न्यायवार्त्तिकतात्पर्यपरिशुद्धि · भाग 161180
एवं वाचनिकसिद्धान्तद्वयं लक्षयित्वा तल्लिङ्गत्वादभिप्रायस्याभिप्रायिकसिद्धान्तद्वयोपक्रमे न्यायप्रधानत्वादस्य शास्त्रस्य न्यायानुषड्गिणं तावदाह---यत्सिद्धावित्यादि सूत्रम् ॥30 ॥
एतच्च भूषणप्रभृतयो द्विधा व्याचक्षते ।
यस्यार्थस्य सर्वज्ञत्वादेर्विशेषस्य सिद्धौ क्षित्यादेः सकर्तृकत्वस्य प्रतिक्रियमाणस्य सिद्धिः स सर्वज्ञत्वादिर्विशेषो ऽधिकरणसिद्धान्तः ।
अथ वा यस्य सकर्तृकत्वादेः सिद्धावन्तर्भूता अन्ये ऽभिप्रायप्रकान्ताः सर्वज्ञत्वादयो ऽपि विशेषाः सिध्यन्ति सो ऽधिकरणसिद्धान्त इति ।
तदत्र पक्षद्वये ऽपि फलतो न कश्चिद् विशेष इति मन्वानः श्लिष्टं भाष्यं व्याचष्टे, साध्यस्य वा हेतार्वेति ।
प्रथमपक्षे साध्यविशेषस्य हेतुविशेषस्य वेत्यर्थः ।
द्वितीये तु सुगमम् ।
यत्सिद्धावित्यत्र निमित्तविषयभावप्रतिभासनाद् व्याख्यातृविप्रतिपत्तेश्च सप्तम्यर्थे सन्देहः, तमपाकरोति---विषयसप्तमीति ।
उपपत्तिमाह---द्वयोरिति ।
इदानीमेकं व्याख्यानमुपादाय स्फुटभाष्यानुसारेण तावदाह---तेनेति ।
ननु च पक्षो वा हेतुर्वा कण्ठत एव नियततन्त्राभ्युपगमात् प्रतितन्त्रसिद्धान्तान्न भिद्यत इत्यत आह---अनेन रूपेणेति ।
यद्यपि स्वरूपतो ऽस्य वाचनिक एवाभ्युपगमः, तथाप्यनेने रूपेणभिप्रायिक एवेत्यतस्ततो भिद्यत इत्यर्थः ।
उदाहरति---पक्षस्तावदिति ।
ननु प्रतीतमेव कर्तृमत्त्वं क्षित्यादेरपर्यवस्यत् सर्वज्ञत्वादिविशेषमाक्षिपति ।
ततो न व्याख्यातविषयसप्तम्युदाहणमिदमित्यत आह---अत्रेति ।
नन्वेतदन्तर्भावमन्तरेण किमुपलब्धिमत्पूर्वकत्वमेव प्रत्येतुं न शक्यत इत्यत आह---नान्यथेति ।
न हि यथा तार्णपार्णत्वादिसंदेहे ऽपि वह्निनिश्चयसंभवः, तथा परमाण्वाद्यदृष्टान्ताभिज्ञानाभिज्ञत्वसंदेहे तत्प्रयोक्तृत्वविनिश्चयसंभवः, ज्ञानचिकीर्षैकविषयप्रयत्नवत्त्वमेव हि प्रयोक्तृत्वं कर्तृत्वमिति वोच्यते ।
तच्च ज्ञानं द्व्यणुकाद्यदृष्टपर्यन्तपक्षीकरणे यदि सर्वविषयं न सिध्येत्, न सिध्येदेवेति ।
तस्माद् यथा गङ्गायां घोष इत्यत्र तीरलक्षणामन्तरेण गङ्गापदार्थो न घोषपदार्थमन्वेति यथा सकर्तृकपदार्थो ऽपि
तत्कारणपरमाण्वाद्यभिज्ञमनुपस्थाप्य न क्षित्यादिपदार्थमन्वेतीति प्रतीत्यपर्यवसानमेवेत्यर्थः ।
न चैवं केवलव्यतिरेकिविध्वंसः, अभिप्रायाव्याप्तस्य तद्विषयत्वादित्युक्तम्, वक्ष्यते चेति ।
तदेवं प्रथमं व्याख्यानं भाष्यानुसारेण समर्थ्य द्वितीये वार्त्तिकं स्फुटमित्याह---तदेतदिति ।
सर्वावरोधार्य साध्यानुषङ्गिहेत्वनुषङ्ग्यवरोधार्थम् ।
एतदेव स्फुटयति---हेतुरीदृश इति ॥30 ॥
॥ परिशुद्धिः ॥
वार्त्तिककारीयाभ्युपगमसिद्धान्तोदाहरणे सामान्यलक्षणं योजयति---प्रमाणाधिकरणो यत इति ।
ननु भाष्यमत एव सूत्रं स्फुटार्थमित्यत आह---सूत्रं चैवमिति ।
इन्द्रियत्वेनासूत्रितस्यापि मनस इन्द्रियत्वं परीक्षितं सूत्रकमृता ॥
ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदामात्रम् ॥
इति ॥
अत्र हि यथा रूपादिज्ञानविशेषसाधनानि चक्षुरादीन्युपपद्यन्ते, तथा सुखादिज्ञानसाधनं मनो ऽप्युपपद्यते ।
मनःपरिहारे वा सर्वेन्द्रियविलोपः प्रसज्यत इत्यभिहिते पुनः सूत्रकारेण रूपादिज्ञानं चक्षुरादिसाधनमसतु निःसाधनमेव तु सुखादिज्ञानमित्याशङ्क्य सूत्रितम्---
नियमश्च निरनुमानः
इति ।
तदिदमसूत्रितस्य विशेषस्य परीक्षणमभ्युपगमादेवोपपद्यते ।
यदि ह्यनभिमत एवायमर्थो ऽस्य, कथं परीक्ष्यं व्यवस्थापयेदित्यर्थः ।
इदं च स्वाभिमतोन्नयनप्रकाराविष्करणं सूत्रकृतः शिष्यहिततयेत्यतो लक्षणार्थमाह---सो ऽयमिति उक्तार्थानुषङ्गिणः अर्थस्याभ्युपगमो ऽभ्युपगमसिद्धान्त इत्यर्थः ।
ननु भाष्यकाराभिमतस्याभ्युपगमसिद्धान्तस्य तल्लक्षणयोगे किमयुक्तत्वेन?अयोगे च तदेवोच्यताम् ।
तथापि किमयुक्तत्वेनेत्यत आह---प्रमाणतन्त्रेति ।
तमिमं विभागलक्षणप्रपञ्चं सर्व एवायं पक्ष इति पूर्वपक्षवार्त्तिकविवरणव्याजेन संकलय्याह---सर्वतन्त्रेत्यादि ॥31 ॥
॥ इति न्यायाश्रयसिद्धान्तलक्षणप्रकरणम् ॥
॥ न्यायलक्षणप्रकरणम् ॥
॥ परिशुद्धिः ॥
एवं च यत्र न्यायलक्षणं करणमुपनेयम्, तत्प्रकरणं समर्थ्य, उपनेयन्यायप्रकरणम् आरभ्यत इति स्फुटार्थं भाष्यम्---अथावयवा इति ।
अतः सिद्धवत् सूत्रं प्रत्याहरति---प्रति---वाः ॥32 ॥
एकावाक्यता विशिष्टैकार्थधरूपकार्यसंबन्धः ।
विशिष्टश्चार्थो ऽत्र प्रकृतत्वात् समस्तरूपोपपन्नं लिङ्गम् ।
संशयः कथासु विप्रतिपत्तिज एव ।
स चानुविधयस्थेयगतो, यथायोगं विचार्यवस्तुगोचरस्तज्ज्ञानगोचरश्चेति विचारमात्रे तु सार्वहेतुकः, स्वपरनिष्ठश्च ।
प्रयोजनं कथासु प्रतीतिजयौ ।
अन्यत्र प्रकृतोपयोगिनो ऽज्ञातस्य ज्ञानं ज्ञापनं च ।
जिज्ञासा कथासु अनुविधेयस्थेयानाम् ।
अन्यत्र स्वगता शक्यप्राप्तिः सर्वत्र पदपदार्थवाक्यप्रमाणतदाभासपाटवम् ।
संशयव्युदासं तु सम्यगित्यभिधायैकपक्षपरिग्रहं केचित् मन्यन्ते ।
स चादौ विप्रतिपत्त्या पश्चात् प्रतिज्ञया गतार्थ इति मत्वा तर्काभिप्रायेण व्याचष्टे---यदि शब्दो नित्यः स्यादिति ।
व्युदस्यते हि तेन संशयः फलतः स्वरूपतश्च ।
तदाह---प्रमाणाभ्यनुज्ञानद्वारेणेति ।
संशयो हि द्वे कोटी परिस्पृश्य वर्तमानां जिज्ञासामपि तथाभूतामेव जनयति ।
न्यायस्तु श्रोत्रियवद्विरुद्धधर्मसंकरमनिच्छन् कुलबधूमिव एककोटिनियतामेव जिज्ञासामनुरुध्यते ।
तदेवं तावन्तरा वर्तमानस्तर्क एकस्यां कोटौ प्रमाणबाधितं कञ्चिदर्थमाहरन् तद्गतामिच्छां विच्छिद्य द्वितीयकोटौ नियमयति ।
सेयं ज्ञेयेच्छा नियतैककोटिका प्रमाणाभ्यनुज्ञेत्युच्यते ।
एनां च जनयता तर्केण संशयफलं प्रबलेच्छा तदैव व्युदस्यते ।
तद्द्वारेण प्रमाणं प्रवर्तयता संशयस्वरूपमपीति ।
तदेतन्न्यायप्रवृत्तेरुत्पत्यङ्गपञ्चकमुत्पत्तिमात्रेण, न तु ज्ञाप्तिमपेक्षते ।
अतो नैतस्य ज्ञापकचिन्ता क्रियते ।
उत्पत्तिचिन्तैवोपयोगित्वात् तत्र तत्र कृता, करिष्यते च ।
प्रतिज्ञाद्यर्थास्तु ज्ञाता एव न्यायमुपकुर्वन्तस्तत्फलसिद्धावुपयुज्यन्ते ।
अस्तेषां ज्ञापकचिन्ता क्रियत इति ॥32 ॥
॥ परिशुद्धि ॥
परिगृह्यते ऽनेनेति स्वीक्रियत इत्यर्थः ।
तेन साध्यतया स्वीक्रियमानस्यार्थस्य वचनं प्रतिज्ञेति सूत्रार्थः ॥
अपोह्य भेदः सिद्धान्तो जिज्ञासा साधनार्हता ।
कर्मधर्मश्च लोकश्च प्रस्तावश्च नियामकाः ॥
इति अतिप्रसङ्गासमाधिवार्तिकस्य प्रपञ्चसंक्षेपः ।
न हि व्यङ्ग्यमित्यादि ।
यथा च नेयं भ्रान्तिः तथा द्वितीये निवेदयिष्यते ।
तदालोकेति, चन्द्रशब्दो ऽयं शशिवाचकः प्रयोज्यवृद्धं प्रति असति वृत्त्यन्तरे तत्प्रत्ययजनकत्वात् ।
तत्प्रत्ययजनकश्चायं स्वप्रत्ययेन तद्गोचरव्यवहारहेतुत्वादिति ।
हेतुदोषो ऽसिद्धत्वादिरेवेति ।
असिद्धत्वाद्यर्थत्वमित्यर्थः ।
एवमुत्तरत्र यस्तु नैवंविधो न वाच्यो न लक्ष्य इत्यर्थः ।
ननु तथापि वाच्यवल्लक्षयो ऽपि
पक्ष एवेति दर्शयितुमिष्टग्रहणं भविष्यतीत्यत आह---न च क्वचिदपीति ।
भवेदेवं यदि विधाद्वयं स्यात्, न त्वेतदस्तीत्यर्थः ।
एतच्चान्विताभिधाननिराकरणेन द्रष्टव्यम् ।
न त्वशक्यत्वासदाचारत्वे अवधीर्य शास्त्रानपेक्षमभ्युपगच्छन्तो दृश्यन्ते ।
न च सामान्यलक्षणायोगः ॥
तन्त्राधिकरणाभ्युपगमसंस्थितिः
इत्यस्य कथाधिकरणाभ्युपगमसंस्थितिरित्येवमप्यविरोधात् ।
तस्माद् यथाभाष्यमेव ज्याय इत्यत आह---यस्तावदिति ।
एतेन वार्त्तिककारीयो ऽभ्युपगमसिद्धान्तस्तावदुचित इति दर्शयता छलतः पञ्चमसिद्धान्तापत्तिर्दशिता ।
न ह्ययमेतेष्वन्तर्भवतीति सतीर्थ्यानाम् ।
परान् प्रति तु दोषमाह---यस्त्विति ।
यदि हि प्रमाणीकृतशास्त्रविरुद्धो ऽप्यर्थो ऽभ्युपगम्यमानः सिद्धान्ततामुपयायात्, न वादिनो कदाचिदप्यपसिद्धान्तेन निग्रहो भवेत् ।
यत्र यत्र प्रमादिके ऽप्यर्थे शास्त्रविरोधश्चोद्येत तत्र तत्राभ्युपगमसिद्धान्तो ऽयं ममेत्येवमपि निस्तारात् परावृत्त्य च तेनैव निरनुयोज्यानुयोगेन निग्रहे कथासमाप्तौ तद्व्युत्पादनप्रयासस्याप्यभावात् ।
न चैवमस्त्विति वाच्यम् ।
शास्त्रप्रामाण्याभ्युपगमतद्विरुद्धार्थाभ्युपगमयोर्विरोधस्य दुर्वारत्वात् ।
शास्त्रप्रामाण्याभ्युपगमे तदसमानार्थस्य स्ववचनस्य
प्रामाण्याभ्युपगमविरोधात् ।
तदनुगुणस्य प्रामाण्याभ्युपगमे तद्व्याहताभिधायिनः पुनरपसिद्धान्तापातात् ।
तस्मात् न हि शास्त्राश्रया वादा भवन्तीति स्वप्नविलापः इत्यर्थः ॥33 ॥
॥ परिशुद्धिः ॥
इह प्रतिज्ञार्थः सर्वथैव कथासु नोपयुज्यते, अर्थोपलब्ध्या युक्तो ऽप्यन्यथैव लब्धः? आद्ये विप्रतिपत्तिमपि न विभावयेत् ।
अविभावयंश्च तां कथमिव प्रतिवदेत्? अप्रतिवदतश्च वचनं कथं कथाशरीरतामियात्? तथा च कथकः कथं निगृह्येत, निगृह्नीयाद् वेति न संप्रतीतिर्नच विजयो गर्दभीक्षीरमथनवदनर्थकः प्रयासः ।
नापि द्वितीयः, स हि विवादाद् वा अवयवान्तराद् वा? विवादादपि व्यवहिताद् वा, अवयवान्तरैकवाक्यतापन्नाद् वा? अवयवान्तरादपि साक्षाद् वा, आक्षेपतो वेति? न तावदाद्यः, आसत्तेः अभावादेकवाक्यत्वानापत्तेः ।
आपत्तौ वा आन्तरालिकासाधनाङ्गवचनेन निगृह्येत ।
अनिग्रहे वा परः पर्यनुयोज्योपेक्षणमासादयेत् ।
द्वितीये त्वविवाद एव ।
वयमपि हि पराभ्युपेतपक्षविपरीतां कोटिमुपनीय तत्सिद्धये ऽवयवान्तरमभिदध्यादिति ब्रूमः ।
न ह्येवंभूतकोट्युपदर्शनव्यतिरेकेण प्रतिज्ञायाः शृङ्गमस्ति ।
नापि तृतीयः, न हि हेत्वादिभिः चतुर्भिः प्रतिज्ञार्थो ऽभिधीयत इति वक्ष्यामः ।
नापि चतुर्थः, स ह्यपेक्षाकाले वा, अन्यदा वेति ।
तत्र प्रथममुररीकत्याह---तथाहीति ।
यद् बुभुत्सन्ते यदेति शेषः ।
प्रतिपन्नविवादविषया हि तन्निर्णयहेलुं
साधनमनुबुभुत्सामहे ।
न तु तन्निर्णयहेतुभूतसाधनावबोधवनतो विवादविषयं निर्णयस्य निर्णेयरूपमन्तरेण निरूपयितुमशक्यत्वात् ।
तदनिरूपणे तत्साधनस्यापि तथात्वेनाशक्यनिरूपणत्वात् ।
अनिरूपितस्य चैषितुमशक्यत्वात् ।
तथा च तस्यैव प्रथमाभिधाने प्राप्ते ऽन्यस्याभिधानानवकाशात् आक्षेपस्यापि कुतो ऽवकाश इति? नन्वपेक्षितानभिधाने ऽप्यपेक्षितं कुर्वाणः कथमववधेयवचनो नामेत्यत आह---यथा चेति ।
यत्रापेक्षितमन्यथापि शक्यसंपादनम्, तत्रापि तदनभिधाने विपरीतबुद्धिः किमङ्गः यत्र वचनेनैवापेक्षितसिद्धिरित्यर्थः अन्यदेति पक्षमुपस्थापयति ।
यत् कृतकमित्यादि ।
दूषयन्ति---न परस्पराश्रयप्रसङ्गादिति ।
यो हि येन यत् साधयितुम् उद्यतः स तत्सामग्रीमप्रतिकूलयन्नेव तथा कर्तुमर्हति ।
यथाकालमपेक्षितामिधानं च वाक्यसामग्री, तदनादरे तूदाहरणीयोदाहरणक्रमनियममपि नाद्रियेत, प्रतिपाद्यापेक्षानियमानुरोधेन तत्र तथेति चेत्? तदिहापि समानम् ।
तथा च तत्कालातिक्रमेणाक्षेपो ऽपि नोपयोगी, शिरोमुण्डनान्तरं नक्षत्रपरीक्षावत् ।
उपयोगो वा परस्पराश्रयप्रसङ्गः अयक्षाराधनसाध्यधनेन यक्षाराधनवदित्यर्थः ।
कथ तर्हि,
मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यम् ।
इत्यादौ प्रतिज्ञामनभिधायैव उदाहरणाद्युपादानमित्यत आह---न चेति ।
तथापि हेत्वभिधानेन किं तत्स्वरूपस्योपनयेनैव साक्षादभिधानादित्यत आह---अनित्यः शब्द इति त्वपेक्षित उक्त इति ।
तत्राप्याकाङ्क्षैव विजयते ।
न ह्यनित्यः शब्द इत्युक्ते कृतकत्वानित्यत्वव्याप्तौ वा कृतकत्वस्य वा शब्दधर्मिसंबन्धे श्रोतुराकाङ्क्षा किं नाम कुत एतत्प्रतिपत्तव्यमिति स्यात् ।
इयं चापेक्षासाधनत्वाभिव्यञ्जकविभक्त्यन्तेभ्यः कृतकत्वादित्यादिपदेभ्य एव निवर्तत इत्यर्थः ।
अत एव गमकत्वादेतस्य मार्गस्य सर्वशास्त्रकारा एवमेवोपाददते ।
सौगतो ऽपि हि
मानु तु द्विविधं मेयद्वैविध्यात् ॥
असन्तो ऽक्षणिकाः तस्यां क्रमाक्रमविरोधतः ॥
इति प्रत्यक्षरं प्रतिज्ञाहेतू उपादाय व्यवहरति ।
कथायां तु परवञ्चनार्थं तावुपेक्षते ।
शास्त्रं तद्विति चेत् ।
अथ शास्त्रे किमनर्थकमभिधीयते? तत्रास्ति वा प्रतिज्ञादेः किञ्चित् प्रयोजनमिति? आद्ये, साधु परव्युत्पादकत्वमस्य निरर्थकं प्रलपतः ।
द्वितीये तु शब्दोच्चारणस्य नार्थगतेरप्यधिकं प्रयोजनं नाम, प्रथमोपक्रमे विवरणशङ्काया अप्यभावादिति ॥
ननु सामान्यलक्षणमन्तरेण न विशेषलक्षणावसर इत्यत आह---श्रुत्यर्थाभ्यामिति ।
साध्यते निश्चीयते ऽनेनेति ।
नत्वेवं सति लिङ्गमुक्तं स्यात् ।
तथा च कथं वाक्यावयव इत्यत आह---यद्यपीति ।
नन्वलमुपलक्षणेन यावता वचनमेव साधनमस्तु, साध्यते प्रतिपाद्यते तेनापि हि स्वार्थ इत्यत आह---यदि त्विति ।
एवं हि साध्यसाधनं साध्यप्रतिपादकं वचनमित्यर्थः ।
तथा च प्रतिज्ञैव हेतुः स्यात् ।
अथ साध्यपदं विहाय साधनं प्रतिपादकं वचनमित्यर्थः, तत्राह---अथेति ।
तदेतदर्थान्तराविवक्षायां दूषणमुक्तम् ।
यदि त्वेवं क्रियेय लिङ्गप्रतिपादनद्वारेण साध्यसाधनं निश्चायकं वचनमिति ।
तदा अश्रुताध्याहारः ।
उदाहरणसाधर्म्यादितिसहितस्य त्वव्याप्तिरलाभो वा सामान्यलक्षणस्येति द्रष्टव्यम् ।
एवं च व्याख्याने
वचनपदमसूत्रस्थमेव टीकाकृता स्वयमुपनीयविरोधातिव्याप्ती कुतः शङ्किते इति शङ्का निवर्तते ।
ननु तथाप्युपनये प्रसङ्ग इत्यत आह---उपनयादपीति ।
साध्यसाधनवचनमित्यत्र हि साधनत्वविशिष्टार्थवचनम् इत्यर्थो गम्यते ।
न चोपनयः ।
कोष्ठगत्या तथाभूतार्थगोचरो ऽपि तथाभूतमभिधत्ते, साधनत्वाभिव्यञ्जकविभक्तिविशेषशून्यत्वात् ।
अत एव कुत इत्याकाङ्क्षा ।
तथाचायं कृतक इत्यस्मान्न निवर्तते, अपि तु कृतकत्वादित्यस्मादेव ।
तर्हि किंभूतमुपनयात् प्रतीयत इत्यत आह---किं त्विति ।
स्वनिष्ठं साधनत्वादिधर्मरहितम् ।
कुतः? प्रातिपदिकार्थप्रधानतया ।
तत्परतया तावन्मात्राभिधायकविभक्तिमतः प्रयुक्तत्वादिति शेषः ।
एतदुक्तं भवति, न हि हेतुवदुपनयो ऽपि कुत इत्याकाङ्क्षाया प्रवर्तते, अपि तूदाहरणेन व्याप्तौ प्रदर्शितायाम् ।
भवतु तावदेतत्, तथापि प्रकृतो विवादविषयः किं व्याप्तधर्मविशिष्टो न वेत्यपेक्षायां सा च तथा चायं कृतक इत्यनेनैव परं निवर्त्यते, न तु कृतकत्वादित्यनेन ।
तस्मान्न हेतूपनययोरर्थतो रूपतः प्रयोजनतो वा संकर इत्यर्थः ॥
ननु च वचनलक्षणायां यद्यपि ज्ञानेर्ऽथे वा न प्रसङ्गः, तथापि साध्यसाधनमिति कृतकत्वमत्र हेतुरित्यादौ वचन एव प्रसङ्गः ।
एतस्यापि तथाभूतार्थप्रतिपादकत्वादित्यत आह---न्यायवाक्येति ।
अनेनाकाङ्क्षौपयिकता
दर्शिता ।
न च कुत इत्याकाङ्क्षायां साध्यसाधनमिति वा कृतकत्वं हेतुरिति वा वचनमौपयिकम् ।
अतो नैवंभूतेषु प्रसंग इत्यर्थः ।
तेन विशेषपरत्वेन हेतुरिति लक्ष्यनिर्देशो नानुपपन्न इति शेषः ।
विशिष्टविधानस्येति ।
न क्वचित् प्रदेशो साधर्म्यं हेतुलक्षणत्वेन विहितम्, येनेह सविशेषणतया विशेषणमात्रोपसंक्रान्तो विधिः स्यात् ।
नाप्यत्र विशेषणशून्यस्यैव साधर्म्यस्योपादानम् येन तावन्मात्रगोचरो विधिर्भवेत्, परस्परस्वतन्त्रोभयर्थत्वे वाक्यभेदाच्च ।
तस्मात् अनन्यगतिकतया लोहितोष्णीषवद् विशिष्टविधिरेवायम् ।
तथा च अलोहितोष्णीषवदनुदाहरणसाधर्म्यस्यार्थसिद्धः प्रतिषेध इत्यर्थः ।
पक्षान्तरमाहेति ।
अभ्युपगमस्याप्यविशिष्टसाधर्म्यमात्रविधोने ऽपि न दोष इति भावः ॥
ननु यद्यविशिष्टविधानेनैव प्रकृतसिद्धिः, किमुदाहरणग्रहणेन? न चेत् किमविशिष्टविधानेनेत्यत आह---साधर्म्यादित्यत इति ।
परिसंख्या अतिप्रसक्तिनिवर्तनमपाकरिष्यति ।
तदुदाहरणप्रदर्शनेन परिसंख्यायकं हेत्वाभासलक्षणम् ।
परिसंख्या परिवर्जनबुद्धिः ।
विशेषतो ज्ञातानां तेषा स्ववाक्ये परिवर्जनादिमुखेन भवत्वित्येतदर्थमर्थलब्धमपि कण्ठोक्त्याभिधीयते ।
तल्लक्षणमित्यर्थः ।
न विधायकं न सर्वथैवालब्धविधायकमित्यर्थः ।
सुगमो दिग्नागभङ्गः ।
हेतावुदाहर्तव्ये प्रतिज्ञोक्तिः किमर्थमित्यत आह---अत्रेति ।
उदाहृते हेतौ लक्षणं योजयितुं हेत्वर्थे च विवेचयितव्ये प्रसङ्गात् प्रतिज्ञार्थं विवेचयितुमिति भावः ।
तथापि प्रध्वंसस्य नानात्वात् जात्यादेरुपसंग्राहकस्य वा भावात् कथं व्याप्त्यादिसिद्धिः? उपलक्ष्याभेदमात्रेण च तत्सिद्धौ कुण्डलवता देवदत्तेन साध्यो व्यवहारो दण्डवतापि साध्येतेत्यत आह---विरोधीति ।
यथा ह्यभावमात्रस्य भावप्रतियोगितयैवौपाधिकसामान्यसंबन्धादेकव्यवहारहेतुत्वं तथा तद्विशेषस्यापि पूर्वापरेतरेराश्रयान्तरभावप्रतियोगितया तत्तद्व्यवहाराविरोध इत्यर्थः ।
न चैवं लब्धोत्पत्तिनीति ।
सर्वत्र हि धात्वर्थोपरक्ता भावना आख्यातार्थः ।
भावना च कारकव्यापारः ।
उत्पद्यते घट इत्यत्र तु घटो न कारकमसत्त्वात् ।
ततश्च अकारकस्यैव कारकैरत्यन्तसन्निधेस्तथोपचारो वा कारकाणामेव कार्यशब्दोपचारो वा ।
उभयथापि व्यापारावेशसमय एवाख्यातप्रयोगो न तु धात्वर्थमात्रावेशसमये ।
न हि पक्वे धात्वर्थमात्रमुपादाय पच्यत इति प्रयुज्यते लोकैः ।
तत् कस्य हेतोः? व्यापारावेशाभावात् ।
तथेहापीति ॥34 ॥
॥ परिशुद्धिः ॥
ननु न सपक्षताभावो ऽत्र सूत्रे श्रूयते, नाप्यार्थो ऽवधारणस्य च व्याप्त्या ।
पक्षे सत्त्वेनोपपत्तेरैकान्तिकं सपक्षे सत्त्वं मा प्रसांक्षीत् ।
पाक्षिकं तु प्रसक्तमेव ।
तथा च केवलव्यतिरेकिलाभे ऽपि नान्वयव्यतिरेकी निराकृतः ।
एवं सपक्षाभावे ऽपि पक्षव्यापकस्य विपक्षैकदेशवृत्तेस्तदवस्थैव प्रसक्तिरित्याह---तथापीति ।
उदाहरणेनैवेत्यवधारणस्य पक्षव्याप्तिपरस्य सपक्षाभावप्रदर्शनौदासीन्यमाविष्कर्तुमनित्यो मूर्तत्वादित्युदाहृतम् ।
वस्तुतस्तु, नेदं निरात्मकं जीवच्छीरीरं मांसादिमयत्वात् इत्यसंकीर्णमुदाहरणं द्रष्टव्यम् ।
एतद्द्वयमपि निराकर्त वैधर्म्यमेव चोदाहरणेनेति पूर्वावधारणेन पक्षव्याप्तौ लब्धायां वैधर्म्यमेवेत्यनेन साधर्म्यरूपता निराकृतावयमर्थः स्यात् ।
पक्षस्य व्यापको धर्मस्तदितरवैधर्म्यरूप एवेति तथा चेभयोरपि कः प्रसंगः? केवलमसाधारणः प्रसज्यते ।
स च विपक्षोदाहरणेनेति विशेषयता सपक्षाभावप्रदर्शनेन निरस्तः ।
यदि हि सति सपक्षे अन्वयो विवक्षितः तदा तथा वैधर्म्यादित्यनारभ्यमेव, पूर्वलक्षणेनैव गतार्थत्वात् ।
व्यतिरेकश्चेद् विवक्षितो विपक्षेणेति व्यर्थम् ।
तस्माद् वैधर्म्यावधितया उपात्तं विपक्षपदं सपक्षाभावप्रतिपत्तिफलमेवेत्यर्थः ॥
ननु तथापि वैधर्म्यादित्यत्र तथाशब्दार्थ उदाहरणेनेति ।
उदाहरणं च सपक्षो ऽपि भवतीति कथं विशेषलाभ इत्याशङ्क्य व्याचष्टे---विपक्षेति ।
व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति भाव इति तत्र तत्रोक्तमित्यर्थः ।
नन्ववधारितकार्यस्वभावोर्ऽथः केवलव्यतिरेकिसाध्यो ऽन्यथातिप्रसङ्गादिति वक्ष्यति, तथाभूतश्चात्र प्राणाद्यपेक्षया प्रयत्नः ।
तस्मिश्च साध्ये सिद्वासाधनं व्यतिरेक्यसंभवश्च स्वशरीरे प्राणस्य प्रयत्नपूर्वकत्वावधारणेन स्वपक्षान्वयस्यापि संभवादित्यत आह---प्राणादिनेति ।
तथाप्यस्मदायत्ते शब्दप्रयोगे किश्चित्यवाचकं प्रयोक्ष्यामह इत्यत आह---प्राणादिकारणेच्छादिकारणरहितमिति ।
परशरीरे पक्षप्रविष्टे हेतुसिद्ध्यर्थं विपक्षीभूते च घटादौ साध्यरहिते हेतुव्यतिरेकसिद्ध्यर्थं तथोक्तमित्यर्थः ।
नन्विच्छादिसमवायिकारणविरहनिषेधेन तद्वत्वं सिध्येत् ।
तथा च पुनरपि नात्मसिद्धिः ।
न च केवलव्यतिरेकी तावन्मात्रस्यान्वयेनैव सिद्धेरित्यत आह---यश्चेति ।
अन्वयिना हि तत्कारणमात्रं सिद्धम्, अनेन तु तदेव पृथिव्यादिविलक्षणं सिध्यतीति न निरवकाशो व्यतिरेकी ।
न च नात्मसिद्धिः तथाभूतस्य तस्यैवात्मशब्दवाच्यत्वादित्यर्थः ।
गृहीताविनाभावो हीत्यादीना व्याप्त्यसिद्धिर्दर्शिता ।
पक्षधर्मतासिद्धिरप्यनयैव दिशोहनीया ।
जिज्ञासितधर्मविशिष्टस्य पक्षत्वात्, सन्दिग्धस्य च जिज्ञास्यत्वात् विशेषस्मरणे च संशयात्, अनुपलब्धचरे च तदभावादिति ॥
द्विधा हि प्रकृतव्यतिरेकिगतिः, कार्यं कार्यवत्ता च ।
तत्र कार्यमनुमानलक्षणे दर्शितम् ।
तद् यथा, इच्छादयो द्रव्याष्टकातिरिक्तद्रव्याश्रिताः, तदनाश्रितत्वे सति कार्यत्वादिति ।
इह तु कार्यवत्ता दर्शिता नेदं निरात्मकं जीवच्छरीरं नेच्छादिसमवायिकारणीभूतद्रव्यविशेषरहितमित्यर्थः ।
इच्छादिमत्त्वात् इच्छदिरूपकार्यवत्त्वादित्यर्थः ।
तदेतदुभयमत्रैवान्तर्भाव्य व्युत्पादयन् प्रथमतस्तावत् कार्यं प्रधानीकृत्याह---अयमर्थैति ।
इच्छादिकार्याः सन्तस्तान् गमयन्ति ।
ते ऽप्यनित्यतया कार्या इति शेषः ।
किं चात इत्याह---अक्षणिकत्व इति ।
हेतोर्विशेषणासिद्धिं निराकरोति---शरीरेन्द्रियेति ।
न शरीरेन्द्रियमनःस्वन्यतमस्मिन्नेते समवयन्ति, मानसैकप्रत्यक्षत्वादिति निषेधे सतीत्यर्थः ।
निश्चोद्यश्चैष केवलव्यातिरेकी ।
एवं प्रथममुपपाद्य तदीयाप्रसिद्धविशषणत्वसंशयानुपपत्ती साधारणन्यायेन निराकुर्वन्नेव द्वितीयमुपपादयति---तदस्येति ।
एतच्च तत्रैव स्फुटीकृतम् ।
ननु यदि नाम सामान्यत इच्छादिसमवायिकारणमात्रव्यावृत्तिर्घटादौ प्रतिपन्ना किमायातं नैरात्म्यस्येत्यत आह---निरात्मकशब्देनापीति ॥
एवमर्थगति परिशोध्य वार्त्तिकं योजयित्वा द्वतीयं प्रधानीकृत्याह---एतदुक्तं भवतीति ।
शङ्कते---न
चेतिर् ।
इश्वरानुमान इव पक्षधर्मतावलेनैव विवक्षितो विशेषः सेत्स्यतीत्यर्थः ।
नन्वन्वयिना विशेषं साधयता केवलव्यतिरेकिणः किं खण्डितम्, येनायं तस्मिन् सम्भवत्येवोदास्ते, खण्डने वा, अथ तेनैव विपर्ययस्यापि वक्तुं सुकरत्वादित्यत आह---ऋजुमार्गेणेति ।
व्याप्तिर्हि सिद्धिमार्गः ।
तस्यापरिवर्त एव ऋजुत्वम्, परिवर्तस्तं वक्रतेत्यर्थः परिहरति---कारणमात्रस्येति ।
उक्तमत्र यथास्मिन्नर्थे पक्षधर्मता न प्रभवति ।
आभिप्रायिकोह्यर्थस्तद्गोचरः ।
स चाभिप्रायेण व्याप्यते, यत्सिद्धिमन्यरेण शब्दार्थः प्रत्येतुं न शक्यते ।
न च द्रव्याष्टकातिरिक्तमप्रतीत्य तेषां समवायिकारणमेव प्रत्येतुं न शक्यते ।
न हीच्छादीन् प्रति पृथिव्याः समवायिकारणत्वे तेषां तद्वत्ता अभिधीयमाना विरुध्यते ।
यथा द्व्यणुकादिकारणज्ञाने तेषां परिदृष्टसामर्थ्यकारकप्रयोक्तृलक्षणकर्तृपूर्वकत्वं शब्दोपात्तमित्यर्थः ॥
पुनः शङ्कते---परिशेषादिति ।
आश्रितत्वं तावदेतेषामन्वयिन एव सिद्धम् ।
द्रव्याष्टकाश्रितत्वनिषेधो ऽप्यन्वयिन एव सिध्यति ।
तत्किमपरमवशिष्यते यत्केवलव्यतिरेकिणा सेत्स्यतीत्यर्थः ।
उत्तरम्---स एवेति ।
अयमर्थः ।
पूर्वस्माद् आश्रितत्वं सिद्धं तदन्यस्मादपि द्रव्याष्टकानाश्रितत्वम् ।
तदतिरिक्तार्थाश्रितत्वसिद्धिस्तु नैकस्मादपि ।
तदभावे चानयोरपि वरोध एव ।
तस्मादर्थाद् अष्टातिरिक्ताश्रितत्वसिद्धिः स चार्थस्तावन्नान्वयः ।
न हि द्रव्याष्टकानाश्रितत्वे सति यदाश्रितम्, तदतिरिक्तद्रव्याश्रितमित्यस्त्यन्वयः ।
वक्रोक्तिकश्चान्वयी, केवलव्यतिरेकिप्रपञ्च ए विवक्षाभेदात् ।
तस्मात् व्यतिरेक एवार्थः, तद्वान् परिशेषो व्यतिरेकीति सुष्ठूक्तम् ॥
इदानीं विशेषणसिद्धये प्रमाणं सूचयति---यदि हीति ।
विपर्ययेण प्रयोगः ।
शरीरेन्द्रियाणि नेच्छादिसमवायिकारणानि भूतत्वाद् घटादिवदिति ।
ननु यत्र द्रव्याष्टकातिरिक्तद्रव्याश्रिता इति प्रतिज्ञा, तत्र युक्तमेतत् ।
यत्र तु नेदं निरात्मकमिति तत्र निरात्मकशब्देनापि अयमेवार्थ उच्यत इति वदता इच्छादिसमवायिकारणविरहनिषेध एव प्रतिज्ञार्थः स्वीकृतः ।
तथा च कथमष्टद्रव्यातिरिक्तेच्छादिसमवायिकारणवत्ता शरीरस्य इत्याशङ्कामुपसंहरन्नेव परिहरति---तस्मादिति ।
अत्रापि पृथिव्यादिविलक्षणेच्छादिसमवायिकारणवत् जीवच्छरीरमिति प्रतिज्ञार्थः ।
तत्समवेतेच्छादिकार्यवत्त्वादिति हेत्वर्थः ।
ननु
तथापि---बौद्धं प्रति सिद्धसाधनं भवत्येव, सो ऽपि पृथिव्याद्यतिरिक्तमेवेच्छादीनाम् उपादानमिच्छतीत्यत आह---न चैषामिति ।
स्थैर्ये सतीति शेषः ॥
ननु तथापि घटादिभ्यो निरात्मकेभ्य इच्छादिव्यतिरेकः किं तथाभूतद्रव्यव्यावृत्तिकृतः? किं वा भूतानामेव परिणतिभेदव्यावृत्तिकृत इति सन्दिग्धोपाधिकत्वादगमक एवेत्यत आह---यथा चेति ।
व्यतिरेकमुखेणापीति ।
यदि साध्येनास्य क्वचिदप्यन्वयो नास्ति, तदा विरुद्ध एवायमित्यर्थः ।
न स्वाभाविकमिति ।
न वयमस्योपेयमन्वयं व्यासेधामो ऽपि तूपायमित्यर्थः ।
तथापि नास्यान्वयिनो भेद उपेयभूतेनाप्यन्वयेनान्वयित्वादित्यत आह---एतावतैवेति ।
ननु वस्तुतः साध्यधर्मवानेव धर्मी सपक्षः ।
स च तथाज्ञातो व्यवह्रियते परम् ।
ततश्च तदन्वितो ऽपि हेतुरन्वयव्यतिरेक्येव ।
अज्ञैस्तु तथा न व्यवह्रियत इत्यन्यदेतदिति शङ्कते---न च पक्ष एवेति ।
व्यवहारेतुरन्वयश्चिन्त्यते, न तु व्यवहार्य इत्याशयवान् परिहरति---जिज्ञासितेति ॥
ननु यद्यस्य सपक्षव्यतिरेकाप्रतिषेधः, कथं नासाधारण्यम्? तत्प्रतिषेधश्चेत् कथं नान्वयः? अथ तत्प्रतिषेधे ऽपि तावन्मात्रमवे नान्वयः, एवं तर्हि सपक्षवत् पक्षे ऽपि नैरात्म्यप्रतिषेधे ऽपि नात्मसद्भाव इति पराक्षेपं परिहृत्य तद्ग्रन्थं पठति शरीरादिष्विति ।
विपक्षे हि सति सत एव कस्यचिद् व्यतिरेकः प्रतीत इति प्रमाणेन प्रतीत इति प्रतिपादितम् ।
तस्य च प्रमाणप्रतीतस्य व्यतिरेकस्य पक्षे ऽपि सत्येव निषेधः प्रमाणेन क्रियत इति युक्ता निषेधलक्षणा विधिसिद्धिः ।
सपक्षस्तु न केनचित् प्रमाणेन प्रतीत इति न तत्रान्वयव्यतिरेकतन्निषेधाः परमार्थतः केनचित्प्रमाणेन शक्यते प्रत्येतुम् ।
तत्कथं विधिनिषेधयोरन्यतरप्रसक्तिरित्यर्थः ॥
सपक्षाव्यतिरेकी चेत् सपक्षव्यतिरेकनिषेधावनित्यर्थः ।
अन्वयी सपक्षान्वयी ।
अथैवमपि नान्वयी, अपि तु व्यतिरेक्येव ।
अथ सपक्षव्यतिरेकनिषेधस्यापि व्यतिरेकनिषेधमात्रपर्यवसायितयान्वयापर्यवसानादिति मन्यसे, तदा पक्षे ऽपि नैरात्म्यनिषेधे ऽपि तावन्मात्रपर्यवसायितया न सात्मकत्वपर्यवसानमिति वार्त्तिकार्थः ।
तदेतन्निराकृतम्
अवस्तुनि पारमार्थिकविधिनिषेधानभ्युपगमात् ।
तथापि स्ववचनविरोधप्रतिहतमेतदित्यत आह---एतच्चास्माभिरिति ।
न तस्य व्यतिरेकव्यभिचारो ऽपि तस्य व्यतिरेकधर्मतया तदभावे ऽनुपपत्तेरित्यर्थः ।
परिहरतीत्यादि ।
व्यभिचारवदव्यभिचारो ऽपि तद्धर्म एव सो ऽपि कथं तदभावे भवेदित्यर्थः ।
ततो व्यावृत्त्यभावेनेति व्यावृत्तिनिरूपणाभावेनेत्यर्थः ।
आगामिवार्त्तिक भ्रमनिरासार्थं स्फुटमपि व्याचष्टे---अत्र चेति ।
भ्रमं निवारयति---न पुनरिति ।
नन्वेतावत्येव सूत्रार्थे को दोषः स्यादित्यत आह---तथा सतीति ।
शेषमनुमानलक्षण इति सपक्षे सिद्ध इत्यादि वृत्तिपदान्तरदूषणशेषम् ॥
सौत्रान्तिकेति वैभासिकमतव्युदासार्थम् ।
तन्मते नित्यस्याप्याकाशादेरकार्यस्यापि संभवात् ।
यदाहुः
आकाशं द्वौ निरोधौ च त्रयमेतदसंस्कृतम्
इति ।
सदृशक्षण सभागसन्तानलक्षणनिरोधभेदेन निरोधौ द्वौ विनाशौ ययोरप्रतिसंख्याप्रतिसंख्यानिरोधाविति परिभाषा ॥
अत्र दिग्नागेन
सपक्षे सन्नित्यादिना
हेतुतदाभासान्, तदुदाहरणार्थं
नित्यानित्येत्यादिना
साध्यवर्गं
प्रमेयेत्यादिना
साधनवर्गं
सपक्षः खं घटो बुद्धिर्वियद्गगनमम्बरम् ॥
तडिद्व्योम्नी तडित्कुम्भौ परमाणुर्वियत् तथा ॥
इति सपक्षवर्गं
कुम्भो वियत् तडिद्व्योम्नी घटः कुम्भस्तडिद्धटौ ।
कुम्भो वयद् घटो बुद्धिर्विपक्षो ऽस्य यथाक्रमम् ॥
इति विपक्षवर्गं प्रपञ्च्य
तत्रेत्यादिना
हेतुर्निर्धारितः ।
तत्र प्रपञ्चं विहाय यावन्मात्रेण हेतुर्निर्धार्यते तावदुपन्यस्यति---अत्रेति ॥35 ॥
साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् ॥36 ॥
॥ परिशुद्धिः ॥
प्रयोगे किं सौत्र एव क्रमो ग्राह्यः, क्रमान्तरं वेति सन्देहमुदाहरणस्य प्रयोजनं दर्शयन् निवारयति---हेताविति ।
यतो नाव्याप्तो नाप्रतीतव्याप्तिको हेतुभावे व्यवतिष्ठते साध्यसिद्धावेकाग्रीभवति, अतो व्याप्तेर्बुभूत्सितत्वात् सैव प्रतिपादयितुं युज्यत इति शेषः ।
तथाप्युदाहरणस्य को ऽवसर इत्यत आह---न चेति ॥
प्रतीतसामर्थ्यं हि साधनं साध्ये उपनयन्ति ।
न तूपनीय पश्चात् सामर्थ्यं जिज्ञासन्त इति सर्वलोकसिद्धमिति संगतिसंक्षेपः ।
तथापि सामान्यलक्षणविभागौ विना नावसरो विशेषलक्षणस्येत्यत आह---सूत्रमितीति ।
ननूदाहरणोपलक्षणमप्रकृतमपि कस्मादुपादीयते? कस्माच्च विभ्यता लक्षणं प्रकृतमपहीयत
इत्यत आह---दृष्टान्त इति ।
प्रकृतलक्षणसिद्ध्यर्थमेवोपलक्षणाभिधानमिति नोभयदोष इत्यर्थः ।
अनेनेत्यादिना व्यवच्छेद्यसमानासमानजातीयप्रदर्शनं सूचितसामान्यलक्षणाभिप्रायम् ।
तच्च दृष्टान्तवचनम् उदाहरणमिति द्रष्टव्यम् ।
विशेषलक्षणपक्षे तूदाहरणविशेषो लक्ष्यः ।
उदाहरणं सपक्षोदाहरणमित्यर्थः ।
शेषं लक्षणम् ।
तेन हि समानजातीयाद् विपक्षोदाहरणाद् विजातीयाच्च प्रतिज्ञादेरिदं व्यवच्छिद्यत इति बोद्धव्यम् ।
विशेषलक्षणं च श्रौतम् ।
तद्व्याख्यानभाष्यमनूद्य व्याचष्टे---साध्येनेति ।
तेन तादृशेन दृष्टान्तेन साधनधर्मप्रयुक्तसाध्यधर्मवता उपलक्षितं विषयतया तद्विषयं वचनमुदाहरणं सपक्षोदाहरणमित्यर्थः ॥
यस्मादित्यादिवार्त्तिकं यद्यपि के ऽपि नानुमन्यन्ते, तथापि वाक्यशेषभूतेनाप्यनेन भवितव्यमिति मन्यमानः तदन्तर्भाव्यैव शङ्कामुत्थापयति---यस्मादिति ।
इयं चाशङ्का तैरागामिवावार्त्तिकं दृष्ट्वा साध्येनैवेत्यवधारणाक्षेपिकेति बुद्धम् ।
तच्च मन्दप्रयोजनम्, हेतुलक्षणरीतिमतिदिशतैव तत्प्रयोजनस्य दर्शितप्रायत्वात् ।
मा भूच्चावधारणसमर्थने ऽपि तद्धर्मभाविग्रहणानर्थक्यशङ्काशेषस्थितिरिति मत्वा व्याचष्टे---अवधारणेति ।
तथापि शङ्कानुरूपं नोत्तरमित्यत आह---शिष्योपाध्यायेति ।
अयमर्थः ।
साध्येनैव
साधर्म्यमिति विशेष्यसंगत एवकारो ऽन्ययोगं व्यवच्छिनत्ति, न तु साधर्म्यस्याप्रयोजकत्वमपि ।
न च पक्षसपक्षाभ्यामन्येन मैत्रतनयत्वादेर्योगः सन्दिग्धो ऽपि ।
न च पक्षो ऽपि विपक्ष इति तत्र तत्र दर्शितमेव ।
साधर्म्यमेवेत्ययमपि विशेषणसंगत एवकारो ऽयोगं व्यवच्छिन्द्यात्, न तु तस्याप्रयोजकत्वमपि ।
न ह्यप्रयोजकस्यायोगव्यवच्छेदो विरुध्यते ।
प्रयोजकतायां तु दर्शितायां तथाभूतस्यायोगव्यवच्छेद प्रकृतसिद्धिः ।
एवं च सति प्रथममवधारणं मन्दप्रयोजनमपि परशुच्छेद्यतां को वा नखच्छेद्ये सहिष्यत इति न्यायेन दर्शितम् ।
अप्रयोजके तूदाहर्तव्ये अनैकान्तिकोदाहरणं द्वयोरप्युभयकोटिस्पर्शाविशेषादिति ।
नन्वेवं सति हेतुलक्षणं न्यूनमप्रयोजकाव्युदसनादित्यत आह---हेतुलक्षणे त्विति ।
उभयविकलप्रदर्शनेनाश्रयविकलमपि प्रदर्शितप्रायम् ।
यथा, यत् क्रमयौगपद्यरहितं तदसत् ।
यथा वाजिविषाणमिति ।
एवमर्थद्वारकमुदाहरणाभासचतुष्टयं दर्शयित्वा शब्दद्वारकं द्वयं दर्शयितुं पीठमारचयति---पञ्चमीति ॥36 ॥
तद्विपर्ययाद्वा विपरीतम् ॥37 ॥
॥ परिशुद्धिः ॥
सव्याख्यानं परिवर्तितपदम् ।
उदाहरणं विपक्षोदाहरणम् ।
यद्यप्यतद्धर्मभावित्वात् साध्यवैधर्म्यवान् दृष्टान्त उदाहरणमिति व्यत्ययो युज्यते, तथाप्यार्जवानुरोधाद् यथाश्रुति व्याचष्टे---सात्मकतयेति ।
अत एव पदानि विभज्य संकलितमर्थमाह---एतदुक्तं भवतीति ।
अत्रापि साध्यसाधनोभयाव्यावृत्ता आश्रयविकलश्चेति ।
अर्थद्वारकमाभासचतुष्टयं व्युदस्तम्, यथा नित्यः शब्दः श्रावणत्वात् ।
यत् पुनर्न नित्यं तदश्रावणं दृष्टम्, यथाकाशम्, यथा ध्वनिः, यथा शब्दत्वम्, यथा शशविषाणमिति ।
शब्दद्वारकं च द्वयमनुपदर्शितव्यावृत्तिकम्, विपर्ययोपदर्शितव्यावृत्तिकं चेति ।
यथा नेदं निरात्मकं जीवच्छरीरमिच्छादिमत्त्वात्, घटवदिति ।
यत् पुनरिच्छादिमन्न भवति, तन्निरात्मकं था घट इति चेति ।
सूत्रस्थश्चेति ।
समुच्चये स्वरूपसमुच्चये ।
न केवलं साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम्, अपि तु तद्विपर्ययाद् विपरीतं चेत्यर्थः ।
न पुनर्विषयसमुच्चये ।
एकस्मिन् विषये निरपेक्षत्वसापेक्ष्ट्वाभ्यां वृत्तिर्विकल्पसमुच्चयौ ।
न चैवमत्र ।
कुतः व्यतिरेकिविषयत्वाद्
वैधर्म्योदाहरणस्येति ।
मात्रेति पूरणीयम् ।
उपलक्षणं चैतत्, अन्वयिविषयत्वात् साधर्म्योदाहरणमात्रस्येत्यपि द्रष्टव्यम् ।
तथाप्यन्वयव्यतिरेकिविषयतया समुच्चयविकल्पौ भविष्यतः, यथा भाष्यकृदुदाहरणमित्याशङ्कानिराकरणवार्त्तिकं योजयितुमाह---अत्रेति ।
सर्वत्र हि अन्वयपूर्विकैव व्यतिरेकप्रतिपत्तिः, प्रतियोगिनिरूपणमन्तरेणाभावस्यानिरूपणात् ॥
इयांस्तु विशेषः केवलव्यतिरेकिणि सामान्यतो ऽन्वयव्यतिरेकिणि तु विशेषतो ऽपि ।
यथा च केवलव्यतिरेकी सत्यपि सामान्यान्वये न तेनोपसंहर्तुं शक्यः, तथोक्तम् ।
अन्वयव्यतिरेकिणा तु व्यतिरेकोपसंहारेण यावानर्थः साध्यः, तावानन्वयोपसंहारेणैव सिद्धः इत्यधिकं तावत् तदभिधानम् ।
पुनरुक्तं च ।
नियमवतोरन्वयव्यतिरेकयोरेकतरसिद्धावन्यतरसिद्धेरर्थापन्नत्वात् ।
यद्येवम्, केवलव्यतिरेकिण्यपि तर्हि व्यतिरेकसिद्धावन्वयसिद्धिः अप्यर्थात् ।
तथा च न केवलव्यतिरेकीति ।
सत्यम्, सिध्यत्यन्वयो न तु सपक्षे, किं तु पक्ष एवेति विशेषः ।
स चोपेयो नोपाय इत्युक्तम् ।
नन्वन्वयव्यतिरेकिणो ऽपि पक्षादेव व्यतिरेकप्रत्ययो मा भूदित्येतदर्थं विपक्षे नियमो दर्शयितुमुचितः ।
न, तत्र हेतूपसंहारेणैव शङ्काया निवर्तितत्वात् ।
नन्वेवं सति केवलान्वयिन्यपि अर्थाद् व्यतिरेकसिद्धिप्रसङ्गः ।
तथा च न केवलान्वयीति चेत्---न, अविशेषविधित्वात् ।
यत्र हि सपक्षतदितरौ स्तः, तत्र विशेषविधौ शेषनिषेधो गम्यते, यथा नित्यानित्यप्रतीतौ ।
अनित्य एव कृतकत्वमित्युक्ते अर्थाद् गम्यते न नित्य इति ।
न चाभिधेयानभिधेयकोटिद्वयसंभवो, यतो ऽभिधेय एव प्रमेयत्वमित्युक्ते गम्यतां नानभिधेय इति ।
अत एवान्वयव्यतिरेकिणि व्याप्यव्यापकयोरन्ययोगायोगव्यवच्छेदेन व्याप्तिनिरूपणम् ।
केवलान्वयिनि तु व्याप्तिक्रियामुपादायात्यन्तायोगव्यवच्छेदेनेति नैवकारार्थचोद्यावकाशः ॥
नन्वधिकपुनरुक्तभिया मा भूत् समुच्चयो, विकल्पस्तु भवेदित्यत आह---ऋजुमार्गेणेति ।
न हि केवलव्यतिरेकिणीवान्वयव्यतिरेकिण्यप्यन्वयाद् व्यतिरेका विशेषः ।
किं नाम? स एवार्थः ।
तथा चान्वयं प्रतीत्य तन्निषेधो व्यतिरेकः प्रत्येतव्यः ।
उपलभ्य च तन्निषेधं स एवान्वयः? सो ऽयं प्राक् यदि पक्ष एव प्रतिपन्नः किमधिकं व्यतिरेकेण साधितम्? सपक्षे चेत् ।
स एव पक्षे किं नोपसंहृतः? न ह्ययमसाधको, नापि प्रथमं बुद्धावुपनिपतितो, नापि न ऋजुरिति, सपक्षाद्धि कृकाटिकाभङ्गेन विपक्षगमनम्, विपक्षाच्च तथैव पक्षागमनमिति वक्रो मार्गः ।
पूर्वस्तु सपक्षादभिमुखमेव पक्षसंक्रान्तिरितृजुः ।
न च वक्ररुचेर्नेदमनिष्टमिति वाच्यम्, असांव्यवहारिकत्वप्रसङ्गात् ।
न हि घटमानयेति वक्तव्ये ऽनघटं न मानैषीरिति वक्तारो भवन्ति ।
यथा स्वयमन्वयमप्रतीत्य व्यतिरेकाप्रतिपत्तिः, तथा तमप्रतिपाद्य तदभावप्रतिपादनमशक्यमित्यवश्यमन्वयोक्तौ तदेवाधिकं पुनरुक्तं च ।
अनुक्तौ तु न व्यतिरेकस्याभिधीयमानस्यापि प्रतिपत्तिरित्यपार्थकमिति ।
एवमुदाहरणयोर्विशेषव्यवस्थां दर्शयता वाशब्दस्य व्यवस्थितविभाषावचनत्वे ऽपि सङ्गतिरित्यपि दर्शितम् ॥37 ॥
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः ॥38 ॥
॥ परिशुद्धिः ॥
संगतिं करोति---उदाहरणानन्तरमिति ।
आनन्तर्यमेवकुत इत्यत आह---परामर्शेति ।
एतदेव कुत इत्यत आह---उदाहरणेति ।
विषयभूतयोर्व्याप्तिपक्षधर्मतयोर्नियतपौर्वापर्यप्रतिपत्तित्वेन विषयविषयिणोरप्युदाहरणोपनययोः पौर्वापर्यनियम इत्यर्थः ।
ननु नावश्यं ज्ञानक्रमनियमं तद्वचनक्रमनियमो ऽनुरुध्यते, विपर्ययेणाप्यभिधानदर्शनादित्यत आह---स्वप्रतिपत्ताविति ।
व्याप्तिपक्षधर्मताज्ञाने हि अनुमित्युपयोगिनी ।
ते च यथा स्वस्योत्पद्येते तथा परस्याप्युत्पादनीये, स्वप्रतिपत्त्यनुसारेण परावबोधनात् ।
स्वयं च व्याप्तिज्ञानादिन्द्रियादिसहायात् पक्षधर्मतावगमो न तु विपर्ययः ।
ततः परस्याप्युदाहरणवचनेन व्याप्तिज्ञानुमुत्पाद्य तत्सहचरितेनोपनयवचनेन पक्षधर्मताप्रत्यय उत्पादनीयः, केवलस्य व्याप्तिस्मरणस्य
व्याप्तिस्मरणस्य तदनुत्पादकत्वात् ।
इन्द्रियादिस्थानीयस्य चापरस्य अभावात् ।
तस्मादर्थसिद्धः पौर्वापर्यनियम उदाहरणोपनययोरित्यर्थ इति अन्ततः फक्विका योज्येति ॥
तथात्वातथात्वयोरिति ।
तथात्वेनोपसंहारस्यातथात्वेनोपसंहारस्येत्यर्थः ।
हेतोः उपसंहारः साध्यधर्मिणीति शेषः ।
अत्रापीति ।
यथाश्रुत्यर्थाभ्यामुदाहरणसूत्रम् उभयमुपलक्षयति, तथेदमपि सूत्रम् इत्यर्थः ।
तत्रार्थं तावदाह---उदाहरणेति ।
साध्यस्य हेतुमत्तयेति प्रकृतम् ।
श्रौतं विशेषलक्षणद्वयमाह---तथेति ।
उदाहरणातिदेशेनैव वाशब्दो ऽपि सौत्रो व्याख्यातः ।
व्युत्पन्नाव्युत्पन्नतयेति ।
यद्यपि पाञ्चरूप्योपपन्नलिङ्गानुसन्धानं व्युत्पन्नस्यापि प्रतिपत्तिसाधनं नियतमेव, तथापि प्रतिसन्धानं प्रत्यनियमः, संस्कारतारतम्येनोद्बोधकस्यानियमात्, तेन तस्य दुरुन्नेयत्वात् कृतृरासदिवादिवद् अव्युत्पन्नं प्रत्यनङ्गत्वाच्च ।
यावता यादृशा वोपायेन स्वयमर्थः प्रतीतः, तावत्तादृगुपायप्रतिपादनेन पर प्रतिपाद्यः ।
तस्य स्वात्मन्येवोपायतया प्रमाणसिद्धत्वादित्यर्थः ।
एतदेव न च यथेत्यादिना दर्शितम् ॥
ननु वचनेन स्वबोधसंक्रान्तिः प्रतिपादनम्, सचार्थः प्रतिपाद्यः स्वशब्देन यः शब्दान्तरेणाक्षिप्तो ऽपि न ।
उपनयार्थस्तु हेतुनैवाक्षिप्त इति चोद्यार्थमाह---यद्यपीत्यादि ।
एतावदत्र स्यादुपनयार्थं व्युत्पन्नः स्वयं वा ऊहेत, हेतुवचनाद् वा प्रतिपद्येत, तदाक्षेपतो वा निश्चिनुयात्? आद्यो व्युत्पन्नेत्यादिना दूषितः ।
द्वितीयं दूषयति---यत्पर इति ।
तृतीयं दूषयति---सामर्थ्यादिति ।
अथैवं मन्वीथा यद्यपि कृतकत्वादिति साधनपरं वचनम्
तथापि द्विधा हि तत्परता शब्दानाम्, उपपन्नतया उपपादनीयतया च ।
तत्र प्रथम उपपन्नतया स्वार्थमवबोधयन् तन्नान्तरीयकमर्थमाक्षिपति, यथा जितं नकुलेनेति सिद्धावस्थायां सर्पपराजयम् ।
द्वितीयस्तु उपपादनीयतया स्वार्थं प्रतिपादयन्नपि कथं तन्नान्तरीयकमप्यर्थमाक्षिपेत्, यथा स एव नकुलविजयः साधनीयावस्थायाम् ।
तथात्वे वा प्रतिज्ञैव सर्वमाक्षिपेदिति गतं हेतुनापि ।
तस्मात् साधनत्वेनोद्दिष्टे ऽपि कृतकत्वे ताद्रूप्यस्यासिद्धत्वात् न तेन व्याप्तेराक्षेप इति नानर्थकम् उदाहरणम् ।
नन्वेतत् समानमुपनये ऽपीत्याशयवानाह---तद्विधस्यापीति ।
एतेन निगमनं व्याख्यातम् ॥ 38 ॥
॥ परिशुद्धिः ॥
ननु यथा हेत्वनुरोधेन तदुपसंहार उपनये द्विविधः, तथा साध्यानुरोधेन तदुपसंहारो ऽपि द्विविध एव प्राप्तः ।
अवश्यं च साध्येन द्विविधेनैव भाव्यम्, साधनानुरोधात् ।
न ह्यन्विताद् व्यतिरेकः साक्षात् सिध्यति, व्यतिरिक्ताद् वान्वयः, लिङ्गस्यान्यापोहविषयत्वानभ्युपगमात् ।
तस्मात् प्रतिज्ञानिगमनयोरपि द्वैविध्यं प्राप्तमिति कुतो नाभिहितं इति सूत्रकृता प्रतिज्ञालक्षणे शङ्कितुमुचितमपि ग्रन्थलघिम्ने सुखप्रतिपत्तये वा ।
इह शङ्काभाष्यम्---द्विविधस्येति ।
तद् व्याचष्टे---साधर्म्यवैघर्म्येति ।
हेत्वादीनामवयवानां येषां यत्संबन्धि निगमनं तस्य समानमेकं लक्षणम् ॥
न हि विधिनिषेधयोः प्रतिज्ञातयोर्निषेधविध्युपसंहारे प्रतिज्ञायाः पुनर्वचनमिति लक्षणं लगति, येनातिप्रसङ्गभिया सूत्रकृत् तन्नियमयेदित्यर्थः ।
एतेन प्रतिज्ञापि व्याख्याता ।
न ह्यन्वयिव्यतिरेकिणोर्हेत्वोः व्यतिरिक्तन्वितप्रतिज्ञाने साध्यनिर्देश इतिलक्षणं लगति, तयोस्तदसाध्यत्वात् ।
तस्माद् विवक्षितो ऽप्ययमर्थो न सूत्रितो न्यायलभ्यत्वात् ।
अत एव तत्र वार्त्तिकम्---अनित्यः शब्दो, नेदं निरात्मकमिति ।
तत् किं कृतकत्वादित्यादिक एव हेतूपदेशः कर्तव्यः? नेत्याह---तस्मादिति ।
न च वाच्यं तथैव किं न स्यात्, अनुपसंहारत्वप्रसङ्गात् ।
तथा च पूर्वोक्तरूपानुसन्धानविपरीतप्रसङ्गनिवारणयोरलाभे निगमनानर्थक्यात् ।
सर्वनाम्नो महिमा च यत् पूर्वोक्तानुसन्धानम् ।
उपसंहारस्यैष च गुणो यद् विपरीतकल्पनाविलोपनं नाम ।
न चानयोरन्यतराप्रतीतावपि साध्यसिद्धिः ।
एवं च सत्यवश्यकर्तव्यतया तस्मादिति कृते कृतकत्वादिति मन्दप्रयोजनम्, विवरणमात्रतया तु भाष्यकारेणोक्तम्, ये तु निपुणंमन्याः सर्वनाम्ना हेतुवत् प्रतिज्ञाभिधानमपि मन्यन्ते, तेषां तथाशब्दः स्वरूपवचनो वा स्यात्, प्रकारवचनो वा? आद्ये तस्मात् स इत्यर्थः स्यात् ।
तथा च निगमनाभासो ऽयं लक्षणायोगादर्थायोगाच्च ।
द्वितीये तु तादृश इत्यर्थः स्यात् ।
तथापि न तेनैव तादृशत्वम्, अन्यसादृश्यपरामर्शे तु न निगमनलक्षणयोगः ।
अथ यथोक्तः तथेत्यर्थः, तथापि कथं तथेति नित्यसापेक्षत्वादनुपसंहारत्वम्? गम्यमानत्वात् अवचने प्रतिज्ञायाः पुनर्वचनमिति लक्षणायोगः ।
प्रतिपादनमात्रपरमेतदिति चेत्? निगमनार्थक्यम् ।
ओमिति चेत्? तत्र वक्ष्याम इत्याशयवानाह---अनित्यः शब्द इति प्रतिज्ञायाः पुनर्वचनमिति ।
आरम्भोपसंहारतयैव चानयो रूपाविशेषे साध्यसिद्धनिर्देशता ।
पटारम्भोपसंहारयोरिव पटारम्भकास्तन्तव एव एत इति ।
वचनमिति ।
अत एव न पौनरुत्क्यविरोधावित्याह---
यद्यपीति ।
तदिदमुक्तम्, यस्यैव साध्यत्वमासीदित्यादि ।
न ब्रूमः सिद्धस्य निर्देशो निगमनमपि तु सिद्धतया निर्देश इति ।
तथैव ततः पाञ्चरूप्यप्रतीतेः न ह्युपपादनीयतया निर्देशः साधनस्य रूपान्तरसम्पदमाक्षेप्तुमप्यलमित्युक्तम् ।
तदेतदबुद्धा यस्तु
मन्यते इत्यादि तं प्रत्यभ्युपेत्येति ॥39 ॥
॥ इति न्यायलक्षणप्रकरणम् ॥
॥ न्यायोत्तराङ्गलक्षणप्रकरणम् ॥
॥ परिशुद्धिः ॥
एवं न्यायस्वरूपप्रकरणं समर्थ्य तदुत्तराङ्गप्रकरणस्यावकाशः तत्रापीतिकर्तव्यतायत्नत्वात् फलस्येति तर्को ऽवसरप्राप्त इति संगतिभाष्यमवतार्य पूरणेन तदर्थमाह---उद्देशेति ॥
अभ्यनुज्ञातव्यो नियतजिज्ञासाविषयीकर्तव्यः ।
विपर्ययाशङ्केति ।
तत्फलं जिज्ञासा ग्राह्या ।
उभयकोटिसमसंशयप्रभवसमजिज्ञासामपनीय नियतविषयां जनयता तर्केण प्रमाणविषयो ऽभ्यनुज्ञातो भवति ।
तेनायं सूत्रार्थः, प्रमाणाभ्यनुज्ञाव्यापारेण फलसिद्धौ व्याप्रियमाण ऊहस्तर्क इति ।
स चापादितसन्देहे सन्देहापन्ने च प्रवर्तत इति ज्ञापनार्थमविज्ञाततत्त्व इत्युक्तम् ।
कारणेपपत्तिः प्रमाणाभ्यनुज्ञा ।
तस्याश्च तर्कव्यापारभूतायाः स्वरूपमुक्तमिति नातिप्रसङ्गः ।
एवंव्यापारश्चोहः प्रसङ्ग इत्येवेति तथैव टीकाकृता उक्तम् ।
स चाहार्यहेतोरुत्पद्यत इति ज्ञापनार्थं कारणोपपत्तित इति पदं तदर्थतयापि क्वचिद् व्याख्यातम् ।
तदस्य विषयो ऽविज्ञाततत्त्वः ।
कारणमाहार्यलिङ्गोत्थाप्यो व्यापारः प्रमाणाभ्यनुज्ञा ।
फलं प्रमाणपरतन्त्रस्य सतः फलवत्सन्निधावफलं तदङ्गमिति न्यायेन तत्त्वनिर्णयः ।
स्वरूपमनिष्टप्रसङ्गः ।
स चात्माश्रयेतरेतराश्रयचक्रकानवस्थाप्रमाणबाधितार्थप्रसङ्गभेदेन पञ्चविधः ।
एते हि एकत्र भवन्तो ऽन्यतरम् अभ्यनुजानन्ति ।
एतत्सर्वं प्रतिपिपादयिषोर्वाक्यलाघवे ऽनादरः सूत्रकृतः ।
अत एव विवरणकाराणां संकुलानीव वचांसीति तदत्र निपुणेन प्रतिपत्त्रा भवितव्यम् ।
तथा हि व्यापारव्यापारिणोरनिष्टापत्त्येत्यादिना भेदं व्युत्पाद्याभेदं विवक्षन्नाह---तया प्रमाणस्योपपत्येति ।
तर्ककारणे कारणोपपत्तिपदं संचार्य तत्कार्यभूततर्कादभेदं विवक्षन्नाह---न चोपपत्तिरेवेति ।
प्रपञ्चितं चैतत् प्रथम सूत्र एव टीकाकृता इति कृतं प्रपञ्चेनेति ॥40 ॥
॥ परिशुद्धिः ॥
एवं साधनसम्पत्तौ दर्शितायां सो ऽयं परिकरबन्धः किमवधिकः किंपरश्चेति जिज्ञासायां निर्णयो ऽवसरप्राप्तः ।
तत्रार्थावधारणं निर्णय इति वक्तव्ये तर्कैकविषयताप्रतिपादनं भाष्यकृतः क्वोपयुज्यत इत्यत आह---नैतदिति ।
अव्याप्तिभियैवमुक्तम् इत्यर्थः ॥
मुख्यातिक्रमे बीजमाह---अत्रेति ।
यद्यपि वादगतौ लक्षणीयाविति प्रकृतानुपयोगि, तथापि यदिह साधनोपालम्भशब्दौ विवृणेति, वादे च पक्षप्रतिपक्षशब्दौ विवरिष्यति, तेन जानीमोर्ऽथसन्निधेः शब्दार्थसन्निधेः सुप्रतिपदमिति मत्त्वा भाष्यकारस्य तद्गतलक्षणैवाभिमतेति हृदि निधाय तदनुरोधेनोक्तम्---वादसूत्रगताविति ।
लक्षणानिबन्धनं नियतं बन्धनं नियामकमित्यर्थः ।
ननु नायं कथानिर्णयो लक्ष्यते, तत्कुतो वादिप्रतिवाद्युपक्रभेण चोद्यमित्यत आह--अत्रेति ।
वादेति कथोपलक्षणम् ।
अथ कथानिर्णयलक्षणमेवेदं किं न स्यात्? येन चोद्यपरिहारावपि संगतौ स्यातामित्यत आह---न तावदिति ।
शङ्कायाः शङ्कितत्वात् न तथेत्यर्थः ।
कृतं तर्हि परिहारेणेत्यत आह---अभ्युपेत्य त्विति ।
अयमर्थः, यद्यपि परीक्षायां न वादिप्रतिवादिनौ स्तः, पृच्छोपक्रममात्रेण द्वितीयोपयोगात्, संभवे ऽपि तयोर्विषयमात्राख्यानपर्यवसानात्, स्थेयस्यव परीक्षकत्वम्, तथापि पूर्वपक्षोत्तरपक्षं प्रत्याकलितनिष्कर्षभेदेन चतुष्पादव्यवहारप्रदर्शनात् फलतो न कश्चिद् विशेषः, एकवक्तृकत्वे ऽपि तावत एव व्यापारकलापस्य विचारे ऽपि विद्यमानत्वात् ।
तस्माद् यद्यप्यनिपुणश्चोदकस्तथापि चोद्यं सावकाशमेवेति यथाश्रुतमेव अभ्युपेत्य परिहरतीति ।
ननु कथं शास्त्रे संशयानपेक्षो निर्णयो मीमांसाया वैयर्थ्यप्रसङ्गादित्यत आह---नहीति ।
शास्त्रमेव हि तत्र विचार्यते ।
तत्र च संशयो न प्रतिषिध्यते, तन्निर्णयस्य परीक्षासाध्यत्वात् ।
तदर्थनिर्णये तु शास्त्रेण कर्तव्ये कुतः संशयः? शास्त्रार्थस्य सर्वथानुपलब्धचरतया संशयानास्पदत्वादित्यर्थः ।
अथ कथानिर्णये संशयः किं न स्यात्? कथमन्यथा चतुर्थे भाष्यकृद् एव वादस्य संशयव्युदासं फलं वक्ष्यतीत्यत आह---निश्चितयोरेवेति ।
वादात् पूर्वं सन्दिग्धावपि प्रवृत्तिकाले निश्चितावेवाभिमानात्, नान्यथा तयोः पक्षप्रतिपक्षपरिग्रहसंभव इति भावः ।
ननु भाष्यकारेण चोद्योपसंहारे यो ऽवतिष्ठते तेन निर्णय इति वदता ताभ्यामिति तृतीया दर्शिता ।
सा च पक्षाच्च प्रतिपक्षाच्चेति वदता वार्त्तिककृता अवधीरिता कया शङ्कयेत्यत
आह---नन्विति ।
तत् किं वादसमानयोगक्षेमतया शास्त्रे ऽपि पक्षप्रतिपक्षाभ्यामेव निर्णयः? न चैतत् संभवतीत्यत आह शास्त्रे तु निर्णय एवेति ।
न विमर्शो नापि पक्षप्रतिपक्षावित्यर्थः ।
तदेवाह---न त्विति ।
यत् तदुक्तं वार्त्तिके स्फुटीभविष्यतीति, तदाह---अर्थग्रहण इति ।
ननु चतुःपञ्चादिकक्षापि क्वचित् कथा भवति, तत् कथं कक्षात्रये नियम इत्यत आह---प्रथमं साधनमिति ।
कक्षासहस्रमप्यत्रैवान्तर्भवतीति ।
अनन्तर्भावे त्वर्थान्तरत्वप्रसङ्गः ।
न हि साधनदूषणतदुद्धारबहिर्भावः प्रकृतोपयोगीत्यर्थः ॥41 ॥
॥ इत्यौदयन तात्पर्यपरिशुद्धौ प्रथमाध्याये प्रथमाह्निकम् ॥
॥ इति न्यायोत्तराङ्गप्रकरणम् ॥
॥ प्रथमाध्याये द्वितीयाह्निकम् ॥
॥ कथालक्षणप्रकरणम् ॥
॥ परिशुद्धिः ॥
एवं प्रथमाह्निके साङ्गोपाङ्गो न्यायस्तावल्लक्षितः ।
स च परार्थो ऽपि पृच्छोपक्रमप्रतियोगिन्येकवक्तृके विचारे विविच्य प्रवर्त्तनीयः ।
तत्र च सिद्धिपरत्वम् ।
न्यायस्य दूषणोपक्रमप्रतियोगिनी तु नानाप्रवक्तृके कथानाम्नि क्रियाव्यतिहारे प्रवर्त्यं विवेचनीयः ।
तत्र चोपालम्भपरत्वं तस्य ।
एवं च प्रवर्तनीयविवेचनीयसिद्धिपरसाङ्गन्यायलक्षणं प्रथमाह्निकार्थः ।
द्वितीयाह्निकार्थस्तु प्रवर्तनविवेचन उपालम्भपरपदार्थलक्षणमिति युक्त इदानीं तस्यारम्भः ।
तत्रापि प्रवर्त्यविवेचनीयद्वारेण प्रवृत्तिप्रकारत्वाच्च कथायाः प्रथमं कथाप्रकरणमारभ्यते ।
यद्यपि च कथा साक्षात् नोद्दिष्टा, तथाप्यसंगतिभिता भाष्यकारः तदुपसंग्रहेणैव वादादीन् विभजते ।
अन्यथा हि वादादिलक्षणस्य पूर्वापरप्रकरणाप्रवेशात् आह्निकाप्रवेशे शास्त्रबहिर्भावप्रसङ्गः ।
अथ सूत्रकृतैव कथा कथं साक्षात् नोद्दिष्ट, विवक्षितफले एकानेकत्वानुरोधेन सामान्यविशेषयोर्यथायथमुद्देशात्? तद् यथा चतुर्षु प्रमैव विवक्षितं फलमिति प्रमाणत्वेन, सैव द्वादशविषयिणी विवक्षितेति प्रमेयत्वेन, हानमेव विवक्षितमिति सुखं दुःखत्वेन ।
इह तु तत्त्वनिर्णयः, जल्पे स्वशक्तिपराशक्तिख्यापनम्, वितण्डायां पराशक्तिमात्रप्रख्यापनं च फलानि विवक्षितानि ।
तानि च न कथामात्रसाध्यानीति विशेषत एवोद्देशः ।
तत्र यौगिकं कथाशब्दमुपादायानवसरदुस्थतया भाष्यम् आक्षिप्य वार्त्तिकेन समाधत्ते---तदयुक्तमित्यादिना ।
नायं कथाशब्दो योगमात्रानुरोधी, अपि तु सत्येव तस्मिन् रूढिनियत इति ।
अनवसरदोषं परिहरन्नाह---अपि त्विति ।
ननु पूर्वपक्षोत्तरपक्षबलाबलनिरूपणं विचारः, स च न कथाया आश्रयः किं तु विषय इत्यत आह---विचारविषयेति ।
प्रौढगौडनैयायिकमते चतस्रः कथाः ।
स प्रतिपक्षस्थापनाहीनो वितण्डा ।
इत्यत्र जल्पवद् वादस्यापि परामर्शात् ।
पुरुषाभिप्रायानुरोधेन चतुर्थोदाहरणस्याप्युपपत्तेरिति सानातनिः ।
एक एवायं कथामार्ग इति बाह्याः ।
ते द्वे अपि तिस्र एवेति नियमयता निराकृते ।
तत्त्वबुभुत्सुकथा च वितण्डा चेति व्याहतम् ।
न हि प्रथमसाधननिवृत्तावेव तत्त्वनिर्णयः, निःसाधनस्य तस्यानुपपत्तेः ।
नापि प्रतिपक्षसाधनमनिवर्त्य प्रथमस्य साधनत्वावस्थितिः, शङ्कितप्रतिपक्षत्वात् ।
यदि तु प्रतिपक्षसाधनमनिरूप्यैव विजिगीषुवितण्डावत् तावतैव वादिनौ कृतिनौ, न तर्हि तत्त्वबुभूत्सू ।
एवं च यदि विजिगीषुः, कथमप्रतिभाद्यनुद्भावनम् ।
न च विजयतत्त्वनिर्णयाभ्यां फलान्तरमवशिष्यते कथायाः, यदर्थं वादवितण्डा ।
अनुत्पन्नस्य हि तत्त्वनिर्णयस्योत्पादनम्, उत्पन्नस्य पालनम्, पालितस्य च विनियोगः ।
स च स्वयमभ्यासः, कारुणिकतया परव्युत्पादनम् ।
एतच्च सर्वं कथात्रयपर्यवसितम्, नाप्येककथानिर्वाह्यमिति ॥
नन्वेतावतापि न सामान्यलक्षणं विभावितमित्यत आह---तथा चेति ।
नानाप्रवक्तृका मिथः कर्मतया युद्धवदालिङ्गनवच्च ।
एतेन वाक्यसंदृब्धिर्महावाक्यमुक्तं स्यात्, मिथः कर्मतया साकाङ्क्षत्वात्, विजयाद्यनेकप्रयोजनवत्त्वाच्चेति ।
वक्त्रोश्च प्रशब्देन प्रकर्षो दर्शितः ।
स च कथारूपमहावाक्यनिर्वाहकत्वम् ।
तथा च स्वस्थः सर्वञ्जनप्रत्ययानपलापी मतमात्रावलम्बी अवहितो ऽकलहकारश्चेति कथाधिकारिणो दर्शिताः ।
विपर्ययेण हेया इति ।
वसतीति निरुक्तिभङ्गभयादाह---अर्थाभिधानेति वादेति ।
अनधिकारिणो हातुमिति भावः ।
ते ऽपि प्रकृतोक्तिको ऽविप्रलम्भको यथाकालस्फूर्तिकः अनाक्षेपको युक्तिसिद्धसंप्रत्ययी चेति पञ्च वादे उपादेयाः विपर्ययेण हेयाः ।
एवं भूताश्च विष्यादय एव प्रायेणेति त एवोक्ताः ।
एवं च सति हेयान् विहाय यो यथाभूतः स तथाभूतेन वक्तुमर्हति ।
तथा सति कथा महावाक्यसिद्धौ फलसिद्धेः ।
न हि युयुत्सुरिरंसू प्रतिपद्य चिरं असिद्धं संभूय समीहितं साधयतः ।
यथोद्देशमिति ।
तत्त्वप्रतिपत्तिहेतुत्वाद् वादस्यादावुद्देशः ॥
वार्त्तिकमुपवेशयितुं पीठमारचयति---तदनवसायादिति ।
एवमिति ।
अतिदेशार्थमाह---न विचारमिति ।
श्रुतिव्यवच्छेद्यतया वितण्डां तावद् व्यवच्छिनत्तियद्यपीति ।
तात्पर्यव्यवच्छेद्यतया इदानीं जल्पं व्यवच्छिनत्ति---यद्यपि चेति ।
प्रमाणमूलैः प्रमाणमूलाभिमतैर्नियमेनेति शेषः ।
नाभिप्रायनियमः श्रूयत इत्यत आह---यथा चैतदिति ।
साधने च तर्कस्य प्रमाणापेक्षा, उपालम्भे तु केवलो ऽपि समर्थः, प्रतितर्कप्रतिहतस्यासाधनत्वात् ।
आगामिनं भावसाधनत्वस्वीकारमिव दृष्ट्वा प्राह---उभयथेति ।
तद्गताक्षेपस्तु उद्देश एव प्रमाणतर्कशब्दस्य साधनोपालम्भशब्दवत् स्ववाचकलक्षणया वा, शब्दावान्तरव्यापारतया वा शब्दप्रतिपादिततया वा समर्थितप्रायः ।
ततः सिद्धवदाह---यद त्विति ।
अपराधप्रतिपादनं ह्युपालम्भः ।
न च अचेतनो ऽपराध्यति, नापि प्रतिपाद्यते, किं पुरुषः ।
तदिदमुक्तम्---पुरुषधर्मोपालम्भेति ।
कर्मकरणयोर्हि प्रधानव्यापारः, फलमेकमेव ।
तद्द्वारा च विषयः ।
प्रकृते कर्मकरणयोरपि कर्मैव ।
इयांस्तु विशेषः, यत् कर्मत्वदशायां शब्दादेरनित्यत्वं धर्मो कर्मकरणयोरपि कर्मैव ।
इयांस्तु विशेषः, यत् कर्मत्वदशायां शब्दादेरनित्यत्वं धर्मो जिज्ञासिततया, विषयत्वदशायां तु वस्तुतयेत्याशयवान् यथाश्रुतवार्त्तिकानुरोधेन व्याचष्टे---धर्मीति ।
अन्यथा तु विषयः शक्तिविषयः शक्यं कार्यमिति यावदित्येवमपि सुगममेतत् ।
अत्र हि जल्पे निग्रहस्थानविनियोगादित्यादिभाष्ये न हिंस्यात् सर्वभूतानि ।
इतिवद् वादे सर्वनिग्रहस्थानप्रतिषेधे अग्नीषोमीयं पशुमालभेत इतिवत् सिद्धान्ताविरुद्ध इत्यादिविशेषविधिरित्यर्थः ।
स्फुटः प्रतीयते ।
वार्तिककारस्तु रागतः सर्वपञ्चनखभक्षणप्राप्तिवत् उपालम्भग्रहणात् सर्वनिग्रहस्थानप्राप्तौ पञ्च पञ्चनखा भक्ष्याः इतिवत् परिसंख्यानार्थमुत्तरपदारम्भ इति व्याख्यातवान् ।
तदेतदतिकुशलतया मिथः अविरोधयन्नाह---जल्प इति ।
तथापि नियमार्थे इत्यसंगतम् ।
पाक्षिकव्यवच्छेदफलो हि नियमः ।
न चात्राप्रतिभादि पाक्षिकम्, उपालम्भपदेन निराशङ्कमेव प्रतिपादितत्वात् इत्यत आह---नियमः परिसंख्येति ।
अयमर्थः, यद्यपि विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्राप्तौ परिसंख्येति कीर्त्यते ॥
इति भेदो दर्शितः, तथाप्यल्पीयानयमिति मन्यमानेन परिसंख्यायामपि नियमपदं प्रयुज्यते, इतरव्यवच्छेदलक्षणस्य फलस्याविशिष्टत्वादिति ।
इह वादे चतुर्धा निग्रहस्थानगतिः ।
किञ्चिदसंभावनीयमेव यथा, हानिः सन्न्यासो निरर्थकमर्थान्तरमविज्ञातार्थमपार्थकमिति षट्कम् ।
किञ्चित् संभवदप्यनुद्भाव्यमेव यथा, प्रतिज्ञान्तरं हेत्वन्तरमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणमिति सप्तकम् ।
किञ्चित् तूद्भाव्यमात्रं यथा, विरोधो ऽप्राप्तकालं न्यूनमधिकं पुनरुक्तमयथानुभाषणमपसिद्धान्त इति सप्तकम् ।
किञ्चिच्च कथावसानिकं यथा, हेत्वाभासो निरनुयोज्यानुयोगश्चेति द्वयमिति ।
तत्र हान्यादीनामशक्तिसंगुहनप्रकारत्वात्, तत्त्वबुभुत्सुतया च वादे तदभावात् तेषामसंभवः ।
संभवतामनुद्भावने हेतुमाह---न खल्विति ।
कथामपर्यवसाययतामप्युद्भावने हेतुमाह---अधिकं त्विति ।
तत्त्वप्रतिपत्तेः साक्षाद् व्याघातो विपरीतप्रतिपत्तिर्यथा, हेत्वाभासानुद्भावने निरनुयोज्यानुयोगानुद्भावने च पारम्पर्यव्याघातो व्यासङ्गादीना तत्सामग्रीप्रतिरोधः ।
तत्राधिकानुद्भावने प्रथमो यदि न स्यात्, तथापि द्वितीयः स्यादेव ।
तथा हि, विरोधे योग्यताविरहः ।
अप्राप्तकाले आकाङ्क्षाविरहः ।
न्यूने आकाङ्क्षितासमभिव्याहारः ।
स चानासक्तिविशेषः ।
अधिके अनाकाङ्क्षितसमभिव्याहारः ।
पुनरुक्ते ऽप्येवम् ।
सो ऽप्याकाङ्क्षाविरहविशेषः ।
अयथानुभाषणे उक्ताप्रतिसन्धानम् ।
अपसिद्धान्ते संमुखप्रमाणबाधाक्रान्तिरिति आकाङ्क्षायोग्यतासत्तिमत्तया प्रतिसंहितं प्रमाणान्तराप्रतिहतं च वाक्यं तत्त्वप्रतिपत्तेरङ्गम्, नान्यथा ।
तस्मादेतदर्थमिदमुद्भाव्यमिति ॥
तदेतत् सर्वमभिप्रायं नियमयतः सूत्रकारस्य संमतं सूत्रादेव च लभ्यते ।
वार्त्तिककृता तु न्यूनादिचतुष्टयमुदाहरणार्थं दर्शितम्, न तु नियमः कृत इति व्याजेन दर्शयति---तथा चेति ।
ननु व्यतिसङ्गो व्यतिहारः ।
स च साधनोपलम्भवानित्येतावतैवोक्ते गम्यते ।
ततः प्रमाणतर्कग्रहणमतिरिच्यत इत्यत आह---पूर्वस्मिन्निति ।
तथाप्यस्मिन् पक्षे किमस्य प्रयोजनमित्यत आह---साधनोपालम्भविशेषणाय चेति ।
अनुविधेयस्थेयसभ्यपुरुषवती जनता सभेत्युच्यते ।
तत्रानुविधेयस्य यथाशक्ति यथानियमं संमानासंमानव्यञ्जकं कर्म ।
नैतद् वादे ।
तत्र हि तत्त्वबुभुत्सुतया स्वयमवातत्त्वज्ञः तत्त्वज्ञानिनमुपासीत ।
स्थेयानां तु वादस्थानकथाविशेषव्यवस्थापनं पूर्वोत्तरवादस्थापनं विवदमानयोर्गुणदोषावधारणं भग्नप्रतिवादिप्रबोधनं लोके निष्पन्नकथाफलप्रतिपादनं च कर्माणि ।
एतदर्थं च तत्र प्राश्निकोपयोगो यद् वादिनौ कारणग्रहेण एवं कर्तुमशक्तौ ।
न चैवं वादे ।
तत्र तयोरेव वीतरागतया शक्तत्वादित्याशयवानाह---न वादे प्राश्निकानामिति ।
तत् किं परिवर्जनमेव तत्र तेषाम्? नेत्याह---दैवागतानां त्विति ।
सवादेनप्रामादिककथाभासशङ्कामपनेतुं नतूक्तकर्माणि कारयितुमिति भावः ॥1 ॥
यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥1 ॥
॥ परिशुद्धिः ॥
उभयसाधनवत्त्वसाधर्म्याद् वादानन्तरं जल्पोद्देशसिद्धिः ।
तत्सिद्धौ सत्यां संगतिम् आह---उद्देशेति ।
ननु जल्पस्योभयसाधनवत्त्वासंभवान्न वितण्डाव्यवच्छेदः ।
तथा हि यदि पूर्वसाधनं दूषितम्, निगृहीतस्तर्हि वादी, जितं द्वितीयेन ।
निवृत्ता कथा ।
न दूषितं चेत्---उत्तराभासवचनेन चावचनेन च निगृहीतस्तर्हि द्वितीयो, जितं प्रथमेन, निवृत्ता कथेति नास्ति द्वितीयसाधनावसर इति ।
नैतदेवम् ।
यथा हि वादे स्वसाधनस्थितौ परसाधननिवृत्तौ च तत्त्वनिर्णयो न विपर्यये, तथा जल्पे ऽपि स्वसाधनस्थितौ परसाधननिवृत्तौ च विजयो विपर्यये भङ्गः ।
उभयस्थितिनिवृत्त्योः परिषदेव विजयते ।
तदयं जल्प्रपवृत्तिक्रमः वादिनि साधनमात्रं प्रयुज्य संक्षेपतो विस्तरतो वा आभासान् उद्धृत्य विरते सति उच्यमानग्राह्यनिग्रहाप्राप्तौ आभासबहिरुक्तग्राह्यनिग्रहालाभे तद्वचनार्थमवगम्यानूद्य दूषयित्वा प्रतिवादीस्वपक्षे स्थापनां प्रयुञ्जीत ।
अप्रयुञ्जानस्तु दूषितपरपक्षो ऽपि नविजयी ।
श्लाध्यस्तु स्यादात्मानमरक्षन् परघातीव वीरः ।
तस्मिन्नप्येवं विरते सति अनुक्तोच्यमानग्राह्यनिग्रहालाभे तद्ववचनमवगम्यानूद्य दूषणाङ्गं प्रति दूष्याभासबहिरुक्तग्राह्यनिग्रहालाभेद प्रथमवादी स्थापनांशं दूषयेत् ।
अदूषयंसतु रक्षितस्वपक्षो ऽपि न विजयी ।
श्लाध्यस्तु स्यात् वञ्चितपरप्रहार इव तमप्रहरमाणः ।
अनुक्तोच्यमानग्राह्याभासबहिरुक्तग्राह्यनिग्रहलाभे तु तावतैव कथाविरतिर्न साधनविचारावकार्शः ।
शरसन्धानसमय एव यो मूर्च्छितः तद्वाणवारणतत्प्रहरणानुष्ठानवद् विफलत्वात् ।
तत्रानुक्तग्राह्यमप्रतिभादि ।
उच्यमानग्राह्यमप्राप्तकालादि ।
आभासबहिरुक्तग्राह्यं प्रतिज्ञाविरोधादि ।
एष्वसत्सु आभासचिन्ता ।
ततः पुनः प्रतिदूषणोक्तौ आभासबहिःप्रतिज्ञाहान्यादि ।
एतच्च पञ्चमे प्रपञ्चनीयमिति ॥
यद्यपि निग्रहस्थानपदेनाविशेषात् सर्वप्राप्तौ सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इति पदद्वयातिदेशो मन्दः, तथापि गोर्बलीवर्दन्यायेनापि यथाश्रुतभाष्योपपत्तौ कृतं तद्भाङ्गेनेति मन्यमानो भाष्यं वार्त्तिकेन समञ्जसयन्नाह---उक्तमात्रमित्यादि ।
यद्यप्यपराधसंगूहनार्थं प्रतिज्ञाहानिप्रतिज्ञान्तरप्रतिज्ञासंन्यासहेत्वन्तरार्थान्तरनिरर्थकाविज्ञातार्थविक्षेपापसिद्धान्तानामुपादानं संभवति, तथापि न सर्वनिग्रहोपादानसंभवः ।
अपि च प्रमादस्खलिते ऽपि छलादिभिरेव प्रत्यवस्थातुमुचितम्, निग्रहस्थानापेक्षया तेषामनुद्भटापराधत्वात् ।
तस्मादुद्भाव्यतयैवामीषां सर्वेषामवतारः ।
तथा च नायुक्तत्वमित्यभिप्रायवानाह---तत् किमिति ।
साधुसाधनोपादाने च वादिना कृत इत्युपलक्षणम् ।
परेण साधुसाधनोपादाने च कृत इत्यपि द्रष्टव्यम् ।
ननु भाष्यं दूषयित्वा किमधिकममिहितम्? तेनापि तत्त्वरक्षणार्थत्वप्रतिपादनादित्यत आह---तदनेन प्रकारेणेति ।
प्रकारे भाष्यम् असंगतम्, न तु प्रयोजने ।
ततस्तदप्येवमेव नेयमिति ।
छलादिव्युत्पादनं प्रयोज्यतयेति शेषः ॥2 ॥
स प्रतिपक्षस्थापनाहीनो वितण्डा ॥3 ॥
॥ परिशुद्धिः ॥
ननु वितण्डायाः प्रतिपक्षस्थापनाहीनत्वमसंगतम्, एकसाधनतायां पुरुषशक्तेरप्यनिरूपणात् ।
तथात्वे वा कृतं जल्पेन प्रयासबहुलेन, अन्ततः सत्प्रतिपक्षतयापि द्वितीयसाधनप्रवेशात् ।
नैतदेवम्, पुरुषशक्तिनिरूपणाविशेषे ऽपि जल्पे प्रत्यवेक्षापराघातोभयगोचरशक्तिनिरूपणात्, कृतविद्यक्षत्रियद्वययुद्धवत् ।
वितण्डायां तु दशरथदशाननतनयतमसिवमीयुद्धवत्, काकोलूकयुद्धवद् वा ।
एकस्य स्वप्रत्यवेक्षाशक्तिरपरस्य पराघातनैपुणं निरूप्यते ।
कथमयं विशेष इति चेत्? वादिनोरभिप्रायवशादनुविधेयस्थेयानुरोधात् वेति न किञ्चिदेतत् द्वितीयसाधनप्रवेशसतु दूषणतया न प्रतिषिध्यते ।
अपि तु स्थापनात्वेन ।
न चायं नियमः, असिद्धत्वादुद्भावनेनापि कथापर्यवसानादिति, समाख्यानिर्वचनसामर्थ्यात् एव गम्यत इति ।
न चैवमस्त्विति वाच्यम्, जल्पे ऽपि परपक्षाघातस्य गतत्वेनातिव्यापकत्वात् ।
मात्रग्रहणात् तु तन्निवृत्तिरिति चेत्---न, तेन साधनानिवृत्तेः ।
तत्र साधनोपालम्भसमुदाये दूषणमात्रं वितण्डेत्येवमप्युपपत्तेरिति ॥3 ॥
॥ इति कथालक्षणप्रकरणम् ॥
॥ हेत्वाभासलक्षणप्रकरणम् ॥
॥ परिशुद्धि ॥
एवं कथाप्रकरणं समर्थिमतम् ।
तस्याश्च शरीरं साधनं दूषणं च ।
तत्र साधनवादिना प्रथमतस्तदाभासपरिहारे दूषणवादिनापि सदुत्तरपरिग्रहे यत्नवता भवितव्यम् ।
सदुत्तरालाभे हि असदुत्तरावतार इति शिक्षार्थं हेत्वाभासाः प्रथमं छलादिभ्य उद्दिष्टा इति सैव संगतिरिहापीत्याह---उद्देशेति ।
अत्र त्रिषोडश्यां व्यापकाव्यापकभेदेन या द्विषोडशी सा असिद्धविशेषणासिद्धविशेष्या समर्थविशेषणा समर्थविशेष्यसन्दिग्धविशेषणसन्दिग्धविशेष्यभेदेन विवक्षिता द्वानवतं शतं भवतीति ।
सैवासिद्धिसन्देहयोर्वादिप्रतिवादिसंबन्धादष्टाविंशतं शतं भवेत् ।
सैवान्यतरासिद्ध्या व्यधिकरणसमर्थसन्दिग्धविशेषणविशेष्यभेदात् द्वावनतं शतमपरं स्यात् ।
सैवोमयान्यतराश्रयासिद्धविशेषणविशेष्यसंबन्धादपरमष्टाविंशतं शतं भवेत् ।
सैवाश्रयासिद्धविशेषणाव्यधिकरणासमर्थसन्दिग्धविशेषणविशेष्यसंबन्धादपरं द्वानवतं शतम् ।
सैव सन्दिग्धव्यधिकरणासमर्थसन्दिग्धविशेषणविशेष्यसंबन्धादपरं द्वानवतं शतम् ।
इयमेवाश्रयासिद्धिप्रक्षेपेणापरं द्वानवतं शतम् ।
सैव सन्दिग्धतां परित्यज्यान्यथासिद्धिमुपादायापरं द्वानवतं शतम् ।
इयमेवाश्रयासिद्धिप्रक्षेपेणापरं द्वानवतं शन्तम् ।
सैवान्यथासिद्धिं विहाय विरुद्धतामुपादायापरं द्वानवतं शतम् ।
अत्रैव पुनराश्रयासिद्धिं प्रक्षिप्यापरं द्वानवतं शतम् इति ।
सो ऽयमसिद्धविरुद्धानैकान्तिकानां प्रपञ्चः ।
प्रकरणसमं प्रपञ्चयितुं वस्तुगतिं तावदाहेत्याह---तन्नेति ।
अन्तत इति ।
अगृह्यमाणविशेषदशायामित्यर्थः ।
कालात्ययापदिष्टस्तूद्देश एव प्रपञ्चितः इति ॥
अत्र चातीतकालो मन्दतमप्रयोगः, कालाभावात् ।
यस्य ह्यवसरो नास्ति, तस्यार्थक्रिया प्रति विचारतः सत्त्वं नास्तीति ।
मन्दतरप्रयोगस्त्वसिद्धः, सति स्वकाले स्वयमेवाभावात् ।
यस्तु स्वयमेव नास्ति, तस्य देशकालावस्थाविरोधसामर्थानां नावकाशः ।
मन्दप्रयोगस्तु सत्प्रतिपक्षः, सतोः कालदेशवत्त्वयोरवस्थाभावात् ।
अवस्थाभावे ऽविरोधसामर्थ्ययोरनवकाशात् ।
सावकाशप्रयोगस्तु विरुद्धः, कालदेशावस्थासु सतीषु विरोधात् ।
यस्त्वेवं तस्य कुतः सामर्थ्यम्? प्रायःप्रयोगस्तु सव्यभिचारः, कालदेशावस्थाविरोधेषु सत्सु सामर्थ्यमात्राभावादित्यनेन हेतुना सव्यभिचारादिक्रमोद्देशः ।
यद् वा सुग्रहः सव्यभिचारः, विच्छेदमात्रसिद्धौ तत्सिद्धेः, उपदर्शितविपरीतग्रहणे तत्सिद्धिः ।
यत्नग्राह्यो विरेद्धः ।
अतियत्नग्राह्यः प्रकरणसमः, तदितरसमस्तरूपसम्पन्नमन्यदपनीय तत्सिद्धेः ।
दुर्ग्रहो ऽसिद्धः, असिद्धाश्रयो ऽपि कश्चित् हेतुरिति परमतनिराकरणावष्टम्भेन तत्सिद्धेः ।
दुर्ग्रहतरः कालात्ययापदिष्टः, बाधकस्यानन्यथासिद्ध्या प्रामाण्यं व्यवस्थाप्य तत्सिद्धेरिति ।
तद्विवक्षया क्रमनियम इति ॥4 ॥
॥ परिशुद्धिः ॥
ननु विभागसूत्रे सव्यभिचार इत्युद्दिष्टं पदमिह माष्यकारो लक्षणत्वेनैव व्याचष्टे ।
एवं चोद्दिष्टं न लक्षितम्, लक्षितं च नोद्दिष्टमित्यत आह---अत्र चेति ।
तथापि लक्षणे वक्तव्ये पदनिरुक्तिः क्वोपयुज्यते इत्यत आह---एतदुक्तं भवतीति ।
किं त्वेकस्मिन्नन्ते यो नियत इति अन्वयतो व्यतिरेकतो वा साध्येनैव सहचरितो दृष्ट इत्यर्थः ।
तद्विपर्ययादनैकान्तिको ऽनियतः साध्येनैव सहितो न दृष्टः ।
उभयपक्षगामीति यावदिति उभयपक्षप्रसञ्जक इत्यर्थः ।
एतेन साधारणासाधारणानुपसंहार्याः संगृहीता इति स्फुटम् ।
बोधाभासप्रसञ्जितामतिव्याप्तिमनेन व्याख्यानेन व्युदस्तामाह---न चैवंभूता ।
एतच्च तत्र तत्र वक्ष्यते ।
तदेवमिति ।
अनैकान्तिकपदवत् सव्यभिचारपदमपि व्याख्येयमित्यर्थः ।
नन्वेतावतैव सर्वं व्याख्यातम्, तत् किमपरमवशिष्यते यदर्थं सर्वो ऽयमित्यादि वार्तिकमित्यत आह---अवगतम् इति ।
न नु अन्यत्र प्रमेयादिति असंगतम् ।
साध्यतद्विपर्ययौ ह्यन्तद्वयम् ।
न च तदस्य नास्ति ।
अथायमर्थः, न तत्रायमन्वयतो व्यतिरेकतो वा नियत इति ।
तथापि नायमेवैवंभूतः, सर्वेषामेवानैकान्तिकानामेवंरूपत्वात् ।
तदस्यैव वर्जनमनुपपन्नम् ।
उदाहरणमात्रार्थत्वान्न दोष इत्यपि न युक्तम्, नित्यश्चानित्यश्चेत्यादिसंग्राह्यकोटावनैकान्तिकस्याप्रदर्शनादित्यत आह---प्रमेयपदार्थस्य त्विति ।
तदयं वार्त्तिकार्थः, कश्चिद् धर्मः सर्वस्यप्रमेयत्वादिलक्षणः, कश्चित् कस्यचिदेव नित्यत्वादिलक्षणः ।
तत्र सर्वस्य वा कस्यचिद् वा यो धर्मो हेतुतयोपात्त उभावन्तौ साध्यधर्मतद्विपर्ययौ आश्रित्य प्रसज्य प्रवर्तते धर्मिणि सो ऽनैकान्तिक इति ।
व्यतिरेक्यव्यतिरेकितया धर्मद्वैविध्यप्रदर्शनेनानैकान्तिकस्य विषयविवेचनं सूचितम् ।
व्यतिरेकिण्येव हि धर्मे साध्ये ऽनैकान्तिकः संभवत्प्रयोगो न त्वव्यतिरेकिणि ।
न नु पर्युदासाभिप्रायेणैव प्राक् व्याख्यातम् ।
तत् कथं तत्प्रतिषेध इत्यत आह---पर्युदासपक्ष इति ।
तथापि नाब्राह्मण इति प्रसज्यप्रतिषेधोदाहरणम् ।
न हि गोघटादावब्राह्मण इति वक्तारो भवन्ति, अपि तु क्षत्रियादावित्याह---न पुनरित्यादि सुबोधम् ॥5 ॥
मूल पाठ: Nyāyavārttikatātparyapariśuddhi 1 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0