भाषा

ENहिગુ
ग्रंथ पाठ

न्यायवार्त्तिकतात्पर्यपरिशुद्धि · भाग 120

॥ न्यायवार्त्तिकतात्पर्यपरिशुद्धिः ॥
मातः सरस्वति पुनः पुनरष नत्वा
बद्धाञ्जलिः किमपि विज्ञपयाम्यवैहि ।
वाक्चेतसोर्मम तथा भव सावधाना
वाचस्पतेर्वचसि न स्खलतो यथैते ॥
विश्वाराध्य इत्यत्र विश्वशब्देन संसारिचेतनवर्गो विवक्षितः, तस्यैव तदाराधकत्वात् ।
विश्वेशान इत्यत्र समीहितफलसंदोहः, तस्य भगवदेकाधीनत्वात् ।
विश्वकृदित्यत्रोपादानसमूहः, तस्यैव तत्कृतिव्याप्यत्वात् ।
विश्वसंहारकारीत्यत्र यावदनित्यनिवहः, तस्यैव तद्विनाश्यत्वात् ।
विश्वशक्तिरित्यत्र यावत्कार्यास्तोमः, तस्यैव तच्छक्तिविषयत्वात् ।
विश्वज्ञातेत्यत्र यावञ्ज्ञेयप्रपञ्चः, तस्यैव पज्ज्ञानविषयत्वात् ।
विश्वव्यापीयत्र यावन्मूर्त्तिमद्द्रव्यराशिः, तस्यैव विशेषतस्तद्व्याप्यत्वात् ।
इतरस्य तु तद्द्वारा ।
विश्वमूर्तिरित्यत्र यावत्कारकग्रामः, तस्यैव साक्षात् तत्प्रयत्नाधिष्ठेयतया अस्मदादिशरीरसमानत्वात् ।
अत एव न तत्र शरीरान्तरापेक्षा, साक्षात्प्रयन्तानधिष्ठेयेषु हि सा स्यात् दण्डादिवत् ।
न तु साक्षात्प्रयत्नाधिष्ठेयेषु शरीरवत् ।
पिनाकीति तु विशिष्टशस्त्रधारधमित्तक नामसंकोर्तनेन प्रारब्धविघ्नस्य प्रोत्सारणमेव समीहितमिति सूचयति ।
हेतुहेतुमद्भावेन शड्कोत्तराभ्यां योजना ज्यायसी ।
यथावस्थितयोजनायां तु अर्थपौनरूक्त्यप्रसर्क्ता स्तुतित्वमेव समाधानमध्यवसेयम् इति ॥
नमामीत्यादि ।
धर्मो निवर्तकः ।
विज्ञानं शरीरादिविविक्तात्मसाक्षात्कारः ।
वैराग्यं रागाभावः ।
ऐश्वर्यं भूतेन्द्रियजयः ।
तच्छानिपे, अत एव निधये वाग्विशद्धीनाम् ।
अधर्महेतुको ह्यविवेकः ।
अविवेकहेतुकमवैराग्यम्, अवैराग्यमूलमनैश्वर्यम् ।
तन्मूलाश्च वचसामविशुद्धयः ।
तिस्रः खल्वेताः ।
तत्र प्रथमा निरभिधयता ।
द्वितीया विपरीतामिधेयता ।
तृतीया निष्प्रयोजनामिघेयता ।
ता एताः कथं भूतेन्द्रियजयिनो महामुनेर्भविष्यन्ति? अजितभूतस्य हि विवक्षोस्तथाविधप्रयत्नानिष्पत्तेर्निरभिधेया वाक् भवति ।
अजितेन्द्रियस्य च विपर्यासविप्रलिप्साहेतुको विपरीतार्थो वचनसन्दर्भः ।
अजितमनसश्च प्रमादोन्मादवतो निष्प्रयोजनः ।
एताश्च वचसामविशुद्धीः छलजातिनिग्रहस्थानेषु सूत्रकार एव प्रपञ्चयिष्यति ।
सो ऽयं न तथेति भवति वाग्विशुद्धीनां निधिः ।
अत एव तायी तत्त्वाध्यवसायसंरक्षणक्षमसंप्रदायप्रवर्तकः ॥
एवं परापरगुरून् नत्वा शिष्यबुद्धिसमाधानाय समाहितवैशिष्ट्यं दर्शयति--ग्रन्थेति ।
ननु तात्पर्यटीकेति वदता प्रवृत्तिपाटवार्थं ग्रन्थसंक्षेपो दर्शितः, न च शिष्याणां कथन्तासंबोघविधुराणां राद्धान्तमात्रपरिग्रहः संक्षेपतो विवक्षितः ।

तथात्वे वा उपनिषद एव सन्तु ।
सन्तु वा शवमुष्टिन्यायेनाचार्योपदेशाः ।
किमनेनेत्यत आह--निरस्ताखिलदूषणेति ।
नन्वेवं ग्रन्थतात्पर्यां व्याख्येयम्, दूषणानि च निरस्यानीति पुनरपि ग्रन्थगौरवमित्यत आह--ग्रन्थव्याख्याच्छलेनैवेति ॥
ननु चिरन्तरे ऽस्मिन् निबन्धे महाजनपरिगृहीते बहवो निबन्धास्तथाविधाः सन्तीति कृतमनेने इत्यत आह-- इच्छामीति ।
ननु यदि ग्रन्थकारसंप्रदायविच्छेदेन ते निबन्धाः, कथं कुनिबन्धाः? अथ संप्रदायो विच्छिन्नः, कथं तवापीयं विच्छिन्नसंप्रदाया तात्पर्यटीका सुनिबन्ध इत्यत आह--अतिजरतीनामिति ।
उद्द्योतकरसंप्रदायो ह्यमूषां यौवनम् ।
तच्च कालपरिपाकवशाद् गलितमिव ।
किं नामात्र त्रिलोचनगुरोः सकाशादुपदेशरसायनमासादितममूषां पुनर्नवीभावाय दीयत इति युज्यते ।
न च कुनिबन्धपङ्कमग्नानां तद्दातुमुचितमतस्तस्मादुत्कृष्य स्वनिबन्धस्थले सन्निवेशनरूपसमुद्धरणमेव सांप्रतमित्यर्थः ॥
तत्र भगवतो ऽक्षपादस्य मुनिषु मध्ये प्रवरत्वं श्रुत्यादिभ्य एव सुप्रसिद्धम् किमनेन संकीर्तनेन? न चैतदतिशयेन सांप्रतमुपयुज्यते ।
जगदुपशमनिदानशास्त्रप्रणेतृत्वं च तस्य तत्प्रणयनमेव प्रकटयदस्ति ।
तेनापि किं प्रकटितेन? स्वनिबन्धस्य तद्विषयतापि तद्व्याख्यानादेव लभ्यत इति ।
किं तयापि कथितया? न चास्य न्यायमहोदधेरूत्तानताप्रतिभास एवाग्रतः कर्तुमुचितः ।
तस्माद् भवितव्यमत्र तात्पर्येण ।
तदाह--अथेति ।
तदपनीयत इति ।
तदिति दिग्रागादिसमुत्थापितं शास्त्राच्छादकं कुहेतुसंतमसमपनेयत्वेन परामृशता शास्त्रस्यैवायं निबन्ध इति दर्शितम् ।
भाष्यस्य च तद्विवरणरूपस्य शास्त्रशरीररूपतया न शास्त्रादाधिक्यं मन्यते, मीमांसाया इव वेदात् ।
अत एव नात्रत्यटीकायाः वात्तिकान्तेन विरोधः ।
एतेन शास्त्रस्य यो निबन्धो भाष्यग्रन्थः स कुतार्किकाज्ञाननिवृत्तिहेतुः करिष्यत इति व्याख्यानं टीकाविरोधेनोपेक्षणीयम् ।
ननु सूत्रोक्तप्रयोजनानुवादः पुनः किमर्थम्? न हीदमनूद्य किञ्चिद् विधेयं प्रतिषेध्यं वेह विद्यते इत्यत आह--सूत्रेति ।
अथ स्वनिबन्धस्य प्रयोजनवत्ताप्रदर्शनेन किं सिद्ध्यतीत्यत आह--प्रेक्षावदिति ।
ननु व्युत्पित्सवो व्युत्पत्तिमघिकृत्य प्रवर्तन्ते ।
अतो व्युत्पादनप्रवृत्तौ व्युत्पत्तिरेवामीषां प्रयोजनमिति किमपरेण प्रयोजनेनेत्यत आह--व्युत्पादमात्रस्येति ।
द्विविधं हि प्रयोजनं मुख्यं गौण च ।
तत्र मुख्यं पुरुषार्थ एव ।
इतरत् तु तदङ्गमिति ।
तत्र मुख्यार्थिनः तत्साधानमभ्यर्थयमानाः तत्र प्रवर्तन्त इति तदपि प्रयोजनमेवति ।
अतो मुख्ये प्रयोजने सति गौणं प्रयोजनम्,
तस्मिस्त्वसति तदपि न स्यादिति निष्प्रयोजनतैवावतिष्ठते ।
न च स्वातन्त्र्येणैवास्य मुख्यं प्रयोजनमस्तीत्यतो यस्येदमङ्ग तस्य मुख्यं प्रयोजनमस्तीति दर्शिते प्रेक्षावान् प्रवर्त्तितो भवतीत्यभिसन्धिः वार्त्तिककृत इत्यर्थः ।
इतो ऽपि टीकाखण्डलकादन्तर्भावितफलवत्सन्निधावफलं तदङ्गमिति न्यायात् ।
शास्त्राङ्गामेवेदं न भाष्याङ्गमिति मन्तव्यम् ।
न हि भाष्यस्य स्वातन्त्र्येण मुख्यं प्रयोजनमस्ति येन वार्त्तिकं तदङ्गतामियात् ।
तस्माद् यथाश्रुति सुन्दरमिति ॥
ननु कर्मेन्द्रियनियमः शम इति सुप्रसिद्धं शान्तो दान्त इत्यादि उपनिषत्सु, न चासौ पुरुषार्थः ।
अतो न मुख्यं प्रयोजनमित्यत आह--अत्र चेति ।
ननु जगतः शमायेति दुर्घटम्, असंभावितात्वादशक्यात्वाच्च ।
न तावत् कश्चित् जगदुपचिकीर्षुः क्वचित् प्रवर्तते यतो मुनेरपि तथात्वं संभावयामः ।

पठन्ति च--मुनेरपि वनस्थस्येत्यादि ।
न च शक्यमेतत्, बुभुक्षूणां प्रवर्तयितुमशक्यत्वात् ।
न च जगदेव मुमुक्षति ।
तस्मादनुष्ठातैव व्युत्पाद्यः शास्त्रान्तरलब्धब्राह्मणत्वदिरूपः शिष्यः ।
तस्य च रूपाणि शमदमादिसंपत्तिः नित्यानित्यविवेकः ऐहिकामुष्मिकभागवैराग्यं मुमुक्षुता चेति ।
यस्तु अनधिकार्येव प्रवर्तते कर्मकाण्ड इव ब्रह्मकाण्डे स न फलभाग् भवति ।
तत्रैतत् स्यात् ।
न तावदुपेयविषयेयमधिकारचिन्ता, तस्य पुरुषप्रयत्नाविषयत्वात्, इष्यमाणतामात्रस्य चानिषधात् ।
किं नाम उपायविषया, तस्यैव शास्त्रविषयत्वात्, पुरुषप्रवृत्तिविषयत्वाच्च ।
इह चापवर्ग इव तदर्थतया तत्त्वज्ञानमप्युपेयमेव, असिद्धत्वात् ।
उपायस्तु प्रमाणम्, न च वेदाध्ययनवदनुमानस्य प्रत्यक्षस्य चोपादानं शूद्रादिकं प्रति निषिद्धम्, येन तत्राप्येतस्यानधिकारः स्यात् ।
तथा सति धूमादपि वहिमधिगच्छन् प्रत्यक्षाद् वा प्रत्यवायी स्यात्, अधीयान इव वेदम् ।
न चात्मगोचरे प्रत्यक्षानुमाने शूद्रादेर्विशेषतो निषिद्धे स्नातस्य चण्डालदर्शनमिव ब्राह्मणादेः प्रायश्चित्तानुपदेशात् प्रत्युत
स्त्रियो वैश्यास्तथा शूद्रा ये चान्ये पापयोनयः ।
इत्यादिस्मृतेरधिकार एवावसीयते ।
तस्माद् यथा स एव विशिष्टः स्वर्गो वैदिकयागाद्यनधिकृतेनापि उपायान्तरेण त्रैवर्णिकशुश्रूषादिना साध्यते, तथोपायान्तेणानुमानादिना यद्यात्माधिगमः क्रियते शूद्रेणापि, तदा कीदृशो दोषः? सत्यम्, किं त्वनुमानमप्यागमाविरोधेनानुसन्धीयमानमथनिश्चायकम्, नतु तद्विरुद्धमपि ।
यदाह--यत्तु प्रत्यक्षागमविरुद्धं न्यायाभासः सः इति ।
स चागमाविरोधादविरोधनिश्चयः तदर्थनिश्चयाधीनः ।
तत्र चानधिकृत एवायं शूद्राति ।
तन्निरपेक्षस्तु अनुमानमात्रशरणो नरशिरःपावित्र्यादिवदनर्थमेव समासादयेत् ।
तस्मादागमैकवाक्यतया प्रवृत्ते शास्त्रे तदधिकार्येवाधिकारीति शूद्रादयो ऽनधिकृता इव ।
अतो यावदधिकारिपरो ऽयं जगच्छब्द इति केचित् ।
तत्राह--परमकारूणिको हीति ।
सन्त्येव हि केचित् करुणामृदुमनसो येषां जगदेव मित्रम् ।
अन्यथा भूतेवो ऽभयं दत्त्वेति विधिवैयर्थ्यप्रसङ्गः ।
निष्कारणमेव परदुःखप्रहाणेच्छा कारुण्यम् ।
सा च यथैकं दुःखित पश्यतो भवति, तथा जगदेव दुःखित पश्यतः किं न स्यात्? भवति चेत्--तत्प्रहाणोपायप्रवृत्तौ का नामानुपपत्तिः? ननु
करुणार्द्रहृदयो ऽप्यं व्युत्पिसुमेव व्युत्पादयेन्न तु विपरीतम्, न हि बधिरेषु गायनो गायतीत्यत आह--तत्र यदि न कश्चिदिति ।
न हि रोगी मन्दभाग्यतया चरकाद्युपदेशे न प्रवर्तत इति तदर्थता तस्य निवर्तत इत्यर्थः ॥
नन्वनधिकृतव्युत्पादने प्रत्यवायमात्रकमपश्यन्नयं कथमवधेयवचनः स्यात्, पश्यन् वा न प्रवर्तेत? कारुणिकतया पश्यन्नपि प्रवर्तते चेत्, प्रमादी स्यात् ।
तथा च परलोकादबिभ्यतो ऽस्य वचने कः श्रद्धास्यतीत्यत आह--न चेति ।
यद्यपि प्रहीनमोहत्वादेवास्य पापपुण्ययोरुत्पत्तिरेव नास्ति, वक्ष्यति हि
न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्येति ।
तथापि क्लेशहानेर्दुरूहत्वात् प्रत्यवायोत्पत्तिमभ्युपगम्य तदभावाय तपःप्रभाव उक्तः ।
नन्वेवमपि प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ।
इत्यत आह--तथा चेति ।
न हि गाः पङ्कमग्नाः पङ्कप्रलेपभयादनुकम्पापरवशाः समर्था नोद्धरन्ति ।
अपि तूद्धृत्य पड्कं प्रक्षालयन्तीत्यर्थः ।
ननु यद्यनधिकृतः कथं फलभागी, तथा चेत् कथमनधिकृत इत्यभिसन्धायोक्तं प्रपञ्चयति--तपःप्रभाव एव हीति ।
यथा हि तेषां तपःप्रभावादेवंविधाः पाप्मानो विलीयन्ते, तथा तपःप्रभावादेव सत्यसंकल्पतया अनधिकारिणो ऽपि फलभागिन इति न कश्चिद् विरोधः ।

न च फलापेक्षया तेषामनधिकारः ।
किं तर्हि? कर्मापेक्षया ।
अनधिकृतेन तु कृतं कर्म विगुणं सन्न फलांय पर्याप्तमित्यपि न, विशिष्टयाजकसाद्गुण्यादेव तस्य परिपूर्णत्वात् ।
याजक एव त्वयाज्यं याजयन् प्रत्यवायमासादयेत्, राज्ञः प्रतिगृह्णन्निव विद्वान् ।
स च तीव्रतदेण तपसैव विलीयत इत्यर्थः ।
तर्हि महाजनो येन गतः स पन्थाः ।
इति न्यायेन वयमप्यनधिकृतान् व्युत्पादयाम इत्यत आह--न चेति ।
ननु कुतार्किकाणामज्ञानं निवर्तयता किमनेन शास्त्रस्योपकृतं स्यादित्याह--कुतार्किकैरिति ।
अज्ञानमसम्यग्ज्ञानम् ॥
इह कर्मारम्भे प्रारब्धस्यान्तरायविरहेण परिसमाप्ति कामयमाना अभीष्टदेवता नमस्कारपूर्वकं प्रेक्षावन्तः प्रवर्तन्ते ।
दृश्यते च तत्र तत्र बहुशों व्यभिचारः कृतनमस्कारस्यापि समीहितासिद्धेः, विपरीतस्यापि समीहितसिद्धः,
विपरीतस्यापि समीहितासिद्धेः ।
न चात्र वृष्टिकामः कारीरी निर्वपेत् ।
इतिवत् प्रारब्धपरिसमाप्तिकामो देवतां नमस्कुर्यादिति श्रुतिरस्ति, येन व्यभिचोरे ऽपि कर्मकर्तृसाधनवैगुण्यं कल्पयामः ।
तस्मादर् थकाम इह वटे प्रतिवसन्तं यक्षं पूजयेदितिव दप्रामाणिकप्रसिद्धिविजृम्भितमेतदित्यभिसन्धाय किमु न कृतो वात्तिककृता इष्टदेवतानमस्कार इत्यत आह--अविगीतेति ।
प्रत्यक्षमिवाविगीतशिष्टाचारो ऽपि श्रुतिसद्भावे प्रमाणमेव, निर्मूलस्य च शिष्टाचारस्यासम्भवात् ।
अप्रमाणमूलकस्य च प्रामाणिकविगानविरहानुपपत्तेः ।
तथा च सत्यभावः कर्मकर्तृसाधनवैगुण्यमवलम्बते ।
असति च भावो जन्मान्तरीयसुकृतसंपत्तिम् ।
अन्वयव्यतिरेकाभावदर्शनं त्वागमेतरप्रमाणगोचरं कार्यकारणभावमपाकरोतीत्यर्थः ।
यद्यवं किमनेन न कृत इत्यत आह--परमेति ।
यदि कृतः तत् किमिन्द्रलुप्तेन गतः, येन न दृश्यत इत्यत आह--न निवेशित इति ।
अत्रैव दृष्टान्तो न खल्विति ।
न खल्विष्टदेवतानमस्कारवत् तन्निवेशनमपि क्वचिदुपयुज्यत इत्यर्थः ।
नन्वेवंभूतं शिष्टाचारं शिष्या अपि ग्राहयितव्याः ।
न च तन्निवेशनव्यतिरेकेण ते ग्राहिताः स्युरित्यत आह--मङ्गल्यान्तर वदिति ॥
तत्रेति ।
शास्त्रे व्याख्यातव्ये ।
ननु दण्डकसूत्रस्यानुवादो नास्तीत्यत उक्तं संक्षेपत इति ।
नन्वादिसूत्रत्वमस्य सुप्रसिद्धमेव, अभिसंबन्धवाक्यत्वात्, तत्किमनेन उदीरितेनेत्यत आह--आदिग्रहणेनेति ।
ननु शास्त्रनिःश्रेयसयोरनेन संबन्धो वर्ण्यते, ततः संबन्धवाक्यमिदमिति युक्तम्, अभिस्तु किमर्थमित्यत आह--अभिमत इति ।
अस्ति हि शास्त्रनिःश्रेयसयोर्वाच्यवायकभावलक्षणो ऽपि संबन्धः, न चासाविहाभिम्तः, प्रेक्षावत्प्रवृत्त्यनङ्गत्वात् ।
न हि वाचकाद् वाच्यप्रतीतेर्वाच्यस्य निष्पत्तिः, यतो मुमुक्षुर्वाचके प्रवर्तताम् ।
उपाये तूपेयार्थो प्रवर्तते ।
तेन हेतुहेतुमद्भाव एव विवक्षित इत्यर्थः ।
ननु नात्र शास्त्रम्, तस्य निःश्रेयसहेतुत्वं वा श्रूयत इत्यत आह--प्रमाणादीति ।
रूढपदातिक्रमे किं तात्पर्यमित्यत आह--न हीति ।
यद्यपि शिष्यते अनुशिष्यते प्रमाणादिकमनेनेति शास्त्रमिति व्युत्पत्त्या अत्रापि कारणता गम्यते, तथापि शासकसंबद्धव्यापारवत्तया, न तु शिष्यसंबद्धव्यापारवत्तया ।
सा चेह विवक्षिता ।
अन्यथा प्रमाणादीनि तत्त्वतो ज्ञात्वापि तावन्न मुच्यते

यावन्नानुशिष्यादिति ।
तदिदमुक्तम्--पदार्थतत्त्वावगमकरणतयेति न स्वरूपेणेति च ।
ननु हेतुत्वकरणत्वे न विषयभेदेन भवितुमर्हत इत्यत आह--तेनेति ॥
उभयोरपि हेतुः शास्त्रं करणं च ।
किं तु पदार्थतत्त्वे ज्ञापकतया निःश्रेयसे तद्व्यापारवतः करणतयेत्यर्थः ।
तदिदमुक्तम्--तथा चेति ।
एवं च सति शास्त्रस्य निःश्रेयसे कर्त्तव्ये पदार्थतत्त्वज्ञानस्य निरूक्तिबलेन व्यापारत्वे दर्शिते व्यापारव्यापारिणोः कार्यकारणभावः ।
तथा व्यापारवता शास्त्रेण व्यापारविषयस्य प्रमाणादेः प्रतिपाद्यप्रतिपादकभावः ।
तथा व्यापारविषयेण प्रमाणादिना व्यापारस्य तत्त्वज्ञानस्य विषयविषयीभावः ।
तथा व्यापारेण तत्त्वज्ञानेन व्यापारुलस्य निःश्रेयसस्य कार्यकारणभावः ।
तथा व्यापारविषयफलयोर्हेतुहेतुमद्भावः संबन्ध सूचितो नान्तरीयकत्वात् ।
न ह्यतद्धेतुकस्तद्वचापारो नाम, नाप्यतत्कर्म तद्वचापारविषयः, नापि तत्फलाननुगुणस्तद्वचापारः, तद्वचापारविषयो वेति पज्चसु वक्तव्येषु उपलक्षणार्थं द्वयमाह--शास्त्रप्रमाणादिति ।
एनमेव व्युत्पत्तिलभ्यं व्यापारमभिप्रेत्य तत्त्वस्य ज्ञानमिति कर्मणि षष्ठी
भाष्यकारेण दर्शितेति न करणव्युत्पत्तिर्विरूद्धा ॥
ननु शिष्याचार्यशास्त्रतद्व्याख्यानानामपि संबन्धाः कैश्चित् समानतान्त्रिकैः प्रदर्शिताः ।
ते कस्मान्न प्रदर्श्यन्ते इत्यत आह--तदिदमभिधेयेति ।
न ह्रास्तीत्येतावन्मात्रेणैव प्रदर्शनीयम् ।
किं नाम? यावत्यप्रतिपादिते प्रेक्षावत्प्रवृत्तिर्न स्यात्, तावत् प्रदर्श्यते ।
न च शिष्याचार्यादिसंबन्धाः प्रेक्षावत्प्रवृत्त्यङ्गम्, तेषां प्रवृत्तिफलत्वात् ।
प्रवृत्त्युत्तरकालं हि शिष्यः प्रतिपाद्यः, प्रतिपादकश्चाचार्यः, शास्त्रं व्याख्येयम्, व्याख्याता च स इत्यादि सिध्यति ।
न च शास्त्राचार्यादीनां स्वरूपप्रतिपादनमप्युपयुज्यते, प्रमाणान्तरसिद्धत्वात् ।
तस्मात् प्रयोजनमभिधयं तयोः संबन्धो ऽभिधेयस्तद्द्वारा शास्त्रस्य प्रयोजनेन संबन्ध इत्येतदर्थत्वेमे प्रथमसूत्रस्य न्याय्यमित्यर्थः ।
ननु यस्य मिथ्याज्ञानं संसारं प्रतनोति तस्यैव तत्त्वज्ञानं निःश्रेयसहेतुः, आत्मा च तथा, तदन्येषां तु शास्त्राभिधेयानामपि न निःश्रेयसहेतुत्वम् ।
तथा च न निःश्रेयससंबन्धः इत्यत आह--यत्पदार्थेति ॥
ननु प्रमाणादिपदार्थतत्त्वज्ञानस्य यदि निःश्रेयसहेतुता शास्त्रप्रवृत्तेः पूर्वमेव प्रमाणसिद्धा निष्प्रयोजनं शास्त्रे प्रयोजनाभिधानम्, मानान्तरसिद्धे उपदेशानपेक्षणात् ।
अथेत एव तन्निश्चयो दुस्त्तरमितरेतराश्रयत्वम् ।
प्रवृत्तो हि प्रयोजनं निश्चिनुयात् ।
निश्चितप्रयोजनश्च प्रवर्तेत ।
न च प्रवृत्तेः प्रागेव मुनिवचनान्निश्चिनोति, प्रथमसूत्र एव प्रयोजनानिश्चयेन प्रवृत्त्यनुपपत्तेः ।
तत्रापि च प्रवृत्त्यर्थं प्रयोजनान्तराभिधाने ऽनवस्था ।
तदनिश्वये ऽप्याद्या प्रवृत्तिश्चेत्, उत्तरोत्तरप्रवृत्तावपि तथात्वप्रसङ्गः ।
तस्मात् प्रयोजनाद्यभिधानमनर्थकमिति केचित् ।
तदनुपपन्नम् ।
त्रिधा हि पुंसां चित्तवृत्तयः, अनुभव इच्छा प्रयत्नश्चेति ।
तत्रानुभवो नेच्छामनुविधत्ते, अनिष्टस्याप्युपलब्धेः ।
इच्छा तु पुरुषार्थे स्वरसोत्थिता, तत्साधने च तथात्वानुमानोत्थाप्या ।
प्रयत्नस्तु साधनविषय एव ।
तत्र साधनगोचराविच्छप्रयत्नौ ।
आद्या प्रवृत्तिरित्युच्यते, न त्वनुभवः ।
फलगोचरा वा इच्छा प्रवृत्तिः, चेन तयोरपि प्रयोजननिश्चयापेक्षा स्यात् ।

न
ह्युपेक्षणीयं निष्प्रयोजनमिति नानुभूयते ।
नापि सुखं प्रयोजनान्तरशून्यकिति नेष्यते ।
नापि मुमुक्षुणानपेक्षिते स्वर्गे यागादिकं तत्साधनतया नानुभूयते ।
पुरुषार्थसाधने त्विच्छालक्षणा वा प्रयत्नलक्षणा वा प्रवृत्तिर्न स्वरससिद्धा ।
न हि कश्चित् क्षुधी दुःखप्रहाणं तृप्तिसौहित्यसुख वा अननुसंधायान्नमत्तुमिच्छति प्रयतते वा ।
तस्माद् यत्र यः प्रवर्तयितव्यः स तत्साध्यमर्थं दशयित्वा, यतश्च यो निवर्तयितव्यः स तत्साध्यमनर्थं दर्शयित्वेति ।
उक्तं प्रचोजनादिकम् ।
तत्तु श्रोता कथं श्रद्धास्यति, अश्रद्दधानो वा कथं प्रवर्त्स्यतीत्यवशिष्यते ।
तत्राह--विनिश्चितेति ।
यद्यपि मुनेराप्तत्वावधारणे प्रयोजनानभिधाने ऽपि प्रयोजनसामान्यनिश्चयो भवत्येव प्रयोजनवदिदं शास्त्रमाप्तोक्तत्वादिति , तथापि नासौ प्रवृत्त्यङ्गम् ।
न हि प्रयोजनवदित्येव प्रवर्तते ।
किं तर्हि? अस्मदपेक्षितप्रयोजनवदिदमिति कृत्वा ।
स च प्रयोजनविशेषो वचनादेवावसीयत इति सार्थकमेतदभिधानम् ।
तदिदमुक्तम्--प्रयोजनादि विनिश्चित्य ।
विशेषत इति शेषः ।
विनिश्चयश्च शास्त्रोपायकमेवेदं निःश्रेयसमित्याकारो न त्ववश्यंभाविप्रयोजनाकारः, कृष्यादाववग्रहादिवदत्राप्यन्तरायसंभवात् ।
तदिदं प्रयोजनस्य प्रवर्तकत्वमुद्देश्यतया, न तु प्रवृत्तिविषयतया ।
तेन नेष्टाभ्युपायताविधिविरोधः ॥
ननु मुनेराप्तत्वानिश्चये किं तद्वचने प्रवृत्तिर्नास्त्येव? तथा सति तस्याप्तत्वनिश्चयो ऽपि कथमित्यत
आह--आप्तत्वानिश्चये त्वर्थसंशयात् ।
शास्त्रसाध्यतयेति शेषः ।
ननु संशयानस्य कथं प्रेक्षावतः प्रवृत्तिरित्य आह--न खल्विति ।
यद्यपि च सस्याधिगमस्य कृष्यादिसाध्यतया संशयो नास्ति, तथापि भविष्यत्तया अस्त्येव ।
तथापि
तमुद्दिश्य प्रेक्षावन्तः प्रवर्तन्ते ।
यथा च तत्र शतैकांशिकः फलाभावः फलकोटिस्तूत्कटा तथात्रापि ।
न हीन्द्रियापातजो ऽयं संशयः ।
किं नाम? आप्तत्वाविनिश्चयहेतुकाप्रामाण्यशड्क्या समाकृष्टः ।
वस्तुतस्तु सूत्रात् प्रयोजनादिनिश्चयाकारमेव विज्ञानमित्यर्थः ।
ननु संशयः प्रयोजनादिवाक्याभावे ऽपि सुलभः, विशेषस्मृतिस्तु अर्थित्वविशेषात् भविष्यतीत्याह--न चेति ।
यद्वचनेन हि यः प्रवर्तते स तद्वचनादेव विशेषस्मृतिमपेक्षते, न स्वातन्त्र्येण ।
न हि रोगार्तो ममेदं रोगनिवृत्तिसाधनं भवेन्न वेति यत्र तत्रोच्छृड्खलः स्वयमुत्प्रेक्ष्य प्रवर्तते ।
किं नाम? अनवधृताप्तत्वस्यापि वैद्यस्यैव वचनात् ।
अन्यथा त्वयं प्रयोजनाभिधानमनधिगच्छन् अनर्थमप्याशङ्केत, किं निष्प्रयोजनमिदं काकदन्तपरीक्षाग्रन्थवत्, उताशक्यसाधनप्रयोजनं मृत्युहरहिममहीधरोत्तरसानुसिद्धसंजीवनीकथनवत्, अथानभिमतप्रयोजनमार्यावर्तनिवासिनं प्रति दाक्षिणात्यस्य मातुलकन्यकापरिणयप्रक्रमोपदेशवत्, अथाभिमतस्यापि शक्यस्यापि प्रयोजनस्य लघीयस्युपायान्तरे सत्यपि गुरुरयमुपायः पिपासुं प्रति गीर्वाणतरड्गिणीतीरसमीपकूपखननोपदेशवत् ।
एतासु चानर्थसंभावनासु न प्रवर्तते ।
न च प्रयोजनाभिधाने ऽप्येतासामवकाशः, लोकव्यवहारोच्छेदप्रसङ्गात् ।
न हि कश्चिद् वैद्यवचनादेव माशड्क्य निवर्तते यथा
स्वयमुत्प्रेक्ष्येति भावः ।
तदनर्थकं निष्प्रयोजनमित्यर्थः ।

अशक्यानुष्ठानत्वमुपायस्यासिद्धमित्यत आह--तथा हीति ।
इह द्विविधः प्रमाणशब्दस्यार्थः--प्रमीयते ऽनेनेति च प्रमाणम्, प्रमितिः प्रमाणमिति ।
च ।
तत्र प्रथममधिकृत्योक्तम्--प्रमेयादीनां तत्त्वज्ञानं प्रमाणतत्त्वज्ञानाधीनमिति ॥
नन्विदिन्द्रयादीनामज्ञायमानानामेव स्वविषयपरिच्छेदजनकत्वं पश्यन्नपि कथमेवं ब्रूयादित्यत आह--न हीति ।
प्रमाणत्वेनाज्ञायमानं प्रमाणं स्वविषयं परिच्छिनत्ति, न त्ववधारयति ।
तच्चेह विवक्षितमित्यर्थः ।
किमिति नावधारयति? न हिन्द्रियमज्ञायमानमनिश्चयाकारमेव ज्ञानं जनयतीत्यत आह--तावन्मात्रस्येति ।
यद्यपि निश्चयाकारमेव ज्ञानमाधत्ते तथापि तथाभूतस्यैव भूयो भूयः प्रमेयविरहोलब्धेर्विशेषानुपलब्धेश्च संदेहस्तदवस्कन्दतीत्यर्थः ।
तत्किं क्वचिदप्यवधारणं नास्त्येव? तथा सति तोयमेवेदमित्यादिको लौकिकः प्रत्ययः, तथा पूर्वपक्षिणः क्वचिदपि विनिश्चयो नास्त्येवेत्यादिकश्चाभिमानो विरुद्ध्येतेत्यत आह--अपि त्विति ।
यदि क्वचित् प्रमेयतत्त्वावधारणं परमार्थः, तदा प्रमाणतत्त्वावधारणद्वारेणैव ।
प्रमारान्तरेण तु भवन्न पारमार्थिकमित्यर्थः ।
बोधकत्वं बोधजनकत्वं बोधजननावच्छिन्ना सत्तेति यावत् ।
अव्यभिचारित्वमविपरीतानुभवजनकत्वमविपरीतानुभवजननावच्छि न्ना सत्तेति यावत् ।
एवं चोपधिद्वयावच्छिन्नायाः सत्ताया उपाधिभेदाद् भिन्नाया इवैकस्मिन्नर्थे समवायः कृतकत्वानित्यत्वयोरिव न विरुद्धः ।
तेनाव्यभिचारित्वेन ज्ञायमानेनेति शेषः ।
प्रमाण्यावधारणं तर्हि क्कोपयुज्यत इत्यत आह--तदेव हीति ॥
प्रमाणं हि प्रमाकरणम् ।
न च करणत्वादयः सामान्यविशेषाः सन्ति ।
सामान्यसंकरप्रसङ्गात् ।
किं नाम? साधकतमत्वमेव करणत्वम् ।
तद्विशेषकस्तु क्रियाविशेष एव ।
स चात्र प्रमालक्षणः ।
प्रमा चाविपरीतोपलब्धिः ।
अतो ऽविपरीतानुभवजनकत्वलक्षणमव्यभिचारित्वमेव प्रामाण्यमित्यर्थः ।
यद्येवं तदवधारणपूर्वकमेव प्रमेयाद्यवधारणमस्त्वित्यत आह--तच्चेति ।
प्रमाकरणत्वं हि नानवधारितायां प्रमायामवधारयितुं शक्यमित्यर्थः ।
तर्हि प्रमात्वमेवावधार्यताम्, न हि तदप्यौपाधिकं येनोपाध्यनवधारणे नैवावधार्येतेत्यत आह--तथा हीति ।
विज्ञानस्य प्रमायाः ।
प्रामाण्यं प्रमात्वम् ।
स्वतो वेत्यस्य स्वात्मना वा स्वग्राहकेण वेत्यर्थः ।
तत्र प्रथमं दूषयति--न खल्विति ।
धर्मधर्मिणोरभेदपक्षे अनात्मसंवेदनमित्येतदेव दूषणम् ।
आनात्मसंवेदनता चोपपादयिष्यत इति हृदयम् ।
भेदपक्षे प्रागेवेति ।
यो हि यद् गृह्णाति स तद्धर्ममपि गृह्णीयादिति संभाव्येतापि ।
यस्तु धर्मिणमेव नाकलयति, तस्य धर्मग्रहणवार्तापि क्व? यद्यपि च शब्दगन्धादयो व्योमभूम्याद्यग्रहे ऽपि गृह्यन्ते, तथापि न तद्धर्मतयेत्यर्थः ।
स्वग्राहकेण वेति दूषयति--नापीति ।
तद्धि मानसं वा स्यात् लैड्गिकं वा? उभयमपि मनसो ज्ञाततालक्षणात् लिङ्गाद् वा अविशिष्टात् जायमानं कथमिव तदाभासविशिष्टं गृह्णीयत्? विषयविशेषात् तु तथात्वे अप्रमाण्यस्यापि स्वत एव ग्रहणप्रसङ्गात्, तत्रापि विषयवैशिष्टचस्य सत्त्वात् ।
प्रमायाः प्रायिकतया तद्वासनायाः समुत्कटत्वादप्रमापि समुत्कटत्वादप्रमापि प्रमेत्येव गृह्यते ।

ततो बाधकाधीनमेवाप्रामाण्यमासंजितरजततायामिव
शुक्तिकायां शुक्तिकात्वमिति यदि तथाप्यासंजकस्यापि यद्यासंजकत्वमवगतं कथं न स्वतो ऽप्रामाण्यग्रहणप्रसङ्गः? तत्रापि प्रामाण्यारोपे तु कथं नानवस्था? न च कृत्रिमं रूपमपरिभूय ग्रहणं ग्रहणामित्युच्यते, संशयेनाभिभूतत्वात्
मायालिड्गिनि झटिति परिव्राजकबुद्धिवत् ।
तस्मात् ज्ञानं गृह्यत एवेत्येव न ।
यदि तु दैवाद् गृह्यते, तदा ज्ञानमित्येव; न तु प्रमाणमप्रमाणं वेत्यर्थः ॥
ननु यदि स्वीयात् स्वत इति न निर्वहति, वक्ष्यमाणेन च न्यायेन नापि परतः, अस्ति चायं प्रमाणाप्रमाणप्रविभागव्यवहारो निःशङ्कः ।
ततः स्वसंवेदननय एवास्तु ।
तेन ह्ययं निर्वहेत् ।
न हि तत्र किञ्चिदनवस्थादिकं पश्याम इत्यत आह--एतेनेति ।
स्वसंवेदननयो हि न तावत् प्रमाणसिद्धः ।
कदाचित् प्रमाणव्यवहारसौष्ठवात् स्वीक्रियेतापि यद्ययं तेन निर्वहेत्, न त्वेतदस्ति ।
यथा हि प्रमाणं स्वात्मानं गृह्णत् प्रामाण्यमपि गृह्णाति तथा तदाभासमपि तदाभासत्व गृह्णीयात् ।
तथा च सर्वमिथ्याज्ञानात् अप्रवृत्तिप्रसङ्गस्तदवस्थः ।
न च तत्रापि प्रमाण्यारोपात् प्रवृत्तिः, स्वात्मभूतस्याप्रमाण्यस्य स्वसवेदनतया ग्रहणे समारोपासंभावात् ।
अग्रहणे वा स्वसंवेदननयानुपपत्तेः ।
धर्मधर्मिणोर्भेदात् स्वरूपग्रहणे ऽपि नाप्रामाण्यरूपधर्मग्रहणमिति यदि, तदा प्रामाण्यस्याप्यग्रहणं स्यात् ।
तस्मात् स्वसंवेदननये ऽपि स्वरूपवेदनमात्रं स्यात् ।
न तु प्रामाण्यादिवेदनमित्यर्थः ॥
परतो वेति दूषयति--नापीति ।
तद्गोचरं तद्गोचरगोचरं मध्यपदलोपात् ।
प्रात्यक्षिके च वह्निज्ञाने प्रात्यक्षिकमेव वह्निज्ञानान्तरमिति यावत् ।
तच्च द्विविधम्, समानेन्द्रियजमिन्द्रियान्तरजं च ।
एवमनुमाने ऽपि अनुमानज्ञानान्तरं तल्लिङ्गजं
लिङ्गान्तरजं च ।
एवं शाब्दे ऽपि शाब्दज्ञानानन्तरं तदाप्तशब्दजमाप्तान्तरशब्दजं चेति समानजातीयसंवादो दर्शितः ।
अर्थक्रियेत्यादिना कार्यलिङ्गकं तद्गोचरेत्यादिना चाकार्यकारणलिङ्गकमनुमानत्रयं विजाजीयसंवादरूपं दर्शितम्, उपलक्षणं चैतत् ।
आप्तोपदेशजमपि संवादकं ज्ञानं भवत्येव ज्ञानं भवत्येव ।
सो ऽयं प्रमाण्ये निश्चेतव्ये संवादो यद्यपि व्यधिकरणस्तथप्यर्थतथात्वमव धारयन्नर्थवत्त्वं प्रवर्तकस्याप्यवधारयतीत्येतावता तथैवोपवर्णितः ।
दूषयति--तच्च सर्वमिति ।
एवं प्रमात्वस्य दुरधिगमत्वमापाद्य तदायत्तावधारणे प्रमाणानां प्रमाणत्वे योजयति--यदा चेति ।
ननु यदि प्रामाण्यावधारणेनैवप्रवृत्तिः, तदा सैव सार्वलौकिकी स्वत इत्यादिविकल्पान् फल्गूकरिष्यति ।
अथ तदवधारणव्यतिरेकेणापि प्रवृत्तिरप्रत्यूहा तदा मावधारि प्रामाण्यम्, किं नश्छिन्नमित्यत आह--तदेवमिति ।
वैदिकं व्यवहारमधिकृत्य चेदं शास्त्रं प्रवृत्तम्, न लौकिकमित्यभिसन्धिः ।
प्रकृते योजयति--तस्मादिति ।
ननु नित्ययोगे मतुबिति दुर्घटम्, प्रमाणार्थयोरेवानित्यत्वात्, परस्परसमवायभावाच्चेत्यत आह--नित्यता चेति ।
नन्वव्यभिचारो ऽपि व्याप्यव्यापकभावलक्षणः प्रमाणप्रमेययोर्नास्तीत्यत आह--इयमेव चेति ।
सो ऽयमविसंवदादो विसंवादाभावो ऽव्यभिचारलक्षणम् ।
अव्यभिचारस्वरूपं तु लक्ष्यभूतं भूतार्थपरिच्छेदकत्वम्, लक्ष्यलक्षणयोरभिन्नाश्रयत्वात् ।
अव्यभिचारस्वरूपं तु लक्ष्यभूतं भूतार्थपरिच्छेदकत्वम्, लक्ष्यलक्षणयोरभिन्नाश्रयत्वात्
सामानाधिकरण्यमिति मन्तव्यम् ।

यद्यपि देशावस्थाभेदे कालभेदो ऽप्यर्थसिद्धस्तथापि यथाकथञ्चित् कालभेदमात्रं विवक्षितमत्रेति ज्ञापनार्थं तद्ग्रहणम् ।
तथा हि दूरस्थे स्थाणौ पुरुषर्पत्ययस्य कालान्तरे ऽपि विसंवादो नास्ति यावत्
न प्रतिपत्ता निकटस्थो भवति ।
प्रत्येतव्य एव वा यावन्न नेदिष्ठः स्यात् ।
एवं स्वप्नावस्थायाम् अर्थप्रत्ययस्य कालभेदे ऽपि तावन्न विसंवादो यावन्न जागरावस्थानुभवः ।
न च वाच्यमेवं सति किं कालभेदग्रहणेनेति, देशावस्थयोरभेदे ऽपि कालक्रमेणापि क्वचिद् विसंवाददर्शनाद् यथा सुनिपुणनिभालनादापातजातस्य कामातुरकामिनीज्ञानस्य भेदे ऽपि क्वचित् कालान्तरे विसंवादात् तदुपग्रहः ।
तदनेनेन्द्रियादीनां कालक्रमभाविनः सहकारिभेदाः स्फुटतरप्रतीतिहेतवः सर्व एव संगृहीताः ।
यद्यपि च प्रमारविषयावेव विसंवादाविसंवादौ संभवव्यभिचारलक्षणौ तथाप्यविसंवादस्य ध्रुवविषयत्वप्रतिपादनार्थं स्वरूपग्रहणं सर्वस्य ज्ञानस्य धर्मिण्यविसंवादादिति ॥
प्रवृत्तिसामर्थ्यादिति व्यधिकारणो हेतुरतस्तदर्थमाह--समर्थप्रवृत्तिजनकत्वादिति ।
यद्यपि समर्थप्रवृत्ति त्वादित्युक्तेसमञ्जसं तथापि प्रवृत्तिर्यस्येति सम्बन्धे षष्ठी ।
स च प्रमाणप्रवृत्त्योर्जन्यजनकभाव एवेति स एव
दर्शितः ।
ननु न तावत् प्रमाण्यसमर्थप्रवृत्ति जनकत्वयोरविनाभावः प्रत्यक्षेण शक्यग्रहः, तयोरेवाप्रत्यक्षत्वात् ।
प्रामाण्यं हि समर्थप्रवृत्तिजनकत्वानुमेयम् ।
तच्चान्वयव्यतिरेकानुमेयमेवेति ।
नाप्यनुमानेनान्वयग्रहः ।
प्रामाण्यस्य
क्वचिदप्यसिद्धेः ।
सिद्धौ वा किमनुमानेन, अनुमानन्तरसिद्धत्वे त्वनवस्थैवेत्यत आह--यदि पुनरिति ॥
अत्र चोपेक्षाज्ञानानां पक्षत्वेनानुपादानान्न भागासिद्धिः ।
व्यतिरेकी च सर्वत्र सपक्षाभावमभ्युपेत्य प्रवर्तत इति
नासाधरणानैकान्तिकता ।
न च वाच्यम् एतस्यैवानुमानस्यार्थवत्त्वानवधारणे कथं प्रमाणानामर्थवत्त्वसिद्धिः? तदवधारणे वा कथं केवलव्यतिरेकित्वमिति? द्विविधं ह्यनुमानस्यार्थवत्त्वम्, अविनाभावलक्षणं प्रमाजननलक्षणं च ।
तत्र स्वविषयपरिच्छेदे कर्तव्ये अविनाभावावधारणमेवापेक्षते न प्रमाकरणत्वावधारणमित्यनवघृतप्रामाण्येनैवानेन प्रमाणानां प्रमाणफलत्वलक्षणं प्रामाण्यं साध्यत इति सर्वं सुन्दरम् ॥
एतेनैतदपि निरस्तम् यत् प्रामाण्यानवधारणे अप्रामाण्यानवधारणमपि कथम्? प्रामाण्यनिश्चयेन हि तत् निश्चीयते ।
तदनवधारणे तु व्यतिरेकनिश्चयो ऽपि कथम्, विपक्षस्य तथात्वानिश्चयादिति? स्वरूपतो धर्मतश्चानवधारितेनैव सता प्रमाणेन स्वविषयनिश्चयसिद्धेः ।
ननु नास्त्येवासौ वादी यः प्रामाण्यानिश्चये ऽपि विप्रतिपद्येत ।
न हि प्रामाण्यं स्वीकृत्य तन्निश्चये विप्रतिपत्तिः, स्वीकारस्य निश्चयमूलत्वात् ।
न चास्वीकृत्य, प्रमाणशून्यविप्रतिपत्तेः सर्वत्र सुलभतया सर्ववादविधिनिषेधव्यवहारविलोपप्रसङ्गात् ।
अनिश्चिते च प्रामाण्ये तदतद्रूपसंदेहो ऽपि क्वचिद् दुर्लभः, विशेषस्मृतेरभावात् तत्पूर्वकत्वाच्च सर्वसंशयानाम् ।
नापि सर्वत्राप्रामाण्यासञ्जनम्, प्रामाण्यग्रहणोपायनिराकरणस्याप्रामाण्ये ऽपि तुल्यत्वात् ।
विकल्पनिर्मितमविचारमनोहरं प्रामाण्यादिकमादायापि नास्य दुर्विचारस्य निर्वाहः ।
प्रामाण्यानभ्युपगमे विकल्पनिर्माणस्याप्यसिद्धेः ।
न च विकल्पनिर्मिते न संशयादिव्यवहारः समस्ति ।
नहि वाजिविषाणं वेति कश्चित् सन्दिग्धे, नापि नरविषाणमिति कस्यचिद् विपर्ययः ।
तस्मादस्ति प्रामाण्यादिकं तन्निश्चयश्च ।
तदुपायस्तु चिन्तामर्हति ।
एवं चान्वयो ऽस्त्येव ।
तत् कथं केवलव्यतिरेक्यनुमानम् इत्याशड्क्य संप्रतिपत्तिरूत्तरम्--अन्वयव्यतिरेकी वेति ।
केवलव्यतिरेकिवादस्तु अन्वयानभ्युपगमेन कृत इत्यभिसन्धिः ।

अनुमानस्येत्युपलक्षणम् ।
स्वत इति च तदितरस्यापि, स्वतः परतश्च प्रामाण्यसिद्धेरिति ॥
ननु समर्थप्रवृत्तिजनकत्वादित्येतावतैव साध्यसिद्धेः प्रमाणतोर्ऽथप्रतिपत्तावित्यसमर्थविशेषणं वयधिकरण चेत्यत आह--प्रवृत्तिजनकत्वं त्विति ।
प्रामाण्याद्यभिधानद्वारा हि शास्त्रस्य निःश्रेयसेन संगतिः, न तु स्वरूपेण ।
ततो यथा प्रमाणादितत्त्वज्ञानं साध्यतया प्रयोजनं प्रतिज्ञायते तथा प्रमाणाद्यभिधेयतयापि प्रतिज्ञेयं भवति ।
यथा अथातो धर्म व्याख्यास्यामः (वै.सू.1.1.1) इति धर्मस्य व्याख्येयत्वेनैव प्रतिज्ञा समानतन्त्रे न च तदभिधेयताप्रतिज्ञानमत्र ।
तस्मादभिधेयत्त्वाप्रतिज्ञानान्न प्रमाणादयः शास्त्रेणाभिधीयन्त इति श्रोतृबुद्धचनुरोधेनाशड्क्य सूत्रकारहृदयानुरोधेन वार्त्तिकमुत्तरयतिस्यादेतदिति ॥
शिष्याकाङ्क्षाक्रमेण हि शास्त्रमिदं प्रवृत्तम्, अनपेक्षिताभिधाने अनवधेयत्वप्रसङ्गात् ।
न च शिष्याकाङ्क्षा किं वक्ष्यति भवानिति ।
किं तु निःश्रेयसं कुतो ऽधिगम्यत इति ।
तत्रोत्तरम्--प्रमाणादितत्त्वज्ञानान्निःश्रेयसाधिगम इति ।
ततः कथमिति? ततः के, कति, किंलक्षणाः प्रमाणादयः इति ।
तत्रोद्देशविभागलक्षणानीति ।
ततः कथमिति? तत्र द्वितीयाध्यायादीति ।
एतच्च सर्वमनुभवसिद्धम् ।
नात्रापि वचनापेक्षा ।
उक्ताबोद्धारं प्रति तु व्याख्यातारो भवन्ति, यत
एवमयमाहेति ।
तदनुभवसिद्धमपि प्रमाणाद्यभिधायकत्वं यः कुतश्चिद् व्यामोहान्न प्रतिपद्यते तं प्रति व्याख्याता शास्त्रस्य पुरुषश्रेयो ऽभिधायकत्वादित्याहेत्यर्थः ॥
ननु श्रेयो ऽभिधानमात्रेणापि न प्रमाणाद्यभिधानं सिध्यति ।
न हि प्रमाणादिपदार्था एव श्रेयः ।
अथ स्वयमेव विवरीष्यति--तत्पदार्थाः प्रमाणादय इति ।
तथापि तच्छास्त्रं श्रेयो ऽभिधत्त इत्यनेने किम्? अथ श्रेयःशब्दस्य प्रमाणादय एवार्थः, तर्हि श्रेयः पुनः सुखमहितनिवृत्तिरिति किमित्यत आह--यद्यपीति ।
यद्यपि शास्त्र पुनः पुरुषः पुनः श्रेयः पुनरिति प्रतिपदं गृहीत्वा विवरणं प्रक्षयेणेत्यन्तेन स्फुटावभासम् ।
न च पुरुषा रागादिमन्त इत्यादावपि
विवरणत्वाशड्का, प्रकृतेनासंबन्धात् ।
न हि रागादिमन्तं प्रति शास्त्रं न ससाधनं श्रेयो ऽभिधत्ते ।
न च तं प्रति न तत् श्रेयो येन वीतरागो विविच्य गृह्यताम् ।
तथापि, तस्मात् तत् शास्त्रं पुरुषश्रेयो ऽभिधत्त इति मध्यपतितोपसंहार एव विवरणविच्छेदभ्रमो मा भूदित्येतदर्थमवच्छिनत्ति--उपभोगात् प्रक्षयेणेत्यन्तेनेति ॥
ननु समूहो व्यूहविशिष्ट इत्यसंगतम्, पर्यायत्वादित्यत आह--व्यूह इति ।
ते खल्वमी समूहाः प्रणेतृपुरुषेच्छानुरोधिनः स्वार्थानुरोधिनो वेत्यत आह--एक-स्मृतीति ।
यद्यप्येकार्थप्रतिपादनावच्छिन्ना वर्णाः
पदमित्येतावदेव लक्षणं तथाप्येतदेव लक्षणं क्षणभड्गुराणां कथमित्येतदुक्तम्--एकस्मृतिसमारूढा इति ।
समूहः पदमिति वार्त्तिके शेषः ।
पदसमूहः सूत्रमिति वार्त्तिकम् ।
तच्चानुपपन्नम् ।
वाक्यविशेषो हि सूत्रम् ।
न च वाक्यसामान्यमपि पदसमूहमात्रम्, गौरश्चः पुरुषो हस्तीत्यादेरपि वाक्यत्वप्रसङ्गादित्यत आह--एवं स्वार्थेति समूहो वेदितव्यः सूत्रत्वेनेति शेषः ।
सूत्रसमूहः प्रकरणमिति वार्त्तिकम् ।
तत्र चावान्तरसमूहभेदे कारणाभावात्, शास्त्रमेव सूत्रसमूहरूपं प्रकरणमिति प्राप्तमित्यत आह--एवं क्वचिदिति ।

तद्यथा प्रयोजनाभिधेयसंबन्धप्रतिपादनमेकमर्थमधिकृत्य प्रथमद्वितीयसूत्रयोः समूहः प्रकरणम् ।
एवं प्रमाणप्रकरणम्, प्रमेयप्रकरणम्, न्यायपूर्वाङ्गप्रकरणम्, न्यायाश्रयप्रकरणम्, न्यायाश्रयप्रकरणम्, न्यायस्वरूपप्रकरणम्, न्यायोत्तराङ्गप्रकरणमित्याद्यूह्यम् ॥
प्रकरणसमूहश्चाह्निकमिति वार्त्तिकम् ।
तदिदं प्रकरणानामवान्तरैकवाक्यतायामसत्यां न सिध्यतीत्यत आह--प्रकरणानामिति ।
अस्ति ह्यमीषां प्रकरणानां सपरिकरन्यायलक्षकत्वमेकमिति ।
तत्समूह आह्निकम् ।
उत्तरस्मिश्चाह्निके न्यायन्यायाभासविवेकोपायलक्षणमेकम् ।
तत्रापि कथाप्रकरणम्, हेत्वाभासप्रकरणम्, छलप्रकरणम्, पुरुषाशक्तिलिङ्गप्रकरणमित्येवं प्रथमे लक्षणमध्यायार्थः ।
द्वितीये प्रमाणपरीक्षा ।
तृतीये कारणरूपप्रमेयषट्कपरीक्षा ।
चतुर्थे कार्यरूपप्रमेयषट्कपरीक्षा ।
पञ्चमे पुरुषाशक्तिलिङ्गविशेषलक्षणमिति ।
एवं द्वितीयाध्यायादावाह्निकप्रकरणसंगतीस्तत्रैव दर्शयिष्यामः ।
तदिदमुक्तम्--एवं तत्र तत्र वेदितव्यमिति ।
तत्र तत्रेत्याहिकादावित्यर्थः ।
ननु च तत्र एकप्रकारो ऽपि न दर्शितः, कथं तत्र तत्र वेदितव्यमित्यत आह--एताश्चेति ॥
ननु शास्त्रस्य ससाधनपुरुषश्रेयो ऽभिधायकत्वं प्रतिज्ञाय शास्त्रस्वरूपदर्शनं क्कोपयुज्यत इत्यत आह--तदेवमिति ।
शास्त्रस्वरूपाख्यानपूर्वकं तदर्थकथनं सुगमं भवतीत्यभिप्रायः ॥
ननु प्रतीतिसिद्धं प्रमाणादीनां षोडशत्वं किमित्यनूद्यत इत्यतस्तन्निराकरणीयाम् आशड्कामाह--नन्विति ।
सामान्यविशेषः साधर्म्यविशेषः ।
यतो ऽस्येति पदसमूहस्य शास्त्रस्य ।
पदार्थाः पदानां समूहिनाम् अर्थाः प्रमाणादयः ।
तस्मात् शास्त्रं वाक्यरूपं पुरुषश्रेयो वाक्यार्थरूपमभिधत्ते ।
समाधानमिति शेषः ।
कथं निःश्रेयसाय कल्पन्त इत्यापाततः ।
परमार्थतो तेषां काल्पनिकत्वे निःश्रेयसमपि काल्पनिकम् ।
ततस्तदर्थं प्रयासो विफलः तस्यायत्नसिद्धत्वादित्याशयः ।
कल्पनाकोशस्यानन्तप्रसरत्वादनन्तात्मान इत्यापाततः ।
परकार्थतो निरात्मान इत्याशयः ।
प्रत्यक्षानुमानेति प्रमाणद्वयोपन्यासः स्वसिद्धान्तविरुद्धो वात्तिककृत इत्याह--प्रमाणादय इति ।
नोपमानविषया इति ।
यद्यप्युपमानस्य संज्ञासंज्ञिसंबन्धपरिच्छेदफलस्य शब्दे प्रमाणे ऽस्त्येवोपयोगः, अगृहीतसमयस्य शब्दस्याप्रमापकत्वात् ।
समयस्य च प्रायश उपमानेनाकलनात् ।
तथापि न तेन ते साक्षाद् विषयीक्रियन्ते प्रमाणादय इत्यर्थः ।
ननु यदि साक्षादुपमानस्य प्रकृतानुपयोगादनभिधानम्, तर्हि शब्दो ऽभिधीयताम् ।
स हि साक्षादुपयोगीत्यत आह--यद्यपीति ।
तत्रापीत्यागमविषयपरामर्शः ।
आगमो हि यत्र प्रवर्तते तद्विषयमेव प्रत्यक्षमनुमानं वा अपेक्षते ।
ते तु समूले अपि न स्विषयप्रवृत्तं प्रमाणमपेक्षेते ।
ततो मूलासंप्लुतविषयत्वात् ते एव दर्शिते इत्यर्थः ।

वैनयिकेति विशिष्टो नयः शास्त्रं न्यायशास्त्रम्, तज्जन्यबुद्धिविरहिण इत्यर्थः ।
नैतान विविञ्चते समारोपिताद् रूपादिति शेषः ।
शुश्रूषादिरित्यादिग्रहणेन श्रवणादौ पाटवम् ।
संदिग्धस्यापि जिज्ञासा न भवत्येवानभिमतापवर्गस्येत्यत उक्तम्"--शिष्यस्येति ।
शिष्यतया मुमुक्षुतादिसंपत्तिमुपलक्षयति ।
विप्रतिपन्नो ऽपि कथामारभमाणो ऽप्यमुमुक्षुर्गलिते ऽहङ्कारे न सापेक्षो भवतीत्यतो निष्फलो जल्पवितण्डारम्भ इत्यत आह-- शिष्यमाणस्येति ।
मोहादपि मोक्षमिच्छत इत्यर्थः ।
जल्पवितण्डाभ्यां विगलिते ऽहङ्कारे इति योजना ।
सापेक्षस्य सतः प्रतिपाद्यतेति वाक्यशेषाग्रे ।
केनचित् प्रमारेणेति ।
प्रथमसूत्रपाठप्रकारेणेत्यर्थः ॥
नन्वसंदिग्धस्यापि संदिग्धीकरणे किमस्य प्रयोजनमित्यत आह--असंदिग्धो ऽपीति ।
तथा च प्रमातणां
सापेक्षाणामिति शेषः ।
ते ऽभी दुर्ललिताः शिष्या यदि मोक्षादावपि इन्द्रियाद्यपेक्षन्ते, तदा कथं प्रतिपाद्या इत्यतो
वार्तिकं पूरयति--कञ्चिदिति ।
दृष्टप्रयोजनोपयोगिनं प्रत्यक्षोपलभ्यमानमित्यर्थः ।
दृष्टप्रयोजनोपयोगिनमेवानुमेयं
जिज्ञासव इत्युत्तरत्रापि पूरणीयमित्याह--एवमुत्तरमपीति ।
नन्वेतावतापि जिज्ञासव इत्युत्तरत्रापि पूरणीयमित्याह--एवमुत्तरमपीति ।
नन्वेतावतापि सापेक्षा अनेनैव शास्त्रेण प्रतिपाद्याः प्रत्यक्षानुमानाभ्यां चेति
परस्परव्याहतमित्यत आह--अयमभिसन्धिरिति ।
परमपुरुषार्थसाधनं तु जिज्ञासव इति शेषे न्यायेनेति शेषः ।
इह यद्यपि सुखं दृष्टमेव विधायकप्रमाणगोचर एव अहितनिवृत्तिरदृष्टैव निषेधकप्रमाणगोचर एवेति यथासंख्यमपि संभवति ।
तथापि श्रेयः पुनः सुखमहितनिवृत्तिश्चेति अतो न किञ्चिदधिकमुक्तं भवतीति प्रमाणाविशेषसंबन्धकथनमेव परम् ।
न च तेनेदानीमस्ति प्रयोजनम् ।
न चाभिमतश्रेयोविशेषनिर्धारणे कर्तव्ये विधिनिषेधगोचरत्वोपवर्णनमुपयुज्यत इत्यभिसंधायान्यथा व्याचष्टे--तत्रापीति ।
तच्छ्रेयः सुखमहितनिवृत्तिश्चेति तच्छब्देन द्वयमपि श्रेयस्त्वेन परामृश्यत इत्यर्थः ।
यथासंख्यं शड्कां निवारयति--न व्यासज्येति ।
दृष्टं सुखमित्यत्र
द्रृष्टादृष्टशब्दयोरर्थमुदाहरणमुखेन स्पष्टयति--स्रक्चन्दनेति ।
ऐहिकमित्यर्थः ।
स्वर्गादीति आमुष्मिकमित्यर्थः ।
उक्तमन्यत्रापीति दिशति--एवमिति ।
अहितनिवृत्तिरप्यैहिक्यामुष्मिकी चेत्यर्थः ॥
नैवं वात्तिके रूयत इत्यत आह--चकारलोपादिति ।
चकारयोर्लोपरदित्यर्थः ।
तेन दृष्टं सुखमदृष्टं च ।
तथा
अहितनिवृत्तिश्चेति वात्तिकार्थः ।

तदयं संक्षेपः दृष्टं श्रेयः ।
तच्च सुखमहितनिवृत्तिश्च ।
सुखमप्यैहिकमामुष्मिकं च ।
दुःखनिवृत्तिरप्यैहिक्यामुष्मिकी चेति ।
तत्र सुखलक्षणं श्रेयो दृष्टमदृष्टं वा ।
नैतच्छास्त्रसाध्यम्, तस्य स्रगादियागादिसाध्यत्वात् ।
आत्यन्तिकस्य च तस्याभावात् ।
अहितनिवृत्तिरप्यनात्यन्तिकी दृष्टादृष्टभिन्ना नैतच्छास्त्रसाध्या, तस्याः प्रसक्तकण्टकादिहिसादिपरिहारसाध्यत्वात्, तदप्रसक्तौ त्वसाध्यत्वात् ।
अत
आत्यन्तिकीमहितनिवृत्ति निर्धारयितुं पुनर्भिनत्तीत्याह--अहितनिवृत्तेरिति ।
ननु यदि निवृत्तिरिति ननु यदि निवृत्तिः प्रागभावो दुःखस्य, स कथमात्यन्तिकः? उत्तरान्तानवच्छेदो हि आत्यन्तिकत्वम् ।
प्रागाभावस्य च तथात्वे प्रागित्येव न स्यात् ।
अथ निवृत्तिः प्रध्वंसः, स च सर्व एवात्यन्तिक इति कुतो निवृत्तेरात्यन्तिकत्वव्युत्पादनमित्यत आह--आत्यन्तिकत्वमिति ।
निवृत्तस्य निवृत्तजातीयस्य पुनरनुत्पादः ।
तत्रैवात्मनीति शेषः ॥
नन्वेकविंशतिप्रभेदभिन्नदुःक्षहानिरेव आत्यन्तिकी दुःखनिवृत्तिः, तत्कथं हान्येति वात्तिकमित्यत आह--स चेति ।
निवृत्त्या निवृत्तिस्वरूपेण लक्ष्यते ।
अत्र च कार्यशब्देन दुःखमुक्तम् ।
कारणशब्देन शरीरेन्द्रियविषयबुद्धयः ।
अनुषड्गि सुखं दुःखेनैककारणत्वात् ।
अथ शरीरादिषु निवृत्तेष्वपि दुखं किं न भवेत्? मा भूद् दुःखम्, सुखं किं न भवेत्? न
ह्यन्यस्मिन्नत्यन्तनिवृत्ते अन्यन्न भवति ।
तथा चानुषड्गासुखिनिवृत्तिः किमुपवर्ण्यय इत्यत आह--न हीति ।
कारण विना भवत्कार्यं कार्यतामव जह्यात् ।
अत्ः शरीरादिष्वसत्सु दुःखवत् सुखमपि न भवति, तस्यापि तत्कार्यत्वात् ।
भवद्वा शरीरादिषु सत्स्वेव भवेत् ।
तथा च दुःखमपि भवेत् कारणसद्भावादित्यर्थः ।
अत्रैवार्थे वात्तिकं योजनयति--तदिदमुक्तमिति ।
अनेनैव कारणमविद्यातृष्णे, कार्याप्रवृत्तिरनुषड्गिणौ धर्माधर्माविति टीकाव्याख्यानम् अपहस्तितम्, शरीरादीनां दुःखत्वमनुभवबाधितमित्यत आह-- गौणेति ॥
नुन घ्राणादिसूत्रे(1.1.12) पञ्चेन्द्रियाणि प्रसिद्धानि ।
न च प्रदेशान्तरे ऽपि षडित्यत आह--षष्ठमिति ।
तन्त्रयुक्त्येति भावः ।
ननु विषया अप्यनितरेतरसाधनसाध्याः पज्चैव विभागे परीक्षायां च सिद्धाः, न तु षडित्यत आह--तस्येति ।
यद्यपि बुद्धिसुखदुःखान्यपि मनसो विषयः, तथापि, तस्यैव विषयत्वेन दुःखत्वोपचारो चद्विषयीक्रियमाणं दुःखमुपजनयति ।
वक्ष्यति हि--विषया बोध्यत्वादिति ।
न च बुद्धिर्बुध्यमाना दुःखहेतुः ।
वक्ष्यति हि--बुद्धयस्तु साक्षादिति ।
सुखदुःखयोस्तु दुःखहेतुत्वमेव नास्ति, सुखस्य विजातीयारम्भकत्वे ऽपि रागमात्राम्भकत्वात् ।
दुःखस्य तु विजातीयारम्भकत्वादेव ।
इच्छाद्वेषप्रयत्नास्तु प्रतीयमाना एव साक्षाद् दुःख जनयन्ति ।

तथा हि, मुमुक्षुस्तावदिच्छामि द्वेष्मि योगाभ्यासादन्यत्र प्रयत इति प्रतीत्यैव दुःखी भवति, अहितसाधनत्वेनेच्छाद्वेषप्रयत्नानां तेनावधारितत्वात् ।
अन्यो ऽपीष्यमाणालाभे बुभुक्षितो ऽस्मि पिपासितो ऽस्मीति प्रतीत्य दुःखी भवति ।
हितमेवाहितमुपलभ्य द्विषतो निवृत्तभ्रमस्य हितमेव द्वेष्मि, धिड् मामिति दुःखम् ।
एवमनिष्ट एवार्थे इष्टबुद्ध्या प्रयतमानस्य निवृत्ते भ्रमे तथा अलसस्य प्रयत्नमुपलभ्यैव दुःखमित्येतावतैत एव मनसो विषयत्वेन निर्दिष्टाः ॥
ननु जराकुष्टाद्युपहतदेहस्योपलभ्यमानमेव शरीरं दुःखहेतुः, तत्रापि विषयत्वेनैव दुःखत्वोपचारः स्यादित्यत आह--यद्यपीति ।
अन्यथास्य दुःखहेतुभावो ऽसाधारण इति शेषः ।
विषयत्वेन पुररिदं न षड्भ्यो भिद्यते ।
असाधारणेन्द्रियसंबन्धात्तु भिद्यते ।
न तु स्वरूपेण, विषयाणामनन्तत्वादित्यर्थः ।
इह यद्यपि अनुषड्गो ऽविनाभाव इति वक्ष्यति वात्तिककारः, तदुपपत्तये च समाननिमित्ततासामानाधारतासमानोपलभ्यताः, तथापि न
तावन्मात्रेणाविनाभावो निर्वहति ।
साधारणनिमित्तायामपि ह्यन्यतरासाधारणनिमित्तनिवृत्तावेकतरनिवृत्तौ इतरानवृत्तिसंभवात् ।
अत एव आधारस्योपलब्धिसाधनस्य च साम्ये ऽप्येकतरस्य कारणाभावेनाभावे ऽप्यन्यतरसभ्दावेनाविनाभाव इत्याशड्क्य सुखस्य दुःखानुषड्गोपपत्तये दुःखहेत्वनुषङ्गमेवाह--साधनेति ।
अतो न द्वितीयसूत्रवार्तिकटीकाभ्यां विरोधः ।
साधनपारतन्त्र्यं कार्यात्वात् ।
अकार्यस्य च सुखस्याभावात् ।
पारतन्त्र्यं च दंःखहेतुः ।
यदाह--
सर्व परवशं दुःखम् ।
इति ।
क्षयित्वं च सुखस्य समवायिकारणवत्त्वात् ।
तदपि दुःखहेतुः, इष्टवियोगो हि दुःखं जनयतीति ।
क्षयित्वं कामे सतीति तु व्याख्यानं दुःखहेतव इति बहुवचनविरुद्धम्, अतः स्वतन्त्रमेवेदं हेतुत्रयम् ॥
काम इच्छा ।
साच सुखतत्साधनयोर्व्यापिका ।
न हि सुख तत्साधनं वा अनिच्छतः सुखं नाम सुखसाधनं च ।
तदपि सुलभं दुर्लभं च ।
तत्र दुर्लभेच्छा दुःखैकफलैव ।
सुलभेच्छात्वनिषिद्धसाधनगोचरा निषिद्धसाधनगोचरा च ।
तत्र निषद्धसाधानगोचरापि स्वरूपतः कार्यतश्चाधर्मजननद्वारेणावश्यं दुःखफलेति ।
अनिषिद्धसुलभसाधानगोचरापि शरीरपाटवे सत्सति वा ।
तत्रासति दुःखहेतुरेव ।
शरीरादिपाटवे ऽपि सविघ्ना निर्विघ्ना च ।
तत्र सविघ्ना दुःखमेव प्रसूते ।
निर्विघ्नाप्यनिष्टसंभिन्नविषया तद्विपरीता च ।
तत्र प्रथमा अवश्यं
दुःखहेतुः ।
द्वितीया तु विफला सफला च ।
तत्र प्रथमा दुःखहेतुरेव ।
द्वितीया तु सविलम्बफला अविलम्ब्फला च ।

तत्र प्रथमा अवश्यमेव दुःखहेतुः ।
द्वितीयाप्यनायतिविशुद्धा तद्विपरीता च ।
तत्र प्रथमा दुःखहेतुरेव ।
द्वितीया तु विषयस्य पिरिणतिविरसत्वाद् दुःखमेव प्रसूते, अतिव्यामोहाद् विषयेष्वेव मग्नस्येच्छान्तरमेव वा, उभयथाप्यनर्थमूलमिति ।
एवं सुखानुषक्तः कामो ऽपि दुःखहेतुरिति ।
इह यद्यपि रागद्वेषमोहप्रवृत्तयो ऽपि दुःखतदनुड्गिसाधनभावादिन्द्रियादिवत् दुःखत्वेन परिसंख्यातुमुचितास्तथापि न शरीरेन्द्रियादिव्यतिरेकेणामूषामात्मलाभो दुःखं प्रति व्यापारो वा, इन्द्रियादीनां पुनर्देषप्रवृत्त्यभावे ऽपि दुःखं प्रति व्यापारो जीवन्मुक्तस्यास्त्येव ।
प्रवृत्तिफलं तु धर्माधर्मौ यद्यपि सुखदुःखहेतू, तथाप्येकविंशतिविध दुःखमयसंसारनृत्यशाला मूलस्तम्भत्वादनयोर्नात्र परिसंख्यानम् ।
न हि भाविनि जन्मान्तरे शरीरेन्द्रियाविषयबुद्धिसुखदुःखान्याहत्य व्याप्रियन्ते यथा धर्माधर्मौ ॥
एतदेवाभिसंधाय कारणरूपधर्माधर्मोच्छेदक्रमेण कार्यरूपैकविंशतिविधदुःखस्योच्छेदोवार्त्तिककृता दर्शित इति तथैव वात्तिकमवतारयति--उक्तप्रकारेति ।
इह चागामिधर्माधर्मनिवृत्तावुपायस्तत्साधनप्रवृत्तिपरित्यागः, उत्पन्ननिवृतौ तूपभोग इति
दर्शितम् ।
तदुभयमप्यनुपपन्नम्, वाग्बुद्धिशरीराम्भं परित्यज्य जीवितुमशक्तयत्वात् ।
मृते ऽपि शदीराद्यन्तरज्रलेपस्य दुपनेयत्वात्, उपभागश्चाशक्यः, अनियतविपाकसमयत्वात्, अनन्तत्वादनन्तफलत्वाच्च ।
भोगावस्थायामप्यनन्तकर्मान्तरोत्पादनताया अवरामात् ।
अथ कथञ्चिदुपभोगानुत्पादाभ्यामुत्पन्नानुत्पन्नयोः शक्यः प्रक्षयः, तर्हि शास्त्रवैयर्थ्यप्रसङ्गः, तत एव तत्सिद्धेरित्याशड्क्य वार्त्तिकस्योपस्कुरूते--संशयादीति ।
संशयादीत्यादिपदेन चतुर्दशापि न्यायपरिकरत्वेन संगृहीताः ।
परमन्यायेत्यनेने मूलमूलीभावव्यवस्थितानि चत्वार्यपि प्रमाणानि ।
न्यायो मार्ग इव न्यायमार्गः, निःरेयसभूमेः प्राप्तिहेतुत्वात् ।
द्वादशविधेत्यात्मादि प्रमेयम् ।
तदनेन शास्त्रस्यावसरोपयोगौ दर्शितौ ।
तत्त्वपरिभावनेत्यनेनाभ्यासस्य ।
तदेवं पूर्वोक्तेन न्यायेन मोक्षमाणस्य शास्त्रे प्रवृत्तिः ।
ततः परिकरपरिज्ञानम् ।
ततो न्यायमार्गपरिशोधनम् ।
ततस्तेन द्वादशविधप्रमेयासादनम्, ततो ऽभ्यासः, ततः प्रसंख्यानम् ।
ततः समूलदोषानुषङ्गनिर्मोक्षः ।
ततो ऽप्रवृत्तिः ।
तत आगामिनोर्धर्माधर्मयोरसंचयः ।
इत्येवमनागतः प्रवाहो निवारितः ॥
यद्यपि च यावच्छरीरादिभाविनी प्रवृत्तिस्तथापि दोषानुषङ्गसहकारिविरहान्नासौ प्रवृत्तिः
तत्कार्यासमर्थत्वादिति ।
उत्पन्नभोगमुपपादयति--अनादीति ।
यद्यपि यथानादौ भावपरम्परायां कर्माणि प्रचीयन्ते तथापचीचन्ते ऽपि ।
न ह्यारम्भे परं भवस्यानादिता ।
ननूपभोगे कर्मारम्भो ह्यधिकारिणि शरीरे ।
तच्च शरीरकोटिमध्यपतितमेकं शरीरं
कदाचित् किञ्चित् क्वचिदेव ।
भोगस्तु नास्त्येव तच्छरीरं यत्र नास्ति, भोगस्य तदायतनत्वात् ।
तस्मादायव्ययपर्यालोचनया परिमितमेव कर्म ।
अत एव नियविपाकसमयमपि ।

तस्य च क्रमभाविभिरपि कियद्भिः
कैश्चिदेव शरीरैरूपभोगात् प्रक्षयो ऽपि न दुरूपपादः ।
तथाप्यागमप्रामाण्यात् काययौगपद्यस्यापि प्रसंख्यानफलतया सिद्धत्वादनन्तामनियतविपाकसमयतां चाभ्युपगम्यैव परिहृतम् ।
विभूतिमता अनेककालोपभोग्यमप्येकदा भुज्यत इत्यत्र समुद्रपानमुदाहरणम् ।
योगर्धिप्रभावसम्पन्नो विविधफलभोगिनो विचित्रस्वभावानेकदैव बहून् कायान् इच्छामात्रेणैव निर्मिमीत इत्यत्र दण्डकारण्यसृष्टिरूदाहणमिति ॥
इह केचिद् आहुः, दुःखनिवृत्ति पुरुषार्थ एव स्वरूपतो न भवति सोपाधित्वात् ।
सुखं दुःखाभावे सत्येव भवतीति सुखसाधनान्तरवत् दुःखाभावो ऽपि मृत्यते ।
न नु स एव पुरुषस्य समीहित इति ।
तदुक्तम्,
वरं वृन्दावने ऽरण्ये क्रोष्टत्वमभिवाञ्छितुम् ।
न तु वैशेषिकी मुक्तिं गौतमो गन्तुमिच्छति ॥
इति ।
तदनुपपन्नम्, विपर्यासस्यापि संभवात्, भोजनादिसुखे सत्येव हि बुभुक्षादिदुःखं निवर्तत इति दुःखनिवृत्त्यर्थमेव भोजनादिसुखं मृग्यते ।
न पुनस्तदेव तस्य समीहितमिति किं न कल्पयते ।
क्वचिद् दुःखभावे ऽपि सुखस्येष्यमाणत्वा दिति चेत्--न, दुःखनिवृत्तेरपि क्वचित् सुखाभावे ऽपीष्यमाणत्वादेव ।
दुःखनिवृत्तौ सत्यां सुखमेव भविष्यतीत्यभिसन्धिस्तावदस्तीति चेत्-न, सुखावस्थायां नियमतो दुःखविरहो भविष्यतीत्यभिसन्धेस्तत्रापि संभवात् ।
तस्माद् यद्यपि दुःखहानौ सुखम्, सुखे च दुःखहानिर्नियता, तथापि
परस्परनिरपेक्षमेव पुरुषार्थत्वमनयोरिच्छयोः अप्यसंकीर्णविषयत्वात् ॥
अन्यस्त्वाह--भवत्येव हि दुःखहानिः पुरुषार्थः, किं त्वनुभूयमानतया ।
न हि विषादिजन्यमोहावस्थायां दुःखनिवृत्तिरिति तदर्थं प्रेक्षावन्तः प्रवर्तन्ते ।
तस्मात् मोक्षे दुःखहानेरननुभूयमानत्वान्न पुरुषार्थत्वमिति ।
तदुक्तम्,
दुःखाभावो ऽपि नावेद्यः पुरुषार्थतयेष्यते ।
न हि मूर्च्छाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीः ॥
इति ।
तदप्यनुपपन्नम्, पुत्रादिवियोगजन्यदुःखहानिमिच्छतो केषाञ्चिद् विषशस्त्रोदून्धनदावपि प्रवृत्तिदर्शनात् ।
प्रेक्षावन्तो नैवं कुर्वन्तीति चेत्--न, पुरुषार्थत्वाविरोधात् ।
न हि परदारेषु शास्त्रनिषेधाड्कुशनिवारिताः प्रेक्षावन्तो न प्रवर्तन्त इति ।
न तत्र कामः पुरुषार्थः, अपि त्वल्पीयः सुखं महाननर्थ इति निवृत्तिः ।
तथा विषादावपि प्रवृत्तस्य शास्त्रगर्हितत्वादल्पीयाननर्थो निवर्तते ।
महीयान् प्रवर्तत इति न ते प्रवर्तन्त इति ।
इयमेव हि प्रेक्षा यत् पुरुषार्थत्वे ऽपि लोकशास्त्रविरोधपरामर्शः, न तु अपुरुषार्थत्वादेव स्वरूपेणेष्यमाणतामात्रनिबन्धनत्वात् पुरुषर्थतायाः ।
अतएव न यत्र लोकशास्त्रविरोधः, तत्र व्याध्यादिपरिपीडिताः प्रयागवटप्रपातानशनादिनापि देहं त्यजन्तः प्रेक्षावन्तो दृश्यन्ते ।
न हि कश्चिद् दुःखनिवृत्तिमनुभविष्यामीति तत्साधने प्रवर्तते, अपि तु दुःख हास्यामीति ।
अपि च दुःखनिवृत्तेरनुभूयमानतामात्रं विवक्षितम्,
दुःखनिवृत्तिसत्तावधिर्वा? आद्यश्चेत्, तुष्यतु दुर्जनः चरमे जन्मन्यनुभूयत एव समाधिप्रभावात् ।
आत्यन्तिकी दुःखनिवृत्तिरनागता वर्तमानाप्यचिरमनुभूयत एव ।
द्वितीये तु प्रसक्तकण्टकादिहेतुकदःखनिवृत्तेरपुरुषार्थत्वप्रसङ्गः, सर्वदाननुभूयमानत्वात् ।
तथात्वे वा विषयान्तरसंचाराभावप्रसङ्गात्, निवृत्तेः सर्वदा तादवस्थ्यादिति ।
तस्मात् सर्वदाननुभूयमानापि यथा कण्टकादिजन्यदुःखनिवृत्तिः पुरुषार्थतया पुरुषं प्रयोजयति, तथा शास्त्रार्थभूतापि ।

तदिदं दुःखनिवृत्तेरपुरुषार्थत्वमननुभूयमानतयैव चापुरुषार्थत्वमिति पक्षद्वयमतिनिर्वलमित्येतदित्युपेक्ष्य तृतीयं शङ्कते--स्यादेतदिति ।
तदुक्तम्,
असत्यानि दुरन्तानि समव्ययफलानि च ।
अशक्यानि च वस्तूनि नारभेत विचक्षणः ।
इति ।
सिद्धान्तवार्त्तिकमुद्दीपयति--यद्यपीति ।
तदनेन मधुविषसंपृक्तान्नभोजनदृष्टान्तेन समव्ययफलत्वमपवर्गस्य निराकृतम् ।
यथा ह्यत्रानर्थस्य भूयस्त्वमर्थस्य तु क्षुद्रत्वम्, न तथापवर्गे ऽपीति ।
एतेनैतदपि निरस्तं यदुक्तम्, यथा दुःखशबलं संसारसुखमनादेयम्, तथा सुखशबलतया दुःखमप्युपादेयं किं न स्यात्? दृश्यन्ते हि सुखार्थिनो यगादिदुःखमनुभवन्त इति ।
यस्य दुःखमुपादेयं हेयं तस्य किमुच्यताम् ।
हेयहीनस्य का मुक्तिः केन वाप्युपदिश्यते ॥
इति ।
यस्तु घनतरदुःखतिमिरनिरन्तरात् संसारकान्तारात् सुखखद्योतिकासु द्योतमानास्वपि बिभेति तं प्रति अयं निरस्ततमस्कतया सुगमो मार्ग उपदिश्यत इति ।
तदिदमुक्तम्-तेन मा भूदतदित्यादि ।
नन्वेवं सति नास्य सर्वार्थता ।
तथा च जगतः शमायेत्यनेन विरोध इत्यत आह--अविवेकिनामपीति ।
यद्यपि कस्यचिदप्रवृत्तावपि न सर्वार्थता अस्य हीयत इति प्रपञ्चितमधस्तात्, तथापि हेयं हेयत्वेनागृह्णन्तो मन्दाः कारुणिकेण ग्राहयितव्या इत्यर्थः ॥
ननु शास्त्रेण तत्त्वज्ञानाद् वैराग्यम्, वैराग्याच्च शास्त्रे प्रवृत्तिरिति दुरूत्तरमितरेतराश्रयत्वमित्यत आह--शास्त्रे प्रवृत्तीति ।
दुःखादुद्विजतो भोगवैमुख्यमात्रमिह वैराग्यं विवक्षितम्, न तु रागाभाव एवेत्यर्थः ।
इष्टानिष्टप्राप्तिपरिहारार्थतया द्वैविध्यशड्कामपनयति--ऐकरूप्यं द्वैरूप्यं चेति ।
ननु पुरुषभेदे ऽपि प्रवृत्तेः द्वैविध्यमेव ।
न हि कश्चित् सुखं प्राप्तुमिव दुःखमप्याप्तुं प्रवर्तते ।
नापि कश्चित् दुःखहानायेव सुखहानायापीत्यत आह--पुरुषभेदो रागवैराग्याभ्यामिति ।
ननु सुखस्य हेयत्वमेव कुत इत्यत आह--प्राप्तव्यस्येति ।
अविवेकिनां तु प्रवृत्तिर्द्विरूपेत्युक्तम् ।
वार्त्तिककृता इति शेषः ॥
प्रकृतमुपसंहरन्नेवाप्रकृतोपनिपातशड्कामप्यपनेतुं वृत्तवर्तिष्यमाणे अनुकीर्तयति--तदनेनेति ।
तदवयवं विवरीतुमुक्ततात्पर्यस्फोरणार्थमिति शेषः ।
अलौकिकत्वात् ।
लोकस्यास्मदादेर्नित्यपरोक्षत्वात् ।
अयुक्तम् अप्रामाणिकम् ।
विप्रतिषिद्धं मिथो व्यापकविरुद्धम् ।
प्रवृत्त्यै निष्कम्पप्रवृत्त्यै ।
किं तर्हि? प्रमाणमिति ।
गृहीतमित्यनुवर्तते ।
रजतज्ञानमिदं शुक्लभास्वररूपवद् द्रव्यं रजतमित्येवं ज्ञानमित्यर्थः ।
परिच्छिनत्ति उक्तमर्थमालम्ब्य परिच्छित्तिरूपं जायत इत्यर्थः ।
शुक्तिकाज्ञानमपीति ।
इदं शुक्लभास्वररूपं शुक्तिकाद्रव्यं न रजतमिति ज्ञानमित्यर्थः ।
यद्येवं कथमनयोर्बाध्यबाधकभाव इत्यत आह--केवलमिति ।

रजतसमारोपापवादाभ्यामिति ।
समारोपापवादस्वभावतयेत्यर्थः ॥
तदेवं परिच्छेदद्वारेण परिच्छेदकमुन्नीयत इति परिच्छेदस्यैव सामान्यविशेषयोः परिच्छेदत्वापरिच्छेदत्वे दर्शिते ।
न चैकस्यैव ज्ञानस्य विरुद्धधर्मसंसर्गः ।
जात्या हि बुद्धिरनुभवः स्मृतिश्च ।
तत्र स्मुतिरप्रमैव ।
अनुभवस्तु स्वरूपानुभवो ऽस्वरूपानुभवश्च ।
सो ऽयं विषयकृतो विशेषः ।
नानाविषया चैका बुद्धिर्भवत्येव ।
ततश्च सैव बुद्धिः स्वरूपावस्थितेनार्थेन निरूप्यमाणा प्रमा ।
अस्वरूपावस्थितेन निरूप्यमाणा त्वप्रमेति तथाभूतावच्छिन्नानुभवत्वमेव प्रमाणत्वम् ।
अतथाभूतेन त्ववच्छिन्नमप्रमाणत्वमिति भवति अप्रमाणस्यापि सामान्यपरिच्छेदकत्वमिति ।
रचिता भूमिः ।
किमेतावतेत्याह --अस्ति तावदसाधारणं कारणमसमर्थायाः प्रवृत्तेस्तथैवोन्नीयमानम् ।
तस्य च व्यापारो विपरीतार्थपरिच्छेद एवासाधारणः ।
तच्चैवंभूतव्यापारोपकरणमप्रमाणमिति व्यवह्नियते ।
एवं च प्रवृत्तिसामर्थ्यासामर्थ्यसंदेहे ऽपि यदि तज्जनकमप्रमाणमसमर्थैव सा ।
अथ न तदप्रमाणम्, तज्जन्या प्रवृत्तिरपि नासमर्थेत्यप्रमाणान्नियतः समर्थप्रवृत्तिव्यतिरेकः ।
प्रमाणं चात्रोभयव्यतिरेकग्राहकं विरुद्धकार्यत्वं लिङ्गम् ।
प्रकृतकार्यस्य तद्व्यतिरेकग्राहि च प्रत्यक्षमध्यवसेयमिति नाप्रमाणादर्थव्यभिचारिणोर्ऽथव्यभिचारिज्ञानव्यापारादित्यर्थः ॥
सिद्धो व्यतिरेकः, कि चात इत्यत आह--तथा चेति ।
अर्थवत्त्वमर्थाव्यभिचारित्वम्, अर्थाव्यभिचार्यनुभवजनकत्वमित्यर्थः ।
ननु तस्या इत्यत्र कथमनन्तरत्वेन प्रकृतामसमर्थां विहाय व्यवहित्वेनाप्रकृतापि समर्थैव प्रवृत्ति ।
परामृश्यत इत्यत आह--असमर्था त्विति ।
पूर्वप्रकान्तं योग्यमेव प्रकृतमुच्यते, न त्वनन्तरोक्तमित्यर्थः ।
नन्वनुदितस्यानुवादः क्कोपयुज्यत इत्यत आह--संप्रतीति ।
पूर्वं व्याख्यातुमिदानीमाक्षेप्तुमित्यर्थः ।
आक्षेपसमाधानयोः स्फुटावभासित्वे ऽपि संग्रहविवरणयोः पौनरूक्त्यं परिहरन्नाह--आक्षिपतीति ।
संदेहादपि प्रवृत्तेस्तत्र तत्र दर्शनात् निरूच्छ्वासमाक्षेपमुज्जीवयति--न तावदिति ।
अमुमेवार्थं भाष्येण संवदति--सेयमिति ।
उक्ता भाष्यकुतेति शेषः ।
किमतो यद्येवमित्यत आह--न चेति ।
अर्थविनिश्चय उक्तरूपः श्रेयोहेतुतानुमानसहित इति यावत् ।
प्रामाण्यावधारणं श्रेयोहेतुतालिङ्गपरामर्शप्रसवोचितमन्तरेणेत्यर्थः ।
एवंरूपता च
प्रामाण्यावधारणस्य व्याप्तिस्मरणसाहित्यमेवेति तस्यापि बीजं समुच्चिनोति--श्रेयोहेतुतानुमाननिमित्तव्याप्तिग्रहणं चेति ।
ताभ्यां विनेति ।
स्वरूपनिश्चयश्रेयोहेतुतानुमानाभ्यां विनेत्यर्थः ।
व्याप्तिग्रहणानन्तर्ये ऽपि तत्फलस्यैवानुमानस्य योग्यतया प्रक्रान्तत्वात् ।
इममेव वार्तिकार्थं परिशोधयन् स्फुटयति--तदिदमुक्तमिति ।

निश्चयानुमाने न प्रामाण्यावधारणानुमानबीजभूतव्याप्तिग्रहणाभ्यां विना ।
ते च न प्रवृत्त्या विना ।
प्रवृत्तिश्च न निश्चयानुमानाभ्यां विनेत्याक्षेपसंक्षपः ।
इह च द्विधा प्रवृत्तिः, ऐहिकफला आमुष्मिकफला च ।
तत्रामुष्मिकफला प्रामाण्यावधारणपूर्विकैव ।
ऐहिकफला तु अपेक्षितोपायताज्ञानमात्राधीना अर्थनिश्चयमपि नापेक्षते, प्रागेव प्रमाणस्रूपज्ञानम् ।
कुतस्तरां तद्विनिश्चयम्? यत्रापि प्रवृत्तेः प्रागेव प्रमाणतत्त्वविनिश्चयः, तत्राप्यसौ स्वहेतुबलादायतो न प्रवृत्तिं प्रति प्रयोजकः, अन्यथैकान्तिकविजयानिश्चये प्रामाण्याक्षेपक एव विजिगीषुः कथायां न प्रवर्तेत ॥
न हि जल्पतो वितण्डयतो वा अवश्यमैकान्तिको विजयः ।
तस्मादर्थानिश्चये ऽपि प्रवृत्तिरित्युभयवादिसिद्धं हृदि निधाय सिद्धान्तमुपक्रमते--तत्र ब्रूम इति ।
दृष्टार्थेष्विति अदृष्टार्थागमादिव्युदासः, तत्र प्रवृत्तेः फलाभिसंबन्धानिश्चयात् ।
अनभ्यासदशापन्नेष्वित्यभ्यासदशापन्नापितृवचनादिव्युदासः ।
ते हि प्रमाणतया प्रवृत्तेः प्रागव निश्चीयन्ते ।
अभ्यासश्वाविपरीतो विवक्षितः ।
तेन स्वात्मन्यभ्यासे ऽपि प्रवृत्तिसामर्थ्यादेव तन्निश्चयो विपरीताभ्यासविरहात् ।
स च विषयगोचरस्तन्नान्तरीयकार्थगोचरो वा तज्जातीयत्वावधारणोपायो यत्र स्वरूपतो ऽपि नास्ति तत्र प्रवृत्तिसामर्थ्यादेव तद्गोचरस्य प्रामाण्यावधारणम्, यथा वैद्यवचनादनर्थनिवृत्ति संभावयतो ऽसंस्तुतप्रदेशस्थितेषु मूलेषु ।
यत्र तु स्वरूपाभ्यासो ऽस्त्येव तद्गतं तु श्रेयःसाधनमभ्यस्तम्, तत्र प्रवृत्तिसामर्थ्येन तत्साधनत्वग्राहिणः प्रामाण्यम् ।
यथा अन्गिः पाकादिसमर्थ इति संभाविताप्तत्वस्य वचनादुपलभ्य स्वयं पचतः ।
यत्रापि श्रेयःसाधनत्वे ऽभ्यासः स्वरूपे त्वनभ्यासस्तत्रापि स्वरूपगोचरस्यैव प्रामाण्यं प्रवृत्तिसामर्थ्यादवसीयते ।
यथा अग्निः पाकादिसमर्थ एवेति निश्चितवतो ऽपरिशीलितवनवह्नौ ।
सर्वत्रैवार्थभूयस्त्वम्, विपर्यये त्वनर्थमान्द्यं संभावयतः प्रवृत्तिः ।
स्वरूपश्रेयःसाधनत्वनिश्चये ऽपि फलसंदेह इवेत्याह--नो खल्विति ॥
तदमी संशयाना अपिप्रवर्तमानाः फल इव स्वरूपश्रेयःसाधनत्वयोरिति शेषः ।
प्रमाणस्य स्वरूपग्राहिणः श्रेयःसाधनत्वग्राहिणश्चेत्यर्थः ।
तत्त्वं प्रमाणत्वम्, अर्थाव्यभिचारिप्रमासाधनत्वमिति यावत् ।
विनिश्चित्यार्थाव्यभिचारिप्रमाविनिश्चयद्वारेणेति शेषः ।
तज्जातीयस्यान्यस्यैतावतैव समर्थत्वे अभ्यासदशापन्नस्येति दृष्टार्थप्रमाणसंग्रहार्थम् ।
प्रवृत्तिसामर्थ्यात् प्रागेव समर्थायाः प्रवृत्तेः पूर्वमेवेति ।
तेनायमर्थः, यद्यपि दृष्टार्थेषु अभ्यासदशापन्नेष्वपि प्रवृत्तिसामर्थ्यमस्ति, तेनापि च प्रामाण्यमवधारयितुं तत्र शक्यते, तथापि तज्जातीयत्वलक्षणेनैव लिड्गेन प्रवृत्तेः प्रागेवावधारिते प्रामाण्ये तत्प्रमातुरूत्तरकालं प्रमित्सैव नास्ति ।
तन्निबन्धनत्वाच्च अनुमानप्रवृत्तेः ।
यदि पुनः प्रमित्सानपेक्षमेव समर्थप्रवृत्तिजनकत्वं परामृश्यते, तदा का क्षतिः? तेनाप्यनुमीयतां प्रामाण्यम् ।
प्रमाणसंप्लवस्यापि व्यवस्थापनादिति ॥
ननु किमिदं तज्जातीयत्वम्? न तावत् प्रमाणजातीयत्वम्, साध्याविशिष्टत्वप्रसङ्गात् ।
नापि समर्थप्रवृत्तिजनकजातीयत्वम् ।
तद्धि समर्थप्रवृत्तिसंबन्धो वा स्यात्? तदुपहितो वा नियतप्रागभावः? न तावदाद्यः, प्रवृत्तेः प्रागेवेति वचनात् ।
नाप्युत्तरः, तस्यातीन्द्रियस्य लिड्गं विना प्रत्येतुमशक्यत्वात् ।
लिड्गं च तस्य प्रामाण्यैकनियतस्य यद्यस्ति तदा प्रामाण्यमेव तेनानुमीयताम्, किं तज्जातीयत्वानुमानेन? प्रामाण्यानियतस्य तु तस्यानुमानेन किम्? नापि प्रत्यक्षसिद्ध एव कश्चिद्धर्मस्तज्जातीयत्वम् ।
प्रत्यक्षत्वे तु तस्यानभ्यासदशापननगोचरे ऽपिप्रमाणे प्रतीतिप्रसङ्गात् ।
तथा च
तत्रापि प्रवृत्तेः प्रागेव प्रामाण्यावधारणं स्यात्, व्याप्तेरपि प्रागेव प्रतीतत्वात् ।
न ह्ययं क्वचिदपि तज्जातीयत्वेन प्रामाण्यं नानुमितवात् ।

तत्र नास्त्येव तज्जातीयत्वम्, किं प्रत्यक्षेण प्रतीयतामिति चेत्--न, अभ्यासदशापन्नेषु तज्जातीयत्वेन प्रामाण्ये ऽनुमीयमाने प्रवृत्तिसामर्थ्यानुमितप्रामाण्यस्य साधनविकलतया दृष्टान्ताभासत्वप्रसङ्गात् ।
तस्मात् तज्जातीयत्वमतिरिक्तं न पश्याम इति ॥
सत्यम्, तथापि ज्ञानस्य विष्यनिबन्धनत्वात् तत्तद्विषयोपाधय एव ते ते ज्ञानोपाधयस्तैस्तैरूपाधिभिरूपाधीयमानं ज्ञानमेव तज्जातीयं तस्य भावस्तत्त्वं भवति ।
ते चोपाधयः प्रतिभेदं स्वसंज्ञाभिरभिधातुमशक्या इति तज्जातीयत्वमित्यनया वाचोभड्ग्या दर्शिताः ।
अत एवात्र वीप्सा द्रष्टव्या
तत्तज्जातीयत्वमिति ।
तथा हि, अनुभवस्तावत् स्वरूपप्रकारावालम्बते ।
तत्र धर्मिस्वरूपेणोपधीयमानो ऽनुभवः प्रमैवेति तेन रूपेणानुभूते तस्मिन् प्रमात्वमेवानुभूतं भवतीत्यग्रे स्फुटीभविष्यति ।
प्रकारविषयस्त्वनुभव उभयथा ।
कश्चित् स्वरूपप्रकारेणोपाधीयते, कश्चिदस्वरूपप्रकारेणापीत्यतः क्वचित् संशयः ।
तत्र स्वरूपप्रकारेणोपहितमनुभव विवेक्तुं विशिष्टाः प्रकारोपाधयो भवन्ति ।
ते च नियमेन विभ्रमविषयविरोधितया निर्धारितस्वभावभेदा गुणादय एव ।
तदिदं सामान्यतस्तावल्लक्षणसहचरितलक्ष्यविषयज्ञानत्वमेव ज्ञानगतं तज्जातीयत्वमिति प्रत्यक्षे गतिः ।
यदा त्वप्रत्यक्षे लक्ष्ये लक्षणेन ज्ञानं जन्यते तदानुमानं तदिति तस्यान्यथैव गतिर्भविष्यतीति ।
तत्र द्रव्ये गन्धवति पृथिवीज्ञानमित्यादि सामान्यतः ।
करचरणादिमति शरीरज्ञानम् इत्यादि विशेषतः ।
गुणेषु केतक्यादौ सौरभज्ञानम्, शड्खादौ श्वेतज्ञानमित्यादि ।
कर्मणि तु अवातुलेन तिष्ठता तीव्रवेगासंस्कृतेन चलज्जलादिस्वच्छविलोकनादिविरहिणा यद् द्रव्यं चलतीत्युपलभ्यते तत् तथेति ।
एवं तेषु तेषु विशेषेषु ते ते विशेषा व्यभिचारविरोधिनो न प्रतिपदमनुक्रमितुं शक्यन्ते ।
तदेवं तत्तदुपाधिविशिष्टतत्तद्विषयानुभवत्वमेव तज्जातीयत्वमिति मन्तव्यम् ।
तदेवंभूतस्य ज्ञानस्य विषयनान्तरीयकत्वेनोपाध्यभ्यास एवाभ्यासदशापन्नत्वम् ।
यत्र तु स एवार्थो भूयो भूयो ऽभ्यस्तः, तत्र संवादकत्वमेव तज्जातीयत्वम् ।
एवं तावद् बाह्यप्रत्यक्षं समर्थितम् ॥
प्रत्यक्षसमानन्यायतया आगमस्य प्रामाण्यं समर्थयति--एवं चेति ।
अत्रापि तज्जातीयत्वमाप्तप्रणेतृकत्वम् ।
अभ्यासदशापन्नत्वं पुनरेतस्य भूयोदर्शनेन मन्त्रायुर्वेदे तज्जातीयत्वाय प्रामाण्याविनाभावसिद्धिः ।
मन्त्रायुर्वेदस्यानभ्यासदशापन्नत्वं तदसिद्धः निवेदयिष्यते सूत्रकारेण द्वितीयाध्याये ।
यथा च प्रामाण्यं प्रवृत्तिसामर्थ्येनावधार्यते अनभ्यासदशापन्नेषु तथाप्रामाण्यमपि प्रवृत्तिविपर्ययेण ।
यथा च प्रवृत्तेः प्रागेवाभ्यासदशापन्नेषु
तज्जातीयतया प्रामाण्यमवधार्यते, तथाप्रामाण्यमपीति मन्तव्यम् ।
उपाधिविरोधश्च तज्जातीयत्वम् ।
तदभ्यास एवाभ्यासदशापन्नत्वम् ।
यथा चन्द्रमसि चन्द्रद्वयज्ञानम् ।
शड्खे पीतज्ञानम् ।
गुडे तिक्तज्ञानमित्यादि ।
तस्मात् सन्दिग्धे प्रवृत्तिसामर्थ्यमवधारणीयमिति ॥
स्यादेतत् ।
सामर्थ्य पुनरस्याः फलेनाभिसंबन्धः ।
अथ फलज्ञानस्यैव प्रामाण्यं कथमवधारणीयमित्यत्र केषाञ्चिन्मतमाह--न चेति ।
न पुनरूदन्योपशममपि परीक्ष्यत इति उदन्योपशमनमपीत्यर्थः ।

मूल पाठ: Nyāyavārttikatātparyapariśuddhi 1 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc