न्यायवार्त्तिकतात्पर्यपरिशुद्धि · भाग 181191
सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ॥6 ॥
॥ परिशुद्धिः ॥
सूत्रे समानकर्तृकत्वाभावात् क्त्वाप्रत्ययानुपपत्त्या शब्ददोषमाह---न खल्विति ।
अर्थदोषमाह---न च पक्ष इति ।
उपलक्षण चैतत् ।
एतस्मिन् सति विरोधापसिद्धान्तौ निग्रहस्थाने निरवकाशे ।
तयोः सतोरयं वा मीमांसकाभिमतो विशेषविरोधो ऽपि विरुद्ध स्यादित्यपि ।
अभ्युपगमेति ।
सिद्धान्तशब्देनात्र पक्षो विवक्षितो ऽतो न प्रकृतहानं नाप्यपसिद्धान्तवैयर्थ्यमित्यर्थः ।
विशेषविरुद्धप्रसङ्गनिवारयति---विशेषेति ।
अभ्युपेत्य इत्यनेन प्रतिज्ञायेति विवक्षितम्, न त्वभिप्रेत्येति ।
न च विशेषः प्रतिज्ञायते ऽपि तु अभिप्रेयते न च तथाभूतेन विरोधोपलम्भसंभवो ऽसिद्धिदशायामनुपम्भेन सिद्धिदशायां सहोपलम्भेनानवसरपराहतत्वात् ।
एवंभूतस्याभिप्रायगोचरत्वमपि कथमित्यपि न युक्तम्, स्वार्थानुमानसमये प्रकृतोपपादकतया तत्सिद्धेः अनुपपादकस्तु विशेषो न सिध्यति ।
अत एव नाभिप्रायगोचरो ऽपि ।
तदापि कथं सर्वथानुपलब्धचरः सिध्यतीत्यपि न वाच्यम्, आकाङ्क्षादिसंपत्तौ पदार्थानामिवापूर्वार्थप्रतिपादने व्याप्तिपक्षधर्मतामाहात्म्यस्यापह्नोतुमशक्यत्वात् ।
तस्माद् ययोरेव परस्परधर्मिपरिहारेण नियमवतोः स्थितिरूपलभ्यते, तयोरेव विरोधो नान्यथेत्यर्थः ।
अनुक्तश्च संगृहीतश्चेति विप्रतिषिद्धमित्यत आहर्---इदृशं व्याख्यानमिति ॥
स्यादेतत्, विरोधे हि हेतुर्न स्यात् साध्य वा ।
आद्ये ऽसिद्ध एव ।
द्वितीये तु कालात्ययापदिष्टः ।
क्वेदानीं विरुद्धः? अन्यतरानिश्चये ऽपि सन्दिग्धासिद्ध इत्याशक्ङ्क्योक्तं वार्त्तिककृता यस्मादम्युपगतं बाधत इति ।
नासिद्धः, पक्षे निश्चितत्वात् ।
नापि कालातीतः, प्रमाणान्तरेण बलवता अबाधनात्, किं त्वयमेव सिसाधयिपितं बाधत इति वार्त्तिकार्थः सुगम एव ।
द्वितीयं वार्त्तिकमभ्युपगतेन बाध्यते इति ।
तदपि यद्यपि प्रतिज्ञार्थेन तद्बाधने ऽसिद्धः स्यात्, तथापि विरोधस्यैव यत्रोद्भटत्वम्, तत्र तदुल्लङ्घनेन प्रयत्नसाध्यमसिद्धत्वं नोद्भाव्यमेव, दैवतस्तत्प्रतीकारे निरनुयोज्यानुयोगापत्तेः, विरुद्धद्वारेणैवासिद्धेरपि व्यवस्थापने तदुद्भावनस्यावश्यकत्वाच्चेति ।
सुगमम् ।
उत्तरवार्त्तिकानुरोधेन तु व्याचष्टे---स्वरूपेण हेतुत्वेन वेत्यर्थः ।
अत्रोदाहरणभाष्यमित्यादि ।
उक्तमित्यर्थ इति ।
अन्तष्टीकायां भाष्यस्येति शेषः ।
विरोधनिग्रहस्थानादेतस्यामेदमाशङ्क्य यथा परिहृतं वार्त्तिककृता, तदनुरोधेन व्याख्यातम् ।
प्रतिज्ञाश्रितत्वमिति ।
विरोधवैभवेन चोदाहरणानि वार्त्तिके ।
वस्तुतस्तु स्वमते मानान्तरसिद्धस्यार्थस्यान्यथावचनमपसिद्धान्तः ।
वाक्यांशयोरेकार्थभावाभावविषयत्वेन व्याधाती विरोधः ।
विपर्ययव्याप्तत्वेन निश्चितो विरुद्धो हेत्वाभासः ।
स च विधिसाधने स्वभावानुपलब्धिर्व्यापकानुपलब्धिर्व्यापकविरुद्धोपलब्धिरिति त्रिविधः ।
तद्यथा धूमवानयं योग्यस्य सतस्तद्वत्तया अनुपलभ्यमानत्वात्, निरग्निकत्वात्, जलाशयत्वादिति ।
निषेधसाधने ऽपि स्वभावोपलब्धिर्व्याप्योपलब्धिरिति द्विविधः ।
तद्यथा निरग्निको ऽयम्, तद्वत्तयोपलभ्यमानत्वात्, धूमवत्तवादिति ।
सर्वश्चायं विशेषणद्वारापि प्रतिसन्धेयः ।
यथा कृष्णागुरुरारुप्रभववह्निमानयम्, कटुकासुरभिविपाण्डुरधूमवत्त्वादिति संक्षेपः ॥ 6 ॥
यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥ 7 ॥
॥ परिशुद्धिः ॥
इह खलु हेत्वाभासानां तत्त्यानुसंहितानां यथासंख्यं संशयो विवक्षितविपरीतज्ञानं जिज्ञासा अज्ञानं व्याप्तिबाधश्चेति फलानि ।
तत्र फलद्वारकं प्रकरणसमलक्षणमुपक्रम्यतेयस्मादित्यादि ।
तदेतद् भाष्यमुखने व्याचष्टे---प्रकरणेति ।
यस्मात् प्रक्रियमाणार्थजिज्ञासामात्रं भवति स प्रकरसम इति संक्षेपः ।
तथाहि, पक्षे समबलबाधकसहप्रवृत्तेर्न तत्त्वनिर्णयः, प्रतिबलेन प्रतिरुद्धत्वात् ।
नापि ततो ऽनुसन्धानेनापि सहसा व्याप्तिबाधो ऽनुगृह्यमाणविशेषतया समबलत्वात् ।
नाप्यज्ञानमेव पक्षे विद्यमानतयैककोटिप्रसञ्जकत्वात् ।
नापि विपरीतज्ञानम्, तेनाव्याप्तेः ।
नापि सन्देहः कोटिद्वयानुपनायकत्वात् ।
तस्मादेकां कोटिमुपनयन् समबलेन प्रतिरुद्धः कथमत्र निर्णयो भवत्विति जिज्ञासां जनयन् प्रकरणसम इतरेभ्यो भिद्यत इति ।
तच्च सत्प्रतिपक्षत्वं सिद्धोभयहेतुकमसिद्धोभयहेतुकं सिद्धसाध्योभयहेतुकं च ।
प्रथममरूपद्रव्यत्वोलभ्यमानस्पर्शाधिष्ठानत्वयोः ।
तृतीयं श्रावणत्वकृतकत्वयोः ।
मध्यममिहोदाहरिष्यते ।
तदनुरोधेन व्याचष्टे---स खल्विति ।
यद्यपि जिज्ञासामात्रमत्रोपयोति, तथापि संशयानुवृत्तिनिवृत्त्योः जिज्ञासानुवृत्तिनिवृत्ती इति मत्त्वोक्तम्---तत्र सन्दिग्धे तद्वा जिज्ञासते इति ।
ननु यत एव जिज्ञासा कथं तमेव प्रेक्षावान् तत्त्वनिर्णयाय प्रयोक्ष्यत इत्यत आह---विचित्राभिसन्धितयेति ।
पूर्वसमयो दुष्प्रत्ययो जातु प्रयोज्यबुद्धिरिति हि साधनोत्तराभासप्रयोगे हेतव इत्यर्थः ।
नन्वेकैकपक्षनियततया कथमुभयपक्षसाम्यमनुपलब्धेरित्यत आह---सेयमिति ।
ननु व्युत्पत्तिमाश्रित्य चेत् प्रकरणसमपदं प्रवर्तते कृतं तर्हि यस्मादित्यादिलक्षणान्तरेणेत्यत आह---व्युत्पत्तीति ।
अथैतदेव प्रवृत्तिनिमित्तं किं न स्यादित्यत आह---अन्यथेति ।
अत्र भाष्यकारेण सव्यभिचारात् प्रकरणसमं भेदयता तस्य संशयहेतुत्वमस्य च प्रकरणप्रवृत्तिहेतुत्वमुक्तम् ।
तच्च संमुग्धम्, पक्षप्रतिपक्षौ प्रकरणम् इति प्राग्व्याख्यानात्, सूत्रविरोधाच्च ।
न हि यस्मात् प्रकरणमिति सूत्रमपि तु यस्मात् प्रकरणचिन्तेति ।
अत आह---एतदुक्तं भवतीति ।
अपि तु सत्प्रतिपक्षतयैव हेत्वाभासत्वमिति ।
जिज्ञासामात्रहेतुतया निर्णयानुत्पादकत्वादिति भावः ।
एतेन भाष्ये प्रकरणशब्दो जिज्ञासापर इत्युक्तम् ।
ननु नित्यधर्मानुपलब्धिः कादाचित्की विवक्षिता, सदातनी वा? आद्या अनैकान्तिक्येव, आकाशादावपि कदाचिन्नित्यधर्मानुपलब्धेः ।
द्वितीया त्वसिद्धैव ।
न हि नित्यधर्मोपलब्ध्या शब्दे कदाचिदपि न भवितव्यम् इति प्रमाणमस्ति ।
तथा चासिद्धत्वं विहाय कुतः प्रकरणसमत्वमुद्भावयतीत्यत आह---न च तत्त्वानुपलब्धिरिति ।
अयमर्थः, यस्यैवं विशेषग्रहः, तस्य तावदसिद्ध एवायमित्यस्तु, यस्तूपलम्भाभावेन सुलभामनुपलब्धिं मत्वा विशेषमप्रतिसन्धाय प्रतिबलेन च प्रतिबन्धमुपन्यस्यति, तं प्रति किमयमाभासतां यातु न वा? न तावन्न याति ।
तथा सति साधयेत् ।
एवं च ततो ऽगृहीतविशेषा द्वितीयापि साधयेदेव ।
न चैवम्, न चानाभासमसाधकमतिप्रसङ्गात् ।
न च तदानीं दोषान्तरमत्र परिस्फुरति, अन्यत्र प्रतिबलेन प्रतिबन्धादिति ।
यत्रापि युगपदनेकदोषपरिस्फुरणम्, तत्रापि सत्प्रतिपक्षत्वम् अप्युद्भाव्य विरम्यते ।
न हि यावदस्ति तावदुद्भाव्यम्, अन्यत्र संभूय प्रतिज्ञायां सर्वत्रोद्भावननियमादिति ।
यद्यपि प्रत्यक्षवत् तत्त्वानुपलब्धिरपि न केवला, अपि तु समानधर्मदर्शनादिसहितैव संशयकारणम् ।
तथा च चोद्यचुञ्चोरभिमतभ्रंसः, तथापि तमुपेक्ष्य स्वसिद्धान्तावरोधेन परिहरति---न ह्यकारणानामिति ।
ननूभयेति ।
एकस्मिन् पक्षे उभयपदं विहायापरस्मिन् व्यावृत्तिद्वारेति पदमध्याहृत्य फक्किकाबोधः, अपि तु तत्त्वानुपलब्धिरेवास्मदुक्ता प्रकरणसमोदाहरणमिति शेषः ।
एवं जिज्ञासाहेतुत्वाभावात् प्रकरणसमलक्षणायोगितया शरीरादन्यत्वं न तदुदाहरणमित्युक्तम् ।
इदानीं संशयहेतुतया अनैकान्तिकलक्षणायोगात् ।
तदुदाहरणमेवेदमित्याशयवानाहेत्याह---इतश्चेति ।
केचित् तु मन्यन्ते, तत्त्वानुपलब्धिरेव परं प्रकरणसमो हेत्वाभासस्तन्निराकरणं सूचयति---एवमन्यान्यपीति ।
नागृह्यमाणविशेषदशायामनुपलब्ध्योरन्ययोर्वा धर्मयोः कश्चित् विशेषो गृह्यमाणविशेषदशायां तु यथान्यस्यान्यत्र हेत्वाभासे ऽन्तर्भावः तथानुपलब्धेरपीति सापि त्याज्या ।
न चानुपलब्ध्योरात्यन्तिकमगृह्यमाणविशेषत्वम् ।
उभयोः सिद्धत्वे वस्तुन उभयानुभयात्मकत्वप्रसङ्गात् ।
एकस्यासिद्धत्वे वा कथमगृह्यमाणविशेषत्वमात्यन्तिकमुभयोरपि वास्तव्यामसिद्धौ पुनरुभयानुभयात्मकत्वप्रसङ्गादिति ॥ 7 ॥
साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥ 7 ॥
॥ परिशुद्धिः ॥
तस्मात् साध्यत्वादसिद्धतेति ।
साध्यतया असिद्धतया ।
साध्येनाविशिष्टः साध्याविशिष्टः ।
सा चासिद्धता कस्यचिदित्यादि सुगमम् ।
तदेवं शिष्यप्रतिपत्तिलाघवाय वाक्यगौरवम् ।
वस्तुतस्तु असिद्धः साध्यसम इत्येतावदेव लक्षणमुक्तम् ।
असिद्ध इत्यस्यापि पक्षधर्मतया न निश्चित इत्यर्थः ।
परामर्शविषयः पक्षधर्मता ।
सा च स्वसाध्येन निरुपाधिसंबन्धस्य पक्षसंबन्धः ।
तथापि च व्याप्तिनिश्चयसहितेन संबन्धिद्वयनिश्चयेन निश्चीयते ।
व्याप्तिलिङ्गपक्षेषु त्वेकतमानिश्चये ऽपि नेति ।
तत्र पक्षानिश्चयादाश्रयासिद्ध ।
लिङ्गस्यैवानिश्चयात् स्वरूपासिद्धः ।
व्याप्तेरनिश्चयादन्यथासिद्धः ।
एतेषां चानिश्चयः सन्देहाद् वा, अभावनिश्चयाद् वेति न कश्चित् फलं प्रति विशेषः ।
एतेन व्योमपद्मां सुगन्धि पद्मात्वात् इत्यादयो ऽपि संगृहीता भवन्ति ।
अन्यथा यः पक्षे ऽसन्निति लक्षणेनैतल्लभ्यते ।
यथा हि, असति सपक्षे विपक्षे च प्रतिषेधः कर्तु न शक्यते, तथा पक्षे ऽपीति ।
सत्या एवेति सत्येनाभ्युपगताया इत्यर्थः ।
तस्या नित्यत्वाभावादिति ।
तदसिद्धमिति चेत्---न, कदाचिदुपलम्भलक्षणेनापि अनित्यत्वेन साध्यसिद्धेः तेषां व्यञ्जकवैचित्र्ये ऽपि व्यक्त्याश्रयसंबन्धिनामुपलम्भमन्तरेणानुपलम्भनियमात् ।
उपलम्भे वा तत्त्वानुपपत्ते ।
सदोपलम्भप्रसङ्गाच्च ।
तेजसाभिभूतत्वात् न तथेति चेत्---न, आश्रयानभिभवे तेषामनभिभावात् ।
तदभिभवे तु तेषामुपलम्भे तदुपलम्भप्रसङ्गात् ।
अत एव न भाभावस्य तद्व्यञ्जकत्वम् ।
तस्मात् कदाचिदुपलम्भ एवास्याः सामान्याविरूपतां प्रतिक्षिपतीति ।
नापि कर्मेति ।
स्वाश्रयं प्राग्देशाद् विभज्य देशान्तरं प्रापयत् कर्म तत्तायां व्यवतिष्ठते ।
नातो ऽन्यथा, चलनव्यवहारस्यानाकस्मिकत्वात्, अन्यनिमित्ताभावात् ।
एवंभूतार्थान्वयव्यतिरेकानुविधानाच्च छायायास्त्वाश्रय एव तावन्नोपलभ्यते, प्रागेव तस्य विप्रयोजनसंप्रयोजने इत्यर्थः ।
न गुणो द्रव्यासमवायादिति ।
द्रव्यासमवेतं ह्यद्रव्यसमवेतं वा, असमवेतमेव वा स्यात्? उभयथापि गुणवे व्याघातः, सामान्यवतः स्वतन्त्रस्य द्रव्यत्वापत्तेः ।
निःसामान्यस्य गुणलक्षणव्याघातात् ।
सामान्यवानगुणः इत्यादि हि तत् ।
गुणकर्मणां निर्गुणतया गुणस्य तत्र समवायविरोधेन तत्समवाये सामान्यरूपत्वोपपत्तेरित्यर्थः ।
द्रव्यासमवायादिति ।
हेतुं साधयति---न मन इति तेषां विशेषगुणविरहात् सामान्यगुणो ऽयं भवेत् ।
तथा चाश्रयसहोपलम्भनियमे तदप्रत्यक्षतायां नियमादप्रत्यक्षत्वप्रसङ्ग इत्यर्थः ॥
नाप्यात्मगुण इति ।
इयं हि बाह्यकरणप्रत्यक्षता इदन्तासामानाधिकरण्येन व्याप्ता ।
तदात्मगुणतामादाय निवर्तमानमनात्मगुणतायां विश्राम्यतीत्यर्थः ।
नापि नभोनभस्वतोरिति ।
चाक्षुषतो हि गुणानां रूपिद्रव्यसमवायेन व्याप्ता ।
तच्च रूपित्वं गगनपवनाभ्यां व्यावर्तमानं चाक्षुषगुणसंबन्धमपि व्यावर्तयतीत्यर्थः ।
नापि तेजसः तद्गुणत्वं हि प्रतीतौ तदविरोधित्वेन व्याप्तम्, अन्यथा गुणिनः स्वगुणप्रतीतिपरिपन्थित्वे गुणस्य नित्यानुपलम्भप्रसङ्गात्, सति समवाये उपलम्भविरोधात्, असति समवाये चासत्त्वात् ।
तच्चातो निवर्तमानं तद्गुणत्वमपि निवर्तयतीत्यर्थः ।
तत्सहचरितगुणान्तरानुपलब्धेश्चेति ।
अयमर्थः, न तावत् छाया तेजसो रूपमेतद्रूपस्य शुक्लभास्वरत्वनियमातृ ।
न चेन्द्रनीलप्रभारूपवदाश्रयोविधानात् ।
तस्मात् गुणान्तरमेवेदं तस्येति वाच्यम् ।
तथा च चक्षुषोपलभ्यमानं न रूपमनन्तर्भाव्योपलब्धुं शक्यते, चक्षुषस्तथैव सामर्थ्याकलनादिति ।
अत एवेति ।
अयमर्थः, चक्षुर्मात्रग्राह्यतया तावच्छाया न गुणान्तरत्वेन शङ्कास्पदम्, रूपं तु संभाव्येत ।
तच्चोपलभ्यमानं पाथस उपलभ्य शैत्यद्रवत्वादिव्याप्तम्, अतादृशस्तोयत्वायोगात् ।
पृथिव्यास्तु उपलभ्यगन्धादिव्याप्तम्, अतथाभूतस्य पृथिवीत्वायोगात् ।
तच्च शैत्यगन्धादिसाहचर्यमतो निवर्तमानमनुपलम्भेन तद्गुणतामपि निवर्तयतीति ।
अपि चेति ।
अतैजसद्रव्यरूपग्रहणे हि बाह्यालोकव्याप्तस्यैव चक्षुषः सामर्थ्यमधिगतम् ।
न च यत्सहितस्य यस्य यत्र सामर्थ्यं तद्रहितेन तेन तत्करणम् ।
तथा सति वह्निरहितमप्यार्द्रमिन्धनं धूमं विदध्यादित्यर्थः ॥
विरोधकस्त्वधिक इत्याह---तस्मिस्त्विति ।
एतेन पार्थिवं रूपमारोपितं तम इति निरस्तम्, बाह्यालोकसहकारिविरहे चक्षुषस्तथारोपे ऽप्यसामर्थ्यात् तदेव हि धर्म्यन्तरे वा समारोप्येत पित्तपीतिमवत्, तत्रैव वा नियतदेशे ऽवगम्यमाने अनियतदेशत्वमिति नेदीयस्यणीयस्यपि महत्त्ववत् ।
उभयथापि तत्प्रथममन्तरेणानुपपत्तिरेकत्रारोप्यत्वादन्यत्रारोपविषयत्वात् तस्यैव ।
न चालोकमन्तरेण रूपग्रहणे चक्षुषः सामर्थ्यमित्युक्तम् ।
न चारोप्यारोपविषयाप्रथने भ्रान्तिसंभवः ।
न चोभयोरन्यतरस्मिन्नव्यापृतस्यैवचक्षुषो भ्रान्तिजनकत्वम्, न चायमचाक्षुषः प्रत्ययः, तदन्वयव्यतिरेकयोरनन्यथासिद्धत्वादिति ।
नापि द्रव्यमिति ।
न पृथिव्यगन्धत्वात् ।
न जलमरसत्वात् ।
न तेजः अनुष्णत्वात् ।
न वायुरस्पर्शत्वात् ।
नाकाशमशब्दसमवायिकारणत्वात् ।
न दिक्कालो परत्वापरत्वासमवायिकारणसंयोगानाधारत्वात् ।
नात्मा बुद्ध्यनाधारत्वात् ।
न मनो ज्ञानासमवायिकारणसंयोगानाधारत्वादित्यर्थः ।
नाप्यन्यदिति ।
नेदमद्रव्यं रूपिद्रव्यम्, अस्मदादिप्रत्यक्षत्वात् ।
अस्मदादिप्रत्यक्षं हीन्द्रियेण व्याप्तम् ।
तच्च नियतविषयसामर्थ्येन व्याप्तम् ।
तच्च विपक्षान्निवर्तमानमिन्द्रियं निवर्तयत् प्रत्यक्षत्वमपि निवर्तयतीत्यर्थः ।
अस्पर्शत्वादिति ।
नेदमनेकद्रव्यं द्रव्यमस्पर्शत्वात् ।
अस्पर्शता हि द्रव्यस्यानारभ्यतया व्याप्ता ।
स च निषेध्यादनेकद्रव्यान्निवर्तमाना स्वव्याप्यं स्पर्शरहितत्वं गृहीत्वा तद्विपरीते विश्राम्यतीत्यर्थः ।
अनारम्भकत्वेनेति ।
अविद्यमानमारभ्भकं यस्य तत् तथोक्तम् ।
तस्य भावस्तत्वत्त्वमिति ।
एतेनाश्रयासिद्धिः परिहृता ॥
यत् तूक्तम्, मनसा द्रव्यान्तरानारम्भे वैयर्थ्यमुपाधिः, न पुनरस्पर्शत्वम्, तत् किं वैयर्थ्यादनारम्भकत्वमुन्नीयते, अनारम्भकाद् वा वैयर्थ्यमिति? न तावदाद्यः, सर्वोत्पत्तिमत्प्रयोजनस्यास्मदादिभिः पिशितलोचनैरनाकलनात् ।
तस्माद् यद्यारम्भकस्वभावत्वं मनसस्तदा कदाचिदारम्भे प्रयोजनमपि किञ्चिद् भविष्यतीति ।
न चेत् तत्स्वभावकत्वं प्रयोजनसहस्रेणापि नारम्भः ।
स्वभावानुविधायीनि हि प्रयोजनानि ।
न तु प्रयोजनानुविधायिनः स्वभावाः ।
प्रत्यक्षबाधस्तु तदा स्यात् यदि तम एवापह्नूयेत ।
द्रव्यत्वे प्रत्यक्षस्याजागरुकत्वात्, नीलिमगुणशालिनः प्रतीतेः ।
कथमेवमेतदिति चेतृ---न, वस्तुतो ऽस्य नीलत्वे ऽचाक्षुषत्वप्रसङ्गात् ।
आलोकसहकारिण एव चक्षुषः तत्र सामर्थ्यावधारणादित्युक्तम् ।
शुक्लभास्वरविरोधितासाम्यात् तु तथा व्यवहारः ।
एवं तर्हि रक्तादिव्यवहारो ऽपि प्रसज्यत इति चेत्---न, व्यवहारे हि सति निमित्तानुस्मरणात् ।
न तु निमित्तामस्तीत्येव व्यवहारः यथा शषयोः शव्यवहारो गौडानां वर्णत्वनिमित्ताविशेषे ऽपि न कादिव्यवहारः ।
अदृष्टादिसामग्रीविशेषान्नियमो नात्रापि दण्डवारितः इति ।
तत् किं न किञ्चिदेवच् छायेत्यत आह---तस्माद् भाभाव एवच् छायेति ।
न च वाच्यम्, सो ऽपि कथमालोकमन्तरेण प्रतियोगिस्मरणाधिकरणग्रहणविरहे विधिमुखेन चाक्षुषो विषय इति ।
यद्ग्रहे हि यदपेक्षं चक्षुस्तदभावग्रहे ऽपि तदपेक्षमेव ।
एवं हि तदितरसामग्रहीसाकल्यं स्यात् ।
तदिहाप्यालोकाभावे तदालोकापेक्षा स्यात्, यद्यालोके ऽपि तदपेक्षा भवेत् ।
न चैतदस्ति ।
प्रत्युत विरोध एव तस्मिन् सति हि तदभाव एव न स्यात् ।
किं तत्सापेक्षेण चक्षुषा गृह्येत दिवा च प्रतियोगिनः प्रभामण्डलस्य ग्रहे एव प्रदेशान्तरे तद्ग्रहणमिति न किञ्चिदनुपपन्नम् ।
अन्यदापि न रात्रिमप्रतिसन्धायान्धकारग्रहः ।
रात्रिज्ञानं च न दिवसमप्रतिसन्धाय ।
तथा हि निरस्तैतद्द्वीपवर्तिरविरश्मिजालः कालविशेषो ऽत्र रात्रिरित्युच्यते ।
गिरिदरीविवरवर्तिनस्तु यदि योगिनो न तिमिरालोकिनः ।
तिमिरदर्शिनश्चेत्---नूनं स्मृतालोका इति ।
अधिकरणम् अपि दृष्टमनुमितं स्मृतं वा इहेदानीमन्धकार इति प्रत्ययात् ।
विधिमुखस्तु प्रत्ययो ऽसिद्धः ।
न हि नाप्रयोगमात्रेण विधित्वम्, प्रलयविनाशावस्थानादिषु व्यभिचारात् ।
नार्थान्तर्भावेन वाक्यार्थे पदप्रयोगाददोष इति चेत्? इहापि मात्सर्यमपनीय एषैव रीतिरनुगम्यतामिति सुष्ठूपसंहृतम्---तस्माद् भाभाव एवच् छायेति ।
देशान्तरप्राप्तिमत्त्वप्रयुक्तं हि गतिमत्त्वम् ।
न तु देशान्तरदर्शनप्रयुक्तम् तच्च प्रयोजकमिह निश्चितव्यावृत्ति ।
तथा हि स्वातन्त्रयेण देशान्तरप्राप्तौ वारकानुविधाननियमो न स्यात् ।
प्रभातुल्यत्वे तेजःप्रभाश्रयेषु रत्नविशेषेषुच् छाया दिवसे न स्यात् ।
छाययैवाभिभवे वा बहलतमे तमसि तेषामालोको न स्यात् ।
आलोकान्तरेणैवाभिभवे छायाया अप्युद्भावो न स्यादिति ॥
संकलयति---सेयमिति ।
असिद्धिः अनिरूपणम् ।
न चैतावतेति ।
वाच्यमिति शेषः ।
कुतः? सव्यभिचारत्वादिति ।
अयमर्थः, यद्यपि तत्रापि स्वाभाविकसंबन्धविरहादस्त्येव हेतुत्वासिद्धिः, न ह्यस्ति संभवः स्वभावप्रतिबद्धश्च सव्यभिचारादिश्चेति ।
तथापि न तावत् स्वरूपत आश्रयतो वा तत्रासिद्धिरुद्भावयितुं शक्यते, तयोर्निश्चितत्वात् ।
नाप्युपाधित उपाध्यपेक्षया व्यभिचारादेर्लघुप्रतिपत्तिकत्वात्, उपाधेस्तु तद्द्वारैव प्रतिपत्तेः ।
यदि च तेन दूषयितुं न शक्यते तद्द्वाराप्यपाधिरेवोद्भाव्येत ।
न चैतदस्ति ।
व्यभिचारादौ ह्युद्भाविते सुतरां निवर्तते ।
उपाधौ तु कदाचिद् विप्रतिपद्यते, तस्य दुरूहत्वादिति ।
अस्तु तर्हि सव्यभिचारवत् अप्रयोजको नाम षष्ठो हेत्वाभासः, तस्याप्येवंरूपविशेषशालित्वादित्यत आह---अन्यथासिद्धस्य त्विति ।
भवेदेवम्, यद्यौपाधिकत्वं स्वाभाविकसंबन्धविरहादन्यतृ ।
न त्वेतदस्ति ।
अनौपाधिकत्वं हि संबन्धस्य स्वाभाविकत्वम् ।
औपाधिकत्वं च तद्वरहः ।
तस्माद् विशेषान्तराभावात्, साध्यसमसमानलक्षणवत्त्वाच्च तत्रैव तस्यान्तर्भाव इत्यर्थः ।
भाष्ये गतिमत्त्वादिति सन्दिग्धः ।
वार्त्तिके सती छाया गतिमती देशान्तरे दर्शनादिति विशेषणद्वारा आश्रयासिद्धः ।
अयमेव सत्त्वं विहाय निश्चितोपाधिसहवृत्तिरन्यथासिद्धः ।
तदेतावन्त एवासिद्धभेदा इति भ्रमनिरासार्थमुदाहरति---त एत इति ।
चाक्षुषत्वादिति निश्चितासिद्धः ।
अशरीरत्वादिति धर्मित एवाश्रयासिद्धः ।
मैत्रतनयत्वादिति संन्दिग्धोपाधिसहवृत्तिरन्यथासिद्धः ॥ 8 ॥
कालात्ययापदिष्टः कालातीतः ॥ 9 ॥
॥ परिशुद्धिः ॥
अत्र यथाश्रुतभाष्यवार्त्तिकदर्शनात् सर्वमसमञ्जसमिति मत्त्वा स्वव्याख्यां स्थानान्तरीयभाष्याद्युपन्यासेन संवदन्नाह---अत्रेत्यादिना ।
अनुष्ण इत्यादिना प्रतिषेध्यविधेयधर्मग्राहकप्रमाणबाधो दर्शितः ।
धर्मिग्राहकप्रमाणबाधस्तु घटो व्यापकः सत्त्वादाकाशवदिति प्रत्यक्षेण ।
परमाणुः सावयवो मूर्तत्वाद् घटवदित्यनुमानेन ।
मेरुः पाषाणमयः पर्वतत्वाद् विन्ध्यवदित्यागमेन ।
हेतुग्राहकप्रमाणबाधस्तु, जलानिलाविष्णौ पृथिवीतो विपरीतस्पर्शवत्वात् तेजोवदिति प्रत्यक्षेण ।
मनो विभुज्ञानासमवायिकारणसंयोगाधारत्वात् आत्मवदित्यनुमानेन ।
ब्राह्मणस्य राजसूयं कर्म, स्वर्गसाधनत्वात् अग्निष्टोमवदित्यागमेन ।
एवं नवविधो ऽयमेकविधोपमानबाधेन संक्षेपतो दशविध इति ।
ननु बाधो नाम नाविनाभावभङ्गादपरः कश्चित् ।
सो ऽपि न त्रैरूप्यप्रच्यवादन्य इत्यत आह---बाधेति ।
न हि बाधम् अव्यवस्थाप्यानैकान्तिकत्वमपक्षधर्मत्वं वावतारयितुं शक्यम् ।
अतो ऽस्यावश्योद्भाव्यतयावश्याभ्युपगन्तव्यः, अन्यथा विरोधमपि नाभ्युपगच्छेत् ।
विरोधे हि हेतोरभावे स्वरूपासिद्धिः ।
साध्याभावे ऽपक्षधर्मता दुर्निवारा ।
अथ विरोधस्यैव प्रथमं बुद्धावुपनिपातात् तदुद्भावनमन्तरेण पक्षधर्मत्वस्योद्भावयितुमशक्यत्वाच्च सो ऽवश्याभ्युपगन्तव्यः ।
तदेतत् समानमन्यत्रापीत्युक्तमित्यर्थः ।
यद्येवम्, भाष्यमिदानीं कथमित्यत आह---एवमिति ।
अथ यद्ययमर्थो भाष्यकारस्य विवक्षितः, किमिति नैतदनुरूपमुदाहरणमित्यत आह---अत्र चेति ।
तथाप्यैहिकमुदाहरणमसङ्गतमित्यत आह---परमतेनैवेति ।
अथैतदुदाहरणं स्वमते पञ्चकोटिषु क्वान्तर्भविष्यतीत्यत आह---स पुनरिति ।
तत् किमिति नोद्भावयांबभूव एवमित्यत आह---स्थूलतयेति ।
वार्त्तिकमिदानीं कथमित्यत आह---यस्यापदिश्यमानस्येत्यादि ।
भदन्तं प्रत्येकदेशिनः परीहारः---समीकृते ऽभिधानादिति ।
तद् विवृणोति---अयमर्थ इति ॥ 9 ॥
॥ हेत्वाभासलक्षणप्रकरणम् ॥
॥ छलप्रकरणम् ॥
॥ परिशुद्धिः ॥
एवं यत्नेनोद्भावनीयपरिहरणीयहेत्वाभासवप्रकरणं समर्थितम् ।
अथ साधनवादी प्रमादी प्रतिवादी वा सदुत्तरसमाधानयोरपरिस्फूर्तौ तयोर्विजिगीषुः तदाभासमपि ब्रूयादिति तदाभासव्युत्पादनावसरः ।
तत्रापि जातेः स्वपक्षव्याघातापादकत्वेन जघन्यत्वात् छलस्य तु तात्पर्यतो दुष्टत्वे ऽपि वचनतो ऽदुष्टत्त्वादस्फूर्तिदशायामपि तदेव प्रयोक्तव्यम् ।
तस्याप्यस्फूर्तौ जातिरिति विशेषज्ञापनार्थं जातेः पूर्वं छलोद्देशः ।
सैव लक्षणे ऽपि संगतिरिति भाष्यार्थमाह---उद्देशेति ॥
नन्वतिव्यापकमिदं लक्षणम् ।
अर्थवैचित्र्योपपत्त्या वचनविघातस्य जातावपि संभवादित्यत आह---यथा वक्तुरिति ।
इह वाग्वृत्तिविपर्यासेन प्रत्यवस्थानं न तु तत्रेति भेद इत्यर्थः ।
ननु विभागो नोदाहृतः तत्कथं विभागे तूदाहरणानीति भाष्यमित्यत आह---विभज्यत इति ॥ 10 ॥
॥ परिशुद्धिः ॥
यद्येवं कथं विभागश्चेति कृत्वा विभागसूत्रमेव पठतीत्यत आह---विभज्यते ऽनेनेति ।
उक्तिपूर्वकत्वात् तात्पर्यस्य तदनुसंधानपूर्वकत्वादुपचारस्योद्देशकमनियमः ।
तदनुरोधाच्च लक्षणक्रमनियमः ॥ 1.1 ॥
परिशुद्धिः
अभिधावृत्तिसंचारो यत्रच् छले तद्वाक्छलमिति लक्षणार्थः, वाचीति विषयसप्तमी, भ्रमं निवारयति---वाचि निमित्त इति ।
नन्वेतत् सर्वच्छलसाधारणमित्यत आह---नवकम्बल इत्यादि ।
तदिदं वाक्छलमुत्तरदशायां नवविधम् ।
तद्यथा भूभृदयं वीर्यशाली महावयवत्त्वादित्यत्र धर्मिपदसंचारेण न नखप्रसूनाञ्चितकरपल्लवो ऽयं नित्यकर्मकरत्वादित्यत्र साध्यपदसंचारेण ।
अता गर्भवती रक्तविलोचनत्वादित्यत्रोभयपदसञ्चारेण ।
तदेतत् प्रतिज्ञाश्रयं त्रयम् ।
आढ्यो ऽयं नवकम्बलत्वादित्यत्रासिद्धत्वोद्भावनेन ।
गजो ऽयं विषाणीत्वादित्यत्र विरोधोद्भावनेन ।
दुरालोको ऽसौ राजा तेजोमयत्वादित्यत्रानैकान्तिकत्वोद्भावनेन ।
तदेतत् हेत्वाश्रयं त्रयम् ।
दुव्यं वायुः सावयवत्वात् अम्बरवदित्यत्र साधनविकलत्वेन ।
अस्मदादिदुरासदाः तारका गगनेचरत्वात् पतङ्गवदित्यत्र साध्यविकलत्वेन ।
पशुरेष विषाणित्वाद् गोवदित्यत्रोभयविकलत्वेन ।
तदेतद् दृष्टन्ताश्र त्रयम् ।
प्रत्युत्तरदशायां तु प्रतिपक्षसाधने नवविधमेव ।
अन्यत्र तु यावद्दूषणभेदम् ।
तद् यथा, अन्यथासिद्धो ऽसिद्धश्चेति व्याघातः कथमपि सिद्धत्वात् ।
साध्यविपर्ययव्याप्तो ऽयमिति, गुण एवान्यथा साध्याभेदप्रसङ्गात् ।
अम्बरेणानैकान्तिकमित्यसङ्गतम्, तस्याप्यनित्यत्वात् ।
नायं पक्षी कुतो ऽस्य पक्षबाधसंभावनेत्यादि स्वयमूह्यम् ।
अस्य प्रत्यवस्थानमित्यादि भाष्यं न पूर्वसूत्रव्याख्यानं नोत्तरसूत्रपरं वेत्यत आह---तदेतच्छलमिति ॥ 1.2 ॥
सम्भवतोर्ऽथस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छलम् ॥ 1.3 ॥
॥ परिशुद्धिः ॥
यत्र तात्पर्यसंक्रान्तिस्तत् सामान्यच्छलमिति सूत्रार्थः ।
तच्च क्वचित् संभवविधिविशेष्येषु ।
यथा संभवद्विद्याचरणसंपदयं ब्राह्मणत्वात् ।
अनित्यः शब्दः ।
शतं द्विजातयो भोजिता इति ।
क्वचित् तु हेतुत्वोद्देशविशेषणेषु यथा ब्राह्मणादुपजातो ऽयं ब्राह्मणत्वात् ।
अनित्यं कार्यं द्विजशतं भोजितमिति ।
तदेतत् सर्वं विवक्षितमाप्नोति चात्येति चोभयसमानं चेत्यतिसामान्यमुच्यते ।
एतन्निमित्तकं छलं सामान्यच्छलमिति ।
भाष्यानुरोधात् विशेषनिष्ठं व्याचष्टे---संभवत इति ।
तत्राद्यमुदाहरणं स्फुटमेव ।
द्वितीयं तु, अनित्यः शब्दः कृतकत्वादित्युक्ते धटो ऽप्यनित्यः तर्हि कृतकत्वात् शब्दः स्यात् ।
तृतीयं तु, शतं द्विजातयो भोजिता इत्युक्ते शतसंख्यावच्छिन्ना अपि भोजिताः सनकादयो न द्विजातय इति ।
चतुर्थं तु, ब्राह्मणाज्जातो ऽयं ब्राह्मणत्वादित्युक्ते संभावनाविषयो ऽयमभिहितो न हेतुरिति ।
पञ्चमं तु, अनित्यं कार्यमनित्यत्वादित्युक्ते साध्याविशिष्टो हेतुरिति ।
षष्ठं तु, द्विजशतं भोजितमित्युक्ते द्विजा भोजिताः, न तु तद्मता शतसंख्येति ।
एवं प्रत्युत्तरदशायामप्येतत् षड्विधमेवेति ॥ 1.3 ॥
धर्मविकल्पनिर्देशेर्ऽथसद्भावप्रतिषेध उपचारच्छलम् ॥ 1.4 ॥
॥ परिशुद्धिः ॥
उपचारवृत्तिव्यत्ययो यत्र तदुपचारच्छलमिति लक्षणार्थः ।
एतदप्युत्तरे नजविधम् ।
तद् यथा, अयं माणवकः सिंहः, अयं सिंहो राज्ञः, अयं पुरुषसिंहो राजशार्दूलस्येति प्रतिज्ञामारित्य त्रयम् ।
वर्षाषु नौसंचार्येयं भूमिर्गङ्गात्वात्, घोषाणां सुखवसतिहेतवस्ते देशा गङ्गात्वात्, स प्रदेशो धनकाशादिवनो गङ्गात्वादिति हेतुमाश्रित्यत्रयम् ।
ये ध्वनिहेतवस्ते क्रोशन्ति यथा मञ्चाः, ये क्रोशन्ति ते ध्वनिहेतवो यथा मञ्चाः, ये क्रोशनप्रयोजनवन्तस्ते क्रोशन्ति यथा मञ्चाः, इति दृष्टान्तमाश्रित्य त्रयम् ।
प्रत्युत्तरे तु प्रतिसाधने तावदेव ।
अन्यत्र तु यावद्दोषभेदम् ।
तद्यथा, अशरीरत्वादिति हेतुरयमाश्रयासिद्ध इत्युक्ते नैवम्, हेत्वाश्रयस्याकाशस्य सिद्धत्वात् ।
न च हेतुरसिद्धत्वादीना दूष्यते अपि तु लिङ्गमेव ।
अतो निरनुयोज्यानुयोगो भवत इत्यादि धर्मविकल्पनिर्देशशब्देनाभिधानधर्मो द्वेधाभिधीयत इति वार्त्तिकैकवाक्यताम् आपादयितुं भूमिं रचयित्वा यथाश्रुतभाष्यमुपेक्ष्य खण्डखण्डं व्याचष्टे---शब्दस्येति ।
द्ययपि नेह स्फुटम् तथाप्येकत्र वस्तुसद्भावः प्रतिषिध्यते ।
नैव क्रोष्टारो मञ्चा इति परीक्षावार्त्तिकमनागतमवेक्ष्याह---वार्त्तिकमते त्विति ॥ 1.4 ॥
वाक्छलमेवोपचारच्छलं तदविशेषात् ॥ 1.5 ॥
॥ परिशुद्धिः ॥
संगतिर्हि द्वेधा भववति, अन्तर्भावलक्षणा आनन्तर्यलक्षणा च ।
तत्र न तावत् पूर्वा छलपरीक्षासूत्राणां लक्षणस्याध्यायार्थत्वात् ।
अध्यायानन्तर्भूतस्य चाह्निकप्रकरणयोः अन्तर्भावात्, परीक्षात्वेन द्वितीयादावेवान्तर्भावार्हत्वाच्च ।
नाप्युत्तरा षोढाप्यत्र संभाव्यते, स्मारकाभावेन प्रसङ्गाभावात्, तया विनैव प्रकृतसिद्धेः, उपोद्घाताभावात्, जातिनिग्रहस्थानलक्षणावरोधेनावसराभावात्, उत्तरप्रबन्धं प्रति अकारणत्वेन हेतुत्वायोगात्, छलपरीक्षाया उत्तरत्राव्यवहारेणानिर्वाहकत्वात्, छलपरीक्षाजात्यादिलक्षणसूत्राणां प्रकृतोपयोग्येककार्यायोगेन तन्निबन्धनाय अपि संगतेरभावादित्यत आह---परीक्षापर्वण इति ।
प्रासङ्गिकी संगतिः ।
प्रसङ्गाश्च परीक्षापर्वसन्निधानेनोपोद्वलित इत्यर्थः ॥
पृथक्सूत्रणात् साधर्म्यसहिताया विशेषानुपलब्धेश्च संशय ।
परीक्षितं सत्सु विवचितं सुग्रहं सुपरिहरं छलं भविष्यतीति परीक्षाप्रयोजनं स्फुटीकृत्य पूर्वपक्षमाह---यथा हीति ।
लक्षणाभेदादेकत्वमित्यर्थः ॥ 1.5 ॥
न तदर्थान्तरभावात् ॥ 1.6 ॥
॥ परिशुद्धिः ॥
न तदर्थान्तरभावादिति सिद्धान्तसूत्रम् ।
तत्र च भाष्यम्---अन्यार्थान्तरकल्पना, अन्योर्ऽथसद्भावप्रतिषेध इति ।
तदेतदविशदम्, अर्थान्तरकल्पनाया उभयत्रापि पूर्वपक्षे दर्शितत्वात् ।
अर्थसद्भावप्रतिषेधस्तु यथाकथञ्चित् सर्वसाधारणः अन्यथा वचनविधातत्वलक्षणक्षतेः ।
परमार्थतस्तु न क्वचिदपि ।
वार्त्तिकं तु एकत्र धर्मः प्रतिषिध्यते ऽन्यत्र धर्मीति ।
एतच्चासिद्धम् ।
न ह्यत्र मञ्चा एव धर्मिणः प्रतिषिध्यन्ते ।
अपि तु कम्बलधर्मसंख्यावत् मञ्चधर्मः ।
क्रोशनमिहापि प्रतिषिध्यत इत्यत आह---विधेयं वस्त्विति ।
अत्रैवोत्तरशङ्कान्तरमपनयति---किं त्विति ।
तदेतत्समाधानं प्रकृतोदाहरणापेक्षं द्रष्टव्यम् ।
सर्वव्यापकं तु मुख्योपचारवृत्त्यनुगतत्वेन अनयोर्भेदकौ नियतौ धर्माविति ॥ 1.6 ॥
अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः ॥17 ॥
॥ परिशुद्धिः ॥
अवि---ङ्गः ॥ 17 ॥
॥ इति छलप्रकरणम् ॥
॥ पुरूषाशक्तिलिङ्गदोषसामान्यलक्षणप्रकरणम् ॥
॥ परिशुद्धिः ॥
यद्यप्यसदुत्तरतया जातेः छलप्रकरण एवान्तर्भावो युक्तः, तथापि प्रतिज्ञाहान्यादेर्निग्रहस्थानस्यापि तथाभावात् तां संगतिमुपेक्ष्यार्थदूषणत्वाभिप्रायेण प्रयोगस्य साम्यादुत्तरप्रकरण एवान्तर्भावः ।
तत्रान्तर्भूतायाश्च जातेः पृथक्करणे उद्देश एव प्रयोजनमुक्तम्, प्रतिज्ञाहान्याद्यपेक्षया चानुद्भटापराधतया परव्यामोहनहेतुत्वात्, पराजयदशायां प्रयोक्तव्यत्वज्ञापनार्थं तस्मात् प्रागुद्देशः ।
सैव संगतिरिहापीत्याह---उद्देशेति ॥
छलस्य सम्यग्दूषणस्य च इत्युपलक्षणम्, प्रतिज्ञाहान्यादेरित्यपि द्रष्टव्यम् ।
न च छले इत्युपलक्षणं तथैव, तथापि सम्यग्दूषणस्याव्युदासः, तस्यापि हेतुतो वैधर्म्येण हेत्वाभाससाधर्म्येण प्रत्यवस्थानरूपत्वादित्यत आह---न चेति ।
अयं च मात्रशब्दार्थो जातीनामवतारं वादे प्रतिषेधता असदुत्तरत्वख्यापनेनैव सूत्रकृता सूचितः ।
भाष्ये जातिपद व्युत्पादनप्रयोजनं दर्शयति---जल्पे हीति ॥18 ॥
वप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥19 ॥
॥ परिशुद्धिः ॥
निग्रहस्थानेनैव समस्तकथामुद्रणादर्थतो ऽस्य पश्चादभिधानम् ।
तत् किमित्यत्र संगत्यनुसरणेनेत्याशयवान् सूत्रं प्रत्याहरति---विप्र---नमिति ॥ 19 ॥
यद्यपि लोकव्यवहारकथाव्यवहारयोः पुरुषस्यापराध एव निग्रहस्थानम् ।
अपराद्धो हि निग्रहं शास्तिं खलीकारं प्राप्नोति ।
अन्यत्र लोके शरीरविडम्बना ।
कथायां त्वपराधमात्रोद्भावानमात्रम् ।
अन्यत्र वादिनोः कामचारः ।
अपराधश्च कथायां विप्रतिपत्त्यप्रतिपत्तिभागद्वयपर्यवसितं तात्कालिकमतत्त्वज्ञानमेव ।
तथापि तस्य स्वरूपेणोद्भावयितुम्---अशक्यत्वात्, निरर्थकापार्थकादिसामानाधिकरण्यानुपपत्तेश्च तदुन्नयनोपायोपलक्षणतया सूत्रं व्याख्यातम् ।
तेन कथायां प्रवृत्तयां वादिनोरतत्त्वज्ञानज्ञापिका क्रिया निग्रहस्थानमिति सूत्रार्थः ।
एतच्च प्रतिज्ञाहान्यादिसामानाधिकरण्येन प्रयुक्तनिग्रहस्थानपदपदार्थालोचनया ।
स्वरूपेण शक्योद्भावनप्रतिपादकवार्त्तिकदर्शनाच्च सुगमम्, भाष्ये ऽप्यनन्तरमेव स्फुटीभविष्यति ॥
स्यादेतत्, न प्रतिपत्तेर्विरीतत्वादन्यत् कृत्सितत्वमित्यत आह---सूक्ष्मेति ।
कथमसौ निग्रहस्थानमिति ।
कथमसौ स्वरूपतो ऽप्रतीयमानैव सत्तामात्रेण निग्रहस्थानं भविष्यति? न ह्यप्रतीतमेव परदारधर्षणं निग्रहाय पर्याप्तमित्यर्थः ।
विप्रतिपद्यमान इति ।
यतो विप्रतिपद्यमानः प्राप्तपराजयो भवति, अतः पराजयप्राप्तिद्वारेण उन्नेतुं शक्यते ।
अथ पराजयप्राप्तिरेव का इत्यत उक्तम्---निग्रहस्थानं प्रतिज्ञाहान्यादि खलु स्पष्टम् पराजयप्राप्तिरिति भाष्यं स्फुटमित्यर्थः ।
यद्यप्यधिके विप्रतिपत्त्यप्रतिपत्ती संभवतस्तदसंभवे निग्रहस्थानत्वानुपपत्तेः, तथापि विप्रतिपन्नवस्तुगोचरत्वेन न तु तत्रेति तदनिग्रहस्थानत्वभ्रमनिवारणार्थमसमासकरणमित्यर्थः ।
अधिकं नामेत्युपलक्षणम्, पुनरुक्तमपि द्रष्टव्यम् ।
दूष्यं वा इत्यागामिपक्षापेक्षया वाशब्दः ॥ 19 ॥
॥ परिशुद्धिः ॥
यथोद्देशमिति---यथोद्देशक्रमं भवतु लक्षणम्, न तु लक्षणक्रमानतिक्रमेण परीक्षा भविष्यति, प्रथमत एव व्यतिक्रमादित्यत आह---यथालक्षणं यथास्वरूपमित्यर्थ इति ।
नन्वेवं सति प्रथमद्वितीयसूत्रे तात्पर्यान्तरेणावष्टब्धत्वान्न त्रिविधशास्त्रप्रवृत्त्यन्तर्भाविनी ।
आर्थ्या वृत्त्या प्रथमसूत्रस्य उद्देशान्तर्भावे ऽपि द्वितीयसूत्रमलग्नकम् असंगतिकत्वादित्यत आह---तस्मादिति ।
औपोद्घातिक्या संगत्या प्रथमोद्देशमङ्गतमेव द्वितोयसूत्रमर्थात् ।
श्रुत्या च प्रयोजनपरतयेति न प्रकरणासंगतिरित्यर्थः ।
शेषं सूबोधमिति ।
कीर्त्त्यत इति कीर्तितम् ।
तथा च यथायोगमभिसंबन्ध इति सुखबोधमित्यर्थः ॥
अनभ्यासज्ञेयाच्छ्रुतिविवरगर्भेषु लघुतः सुखग्राह्यान्मन्दैः कुसुमसुकुमारात् प्रथमतः ।
मनः श्रीमद्वाचस्पतिवचनविन्यासविसरात्
त्रसत्यद्याप्येतन्मुहुरिव मुहुर्निर्वृतमपि ॥ 20 ॥
॥ इति पुरुषाशक्तिलिङ्गदोषसामान्यलक्षणप्रकरणम् ॥
॥ इत्यौदयनतात्पर्यपरिशुद्धौ प्रथमाध्यायस्य द्वितीयाह्निकम्
समाप्तः प्रथमाध्यायः ॥
मूल पाठ: Nyāyavārttikatātparyapariśuddhi 1 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0