यवतरति, तथा असन्दिगधे ऽपि ।
अनुमानं तु यथा नाज्ञाते तथा असंदिग्धे ऽपि तस्मादस्यान्यैव रीतिरित्यर्थः ।
समानविषयत्वम् एकविषयत्वम् ।
समामानाधिकारण्यं न समर्थयस इति, न तादात्म्यमिति भावः ।
परस्परसमानेनाधिकरणेन संबन्धमात्र सामानाधिकरण्यम् ।
न तु तादात्म्यमित्यभिप्रेत्य परिहारं विवृणोति--सामान्य विशेषयोरिति ।
संदिग्धे प्रवर्तवे इत्यस्य योग्यतापरतां दर्शयति-असंदिग्ध इति ।
संशयानर्हश्च प्रकारद्वयेन, सर्वथा अज्ञातो विशेषतो वा निर्णातः, तद्विपरीतस्तु संदिग्धः संशयार्हः ।
तत्र न्यायः प्रवर्तत इति तात्पर्यम् ।
अत एव व्यतिरेकप्रधानामुपलक्षणतयैकां विधामुदाहरति--नहीति ॥
ननु किं पुनः प्रयोजनमिति प्रश्ने येन प्रयुक्तः प्रवर्तत इत्युत्तरं वैयात्यादित्यत आह--स्फुटतरमेवैतदिति ।
ननु वयं
न्विति स्वाभिमतप्रदर्शनमेकदेशिमते अपरितोषं सूचयितुम्, न चापरितोषबीजमुपलभामह इत्यतस्तद्वीजं प्रश्नपूर्वकमेव तावद् दर्शयति--तत्रेति ।
सर्वेषामेव काम्यत्वात् धर्मादीनामिति ।
तथा च धर्मादिविषयस्तात्साधनविषयो वा कामस्तत्रापि प्रवर्तक इत्यर्थः ।
न च तद्विषयत्वेनापि धर्मादीनामुपादानम्, स्रक्चन्दनादीनामप्युपादानप्रसङ्गादिति ।
सरकः पानम् ।
ननु तथापि नैतेषां प्रयोजनत्वक्षतिरित्यत आह--धर्ममोक्षयोरिति ।
उपलक्षण चैतत् ।
काकार्थयोरपि विरक्तान् प्रत्यप्रयोजकत्वमिति द्रष्टव्यम् ।
तेनैतदुक्तं भवति, न हि धर्मादिषु धर्मत्वादिकमेव प्रवृत्तिं प्रति प्रयोजकम् ।
किं नाम? इष्यमाणत्वम् ।
अन्यथा अविशेषेण सर्वस्य सर्वत्र प्रवृत्तिप्रसङ्गादिति ।
ननु यथाश्रुते को दोषो येन विषयेण विषयिणं प्रत्ययमुपलक्षयतीति व्याख्येत्यत आह--असत्योरिति ।
सत्योर्वेति सप्तमी ।
उत्तरवार्त्तिकं ग्रहीतुमेतत् ।
यथाश्रुतं दूषयति--तथापीति ।
इह फलज्ञानमन्यत्र प्रवर्तवत् तत्साधन एव प्रवर्तयतीति अतो नातिप्रसङ्ग इत्येवं यद्यपि शङ्कितुमुचितम्, तथापि
तत्सधनत्वेनाज्ञाने प्रवृत्तिरेव नास्ति इत्यतस्तज्ज्ञानमन्तर्भाव्य आशङ्कते--तत्साधनत्वज्ञानादिति ।
सामानाधिकरण्येन एकविषयतया, संप्रतिपत्तेरविरोधतः कार्यकारणभावसिद्धेरित्यर्थः ।
एवं तर्हि
सुखदुःखाप्तिहानिभ्यामिति वार्त्तिकमसङ्गतमेव किमित्यत आह--एतदुक्तं भवतीति ।
विवक्षितु प्रस्थलीकरोतितेनेति ।
प्रवृत्तिविषयतयेष्यमाणत्वमुपादेयता, स्वरूपेणेष्यमाणत्वमुद्देश्यता, उभयोरपि ज्ञानं प्रयोजयतीति उभयमपि प्रयोजनम् ।
इयांस्तु विशेषो यदुपादेयज्ञानं साक्षात् प्रवर्तंयति ।
एतदेव च तस्य साक्षात्प्रवर्तकत्वं यत् साक्षात् प्रयत्नजननसमर्थामिच्छां प्रसूते ।
सैवाद्या प्रवृत्तिरित्युच्यते ।
उद्देश्यज्ञानं तु तद्विषयामिच्छां जनयत् तथाभूततत्साधनज्ञानजननद्वारेण इत्यर्थः ॥
न्यायपरीक्षाशब्दयोरेकार्थत्वमपश्यत आक्षेप इत्याह--न्यायेति ।
ननु परीक्षाशब्दस्य विचारणार्थत्वे प्रयोजनापेक्षित्वं कदाचिद् युज्यते, स चेत् न्यायार्थस्तस्य च व्युत्पत्तिबलेन प्रमाणमात्रमर्थः, तस्य च न प्रयोजनापक्षेति सर्वं समाकुलमित्याक्षेपावतारटीकार्थाः ।
नन्वेतावतापि चोद्यं तदवस्थमेवेत्यत समाधानं विभजते--प्रत्यक्षादीति ।
ननु अवयवैरर्थस्य परीक्षणमधिगतिर्यदि न्यायः, तर्हि किं तस्य फलमित्यत आह--अर्थस्य
लिङ्गस्येति ।
अथ यदि परीक्षापरनामा न्यायो नानुमेयविषयः, कुतस्तदधिगमो भविष्यतीत्यत आह--परीक्षितं त्विति ।
अथ यथा प्रमाणमूलैरवयवैर्लिड्गां प्रतिपाद्यते तथानुमेयमेव किं नेत्यत आह--न त्विति ।
ननु संदिग्धत्वाविशेषे ऽपि कुत एतदित्यत आह--तस्येति ।
परीक्षानास्पदत्वाल्लिङ्गप्रतिपादनमन्तरेण तदपेक्षिण प्रत्याहत्य प्रतिपादयितुमशक्यत्वादित्यर्थः ।
न तर्हि प्रमाणैरिति ।
तथा चार्थस्य लिङ्गस्य परीक्षाधिगतिर्न प्रमाण्फलं स्यात् ।
अथ प्रमाणैरेव, निष्फलास्तर्हि अवयवा इत्याशयः ।
न साक्षादित्यादिना लिङ्गाधिगताववयवानां स्वातन्त्र्यं निराकुर्वता अधिगतेरप्रमाणफलत्वमपास्तम्, अवान्तरव्यापरत्वं चावेदयता अवयवानामानर्थक्यमपास्तमिति ।
प्रमाणत्वाविशेषैऽपि तस्यैव विप्रतिपन्नपुरुषप्रतिपादकत्वं नान्यस्येत्यत्रापि हेतुं परः प्रक्ष्यतीत्यतस्तथैवाह--समस्तेति ।
तदयं वार्तिकार्थः सो ऽयमित्थंभूतसमस्तप्रमाणोपकरणात्मा यतस्तस्माद विप्रतिपन्नपुरुषप्रतिपादकः ततश्र्व परम इति
व्यवह्रियत इत्यर्थः ।
ननु नाविरुद्धत्वमेवाश्रितत्वमाश्रितस्यापि अविरुद्धत्वाद् विरुद्धस्याप्याश्रितत्वात्, अत एव नाविनाभावो ऽप्यनयोः, तत्कथमाह--आश्रितत्वमित्यविरोधीति? न चैव तत्प्रकृतमित्यत आह--पज्चावयवे इति ।
न्यायमूलफलयोरेकविषयत्वं वस्तुतः, तच्चाविरोधे सति निर्वहति नान्यथेति ।
तदेतद्भाष्यकारेणार्थतः कथिन्तं वार्त्तिककारेणाक्षरैरेव विवृतमित्यर्थः ।
यद्यपि अग्निशब्दस्तेजोविशेषवचनः सूर्यालोकादावग्निव्यवहारादर्शनात्, तथापि तेजामात्रे ऽपि क्वचित् प्रयुज्यजे ।
तदभिप्रायेण परमाणुना भागासिद्धतापि मा भूदित्याशयवानाह"--अग्निरवयवीति ॥
ननु विरुद्धार्थंपरिच्छेद एव प्रमाणविरोधः, स चात्र प्रत्यक्षेण स्फुटतर एवेति किमर्थ प्रश्नः कः पुनरित्यत आह--इदमत्रेति ।
तत एव रूपत्रयासंपत्तेरेव ।
तदनुमानमाभासमिति व्यवहर्तव्यमिति शेषः ।
न च रूपत्रयसंपन्नमेवेदम्, साध्यसिद्धिप्रसङ्गादिति ।
अत्र शङ्गते--अथेति ।
ननु यदि रूपत्रयसंपत्तिरेव अविनाभावः तदा कथं बाधया सह संभवः? इहैव संभवादित्यत आह--बाधायामिति ।
पक्षधर्मत्वं स्वीकृत्यानैकान्तिकत्वव्युपादनम् ।
अतो न च सपक्षेत्यादिशड्का न निरवकाशा भवति ।
यत्रेदं तत्रेदमित्याकारेण पक्षस्यापि साधनवतः साधर्म्यवत्ताप्रतीतिः सर्वोपसंहारः ।
अयं च यत्र नेदं साध्यमस्ति तत्राप्येतत् साधनमभिमतमस्तीत्येतावन्मात्रेणैव भज्यते ।
एष च व्यभिचारप्रकारः पक्षे ऽपि न निवारयितुं शक्य इत्यर्थः ।
न बाधस्य स्वातन्त्र्येण दूषणत्वं व्यभिचारात् पक्षधर्मताविरहिणि तदभावात् ।
यत्र च बाधसंभवस्तत्र तयोरेवान्यत्रावगतस्वातन्त्र्ययोर्विद्यमानत्वादनुमानमाभासतां गतम्, व्यभिचाराद्युत्थापनेन तु विरोघः चरितार्थ इति
पूर्वपक्षार्थंः ॥
अनुमानाविषये प्रयोग इति यथाश्रुते वार्त्तिके पराभिमतमपक्षधर्मत्वमेव स्फुटमपक्षस्यैवानुमानाविषयत्वात्, अतो ऽन्यथा व्याचिख्यासुर्भूमिमारचयति--वक्ष्यते हीति ।
अतिप्रसङ्गादतिव्याप्तेरित्यनुमानाधिकारे वक्ष्यते हीति योजना ।
किमतो यद्येवमित्यत आह--स चेति ।
आर्द्रेन्धनमेकोपाधिरेकव्यभिचारात्,
अध्ययनमुभयोपाधिरूभयव्यभिचारात् ।
सो ऽयमित्यादिना नास्तीत्यन्तेन प्रत्यक्षस्याकारो दर्शितः ।
यद्यभविष्यदिति तर्कस्य ।
नास्त्येवति फलभूतस्य निश्र्वयस्य ॥
ननु कृतकस्य तेजसो बद्धौ विपरिवर्तानत्वे यो यः कृतकः सर्वो ऽनुष्ण इति सर्वोपसंहारो न संभवत्येव ।
अपरिस्फुरति च तस्मिन् न तराम् ।
न हि यद्यत्र न स्फुरति तदपि तस्य विषय इत्यत आह--सामान्येन यो यः कृतक इति ।
अनेनाकारेण सो ऽपि बुद्धौ विपरिवर्तत एव, न तु विशेषाकारेण व्याप्तिग्रहणविषयतामग्निरगादित्यत आह--न तु निर्विमज्य विशेषतो ज्ञात्वा तेजो ऽवयविनि एव संबन्धो ऽवधारित इत्यर्थः ।
अथ सामान्याकारेणापि तेजो ऽवयविनः किमित्यवकाशो देयो यावता पृथिव्यादावेव व्याप्तिरवधार्यतामित्यत आह--न हीति ।
न हि समान्याकारेण व्याप्तौगृह्यमाणायां प्रत्यक्षबाधात् प्रागेव तेजो ऽवयविपरित्यागे काचिदुपपत्तिरस्ति, अन्यत्रादर्शनात् ।
तथा च न केवलं स एव न दृष्टः, पृथिव्यादयो ऽपि केचिन्न दृष्टा एवेति ते ऽपि परित्याज्याः ।
एवं च गृहीत्वा गृहीत्वा व्याप्तिर्ग्रहीतव्या ।
अदृष्टेषु व्यभिचाराशङ्कया न वेत्युभयथापि सर्वानुमानोच्छेदप्रसङ्ग इत्यर्थः ।
स्वयमेव परः पक्षं गृह्णात्वित्यभिसन्धिना सुकुमारप्रकारमाह--न तावदिति ।
न हि व्याप्त्यनपवादे व्यभिचारावकाशः समस्तीति हृदयम् ।
तर्हि तदपवादे सत्येव हेतोरनैकान्तिकत्वमस्त्वित्याशयवानाशङ्कते--प्रत्यक्षेणेति ।
इह व्याप्तेरपवादः पक्षतामपरिभूय, तत्परिभवे वा? तत्राद्यं तावद् दूषयति--नेति ।
प्रवृत्तानुमानाप्रतिरोधे व्याप्तेरपवाद इति कुतः? तत्प्रतिरोधं तु विपरीतप्रत्यक्षं न चेत् करोति, को ऽपरः करिष्यतीत्याशयः ।
ननु यदि पक्षे ऽपि व्यभिचारः संभवति, स नोद्भाव्य इति कस्यायं दण्ड इत्यत आह--अन्यथेति ।
न न पक्षधर्मतामपरिभूय प्रत्यक्षेण व्यभिचारः शक्यग्रहः, न ह्यस्ति संभवः संदिग्धसाध्यधर्मा धर्मो तद्विरहेण निर्णोतश्चेति शून्यहृदयं प्रति तु प्रतिबन्दिरित्यर्थः ।
प्रत्यक्षेण पक्षधर्मतापरिभवाद् व्यभिचारो भविष्यतीत्याशङ्गते--प्रत्यक्षेणेति ।
निराकरोति--तर्हीति ।
यथा हि साध्यविपरीतप्रवृत्तिरेव साध्यनिवृत्तिः, तथा विपरीतप्रमाणप्रवृत्तिरेव साधननिवृत्तिः ।
अन्यथा विपरीतप्रमाणप्रवृत्तावपि यदि साधकं न निवर्तते तदा तदायत्तं साध्यमपि न निवर्तेत, तदनिवृत्तौ तु न पक्षत्वक्षतिरिति न व्यभिचारावकाश
इत्यर्थः ॥
सिद्धमर्थं वार्त्तिके समर्पयति--तदिदमुक्तमिति ।
ननु यदि नामानुमाननिवृत्तेः पूर्वमपक्षधर्मत्वं व्यभिचारो बोद्धारयितुं न शक्यस्तथापि तदुत्तरकालं तावच्छाक्यत एव, ततस्तावेव स्ताम्, कृतमपहृतविषयत्वेनेत्यत आह--एवं चेति ।
यावद्धि प्रत्यक्षविरोधेनानुमानं न दूष्यते, तावद् व्यभिचाराद्यवकाशो नास्त्येव ।
ततः सावकाशावेतौ
प्रत्यक्षविरोधमुपजीवतः ।
तेन चेद् दूषितमनुमानम्, किमाभ्याम्? न हि मृतो ऽपि मार्यत इति सिद्धान्तसंक्षेपः ॥
नन्वश्रावणः शब्द इत्येवं ब्रुवाणः कथं शब्दासत्त्वमभिप्रेयात्, यावतेन्द्रियान्तरग्राह्यमेव किमिति नामिप्रैति?
अथ तत्र विरोधो ऽस्ति, तत् किं स्वरूपापलापे स नास्ति? तस्मादभिप्रायः परस्य नियन्तुं न शक्यत इत्यत आह--न हीति ।
इन्द्रियान्तरव्यापारव्यभिचारात् तदग्राह्यत्वविनिश्चयपक्षे स्वरूपापलाप एवाभिप्रेतः ।
तत्रैवेदमुदाहरणमित्यर्थः ।
बलितपूर्वपक्षादलनादलग्नकं वार्त्तिकं निवेशयितुं पीठमारचयति--सविशेषणे हीति ।
विशिष्टविधानपि इत्युपलक्षणं विशिष्टनिषेधो ऽपि द्रष्टवय इति ।
अगतिः प्रमाणान्तरादलाभः ।
लौहित्यविशिष्टमुष्णीषं
विधीयते ।
जीर्णतामलवत्ताविशिष्टं वासः प्रतिषिध्यते ।
न समसितश्रावणपदश्रवणं श्रुतिः ।
विशेषणाविशेष्यभावावस्थितपदसमूहो वाक्यम्, तयोः सामर्थ्यात् ।
एतदुक्तं भवति, समासे न उत्तरपदार्थनिषेधार्थः,
तत्रैवास्य सामर्थ्यं वाचकत्वं यतः ।
असमासपक्षे ऽपि समानाधिकारणयोर्विशेषणविशेष्ययोर्मध्ये विशेषणेनैव न संबध्यते, तत्रैवास्य सामर्थ्यमन्वययोग्यता यतः ।
तदिहोभयथापि सड्केतबलादन्वययोग्यताबलाद् वा न नः शब्दपदेन संबन्ध इति ॥
स्यादेतत् ।
श्रूयमाणस्य नः श्रावणपदेनैवास्तु संबन्धः, शब्दनिषेधस्त्वर्थादापद्यत इत्यत आह--नापीति ।
श्रूयमाणो ह्यर्थो येन विना नोपपद्यते स तेनाक्षिप्यमाणोर्ऽथाद् आपद्यत इत्युच्यते ।
न चोपपादको विरोधी नाम ।
स ह्यनुपपादक एवेत्यर्थः ।
विरोध मेव द्योतयति--श्रावणत्वेति ।
ननु कल्पितेनाप्यधिकरणेन निषेधनिरूपणमुपपद्यते, तस्य
तुच्छत्वात् ।
तथा च नासत्त्वाधिकरणत्वयोर्विरोध इत्यत आह--न चेति ।
एवं व्यवस्थिते वार्त्तिकार्थ
द्योतयति--न च श्रावणत्वमिति ।
शब्दश्रोत्रयोः संबन्ध शब्दग्रहणोपायभूतः ॥
ननु यदि संबन्धः, कथं वार्त्तिककारो वृत्तिरित्याहेत्यत आह--वृत्तिरिति ।
ननु न साक्षाद् वेदे नरशिरः
कपालाशौचं श्रूयते ।
प्रत्युत,
रुद्रो ह वा महाव्रतं चचार ।
स एव नरशीर्षमंपसंदधार इति विपरितैव श्रुतिः ।
अतः कथमागमविरोध इत्यत आह--मन्वादिमिरिति ।
यद्यप्यस्मिन्नर्थे न साक्षात् श्रुतिः प्रतीयते, तथापि तन्मूला स्मृतिरेव स्फुटतरा प्रमाणम् ।
रुद्रो हवेत्यादि त्वर्थवादमात्रं नरमेधादौ प्राशस्त्यप्रतिपादनार्थम्, नास्य शुचितायां प्रमाणं भवतीत्यर्थः ।
ननूपदर्शितमागमं दृष्ट्वापि कुतः पृच्छतीत्यत आह--नास्माकमिति ।
अत्र वस्तुति शब्देतरप्रमाणगोचरे आगमान्तराणामप्रमाण्यादित्यर्थः ।
कुतः पुनरस्य निर्घृणस्य कपालशौचाभिमान इत्यत आह--अविगीता हीति ।
न ह्यागमादेव धर्मादिविनिश्चयो ऽपि त्वविगीताद् व्यवहारादपि ।
स चास्माकमप्यस्ति ।
न च वाच्यं सार्वत्रिको व्यवहारः प्रमाणम् ।
यथा कन्यापरिणयनविधौ पुरन्ध्रीणामाचारः ।
प्रादेशिकस्त्वयमित्याशड्क्योदाहरणं कृतम्--दाक्षिणात्यानामिवेति ॥
उपहासे बीजमाह--श्रुतिस्मुतीति ।
आह्नेनैवुकादिक्रिया आम्नायमूला अविगीतवेदार्थानुष्ठातृव्यवहारत्वादग्निहोत्रादिवदिति प्रयोगः ।
अथ श्रेयोहेतुतैवास्याः कुतो नावसीयत इत्यत आह--न खल्विति ।
यद्यपि शक्यत एवैतदापाततः, तथापि निर्मूलत्वशड्कालकड्कितत्वेनानुष्ठानपर्यन्ततां न यायात् ।
अतो मूलानुमानमेव साधीय इत्यर्थः ।
न वेदानुमाने मूलं लिङ्गमित्यर्थः ।
किमुक्तं भवति शुचीत्यनेन पुनरुक्ततां परिहरन्नाह--अपि चेति ।
अथ त्रयीविद्वेषादिति ।
न च वाच्यम्, यावति विवादस्तावानेवार्थः पक्षः ।
गोमयादेस्तु शुचित्वमुभयवादिसिद्धमतस्तावदेव दृष्टान्तयिष्यत इति ।
तस्यापि शुचित्वं नागमप्रामाण्यमनभ्युपगम्य शक्यमभ्युपगन्तुमिति चोदयति--अथेति ।
व्युत्थिताभिसन्धेः प्रश्न इत्यर्थः ।
अभिसन्धिमाह--न खल्विति ।
नन्वेकस्मिन्ननुमानद्वयसमावेशो विरोधश्चरस्त्येव तत् कथमभावादित्यत आह--अयमभिसन्धिरिति ।
न हि पूर्वप्रवृत्तेन यदेव तदेव बाध्यते, अनियमप्रसङ्गात्, अत उक्तम्--तब्दलभावीति ।
स्वसिद्ध्यर्थं स्वाश्रयसिद्ध्यर्थं स्वस्यापकसिद्ध्यर्थं च तदपेक्षमित्यर्थः ।
स्वव्यापकसाधकेन बाधितमुदाहरति--एवमिति ।
स्वसाधकेन बाधितं तु यथैकसन्ततिपतितानि ज्ञानानि एकप्रतिपत्तृविरहे ऽपि प्रतिसन्धानयोग्यानि कार्यकारणभावादित्यपि द्रष्टव्यम् ॥
न ह्यत्र कार्यकारणभाव एकप्रतिपत्रभावे सिद्ध्यति ।
क्व तर्हि असमावेशो यदभिसन्धायाह--समावेशाभावादित्यत आह--तस्मादिति ।
समस्तरूपोपपत्तिः सामर्थ्यम् ।
समावेशपक्षे ऽवश्यमन्तत एकतरस्यान्यतररूपहान्या भवितव्यम् ।
अन्यथा तदेकं वस्तूभयात्मकमनुभयात्मकं वा स्यात् ।
तस्माद्
वस्तुतस्तुल्यबलयोर्विरुद्धयोः समावेशो नास्ति ।
समाविष्टयोश्च न वास्तवी तुल्यबलतेत्यर्थः ॥
तत् किमिदानीं सत्प्रतिपक्षता नास्त्येवेत्यत आह--न हीति ।
एवमेतद् वस्तुतः सत्प्रतिपक्षता नास्त्येव, किं त्वगृह्यमाणविशेषवस्थायां प्रमानुत्पादकत्वं परस्परप्रतिक्षेपेण ।
अतः स एव दोषत्वेनोपनिबद्धो मुनिनेत्यर्थः ।
एतदेव वार्त्तिकमुखेन दर्शयति--कस्मात् पुनरिति ।
अनुमानयोरुक्तरूपयोरन्वयव्यतिरेकसंपन्नयोरपि समावेशदर्शनात् यथाश्रुतवार्त्तिकमसंगतमित्यत आह--इहेति ।
अबाधितविषयेण सह प्रत्यक्षादीनामपि समावेशो नास्ति ।
ततस्तेभ्यो न
कश्चिदनुमानस्य विशेष उक्तः स्यात् ।
अतस्तद्रूपपरिहारेणोपलक्षणम् ॥
ननु यथा अगृह्यमाणविशेषावस्थायामनुमानयोः सत्प्रतिपक्षत्वं तथा प्रत्यक्षानुमानयोरप्यस्तु ततः क्व बाध्यबाधकभावः? अथ विशेषेण गृहीते प्रत्यक्षमनुमानस्य बाधकमिष्यते, अनुमानमप्येवमिष्यताम् ।
तथा च परस्परनिरपेक्षयोरनुमानयोरपि बाध्यबाधकभावो ऽस्त्वित्याशयवान् चोद्याभिप्रायमाह--प्रत्यक्षमपीति ।
परिहाराभिप्रयमाह--तुल्यबलौ हीति ।
प्रत्यक्षं हि नानुमानस्यान्यथासिद्ध्यनन्यथासिद्धी प्रतीक्षते ।
किं तु स्वयमनन्यथासिद्धं सदनुमानमास्कन्दत्येव, यथोष्णत्वग्राहिणानन्यथासिद्धेन प्रत्यक्षेणानुष्णत्वानुमानमनौपाधिकतया बाधकज्ञानात् पूर्वमनन्यथासिद्धमप्यास्कन्दितम् ।
तदेतदनयोर्हेनाधिकबलत्वम् ।
अनुमानं तु स्वयमनन्यथासिद्धमपि सत्प्रतिपक्षानुमानस्यान्यथासिद्धिं प्रतीक्षते ।
न ह्यनन्यथासिद्धं तत्त्वेन बाधितुं शक्यते अविशेषात् ।
तदेतदनयोस्तुल्यबलत्वम् ।
न चानन्यथासिद्धेनाप्यन्यथासिद्धं बाध्यतामिति युक्तम्, तस्यान्यथासिद्धत्वेनैव दूषितत्वात् ।
न च यत्र प्रत्यक्षमन्यथासिद्धं तत्रानुमानेनावश्यमन्यथासिद्धेन भवितव्यम्, उभयोरनन्यासिद्धौ वस्तु
दुस्तरं व्यसनमासादयेत्, ततस्तदपि तेनैव परिभूतम्, किं तत्र प्रत्यक्षबाधयेति वाच्यम् ।
तदन्यथासिद्धेः प्रत्यक्षबाधोत्थाप्यत्वादिति विशेषः ।
तस्माद् यावत् प्रत्यक्षस्यानन्यथासिद्धत्वं नावधार्यते, तावत्कालमेव तत्र
निर्णयानुदयः सत्प्रतिपक्षरूपतां प्रतिरूपयति ।
तदुत्तरकालं तु किं वराकमनुमानमित्यर्थः ।
तदिदमुक्तम्-- प्रत्यक्षमनन्यथासिद्धमिति ।
उपदर्शितप्रकारादन्येन प्रकारेण व्यवस्थापयितुमशक्यम् इत्यर्थः ।
अन्यप्रकारव्यवस्थापनं च विषयसेकोचमात्रेण न बाधकं विना भ्रान्तत्वेनापि ।
तथा सत्यतिप्रसंगादिति ॥
अथोपमानेत्यादि चोद्यं संभावयति गोसदृश इति ।
ननु नोपमानविरुद्धमिति विप्रतिपत्तिरेव संप्रतिपत्तिर्नागरिकलोकसंप्रदायेनेत्यत आह--न भवतीत्यनुषज्यते ।
योद्यवार्त्तिकस्थमिति शेषः ।
अन्यथासिद्धप्रत्यक्षागमसमुत्थापितमुपमानमनुमानेन यदि वाध्यते सत्प्रतिपक्ष्यते वा, तदा तथाभूतौ प्रत्यक्षागमावेवाबाधितौ सत्प्रतिपक्षितौ वा स्याताम् ।
तथा च सति सर्वं समाकुलमापद्येत ।
तसमाद् यथा ताभ्यामनुमानमपनुद्यते तथा तदुत्थापितफलशरीरेणोपमानेनापीति टीको पबृंहितस्य वार्त्तिकस्यार्थः ॥
प्रयोजनस्वरूपेति भ्रान्तस्याक्षेप इति विवरणफलम् प्रयोजनव्याख्यानाङ्गमिति ।
वादजल्पौ सप्रयोजनावित्यादिभाष्ये यद्यपि प्रयोजनमङ्गतया श्रूयते तथाप्यड्गि प्रत्येतव्यम् ।
तेनायमर्थो भाष्यस्य, प्रयोजनं तावद् वादजल्पौ व्याप्नोति, वितण्डां तु व्याप्नोति न वेति चिन्त्यत इति विवरणार्थः ।
ननु वादजल्पयोः प्रयोजनवत्त्वसिद्धौ वितण्डायास्तच्चिन्त्येतापि, तयोरेव तु प्रयोजनवत्त्वं केन भाष्येण प्रतिपादितमित्यत आह--तत्र शब्दार्थमिति ।
वक्ष्यति हि पृथगुपदिष्ट उपलाक्षणार्थम्, उपलक्षितेन व्यवहारस्तत्त्वज्ञानार्थं भविष्यतीति ।
स च व्यवहारो हेत्वाभासेभ्यो हेतोविवेचनलक्षणो ऽवान्तरप्रयोजनमपि असाधारणतयेह तत्रशब्देन भाष्यकारस्य विवक्षितमतस्तदेव वार्त्तिककृता व्याख्यातमित्यर्थः ।
ननु तथापि तत्र न्याये विवेचयितव्ये इति युक्तं , न हि न्यायाभास एव विवेक प्रधानमित्यत आह--न्यायामास इति तु सन्निधानादिति ॥
तदनेन विचारविषयो विविच्य दर्शितः ।
परीक्षपूर्वरूपं संशयं दर्शयितुन्तत्कारणतया व्याख्यातृविप्रतिपत्तिमाह--प्रतिपक्षेति ॥
परीक्षाया3 प्रयोजनमाह--तत्र यदीति ।
पूर्वपक्षःः---तत्र केचिदिति ।
सिद्धान्तः---परपक्षसाधनेति ।
यद्यपि परपक्षदूषणेनापि प्रयोजनेन वितण्डायाः सप्रयोजनत्व सिद्धचति,
यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ।
इति वचनात्, यदि च परपक्षदूषणमपि नाधिकुर्यात् तदा वैतण्डिक एव न स्यात् ।
तथाप्येतदेव स्वयं किञ्चिदप्यनभ्युपगच्छतो न स्यादित्यतः पारिशेष्यादपि स्वपक्षसिद्धिम् अभिसंदधानस्यैव प्रवृत्तिर्युक्तेत्याशयः ।
ननु
नास्त्येवासौ वादी यः किञ्चिदपि नाभ्युपगच्छेत्, अन्ततो नर्थस्यैवाभ्युपगमात् ।
तदनभयुपगमे तु किञ्चिदपि
नाभ्युपगच्छामीत्येतदपि न ब्रूयात् ।
तस्मात् किमनेनासदुद्भावनेनेत्यत आह--नास्तिको हीति ।
नास्तिको माध्यमिकादिः ।
अनेन हि परपक्षो नाम्युपगम्यते न पुनः परपक्षप्रतिषेधो ऽभ्युपगम्यत इत्यर्थः ।
तदिदमुक्तं परपक्षप्रतिषधमात्रप्रयुक्तः प्रवर्तत इति ।
तथा हि नेदं जगदस्ति, बाध्यमानत्वात् ।
नापि नास्ति, प्रतीयमानत्वात् ।
नापि सदसद्रूपम्, विरोधात् ।
नाप्यनुभयरूपम्, विरोधादेवाप्रतीतेश्चेति ।
ननु न हि यदेव प्रत्येति, तदेवाभ्युपगच्छति ।
तथा सति प्रतिवादिवचनार्थः प्रतीतश्चेदभ्युपगतः स्यादित मतानुज्ञा निग्रहस्थानम् ।
अप्रतीतश्चेदज्ञानं निग्रहस्थानम् इत्यायातमित्यत आह--प्रतिपत्तिरभ्युपगमः ।
इह विवक्षित इति शेषः ।
तथाप्यभ्युपगमविषयत्वादेव न पक्षस्तस्य ज्ञाप्यत्वादित्यत आह--यद्यपीति ।
तन्नान्तरीयकत्वादिति अभ्युपगमनान्तरीयकत्वात् ।
ज्ञाप्यतायाः पक्षशब्देन सिद्धान्तो ऽत्र विवक्षित इत्यर्थः ।
असिद्धविरुद्धत्वादिदोषो वाद्युक्तसाधनविषय इति शेषः ॥
अदृष्टान्तस्यापि साधनविकलादेः प्रत्यक्षविषयत्वादित्यतिव्याप्तिः ।
आगमादिविषयस्यापि व्याप्तिग्रहणगोचरस्य दृष्टान्तत्वादित्यव्याप्तिः ।
ननु तथाप्यतिव्याप्तिरेवेत्यत आह--अत्र चेति ।
संमुग्धं वार्तिकं विवेचयति--यत्तेषु तेष्विति ।
अथ लक्षणसूत्रव्याघात एव कस्मान्न भवति, यावता तदपि प्रत्यक्षाप्रत्यक्षसाधारणमित्यत
आह--न तूदाहरणेति ।
साधारणं विशेषविषयतयापि शक्यं व्याख्यातुमित्यर्थः ॥
तत् किमिदानी भाष्यमलग्नमेवेत्यत आह--तस्मादिति ।
नन्वनुमानात् को ऽपरो न्यायो येनानुमानाश्रयतामुक्त्वापि न्यायाश्रयतां दृष्टान्तस्य पृथगाह भाष्यकारः, वार्तिककारो ऽपि तथैवानुमन्यत इत्यत
आह--न्यायस्य पञ्चावयवात्मकस्येति ।
तथाप्याश्रयत्वं संयोगसमवायाभ्यां दृष्टान्तस्य न घटते,
वाक्यस्याकाशाश्रयत्वादित्यत्त उक्तं--मूलमिति ।
तथाप्यनुमानाश्रयत्वं दृष्टान्तस्यासंगतं लिङ्गस्य पक्षाश्रयत्वात्
तज्ज्ञानस्य चामाश्रयत्वात् ।
अत उक्तम्--अनुमानं निमित्तत्वमाहेति ।
पूर्वप्रत्यक्षदृष्टमिति यथाश्रुतं बह्वाकुलयतीत्यत आह--दृष्टान्तेति ।
एवं च सत्यनुमाननिमित्तत्वात् पक्षस्यापि पृथगभिधानं स्यादिति न चोद्यम् ।
सिद्धान्ताभिधानेनैव गतार्थत्वादिति ।
ननु शब्दे दृष्टान्तापेक्षा नास्त्येव,
अग्निष्टोमेन यजेत स्वर्गकामः
इत्यादौ तमन्तरेणैव वाक्यार्थप्रतीतेरित्यत आह--संबन्धग्रहणविषय इति ।
संबन्धग्रहणविषयतामात्रेण दृष्टान्तत्वं विवक्षित्वेदमुक्तम्, न पुनर्व्याप्तिलक्षणसंबन्धविशेषग्रहणविषयतयेत्यभिप्रायः ।
यत्तु तत्प्रमाण्ये तद्विषयगोचरानुमानाभिप्रायेण दृष्टान्तापेक्षा आगमस्याप्यस्तीति कैश्चिद् व्याख्यातं तत् पूर्वं ज्ञातं चार्थं परस्मा आचष्ट इति वदता वार्तिककृतैव अपास्तम् ।
अतस्तदुपेक्षितवानिति ॥
अत्रार्थाम्युपगमयोर्गुणप्रधानभावस्य विवक्षातन्त्रत्वादर्थाभ्युपगमो ऽभ्युपगम्यमानो वार्थः सिद्धान्तः ।
तेन सूत्रभाष्यवार्त्तिकटीकासु मिथो न विरोधः ।
इदमित्थंभूतशब्दयोर्विशेषणविशेष्यमावभ्रमं निवारयति--इदमितीति ।
न तु
पुरुषविशेषे व्यवस्थापयतीति ।
व्यवस्थाशब्दो न पुरुषविशेषे अभ्युपगमनियममाह--किं तर्ह्यनभ्युपगमसमुच्चयं निराकुर्वन् स्वरूपनियममित्यर्थः ।
ननु वादादिप्रवृत्त्यर्थं प्रतितन्त्रसिद्धान्त एवोपयुज्यते, तत् किमपरैरित्यत आह--तथेति ।
ननु यत एव सर्वतन्त्रसिद्धान्त न विप्रतिपत्तिविषयः, अत एव न वादादिप्रवृत्तिहेतुरित्यत आह--तथा
हीति ।
यद्यपि स्वरूपेण सर्वतन्त्रसिद्धान्तो न वादादिप्रवृत्त्यङ्गम्, तथापि प्रतितन्त्रादिसिद्धान्तोत्थापनद्वारा न्यायाश्रयतया चोपयुज्येत इत्यर्थः ।
एतेनैव प्रतितन्त्रसिद्धान्तप्रयोजनं छलतः प्रकटीकृतम् ।
किमाश्रयश्र्व न्यायः स्यात्? असति सर्वतन्त्रसिद्धान्त इति शेषः ।
अधिकरणसिद्धान्तप्रयोजनमाह--तथेति ।
साध्यसामान्यव्याप्तं साधानसामान्यमिति साधनविशेषात् साध्यविशेषः कथं गम्येतेति योजना ।
अयमर्थः ।
अधिकरणसिद्धान्तेन हि फलेन विषयेण वा पक्षधर्मता फलवती विषयवती वा स्यात् ।
तदभावे तु सा निष्फला निर्विषया वा, तथा च व्याप्तिरपि सामान्यविषया सती केवला सामान्यमात्रमुपनीय पक्षे कथं व्यवस्थापयेत्? अव्यवस्थाप्य च कथं कृतार्था स्यात्? तथा चानुमानमात्रम् उच्छिद्येत ।
एवं च क्व न्यायः? क्व वा वादायत इति? तस्मादधिकरणसिद्धान्तो ऽपि पक्षधर्मताफलविषयतया अवश्यं व्युत्पादनीयो येन व्याप्तिरपि तत्सहाया सती फलवती स्यादिति ॥
मुख्यमर्थ गृहीत्वा शङ्कते--नन्विति ।
भक्त्या च वृत्त्या परिहरति--अवयवा इवेति ।
भक्तिमाह--यथा हीति, क्रियोदाहरणं--सोमेनेति, सोमपदस्य कर्मनामधेयत्वात् ।
धात्वर्थमात्रविवक्षया च करकपदात् पृथगमिधानम्,
वस्तुतस्तु सोमस्यापि कारकत्वमेव ।
गोदोहनेनेति कारकोदाहरणम्, अपः प्रणयनस्य वाक्यान्तरप्राप्तत्वात् ।
प्रातिपदिकार्थोदाहरणम्--यस्येति व्रात्यशब्दस्यार्थवतो ऽधात्वप्रत्ययरूपत्वात् ।
तथापि न समूहो व्युत्पादित इत्यत आह--तदनेनेति ।
ननु विशेषप्रत्ययहेतवो ऽवाक्यभूता अपि सन्तीति अनेनाभिप्रायेण पृच्छति--क इति ।
प्रत्ययस्य प्राधान्यं निराकुर्वन्नेव प्रत्ययपदोपादानप्रयोजनमाह--न च तदिति ।
विशेषणासिद्धिं परिहारन्नाहप्रतीतिश्चेति ॥
अथानुभव एव कस्मान्न भवति? न ह्यन्त्यपदं नानुभूयत एव ।
तथा सति स्मर्येतापि कथमित्यत आह--न हीति ।
तथाप्येवंभूतस्यापि तदस्य स्मृतिरनुभूतिमन्तरेण न स्यादित्यत आह--संभवन्ति त्विति ।
अस्तु तर्हि तदनुभव एवार्थप्रतीत्यङ्गमित्यत आह--न चैत इति ।
तदनेनानुभव एवार्थप्रत्यायनाङ्गमिति निरस्तम् ।
अनुभवस्मृतिसमुच्चयं निराकरोति--न च पूर्वेति ।
स्मृत्युनभवयोस्तु स्यात् सहभाव इत्यनुषञ्जनीयम् ।
एतच्च उपान्त्यान्त्यवर्णानुभवान्तराले स्मृत्यभ्युपगमेन द्रष्टव्यम् ।
यदि तु वर्णानां निरन्तरोत्पादवतां निरन्तरा एवानुभवास्तदा विनश्यदविनश्यदवस्थयोः उपान्त्यान्त्यानुभवयोरेव सहभावः शङ्गनीयः, निराकरणीयश्चोक्तयुक्त्या ।
अतो न पृथगाशड्कितः टीकाकृता ।
कारणसमुच्चयवशाद् विषयासमुच्चयवतः प्रत्ययस्य स्वरूपसमुच्चयं परस्वीकृतं शङ्कते--न च पूर्वेति ।
निराकरोति--संबन्धेति ॥
यद्यपि सहकारिलाभादपरः संस्कारस्योद्बोधो नाम नास्ति, तथापि न यः कश्चित् प्रत्ययः तस्य सहकारी, सर्वदा सर्वसंस्कारोद्वोधे सर्वस्मृतिप्रसङ्गात् ।
नापि सड्केतविशेषस्मरणे पदैकदेशवर्णानुभवस्तत्संस्कारस्य सहकारी, तथा सत्यतिप्रसङ्गात् ।
तस्मात् पदत्वेन प्रतिसन्धानमेव समयस्मृतिहेतुसंस्कारस्य
सहकारीत्युपगन्तव्यम् ।
तथा चैकप्रघट्टकेनापि विचित्रज्ञानेन विषयीकृतो वर्णाः खण्डशः पदभावेन प्रतिसन्धेयाः,
अर्थसंबद्धत्वेन स्मर्तव्या इति कुतो ऽनुभवावकार्शः इत्यर्थः ।
प्रक्रिया त, अन्त्यवर्णानुभवस्योत्पादः,
तत्संस्कारपदत्वप्रतिसन्धानयोरूत्पद्यमानतेत्येकः कालः ।
अथ तयोरूत्पादः, स एव पदप्रतिसन्धानोत्पादात्मा समयसंस्कारोद्बोधः संबन्धस्मरणस्योत्पद्यमानता संस्कारोद्बोधाद् विचित्रप्रत्ययस्य विनश्यत्तेत्येकः कालः ।
अथ संबन्धस्मरणोत्पादः विचित्रप्रत्ययस्य विनाशः पदत्वानुसंधानस्य विनश्यत्तेत्येकः कालः ।
न चैतददृष्टं कल्पनमित्याह--अत एवेति ॥
नन्वेकप्रघट्टकेन विचित्रप्रत्यय एवानुसंघानात्मा भविष्यति, करिष्यति च समयस्मृतिं तथाविधाम् ।
अथापि
पूर्वस्मृतिरशेषपदावगाहिन्येकैव स्वीकर्तव्या इत्यत आह--एवं चेति ।
अनुभूतं हि प्रतिसंधीयते, न तं प्रथमत एव, तथा च पूर्ववर्णाणामुनभूतत्वेन पदत्वानुसंधानसंभवे ऽपि अन्त्यवर्णस्याननुभूततया नान्त्यपदप्रतिसंधानसंभवः ।
न चानुभवानुसंधानयोरेककालता, कार्यकारणभावात् ।
तस्मात् तदनन्तरमेव पदत्वानुसंधानमिति सुष्ठूक्तं, यदा पदार्थप्रत्यायने ऽनुभवो न कारणमिति तदौपयिकस्मृत्युत्पत्तौ तु कारणमेवेति ।
अवधारणादीत्यत्रादिशब्देन तषां स्मरणं विवक्षितम् ।
प्रकरणादयस्तु योग्यताविशेषत्वात् तत्रैवान्तर्भूता इति तत एव वाक्यार्थप्रतीतेरूपपत्तेः, अनुपपत्तौ त्वसिद्धिर्लक्षणस्य दोष इत्याशयः ॥
ननु क्रमानुभूतानामप्येकस्मृतिसमारोहः संभवत्येव, किं तु पदानि क्रमेणापि नानुभूतानीत्यत उक्तम्--निरन्तरेति, निरन्तरस्मृतिभिर्विषयीकृतानि तत एकस्मृतिसङ्कलितानित्यर्थः ।
नैरन्तर्यं च स्मृतीनां सन्निकर्षाद् बोद्धव्यम् ।
नन्वेतावतापि असिद्धमेव लक्षणम् ।
न ह्येवंभूतमप्यन्त्यपदं विशेषप्रतिपत्तिहेतुरित्याशयवानाह--स्यादेतदिति ।
ननु प्रत्येकं व्यभिचारे हि परस्परानुग्रहः स्यात् ।
न च पदकदम्बकप्रतिसंधानवत् तदर्थस्मृतिरपि तथाविधां वाक्यार्थप्रत्ययोत्पत्ति प्रति व्यभिचरतीत्यत आह--एतदुक्तं भवतीति ।
अयमाशयः, न तावत् तदार्था एव वाक्यार्थे प्रमाणम्, सर्वदातत्प्रतीतिप्रसङ्गात् ।
नापि त एव स्मृताः, प्रकारान्तरेणापि स्मृतानां तथाभावप्रसङ्गात् ।
नापि त एव पदैः स्मारिताः, पदानां पदार्थस्मरणमात्रोपयोगे पूर्ववत् प्रतीतिप्रसङ्गात् ।
वाक्यार्थप्रतीत्युपयोगे तु तेषां कथं न तद्धेतुत्वम् ।
तथापि गुणप्रधानभावविनगिमनायां को हेतुरिति
चेत्? असाधारणकारणत्वं पदानाम् ।
तदर्थानां तु अतीतानागतादिरूपतया कारणत्वमेव नास्ति, कुतो ऽसाधारणत्म्? अत एव न स्मृतिस्तेषां व्यापारः, किं तु कारणीभूतानां पदानामेव ।
तथा च व्यापाराव्यभिचारमादाय निर्व्यापारावस्थाया व्यभिचारवतामकारणत्वाभ्युपगमो बहुव्याकुलयतीति ॥
प्रतिसन्धीयमान इति वार्त्तिकनिराकरणीयमतिव्यापकत्वं दर्शयति--यदीति ।
निष्पत्तेर्भेदं दर्शयितुं पुनः
सिद्धिर्व्याख्यानमनुवदति--वास्तव इति ।
न हि प्रतिज्ञावचनं निश्वायकं विशिष्टस्येति शेषः ।
हेतुवचनादिवैयर्थ्यात्
वैयर्थ्यप्रसङ्गात् ।
साधनस्य न्यायः प्रवृत्तिप्रकारः ।
स च नानुपलब्ध इत्यादिभाष्ये दर्शितः ।
तस्यातिपातो ऽभाव एव ।
तमेव व्युत्पादयेत् प्रधानतयेति शेषः ।
तस्य च न्यायविषेषस्य आत्मादिविषयस्येत्यर्थः ।
अलौकिकोपचारत्वात् प्रयोजनमाह--आगमोपचारस्येति ।
अर्थसंवादेनेति करणे तृतीया ।
आगमविरोधशङ्गानिवृत्तिरनुग्रहः ।
दृढभूमिश्च संस्कार आगमैकविषयत्वात् ।
सप्रयोजनश्च भवति निःश्रेयसेन प्रयोजनेन प्रयोजनवांश्च ज्ञातो भवतीत्यर्थः ।
कुतः?
आगमार्थज्ञानस्येति ।
निरूढत्वात् प्रसिद्धत्वादित्यर्थः ।
तत् खलु हेतुवचनमनुमानप्रतिपादकं परामृश्यमानलिङ्गप्रतिपादकं यदि स्यात्, तदा विषयतयानुमानेन परामृश्यमानेन लिड्गेनानुग्रहीतव्यम् ।
न च तस्य परामृश्यमानं लिङ्ग विषय इति भावः ॥
ननु यदेव दृश्यमानं लिड्गं हेतुवचनस्य विषयः, तदेवानुमितिभावकमित्यत आह--न च लिङ्गदर्शनमात्रमिति ।
दृश्यमानलिङ्गमात्रमिति ।
अपि तु संबन्धस्मृतिसहकारीति परामृश्यमानं लिङ्गमित्यर्थः ।
तदिदमुक्तम्--तस्मान्न लिङ्गवचनमनुमानप्रतिपादकमिति ।
द्वितीयदशनविषयलिड्गं प्रतिपादकं न परामृश्यमानं लिड्गं प्रतिपादकमित्यर्थः ।
व्याख्यानं ग्रन्थानुरोधादस्फुटमित्याशयवानाह--एतदुक्तं भवतीति ।
एवं च तत्प्रतिपादकस्य तद्विषयप्रतिपादकस्येत्यर्थः ।
लिङ्गपरामर्शस्तावदनुमानम् ।
तस्य च
व्याप्तिस्मृतिसहकारितानुमितौ, द्वितीयालिङ्गदर्शनस्यापि व्याप्तिस्मृतिसहकारिता परामर्शज्ञानजनन एवेत्युभयोरपि संबन्धस्मृतिसहकारितासाम्यादनुमानत्वम् ।
ततस्तद्विषयलिङ्गस्यापि, ततस्तदनुगृहीतस्य तद्वचनस्यापीत्यर्थः ।
किमस्योपचारस्य फलमित्यत आह--एवं चेति ॥
ननु प्रत्यक्षविषयस्य स्मृतितः पुनरूपदर्शनादिति वक्तव्ये कुतो विपरीतमभिहितमित्यत आह--यत्रेति ।
यद्यपि पूर्वप्रत्यक्षविषयो दृष्टान्तः, तथाप्युदाहरणकाले तयास्मृत्यारूढ एव व्याप्रियत इत्येतावता तथैवोक्तमित्यर्थः ।
न केवलं प्रत्यक्षेण सहैकविषयत्वमुपचारे बीजम्, अपि तु समानव्यापारत्वमपीत्याह--पुनरूपदर्शनात् पनुः स्मरणात् ।
प्रत्यक्षमपि हि विप्रतिपत्ति परिभूय व्याप्तिविषयतया दृष्टान्तं स्मारयति--तद्वचनमपीति ।
अपरमपि बीजमाह--मूलभूतेति ॥
ननु यथा शब्दतदर्थयोरूपनये वार्तापि नास्ति, तत् कथमाह---यथा तथेति? अत आह---उपनयो हीति ।
यद्यपि निगमने ऽपि प्रमाणविशेषसमावेशो ऽस्त्येव, तथापि जात्यभिप्रायेणायं विवक्षितः, न च तत्र चतुष्टविजातीयं प्रमाणमस्तीत्यतस्तद्व्याख्यानात् पूर्वमेव परमत्वोपपादनाय समस्तप्रमाणविनिवेशनमाह---सो ऽयमिति ॥
मूलसमवायाभावादौपचारिकः समवायो भविष्यतीत्यत उक्तम्--प्रमाणानां वेति ।
अध्यारोपो विनिवेशनं वा भ्रान्तिर्वा न संभवतीत्यत आह--अध्यारोप इति ।
समार्थ्य हीति ।
धर्मः कारणत्वलक्षणः ।
तदनेन किं पुनः समर्थ्यमिति पृच्छतो ऽभिसन्धिः दर्शितः ।
उत्तराभिसन्धिमाह--इह त्विति ।
सामर्थ्याकाङ्क्षयोः परस्परव्याप्तेराकाङ्क्षैव सामर्थ्यशब्देनेह विवक्षितेत्यर्थः ।
तदेवरूपयोः समवायसामर्थ्ययोः प्रदर्शनेन फलं दर्शयति--तदत्रेति ।
प्रयोजनाभेदे ऽप्याकाङ्क्षाविरहितत्वात् वाक्यैकवाक्यत्वं न भवति ।
यथा---
भगो वां विभजतु, पूषा वां विभजत, अर्यमा वां विभजतु इत्यादि ।
अत उक्तं विभज्यमानेति ।
आकाड्क्षायामपि प्रयोजनानकत्वे वाक्यैकवाक्यत्वं न भवति ॥
यथा---
स्योनं ते सदनं कृणोमि घुतस्य धारया सुशेवं कल्पयामि इत्यादि ।
अत उक्तमेकं प्रयोजनमिति ।
तदेनेन,
अर्थैकत्वादेकं वाक्यं साकाड्क्षं चेद्विभागे स्यात्
इति जैमिनीय वाक्यैकवाक्यतालक्षणमभिमतम् ।
ननु यदि विप्रतिपन्नः वाक्येनैव परः प्रतिबोधयितुं शक्यते, अथ वाक्ये तदर्थे वा विप्रतिपद्यमानः केनोपायेन बोधनीयः? वाक्यान्तरेण चेदनवस्थेत्यत आह--यद्यपीति ।
अनन्यथासिद्धप्रत्यक्षागमागोचराभिप्रायमेतदित्यर्थः ।
विकल्पः अनुवादविशेषः ।
तस्य प्रयोजनं विधिः प्रतिषेधो वा? अत्र चाक्षेपावसरे प्रतिषध एव, विशेषप्रतिपादकत्वमिति वदता तत्त्वव्यवस्थाश्रयत्वं विवृतम्, तत्र तत्त्वं विशेषः ।
तस्य प्रतिपत्तिर्व्यवस्था ।
तद्धेतुत्वम् आश्रयत्वम् ।
तत्र विशेषः क इत्यत उक्तम--धर्मविशिष्टो धर्मोति ।
वाक्याद्धि साधनधर्मविशिष्टो धर्मो साक्षात् प्रतीयते साध्यरूपधर्मविशिष्टस्तु तद्द्वारेत्युभयमपि विवक्षित्वा संमुग्धमुक्तमिति ॥
ननु प्रमाणान्तरत्वे ऽपि तर्कस्य प्रमाणपदेन संग्रह एव सामान्येन विशेषस्य संकलनात्, तत् किमित्याह--न
प्रमाणान्तरमिति? अत आह--प्रमाणपदेन हीति दृष्टो हि सामान्यशब्देनापि कस्यचिदसंग्रहः कुतश्चित् कारणादित्यभिसन्धिः ।
अत एव प्रमाणान्तरत्वशड्कायां संगृहीतेभ्यो विशेषेभ्यो ऽन्यत्वमुक्त्वा प्रमेयं दृष्टान्तत्वेनोपात्तम् ।
अनिश्र्वायकत्वात् ।
स्वातन्त्र्येणेति शेषः ।
किं तु प्रमाणविषयविभागहेतुतयेति ।
यस्य
प्रमाणस्येयमितिकर्तव्यता तदीयविषये तदपेक्षत्वादित्यर्थः ।
एतदुक्तं भवति, तर्को हि प्रमारूपं वा प्रमाणं स्यात् लिङ्गदर्शनवत्, अप्रमारूपं वा इन्द्रियादिवत् ।
न तावदाद्यः, तस्याहार्यारोपरूपत्वात् ।
अत एव न तत्करणस्यापि प्रामाण्यमप्रमाफलत्वात् ।
नापि द्वितीयः, स्वविषयव्याप्यविषर्यये ह्यस्य प्रामाण्यमाशाड्रिकतम् ।
तेन च नास्य नियामकः संबन्धः ।
असंबद्धस्य गमकत्वे ऽतिप्रसङ्गः ।
तद्विपर्ययस्य तु तेन सह स्वाभाविकः संबन्धो ऽस्ति ।
तेन तत्संवलितस्य प्रवृत्तेस्तदितिकर्तव्यतात्वमेव ।
न हि विपर्ययापर्यवसितं क्वचिदपि कृतार्थं प्रसङ्गमीक्षामहे ॥
नन्वेवं तर्हि प्रमाणस्यापि केवलस्य न क्वचिदपि कृतार्थत्वम् ।
तथा च सति प्रसङ्गतद्विपर्ययपिण्ड एव प्रमाण्यं पर्यवस्येत् ।
एवमेतत्, सेतिकर्तव्यताकस्यैव सर्वत्र करणत्वात् ।
इतिकर्तव्यतातद्वद्भावकल्पनायां त्वयं विभागः ।
तदिदं वक्ष्यति--तस्य प्रसङ्गरूपतया पारतन्त्र्येण स्वयमसाधाकत्वादिति ।
प्रसंजनीयस्य प्रमाणविरुद्धत्वेनानिष्टत्वमयुक्तत्वम् ।
साधनीयस्य प्रमाणाविरुद्धत्वेनेष्टत्वं युक्तत्वम्, तेनायमर्थो वार्त्तिकस्य, यद्येवं नाभविष्यत् तदैवं युक्तत्वमहास्यत्, इदं चायुक्तत्वमुपादास्यतेत्यत आह--इतिकारेणेति ।
ततः
प्रसङ्गारूपव्युत्पादनसय वार्त्तिकेन अविरोधः ।
भाष्यं तु प्रसंगे स्फुटमेव ।
ननु भवतीति प्रमाणव्यापारात् प्रागेव यदि निश्चितम्, तदा तर्कः प्रमाणमेव स्यादित्यत आह-- संभवतीति ।
संभावना चेहाविरोधमात्रम्, न तु संशयः,
अयुक्तांशस्यापि संशयास्पदत्वात् ।
अनुज्ञा चेयमेव यत् प्रवर्तमानप्रमाणानुकूलत्वेनावस्थानम् ।
तदाह--एतदुक्तं भवतीति ।
अनुजानन् तद्विरुद्धधर्मव्युदासरूपेणाविरोधयन्नित्यर्थः ।
अनुगृह्णाति सव्यापारीकरोतीत्यर्थः ।
तद्विषयप्रमाणानुकूल्येन तर्कस्यापि तद्विषयत्वमिति भ्रान्तिमाशड्क्य निराकरोति--न चेति ।
पारतन्त्र्येण विपर्ययपरतन्त्रतयेत्यर्थः ।
आरोपरूपतामुपदर्शमन्नेव स्वविषयद्वाराप्यस्य प्रामाण्यं निराचष्टे--अस्ति हीति ।
न प्रसड्गो हेतुर्न प्रसज्यमानो
हेतुर्लिङ्गमसिद्धत्वादित्यर्थः ।
ननु न हि यदेव विद्यते तदेव दृश्यत इत्यस्ति नियम इत्यत आह--तेन सहेति ।
तस्मात् नास्तीति फलद्वारेण तर्कस्यानुग्राह्यं प्रमाणं दर्शितम् ।
तेनानुज्ञायमानं प्रमाणं प्रवर्तते फलं साधयति ।
फलमाह-केवलमेवेदमिति ।
कैवल्यस्वरूपविप्रतिपत्तेस्तद् विवृणोति--नेहेति ॥
तदेवमभावविषये प्रत्यक्षे ऽपि तर्कं दर्शयता अनुपलब्धिलिङ्गकानुमानस्य साध्यो ऽभाव इति सौगतमतमपास्तम् ।
अनुपलब्धेरपि निषेधरूपतया अनुमानान्तरसाध्यतायाम् अनवस्थानात्, असिद्धायाश्चागमकत्वात्, प्रत्यक्षतस्तत्सिद्धौ त्वनुमानानवकाशात्, व्यवहारस्यापि विकल्पानुगतव्यापारात् प्रत्यक्षत एव सद्धित्वात् ।
अन्यथा विधिव्यवहारार्थमप्युपलब्धिलिङ्गकमनुमानमास्थेयम् ।
एवं च पुनरप्यनवस्थैव ।
न हि लिङ्गमप्यव्यवह्नियमाणमेवानुमितिं भावयेत् ।
तस्माद् विधिव्यवहारवन्निषेधव्यवहारो ऽपि प्रत्यक्षसिद्ध एव ।
विप्रतिपन्नं प्रति तु परीक्षकैस्तर्कः सहायत्वेनोपनेय इति रमणीयम् ।
आगमसहायं तर्कमाह--एवं स्वर्गेति ।
यजेतेत्यत्र समानपदोपात्तत्वाद् भाव्यत्वाच्च धात्वर्थः साध्यो भवतु, भवतु, वा पुरुषार्थत्वात् स्वर्ग इति संशये तर्कस्यावतारः ।
यदि साध्यो धात्वर्थः स्यात्, तदोपदेष्टुराप्तत्वं विधेश्चेष्टोपायत्वं वाक्यस्य तदभिधायकत्वं प्रेक्षावता च प्रवृत्तिर्न स्यात् ।
अस्ति चैतत् सर्वं प्रमाणतः सिद्धमित्यर्थः ।
अनुज्ञायमानं प्रमाणमाह--समानपदेति ।
न हि यागभावनायाः स्वर्गफलत्वे धात्वर्थस्यातत्फलत्वे समानपदोपात्तत्त्वभाव्यत्वयोः कश्चिद् विदोधः ।
तस्मात् तदविरोधेन स्वर्गफलत्वं युक्तम् ।
धात्वर्थस्य च साध्यत्वं विरुद्धतया अयुक्तमित्यर्थः ॥
ननु प्रमाणानुग्रहाय युक्तत्वायुक्तत्वे विवेचयति तर्को न तु निश्चिनोति इति कुतो विशेषादित्यत आह--न चेति ।
क्रियातिपत्तिरिति, क्रियातिपत्तिः प्रत्ययोपस्थापिते घटसत्त्वधात्वर्थसाध्यत्वे एव क्रियातिपत्तिशब्देन विवक्षिते, न ह्येवंभूतप्रत्ययाविषयो घटो वा साध्यतया धात्वर्थो वास्तीत्यर्थः ।
किमतो यद्येवमित्यत आह--यदाश्रयेति ।
यस्मिन्नाश्रये तुल्योपलम्भयोग्यत्वेन दुःखत्वेन वा अनिष्टप्रसंजकेन हेतुना उपपन्नस्तर्को युक्तायुक्तविषयविश्चयसाधनं
भविष्यति स एव नास्तीत्यर्थः ।
तदनेन प्रसज्यमानस्याश्रयासिद्धिसाधनासिद्धी दिर्शिते, पूर्वं तु स्वरूपासिद्धिर्दर्शिता ।
तस्मादारोपत्वान्न स्वविषये प्रमाणं स्वविषयव्याप्यविपर्यये नियामकाभावाच्च ।
नियतसंबद्धस्वविषये विपर्ययापेक्षित्वे तु पारतन्त्र्यात् न प्रमाणमित्यर्थः ।
तर्हि क्वास्योपयोग इत्यत आह--निश्रयाय त्विति ॥
ननु तर्कप्रमाणयोरभिमतं भेदं मीमांसाया वेदादभेदवादो विरूणद्धीत्यत आह--प्रमाणेति ।
अथ यथाश्रुत एव
वार्त्तिकार्थः कास्मान्न भवतीत्यत आह--इतिकर्त्तव्यतात्वं चेत्यादिना ।
निकायविशिष्टाभिः रित्यस्य व्याख्यानस्य
शरीरेन्द्रियाणां शुक्रशोणितादेराहारादिभूतकार्यत्वात्, तत्कार्यत्वाच्च बुद्धिवेदनयोर्निमित्तान्तरे प्रमाणं नास्तीति तात्पर्यम् ।
विचित्रनिमित्तत्वे साध्ये भेदवत्वादिति हेतुः स्वरूपाभिप्रायेणानैकान्तिकः स्यात् स्वरूपभेदवतामपि घटादीनामविचित्रनिमित्तत्वादतः प्रकारभिप्रायेण व्याचष्टे---विचित्रत्वादित्यर्थ इति ।
वैचित्र्येणोत्पादादित्यर्थः ॥
ननु निमित्तवैचित्र्यमात्रप्रसाधने सिद्धसाधनम्, न हि निमित्तं किश्चिद् विचित्रम् अस्तीत्येतावतैव धर्माधर्मसिद्धिः, धर्माधर्मलक्षणविचित्रनिमित्तसाधनेन तु नान्वयो न व्यतिरेक इत्यत आह--प्रमाणमुक्त्वेति ।
निमित्तस्य वैचित्र्ये जन्मनो वैवित्र्यग्रसङ्गः निमित्तस्यावैचित्र्ये जन्मनो ऽवैचित्र्यप्रसङ्गः ।
यागादीनामेव निमित्तत्वे निरन्वयप्रध्वस्तात् कार्योत्पत्तिप्रसंगः ।
निमित्तस्य नित्यत्वे कार्यस्य सदातनत्वप्रसंगः ।
अनेकद्रव्यत्वे ऽभ्युदयसाधारणत्वप्रसंगः ।
साधारणैकद्रव्यत्वे ऽपि एव दोषः ।
एमिस्तर्कैः पक्षधर्मतामुपजीव्य प्रवृत्तैरनुगृह्यमाणं सामान्यव्याप्तिबलप्रवृत्तं वैचित्र्यानुमानं विशेषविरोधं परिभूयाभिमतं विशेषं साधयतीत्यर्थः ॥
ननु जात्या किं फलनिर्णयो नास्त्येव, येन कालविशेषं पृच्छति कदा पुनरित्यतो ऽभिप्रायमाह--स्यादेतदिति ।
ननु निर्णयोपादानप्रयोजने वक्तव्ये निर्णीतप्रयोजनस्य तर्कस्य पुनरावृत्तौ किं तात्पर्यमित्यत आह--संकलय्येति ।
संकलनया उभयोरविनाभावो विवक्षित इत्यर्थः ॥
स्वसिद्धान्तानुरूपं साधनं दूपणं चाहतुरिति स्वाध्यपरसाध्ययोर्यथासंख्यम् ।
ननु यद्यपि सर्वत्र जल्पे निर्णयावसानत्वमेव नास्ति क्वचिदनिर्णये ऽपि पुरुषापराधतः कथाविच्छेदात्, तथापि यत्र निर्णयावसानत्वमस्ति, न ततो जल्पादन्यतराधिकरणनिर्णयावसानत्वेन वादो व्यवच्छेतुं शक्यते ।
न च सर्ववादव्याप्तिः, निर्णयस्य वादफलत्वात् ।
फलस्य चोपायाव्यापकत्वादित्यत आह--वादे हीति ।
निर्णया वसानता हि तद्योग्यता अभिप्रेता ।
सा च विवदमानयोः तत्त्वबुभुत्सुतया तमुद्धिश्य प्रवृत्तिः ।
तदिदमुक्तम्, तत्वबुभुत्सोर्वादिनोर्वादे ऽधिकारादिति ।
तदयमर्थः, तत्त्वनिर्णयमुद्धिश्य तयोः साधनदूषणवचनसंदर्भो वाद इति ।
एवं च नाव्याप्तिर्न वा अतिप्रसङ्गः ॥
जल्पः पुनः कीदृश इत्यत आह--जल्पे त्विति ।
पुरुषशक्तीत्युद्देश्यमाह ।
तदयमर्थः, भवतु नाम क्वचित जल्पतो ऽपि तत्त्वनिर्णयः ।
तथापि नासावद्देश्यो न च श्रद्धेयः ।
स्वशक्तिपराशक्तिख्यापनमात्रमुद्देश्यमिति ।
तस्मादन्यतरनिर्णयावसानत्वेनेति ।
निर्णयावसानाभिप्रायेणेत्यर्थः ॥
ननु जल्पवितण्डयोर्वादविशेषत्वे कथं सामान्यविशेषयोः परिसंख्यासमभिव्याहारः, कथं च परस्परविरुद्धयोः सामान्यविशेषभावो ऽपीत्यत आह--विशिष्येते इति ।
अपरमपि भेदहेतुमाह--वादात् जल्पवितण्डयोरिति शेषः ।
पूर्वं वादव्याख्यानावसरे भेदे हेतुरुद्देश्यविशेषाभिसन्धिरुक्तः तदपेक्षया अपरमपीति ।
यौ तौ वादजल्पयोः प्रयोक्तातौ तावेकत्राविजिगीषया अन्यत्र विजिगीषया विशेषितौ वादजल्पौ परस्परतो व्यवच्छिन्दाते इत्यर्थः ॥
दूषयितुम् एकदेशिव्याख्यानं तन्मतेन व्याचष्टे इति योज्यम् ।
उभयथाप्यनैकान्तिकत्वादिति ।
यद्यपि व्यभिचारादर्शने ऽपि अविनाभावो न सिध्यति पृथगभिधानस्य पुरुषेच्छाधीनत्वात्, वादे चोदनीयत्वस्य चानुद्भावने तत्त्वप्रतिपत्तिव्याघातहेतुत्वप्रयुक्तत्वात्, तथापि व्यभिचारस्य स्फुटत्वात् स एव दर्शितः ।
तस्माद् वादे चोदनीया भविष्यन्तीत्यनेन पृथगभिधानप्रयोजनमात्रं प्रतिपादितम् ।
हेतुत्वं पुनरविवर्क्षितमेव तार्किकंमन्येनैकदेशिना आरोपितामित्यर्थः ।
नन्वेवंरूपप्रयोजनलाभो ऽपि कथम्? न हि पृथगभिधानमात्रमत्रप्रमाणयितुं शक्यमित्यत आह---सामान्येनेति ।
सामान्यो ऽभिहितं विशेषतो ऽभिदधता सूत्रकृता प्रयोजनविशेषः सूचितः ।
स एव भाष्यकृता दर्शित इत्यर्थः ।
अथ यद्येतदेव विवक्षितमस्य सूत्रकृतः, तदा किमिति न क्वचित् शास्त्रप्रदेशे स्वयमेव दर्शितवानित्यत आह--एतावानेवेति ।
अथ भाष्यकारेण कथमिदमुन्नीतमित्यत आह--तत्रेति ।
किमेवमपीति ।
किमनेन प्रतिपादितेन फलमित्यर्थः ।
नन्वग्रेवादे चोदनीयत्वमेव प्रतिपादयति, इह तु विद्याप्रस्थानभेदज्ञापनार्थत्वं वर्णयति ।
तत् कुतो न विरोध इत्यत आह--वादजल्पवितण्डा इत्यादि ।
अत्रैवार्थे सूचकं वार्त्तिकमाह--अत एवेति ।
अयमर्थः ।
यदि विद्याशब्देनास्य वादादयो न विवक्षिताः कथमग्रे वादव्यापारं दर्शयित्वा जल्पवितण्डयोः सर्वाण्येव निग्रहस्थानानि व्यापारत्वेनाह? तद् यदयमेव ब्रूते नूनमयमस्यार्थो विवक्षित इति ।
तदयं तात्पर्यसंक्षपंः, न तावदज्ञातस्वरूप वदज्ञातव्यापारफलभेदा वादादयश्चेतनेनाधिष्टातुं शक्यन्ते ।
न चानधिष्ठिभ्यः फलसिद्धिः ।
तस्मात् स्वरूपवद् व्यापारफलभेद अप्यमीषां प्रतिपादनीया भवन्ति ।
अत एव चतुर्थे फलमपि दर्शयिष्यति
सूत्रकारः ॥
प्रयुज्येरन् संभाव्येरन्निति ।
न तु तेषामस्ति संभवति प्रयोग इति ।
ननु लक्षणेन पदार्थस्वरूपं न व्यवस्थाप्यते, अपि तु व्यवस्थितं ज्ञाप्यते, तत् कुतो लक्षणतन्त्र्त्वमित्यत आह--लक्ष्यत इति लक्षणमिति ।
ननु यदि पृथगभिधानेनैव वादे चोदनीयत्वं प्रतिपाद्यते, कथं न्यूनाधिकापसिद्धान्तानां पृथगनभिधाने तत्र चोदनीयत्वप्रतिपत्तिः? अथान्यथापि तेषां तद् गम्यत एव तदा हेत्वाभासेष्वपि स एव प्रकारो ऽस्त, कृतं पृथगभिधानेनेत्यत आह--हेत्वाभासानां चेति ।
अयमाशयः ।
न हि हेत्वाभासाः पृथगभिहिता इत्येव वादे चोदनीयत्वं तेषां गम्यते ।
अपि तु वादस्य तत्त्वप्रतिपित्सुकथात्वात्, हेत्वाभासानां चानुद्भावने तत्त्वप्रतिपत्तिव्याघातात् तत्त्वबुभुत्सुना अवश्यमुद्भावनीयास्ते ।
अन्यथा वादो वादत्वं जह्यात् ।
हेत्वाभासानां चानुद्भावनं तत्त्वप्रतिपत्तिव्याघातकमिति ।
अयमेव च न्यायो विशेषतः पृथगभिधानेन सूचितः सूत्रकारेण ।
स च न्यूनादिषु
समान इति ।
एवं च व्यवस्थिते वार्तिककृतो ऽपि प्रश्नो नाप्रास्ताविक इत्याह--तत्र पृच्छतीति ।
ननु यदि जल्पवितण्डयोस्तत्त्वप्रतिपादनार्थमवतारः किम् अप्रतिभाद्युद्भावनेन? अथ न तदर्थत्वं तयोः, किं तदवतारेण? न चान्यार्थत्वे तयोरेतच्छास्त्रव्युत्पाद्यत्वमित्यत आह--साहङ्कारो हीति ।
अहङ्कृतस्य तस्य
तत्त्वप्रतिपत्तेरयोगादहङ्कारशातनमेवानयोस्तत्त्वप्रतिपादनार्थत्वम्, तच्चाप्रतिभाद्युद्भावनं विना न स्यादिति तत्त्वं प्रतिपिपादयिषता कर्तव्यमेवेदमित्यर्थः ॥
ननुच् छलादीनां परिज्ञानं न साक्षान्निःश्रेयस उपयुज्यते आत्मादिवत् ।
नापि तद्व्यवस्थानद्वारा प्रमाणवत् ।
नापि न्यायाङ्गतया संशयादिवत् ।
न च परिज्ञानमेव फलम्, अपुरुषार्थत्वादित्यत आह--परिज्ञानस्य च फलमुक्तमिति ।
तत्त्वप्रतिपत्युपायभूतकथात्रयपरिकरशुद्धिद्वारा तत्परिज्ञानं निःश्रेयसोपयोगीत्यर्थः ।
स्वयं च सुकरः प्रयोग इति ग्रन्थस्य प्रत्यक्षसिद्धत्वात् किमुक्तं भवतीति तत्स्वरूपप्रश्नो ऽसंगत इत्यतः पूरयति--अनेन भाष्येणेति ॥
भाष्ये प्रयोजनान्तराभिधानं न सूत्रकृदभिहितप्रयोजनविरोधि, किं तु तदनुगुणम् एवेत्याशयवान् सौत्रं प्रयोजनमनुवदति--सूत्रकारेणेति ।
अनुगुणत्वं तु व्याप्तिप्रदर्शनेन ।
न ह्यस्ति संभवः, पुरुषार्थश्चाप्रमाणहेतुकश्चेति ।
तेनायमर्थो भाष्यस्य, यतः सर्वं प्रेक्षावत्प्रयोजनमान्वीक्षिकीव्युत्पाद्यप्रमाणमूलम्, अतो निःश्रेयसस्य परमपुरुषार्थस्य तन्मूलतायां विपर्ययशड्कैव नास्ति, अतन्मूलत्वे पुरुषार्थत्वहानिप्रसंगादिति ।
तदिदमुक्तं नास्त्येव तदिति ।
ननु न
तावदितरासु प्रमाणव्यवहारो नास्त्येव, तदितरव्यवहारस्याप्युच्छेदप्रसंगात्, प्रमाणव्यवहार सद्भावे तु किमान्वीक्षिक्या तत्र प्रकाशयितव्यम्? तत्प्रमाणैरेव प्रकाशितत्त्वादित्यत आह--यद्यपीति ।
व्युत्पादितेन प्रमाणादीना तत्र व्यवहारस्तद्व्युत्पत्तिस्त्वित एव, न तु तत इत्यर्थः ॥
ननु प्रणेतृश्रोत्रप्रमाणोपजीवनमान्वीक्षिक्यामपि समानमतो न विद्यान्तराद् विशेष इत्यत आह--न तु प्रमाणादीति ।
प्रमाणोपजीवने समाने ऽपि यथैतद्व्युत्पाद्यमुपजीवन्ति ताः, नैवं तद्व्युत्पाद्यमियमपीत्यर्थः ।
ननु उपजीवकतासाम्ये ऽपि परस्परोपजीव्योपजीवकभावः क्व नाम दृष्ट इत्यत आह--यथेति ।
प्रत्यक्षाद्यपि हि स्वप्रामाण्यव्यवस्थितये प्रमाणान्तरमपेक्षते ।
अनुमानमपि स्वोत्पत्तये ।
तथापि प्रत्यक्षाद्येवापेक्ष्यानुमानं स्वविषयु प्रवर्तते ।
न तूपजीवकानुमानमपेक्ष्य प्रत्यक्षादि, अनुमानान्तरं तु स्वप्रामाण्यव्युत्पादकमपेक्षते ।
तदपि न तदैव, किं तु प्रागेव इत्यभिप्रायेण व्युत्पाद्यसजातीयापेक्षानिराकरणायोक्तम्--न प्रत्यक्षादिविषयमपि तदानीमेवेति ।
प्रत्यक्षादिरूपो विषयः प्रत्यक्षादिविषय इति ।
विद्योपकरणं प्रमाणादि ।
तस्य ग्रहणं प्रमाणादिग्रकाशितमर्थमितरा विद्याः प्रतिपाद्यन्ते इति वार्त्तिकेन ।
एतदुक्तं भवति, वार्त्तिके प्रमाणादिग्रहणं भाष्योक्तविद्याप्रकाशकत्वनिर्वाहाय ।
न तु स्वातन्त्र्येण ।
अतो न विरोधः ।
तदेवं स्वरूपेणापेक्षां दर्शयित्वा विषयगता अपेक्षा भाष्यकृता दर्शिता--उपाय इति ।
तद्वार्त्तिकं योजयितुं व्याचष्ट--संप्रतीति ।
ननु विद्यान्तराणां शब्दात्मकतया प्रमाणत्वात् तस्य च स्वप्रतिपाद्ये ऽनपेक्षत्वात्, किं तत्रान्वीक्षिकी करिष्यतीत्यत आह--न हीति ।
प्रमाणस्य सतः स्वप्रतिपाद्ये प्रमाणान्तरापेक्षा नास्ति, न तु स्वेतिकर्तव्यताभूततर्कापेक्षापि ।
स चान्वीक्षिकीलभ्य इत्यर्थः ॥
अथ तर्कमनपेक्षमाणस्य किं स्यादित्यत आह--मा भूदिति ।
आदिग्रहणेन
यजमानः प्रस्तरः
इत्यादि ग्राह्यम् ।
तर्कश्च संशयमन्तरेण नावतरतीत्युपसंहारे सो ऽपि दर्शितः ।
यद्यपि सतर्कप्रमाणप्रवृत्तिरेव परीक्षा, तथापीह गोबलीवर्दन्यायेन प्रमाणस्य स्वपदोपात्तत्वात् प्रयोजनजिज्ञासातर्का एव विवक्षिताः ।
प्रमाणस्य निवशः प्रवत्तिः ।
तस्य द्वारमविरोधः ।
अर्थतत्त्वं पदार्थतत्त्वं वाक्यार्थतत्त्वं वा, अवधार्य प्रमाणान्तरादर्थवादादेव वा ।
तत्र त्रयी विधिनिषेधरूपा निवेशनीयेत्यर्थः ।
एवं च दण्डनीत्यां यथा यमो राजा कुबेरो वा राजत्यादि, वार्त्तायां माघे परिकर्षिता भूमिः सुवर्णमयं फलमाधत्त इत्यादि तर्कानपेक्षया विफलायते ।
तस्मात् तत्रापि तदपेक्षा अस्तीत्यतिदिशति--एवमिति ।
विषयमिति शेष इत्यत्रापि विधेयतया निषेध्यतयेति शेषः ॥
इदानीं व्यापारगतामपेक्षामाह भाष्यमतेन--अपि चेति ।
द्रव्यस्य यथा
दध्ना जुहोति
इत्यादि ।
गुणस्य यथा
अरूणया सोमं क्रीणाति
इत्यादि ।
कर्मणो यथा
व्रीहीनवहन्ति
इत्यादि ।
दण्डनीत्यामपि यथा द्रव्यस्य
स्वाम्यमात्य-
इत्यादि ।
गुणस्य यथा
सामभेद-
इत्यादि ।
कर्मणो यथा
शस्त्रशिक्षा गजवाजिवाहनम्
इत्यादि ।
वार्त्तायामपि द्रव्यस्य यथा
यथर्तु बीजं संगृह्णीयात् ।
इत्यादि ।
गुणस्य यथा
भूमिं प्लावयेच्छोषयेत् ।
इत्यादि ।
कर्मणो यथा
स्यानान्तरं निनीषन्ननोकहमभिमन्त्रयेत् ।
इत्यादि ।
विषयं दर्शयित्वा संशयमाह--तत्र किमिति ।
संशयकारणं च विधिपदसमभिव्याहारस्तत्पदस्य ।
विधिपदसमभिव्याहृतस्वपदो ह्यधिकारी न विधिविषयः ।
तथाभूतमेव चाग्निहोत्रं तद्विषयः ।
अतः साध्ये संशयः किं विधिपदसमभिव्याहृतपदत्वादग्निहोत्रादिवद्विधिविषयो भवतु स्वर्गो ऽधिकारिवद् वा नेति पूर्वपक्षमादर्शयन्नेव तत्रानिष्टप्रसंगमाह--तत्र यदीति ।
न च श्येनादिसाध्याया हिंसाया विहितत्वेनार्थत्वमेव भवतु का क्षतिरिति वाच्यम् ।
विधिर्हि प्रवर्तकः स्वज्ञानेन इच्छामन्तरा कृत्वा प्रयत्यनोत्पादकं इति यावत् ।
स च प्रयत्नो न साध्यविषयः कर्तुं शक्यते ।
उपयो हि प्रयत्नविषयो न तु फलम् ।
तस्मात् प्रयत्नविषयत्वात् साधनेतिकर्तव्यते एव विधीयेते न तु साध्यम्, तदविषयत्वात् ।
न हि ज्ञापकत्वमात्रं विधित्वम्, अपि त्विच्छाप्रयत्नविषयज्ञापकत्वमिति ।
तस्मात् श्येनादिसाध्या हिंसा अनर्थभूतैवार्थः स्याद् यदि विधिविषयः स्यादिति साधूक्तम् ।
सिद्धान्ते प्रमाणमादर्शयन्नेव साध्यपदसमभिव्याहारस्तर्हि क्वोपयुज्यते इत्याशड्कामपनयति--अथ साध्यांशमिति ।
इष्टाभ्युपायता हि नेष्टमप्रतीत्य प्रत्येतुं शक्या ।
न चाप्रवृत्तैव सा प्रवर्तयति ।
अतस्तां विशेष्टुमिष्टस्यानुवादो ऽयमित्यर्थः ॥
तत् किमिदानीमविहितमित्येतावतैवानर्थः? नेत्याह--न हिंस्यादिति ।
ननु भवत्वेवं तावत् तथाप्यान्वीक्षिक्या किमायातमित्यत आह--तदिहेति ।
विषयान्तरमाह--एवमिति ।
यथा आभिख्यायाः प्रयोजकत्वं क्षीरहोमस्थाने तद्विनिवेशनाद् रसादिसाम्यात्, वाजिनस्याप्रयोजकत्वमवर्जनीयोत्पत्तिकत्वात् ।
आदिग्रहणेन शेषभागहोमविलोपादयो गृह्यन्ते ।
सर्वा विद्या इति विद्यशब्देन तद्धर्मान् लक्षयतीति न भाष्यव्याख्याविरोधः ।
वार्त्तिककारस्तु धर्माणां विद्यापारतन्त्र्यं विवक्षन्निति शेषः ।
सङ्करप्रसङ्ग इति फलस्य ।
तथा च विद्यान्तरुलेनैवास्य फलवत्त्वं न
पुनरसाधारणं फलमस्या अस्तीत्यर्थः ।
असाङ्कर्यं दर्शयितुं तासामेव तावदसाधारणं फलमाह--विद्यान्तराणीति ।
एतस्या असाधारणं फलमाह--इह त्विति ।
अन्यत्रास्याः प्रतिपादितोपयोगविरोधो मा भूदिताशयवतोक्तम्--प्रमाणादि
यद्यपि साधारणमिति ।
एतेनैतदुक्तं भवति, विद्यान्तरुलान्यपि यदान्वीक्षिक्यामायतन्ते सेयमूष्मसिद्धिरस्याः ।
यत्तु प्रधानमस्याः फलं तदसंकीर्णमेव विद्यान्तरेष्वसंभवादिति ॥
वादादीनामिति अतद्गुणसंविज्ञानो बहुव्रीहिः, वादस्य पराभिभवार्थमप्रवृत्तेः ।
जल्पादयो हि मदादिहेतवः पराभिभवोपायत्वात् द्रव्यशरीरसंपत्तिवदिति प्रयोगः ।
तत्रास्य विरुद्धत्वं तावदाह--तत्र जल्पादीनामिति ।
अयमाशयः ।
न तावत् प्रतिपाद्यस्य जल्पवितण्डयोरधिकारः ।
किं तु प्रतिपन्नस्य तत्त्वप्रतिपत्तिपालनार्थं दुरवलिप्तप्रतिपादनार्थं च तयोरधिकारः ।
पराहङ्गारशातनं च मदमानादिविरुद्धमेव, तेषां दोषविशेषत्वात् ।
अहड्कारशातनस्य च तन्निरोधरूपत्वात् ।
न च पराभिभावोपायभूतशब्दवाच्यतामात्रेणानुमानम्, वागादीनामपि विषाणित्वप्रसंगादिति ॥
स्यादेतत् ।
पराभिभवोपायत्वेन हेतुना मदमानादिहेतुत्वं मा सैत्सीत्, अन्वयव्यतिरेकाभ्यामेव तु सिद्धचत्वित्यत आह--मदमानादिहेतुत्वं च हेतुरसिद्ध इति ।
सति च तत्त्वविदां न संभवन्तीति वदता यथाश्रुतस्य
पराभिभवोपायत्वस्यानैकान्तिकत्वमपि सूचितम् ।
अतो जल्पादितत्त्वज्ञानवतामपि यदि मानादयो दृश्यन्ते, न ते तद्धेतुकाः, किं तु बलवन्मिथ्याज्ञानहेतुका एवेति सनकाद्युदाहरणफलमिति ।
एतच्च स्फुटमित्यभिप्रायेणाह--उपसंहरतीति ॥1 ॥
॥ परिशुद्धिः ॥
अप्रतीतस्वरूपस्य प्रयोजनामिसंबन्धस्य परीक्षा न युज्यते, रिराश्रयत्वात् ।
प्रथमसूत्रं तूद्देशपरमेवेत्यत आह--तदेवमिति ।
अभिधेयसंबन्धप्रयोजनपरादेव तस्मादुद्देशो ऽप्यवगतः ।
स चापेक्षितत्वाद् गृहीत इत्यर्थः ।
एतेन परीक्षाविषयो दर्शितः ।
उचितं दर्शयन्नेव तदतिक्रमे हेतुमाह--तेषामिति ।
ऐतेन छलतः संबन्धपरीक्षायाः प्रयोजनमपि
दर्शितम् ।
अभिधानस्य द्वैविध्यम्-उभयकोटिसंस्पर्शः ।
समीचीनमित्याद्यनुरोधेन यथा वार्त्तिकादित्यादावार्थः क्रमो ग्राह्यः ।
तस्मादमिधानसामान्यात् अभिधानसाधर्ग्यमात्रात् निर्णायकरहितात् दृश्यमानादिति यावत् ।
उभयथा दर्शनाच्चेति ।
तत्सहचरितोभयकोटिदर्शनजसंस्कारभुवः स्मरणादिति यावत् ।
एतच्च सूत्रकारस्याप्तत्वावधारणात् प्रागिति मन्तव्यम् ।
यद्यपि
चात्र वचन एव साक्षात् संशयं दर्शयति, तथापि तद्द्वारा अर्थ एव द्रष्टव्य इति ।
संबन्धिनि च प्रयोजने तत्त्वज्ञानकार्यतया परीक्ष्यमाणे संबन्ध एव कार्यकारणभावलक्षणः परोक्षितो भवतीति तदेव परीक्ष्यतया निर्दिश्यते--तत् खलु वै निःश्रेयसमिति ।
वस्तुतस्तु संबन्धपरीक्षैवेयमित्यतो न प्रतिज्ञासंशयपरीक्षाणां वैयधिकरण्यमिति ।
तत्रेति ।
सूत्रे व्याख्यातव्ये ।
उत्सूत्रेणेति ।
पूर्वपक्षं विना सिद्धान्तसूत्रस्यावताराभावात् इत्याशयः ॥
ननु जीवन्मुक्तिपक्षे तद्वतामवस्थानं न स्यादिति चोद्यमानमनवकाशमित्यत आह--तदत्यन्तेति ।
ननु मा भूत्
तत्त्वज्ञानानन्तरमेव निःश्रेयसम्, का नो हानिः ।
न ह्येवं प्रतिज्ञातमस्माभिरित्यत आह--तथा सतीति ।
यद्यपि साक्षादेवं न प्रतिज्ञातम्, तथापि तत्त्वज्ञाननिश्रेयसयोः कार्यकारणभावः सूत्रकृता दर्शितः, स चाननन्तर्यनियम एव स्यात्, नातो ऽन्यथेति पूर्वपक्षी मन्यत इत्यर्थः ।
तदिदमुक्तम्--मिथ्येति ॥
ननु तथापि, तदत्यन्तविमोक्षो ऽपवर्गः ।
[1.1.22] इत्यतावदेव निःश्रेयसमिति केन प्रतिज्ञानं यावता जीवन्मुक्तिरपि रिःश्रेयसं भवत्येवेत्यत आह--न चान्यदिति ।
अभिसन्धौ बीजं तत्त्वज्ञानस्योत्पन्नस्यापवर्गे
कर्तव्ये ऽपेक्षणीयाभावः ।
भावे वा तदेवापवर्गसाधनम्, न तत्त्वज्ञानमिति ।
तदिदकुक्त वार्त्तिककृता--सत्यपि तत्त्वज्ञाने
यस्याभावान्नापवृज्यते सो ऽन्योर्ऽथः इति स्फुटं वार्त्तिकमिति टीकार्थः ।
सूत्रसमुत्थतां सिद्धान्तवार्त्तिकस्य दर्शयितुं सूत्रमवतारयति--अत्रेदमिति ।
यथाश्रुतं वार्त्तिकं न पूर्वापक्षाच्छादकं न ह्यपरमपि निःश्रेयसं शास्त्रीयात् तत्त्वज्ञानात् साक्षाद्भवतीति, यस्माच्च साक्षाद्भवति न तच्छास्त्रीयमित्यतो भूमिमरचयति--चतस्रो हीति ।
सा चान्वीक्षिक्यामायतते आयत्ता भवति ।
तत्परिकरोपयोगमाह--आन्वीक्षिकी चेति ॥
ननु श्रवणस्य तावदाकाङ्क्षोत्थापनेनोपयोगो, मननस्याप्येवमेवेत्यवधारणेन, तत् किमपरमवशिष्यते यदर्थं प्रतिपत्त्यन्तरोपासनम्? न हि निश्चयातिरिक्तं कस्यचित् प्रमाणस्य फलमित्यत आह--न चायमिति ।
आयमाशयः ।
न हि निश्चयो मोहः औपदेशिकेनानुमानिकेन वा तत्त्वनिश्चयेन निराकर्तुं पार्यते, तदुपायानुष्ठानेन तु तयोरूप्योगः ।
तस्माद् ये वेदान्तिनो वाक्यार्थज्ञानादेव मुक्तिमिच्छन्ति, ते प्रष्टव्याः, किं भवतां वस्तुसन्तमुपायोपेयभावसंबन्धमभ्युपगम्य प्रवृत्तिः, सवृतिसन्तं वा? आद्ये ऽद्वैतसिद्धान्तक्षतिः, कार्यकारणभावस्य भेदाधिष्ठानतया तयोः परमार्थिकत्वे भेदस्यापि पारमार्थिकत्वप्रसंगात्, द्वितीये तु किमविशेषेण प्रवृत्तिः, यथासंवृतिव्यवस्थं वा? आद्ये भोगिनो ऽप्यपवृज्येरन् ।
द्वितीये तु न शाब्दादानुमानिकाद् वा तत्त्वज्ञानादैन्द्रियकव्यामोहविगमः ।
किं तर्हि, साक्षात्कारादेव दृष्ट इति तथैव तदर्थिनः प्रवृत्तिर्युक्ता ।
न च वाच्यं वाक्यादेवात्मसाक्षात्कारोदय इति, तस्य केवलस्य सामर्थ्यानुपलम्भात् ।
यदि तु स्वसंविदितस्वरूपतया किं तत्र ध्यानादिकमपूर्वमाधास्रूतीत्युच्यते, तदा श्रुतेरपि वैफल्यमनेनैव न्यायेन ।
यदपि भौतदशकनदीसंतरणमुदाहृतं, तत्रापि न केवलेनैव वाक्येन साक्षात्कारः किं तु चक्षुरादिनैव ।
इहापि मनसा सहकृतेन भविष्यतीति चेत्--न, अनेकधा श्रुतश्रुतेरपि सत्यपि च पटीयसि मनसि ब्रह्मसाक्षात्काराभावात् ।
तत् कस्य होतोः? भौतानामिव स्वशरीरे चाक्षुषस्य दृढतराभ्यासस्य मुमुक्षोर्मानसस्यात्मन्यभावात् ।
तस्मात् तदर्थमभ्यास एव शरणम् ।
तदिदमुक्तं लोकसिद्धमिति ।
लोकसिद्धः कार्यकारणभावस्तात्त्विको भवतु मा वा भवतु सर्वस्य पुरुषार्थप्रवृत्तस्य तावत् स एव शरणम् ।
तदनादरे तु पुरुषार्थो ऽपि नादरणीयस्तुल्ययोगक्षेमत्वादिति ॥
यदि नाम चतस्रः प्रतिपत्तय आत्मादौ प्रमेये, प्रकृते तु किमायातमित्यत आह--अथेति ।
एतदुक्तं भवति--यदि श्रौतमानुमानिकं वा तत्त्वज्ञानमादाय पूर्वपक्षः, तदा अनभ्युपगम एवोत्तरम् ।
न हि तस्य साक्षान्निःश्रेयसहेतुत्वमाचक्ष्महे ।
किं तर्हि? परम्परया सैव चतस्रो हीत्यादिना दर्शिता ।
तस्मात् साक्षात्कारमादाय पूर्वपक्षः ।
मूल पाठ: Nyāyavārttikatātparyapariśuddhi 1 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0