भाषा

ENहिગુ
ग्रंथ पाठ

न्यायवार्त्तिकतात्पर्यपरिशुद्धि · भाग 2140

तदेतदनुपपन्नम् ।
फलज्ञानं हि फलस्य सिद्धावस्थस्य साधनानर्हतया निष्प्रयोजनीभूतत्वाद् वा न परीक्ष्येत् तत्तज्जातीयज्ञानस्य सर्वास्ववस्थासु अर्थाव्यभिचारितया निःशङ्कत्वाद् वेति? न तावदाद्यः, फलस्य सिद्धावस्थत्वे तद्वत् तत्साधनीभूतस्यापि निष्प्रयोजनीभूतत्वादपरीक्ष्यत्वप्रसङ्गात् ।
उत्तरोत्तरुलाभिसंधानेन तत्साधनं परीक्ष्यत इति चेत?
फले ऽप्येवमस्तु ।
सिद्ध एव हि फले परीक्षिते तत्साधनस्य तथात्वसिद्धावुत्तरोत्तरुलाभिसन्धिः स्यात् ।
नापि द्वितीयः, फलज्ञानस्यापि भूयो भूयः स्पप्नाद्यवस्थासु व्यभिचार दर्शनात् ।
स्वस्थावस्थस्य फलज्ञानं न व्यभिचरतीति चेत्--एवं तर्हि पिरीक्षितमेव फलज्ञानं स्यात् ।
तथा हि यत् स्वस्थावस्थस्य फलज्ञानं तदव्यभिचारीति व्याप्तिसिद्धौ यत्रैव तथाभूतज्ञानत्वं पश्यति, तत्रैवाव्यभिचारमवधारयतीत्यनेनाभिप्रायेणाह--वयं त्विति ।
अस्याप्यभ्यासदशापन्नत्वं प्रामाण्याविनामूतलिड्गोपलम्भस्तथा तज्जातीयत्वं पुनः स्वस्थावस्थस्य फलज्ञानत्वमेव ।
एतेनेच्छाद्वेषप्रयत्नज्ञानं व्याख्यातम् ॥
ननु यद्विज्ञान दृष्टान्तयितव्यं तस्यापि प्रामाण्यं कथं साधनीयम्? एवं तत्तत्साधनस्यापि दृष्टान्तपरम्परायाः कथमित्यत आह--न चेति ।
फलज्ञानस्येत्युपलक्षणम् ।
तज्जातीयत्वेन लिड्गेन प्रामाण्ये साधियितव्ये यद्यद् दृष्टान्तीक्रियते तस्य तस्येति मन्तव्यम् ॥
यद्यवम्, प्रवृत्तिसामर्थ्यमनवकाशमेव, न ह्यस्ति तद्विज्ञानं यत् सर्वथैवापूर्वविषयम् ।
तथा च प्रमाणतोर्ऽथप्रतिपत्तिप्रवृत्तिसामर्थ्ययोः कथमनादित्वमाह--वार्त्तिककार इत्यत आह--एतेषु च मध्य इति ।
शड्कितव्यभिचारं तज्जातीयत्वापरामर्शादिति शेषः ।
यद्यपि फलं न प्रवृत्तिविषयस्तथापि तत्साधनगोचरायाः तत्संतानगोचराया एव वा प्रवृत्तेः तज्जातीयफलान्तरसंबन्धस्तन्नान्तरीयकविजातीयफलसंबन्धो वा स्वस्य नरान्तरस्य वा प्रवृत्तिसामर्थ्यं फलज्ञानस्य द्रष्टाव्यम् ॥
तदेवं समानन्यायतया रूपादिबाह्यर्थप्रत्यक्षप्रामाण्यसमर्थनानन्तरं शब्द्रप्रामाण्यं समर्थ्य तदुभयोपपत्तये समानन्यायतयैव आन्तरप्रत्यक्षज्ञानेषु मध्ये फलज्ञानप्रामाण्यं समर्थितम् ।
समानन्यायतयैवेच्छाद्वेषप्रयत्नगोचरस्यापि
ज्ञानस्य प्रामाण्यसमर्थनं सूचितमित्यनंव्यवसायो ऽवशिष्यते ।
तस्य चानुमानसमानन्यायतया अनुमानप्रामाण्यसमर्थनानन्तरमेव समर्थनं करिष्यत इत्यभिप्रायवानाह--अनुमानस्येति ।
द्विधा हि व्यभिचारशड्का कारणतः स्वरूपतश्च ।
सा च व्याप्तिपक्षधर्मताग्राहकैरेव प्रमाणैरपनीयत इति भवति निरस्तसमस्तव्यभिचारशङ्कमनुमितिज्ञानम् ।
तस्यैवंभूतस्य स्वत एव प्रामाण्यं निश्चीयत इति शेषः ॥
ननु प्रमाणत्वाविशेषे ऽपि कथमनुमितेरेव स्वतः, न प्रत्यक्षादेरित्यत आह--अनुमेयेति ।
अनुमितिज्ञानं ह्यर्थस्य तथात्वं व्यवच्छिन्ददेवोत्पद्यते वह्निमानेवायमिति ।
तथा चानुव्यवसानेनानुव्यवसीयमानमिदं स्वस्वार्थावधारणात्मकमेवावसीयते ।
न चाविपरीतार्थकत्वमनुभवस्यानध्यवस्यता अवधारणात्मकत्वमस्यावसितं भवति ।
तथा च तद् अवश्यमवसेयम् ।
तदेव च प्रामाण्यम् ।
कदाचिदेवंभूतानुव्यवसाये ऽपि विपर्ययत्वशड्का तदवस्कन्दतीत्यवशिष्यते ।
सा च लिङ्गसमुत्थत्वादेव नास्ति ।
न हि विशेषदर्शनग्रस्तोत्पत्तौ शड्कावकाशः ।
तदेतदाह--न हीति ।
लिङ्गाकारं विज्ञानं निश्चिताव्यभिचारमिति शेषः ।
प्रत्यक्षशाब्दज्ञाने तु नायोगव्यवच्छेदात्मके, अपि त्वारोपानारापसाधारणविषयमात्रावभासिनी ।
तथा चानुव्यवसायेनापि तथैवानुभूयेते ।
न त्ववधारणात्मकतयेति न तयोः स्वतः प्रामाण्यग्रहः ।
अथ दैवादयोगव्यवच्छेदात्मके एवोत्पद्येते अनुव्यवसीयेते च, तदा च नियामकमन्तर्भाव्यैव ।
तदभावे त्वविशेषादवधारणात्मकत्वं परिभूय तदतद्रूपसाधारणमेवावतिष्ठेत इत्याशयवान् नियामकाभावमेवाह--प्रत्यक्षज्ञानं त्विति ॥

धूमादियुक्तधूमध्वजादिज्ञाने हि यद्यप्यर्थस्याप्यर्थेनाव्यभिचारो ऽस्ति, यद्यपि चार्थादपि तथाभूतादेव तज्ज्ञानं जायते, तथाप्यव्यभिचारो वा, तद्ग्रहो वा? प्राक्तनः तत्राकिश्चित्कर एव, इन्द्रियापातमात्रादेव युगपदुभयोरप्येकज्ञानावभासितया परामर्शकालानपेक्षणात् ।
अपरामृष्टस्य चानियामकत्वात् ।
तदिदमुक्तम्--अपि तु सत्तामात्रेणावस्थितादिति ।
अव्यभिचारिणो ऽपीति शेषः ।
एतेन शड्कामात्रमपनीयते ज्ञानान्तरैरिति यदुक्तं कैश्चित् तन्निरस्तम् ।
शड्का हि संशय एवाभिधीयते ।
स च तत्त्वनिर्णयव्यतिरेकेणापनेतुमशक्य एवेति तत्त्वनिर्णयोपायो ऽनुसर्तव्यः ।
तथा च ज्ञानस्वरूपग्राहिणः कौण्ठ्ये प्रत्यक्षाद्यन्तराभावे चानुमानमेवोपाय इति तदाह--प्रवृत्तिसामर्थ्यमिति ॥
स्यादेतत्, यदि प्रत्यक्षशाब्दज्ञानयोः परतः प्रामाण्यम्, तत् किमिदानीमनुव्यवसायस्यापि परत एव? तथा च लिड्गं निश्चितमेव निश्चायकमित्यनेन न्यायेन लिङ्गान्तरपरम्पराज्ञानमनवस्थामवतारयतीत्यत आह--ज्ञानगतेति ।
अत्रापि सैव युक्तिः ।
अतद्रूपव्युदासेनैव स्वविषयमालम्ब्यैवोत्पत्तेस्तथैवानुभवः ।
उत्पत्तेरेवारभ्य विषयविशेषग्रहणग्रस्तत्वाच्च न शड्कावकाशः ।
विशेषश्चानुव्यवसायत्वमेव ।
न ह्यजानन्नापि कश्चित् जानामीत्यनुव्यवस्यति ।
न च शुक्तिकाकारे ज्ञाने रजतं जानामीति स्यादिति तदिदमुक्तम्--तादृशस्येति ।
उपलक्षणं चैतत् ।
सबाह्यभ्यन्तरं धर्मि मात्रगोचरमपि प्रत्यक्षं स्वत एव प्रमाणम्, विभ्रमस्यापि निरालम्बनस्ये क्वचिदनुपपत्तेरिति ।
उक्तुयुक्तिं हृदि निधायातिदिशति--एतेनेति ।
उपमानमुपमितिरित्यर्थः ।
व्याख्यातम् ।
स्वतो ऽवधार्य प्रामाण्यतयेति शेषः ।
न ह्यतिदेशवाक्यार्थज्ञानसादृश्यज्ञानयोः प्रामाण्ये निश्विते उपमितिराभासीभवति ।
यद्यपि चानुमानोपमानानुव्यवसायधर्मिज्ञानानामपि प्रामाण्यं परतो ऽपि शक्यग्रहमेव, सन्ति हि तत्रापि यथायोगं लिङ्गसादृश्यज्ञानसमुत्थत्वादीनि तज्जातीयत्वलिङ्गानि तथापि कोष्ठगत्या स्वत एव प्रामाण्यग्रहो ऽत्र न स्वयमिति स एव दर्शितः ।
विप्रतिपन्नं प्रति तु परत एव साधनीयं तदिति परमार्थः ।
अतः स्वत एवेत्यवधारणं नायोगव्यवच्छेदे नाप्यन्ययोगव्यवच्छेदे ।
किं तर्हि? अत्यन्तायोगव्यवच्छेद इति ॥
नन्वेतावतापि विज्ञानकरणानमिन्द्रियादीनां प्रामाण्यस्य कुतः सिद्धिः? न हि फलयथार्थत्वमेवामीषां प्रामाण्यमित्यत आह--सेवदनस्य चेति ।
नन्विन्द्रियादयो यद्यर्थव्यामिचारिणः कथमर्थधियमव्यभिचारिणी जनयेयुः, तथात्वे वा रासभो ऽपि वह्नधियमव्यभिचारिणी जनचेत्, अविशेषादित्यत आह--न चेति ।
यथार्द्रेन्धनं दहनव्यमिचार्यपि दहनसंबन्धात्
दहनाव्यभिचारिणं धूमं जनयन्न नियोगपर्यनुयोगावर्हति कारणस्वाभाव्यात्, तथेन्द्रियाद्यप्यर्थव्यभिचारिणं तथाविधसहकार्युपबृंहितं तेनार्थेन संबन्धात् तदर्थाव्यभिचारि ज्ञानं जनयेदित्यर्थः ।
तदेतत्प्रामाण्यं नावश्यं सर्वत्रावधार्यते, तदा श्रयस्यैव संवेदनस्य सर्वत्रानवधारणात् ।
तथा सति चानवस्थाया विषयसंचारो न स्यात् ।
तस्मात् तीव्रसंवेगितया यत्तु संवेदनमवश्यं संवेदनीयम्, यत्र यत्र चापरो विशषतः
सामान्यतो वा विप्रतिपद्यते जिज्ञासते वा तत्र तत्र प्रामाण्यमुक्तेनापायेनावधारणीयमित्यतो नानवस्थेत्याशयवानुपसंहारव्याजेनोक्तमर्थं संकलय्य आह--तस्मादथसंदेहादिति ॥
नन्वर्थानिश्वयेनापि प्रवर्तमानो न हि तत्साधनतामनुमाय प्रवर्तितुमर्हति अर्थित्वाभावात्, न हि तत्साधनत्वानुमानं व्याप्तिग्रहणं विना ।
न च सो ऽपि प्रवृत्ति विनेति तदवस्थमेवेतरेतराश्रयत्वमित्यत आह--अर्थस्येति ।
यद्यपि प्रामाण्यानिश्चयवदपेक्षितोपायत्वानिश्चयेनापि तत्र तत्र प्रवर्तते तथाप्यपेक्षितोपायतां पाक्षिकीमप्युररीकृत्य प्रवृत्तिः ।
न च तत्संशयस्तस्यामप्यनुपलब्धायामन्यत्रापि स्यात् ।
अतः पुनरप्युपलब्धिरायातेति ।
अतो ऽनादितामादायैव परिहृतम् ।

अर्थप्रतिपत्तिरिति वार्त्तिके यद्यप्यर्थशब्दो ऽपेक्षितोपायमेवाह तस्यैव प्रवृत्तिविषयत्वात्,
अर्यमानत्वाच्च, तथापि धर्मिमात्रप्रतिपत्त्यनुमेयप्रतिपत्त्योर्भिन्नकालत्वादपेक्षितत्वाच्च तथैव व्याचष्टे--अर्थप्रतिपत्तिरिति ॥
ननु प्रमाणस्य प्रयोजनवत्त्वमाक्षिप्तं वा समाधीयेत जिज्ञासितं वा ज्ञाप्येत? न तावदाद्यः ।
न ह्यस्ति पुरुषो यः प्रमाणं निष्प्रयोजनमिति ब्रूयात्, तन्मूलत्वात् सर्वपुरुषार्थसिद्धेः ।
यस्य तु पुरुषार्थो नास्ति स निरूच्छ्वास एव शीर्येत ।
नापि द्वितीयः, तस्य संशयादिवत् सूत्रपाठानन्तरमेव ज्ञापयितुमुचितत्वादित्यत आह--तत्रेदमिति ।
नेयं प्रमाणप्रयोजनजिज्ञासा ।
किं नाम? शास्त्रार्थौभूतस्य परमन्यायस्य निःश्रेयसं प्रति गुरुपायत्वे मन्यमानेन लघीयति प्रवृत्त्युपायं विद्यमाने शास्त्रारम्भ एवाक्षिप्यते ।
स च समाधातुमारब्ध इत्यर्थः ।
दशानां दुःखसंज्ञाभावनं मुमुक्षुतादाढ्रयार्थम् ।
आत्मनो याथात्म्यं सकलोपाधिविनिर्मुक्तत्वम् ।
तस्य भावनं ध्यानम् ।
आदिग्रहणेन तु तदुपायभूताः प्रवृत्तयो यमनियमासनप्राणायामधारणालक्षण गृह्यन्ते ।
आत्मतत्त्वसाक्षात्कार इति समाधिः ।
वैराग्यं
परमा वशीकारः ।
परिपाकः सवासनक्लेशनिर्मोक्षः ।
एतेन साड्गोपाड्गो योगो दर्शितः ।
शड्कामुक्वा भाष्यमुत्तरयति--तत्रेदमुपनिष्ठत इति तथापि न्यायस्य गुरुपायत्वे न परिहृतम्, न्यायनिर्णोतार्थस्यापि प्रवृत्त्यपेक्षाणात् ।
प्रवृत्तस्य न्यायानपेक्षणादित्यत आह--एतदुक्तं भवतीति ।
ननु उभयोरपि तुल्यत्वे कुतो विशेषात् प्रमाणमेव व्युत्पाद्यते न प्रवृत्तिपरीत्यत आह--तथापीति ।
श्रवणमनननिदिध्यासनसाक्षात्कारलक्षणाया प्रवृत्तेः स्वरूपतः फलतश्च प्रमाणान्तर्भूतत्वात् तद्व्युत्पादनमेव प्रवृत्तिव्युत्पादनम् ।
न च प्रवृत्तिव्युत्पादनेन प्रमाणं व्युत्पादितं भवति ।
न हि प्रवृत्तेः फलं प्रमाणं तत्स्वरूपं वेत्यर्थः ।
ननु शास्त्रार्थस्य प्रयोजनव्युत्पादनावसरे प्रमाणमर्थवदिति कुतः? न हि प्रमाणं शास्त्रर्थः, अपि तु न्याय इत्यत आह--सामान्याभिधानं चेति ॥
तदनेन प्रबन्धेन निष्प्रयोजनत्वाशक्यप्रयोजनत्वानभिमतप्रयोजनत्वोपायगौरवशड्काः परिहृताः ।
तत् किमपरमवशिष्यते यदर्थं लोकवृत्तमनूद्यत इत्यतः प्रथम तात्पर्यमनुस्मारयन्नेव वार्त्तिकमवतारयति--प्रामाण्येति ।
अप्रमाणेनेत्यत्रापि यद्यपि वाञ्मनसविसंवादः निषेधविध्युपाय एव हि प्रमाणम् ।
तस्मान्निषेधोपायतां जानतो ऽप्यप्रमाणेन निषेधामीति वचनं मनोविसंवाद्यव ।
तथापि व्यामोहादप्युपपत्तेरेवंभूताभिप्रायस्थैर्ये ऽपि नास्माकं काचित् क्षतिरित्येतावता अनुज्ञैवात्तरं दत्तम्--वाड्मनसयोर्विसंवाद इति ।
प्रामाण्याग्रहे प्रमाणेनेत्येवं वक्तुं न शक्यते ।
ततः प्रमाणेनेत्येवं वदतो ऽवश्यं प्रामाण्यं मनसि विपरिवर्तते ।
तथा चागृहीतप्रामाण्येनेति वचनं मनोविसंवादीत्यर्थः ।
लोकवृत्तमबाधितो व्यवहार इत्यर्थः ॥
ननु प्रमाणेन खल्वयं ज्ञातेत्यादि, भाष्यं लोकवृत्तानुवादो ऽस्तु ।
प्रमाणत इत्यादि पुनः कथमित्यत आह--कारणप्रदर्शनद्वारेणेति ।
न हि लोकवृत्तं स्वरूपेणोपयुज्यते ।
किं तर्हि? तस्यावश्याभ्युपेयतया तदुपायो ऽप्यवश्याभ्युपेय इत्यनेनाभिसन्धिना सोपायमेव तदनूद्यत इत्यर्थः ॥
आगामिभाष्ये हेयादीनां स्फुटत्वात् तस्येदानीमक्षरार्थो व्याक्रियत इति मा शड्किष्ठा इत्याह--अस्यैवेति ।
वार्त्तिकसंबद्धो ग्रन्थोर्ऽथपदानीत्याकारो वार्त्तिकग्रन्थस्तस्य ।

तादृश एव भाष्यगतो भाष्यसंबद्धो ग्रन्थस्तस्येत्यर्थः ।
अमिधेयानां पौर्वापर्यनियमाय गुणप्रधानभावे जिज्ञास्यमाने अभिधानरूपस्य शास्त्रस्य कः प्रस्ताव इत्यत आह--शास्त्रशब्द इति ।
एवं तर्हि हेयादीनां शास्त्रार्थरूपतया न पृथक्कोटित्वम् ।
तथा चैककोटिकतया किमपेक्ष्य गुणप्रधानभावचिन्तेत्यत आह-अत्र चेति ।
कथं पुनरनेन प्रमाणादिचतुर्वर्गो ऽत्र लभ्यते इति वार्त्तिकमनुक्तोपालभ्भो मा भूदित्यत आह--तेनेति ।
तन्मूलत्वाद् इतरसिद्धेरिति ।
सिद्धिः प्रतीतिर्निष्पत्तिश्च ।
तत्र हेयोपाययोः प्रतीतिरेव ।
अधिगन्तव्यस्य तु प्रतीतिर्निष्पत्तिश्च ।
यद्यपि च हानस्यापि प्रमाणरूपस्य प्रतीतिरस्त्येव, तथापि प्रमाणादेवेति तदितरेत्युक्तम् ।
निष्पत्तिस्तु हानस्याज्ञानादेव यस्मात् किं तज्ज्ञानेन? ज्ञानात् तु यस्मात् तस्य प्रमाणायत्तत्वमेवेति भावः ।
प्रमात्रादिचतुर्वर्गे तु प्रमातृप्रमेययोः सिद्धिः प्रतीतिरेव ।
प्रमायाश्च निष्पत्तिरपीति ।
तदिदमुक्तम्--प्रमायाश्च तत्कार्यत्वादिति ।
ननु प्रमात्रादीनामपि प्रयोजनवत्त्वादर्थवदित्यनेन किं प्रमाणस्याधिक्यमाहितमित्यत आह--अतिशायने मतुचिति ॥
नन्वस्य चतुर्वर्गद्वयस्य निःश्रेयसाधिगमं प्रति विकल्पः, समुच्चयो वा? उभयमाप्यनुपपन्नमभिन्नत्वात् तथा हि य एवार्थः प्रमाता प्रमेयं प्रमितिरिति स एव हेयो ऽधिगन्तव्य इति य एवार्थो हानोपायाविति स एव प्रमाणमिति ।
संशयादीनामपि न्यायपरिकरतया न्यायशरीरत्वात् तस्य च प्रमाणत्वादिति ।
तस्मात् अभिन्नत्वात् न वचनभड्गिभेदमात्रेण विकल्पः ।
नापि समुच्चयः ।
न हि भवति तरूणा वा वृक्षेण वेदं साधनीयं तरूवृक्षाभ्यां वेत्यत आह--विवक्षाभेदेनति ।
तदनुपपत्तेरित्यत अनेन निमित्तभेदमभिप्रैति ।
तेनायमर्थः यद्यप्युभयत्रापि षोडशैव पदार्थाः संगृहीताः, तथापि यथा प्रमाण्त्वेन प्रमाणं ज्ञेयं तथा हानत्वेनापि ।
अन्यथा हानान्तरमनुश्रियेत ।
निरर्थकं च प्रमाणंस्यात् ।
प्रमाणत्वे चाज्ञाते हानता न निर्वहेत् ।
यथा च स्वरूपेण संशयादयो ज्ञेयाः प्रमाणपरिकरतया तथा हानोपायतयापि ।
अन्यथोपायान्तरमनुश्रियेत ।
निरर्थकाश्चैते स्युः ।
परिकरत्वे चाज्ञाते उपायता न निर्वहेत् ।
यथा च शरीरादयो दश प्रमेयतया ज्ञेयाः तथा हेयतयापि, अन्यथा अहेयाः स्युः ।
हेयान्तरं चानुश्रियेत ।
प्रमेयत्वे चाज्ञाते हेयता न निर्वहेत् ।
यथा चापवर्गः प्रमेयतया ज्ञेयः, तथा अधिगन्तव्यतयापि ।
अन्यथा अधिगम्यान्तरमनुश्रियेत ।
अनुपादेयश्च स्यात् ।
प्रमेयतया चाज्ञाते ऽधिगन्तव्यता न निर्वहेत ।
यथा चात्मा प्रमेयतया अधिगन्तव्यः, तथा प्रमातृतयापि ।
अन्यथा प्रमात्रन्तरमनुश्रियेत, अनवस्था च स्यात् ।
प्रमेयत्वे चाज्ञाते सोपाधिनिरूपाधिरूपतया
हेयोपादेयते न निर्वहेचाताम् ।

यथा च बुद्धिर्बुद्धित्वेन तथा तभ्देदः प्रमितितयापि ।
अन्यथा प्रमित्यन्तरमनुश्रियेत, निष्फलं वा प्रमाणं स्यात् ।
प्रमेयत्वे चाज्ञाते हेयता न निर्वहेदिति ।
तस्मात् त एव प्रमाणादयः उभयथा ज्ञायन्तामिति विवक्षित्वोभयचतुर्वर्गोपादानं कृतमित्यर्थः ॥
यदप्युक्तं कैश्चित्--हेयहानोपायाधिगन्तव्येष्वेव चतुर्षु पुरुषार्थः परिसमाप्यते ।
यथा लोके हेयः कण्टकः ।
हानमुपानत् ।
तदुपायस्तु पादुकाकृदातिः अधिगन्तव्यो दुःखाभावः ।
शास्त्रे च हेयो रोगः ।
चिकित्सा हानम् ।
तदुपायो निदानज्ञानम् ।
अधिगन्तव्यमारोग्यमित्यतश्चतुर्षु वक्तव्येषु षोडशपदार्थवर्णनं क्कोपयुज्यत इति तदापि निरस्तम्, चतुर्वर्गस्यैव विवक्षाभेदात् षोडशधा भेदेनाभिधानात् ।
विवक्षाभेदस्य चोपपत्ति प्रतिपदं भाष्यकार एव दर्शयिष्यति ।
एतदवगम्यैव येनाधिकं चोदितं तन्मतमपाकरोति--एतेनेति ॥
व्याख्यायते अवयवश इति विशेषणे क्रियायास्तात्पर्यम् ।
न तु विशेष्ये इत्यर्थः ।
एतदेवात्तरत्र स्फुटयति--तत्रास्यावयवेष्विति ।
कस्मात् प्रमाणादिति नाभिहितम्? एवं ह्यसंदिग्धैव पञ्चमी स्यादित्यर्थः ।
अस्येति प्रकृतपञ्चमीपरामर्शे लिङ्गासंगति रित्यत आह--अस्येति ।
पञ्चम्याः तसेः प्रयोगं दर्शयित्वा पञ्चमीव्यतिरेकेण तसेः आक्षेपसमाधाने असंगते इत्याक्षेपं व्याख्यायावतारयति--वचनव्याप्त्यर्थमिति ।
ननु प्रमाणाभ्यां प्रमाणैरिति भवतं संप्लवः, प्रमाणेनेति तु कथमित्यत आह--यत्र द्वयोदिति ।
विषयैकतामात्र संप्लवः, न तु कारणानां समुच्चयः ।
तथा सति फलभेदो न स्यात् ।
नापि समुच्चितानां करणत्वम् ।
तथा सति व्यापारभेदो न स्यादिति ज्ञापनार्थमित्यर्थः ।
अत एवेति ।
एवकारः साधकतमान्तरं व्यवच्छिन्दन् तस्य व्यापारं फलं च व्यवच्छिनत्ति, न त्वस्य स्वव्यापारुलयोरितरेतरनैरपेक्ष्यं दर्शयति, तस्य संप्लवे ऽपि संभवादित्यर्थः ॥
कस्मात् पुनः करणार्थो गम्यते? प्रकृतिप्रत्यययोः कतरस्मादित्यर्थः ।
अयमाशयः ।
यदि तृतीयया करणत्वमभिधीयते किं प्रकृतिस्थेन ल्युट्प्रत्ययेन? अथ तेनैव, किं तृतीययेति? ज्ञापकस्य कारकत्वशड्का मा भूदित्यत आह--अर्थमर्थाधिगतिमिति ।
ननु हेतुकरणभावो ऽवगम्यतामित्येतदर्थं विभक्तिव्याप्तिरास्थीयते प्रमाणमिति, प्रातिपदिकादेव साक्षात्करणत्वमर्थतो हेतुत्वं गम्यत इति किं विभक्तिव्याप्त्येत्यत आह--अत्र चेति ।
न च वाच्यं करणभावेनापि प्रमाणफलयोस्तादात्म्यं प्रतिषेद्द्धुं शक्यम्, तत् कि तन्नान्तरीयकहेतुतभ्दावामिधानार्थं पञ्चम्येति, साधाकत्वमात्रस्यैव सामर्थ्ये तमबर्थस्यासमर्थत्वात् ।
तत्र विप्रतिपत्तेश्च ।
कस्मादिति प्रश्नार्थमभिप्रेत्याह--प्रमाणप्रतिपदिकेति ।
तदेवमनुवादकत्वं
समर्थयता ल्युट्तृतीययोः पौनरूक्त्यं समाहितम् ।
न
चानुवादकत्वं शब्दाभ्यासस्य प्रयोजनवत्ताव्यतिरेकेण सिध्यतीत्यतः प्रयोजनं दर्शयति--प्रमाकारकान्तरेभ्य इति ।
लौकिके तु प्रयोगे संख्याभिधानाद्विभक्तेः सार्थकत्वं द्रष्टव्यमिति ।
विशिष्टविषयत्वेन संप्लवाक्षेपो ऽसंगत एव, अग्न्यादिविशिष्टे पर्वतादौ प्रत्यक्षानुमानयोः संप्लवादित्यत आह--विशिष्टो भिन्न इति ।

विषयत्वसामान्याभिप्रायमेकवचनम् ।
अर्थसमार्थ्यसमुत्थं प्रत्यक्षं यतो ऽतोर्ऽथगोचरम् ।
तत् किं हेतुत्वमेव विषयलक्षणम्? नेत्याह--स एव चार्थ इति ।
किमतो चद्येवमित्यत आह--न च सामान्यमिति ॥
ननु च सांव्यवहारिकं स्वलक्षणमप्येवमेवेत्यत आह--स्वलक्षणमिति ।
देशकालाननुगतं विचारसहमित्यर्थः ।
ननु यद्यपि प्रत्यक्षं न सामान्यरूपमवगाहते तथापि यद्यनुमानमपि स्वलक्षणमवगाहेत तत एव तावतापि संप्लवः स्यादित्यत आह--न चेति ।
ननु भवत्वनुमानं सामान्यमात्रनियतम्, प्रत्यक्षमपि ह्यत्र प्रवर्त्स्यति ।
भविष्यति च सामान्यमपि सत्त्वादाकाराधायकमतो ऽपि संप्लवसिद्धिरित्यत आह--न चेति ।
भवितुमर्हति परमार्थसदिति शेषः ।
विचारासहत्वादित्यभिप्रायः ।
तत् किं सामान्यस्यासत्त्वात् स्वलक्षणे च प्रतिबन्धग्रहासंभवादनुमानं निर्विषयमेवेत्यत आह--तदिदमिति ।
तत् किमनुमानमप्रमाणमेव अपरमार्थगोचरत्वात्? यद्येवं कथं तदन्यदुल्लिख्यान्यत्र प्रवर्तयति ।
कथं च तदविसंवादकम्? कथं च बाधिताकारं प्रमाणतया व्यवहियत इत्यत आह-तस्मादिति ॥
ननु प्रमाणान्तरेण सह संप्लवो भविष्यत्यनयोरित्यत आह--न चेति ।
नन्वस्ति शब्दादिकमित्यत आह--प्रमाणस्येति ।
ननु नान्तर्भवत्येवास्वलक्षणविषयत्वाद् विषयाप्रतिबद्धत्वाच्चेत्यत आह--अनन्तर्भावे चेति ।
ननु स्वलक्षणसामान्यलक्षणयोर्व्यवस्थायामपि प्रत्यक्षानुमानयोर्विषयान्तरे संप्लवो भविष्यत्यनयोः ।
अस्ति हि विषयान्तरं तद्वदित्याह--न चेति ।
न ह्यसता सामान्येन परमार्थसत् स्वलक्षणं तद्वद् भवितुमर्हति, सदसतोः संबन्धाभावादित्यर्थः ।
सो ऽयं गहनः पन्था इत्याशयवान् आह--यथा चैतदिति ।
विशेष इत्यत्र यदि कर्मकारकं न च
ततस्तद्वन्नामापरो ऽस्तीत्यत आह--विशेष इति संप्लवममृष्यमाण इदमाह मीमांसह इति शेषः ।
अधिगतं चार्थमित्यादिवार्त्तिकस्याधिगतत्वादिवार्त्तिकादधिकार्थतां विवक्षत्राह--स्यादेतादित्यादि ।
अधिगतेर्ऽथे प्रमाणान्तरस्य न तावदर्थाधिगमं प्रत्युपयोगः, तस्य प्रागवे प्रमाणान्तरसिद्धत्वात् ।
नाप्यन्त्तरोत्तरव्यवहारप्रवाहनिर्वाह प्रति, तस्यापि तज्जन्यसंस्कारप्रभवस्मृतिसंतति सिद्धत्वात् ।
न च वाच्यं स्मृतिसंततिरधिगतिसंततिर्वा अस्तु व्यवहारप्रवर्तिनी न कश्चिद्विशेष इति, स्मृतिवदुपदर्शितार्थमात्रविषयतया तासामप्रमात्वेन तत्साधानस्याप्रमाणत्वप्रसंगात् ।
तासां च तत एव स्मृतित्वप्रसंगात् ।
स्मृतिसंततेश्चावश्यंभावितया तत एव व्यवहारिसिद्धावधिगतिसंततिकल्पनायां कल्पनागौरवप्रसंगादित्याशयवान् पिष्टपेषणमेवोपसंहरति--अधिगतमिति ॥
ननु अन्यथेति वार्त्तिके यदि कारणगतमन्यप्रकारत्वं विवक्षितं तदा कारणगतप्रकारभेदे ऽपि न कश्चिद् विषयगतो विशेषः पिष्टपेषणपरिहारोपयोगी दर्शितः स्यात् ।
अथ विषयगत एव प्रमारभदो दर्शितः, तदा अनधिगतार्थगन्तृतया कुतः संप्लवः? न च विषयाभेदे ऽपि प्रमाणभेदात् कश्चित् फलप्रकारभेदः प्रकृतोपयोगवानस्तीत्यत आह--अयमभिसन्धिरिति ।
पिष्टपेषणे निष्फलत्वं वा स्यात्, अविशिष्टफलत्वं वा, अनपेक्षितफलत्वं वा, अधिगते ऽप्यर्थे किमित्यधिगतिसाधनमधिगति करोतीति प्रश्नमात्रं वा, साधनासंभव एव वेति ।
तत्र साधनासंभवं दूषयति--न हीति ।
स्वकारणप्रतिबन्धे हि प्रमाणं न स्यात् ।
न च विषयाधिगमः प्रमाकारणविरोधी, येन तस्मिन्, सत्चेव प्रमाकारणमकारणं भवेत् ।
तस्मादालोच्य स्वयमेव निवर्तेरत् यदि चेतयेरन्, न चैतदस्तीत्यर्थः ।
प्रश्नमात्रं दूषयति--नापीति ।
अनपेक्षितफलत्वमुत्थाप्य निराकरोति--प्रमातुरिति ।
निष्फलत्वं निराकरोति--तस्मादिति ।
प्रत्युत्पन्नकारणसामग्रीजनितत्वं तात्कालिकासाधारणकारणविशिष्टसामग्रीजनितत्वम् ।

एतेनानुभवत्वं दर्शितम् ।
स्मृतेर्ह्यसाधारणं कारणं संस्कारः, आत्मान्तःकरणादीनां ज्ञानान्तरसाधारण्यात् ।
स च चिरकालोत्पन्नो न प्रत्युत्पन्नः ।
यत्तु प्रत्युत्पन्नमुद्बोधापरनाम सहकारि न तदाधारणम् ।
अनुभवस्य तु चतुष्टयसन्निकार्षाद्यसाधारणम् ।
तच्च प्रत्युत्पन्नं प्रत्यग्रमुत्पन्नम् ।
तथाभूता बुद्धिरबाधितेति शेषः ॥
अविशष्टफलत्वमभ्युपेत्य पराभिप्रायं निराकरोति--तज्जनकानीति ।
प्रथमप्रमाणफलतो ऽप्यविशिष्टफलतया यद्यानर्थक्यम्, द्वितीयवत् प्रथमप्रमाणस्यापि द्वितीयाविशिष्टफलतया आनर्थक्यं स्यात् ।
अनपेक्षत्वत् सार्थकमिति
चेत्? एवं तर्हि द्वितीयस्यापि स्वफले ऽनपेक्षत्वमेव ।
तत्फलं प्रमारूपमेव न भवति ।
गृहीतमात्रगोचरत्वात् स्मृतिवदित्यपि न
युक्तम्, यथार्थानुभवत्वनिषेधे साध्ये कालातीतत्वात् ।
अनधिकार्थत्वे च सिद्धसाधानात्, साध्यसमत्वाच्च ।
व्यवहारनिषेधे च तन्निमित्तविरहोपाधिकत्वात्, बाधितत्वाच्च ।
प्रमाव्यवहारनिमित्तं च वक्ष्याम इत्यर्थः ।
एवे तर्हि वार्त्तिकार्थः क इत्यत आह--स एव चेति ।
ननु फलस्यापि साक्षात्कारासाक्षात्काररूपः प्रकारभेदो ऽस्त्येव, स एवानेन किं न प्रदर्श्यत इत्यत आह--यद्यपीति ।
आदिग्रहणेन कारणगतो ऽपीन्द्रियलिङ्गादिरूपः प्रकारभेदः संगृहीतः ।
कारणभेदसंप्लवनिरासार्थमेव हि परः प्रत्यवस्थितः ।
स कथं तेनैव प्रतिबोधनीयः? परप्रतिबोधश्च प्रकृतः ।
तदिदमुक्तम्--प्रकृतानुपयोगादिति ॥
एवं सिद्धं प्रमाणं हृदि कृत्वा संप्लवव्यवस्थे विचारिते ।
संप्रति प्रमाणस्वरूपं निरूप्यत इत्याह--विभक्त्यर्थमिति ।
अवधारणमिति ।
यदि निश्चयो ऽभिमतः स्यात् तस्य नावश्यं संशयपूर्वकत्वमिति सन्दिग्धस्य प्रश्न उपपन्नः स्यादत आह--अवधार्यत इति ।
तथा च विचारस्य परीक्षाया अवश्यं संशयपूर्वकत्वादग्रे
संदिग्धस्य प्रश्नो युक्त इति भावः ।
संदेहकारणत्वन विप्रतिपत्तिमाह--केचिदिति ।
प्रमाणं हि करणविशेषः ।
करणं च साधकतमम् ।
न च साध्यसिद्धौ तज्जातीयस्य साधकतमत्वमस्ति, छिन्ने वृक्षे परशोरिव ।
तस्माद् यथैवाच्छिन्नविषयतया व्याप्रियमाणः परशुः छेदनं तथा प्रमिते विषये व्याप्रियमाणमिन्द्रियादिकं प्रमाणमिति मोमांसकाः ॥
मतान्तरमाह--विषयसारूप्यमिति ।
फलं तावत् प्रमाणस्यार्थप्रतीतिरेव प्रमारूपत्वात् ।
न हि प्रमाणस्यार्थे प्रमातिरिक्तमपि किञ्चित् कर्तव्यमस्ति ।
प्राप्तिरपि प्रवृत्तिरेव ।
प्रवृत्तिरपि प्रवृत्तियोग्यार्थोपलम्भनमेव ।
तस्मात् प्रमाणस्यार्थप्रमीत्यतिरिक्तं न ।

किञ्चित् फलमिति, यदाह--तदेव प्रत्यक्षज्ञानं प्रमाणफलमर्थप्रतीतिरूपत्वादिति ।
प्रमाणमपि तदेव यदर्थं व्यवस्थापयति ।
अर्थमपि तदेव व्यवस्थापयति यदर्थप्रतीतिं तदीयतया नियमयति ।
तथात्वेनानियतायां तु तस्यां न कस्यचित् सा प्रतीतिः ।
सर्वस्य वेति नार्थेन नियता प्रतीतिः स्यात् ।
अनियतार्थप्रतीतिजनकं च कथं प्रमाण नाम? न चेन्द्रियादिभिर्ज्ञानकरणैर्ज्ञानं तदीयता नियम्यते ।
न हि चक्षुषा जनितत्वादेव नीलस्य नीलविज्ञानम्, पीतज्ञानस्यापि तथात्प्रसङ्गात् ।
अपि तु नीलाकारत्वादेव नीलज्ञानं नीलस्य ।
तस्मादर्थाकार एवबुद्धिगतो बुद्धिं तदीयता व्यवस्थापन्नर्थमपि तथा व्यवस्थापयति ।
ततश्चार्थव्यवस्थापनहेतुत्वात् स एव प्रमाणं यदाह--अर्थसारूप्यमस्य प्रमाणम्, तद्वशेनार्थप्रतीतिसिद्धेरिति ।
अर्थप्रतीतिसिद्धेः अर्थप्रतीतिव्यवस्थितेः, तथा चार्थव्यवस्थितेरिति यावत् ।
न चाभिन्नात्मनि करणफलभावो विरुध्यते, तत्र कारणभवस्यैव विरोधात् ।
स हि व्यापारव्यापारिभावो वा, गम्यगमकभावो वा स्वीक्रियते एव ।
वृक्षादिभिः संयुज्यमान एव हि परशुः संयोगेन व्यापारेण करणमिति व्यवह्नियते लोके ।
न च संयोगो नाम विग्रहवानन्यः संयुज्यमानात् परशोरस्ति ।
गम्यगमकभावो ऽपि स्वप्रकाशे विज्ञाने बाह्ये च वृक्षे शिशपया गम्यमाने दृष्ट एव ।
न हि शिंशपातः कश्चिदन्यो वृक्षो ना वृक्षाद् वा शिंशापा ।
वैकल्पिके तु व्यवहारे यथात्र व्यावृत्तिभेदस्तथा आकारतद्वतोरपीति न कश्चिद् विशेष इति सौत्रान्तिकाः ॥
मतान्तरमाह--विज्ञानस्यैवेति ।
अर्थप्रकाशने हि यस्य व्यापारस्तदेव प्रमाणम् ।
प्रकाशनं च चैतन्यरूपं तस्यैव यश्चेतयते ।
न चेन्द्रियादीनि करणान्यपि तथा, जडरूपत्वात् ।
न हि ज्ञानानिरिक्तः कश्चिच्चेतनो नाम ।
तस्माद् विज्ञानमेव चेतनतया दर्शनव्यापारम् ।
तथा च प्रमाणम् ।
व्यापारव्यापारिणोश्चाभेद एवं संयुज्यमानपरशुवदिति निराकारवादिनो वैभाषिकादयः ॥
मतान्तरमाह--उपलब्धीति ।
वृद्धाः प्रमाणवृद्धाः ।
एतेन पूर्वेषां बालत्वं सूचयति ।
भावप्रश्नव्याख्यानेन भवितृप्रश्नो व्याख्यात इति तु सहेत्यश्याहृत्य केचिद् व्याचक्षते ।
केचित् तु भावप्रश्नव्याख्या बोद्धव्या अनेन भवितृप्रश्नो व्याख्यात इति ।
अन्ये तु भवाप्रश्नव्याख्यानेन हेतुना भवितृप्रश्नो व्याख्यातो भावप्रश्नं व्याख्यातुं भवितृप्रश्नो व्याख्यातः, तदन्तरेण तदनुपपत्तेरिति ।
लिपिप्रमादो ऽयमिति संप्रदायविदः ।
व्यभिचारो विसंवादः ।
अनर्थवत्त्वं विपरीतर्थत्वम् ।
अतो न साध्याविशिष्टता ।
ननु स्थाणुर्वा पुरुषो वेत्यत्रोपदर्शितयोरन्तरः प्राप्यत एव, तत् कथं विसंवादकत्वम्? कथं चार्थवत्त्वमित्य आह--नो खल्विति ।
यतो न प्राप्यते, अत एव नार्थक्रियासूपयुज्यते,
अप्राप्तेरनुपयोगाच्च नास्तीत्यर्थः ।
यद्यप्यनुभावाभिप्रायेणोपलब्धौ व्याख्यायमानायां स्मृतिहेतौ नास्ति प्रसङ्गः ।

स्मृतेरननुभवत्वात्, तथापि--
बुद्धिरूपलब्धिर्ज्ञानमित्यनर्थान्तरम् ।
इति सूत्रयोपलब्धिशब्दो ज्ञानपर्यायः स्वीकृतः ।
अस्ति च स्मृतेरपि ज्ञानत्वमित्यनेनाभिप्रायेणोक्तम्--न ह्यसाविति ।
अतीतार्थे परम्परया तत्कार्यतयापि शब्दलिङ्गादेरर्थसम्बन्धो ऽस्ति, अनागते तु सो ऽपि नास्तीत्यत आशड्कितं ज्ञापकतयेति ।
संस्कारस्यापीति ।
तस्यापि तरम्परया अर्थकार्यत्वमर्थज्ञापकत्वं च साक्षात् समानमित्यर्थः ।
स्मृतिरूपोपलब्धिहेतोः स्मृतिरूपज्ञानहेतोरित्यर्थः ।
परिहरति--नैवमिति ॥
ननु न स्मृति ।
प्रमेत्यत्रैव विवाद इत्यत आह--लोकेति ।
अनेन प्रमाशब्दप्रवृत्तिनिमित्त्ग्राहकं प्रमाणमपलक्षयति ।
तथा हि, न तावद् अस्य स्मृतित्वमेव प्रवृत्तिनमित्तम्, अनुभवस्याप्रमात्वप्रसङ्गात् ।
नापि तदेकार्थमसवेतं ज्ञानत्वादिकं तन्निमित्तम्, येन स्मृतिरपि प्रमा स्यात्, विपर्ययस्यापि तथात्वप्रसङ्गात् ।
नापि प्रमात्वं नाम सामान्यविशेषः समस्ति ज्ञानगतस्य सामान्यविशेषस्य मनोमात्रग्राह्यत्वात् ।
प्रमात्वस्य चानुमेयतया प्रागेव प्रतिपादितत्वात् ।
किं च यदि प्रमात्वं सामान्यविशेषः स्यात्, तदा तदभाववति तद्विरुद्धसामान्यवति वा विपर्ययज्ञाने न समवेयात् ।
तथा च विपर्ययज्ञानं धर्मिण्यपि न प्रमाणं स्यात् ।
एवं च तत् निरालम्बनमापद्येत ।
सामान्यं च सामान्यान्तरेण सह परापरभावेन एकस्यां व्यक्तौ समाविशेत् ।
तत्रानुभत्वं वा परं प्रमात्वं वा? आद्ये स्मृति कथं प्रमा? द्वितीये त्वनुभवः प्रमात्वं न व्यभिचरेत् ।
तथा च विपर्यायो ऽपि दत्तजलाञ्जलिः स्यात् ।
साक्षात्कारित्वे च यदि परं तदा असाक्षात्कारवत्यो ऽनुमितिप्रभृतयो न प्रमाः स्युः ।
अथापरम्, विपर्ययबुद्धिर्न साक्षात्कारवती स्यात् अप्रमात्वादिति ।
तस्मात् न प्रमाणत्वं सामान्यविशेषः ।
यथार्थत्वमायातमिति चेत्--न, स्मरामीत्यत्रापि प्रमिणोमीति बुद्धिव्यपदेशप्रसङ्गात् ।
इष्ट एवायमिति चेत्--न, रिश्वरेतरेच्छामात्रेण लौकिकप्रयोगाप्रयोगयोर्नियन्तुमशक्यत्वात् ।
तेनैवायं प्रमाणशब्दो यथार्थज्ञानमात्रे नियतः कृत इति चेत्--न,
महर्षिभिस्तदभियुक्तैः स्मृतिफलस्य प्रमाणत्वेनापरिसंख्यात् ।
उक्तेष्वन्तर्भावादपरिसंख्यानमिति चेत्--न, प्रत्यक्षस्यासाक्षात्कारिफलत्वानुपपत्तेः ।
लिङ्गशब्दादेश्च सत्तामात्रेण प्रतीत्यसाधनत्वादिति ॥
किं च स्मृतेर्याथार्थ्यमपि कृतः? न हि यादृशोर्ऽथः स्मर्यते यदा तादृश एवासौ तदा, पूर्वावस्थाया वर्तमाने निवृत्तत्वात् ।
अनवृत्तौ हि पूर्वतैव न स्यात् ।
न च निवृत्तपूर्वावस्थतयैव तमर्थं स्मृतिरालम्बते, पूर्वावस्थानिवृत्तेरननुभूतत्वात् ।
अननुभूते चार्थे अननुभूतं संस्काराभावात् ।
ननु समानविषयत्वेपि स्मृत्यनुभवयोरनुभवो यथार्थो, न तृ स्मृतिरिति कृत एतत्? अनुभवकाले तस्यार्थस्य तादवस्थ्यत्, स्मृतिकाले त्वतादवस्थ्यात् ।
ननु पूर्वं तावत्तदवस्थ एवासावासीत्, एतावतैव ज्ञानमस्तु यथार्थम् ।
न, प्रमारक्ते ऽपि श्यामताप्रत्यस्य यथार्थत्वप्रसङ्गात् ।
नन्वतीतः श्याम इति प्रत्ययः तत्र यथार्थ एव ।
सत्यम्, तद्विषयस्य तदानीमेव तदवस्थत्वात् ।

न तु स्मर्यमाणार्थः तदानी तदवस्थः ।
तस्मात् स्मृतिरयथार्थैव ।
यथानुभव तु भवेत् ।
तत्रानुभवस्य यथार्थत्वात् तदेकविषया स्मृतिरपि यथोर्थेत्युच्यते ।
अत एवानुभवस्यायथार्थत्वे स्मृतिः अवपिरीताप्ययथार्थैव ।
यथा रज्जुं भुजङ्गतया अनुभूय विद्रुतस्य तथैव स्मृतिः ।
तस्मात् स्मृतेर्याथार्थ्यं याचितकमण्डनप्रायम्, नाजानिकम् ।
इदमेव पारतन्त्र्यपदवाच्यं कैश्चिन्निरुक्तिकुण्ठैरन्यथापप्लूत इति ।
तस्मादुभयथापि स्मृतेरन्यस्यानुभवत्वैकनियतं यथार्थत्वमेव प्रमापदस्य प्रवृत्तिनिमित्तं लोको ऽवधारितवान् ।
कथमन्यथा तत्रैव प्रमाशब्दं प्रयुड्क्ते नान्यत्रेति यद्यपि, तथापि धर्मिण्यपि स्मृतेः प्रमाण्यं माभूदित्याशयवान् प्रागुक्तयुक्तिकं लोकप्रयोगमवाश्रितवान् ।
तदिदमुक्तम्--लोकश्चेति ।
एवं तावद्यथार्थो ऽनुभवः प्रमा ।
तत्साधनं च प्रमाणमिति स्वलक्षणमाशड्कितातिव्याप्तिनिराकरणेनादुष्टमिति समाहितम् ॥
न चैतन्मीमांसकस्याप्यनभिमतम् ।
न हि तेनाप्यत्राव्याप्त्यतिव्याप्ती प्रसंजयितुं शक्येते ।
न ह्यस्ति संभवो मीमांसकस्यापि यथार्थानुभवो न च प्रमेति ।
तल्लक्षणे त्वस्माकं कुतो विप्रतिपत्तिरित्यत आह--अनधिगतार्थगन्तृत्वं चेति ।
उपलक्षणं चैतत् ।
नित्यपदार्थेषु अनधिगतत्वं नाम नास्त्येव ।
यदि नेह जन्मनि जन्मान्तरे ऽप्यधिगमात् ।
यदि न प्रत्यक्षेणानुमानोपदेशाभ्यामपि अनित्येष्वपि प्रायशः उपलब्धानामेवोपलम्भाच्च ।
अन्यथा च प्रत्यभिज्ञानं दत्तजलाञ्जलि स्यात् ।
ततश्च स्वरूपतो ऽप्यनधिगतत्वं बह्वाकुलयेत् ।
प्रकारतो ऽपि भूयो
भूयस्तंमादिष्वनुभूयमानेषु न कश्चिद् गुणप्रकारः प्रतिक्षणलब्धजन्मापवर्गः परिभाव्यते ।
कर्मकृतो ऽप्याशुतरविनाशी
न प्रतिक्षणमपूर्वः ।
न च चतुःपञ्चक्षणावस्थायिन्यपि तस्मिन्नेकमेवज्ञानं जनयित्वेन्द्रियादिकमुदासीनम् अनागतकर्मादिजन्म प्रतीक्षते ।
ततश्च सर्वजन्मान्तरोपलम्भादन्ये तदुत्तरकालप्रत्यया धारया विच्छेदेन वा भवन्तो न प्रमाणं स्युरित्यर्थः ॥
शङ्कते--नचेति ।
यद्यपि स्वरूपस्य प्रकारस्य वा तथाविधस्य तादवस्थ्यम्, तथापि प्रत्यक्षज्ञानधारायां वर्तमान एवार्थः परिस्फुरति ।
न च क्रमभाविनामेक एव वर्तमानः कालो विषयः, नानाप्रमातृवज्ज्ञानयौगपद्यप्रसङ्गात् ।
प्रत्यभिज्ञानानुपपत्तिश्च, ज्ञानानेकत्वे ऽपि एककालावस्थानाकलनात् ।
तस्मात् पूर्वपूर्वज्ञानैरनाकलित एव वर्तमानोर्ऽथ उत्तरोत्तरैरवसीयत इत्यनधिगतार्थत्वमेव तत्रापीत्यर्थः ।
परिहरति--परमेति ।
न तावत् प्रतिक्षणवर्तमानत्वं सौगतवद् वस्तुनः एव स्वरूपोत्पादः ।
नापि संख्यवद् वस्तुरूपस्थैर्ये ऽपि परिणतिभेद एव मीमांसकैः स्वीक्रियते ।
नापि धर्मभेद एव कश्चित्
प्रतिक्षणापूर्वो वर्तमानत्वापरनामा समस्ति ।
न च तैरभ्युपेतः ।

न च कालः प्रत्यक्षगोचरः, नापि भिन्नस्वभावः ।
तस्मात् कालकलाभेदका उपाधय एव कालभेदः ।
तत्प्रत्क्षमेव कालभेदप्रत्यक्षमिति परमार्थः ॥
तत्र न तावत् प्रतीयमानस्तंमादिसंसृष्टा उपाधयः संभवन्तीत्युक्तम् ।
ज्ञाततायाश्च निराकरिष्यमाणत्वात्, धारवहनबुद्धिषु तदभासानाच्च ।
प्रतीयमानेतरसंसृष्टास्तूपाधयः तज्ज्ञानसंसर्गिणो वा स्युरन्यथा वा? न तावत् स्तम्भादिषु तदितरसंसर्गिणः क्षणभड्गुराः केचनावश्यं तज्ज्ञानसंसर्गभाजो भवन्ति ।
क्वचिद् भवन्त्यपीति चेत्, तत्रैव तद्धियां प्रमाणता स्यात् ।
यत्र तु तदेकज्ञानसंसर्गिण उपाधयो न सन्ति तत्र धारावाहिकबुद्धीनामप्रमाणत्वमेव स्यात् ।
तथाविधा एव च विचारविषयत्वेनाभिप्रेता ज्ञानान्तरगोचरा विषयान्तरसंसर्गिण उपाधयो भविष्यन्तीति चेत्--एवं तर्हि धारावहनबुद्धयो न स्युरेव इति लाभाय गतो मूलमपि हारितवात् ।
न खलु प्रमाणान्तरेण इन्द्रियान्तरेण तेनैव वा तद्धर्मिपरित्यागाद्धर्म्यन्तरे अनुभूयमाने विवक्षितैकविषयबुद्धिधारसंभवः ।
इष्ट एवायमर्थं इति चेत्--न, अपूर्वापूर्वोपाध्युपनिपातनियमे प्रमाणाभावात् ।
अनुपनिपातिनां च ज्ञानान्तरेणाष्यनाकलनात् ।
अत एव घटो ऽयं घटो ऽयमिति बुद्धिसहस्रस्यापि न विषयकृतं विशेषमूपलभामहे ।
अनुपलभ्यमानस्य तु विषयत्वकल्पनायां सर्वसर्वज्ञतापत्तिरिति ॥
तस्मात् स्तम्भादिरेव प्रागभावनिवृत्तिप्रध्वंसाभावानुत्पत्तिरूपो वर्तमानः ।
तदवच्छिन्नः कालो ऽपि वर्तमानः ।
सच तथाविधो ऽनेकज्ञानसाधारण एव ।
न चैतावता ज्ञानयौगपद्यापत्तिः, सूक्ष्मकालापेक्षया क्रमसंभवात् ।
न च सूक्ष्मोपाधीनामप्रतीतिश्चेदतो ऽसंभव एव, कार्यक्रमेणैवोन्नीयमानत्वात् ।
नापि प्रत्यभिज्ञानानुपपत्तिः ।
पूर्वज्ञानविषयानुसंधानमेव हि प्रत्यभिज्ञानम् ।
तच्च ज्ञानक्रमादेवोपपन्नम् ।
तस्मात् कालतदुपाधिप्रत्यक्षत्वे ऽपि न सर्वत्र सूक्ष्मोपाधिसंसर्गः, नापि तत्प्रतीतिः ।
तदिदमुक्तम्--परमसूक्ष्माणामिति ॥
एतेनैतन्निरस्तम्--सिद्धे साधकतमत्वाभावादिति ।
न हि साधकतमस्य तथात्वं साधाकतमान्तरापेक्षया, किं तु प्रधानक्रियाकारकान्तरापेक्षया ।
अन्यथा यत्र करणानां समुच्चयस्तत्र परस्परापेक्षया अनतिशयितत्वादकरणत्वापत्तेः करणानां समुच्चयः क्वचिदपि न स्यात् ।
इतरकारकापेक्षया तु धारावाहिकबुद्धिष्वपि प्रमाणस्यातिशयित्वमस्त्येव ।
यत्तु छिन्ने कुठारस्याकारणत्वमिति, तच्छिदा लक्षणफलाभावात् ।
न च छिन्ने छिदान्तराभाववान् ।
न च ज्ञाते ऽपि ज्ञानान्तरासंभवो येनात्राप्यफलत्वादेवाकरणत्वं भवेत्, धारावाहिकज्ञानोत्पत्तेः ।
तस्माद् यो ऽनाधिगतार्थबोधनं प्रमाणमिच्छति, तस्य धारावाहिकबुद्धयो ऽप्रमाः प्रसज्येरन्नित्यर्थः ।
शङ्कते--न चेति ।
प्रवृत्तिं प्राप्तिं च जनयदेव विज्ञानं प्रमा, तदर्थमेव प्रमाणानुसरणात् ।
आद्यं च तथा ।
ततस्तदेव प्रमा ।
द्वितीयादीनां च न प्रवृत्तिप्राप्तिहेतुत्वम् ।
अतो नैतानि प्रमारूपाणि ।
ततस्तज्जनकान्यपि न प्रमाणानीति तदेतदिष्यत एवेत्यर्थः ।
परिहरति--नहीति ।

न ह्यप्रवर्तयदेव विज्ञानमर्थं प्रापयति ।
नापि हठादेव प्रवर्तयति ।
किं त्वर्थोपदृष्टिरूपतया ।
सा च सर्वसमानेत्यर्थः ।
तदिदमुक्तम्--प्रदर्शनं चेति ।
ननु तथापि प्रथमादेवापेक्षितसिद्धः पुरुषस्य किं द्वितीयादिनेत्यत आह--पुरुषेति ॥
स्यादेतत् ।
वादिविप्रतिपत्तयो वार्त्तिककृता न निराकृता ।
नापि विशेषविधानस्य शेषप्रतिषेधविषयवादिति न्यायो नाविरोधात् ।
न ह्यनधिगतार्थगन्तरि सारूप्येवार्थव्यवस्थापयितरि शक्तौ वा
आत्मानात्मप्रकाशयित्र्यामुपलब्धिहेतुत्वं विरुधयते इत्यत आह--उपलब्धीति ।
व्यापकस्याव्यापकविरुद्धत्वादनधिगतार्थगन्तुस्तेन रूपेण प्रमाणत्वमेवार्थान्निषिद्धमित्यर्थः ।
सारूप्यशक्ती निराकरोति--हेत्विति ।
तदीयतया ह्यर्थप्रितीतिं व्यवस्थापयन्नाकारः प्रमाणमिति कोर्ऽथः? न तावत् तदीयतया नियतां प्रतीतं जनयन्, स्वात्मनि क्रियाविरोधात् ।
नापि ज्ञापयन्, स्वात्मीमूतप्रतीतिं प्रति ज्ञानान्तराजनकत्वात् ।
नापि निश्चाययन्, आकारतद्वतोरेकत्वेन व्यावृत्त्योश्चैकनिश्चयगोचरत्वेन निश्चेयनिश्चायकत्वनियमानुपपत्तेः ।
नीलमहं जानमीति ह्यकारनिश्चयः ।
न चातो ऽपरः तदीयतानिश्चयो नाम ।
नीलमिदमित्याकारव्यवसायः प्रर्थमम्, अथ नीलमहं जानामीत्यर्थकर्मकप्रतीत्यनुव्यवसाय इति चेत्--तत् किं बुद्धावनिश्चितायामेवाकारो निश्चितः? न चैतत् संभवति, सामान्यानिश्चये विशेषानिश्चयात् ।
निश्र्वीयत एव, परं न तदीयतयेति चेत्--अथ केयमर्थाकारादन्या तदीयता नाम? तदुद्भावत्वमिति चेत्--नन्वेवमनुमितिं भावायन्नाकारः प्रमाणम् ।
ओमिति चेत्--हन्त, हतं तर्हि पामरप्रत्यक्षमतिरिक्तमर्थमनुमापयता आकारेण व्यवस्थापितत्वात् ।
अपि च या क्रिया यत्करणफलत्वेन विवक्षिता, जनयदेव तां तत्करणमिति लोकसिद्धम् ।
न हि छिदामजनयन्तो ऽपि चक्षुरादयस्तन्निश्चायकतामात्रेण छेदनतया वयवह्नियन्ते ।
अपि तु अनिश्चाययन्तो ऽपि जनयन्त एव कुठारादयः ।
तदत्रापि प्रमां जनयदेवानिश्चायकमपि प्रमाणमिति व्यवह्नियताम् ।
न तु तामजनयन्निश्चायको ऽप्याकारः, एवं च लोके ऽनुकूलता ।
अन्यथा तु पिरिभाषां कुर्वता लोको ऽप्रतिपादितः स्यात् ।
न च जन्यजनकयोस्तादात्म्यगन्धो ऽपीति ॥
एतेन शक्तिः प्रमाणमिति प्रत्युक्तम्, शक्तेः शकयनिष्ठत्वात् ।
शकयं च कार्यमुच्यते ।
प्रकाशनं चात्मभूतत्वात् न तस्याः कार्यमिति ।
तदिदमुक्तम्--हेतुहेतुमद्भावस्येति ।
ननु यदि प्रमाण सिद्धम्, किं तत्र प्रमात्रादिना कर्तव्यम्? न हि सिद्धेन सिद्धमेव साध्यते ।
न चान्यत्र चरितार्थस्यान्यत्र कारकत्वमस्ति ।
अथासिद्धम्, कथं प्रमाणम्? न ह्यसिद्धं कारकं नाम ।
नाप्यकारकं करणम् ।
नाप्यकरणं प्रमाणमित्यत आह--अयमर्थ इति ।
करणीभूतस्य परशोः संयोगस्य व्यापारीभूरस्येति शेषः ।
परिणतिविशेषः सहकारिसमवधानम् ।
करणं व्यापार्योत्पाद्य

वा फलार्थं कर्तव्यान्तराभावात् कर्तुश्चरितार्थता ।
करणस्य तु फलेन विना अपर्यवसानमचरितार्थतेत्यर्थः ॥
अथ प्रमेयस्य कथं प्रमाणे चरितार्थत्वम्? न हि प्रमातृवत् तेनापि प्रमाकरणमुत्पाद्यते व्यापार्यते वेत्यत आह--प्रमेयस्य त्विति ।
अयमाशयः ।
सर्वत्र हि कर्मकारककरणफलतद्व्यापारयोर्विषयतया व्यवतिष्ठते ।
तत्र फलविषयत्वमस्य न कर्मत्वं प्रति प्रयोजकम्, असत्त्वेनाकारकस्यापि फलविषयत्वात्, यदाह---केवलमित्यादि ।
करणव्यापारविषयत्वात् तु कर्मत्वम्, न ह्यस्ति संभवः कर्म च, न च करणव्यापारविषय इति ।
तत्र करणस्य व्यापारविषयत्वाभावात् व्यापार एव न निर्वहेदिति तन्निर्वाह एवास्य चरितार्थत्वमिति ।
तदिदमुक्तम्--तत्रापीन्द्रियसंबन्धमात्र इति ।
न च करणमपि कर्तृव्यापारविषयस्तावन्मात्रेणैव चरितार्थमधिकव्यापारवत्त्वात् ।
नापि कर्मव्यापारविषयः करणम् ।
नापि फलविषयः, तदुद्देशेन कर्मणः कर्त्रा अव्यापारितत्वात् ।
फलस्य तन्निरूपणाधीननिरूपणत्वात्, येन कर्मवदस्य चरितार्थत्वं कल्प्येत ।
तस्मात् ।
कर्तृकर्मणोश्चरितार्थत्वे ऽप्यचरितार्थमेव करणमिति ।
समवायित्वविषयत्वकृतां संनिपत्योपकारकभ्रान्ति प्रयोगाम्यां निराकरोति--तत् सिद्धमेतदिति ॥
यद्यप्यनुमेयाद्यतीताद्यहेतुरेव, तथापि सामान्यनिषेधो विशेषप्रकारमप्याश्रयेतेत्येतावतैव दृष्टान्तत्वम् ।
तस्मात्
तदेव फलहेतुः ।
संनिपत्येति शेषः ।
कथञ्चिदिति ।
अनाहत्य इत्यर्थः ।
तदनेन कारकान्तरे ऽचरितार्थस्य हेतुत्वमेव करणत्वमिति करणलक्षणं दर्शयता कर्तृव्यापारगोचरः करणमित्यपि करणलक्षणं सूचितम् ।
तथैव टीकाकृता व्याख्यातम् ।
एतच्च यद्वानिति वार्त्तिके स्फुटीभविष्यति ।
अकरणा प्रमाणोत्पत्तिः प्रसज्येत कर्तुः करणे चरितार्थत्वादिति किं केन संगतमित्यत आह--नाकरण इति ।
वस्तुसद्धिप्रधानक्रियासंबन्धनिबन्धनप्रभृतयः कारकशब्दा इत्याशयवतः चोद्यं यदीत्यादिना बुद्धिसिद्धप्रधानक्रियासंबन्धनिबन्धनप्रवृत्तयः कारकशब्दा इत्याशयवतः समाधानम्--न पाचकशब्दादिवदित्यादिना इति टीकायां विक्षिप्तस्य वार्त्तिकतात्पर्यस्य संक्षेपः ।
तुल्यवदिति तुलया संमितमिव न न्यूनं नातिरिक्तं वेत्यर्थः ।
तदनेन प्रपज्चेन प्रमां प्रमातृप्रमेययोरकारणत्वमेव दर्शितमति भ्रमो मा भूदित्युपसंहारव्याजेनाह--तत्प्रमाणमिति ।
सत्यपि चोपलब्धिसाधनत्वे साक्षादिति शेषः ।
संप्रत्ययो झटितिस्फुटप्रत्ययः ।
अत्र हेतुः---सातिशयत्वेति ॥
साधकतमार्थ पृच्छतीति--न तावत् साधकानां फलकृतावतिशयानतिशयौ, तस्यैकस्य सर्वान् प्रत्यविशेषात् ।
नापि व्यापारकृतौ, परस्परव्यापारविलक्षणव्यापारवत्तामात्रस्य सर्वसाधारण्यात् ।
फलानुगुणत्वं तु व्यापारस्याविशिष्टमेवेत्याशयवानिति हृदयशेषः ।
यद्यप्ययोगव्यवच्छेद एवातिशयः, तथापि तुल्यत्वे सत्यप्यतिशयानतिशयौ तस्यैव चिन्त्येते ।
न तु वैधर्म्यमात्रमतिशय इत्यभिसंधायान्ययोगव्यवच्छेदो ऽपि दर्शितः अयोगान्ययोगव्यवच्छेदाभ्यामिति ।
अमुं चार्थमनन्तरमेव विभावयिष्यति ।
ननु यथा कर्त्रादौ सति फलं नावश्यकम्, तथा करणे ऽपि सति कदाचिन्न भवेत्, कारकत्वाविशेषात् ।
दृश्यते च ।

न हि परशौ सति छिदा भवेत्येवेत्यत आह--प्रमातृप्रमेये हीति ।
उपक्षीणवृत्तिनी इति व्यापारवतः कारकत्वमभिप्रैति ।
तेन परशुरपि व्यापारवानेव सन् करणम् ।
तथाभूतेन च फलस्यायोगव्यवच्छेद एव, न तु व्यापारवतापि कर्त्रादिना, तद्व्यापारेण करणव्यापारस्य संपादनविलम्बनात् ।
व्यापारवतस्तु करणस्य नान्यत् संपादनीयमस्तीत्यर्थः ।
तदिदमुक्तम्--प्रमाणव्यापारे सति तु भवत्येवेति ।
तदनेन व्यापारवतः फलाव्यभिचारित्वं साधकतमत्वमिति दर्शितम् ॥
कल्पान्तरम्--यद्वानिति ।
परतन्त्रेणेति ।
परव्यापार्येणाश्रीयते अपेक्षत इत्यर्थः ।
एतदेव पूर्वमुक्तमिति स्मारयति--कर्त्रधीनं चेति ।
यद्यपि कर्तृव्यापार्यत्वं करणत्वमिति न व्यभिचरत्येव, तथापि परम्पराव्यापार्येणापि कर्मणा व्यभियारो मा भूदित्याशड्क्य प्रकृते ऽवधारणं संभवप्राचुर्यात् कृतम् ।
आगामिवार्त्तिकस्य कल्पान्तरत्वं निवारयति--अस्यैवेति ।
कल्पान्तरमिति ।
पूर्वकल्पविवरणेन पौनरूक्त्यभिया कल्पान्तरं गृहीतं कथञ्चित्
समर्थयति--पूर्वेणेति ।
कर्मणः स्वातन्त्र्यमसंभवि, ततो विशेषनिषेधो ऽनुपपन्न इत्यत आह--अकतृत्वमिति ।
कल्पान्तरम्--संयोगवदिति ।
अत्रापि कारकान्तरेभ्यः चरमव्यापारं करणमिति लक्षणम् ।
कल्पान्तरम्--प्रतिपत्तेरिति ।
अत्राप्यनन्तरं फलं करणमिति लक्षणम्, विकल्पसमुच्चयाभावात्--चो ऽवधारणे ।
अस्मिन् पक्षे स एतातिशय इत्यर्थः ।
कल्पान्तरम्--असाधारणेति ।
सर्वकरणेष्वसाधारणत्वोपपादनानुपयोगात् प्रकृते प्रमाणे घटयति--चतत्र इति ।
अत्रापि प्रमाविवक्षितजातिभेदव्यपदेशकं प्रमाणमिति लक्षणम् ।
प्रमां प्रति कारणाना साधारणत्वासाधारणत्वे निरूप्यमाणे पुरुषविषयस्य साधारण्यस्य किमायातमित्यत आह--अशेष इति ।
कल्पान्तरम्--प्रमाकारणेति ।
अत्रापि
विवक्षितप्रमाजातिभेदौपयिकत्वेन प्रमित्यसमवायिकारणविशेषकं प्रमाणमिति लक्षणम् ॥
स्वरूपात् कार्यातः कर्तुरर्वाक् प्राक् कर्तृकार्ययोः ।
प्रमाजातेः प्रमाहेतुविशेषान्मानलक्षणम् ॥
इति संग्रहश्लोकः ॥
तदेभिर्निमित्तैः करणव्यवहारे व्यवस्थाप्यमाने यदि कर्मादिव्यवहारनिमित्तसमावेशात् तद्व्यवहारो ऽपि भवति, भवतु तस्येष्यमाणत्वात् ।
एभिर्निमित्तैस्तु कर्मादिव्यवहारो नेष्यते ।
स तु नास्त्येव ।
तथा हि--सर्वत्र कर्मव्यवहारः करणव्यापारविषयत्वादिभिः, करणव्यवहारश्च कर्तृव्यापारविषयत्वादिभिः ।
तेषां च निमित्तानां भेद एवेति नातिप्रसंगः ।
तात्पर्यतो व्याचष्टे--वाक्ये ऽस्फुटत्वादित्यर्थः ।
एवं च सत्यग्रे अर्थ्यत इति व्युत्पत्तिरपि तात्पर्यपरतयैवेति मनतव्यम् ।
कस्मात् पुनरिति ।

न हि प्रमाणविषयस्य प्रमाणस्यार्थवत्त्वमव्युत्पादनीयमेवेति शड्काबीजम् ।
तात्पर्यान्तरमिति ।
कथञ्चिद् भागासिद्धतापरिहारस्य फलस्यैकत्वात् ।
तत् किं प्रवृत्तिसामर्थ्याभावादप्रमाणमेव तदित्यत आह--न चेति ।
कथं तर्हि तत्प्रामाण्यमवसेयमित्यत आह--त्स्यापीति ।
न तावत् सर्वो विषयः सर्वत्र सर्वस्य सर्वदोपक्षणीयः, निर्माणवैयर्थ्यप्रसङ्गात् ।
तथा चानुपेक्षणीयतादशायां प्रवृत्तिसामर्थ्येन तद्विषयस्य ज्ञानस्य प्रामाण्यमवधार्य गृहीतेन तज्जातीयत्वेनोपेक्षणीयतादशायमपि प्रामाण्यं सुग्रहमेव ।
यत्राप्याहत्य प्रवृत्तिर्न भूता तत्राप्यसंभवद्वाधसंवादित्वं प्रात्यक्षिकमानुमानिकमौपदेशिकं वा तज्जातीयत्वमवसेयमित्यक्षरार्थः ॥
शड्कानिवर्तने मन्द इत्यत आह--अयमभिसन्धिरिति ।
साक्षात् जनकत्वं गृहीत्वा व्यधिकारणत्वशड्का मा भूदित्यवश्यं दर्शनीयम् ।
तच्च प्रमाणस्य प्रतीतिजनकत्वकथनमन्तरेणाशक्यमित्यर्थः ।
कथमयमर्थो वार्त्तिकाल्लभ्यते इत्यत आह--प्रमाणस्य विशेष इति ।
एतावतापि किमुक्तमित्यत आह--एतदुक्तं भवतीति ।
ननु तवायमाशयो न तु वार्त्तिककृत इत्यत आह--तदिदमुक्तमिति ।
तदिदमपरम् अनर्थसूत्रम् ।
न हि प्रतिपत्तिप्रवृत्तिसामर्थ्ययोः
प्रतिपाद्यप्रतिपादकभाव इत्यत आह--अयमर्थ इति ।
ननु अर्थग्रहणेन सर्वसंग्रहो ऽयुक्त एव किमित्याशड्क्यते?
तथाविधशड्कायामनवस्थानादित्यत आह--एकदेशीति ।
व्याघात इति ।
यद्यप्यपवर्गस्य सुखदुःखतद्धेतुभावो नास्ति, अत एव तथात्वेनार्यमाणतयार्थपदेन सर्वसंग्रहो ऽप्यशक्यः, तथापि तदभ्युपगमे व्याघात एव स्फुट इति स एवोक्तः ।
स च शास्त्रावतारेण यदि ह्यपवर्गः सुखदुःखतद्धेतुतया हेयः स्वीकृतः, तर्हि शास्त्रमपि विपरीतप्रयोजनत्वादनारम्भणीयम् ।
शास्त्रप्रमाणयोस्तु सामान्यतो यद्यपि दुःखहेतुत्वम्, तथापि विवक्षितपरमपुरुषार्थविषययोस्तद्धेतुतया दुःखहेतुतां परिभूयोपादेयत्वमेव ।
अन्यथा पुनरपि स एव व्याघातः ।
इतरद्धेयं तावत् प्रमाणेन हीयते ।
प्रमाणं तु प्रमाणान्तरेण हेयं सदनवस्थां सावकाशयति ।
ततश्च सैव प्रमाणव्यक्तिः तेनैव प्रमाणेन हातव्या ।
तच्चाशक्यम् ॥
नन्वशक्यत्वेनाहेयत्वे सुखतद्धेतुत्वेनोपादेयेत्वमपि कथमित्यत आह--न चास्मादिति ।
तस्मादुभयथापि स्वात्मनि क्रियाविरोधेन परमपुरुषार्थहेतुत्वेन च प्रमाणं न शकयहानम् ।
न चैवे सत्यहानिरेवास्य स्यात्, स्वोच्छेदककारणवशेनोपादेयस्य पुरुषप्रयत्नेनाशक्यहानस्यापि सुखवदुच्छेदादित्यर्थः ।
अधिकारादनुवृत्ते रित्यनुपपन्नम्, आदिवाक्यत्वादित्यत आह--प्रवृत्तिसामर्थ्येति ।
अधिकारो योग्यता ।
सा चात्र प्रकृतत्वात् प्रवृत्ति प्रतीत्यर्थः ।
इह हि प्रकरणे समर्थप्रवृत्तिजनकत्वं हेतुरभिप्रेतः ।
स च सुखदुःखतद्धेतुरूपार्थविषयाया एव प्रतिपत्तेरस्ति ।
ततोर्ऽथशब्देन विषयो ऽभिधीयमानः तथाविध एव वक्तव्यो ऽतः प्रकरणविशेषनियम एवाधिकार इतयर्थः ।
एकदेश्युपालम्भे पूर्वहेतुभिः सह हेत्वन्तरस्य समुच्चयं दर्शयन्नाह--न केवलमिति ।
अशक्यत्वादपिं संविदि हेत्वोरसिद्धेरिति शेषः ।
ननु असंवेद्यमानायाः संविदः प्रमाणसद्भावे कथमसंवेद्यत्वम्, तदभावे वा कथं सत्त्वव्यवहार इत्यत आह--न तावदिति ॥

अनवस्थाप्रसङ्गलक्षणं तर्कं दर्शयता तद्विपर्यये मानसमेव प्रत्यक्षं प्रमाणमादर्शितं भवति ।
अज्ञातोपरतज्ञानव्यवहारे
तु कालान्तरे तद्विषयं स्मरणमेव निमित्तम् ।
एवं च सामान्याकारेण जिज्ञासानुरोधात् जज्ज्ञानमस्त्येव, अज्ञातस्य विधिनिषेधव्यवहाराविषयत्वात्, ततश्च सामान्याकारेण सिद्धमादाय विचारणा ।
यदि ज्ञानविषयं ज्ञानमवश्यं ज्ञायेत, अवश्यं वा विज्ञास्येत तदा ज्ञानपरम्परालक्षणा अनस्था स्यात् ।
सा
चानुपलम्भवाधितेत्यर्थः ।
तदिदमुक्तम्--कस्याश्चिदिति ।
भाष्यग्रन्थेनेति वदता न केवलमर्थविरोधः ग्रन्थविरोधश्चेत्यपि प्रतिपादितं द्रष्टव्यम् ॥
चतुष्टयस्योमयत्वविरोधं परिहरन्नाह--कार्यकारणाभ्यामिति ।
नन्वर्थशब्दस्य प्रयोजनवत्तवे ऽपि विरोधव्यधिकरणत्वे तदवस्थे एवेत्यत आह--चन्दनादीति ।
परिसंख्यातुं नियन्तुमिति वदता गणनीयर्थो ऽनभ्युपगमेन परिहृतः ।
अथ किमभिप्रेत्याप्रस्तुतमेव भाष्यकृतो इदं प्रस्तूयत इत्यत आह--एवं किलेति ।
न प्रमाणप्रयोजनं भवितुमर्हन्तीति प्रमाणस्य भूतार्थत्वादित भावः ।
तथा च प्रमाणदीनां शक्याज्ञानत्वे ऽपि तद्व्युत्पादकं शास्त्रमनारम्भणीयमेव, परमार्थिकप्रयोजनविरहादिति निगर्वः ।
तत्रेदमुपतिष्ठते निराकरणभाष्यमिति शेषः ।
सर्वसाधारणनीलादिवैधर्म्येण हि काल्पनिकत्वं कार्यकारणभावस्य व्युत्पादयता नीलादि परमार्थिकमेव स्वीकर्तव्यम् ।
तदपारमार्थिकत्वे त्वभिमतसिद्धिरेव न स्यात् ।
न च कार्यकारणभावस्यापारमार्थिकत्वे नीलादि पारमार्थिकं भवितुमर्हति, नित्यत्वप्रसङ्गात् ।
तस्माद् यो नीलादि परमार्थिकमिच्छति, तेन कार्यकारणभावो ऽपि परमार्थिक एव एष्टव्यः ।
न चोभयमपि ।
तथा च तत्रापि तुल्यमेतत् ।
इदं त्ववशिष्यते--कथमेकमनेकं परस्परविरुद्धं कार्यं कुर्यात्? तत्स्वभावत्वादिति यदि तदोत्पत्तेरारभ्य कुर्यादविशेषत् तत्राह--निवेदयिष्यते हीति ॥
न जात्या जन्मप्रभृतिसहकारिनिरपेक्षतयेत्यर्थः ।
जातिदेशेति ।
स्वभावनियामिका जातिः ।
अव्यवस्थयेति सहकारिव्यवस्थावैचित्र्येणेत्यर्थः ।
प्रमाणार्थः सुखदुःखलक्षणः ।
अनियतः चन्दनात् सुखमेव कण्टकाद् दुःखमेवेति नियमरहितः, अनियत हेतुकत्वात् ।
अनियतचन्दनादिसहकारिकारणकत्वादित्यर्थः ।
प्राणभृदिति सहकारिवैचित्र्यसूचनाय ।
अत एवोदाहरणम्--अनियतकालमिति ।
यथा अनियतकालेत्युपलक्षणम्, देशोवस्थासहकारिणामपि अनियमो द्रष्टव्यः ।
एतदुक्तं भवति, यथा केषुचित् कालदेशावस्थासहकारिषु सत्सु मेघाः सलिलमुद्वमन्ति, केषुचित् तु सत्सु त एव सलिलं पिबन्ति, तथा चन्दनादयो ऽपि केषुचित् सत्सु सुखमुपजनयन्ति केषुचिच्च दुःखमिति ।
विष्टिः दण्डाकृष्टः कर्मकरः ।
नन्वर्थवति च प्रमाणे प्रमात्रादीन्यर्थवन्ति भवन्ति ज्ञायन्त
इत्यभिप्रेतम्, न तु जायन्त इति ।
न चैवमस्ति, प्रमित्यव्यभिचारेणैवेतरेषामव्यभिचारावधाणादित्यत आह--यद्पीति ।
न च वाच्यम्, वैदिकी प्रतिपत्तिरर्थाव्यभिचारिणी आप्तोपदेशजप्रतिपेत्तित्वादिति शकयत एवेति ।
न ह्याप्तोपदेशो ऽव्यभिचारिणीमेवार्थधियमाधत्त इत्यनवधार्य शक्यमिदम् ।

न चाव्यभिचारिप्रतिपत्तिजनकत्वादन्यदेव प्रमाणानामर्थवत्त्वमित्युक्तमेवेति ।
तथापि लोके तावदेवमस्तीति चेत्? अत आह--अदृष्टार्थेति ॥
यद्यपि तत्समवायः प्रमासमवायः प्रमातृत्वमिति प्रकृतोपयोगि स्यादेव, तथापि वार्त्तिककृता प्रश्नोपलक्षणाभ्यां खातन्त्र्यमुपक्रान्तम्--सामान्यन्यायेन विशेषो ऽपि लभ्यत इत्यभिसन्धायातस्तथैवव्याचष्टै--कारकामिधानेनेति ।
प्राधान्येन धातुप्रत्ययाभिधीयमानव्यापारसंबन्ध एव तत्समवायः ।
प्राधान्यं च कारकान्तरात्तैरश्चीन्यमात्रमभिप्रेतम् ।
तेन पचतीत्यादौ सर्वत्रातिरश्चीनपाकादिव्यापारवतो देवदत्तादेरेव कर्तृत्वं सिद्धं भवति ।
पाचयतीत्यादौ तु प्रयोज्यव्यापारप्रतीतावपि तस्यान्यतिरश्चीनत्वात् न तद्वतः कर्तृत्वम् ।
किं नाम? प्रयोजकस्यैव, तद्व्यापारस्यातिरश्चीनत्वात् ।
एवं तर्हि,
स्वव्यापारे हि कर्तृत्वं सर्वत्रैवास्ति कारके ।
इति न्यायेन करणादिव्यवहारविलोपप्रसङ्ग इत्यत आह--प्राधान्येनेति ।
स्वव्यापारापेक्षया न करणादिव्यवहारः, किं तु प्रधानक्रियापेक्षयेत्यभिप्रायः ॥
ननु च कारकसाध्यत्वाविशेषे ऽपि (करणादिव्यवहारः) प्रधानक्रियापेक्षया इत्येतदेव कुत इत्यत आह-- अवान्तरेति ।
अवान्तरेति ।
अस्ति हि काञ्चित् क्रियामुद्देश्य प्रवर्तमानानां कारकाणामवान्तरव्यापारयोगः ।
, न त्ववान्तरव्यापारार्थमेव तेषां प्रवृत्तिरित्यर्थः ।
ननु न सर्वो व्यापारः प्रधानक्रिया वा पुरुषमाश्रयते, तत् कथमाह--पुरुष इतीत्यत आह--पुरुष इति प्रकृतापेक्षम् ।
तदेतद् वैयाकरणानां लक्षणम् ।
तच्चानुपपन्नम्, शब्दप्रयोगमात्रस्याव्यवस्थापकत्वात् ।
व्यवस्थाहेतोश्च लक्षणत्वात् ।
अभिधानयोग्यतालक्षणमिति चेत्--न, तस्या एव विचार्यमाणत्वात् ।
विवक्षामात्रमिति चेत्--न, तस्या अपि निमित्तमन्तरेणाव्यवस्थितेरित्याशयवानाह--लक्षणान्तरमिति ।
पुरुष इति वर्तते ।
तथा च तत्प्रयोक्तृत्वमित्यत्र तस्य प्रयोक्तेति
विग्रहशड्का मा भूदित्याशायवानाह---तस्य चेतनस्येति ।
एतेन स चासौ प्रयोक्ता चेति वा तस्य चेतनस्य
प्रयोक्तृत्वं धर्म इति वा विग्रह इत्यर्थः ।
अत्र च सव्रकारणानीति स्वेतरपरस्परविसदृशानेककारकामिप्रायम् ।
तेनादृष्टमनधितिष्ठतो ऽपि कुलालस्व कर्तृत्वमक्षतमेवेति ॥
एतावतैव लक्षणे परिसमाप्ते इतराप्रयोज्यत्वमित्यनेन चेतनप्रयुक्ति प्रति स्वातन्त्र्यमितरेषां व्यवच्छिन्दता परस्परप्रयोजनकत्वमपि व्यवच्छिन्नम् ।
चेतनस्यापि तानि व्यापारयत एव कर्तृत्वमित्युक्तम् ।
तथा च यथा कार्यं कर्त्रधीनं तथा कारकान्तराधीनमित्युभयव्याप्तात् कार्यादेकतरापाये ऽप्यन्यतरापाय इति दर्शितम् ।
अतो लक्षणस्य नातिव्यापकत्वम् ।
अचेतनेषु तु कर्तृव्यवहारः कथमित्यवशिष्यते तत्राह--अचेतनस्य त्विति ।
स्वाभाविकं मुख्यम् ।
तत्त्वं हि प्रमाणव्याप्यत्वं प्रमाणव्यापारविषयत्वमिति वदतः करणव्यापारविषयः कर्मेति कर्मलक्षण संमतम् ।
तत्र लक्षणे ऽवान्तरव्यापारो ग्राह्यः ।
प्रकृते च प्रधानव्यापारः प्रमितिलक्षण इति विभागः ।
विनियोज्यतेति ।
अनेन वार्त्तिकस्थस्य विनियोगस्य विषयनिष्ठत्वं दर्शयता योग्यतापि विषयगतैव द्रष्टव्येत्यपि दर्शितम् ।

तेन विनियोगाय योग्यता विषयगतैवेत्यर्थः ।
ज्ञानपरं चैतत् ।
तेनायमर्थः विनियोगो वार्थगतस्तद्योग्यताज्ञानं वा चतुर्वर्गस्य पर्यवसानमिति ॥
पञ्चेति ।
रूपं संज्ञा संस्कारो वेदना विज्ञानमिति ।
तत्र रूपरसगन्धस्पर्शशब्दाः रूपस्कन्धः ।
सविकल्पकं विज्ञानं संज्ञास्कन्धः ।
समनन्तरप्रत्ययः संस्कारस्कन्धः ।
सुखदुःखे वेदनास्कन्धः ।
निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः ।
जीवेति ।
जीवश्चेतनः ।
तदितरो ऽजीवः ।
आस्त्रवन्तीत्यास्त्रवाः ।
स्रोतांसीन्द्रियाणि ।
स्रोतोभिरिव तैरयं जीवो धर्माधर्माभ्यामापूर्यत इत्यर्थः ।
संवरणं संवरः, जीवाजीवविषयो ऽभेदाभिमानः ।
तेन संवृतोह्ययं जीवो ऽसर्वज्ञ इति ।
निर्जरणं निर्जरः तपश्चरणम्, निगडकटकाभ्यामिवायं बद्धो ऽस्वतनत्रो जीव इत्यर्थः ।
मोक्षः सकलावरणविगम इत्यर्थः ।
सर्वत्र नियमो ऽप्रामाणिकः ॥
ननु न विधायकप्रमाणनिवृत्तिमार्गेणासत्त्वमित्यत आह--तदिति ।
प्रमाणविषयत्वेन सदसतोरेकत्वमविलक्षणव्यवहारविषयत्वमभिमतमेव, ततो निर्दला शड्केत्यत आह--सर्वसामर्थ्येति ।
अर्थक्रियासामर्थ्थं हि सल्लक्षणम् ।
तच्चेद् भवदभिमते अभावे ऽप्यस्ति सो ऽपि सद्व्यवहारविशयः प्रसक्त इति
टीकार्थः ।
न च वयमित्यादिना अभावस्य सामार्थ्यमड्गीकृतम्, न तु सामर्थ्येन सद्व्यवहारः, अननुसंहितसामर्थ्यस्यापि सद्व्यवहारविषयत्वात् ।
अपि त्वस्तिनास्तिप्रतीतिविषयत्वेन ।
न ह्यस्ति संभवः सदिति व्यवह्नियते, न चास्तिप्रत्ययविषय इति ।
असदिति वा व्यवह्नियते न च नास्तिप्रत्ययविषयः इति प्रकारणार्थः ॥
स्यादेतत् ।
प्रमेयवैलक्षण्यवत् प्रमाणवैलक्षण्येनापि साक्षात्कारादिवत् प्रतीतिभेदो घटते ।
ततः सदन्तर एवेयं नास्तीति प्रतीति ।
कदाचिद् भवेदित्याशड्क्याह---संप्रतीति ।
अबाधिते प्रसिद्धतरे विप्रतिपत्तिर्न काञ्चित् क्षतिमावहतीत्यर्थः ।
ननु निषिध्यतां भावान्तरम् ।
तथाप्यभाविधौ किमायातम्? न हि नीलनिषधे पीतादिविधिरवश्यमित्यत आह--नीलपीतौ हीति ।
ननु सर्वशड्कानिराकरणपटीयसि प्रत्यक्षे ऽपि प्रवृत्ते कुतस्तर्कस्यावकार्शः? ततः किमत्रोपपत्त्येत्यत आह--यदि कश्चिदिति ।
सन्त्येव हि केचिद् वादिनो ये विपक्षदण्डमपश्यन्तः प्रत्यक्षपरिकलितमपह्नुत्य शडकामुत्थापयन्ति, तान् सांख्यादीन् प्रति अयं प्रकार इत्यर्थः ।
पूर्ववद् व्याख्येयम् ।

तुल्योपलम्भयोग्यतातर्कान्तर्भावेनेत्यर्थः ।
नन्वभावे तत्प्रत्यक्षतायां च बहुविप्रतिपत्तिबीजमस्तीत्याह--सर्व चैतदिति ॥
ननु यद्यसद्भेदाः प्रकृतानुपयोगिनः, तदा अनुपयोगादेव नोच्यन्त इत्युच्यताम् ।
अथोपयोगिनस्तदा अवश्यं वक्तव्या एव ।
पारतन्त्र्येण प्रतिभासनात् नोच्यन्त इति क्कोपयुज्यत इत्यत आह--निषेध्येति ।
प्रतिपादनाय हि ते वक्तव्याः ।
तच्च प्रतियोग्यधिकरणप्रतिपादनादेवार्थतो भूतमिति किं तदर्थप्रयासेनेत्यर्थः ।
तदिदमुक्तं गम्यन्त इति नाक्ता इत्यर्थ इति ।
ननु यद्युपायप्रतिपादनेनैव प्रतिपादिता इति नोक्ताः, तर्हि प्रमेयादयो ऽपि प्रमाणप्रतिपादनेनैव प्रतिपादिता इति किं तत्कथनेनापि? अथ प्रतीता अपि प्रयोजनविशेषादभ्यर्हिततया प्रतिपाद्यन्ते, हनतासद्भेदा अपि उपयुक्तास्तथा किं नेत्यत आह--अथ वेति ॥
ननु भावप्रपञ्चवदभावप्रपञ्चे ऽप्युद्दिष्टो वेदितव्य इति प्रतिज्ञातेर्ऽथे चतुर्वर्गानन्तर्भावादिति हेतुर्भागासिद्धो विरुद्धश्चेत्यत आह-निःश्रेयसेति ।
तेन निःश्रेयसानपयोग्यभावप्रपञ्चधिकरणतया चतुर्वर्गानन्तर्भावो हेतुः ।
तदधिकारणतया तथाभूत एव भावप्रपञ्चो दृष्टान्तो नोच्यत इति साध्यम् ।
निःश्रेयसोपयोगी तूद्दिष्टो वेदितव्यः,
चतुवर्गान्तर्भावात् ।
उपयुक्तभावप्रपञ्चवदिति वार्त्तिकार्थ इत्यर्थः ।
अत एवोद्दिष्टो वेदितव्य इति अनुपलब्धिबाधितं मन्यमान उत्तरग्रन्थमवतारयति--अथेति ।
कारणानुपलब्ध्या सर्व एवानुपलब्धिप्रभेदा उपलक्षिताः ।
अपवर्ग एव मर्धाभिषिक्तः प्रधानतया राजकल्पः ।
एतदप्युपलक्षणम् ।
अर्थो ऽपि शत्रुपुत्राद्यभावादिः, प्रवृत्तिरप्यहिंसादिः, प्रेत्यभावो ऽपि पूर्वशरीरपरित्यागादिः,
फलमप्युत्पन्नरोगप्रध्वंसाद्यसद्भेद इति मन्तव्यम् ।
संशयस्य ज्ञानरूपत्वादसद्रूपता न संभवतीति तमुल्लड्घ्यातिदिशति--एवं प्रयोजनेति ।
तथा हि सन्ध्यावन्दनप्रायश्चित्तादावहितनिवृत्तिरेव प्रयोजनम् ।
दृष्टान्तो ऽपि कश्चिदभावरूपो यथा सुषुप्त्यवस्थानमपवर्गे दृष्टान्तयिष्यति ।
सिद्धान्तो ऽपि नैरात्म्यादिः परेषाम् ।
अस्माकं च यथा भाभावस्तमः [वै. सू. 5.2.19] इत्येवमादिः ।
सर्वेषामपवर्गो दुःखाभाव इति ।
अवयवतर्कनिर्णयवादजल्पविण्डास्तु सद्भेदा एव ।
हेत्वाभासा द्विविधाः ।
यथा, अनित्यः शब्दः सत्तारहितत्वात, चाक्षुषत्वादित्येवमादिः ।
छलं जातयश्च सद्भेदा एव ।
निग्रहस्थानेषु विप्रतिपत्तिविधाः सद्भेदाः ।
अप्रतिपत्तिविधा असद्भेदाः ।
तदिदमुक्तम्--एवं तत्र तत्रोहनीयमिति ।
ननु भाष्ये असद्भेदकथनवार्तापि नास्तीत्यत आह--अत्रेति ।
परस्परविरुद्धयोरभिधानानभिधानयोः परमार्थिकत्वं न संभवति ।
तत् कतरदत्र पारमार्थिकमित्यत आह--द्वितीये तु कल्पे पारमार्थिकं इति ।
सूत्रस्य सप्रपञ्च तात्पर्यम्--प्रमाणत इत्यादिप्रपञ्चः, सच्च खलु षाडशधा व्यूढमुपदेक्ष्यत इति तात्पर्यम् ।
तस्य तात्पर्यमिति ।
तासां खल्वासामित्यवतारभाष्यस्य, न तु सूत्र पाठस्य ।

अवयवार्थं व्याचिख्यासुनेत्यनेनैव तात्पर्यस्य स्फोरितत्वात् ॥
॥ अवतारणाभाष्यादिव्याख्यानम् ॥
द्वन्द्वस्वरूपमाह तत्तात्पर्याभिधानायेति शेषः ।
द्विग्वव्ययीभावौ प्रयोगमात्रनिराकृतत्वात् नोपन्यस्तौ ।
संभावितप्रयोगान् बहुव्रीहिकर्मधारयतत्पुरुषान् निराकरोति--बहुव्रीहीति असंभवादर्थासंभवात् ।
षष्ठीसमास इति संभाविततत्पुरुषोपलक्षणपरम् ।
इति हि इत्यादि हीत्यर्थः ।
तेनार्थनिर्देशं समुपादाय संशये ऽपि बहुवचनं द्रष्टव्यम् ।
तत्रापि साधर्म्यवैधर्म्यविप्रतिपत्तिजन्यानां संशयानां परस्परनिरपेक्षाणामेव न्यायप्रवर्तकत्वमिति तात्पर्यम् ।
दृष्टान्ते ऽपि विशेषलक्षणकरणावसरे द्विवचनमेव ।
तस्यापि परस्परनिरपेक्षोदाहरणसंप्रतिपत्तिः प्रयोजनम् ।
एवं
सिद्धान्तानामपि स्वप्रयोजने परस्परानपेक्षत्वेमेव ।
तच्च बहुवचनसमानार्थेन संख्यावचनेन प्रतिपादितम् ।
अवयवानां तु यद्यप्येकस्मिन् वाक्यार्थे प्रतिपादयितव्ये मिथः सापेक्षत्वम्, तथापि परस्परासंप्रत्ययितमर्थमभिदधतामेवेति बहुवचनप्रयोजनम् ।
हेत्वाभासेष्वपि बहुवचनस्य स्वव्यापारे परस्परनिरपेक्षत्वप्रतिपादनमेव तात्पर्यम् ।
तथा छलजातिनिग्रहस्थानेष्वपि ।
यत्र तु निर्देशो नास्ति तत्र लक्षणे यथावचनं विग्रहः, सामान्यमात्रस्यैव प्रयोजकत्वादिति भावः ॥
कारकस्यार्थरूपत्वान्न तस्याभिधेयमस्तीत्यत आह--कारकार्थः प्रधानक्रियेति ।
अर्थशब्दः प्रधानक्रियावचनो न क्वचिद् दृष्ट इत्य आह--यदुद्देशेनेति ।
कारकाणामविवक्षेत्येतावतैव सुस्थे प्रधानक्रियाया अविवक्षा किमर्थमित्यत आह--कारकग्रहणेति ॥
ननु कारकाणामविवक्षा शेषलक्षण तदा स्याद् यदि तत्र कारकत्वं संभवेत्, तदेव तु नास्तीत्यत आह--यद्यपीति ।
अत्र चोदयति शैषिक्यां षष्ठ्याम् ।
षष्ठी चानर्थिका निष्प्रयोजना ।
अव्यतिरेके तदनुपपत्तेः षष्ट्यर्थस्य संबन्धस्यानुपपत्तेः ।
एकदेशित्वे बीजम्--अनियमवादीति ।
तस्यास्वतन्त्रत्वात् प्रमाणादयो गम्यन्त इति किं केन संगतमत आह--भावस्येति ।
न प्रमाणादिमात्रमुच्यते तत्त्वशब्देन अथ च नार्थान्तरं तत्त्वमिति परस्परव्याहतमित्यत एकदेशिनं किञ्चिदुद्दीपयति--अभेदे ऽपीतीति ।
अनारोपितरूपेण स्वरूपतः प्रतीयन्तां प्रमाणादय इत्येतदर्थमनतिरिक्तार्थमपि तत्त्वग्रहणं कृतमित्यर्थः ।
दृष्टान्तमसिद्धं मत्त्वा सोपपत्ति व्याचष्टे--द्वित्वैकत्वयोरिति ।
व्यवहारगतिवस्तुगत्योः समानयोगक्षेमत्वं मन्यमानो ह्यभावमपह्नोतुं न शक्नोत्येव, अभावव्यवहारगतेः सर्ववादिसिद्धत्वात् ।
यस्तु वस्तुनिरपेक्षो ऽपि व्यवहारो ऽस्तीति मन्यते, तन्मतमवशिष्ट इत्याशयवानाह--क्षणभङ्गभड्गेति ।
निवेदयिष्यते वात्तिककृतेति शेषः ॥
यथार्थज्ञानोत्पत्ति प्रति स्वरूपलक्षणा शक्तिरारोपहितत्त्वमेव सहकारिलक्षणदोषविरहीन्द्रियादिः ॥
ननु दृष्टानिःश्रेयसदूषणे किं तात्पर्यम्? न हि तदस्मान्न सिद्ध्यतीत्यत आह--एतदुक्तं भवतीति ।
अदृष्टमेव निःश्रेयसमभिप्रतं शास्त्रफलत्वेनेति शेषः ।
अन्यथा आत्मादिप्रमेयविशेषप्रतिपादनं न कुर्यात्, तत्तत्त्वज्ञानमन्तरेणापि दृष्टनिः- श्रेयससिद्धेरिति भावः ।
अप्रामाणिकं दर्शनाभावादिति दर्शनफलैकोन्नेयं प्रमाण कथं
तदभावे ऽप्यस्तीति भावः ।
आगमानुमानयोः सहकारिता पक्षाद्य1पनाकत्वेन ।

मूल पाठ: Nyāyavārttikatātparyapariśuddhi 1 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc