न्यायवार्त्तिकतात्पर्यपरिशुद्धि · भाग 141160
पार्थिवद्रव्यमात्रस्पर्श इति न किञ्चित् ।
बहुकेशीत्यनुरागः ।
मज्जधातुमला हमे बहवः श्मशाने तराविव शरीरे संयुक्ता इत्युद्वेगः ।
पीनस्तनीत्यानन्दः ।
स्फिड्निर्विशेषौ पललपिण्डावित्यलंप्रत्ययः ।
मृतशरीरादचेतनात् पृथगियमिति हर्षः ।
चेतनादात्मनः पृथगियं सहजशवभूताचेतनादपृथग्भावस्तु भ्रान्त इत्यरतिः ।
दिव्यमाल्याभरणवसनवतीति प्रीतिः ।
पार्थिवं पार्थिवेन संयुक्तमिति विरतिः ।
हसतीति हर्षः ।
अस्थिमांसविभाग इति विषादः ।
मम प्रिया परापरा वेति हर्षविषादौ ।
शरीरापेक्षया परापरभावो न मदपेक्षयेति न किञ्चित् ।
नृत्यमिति रतिः ।
सत्प्रत्ययासत्प्रत्ययकर्मसन्तानो मायाशरीर इवेति विरतिः ।
गम्यजातीयेति स्त्रीति चोत्साहः ।
त्वड्मांसशोणितस्नाय्वस्थिमज्जशुक्रमूत्रपुरीषसमुदायो ऽयं चण्डालीसाधारण इत्यलंबुद्धिः ।
वक्रभ्रूः ऋजुरोमराजी गभीरनाभिरून्नतपयोधरा पृथुनितम्बा कृशमध्येति स्नेहः ।
अन्नपानपरिणतिरियं भेदोमांसाद्यपचयापचयसंस्थानभेदवती
अचिरस्थायिनीति निर्वेद इति निमत्तसंज्ञया सह अशुभसंज्ञेति ।
अनुव्यञ्जनसंज्ञयापि सह द्रष्टव्येति ॥
अस्ति तावदिह दर्शनस्पर्शनाभ्यामेकार्थानुसन्धानम् ।
तदिदमेकैकविषयं वा, समुदायविषयं वा,
तदतिरिक्तवस्तुविषयं वा, वस्त्वनुरोधाकारविषयं वा, अतीकविषयं वेति?
न तावदाद्यः, न हि भवति यदेव रूपं स एव स्पर्श इति ।
न च रूपं द्वीन्द्रियग्राह्यम्, अन्धस्यापि नीलपीतादिप्रयत्ययप्रसड्गात् ।
न चैकमेव वस्तु कारणभेदादन्यथा प्रथत इति युक्तम्, अनात्मकत्वप्रसड्गात्, भेदाभेदव्यवस्थानुपपत्तेश्च ॥
नापि द्वितीयः, स ह्येकदेशतया वा, एककालतया वा, एककार्यतया वा, एककारणतया वेति ।
न तावदुपादानलक्षणैकदेशसंभवः, तयोः प्रतिनियतोपादानात् ।
संभवे वा तदेव द्रव्यमिति पर्यवसितं विवादेन ।
नाप्यधिकरणीभूतभूतलाद्याधारतया तत्संभवः ।
तथा हि चक्षुषोपलभ्यमाने भूतले रूपविशेषे घटो ऽपि चक्षुषैवोपलभ्यमानो रूपविशेषस्तदाधार इति शक्यते निश्चेतुम्, तयोरधरोत्तरभावेन एकज्ञानसंसर्गित्वात् ।
तदधिकरणाः स्पर्शादयो ऽपीति तु कस्य प्रमाणस्य विषयः? न हि स्पर्शादयश्चाक्षुषे चेतसि चकासति, त्वचो ऽयं व्यापार इत्यपि न युक्तम्, तयापि भूतले घटस्पर्शयोरेवाधाराधेयभावप्रतीतेः ।
न च समुदाययोरेवाधाराधेयभावानुभवः, परस्पराश्रयप्रसड्गात् एकाधारतया समुदायानुसन्धानम्, तदनुसन्धाने चैकाधारतानुभव इति ।
अनवस्थाप्रसड्गाच्च, भूलतस्यापि हि समुदायत्वं किङ्कृतमित्यनुयोगानिवृत्तेः ।
अत एव नैककालतयापि, तयोरेककालतायां प्रमाणाभावात् ।
भावे वा रासभकरभयोरप्येककालतया समुदायत्वप्रसड्गात् ।
भेदाग्रहस्त्वत्रासंभावित एव ।
अत एव नैककार्यतयापि उपदेयलक्षणस्यैकस्य कार्यस्याभावात् ।
अत एवैकोदकारणक्रियेत्याद्यपि न युक्तम्, रूपाद्यतिरिक्तस्योदकस्यानभ्युपगमात् ।
एकैकस्यानेकाहार्यत्वे प्रमाणाभावात्, समुदायस्य चासिद्धेः ।
अत एव नैककारणतयापि, निमित्तमन्तरेण समुदायव्यवहारे ऽतिप्रसड्गात् ॥
तृतीये तु न विवादः ॥
नापि चतुर्थः ।
स हि विज्ञाननयमाश्रित्य वा स्यात्, द्विचन्द्रादिवद् विसंवादाद् वा, स्थैर्यवद्बाधकाद् वेति? आद्ये रूपादिषु कः पक्षपातः? प्राप्तेरर्थक्रियास्थितेश्च न द्वितीयो ऽपि ।
ते द्वे अपि रूपादीनामेवेति चेत्? न तेषां किं तु तस्यैवेत्येव किं न स्यात्? बाधकादिति चेत्? स यदि क्रमयौगपद्यविरोधः, क्षणिकं तावदस्तु ।
रक्तारक्तादिविरोधश्चेत्? परमाणुरूपं तावदस्तु ।
संबन्धाभाव इति चेत्? असंबद्धं तावदस्तु ।
कथं तद्वत् प्रतीयेतेति चेत्? तैः सह तथोत्पादादिति परिहारो ऽस्तु, भवतामेव यथा शरीरं चेतनावदिति ।
रूपादिभिरेव समस्तार्थक्रियासिद्धेः किं तदतिरिक्तवस्तुकल्पनयेति चेत्---न, तावन्मात्रेणैव समस्तार्थक्रियासिद्धेः किं रूपादिकल्पनयेत्यस्यापि वाचाटवचसो ऽवकाशप्रसड्गात् ।
प्रतीयमानत्वादिति चेत्?
तुल्यम् ॥
एतेनैवालीकविषयता निरस्ता ।
अभेदसाधनानि प्रमाणानि बाधकमिति तु चिन्त्यत इत्याशयवान् पर्यनुयोगार्थमाह---स्वसंवेदनेनेति ।
अत्र पर आह अनाकलितसमय इति शेषः ।
अनुरञ्जनादिकया त्विति ।
अतद्रूपस्य स्वरूपसंक्रान्तिः अनुरञ्जनम् ।
यथा नीलद्रव्यसम्पर्काद् धवलो ऽपि नीलो महारजनसंपर्काद्रक्त इति ।
अत्र नीलादयो द्रव्यव्यपदेशं विहाय रूपव्यपदेशमेव लभन्ते, नीलरूपः पटो रक्तरूपः पट इति ।
आदिशब्देन गन्धादीनां वासनादिकाः वासनादिकाः क्रियाः संगृहीताः ।
शब्दगतिदूषणमेतदिति विभावयन्निराकरणं
विवृणोति---तथार्थस्येति ।
अर्थगतिरपि त्रिधा ।
उत्पादमात्रं वा, त्रैलोक्यविलक्षणोत्पादो वा, सभागसन्तानभेदोत्पादो वेति ।
तत्र द्वयं दूषयतीत्याह---दूषणान्तरमिति ।
तृतीयमुत्थापयतीत्याह---शङ्कत इति ।
दृष्टिसृष्टिविषये हि कस्मिश्चिद् घट इति व्यवहारः ।
स चेदनया वचोभड्ग्यातिरिक्तः समर्थितः, सिद्धं नः समीहितमित्याह---अन्यत्व इति ।
अनन्यत्वे व्यर्थाभिधानमिति ।
तथा सति हि रूपपरमाणवः स्पर्शपरमाणवश्चेत्येव ।
ते च कथमप्युत्पद्यन्ताम्, न कदाचिदपि द्वीन्द्रियग्राह्याः ।
समुदायश्च दुरूपपादः ।
तथा च दृष्टिसृष्टिविषयो नैकः समर्थितः स्यात् ।
अतो निष्प्रयोजनमुत्तराभिधानमित्यर्थः ।
शङ्कत इत्यादि ।
यद्यपि क्षणिकपरमाणुरूपे द्रव्ये न कश्चिद् विचारविरोधः, तथापि स्थिरावयव्यभिप्रायेण शड्का ।
सो ऽपि ह्यस्माकं प्रसाध्य इति ।
अत एवाह---एकानेकविचारासहत्वादिति ।
असन्त इति उपलक्षणम् ।
बाह्याननुरोधिज्ञानाकाररूपा इत्यपि द्रष्टव्यम् ।
बीजमिति ॥
अत्र प्रयोगः, ये घटादिप्रत्यया न सत्याः, त एवम्भूतसम्यक्प्रत्ययपूर्वका मिथ्याप्रत्ययत्वात्, तैमिरिककेशप्रत्ययवदिति ।
अत्र चोपाधिमुद्भावयति---यस्त्विति ।
यद्यपि हि आदिमाननादिरिति विभागो ऽनुपपन्न एव ।
तथा हि केयमनादिता? किमेवंरूपमिथ्याज्ञानप्रवाहाविच्छेदः, किं वा पूर्वमप्येवंभूतस्य विभ्रमस्य कदापि
भावः? न तावदाद्यो ऽसम्भवात् ।
द्वितीये तु तैमिरिककेशज्ञानमप्यनाद्येव ।
अनादौ संसारे विप्लुतस्य केशज्ञानस्याभूतचरत्वानुपपत्तेः ।
तथा चानादिता नोपाधिः ।
तस्यां सत्यामपि केशज्ञानस्य सत्यज्ञाननिमित्तापेक्षणात् ।
न च विपर्यये बाधकाभावाद् विभ्रमश्च स्यात् ।
सत्यप्रत्ययाननुकारी चेति शङ्कया भवितव्यमिति वाच्यम् ।
अनन्यथासिद्धान्वयव्यतिरेकानुविधानसिद्धकारणभावपरिहारे मिथ्याप्रत्ययानामाकस्मिकत्वप्रसड्गात् ।
सत्यप्रत्ययाननुकारे घटादिप्रत्ययानामप्रवर्तकत्वप्रसड्गाच्च ।
तथा हि मिथ्याप्रत्यया अप्याभिमानिक पाक्षिकं वा प्रामाण्यमुपादायैव प्रवर्तयेयः ।
विभ्रमत्वनिश्चये त्वप्रवृत्तेः ।
न च प्रमाणाननुकारे प्रामाण्याभिमानसंशयः ।
न च प्रमाणभेदाग्रहमात्रेण तत्त्वाभिमानसंभवः, विसदृशार्थगोचरत्वे तस्याभावात् ।
सदृशार्थगोचरत्वे तु सत्यप्रत्ययानुकारो ऽकामेनापि स्वीकर्तव्य इति ।
तथापि घटादिप्रत्ययानां सत्यत्वे किं निबन्धना बौद्धस्येर्ष्येति जिज्ञासुं प्रतिबुबोधयिषुराहेत्याह---तं प्रतीति ।
अवयविन इति द्रव्यमात्रोपलक्षणपरम् ।
यद्यस्मादिति वार्त्तिकम् यत्तदोर्व्यत्यासेन सुगममेवेत्युपेक्षितवान् ।
व्यक्त्यभिप्रायेणानैकान्तिकत्वे दहनायोगोलकमुदाहरणम् ।
वार्त्तिकोक्तं तु व्याघातस्फोरणाय ।
जात्यभिप्रायेण बुद्धितद्विषयावुदाहार्यौ ।
अस्ति हि विषयाग्रहे बुद्धिजातीयाग्रहो न चाभेदोबाह्यस्थितौ सत्यां गुणगुणिवादारम्भात् ।
द्विविधाणुः शब्दात्मको ऽशब्दात्मकश्च ।
तत्रानन्तरो ऽष्टद्रव्यक इति ।
कवडीकाराहारपर्यन्ताः कामधातवः ।
ध्यानाहारा रूपधातवः ।
आनन्दाहारा अरूपधातव इति विभागः ।
सा हीति ।
यतस्त्वयैवोक्तम्,
पररूपं स्वरूपेण धिया संव्रियते यया ।
एकार्थप्रतिभासिन्या तामाहुः संवृतिं किल ॥
इत्यर्थः ।
उद्भावनप्रकारसंकलनार्थं पूर्वोक्तैकदेशं स्मारयित्वा परमतमवतारयति---तदेवमिति ।
तदत्रानैकान्तिकत्वेन हेत्वाभासो निग्रहस्थानम् ।
तदभ्युपेतप्रामाण्यागमव्याघातेनापसिद्धान्तः ।
तच्छब्दपर्यालोचनया निष्प्रयोजनत्वेनापार्थकम्, प्रतिज्ञापदयोर्व्याघातेन विरोध इति ।
आनुशासनिकं वचनभेदमादाय विरोध उद्भावितः ।
ततो न पारिभाषिकेण व्यभिचारशड्कासमानार्थानां प्रकृतीनामिति प्रकृते ऽभ्युपगमवादः ।
उत्पन्नतद्धितायाः प्रकृतेरधिकार्थत्वात्, स्पार्थिकस्य प्रत्ययस्य निराकरिष्यमाणत्वात् ।
नन्वाप इत्यपि तोयगतामेव बहुत्वसंख्यामाचष्टाम्, को दोष इत्यत आह---इत्येकस्यामपीति ।
यद्युपनिबन्धेन यदि तोयपरमाणावप्याप इति शिष्टप्रयोगस्तदैवं नेयम् ।
वस्तुतस्तु यथैकवचनात्तोयमनुशासनबलादसाधुस्तथैकसंख्यावच्छिन्ने पाथस्यपीति न कश्चिद् विरोधः ।
दारा इत्यत्र त्वेषैव युक्तिरित्यर्थः ।
क्रन्दत इत्यनादरे षष्ठी ।
भवत इति पूरणीयम् ।
षण्णगरीत्यादिषु तु सुगममेव, समाहारे समासानुशासनात् ।
स च समाह्रियमाणार्थातिरिक्त एवाभ्युपगम्यते ऽस्माभिः ॥
यदि यथालोकव्यवहारमाद्रियसे, किमिति सविकल्पकं प्रत्यक्षं परिहरसि? कुतश्च न शब्दादीनि प्रमाणानि
पृथगेवाभ्युपगच्छसीत्याह---अन्यथेति ।
वार्त्तिकोक्तोदाहरणानुरोधेनाह्नीकं प्रत्याह---न च नीलस्येति ।
वस्तुतस्तु पीतशड्खविभ्रमे अयम् अपि न पीतस्यैव शड्खस्योत्पादमिच्छति, पुरुषान्तरेणापि तथोपलम्भप्रसड्गात् ।
ततो
धवलिम्नि प्रतीते ऽपि तदाश्रयं शड्खद्रव्यमभिप्रेत्येत्येव ।
तोयविरह इत्यादि ।
न चैतद् वैधर्म्यमात्रम्, उपष्टम्भकस्याविनिर्भागेनैवावस्थाननियमात् ।
यथा हेम्नि पार्थिवो भागः ।
तैले पयसि सर्पिषि च पाथसीयः ।
न च संयोगिमात्रं यूषे जलम् ।
तदसंयोगे यूषत्वनिवृत्तेरिति तैर्व्यपदेशः ।
तैर्विशेषणैस्तस्य व्यवच्छेद्यस्य व्यवच्छेदः ।
स चात्रानुभविको विवक्षितः ।
स ह्येवं प्रवर्तते, चन्दनो ऽयं सुरभिः, तिक्तः, शुक्लः, शीतः इति ।
तादात्म्यभ्रमनिरासार्थं तु शब्दो व्यपदेशकतयोपात्तः, चन्दनस्य शुक्लं रूपमित्यादि ।
एतच्चागम्भीरमिति मत्वा यथाश्रुतमेवोपादाय तात्पर्यमहा---अस्ति हीति ।
न केवलं हेतुस्वरूपालोचनेन प्रतिज्ञालोचनेनापि चन्दनस्योपालम्भाभ्युपगमो ऽवसीयते परस्य ।
न ह्यनुपलब्धस्यैव रूपाद्यभेदं साधयति ।
तथा सत्यप्रसिद्धविशेष्यः पक्षः स्यात् ।
स्वातन्त्र्येण वा सत्त्वे साध्ये आश्रयासिद्धो हेतुरिति तृतीये व्युत्पादनीयमिति इहोपेक्षितवानिति ।
एकान्ततो व्यपदेशं व्यावर्तयितुमिति प्रयोगान्तरसूचनाय ।
तथा हि, अयं चक्षुर्गोचरः चन्दनो रसादिभ्यो भिद्यते, तदनुपलम्भे ऽप्येतस्योपलभ्यमानत्वात् ।
यद्यस्मिन्ननुपलभ्यमाने ऽप्युपलभ्यते तत् ततो भिद्यते, यथा रूपादिभ्यः शब्दः ।
तथा चायं चन्दनः ।
तस्मात् तथेति ।
स्पमात्रात्तु व्यवच्छेदः सन्दिग्धः तत्र व्यपदेशो हेतुरिति ॥
प्रयोगान्तरमाहेति ।
वैलक्षण्यस्य हेतोर्व्यक्त्यपेक्षयानैकान्तिकत्वात्, जात्यपेक्षया असिद्धत्वात्, विषयवैलक्षण्यस्य च साध्यत्वात् ।
तदाहिताकारलक्षणस्यानभ्युपगमादित्याशयवानिति शेषः ।
अत्र च हेतुतया व्याप्ति प्रधानीकृत्य षष्ठ्यन्तो हेतुरूक्तः ।
पञ्चम्यन्तश्च साध्यः ।
पर्वतो ऽयमग्निमान् ।
कस्मात्? धूमवत्त्वात् ।
किं कारणम्? धूमवतो ऽग्निमत्त्वादितिवत् ।
ग्रन्थगौरवभिया तु यथाश्रुतं व्याचष्टे---घटप्रत्ययस्येति ।
विषयो घट एव ।
निमित्तं घटत्वम् ।
तद्धि निमित्तीकृत्य घटप्रत्ययो घटे वर्तते ।
घटप्रत्ययस्त्वनुभवः स्मरणं च ।
तदियं प्रयोगपरिशुद्धिः ।
घटादिष्वेकादिप्रत्यया उक्तनिमित्तव्यतिरिक्तप्रवृत्तिनिमित्ताधीनजन्मानः, उक्तनिमित्तम् अन्तरेणापि जायमानत्वात् ।
तेष्वेव घटादिषु नीलादिषु नीलादिप्रत्ययवदिति ।
अत्र यदि घटमनतरेणापि जायमानत्वादित्येतावन्मात्रं क्रियेत तदैकघटपरित्यागे घटान्तरे जायमानघटप्रत्ययेन व्यभिचारः, तथाभूतस्यापि निमित्तान्तरानपेक्षत्वात् ।
तन्निमित्तम् अन्तरेणेत्येतावन्मात्रे तु घटनिर्विकल्पकेन व्यभिचारः, तस्य तन्निमित्तनिरपेक्षस्यापि निमित्तान्तरानपेक्षणात् ।
तत्प्रत्ययमन्तरेणेत्येतावन्मात्रे ऽपि तेनैव व्यभिचारः ।
प्रथमद्वितीयपदोपादाने ऽपि तत्स्मरणानुव्यवसायविभ्रमैर्व्यभिचारः ।
तत्प्रत्ययविषयनिमित्तव्यतिरेकेणापि तेषां जन्म ।
न च प्रवृत्तिनिमित्तान्तरापेक्षा ।
द्वितीयतृतीययोरपि निर्विकल्पकेन व्यभिचारः ।
प्रथमतृतीययोरपि घटान्तरप्रत्ययेन व्यभिचार इति समस्तोपादानम् ।
अतो यन्न्यूनं तत्पूरयति---भाज इत्यत्रापीति ।
तदेतद्घटादि प्रत्ययवैलक्षण्यमेकादिप्रत्ययानामिति ।
स्थाणुर्द्रव्यमित्येवं साधु ।
न च जातिसंकरः, तत्र खदिरजातेरभासात् ।
तद्गुणयोगात् तु तद्व्यवहारो माणवके सिंहव्यवहारवत् तदवयवारब्धत्वात् तदीयताव्यवहारः क्षीरस्य दधीविवत् ।
सर्पेणान्त्यावयविना एकेनानारम्भात् तदवयवानां कार्यावष्टब्धत्वात् सर्पकुण्डलकं संस्थानमेव स्फुटम् ।
प्रतिमाया इति ।
शरीरलक्षणाभावात् न तत्र मुख्यः शरीरशब्दः, तदेकार्थसमवेसंस्थाने औपचारिक इह प्रयुज्यते, तत्सादृश्यात् ।
राहोः शिर इत्यत्र तु संस्थाने शिरः शब्दोपचारमात्रम् ।
सुवर्णास्याड्गुरीयकमित्यत्र जातिसङ्कप्रसड्गात् संस्थानमेवाड्गुरीयकम्, रजतादेरप्यड्गुरीयकदर्शनादिति स्फुटम् ।
शिलापुत्रकस्येत्यत्रोक्तयुक्ति स्मारयन्नाह---एवमिति ।
व्यतिरेकोपदेशविवेको यदि स्यात् तदा बुद्धिशरीराभ्यामेवानैकान्तिकं स्यादत आह---अतादात्म्येति ॥14 ॥
॥ परिशुद्धिः ॥
अर्थकथनपूर्वकं सङ्गतिवार्त्तिकमवतारयति---आत्मादीनामिति ।
कारणत्वे ऽपि मनसो ऽपकर्षे तूक्तम् ।
सर्वजनीनेनापि समयेन गोशब्दवद् यद्यर्थान्तरे ऽप्येते प्रवर्तेरन् तदा को विरोध इत्यत आह---तत्र सर्वजनीनः शक्नोतीति ।
स्वाभिधेयद्वारेणेति शेषः ।
तेनायमर्थः ।
एतेषां शब्दानां व्यवह्रियमाणानां यदेकं प्रवृत्तिनिमित्तं
तद्योगाद् इतरेभ्यो बुद्धिर्भिद्यत इति ।
तदिदमुक्तं सूत्रकृता---इत्यनर्थान्तरमिति ।
तेनैतन्निरस्तम् ।
गृहीतसमयैरेभिर्बृद्धिः समानासमानजातोयेभ्यो व्यावर्तनीया ।
तथाभूतायां च तस्यामेतेषां समयो ग्राह्य इत्यन्योन्याश्रयत्वम् ।
व्यवहारे तु साध्ये
आत्माश्रयत्वमिति ।
तर्हि बुद्धिर्ज्ञानमित्येवास्तु किमनेकशब्दोच्चारणेनेत्याशड्क्य परमतमपाकर्तृम् इत्याह---भाष्यकार एवेति स्फुटमिति---उपपत्तिसार्थ्यादिति भाष्यावययवं व्याचष्टे---पर्यायेति ।
तत्रोपपत्तिपदार्थः पर्यायशब्दाभिधानमित्यनेने व्याख्यातः ।
शेषेण सामर्थ्यपदार्थः ।
तेनायमर्थः, पर्यायशब्दाभिधानलक्षणाया उपपत्तेः सामर्थ्यम् अनेकार्थत्वप्रतिषेधाक्षेपकत्वम् ।
तस्मादिति ।
तदेतन्निराकारणं सूचितम् ।
यदुपपत्तिसाध्यं तां पृच्छति वार्त्तिककारः---का पुनरूपपत्तिरत्रेति ।
निर्विकल्पकव्यापाराणीन्द्रियाणि ।
सविकल्पकव्यापारं मनः ।
अधिकाराभिमानव्यापारो ऽहङ्कारः ।
कृत्यध्यवसायव्यापारा बुद्धिः ।
निर्व्यापार एव कल्पितबुद्धिव्यापारः पुरुष इति ।
तेनायमर्थः, अकारणम् अकार्यश्च पुरुषः ।
आदिकारणं प्रकृतिः ।
आदिकार्यं बुद्धिः ।
ततो ऽहङ्कारादिसर्ग इति ।
पुरुषः कूटस्थचैतन्यरूपः ।
इतरदचेतनमिति साख्याः ।
तत्र बुद्धिरंशत्रयवती, पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेत्यंशाः ।
भवति हि मयेदं कर्तव्यमिति ।
मयेति हि चेतनोपरागो दर्पणस्येव मुखोपरागो भेदाग्रहादतात्त्विकः ।
इदमिति विषयोपरागः इन्द्रियप्रणालिकया परिणातिभेदो दर्पणस्येव मलसंबन्धः पारमार्थिकः ।
तदुभयायत्तो व्यापारावेशो ऽपीति ।
तत्रैवंरूपव्यापारलक्षणा बुद्धिः ।
विषयोपरालक्षणं ज्ञानम् ।
तेन सह यः पुरुषोपरागस्यातात्त्विकस्य संबन्धो दर्पणप्रतिबिम्बितस्य मुखस्येव तद्गतमलिनिम्ना सोपलब्धिरिति तेषां रहस्यम् ।
तदुत्थापयति---बुद्धिः किलेति ।
सा च न तावद् बुद्धेः, तस्या अचैतन्यादिति ।
यद्यप्यचेतन एव भ्राम्यतीति सांख्याभ्युपगमो यथाहुः,
योगश्चित्तवृत्तिनिरोधः ।
इति, तास्तु
प्रमाणसंशयविपर्ययस्वप्नस्मृतयः ।
इति, तथापि व्याप्त्या प्रत्यवस्थानम् ।
यत्र हि चेतनाचेतनयोरसंसर्गाग्रहे संसर्गभ्रमः, तादात्म्यभ्रमो वा, तत्र चेतनस्यैव, यथा दर्पणचैत्रयोः शरीरशरीरिणोर्वा ।
न हि तत्र दर्पणस्य शरीरस्य वा भ्रम इति ।
अपि च बुद्धिरात्मानं चेतयमाना भ्राम्येत्, पुरुषेण वा चेत्यमाना ।
नोभयमपि प्रागुक्तयुक्तेरेव ।
न च स्वतः परतो वा अप्रकाशमानैव बुद्धिर्भ्राम्यतीति युक्तम् ।
न ह्यदृश्यमान एव दर्पणः तिमिरे मैत्रसन्निधानमात्रेण तत्प्रतिबिम्बमुद्ग्राहयति ।
तस्मादुभयथापि बुद्धेः सहजं चैतन्यमापन्नमित्युपसंहारव्याजेनाह---तस्मात् कृपणेति ॥15 ॥
॥ परिशुद्धिः ॥
वैधर्म्यादिन्द्रियप्रकरणादपसारितस्य बुद्धिक्रमोन्नेयतया प्रवृत्तिहेतुतया च तयोः मध्येर्ऽथादवसरो मनस इत्याह---क्रमप्रप्तमिति ॥
यस्मादित्यादिवार्त्तिकं वाक्यभेदेन सूत्रकारोक्तस्वोक्तहेतुपपादकभाष्यव्याख्यानमित्याह---अनिन्द्रियेति ।
यद्यपि निमित्तान्तरमित्यनेनैवाकाशो ऽपि व्यवच्छिद्यते, अव्यापीत्यनेनैव वा, सहकारीत्यनेनैवात्मादि, उपादानातिरिक्तस्यैव सहकारित्वप्रसिद्धेः, तथापि यथाविवक्षं गोबलीवर्दन्यायेन व्यवस्था ।
इन्द्रियं प्रधानीकृत्य वा आत्मनि सहकारिवाद इति ।
ननु मनो विभु सर्वदा स्पर्शरहितद्रव्यत्वात्, विशेषगुणशून्यद्रव्यत्वात्, नित्यत्वे सत्यनारम्भकद्रव्यत्वात्, ज्ञानसमवायिकारणसंयोगाधारत्वात् इत्यादेः ।
तत्कथमुच्यते---अव्यापीति ।
नैतदेवं, सवेषामेषामापाततः स्वरूपासिद्धत्वात् ।
तथा हि यदा सुखाद्युपलब्धीनां क्रियात्वेन करणतया मनो ऽनुमितम्, तदा न द्रव्यत्वसिद्धिः, अद्रव्यस्यापि करणत्वात् ।
अथासामेव साक्षात्कारितया इन्द्रियतया तदनुमातव्यम्, तथापि शरीरवयवस्योपाधित्वम्, तदा तावन्मात्रे वृत्तिलाभः ।
तद्दोषे च वृत्तिनिरोधः श्रोत्रवत् प्रसज्येत ।
ततः शरीरमात्रमुपाधिरभिधेयः ।
तथा च तदवच्छेदेन वृत्तिलाभे शिरसि मे वेदना, पादे मे सुखमित्याद्यव्याप्यवृत्तित्वप्रतीतिविरोधः ।
असमवायिकारणानुरोधेन विभुकार्याणां देशनियमात् ।
शरीरतदवयवावयवपरमाणुपर्यन्तोपाधिकल्पनायां च कल्पनागौरवप्रसङ्गः, नियमानुपपत्तिश्चेति ।
ततो ऽन्यवैकं सूक्ष्ममतीन्द्रियम् उपाधित्वेन कल्पनीयम् ।
तथापि तस्यैवेन्द्रियत्वे स्वाभाविके अधिककल्पनायां प्रमाणाभावात् धर्मिग्राहकप्रमाणबाधः ।
अथ ज्ञानक्रमेणेन्द्रियसहकारितया तदनुमानं तदा सुतरामेव प्रागुक्तदोषः ।
यदि तु मनसो वैभवे ऽपि अदृष्टवशात् क्रम उपपद्यते, तदा मनसो ऽसिद्धेराश्रयासिद्धिरेव वैभवहेतूनामिति ।
अथ यत्रादृष्टस्य दृष्टकारणोपहारेणोपयोगः, तत्र तत्पूर्णतायां कार्यमुत्पद्यत एव, अन्यथा अन्त्यतन्तुसंयोगेभ्यो ऽपि कदाचित्पटो न जायेत ।
जातो ऽपि वा कदाचिन्निर्गुणः
स्यात् ।
बलवता कुलालेन दृढदण्डनुन्नमपि चक्रं न भ्राम्येत् ।
यत्र तु दृष्टानुसंहारेण अदृष्टस्य व्यापारः तत्र तद्वेगुण्यात् कार्यानुदयो यथा परमाणुकर्मणाः ।
तदिहापि यदि विषयेन्द्रियात्मसमवधानम् एव ज्ञानहेतुः, तत्सद्भावे सदैव कार्यं स्यात् ।
न ह्येतदतिरिक्तमप्यदृष्टस्योपहरणीयमस्ति ।
न च सदैव ज्ञानोदयः ।
ततो ऽतिरिक्तमपेक्षणीयमस्ति ।
तच्च यद्यपि सर्वाण्येवेन्द्रियाणि व्याप्नोति, तथापि करणधर्मत्वेन क्रियाक्रमः संगच्छते ।
अकल्पिते तु तस्मिन् नायं न्यायः, प्रतिपत्तुरकरणत्वात् चक्षुरादीनामनेकत्वात् ।
तस्मादन्तःकरणमस्तीति चेत्? नन्वेवमपि युगपज्ज्ञानानि मा भुवन् ।
युगपज्ज्ञानं तु केन वार्यते? भवत्येव समूहालम्बनमेकं ज्ञानमिति चेत्---न, एकेन्द्रियग्राह्येष्विव नानेन्द्रियग्राह्येष्वपि प्रसड्गात् ।
तेष्वपि भवत्येवेति चेत्---न, व्यासङ्गकाले ज्ञानक्रमेण विवादविषये क्रमानुमानात् ।
बुभुत्साविशेषेण व्यासड्गे क्रियाक्रम इति चेत्---नैवम्, न ह्येष बुभुत्साया महिमा, यदबुभुत्सिते विषये ज्ञानसामग्र्यां सत्यामपि न ज्ञानमपि तु तत्र संस्कारविशेषाधायकः प्रत्ययः स्यात् ।
यदि त्वबुभुत्सिते सामग्रीमेव सा निरून्ध्यात् ।
तथा च घटायोन्मीलितं चक्षुः पटं न दर्शयेत् ।
तस्माद् बुभुत्सापीन्द्रियान्तरादाकृष्य बुभुत्सितार्थग्राहिणीन्द्रिये मनो निवेशयन्ती युगपत् ज्ञानानुत्पत्तावुपयुज्यते, न तु स्वरूपत इति युक्तमुत्पश्यामः ।
तस्मात् सुष्ठूक्तम्---अव्यापीति ।
गन्धादिक्रियान्यत्वे सतीति वार्त्तिकं यथाश्रुतं द्रव्यकर्मादिज्ञानेनानैकान्तिकमतो व्याचष्टे---चक्षुरादिभ्य इति ।
ननु स्मृत्यादिषु संस्कारादयः ।
सन्ति ।
ततो नैते करणान्तरकल्पनायां प्रभवन्तीत्यत आह---अत्र चेति ।
इन्द्रियजन्मानः शरीरसंयुक्तद्रव्यरूपकरणजन्मान इत्यर्थः ।
नन्विन्द्रियत्वेनैव मनो ऽपि जनकं स्मृत्यादीनां तथात्वे साक्षात्कारित्वप्रसड्गादिति ।
अथेत्यादिवार्त्तिके प्रतिभासमानव्यधिकरणतामुपादाय चोद्यम् ।
एकदेशिसमाधानं च ।
व्याप्तिर्व्यधिकरणयोरशक्यग्रहेति वस्तुगतिमुपादाय समाधानं स्फुटमित्याह---सौत्रमिति ॥16 ॥
॥ परिशुद्धिः ॥
प्रेत्यभावादुत्कर्षे सति प्रवृत्तेर्मनो ऽपकर्षे हेतुमाह---मनसो ऽपीति ॥
प्रवृत्तेः विकल्पसमुच्चयाम्यामव्यापकतया नेदं सामान्यलक्षणम् ।
न च तदन्तरेण विशेषलक्षणावकाश इत्याशड्क्य सूत्रवाक्यं भिनत्ति---आरम्भः प्रवृत्तिः ।
जन्महेतुः स्थिरात्मविशेषगुणजनकः प्रयत्न आरम्भः ।
न चैवं दयाद्यव्याप्तिः ।
तत्रापि तदर्थं प्रयत्नस्य विद्यमानत्वात् ।
यदि त्वयतमानस्यैवेच्छामात्रं ज्ञानमात्रं द्वेषमात्रं वा प्रवृत्तिः
स्यात्, प्रवर्तमानं प्रति प्रयोजकत्वममीषां निवर्तेत ।
ततश्चोत्तरसूत्रव्याघात इति ।
अत्र यद्यपि वागित्यादियथाश्रुतविशेषलक्षणावसरे दयाद्यसंग्रह इति वुद्धिपदं मनो ऽभिप्रायेण व्याख्यातं भाष्यकृता, तथापि विशिष्टदेवताद्यनुचिन्तनाद्यसंग्रह इत्यत आह---स च द्विविधेति ।
ज्ञातुं ज्ञापयितुं वा प्रयत्नः उभयथापि ज्ञानहेतुः, तेन वाग्गोचरो ऽपि प्रयत्नः संगृहीतः ।
कर्तुं कारयितुं वा प्रयत्नः उभयथापि क्रियाहेतुः ।
तेन स्तेयहिंसादौ अज्ञानादिगोचरो ऽपि प्रयत्नः संगृहीतः ।
एतेन यत् सिद्धं तदाह---तत्रेति ।
तदर्थं प्रयत्नो ज्ञानं जनयन् ज्ञापकहेतुविषयो भवतीति ज्ञापकैकदेशेन वाचोपलक्षयता स्वसमवेतज्ञानमात्रहेतुरित्यपि भ्रमो निरस्तः ।
कायनिमित्तेति कायो निमित्तं विषयतया यस्याः सा तथोक्ता ।
दानस्तेयाद्यर्थ यः खलु प्रयत्नः स कायविषयो भवति ।
एवं मनोनिमित्तं दयाद्रोहाद्यर्थं यः खलु प्रयत्नः, स मनोविषयो भवतीति नेयम् ।
अन्यथा नास्त्येवासौ पुरुषव्यापारो यत्र कायमनसी न निमित्तमिति ॥17 ॥
प्रवर्त्तनालक्षणा दोषाः ॥18 ॥
॥ परिशुद्धिः ॥
प्रेत्यभावादुत्कर्षे सति दोषाणां प्रवृत्त्यपकर्षे हेतुमाह---प्रयोज्येति ।
पुरुषं प्रवर्तयतः उत्करूपप्रयत्नयोगिनं कुरुत इत्यर्थः ।
आनन्तर्यादनयोरभिधानम् मोहो ऽपि प्रवर्तयतीति द्रष्टव्यम् ।
मोहैकार्थसमवायो मोहसंस्कारैकार्थसमववायः ।
मोहान्तरेण वा ।
एतदेवाह---तावद्धि अयमिति ।
तस्यार्थ इति ।
भाष्यस्य इति भाव इति चोदकस्य ।
अत्र च समवायो यद्यपि न व्यापारः तथापि मोहादेः प्रवर्तकस्य स्वाश्रयसमवेतरागद्वेषमोहजननावान्तरव्यापारस्य प्रवर्तकत्वमित्यदूरविप्रकर्षेण सम्बन्धसम्बन्धिनोरेतद् द्रष्टव्यम् ।
तेन फलगोचरौ मोहरागौ मोहद्वैषौ वा तत्साधनविषयौ मोहरागौ मोहद्वेषौ वा जनयन्तौ
पुरुषं प्रवर्तयतः ।
ततः फलविषया रागद्वेषमोहाः प्रवर्तकाः, साधनविषयास्तु तदेकार्थसमवायिनः प्रवर्तना इति वस्तुगतिः ।
व्यापारो ऽपि च कार्यानुगुण इति कृत्वा रागादयः प्रवर्तयन्ति प्रवृत्तिहेतुत्वाद् दोषा इत्युच्यतन्ते ॥18 ॥
पुनरूत्पत्तिः प्रेत्यभावः ॥19 ॥
॥ परिशुद्धिः ॥
शरीरादीनां दोषपर्यन्तानां परित्यागपूर्वकः प्राप्तिलक्षणो धर्मः प्रेत्यभाव इति तदनन्तरमेवास्यावसर इत्याह---उद्देशक्रमेति ॥
ननु पूर्वशरीरादिपरित्यागादिति सूत्रे नास्त्येव ।
न चोत्पत्तिमात्रं प्रेत्यभावः, एकस्मिन्नपि जन्मनि तथाव्यवहारप्रसड्गात् ।
न च पुनःशब्दस्यायमर्थः, तस्याभ्यासमात्रार्थत्वात् ।
अत उक्तं वार्त्तिककृता पुनरिति ।
तद् व्याचष्टे---पुनरित्यभ्यासमाहेति ।
अभ्यासं वदन्नेव नान्तरीयकतया पूर्वशरीरदिपरित्यागं प्रतिपादयतीत्यर्थः ।
तथापि किं वक्रोक्तेः प्रयोजनमित्यत आह---तथा चेति ।
ननु द्वितीयसूत्रे दुःखादीनां कार्यकारणभाव संसार इत्युक्तम्, इह तु पुनरूत्पत्तिरिति, तत् कुतो न विरोध इत्याशयवतो वार्त्तिककृत आक्षेपः, कः पुनरिति ।
दुःखान्दीनां कार्यकारणभावे सति पूर्वदेहादिपरित्यागादन्यदेहादिप्राप्तिलक्षणः प्रेत्यभावः ।
ततस्तेषां तथाभूतप्रवाहविच्छेदे प्रेत्यभावापरनामा संसारो विच्छिद्येत इति तुल्यप्रवृत्तिनिमित्तत्वात् स एव तत्र संसार उक्तैत्ययो न विरोध इत्याशयवतः परिहारो दुःखादीनामिति ।
तदेतत्स्मरणमात्रेण, व्याचष्टै, तदेतद्वार्त्तिकजातमिति ।
सेयमुक्तरूपा पुनरूत्पत्तिर्यद्यचेतनस्य मनसः संसारः किमिति निवर्तनीयः? अथात्मनस्तदाशक्यनिवृत्तिः, मुक्तस्यापि संसारिदेहादिपरित्यागात् तदीयापरदेहादिप्राप्तिसंभवादित्याशयवता वार्त्तिककृता शड्कितम्---सो ऽयमिति ।
नेयं भोगेनविशेषिता पुनरूत्पत्तिः संसार इत्याशयवता परिहृतम्---यदीति ।
तत्रास्फुटं पदं स्फुटयति---क्रियामिति ॥19 ॥
प्रवृत्तिदोषजनितोर्ऽथः फलम् ॥20 ॥
॥ परिशुद्धिः ॥
शड्कामपनयन्नेव सङ्गति करोति---यद्यपीति ।
सामान्येन ज्ञाता हि विशिष्टतया ज्ञातुं शक्यन्ते ।
ततः सामान्यरूपेण लक्षितानां विशिष्टलक्षणावसरः ।
उभयोश्चाकारयोर्निर्वेदोपयोगादुभयोपादानमित्यर्थः ॥
अत्र च सूत्रे पदद्वयमतिरिक्तम् ।
तत्र प्रथमोपयोगमाह---अत्र चेति ।
यद्यपि स्वरूपतो ऽपि प्रवृत्तेः कार्यभूतौ धर्माधर्मौ प्रति दोषाणामतिशयेनोपयोगो, वक्ष्यति च, दोषतुषावनद्धा हि कर्मतण्डुला इत्यादि, तथापि प्रवृत्तिफले दोषाणामुपयोगो दर्शनीयः सूत्रे प्रकृतत्वात् ।
न च धर्माधर्मयोः फलव्यवहारः ।
ततो व्यापारद्वारमुपादायोपयोगमाह---अपि त्विति ।
तदेव द्वारं स्फोरयति---दोषसलिलेति ।
अतो धर्माधर्मश्रुत्या न लक्षणाभ्रमः कर्तव्यः ।
स्वरूपतस्तु प्रवृत्ति प्रति दोषाणां सहकारित्वं सूत्रकार एव चतुर्थे वक्ष्यतीति ।
तत् किं निर्देषस्य सुखदुःखे न स्त इत्युपात्तकर्मप्रचयस्य तादवस्थ्यमदत्तफलस्यैव वा विनाश इत्यत आह---न चास्तीति ।
न ब्रूमो निर्देषस्य उपभोग एव नास्ति ।
अपि तु यादृशः संसारहेतुस्तादृशो नास्ति ।
दोषान्तरजनको हि तादृश इत्यर्थः ।
अर्थपदस्योपयोमाह---सूत्र इति ॥20 ॥
॥ परिशुद्धिः ॥
मुख्यं दुःखमधिकृत्य सङ्गतिरुक्ता ।
गौणाभिप्रायेणाह---नानुक्त इति ॥
ननु लक्षणशब्दो यदि स्वरूपवचनः स्यात्, गौणदुःखाव्याप्तिः स्यात् आवृत्तौ वाक्यभेदः ।
तत एकवाक्यत्वं रोचयन्नयमाह---अत्र चेति ।
एवं चासिद्धिः ।
तां परिहरति---सैव हीति ।
मुख्या स्वरूपतो, गौणी विधेयदुःखोपाधिनिबन्धना ।
न चैवमितरेतराश्रयप्रसङ्गः ।
दुःखतया तद्विषयत्वं तथात्वे च दुःखत्वमिति लोकसुप्रसिद्धेन बाधनाबुद्धिविषयत्वेन हेयतायाः प्रसाधनात् ।
यो हि दुःखं तद्धेतुं वा शरीरादि तदनुषक्तं वा सुखं जानानो ऽपि सुखतृष्णापरिप्लुतमतिर्न हातुमिच्छति, तं प्रत्युच्यते शरीरादिदुःखान्तं दुःखं हेयमित्यर्थः, बाधनालक्षणत्वात्, यत्तु न हेयं न तदेवम्, यथात्मस्वरूपापवर्गाविति ।
वशी जिताविद्यः ।
यद्यपि रागाभावो वैराग्यं तथापि सुषुप्त्यादौ तस्य भावे मोक्षानुपयुक्ततया आत्यन्तिको विवक्षितः ।
स च
कारणयोग्यतानिवृत्त्या सिध्यति ।
ततः सैव दर्शिता ।
उपनतेष्वपि विषयेष्वौदासीन्यं किं तदुपेक्षाबुद्धिः प्रबलतत्त्वसाक्षात्कारसमुन्मूलितनिरवशेषमविद्यासंस्कारे हेयोपादेयपक्षव्यवच्छेदवती बुद्धिरित्यर्थः ।
शरीरादिषु उक्तः उक्तरूप एव ग्राह्य इत्यर्थः ।
नन्वभावफलत्वं धर्मस्य दुःखाभावसुखवादिनो नानिष्टम् ।
नापीदमदृष्टमित्यत
आह---यद्यपीति ।
यथा च कालोत्कर्षः सुखस्यागमिकः, तथा स्वरूपोत्कर्षो ऽप्यानुभविक आगमिकश्चेति द्रष्टव्यम् ।
न चान्धकारवत् प्रतियोग्युत्कर्षादुत्कर्षोपपत्तिरिति वाच्यम् ।
धर्मफलं हि दुःखाभावो भवन् प्रध्वंसो वक्तव्यः, प्रागभावादेरसाध्यत्वात् ।
तस्य च कालेनानवच्छेद एव ।
न च तज्जातीयावधिसद्भावनियमो ऽन्धकारवदेव ।
न हि ब्रह्मलोकोपभोगानन्तरमेवावश्यं दुःखेन भवितव्यमित्यस्ति नियामकम् ।
यथा च विशिष्टशालिसूपादिना कुल्माषपिण्डिकया चोदरपूरणे कृते दुःखनिवृत्तिस्तुल्या, तथेन्द्रब्राह्मपदयोरपीति न कश्चित् स्वरूपतो विशेषः स्यात्, अपि च स्वर्गार्थी यागादिकं कृत्वा कदाचिल्लब्धवृत्तेरधर्मान्नरकदुःखमनुभूय स्वर्गमनुभवति ।
कदाचित् तु मनुष्यदेहपातानन्तरमेव इत्यनियमः ।
सो ऽयं न स्यात्, दुःखप्रध्वंसफलत्वाद् धर्मस्य ।
न चानुत्पन्नस्य प्रध्वंसः तस्माद् धर्मं चरित्वा अवश्यमकामयमानो ऽपि प्रथमतस्तावन्नरकादिदुःखमनुभवेत् ।
ततस्तदभावमिति कृतं धर्मेण,
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ।
इति न्यायात् ॥21 ॥
॥ परिशुद्धिः ॥
शरीरादिषु प्रतियोगिषु लक्षितेषु तन्निवृत्तिरूपस्यापवर्गस्य लक्षणावसर इत्याह---क्रमेति ॥
यद्यपि मनो न जायते, तथापि कर्मोपग्रहमन्तरेण तस्याकिञ्चित्करत्वात् स एव तस्य जन्मेति जायमानाः सर्व इत्युक्तम् ।
अत्र च प्रतियोगिनां शरीरादीनामाध्यात्मिकत्वात् तत्प्रध्वंसो ऽप्याध्यात्मिक एव ।
तद्विशिष्टस्य जीवन्मुक्त्युत्तरकाले दुःखस्यात्यनताभावो मोक्ष इति नाकाशादिगतेन दुःखस्यात्यन्ताभावेन व्यभिचारः ।
परिणामो हि पूर्वधर्मिनिवृत्तौ धर्म्यन्तरोत्पादो वा स्यात्, वैनाशिकानामिव ।
पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पादो वा स्यात् सांख्यानामिव ।
तदेतत् तक्षद्वयं विकल्पयति---सर्वात्मना वेति ।
पूर्वस्मिन्निति ।
आस्तां तावत्कौटस्थ्यं परिणामिनित्यतापि न स्यादित्यर्थः ।
एकदेशेति ।
यदि धर्मधर्मिणोरेकान्तेनाभेदो यदि वा भेदाभेदः, उभयथापि न कूटस्थानित्यता ।
एकान्तभेदेन तु कथम्
ब्रह्मैवेदं सर्वमिति
श्रुतिवचनमाद्रियत इत्यर्थः ।
सावयवत्वादिति सांशत्वात् ।
स्वात्मीभूतोपजनापायधर्मवत्त्वादिति यावत् ।
घटादिवदिति ।
यथा घटादयो ब्रह्मधर्मा अनित्याः, तथा तदभिन्नस्वभावं ब्रह्माप्यनित्यं स्यादित्यर्थः ।
न च वाच्यं परिणामिनित्यमेव ब्रह्मासतु ।
अनेकान्तवादस्य निराकृतत्वात् ।
सत्कार्यवादस्य निराकरिष्यमाणत्वात् ।
न चैकान्तभिन्न एवायं ब्रह्मधर्मप्रपञ्चो ऽस्तु इति वाच्यम्, व्यक्ताद् व्यक्तस्य निष्पत्तिः प्रत्यक्षप्रमाण्यादित्युपादानादिचिन्तायाः करिष्यमाणत्वात्, परमाणूनां नित्यताव्यवस्थापनाच्च ।
तत्कार्यतामात्रत्वे तु सिद्धसाधनादिति ।
नित्यमित्यादि भाष्यं न यथाश्रुतं परमतोत्थापनमित्यत आह---अस्यार्थ इति ।
इत्यर्थ इति ।
परेषामभिमत इति ।
आत्मा नित्यसुखवान् कारणान्तराणि परित्यज्याश्रीयते तत्तज्जातीयनित्यगुणवत्, यथा वर्णात्केन शदेनाश्रीयमाणमाकाशं नित्यशब्दवदिति मीमांसानये ।
सत्कार्यनये तु, आत्मा नित्यसुखवान् ।
तेनाश्रीयमाणत्वात् ।
यद्येनाश्रीयते तत्तेन नित्येन तद्वत्, यथा पटेन तन्तव इत्युत्थाप्य दूषयतीत्याह---अत्र चेति ।
अनैकान्तिकतां द्रढयितुमतिप्रसड्गो ऽवतारितः ।
ननु सुखतत्संवेदनेन ब्रह्मयणो भिन्नो ब्रह्म चानुदितानस्तमितरूपं शुद्धबुद्धस्वभावं स्वत एव सिद्धम् ।
कस्तत्र प्रमाणप्रश्नावकाशः? सर्वेषामेव प्रमाणानामनुभव एव सीमा ।
कुतश्चाभिव्यक्त्यादिचिन्ता? मुक्तसंसारावस्थयोरविशेषश्च प्रसञ्जितो ऽपि नानिष्ट इत्यत आह---अयमभिसन्धिरिति ।
विषयसुखसंवेदने एवात्मा तदतिरिक्तो वा? आद्यं दूषयति---सुखमिति ।
उक्तोपपत्ति स्मारयित्वा अपरामाह---न हीति ।
ननु सुखसंवेदनयोरूदयव्ययौ न तात्त्विकौ ।
न च कल्पितो विरूद्धधर्माध्यासो भेदहेतुः स्फटिकस्यापि जवातापिच्छादिसन्निधानापादितारूणिमनीलिमादिना भेदप्रसड्गादित्याशड्क्य परिहरति---न चात्मैवेति ।
न ह्यस्ति संभवः स्फटिकः स्वरूपेण पूर्वापरकालैकतया स्फुरन्नेव नीलीदिव्यावृत्तात्मा नीलाद्यात्मनारोप्यत इति भावः ॥
स्यादेतत्, स्वसंवेदनमात्मस्वभावमप्यनाद्यविद्यावशादनात्मतया स्फुरत् तत्तद्विषयोपरागेण भिन्नमिव स्फुरत्यात्मन्येकतया प्रतिसन्धीयमाने ऽपि यथा गगनसवितुरेकत्वेनानुभूयमानस्यापि प्रतिबिम्बमम्बुनि तरड्गभेदादित्यत
आह---न चैतदसतीति ।
अयमर्थः, न तावत् स एव तस्मिन्नेव तदानीमेव भ्रान्तो ऽभ्रान्तश्चेति संभवति ।
तस्मादविद्याया दुर्घटत्वं नामालड्कार एवेति पादप्रसारिकया प्रत्यवस्थेयम् ।
सेयं भेदज्ञाने बाधकमालम्ब्य स्यात् ।
तच्च नास्तीति वक्ष्यामः ।
प्रतिबिम्बे तु सुव्यक्त एव भ्रम इति ।
द्वितीयं दूषयति---न चागन्तुकेति ।
नन्वात्मनि नित्यं चैतन्यमिति क एवमाह? कि त्वात्मैव नित्यचैतन्यस्वभाव इत्यत आह---न चात्मैवेति ।
न च सुखेनाहमस्वाप्समित्यस्त्येव स्मरणमिति वाच्यम् ।
घटमहं जानामीति तदज्ञासिषमितिवत् सुखेनाहं स्वपिमीति तदज्ञासिषमित्येवमपि स्मरणप्रसड्गात्, तर्हि किमिदं सुखमहमस्वाप्समिति दुःखाभावानुमानमात्रं सुप्तो ऽहं न किञ्चिदज्ञासिषमिति ज्ञानाभावानुमानवत् ।
अथ केन लिड्गेन स्मरणार्हासमरणेन ।
को धर्मी? आत्मा अनुभूयमानः स्मर्यमाणो वा प्रत्यभिज्ञायमानः ।
तथापि सुषुप्तावस्था या
नानुभूता अत एव न स्मृता, कथमिव तच्छब्देन परामृश्यत इति चेत्---न, पूर्वापरावस्थयोरेकत्वप्रत्यभिज्ञानेन मध्यावस्थाया अपि सामान्येनोपनयनात् ।
यथा प्रागुपलब्धः पश्चादुपलभ्यमानो घटो मध्यावस्थायां नायं ज्ञात इति ज्ञानाभावविशिष्टो ऽनुमीयत इति न किञ्चिदनुपपन्नम्, स्तामात्मनो ज्ञानसुखे भिन्ने न तु मिथस्तथा च सुखात्मकं ज्ञानमात्मनि ज्ञानान्तरेण यदि नानुभूयत ।
एवमेतत्, स्वयमपि न प्रकाशत इति त्वसिद्धमित्यत आह---सुखं चेति ।
तदेवमात्मनि सुखं नित्यं भिन्नं भिन्ननैव ज्ञानेन प्रकाश्यमानमास्थेयम् तत्र भाष्यवार्तिके इत्याह---तदेवमिति ।
ननु वैषयिकसुखज्ञाने कर्तव्ये सुखातिरिक्तं किमात्ममनःसंयोगो ऽपेक्षते, येन तत्रापि विषयमात्रापेक्षायां मनसैव रूपाद्युपलब्धिप्रसड्गो न स्यात्, अथ बहिर्मनःसापेक्षं नन्वन्तरिति परिहारः, स इहापीति ।
अतो वार्त्तिकं स्फोरयति---संसारावस्थायामिति ॥
आपादितप्रयासवैयर्थ्यपरिहारं परस्य वार्त्तिककृतो हृदिस्थं स्फुटीकरोति सिद्धान्तवार्त्तिकं संगमयितुम्---ननु त्वन्मत इति ।
यथा हि शास्त्रेण प्रवर्तमानः प्रवर्तयित्वयः, तथा स एव शक्यसाधने ।
न च नित्यं शक्यम् ।
तद्धि न निर्वर्त्यं नित्यत्वात् ।
नापि विकार्यमपरिणामित्वात् ।
नापि प्राप्यम् ।
न हि तस्य संबन्धलक्षणा प्राप्तिरप्रतिसंक्रमत्वात् नापि तादात्म्यलक्षणा, तस्याः प्रागेव सिद्ध्यसिद्ध्योरूभयथापि अशक्यत्वात् ।
नापि ज्ञानलक्षणा, नित्यानित्यविकल्पेन तस्या अप्यपासितत्वात् ।
नापि विषयत्वलक्षणा, अनतिरेकात् ।
तथात्वे चोत्पन्नतया विनाशे पुनरसंबन्धात् ।
षट्पदार्थातिरेकस्यासिद्धेः ।
भावत्वे ऽवश्यं तदन्तर्भावात् ।
अभावत्वे प्रतियोग्यनुपपत्तेः ।
नापि संस्कार्यं तत्, अनाधेयत्वातिशयत्वादिति ॥
तस्मात् नित्यं सुखमशक्यत्वात् न प्रयोजनम् ।
प्रयोजनं तु दुःखाभावः, तस्य निर्वर्त्यत्वादिति वस्तुगतिः ।
अत्राहुः---ननु ससाधनं दुःखमपि न पारमार्थिकमस्ति ।
ततः कस्याभावः शक्यः ।
यथाविद्योपदर्शनं तु प्रवृत्तिः सुखे ऽपि समानेति, तत्राह---धर्माधर्माविति ।
तदिदं पूर्वोक्तं हृदि निधायोक्तम्---शक्यौ भोगेन क्षेतुमिति ।
न केवलमियं नित्यसुखदृष्टिर्मोक्षानुपयोगिनी, प्रत्युत विरोधिनीत्याह---अन्यथा त्विति ।
तस्मान्मनागप्यस्या अवकाशो न दातव्यः परैः, अपित्वविद्यानिवृत्तिमात्रे प्रयतितव्यं शक्यत्वात्, अविरूद्धत्वाच्चेत्यर्थः ।
तस्मादुपपन्नानवद्यवादिनः परमेश्वरस्योपदेशो नाशक्यप्रयोजनो न विपरीतप्रयोजनो न विपरीतप्रयोजनो वा भवितुमर्हतीति भाक्तत्वमेवानन्दश्रुतीनां न्याय्यमित्याह---तस्मादिति ।
नित्यं सुखं भवत्यस्ति ।
यद्यपि किञ्चिन्नारभते नोपादत्ते तथापि निमित्ततया किञ्चित्कुर्वन् सन् भविष्यतीति चेत्? नैवम्, टीकार्थानवबोधात् ।
निमित्तता हि उपादानतयाव्याप्ता ।
अन्यथा रूपादेरप्यनुपादानस्यापि किञ्चित्प्रतिनिमित्ततामुपगम्य निवृत्तौ सर्वसन्ताननिवृत्तिप्रसड्गात् ।
एवमस्त्विति चेत्? अत्र टीकयोत्तरं, तदेवमस्मदभिप्रेतापवर्गलक्षणे संप्रतिपन्नावपि लाभहान्योरधिकवादिनौ निरस्तौ, संख्यादयस्तु नैवमिति नोत्थापिताः ।
ते हि प्रकारे परं विवदन्ते ।
स च तत्र तत्र चिन्तनीयः ॥22 ॥
॥ इति प्रमयलक्षणप्रकरणम् ॥
॥ न्यायपूर्वाड्गलक्षणप्रकरणम् ॥
॥ परिशुद्धिः ॥
सर्वेषां प्रमाणाधीनत्वात् प्रमेयस्य तु बुभुत्सिततमत्वात् ताभ्यां संशयादीनामपकर्षः ।
साङ्गेपाङ्गे च न्याये व्युत्पाद्ये पूर्वाङ्गतया प्रकरणान्तरेभ्यः संशयादिप्रकारणस्योत्कर्षः ।
तत्रापि सन्दिग्धे प्रयोजनादिचिन्ता ।
न च प्रयोजनमनुसन्धाय संशय इति संशयस्य प्राथम्यमेवंलक्षणक्रमे ऽपि न्यायः ।
उद्देश्यलक्षणयोरेकवाक्यत्वादित्यभिसन्धिना भाष्यम् इत्याह---संशयेति ।
अत एव द्वितीय पाठं व्याचष्टे---क्वचिदिति ॥
ननु संशयसामान्यलक्षणं चेदिदम्, विमर्शः संशय इत्येतावदेवास्तु ।
विशेषलक्षणानि चेत्?नाकृते सामान्यलक्षणे तेषामवसरः ।
विमर्शसंशयपदयोश्चान्यतरत् अनर्थकमित्यत आह---अत्र चेति ।
लक्षणं लक्षणवाक्यम् ।
विमर्श इत्यनेन च विषयतः स्वरूपतश्च सामान्यलक्षणद्वयं सूचितम् ।
तत्र प्रथममाह---एकस्मिन्निति ।
विरोधिचतुरर्थावमर्श इति तु परिसंख्यानमनर्थकम् ।
स्थाणुर्वा पुरुषो वेत्यत्र द्रव्यादेः अनन्तस्यावमर्शात् ।
प्राधान्येन चेत्? द्वयस्यैव ।
न ह्ययं निषेधः प्रधान इति ।
द्वितीयमाह---किंस्विदिति ।
किमित्युपक्रमे ।
स्विदिति पक्षान्तरे ।
तेन किमिदमवम् उतस्विदेवमित्यर्थः ।
अनुवर्तनीयमावर्तनीयमर्थानुरोधात् ।
संशयपदसन्निधश्च विमर्शपदं विवक्षितमर्थमाहेति तत्सहितमेवोक्तवानिति परस्परनिषेधवदुभयविधिप्रधान एकः ।
परस्परविधिमदुभयनिषेधप्रधानो ऽपरः ।
परस्परविरहरूपविधिनिषेधप्रधानो ऽन्य इति यथासंख्यं विशिष्टः संशयो लक्ष्य इत्याह---अत्र विशिष्ट इति ।
लक्ष्यपदं लक्ष्यपदार्थ इति ।
गुणगतं संशयो लक्ष्य इत्याह---अत्र विशिष्ट इति ।
लक्ष्यपदं लक्ष्यपदार्थ इति ।
गुणगतं सादृश्यमवान्तरसामान्यविशेष एव ।
यतस्तुल्यारोहपरिणाहाविमाविति प्रत्ययो भवति, तमेव व्यक्तिकारणमुखेन दर्शयति---संख्यापरिमाणेति ।
महत्त्वदीर्घत्वसामान्यधर्मयोग इति ।
महत्त्वदीर्घत्वसामान्यमात्रधर्मयोग इत्यर्थः ।
इह वार्तिककारेण समानधर्मोपपत्तेरित्यादौ सत्तामात्रेण संशयाहेतुतया उपलब्धेरश्रुत्या च पूर्वपक्षयित्वा समाधानत्रयमभिहितं तद्विवेचयति---यद्यपीति ।
प्रथमे ऽनुपपत्तिशब्दः सत्तावाचकः तत्परश्च ।
उपलब्धिस्तु विशेषापेक्ष इत्यनेनाक्षिप्यते ।
द्वितीये तूपपत्तिशब्दो ऽयमनेकार्थो ऽपीहोपलब्धिवाचक उपात्तः ।
तृतीये तु सत्तावचन एव लक्षणयोपलब्धिपर इति ।
तत्र विशेषापेक्ष इति पदं तदा सामान्यज्ञानमाक्षिपेत्, यदि विशेषज्ञानं निषेधेत् ।
न त्वेतदस्तीत्यत आह---विशेषेति ।
वाक्यसामर्थ्यादन्वययोग्यतासामर्थ्यात् ।
यद्यपि विशेषापेक्षशब्दः साक्षाद् विशेषोपलब्धि न निषेधति, तथापि लक्षणया तत्परः ।
सा च मुख्ये बाधकात्, विवक्षिते संबन्धात् अवाचकोपादाने प्रयोजनात्त् प्रवर्तते ।
तत्र मुख्ये बाधकमाह---न चेति ।
प्रयोजनानुयोगपरिहाराय लौकिकलक्षणात्वं सूचयन् दृष्टान्तपूर्वकं संबन्धमाह---यथेति ।
यथा हि गड्गातीरयोः संयोगमन्तर्भाव्याविनाभावस्तथा अगृह्यमाणस्मरणबुभुत्सयोरेकविषयतया संशयमन्तराकृत्वा पौर्वापर्यनियमेनाविनाभाव एव संबन्ध इत्यर्थः,सौकर्यविशेषात् ।
तत्प्रयोजनमप्यभिधातुं शक्यते ।
विशेषमपेक्षत इति हि विशेषापेक्षः संशय उक्तः ।
तथा च विशेषे जिज्ञासाजनक इत्युक्ते फलमस्य दर्शितं भवति ।
तदिदमुक्तम्---तस्याः संशये सति भावादिति ।
एतेन फलद्वारकमपि सामान्यलक्षणमनुगन्तव्यम् ।
द्वितीये तु विनिगमनायां प्रमाणाभावश्चोद्यम् ।
तदुत्थाप्य वार्त्तिकेणोत्तरयति---स्यादेतदिति ।
तृतीये प्रयोजनाभाश्चोद्यम्, तद् वार्त्तिकमुखेनैव परिहरति---न चेयमलौकिकी लक्षणेत्यादि येन प्रयोजनमनुरुध्येतेति शेषः ।
ननु कृतकत्वं परिच्छेदस्य हेतुः, न व्यवच्छेदस्येत्यत आह---अपि त्वनित्यत्वस्येति ।
ननु तथापि विवक्षिततज्जातीयवृत्तित्वे सत्यन्यवृत्तिरेव धर्मः समानशब्दवाच्य इति कुतो नियम इत्यत आह---समानो हीति ।
अत्रोत्तरपरस्य यावन्नावतारस्तावत् परिहारः ।
तस्मिस्त्ववतीर्णे प्रसक्तिरेव नास्ति ।
यदि हि समानो धर्मो व्यवच्छेदहेतुरिति कुतः साधकबाधकप्रमाणाभावः, तस्यैव तदभावरूपत्वात् ।
स चेत् कथमसौ व्यवच्छेदहेतुः? न चोपलब्ध्यादिपदं तदितरस्य साधकबाधकत्वं प्रतिक्षिपति ॥
ननु तस्येति विशेषलक्षणमस्तीति, तस्मात् तस्मिन्नसत्यपि न वक्तव्यस्यावकाश इति दर्शयितुमियं युक्तिरुक्तेति ।
पौनरुक्त्यं परिहरन्नाह---विमर्शपुर्वकमिति ।
पूर्वं हि करणाकरणयोर्गुणदोषौ न चिन्तितौ, इदानीं तौ चिन्त्येते इत्यपौनरुक्त्यम् ।
अत एव प्रागाह---योजयतीति ।
इदानीमाह---अवधारयतीति ।
यथा सप्तमे रस इति ।
तथा हि सप्तमो रसः संशयज्ञाने धर्मितया विषयः स्याद्, धर्मतया वा? न कदाचिल्लोक एवं सन्दिग्धे यदयं सप्तमो रसः स्थाणुर्वा पुरुषो वेति, द्रव्यं वा गुणो वेति ।
नाप्येवं सन्दिग्धे अयमुपलभ्यमानः पदार्थः सप्तमो वा रसो दशमं वा द्रव्यमिति? सप्तमो रसः किमस्ति नास्ति वेति सन्देहो भवत्येवेति चेत् न, अननुभूते स्मरणाभावात् ।
अस्मृतस्य च संशयाविषयत्वात् ।
नौदोलेति ।
सदृशदर्शने ऽप्यस्मरणं तु पट्वभ्यासादरप्रत्ययाभावात् ।
यथा हि तथाविधप्रत्ययजन्यः संस्कारः, तथा तदुद्बोध्यो ऽपीति ।
द्वे द्वित्वेनेति ।
समुदितयोरानन्तर्य विवक्षितमित्यर्थः ॥
अनेकधर्मपदं लक्षणया असाधारणं धर्ममाह---तत्रैकदेशिव्याख्यादूषणव्याजने मुख्ये बाधकमाह
वार्त्तिककृत् इत्यत आह---अनेकेति न सर्वत्र द्रव्यादौ संयोगजत्वमतो विशेषयति---कार्यद्रव्य इत्यादि ।
अतो मुख्ये
बाधकं दृष्टवा जघन्यां वृत्तिम् आलम्ब्य भाष्यकृता सूत्रं व्याख्यातमिति दर्शयन्निव वार्त्तिकम् अवतारयति---भाष्यकृद्व्याख्ययेति ।
पुनः पृच्छति ।
यदि लाक्षणिकमिदं पदं कः संबन्ध इत्याशयवानिति शेषः ।
अवध्यवधिमद्भावः संबन्धः इति संकलय्य वार्त्तिकार्थमाह---एतदुक्तं भवतीति धर्मपदसामानाधिकरण्येन विशेषशब्दस्य भावसाधनत्वं निवर्तयतीत्याह---एतदुक्तं भवतीति धर्मपदसामानाधिकरण्येन विशेषशब्दस्य भावसाधनत्वं निवर्तयतीत्याह---अध्याहृतेति ।
यद्येवमलग्नकं तर्हि भाष्यं तस्यानेकस्येत्यत आह---संबन्धसामान्येति ।
बीजान्तरं संबन्धान्तरम् ।
पूर्वं हि विभागजत्वादिना स्वाश्रय एव शब्दस्तद्विपरीतेभ्यो व्यावर्तत इत्युक्तम् ।
इदानीं तु स्वाश्रयाच्छब्दान्तर एवेति न निवर्त्यत इत्यभिसन्धिः ।
अतो निवर्त्यनिवर्तकभावः संबन्धो भवतीति बीजान्तरमिति ।
तस्यानेकस्य धर्मो निवर्तकतया यः स एवानेक इत्युच्यते इति व्याख्यातमित्यर्थः ॥
नन्वेवं सति किं लक्षणया यावता मुख्य एवानेकशब्दो ऽस्तु ।
तथा हि पूर्वम् अनेकस्य धर्मो ऽनेकधर्मः साक्षात् समवायादिवृत्त्या चेत् समानपदेनैव गतार्थ इति मत्वा दूषितः ।
निवर्तकतया त्वनेकस्य संभवत्येवेत्यत आह---न त्वत्रेति ।
कुतः? दर्शयिष्यतीति ।
यदि संबन्धिवचन एवानेकशब्दः स्यान्न धर्मशब्देन समानाधिकरणः स्यात् ।
तथा च बहुव्रीहेरलाभे धर्मी न लभ्येतेत्यर्थः ॥
एवं भाष्यानुगतं वार्त्तिकमुपसंहृत्य स्वतन्त्रं वार्त्तिकमुत्थाप्य लक्षणानुरोधेन तावद् व्याचष्टे---प्रकारेति ।
एकमेकजातीयम् ।
अनेक नैकजातीयं, भिन्नजातीयम् इत्यर्थः ।
तेन विशेषणविशेष्ययोर्विशिष्टबुद्धिहेतुत्वेनाभेदमुपचर्य विशैष्यवचनो ऽयम् अनेकशब्दो विशेषणे धर्मे प्रयुक्तः इत्याशयवानाह---भेदाभेदप्रत्ययहेतुरित्यर्थ इति ।
अत एवोपसंहारे वक्ष्यति---तत्प्रत्ययहेतुरुपचारेणानेक इति ।
तदितरेभ्य इति ।
द्रव्यगुणकर्मभ्यो न तु शब्देतरेभ्य एव, तद्व्यतिरेकस्य संशयं प्रत्यनुपयोगात् ।
इममेवार्थ वार्त्तिकेन संवदति---तदिदमाहेति ।
यद्यप्यसाधारणे धर्मे विवक्षिते एकप्रत्ययहेतुरिति मन्दप्रयोजनम्, तथा प्यसाधारणात् संशयो भवन् तज्जातीयतायामेव पर्यवस्यति ।
न तु तद्व्यक्तितायाम् तज्जातोया अपि हि विधर्माणो दृश्यन्ते ।
न तु त एवेत्येतत् सूचयितुमनेकव्यक्तिनिष्ठता दर्शिता ।
अत एकवचनं समर्थयति---जात्येति ॥
इदानीमुदाहरणानुरोधेन व्याचष्टे---सदादिरिति ।
अत्रेति व्याख्याने, अनुरूपम् उदाहरणमाहेत्यर्थः ।
उदाहरणपरतां स्फुटयितुमसाधारणावसरे साधारणमपि सदादि किमित्युपन्यस्तमिति शङ्कां निवारयति---द्रव्यत्वादिकोटीति ।
सत् सत्तावत् ।
अनित्यं प्रध्वंसयोति ।
द्रव्यवत् समवायिकारणतया द्रव्यमस्यास्ति ।
कार्यं प्रागभाववत् ।
कारणं निमित्तेतरतयापि सामान्याविशेषवत् अवान्तरसामान्यवदिति ।
यत्तदवोचाम, परस्परविधिमदुभयनिषेधप्रधानः संशयो लक्ष्यो द्वितीयलक्षण इति, तत् सिद्धान्तप्रसङ्गेन निषेधमुपक्रम्य विधिपर्यवसानेन दर्शयति---द्रव्यकर्मभ्यां व्यावर्तमानः किं गुण इत्यादि ॥
ननु चोद्यमेवैतदनुपपन्नम् ।
न हि विभागजे विभागे प्रमाणमस्ति ।
यौगपद्येनैव विभागसहस्रस्यापि समानदेशस्य जायमानत्वादित्यत आह---अयममिसन्धिरिति ।
यद्यपि वंशदलयोर्विभागानन्तरं संयोगनाशः, ततो द्रव्यनाशः, ततो द्रव्यनाशविशिष्टं कालं स्वतन्त्रं वा अवयवमपेक्ष्य दलयोर्वर्तमानो विभाग आकाशादिदेशाद् विभागं करोतीति वैशेषिकाः, तथाप्यप्रकृतत्वात् संयोगनाशद्रव्यनाशक्रमो नोपन्यस्तः ।
प्रकृतस्य हि कर्मणो विभागद्वयजनकत्वं क्रमेण वा स्याद्, यौगपद्येन वा ।
न तावदाद्यः, कर्मणो विभागारम्भे ऽनपेक्षया अविलम्बकारित्वनिश्चयात् ।
अपेक्षायां वा, आद्यमपि विभागम् अनन्तरमेव न कुर्यात् ।
उत्तरसंयोगे कर्तव्ये पूर्वसंयोगप्रध्वंसापेक्षेति विलम्बः ।
आगन्तुकभावमभिसन्धाय तु नैरपेक्ष्यमुक्तम् ।
न द्वितीयः, यदा आकाशादिदेशाद् विभागं करोति कर्म त तदावयवान्तरादिति स्थितिरिति वैशेषिकाः ।
तदेतद् यथाश्रुतमुभयमप्यनुपपन्नम् ।
आद्ये विभागे हि कर्तव्ये कर्मणो निरपेक्षत्वात् स एव कालः ।
द्वितीये तु कर्तव्ये प्रथमानन्तरकाल एव नैरपेक्ष्यम् ।
अतो न कालातिपात इत्येवमप्युपपत्तेः ।
यदेत्यादिस्थितिस्तु विकसत्कमलकुड्मलेष्वेव भग्नेप्यतो ऽस्यार्थमाह---अवयवक्रिया हीति ।
कार्यैकार्येति---प्रत्यासत्तिसूचनम् ॥
ननु भवत्वेवं तावदुक्तव्याप्तेरनवधारणम्, तथापि या क्रिया द्रव्यानारम्भकसंयोगप्रतिद्वन्द्विनं विभागमारभते, नासौ द्रव्यारम्भकसंयोगप्रतिद्वन्द्विनमपि ।
तथात्वे वा यतः कुतश्चित् कर्मणो युगपदुभयविभागोपपत्तौ चलत्येवावयवे सर्वद्रव्यनाशप्रसङ्गः, न चैवम् ।
तस्माद् यदनारम्भकसंयोगप्रतिद्वन्द्विजनकं तन्नारम्भकसंयोगप्रतिद्वन्द्विजनकं कर्मेति
सिद्धे विपर्ययो ऽपि सिद्ध इति तत्राह---क्रियावैलक्षरण्यात्विति ।
अयमर्थः ।
विभागस्य तावद्वैलक्षरण्यमवश्यमभ्युपेतव्यम्, अन्यथा नियमानुपपत्तेः ।
तदनुरोधात् कर्मणो ऽपि जातिकृतं सहकारिकृतं वा वैलक्षण्यमवश्यं स्वीकर्तव्यम् ।
तदेतस्य वैलक्षण्यम् आरम्भकानारम्भकसंयोगप्रतिद्वन्द्विविभागद्वयजनकतया एकत्र, अन्यत्र त्वनारम्भकसंयोगप्रतिद्वन्द्विविभागमात्रजनकतया पर्यवस्यति, आहोस्विदारम्भकसंयोगप्रतिद्वन्द्विविभागमात्रजनकतयैकत्र, अन्यत्र त्वनारम्भकसंयोगमात्रप्रतिद्वन्द्विविभागजनकतयेति न नियन्तुं शक्यते ।
अनारम्भकसंयोगप्रतिद्वन्द्विनमपि विभागं
करिष्यति, को विरोधः? यथानारम्भकोत्तरसंयोगजनकत्वे सत्येव कुतश्चित् विशेषादारम्भकोत्तरसंयोगजनकत्वमपि कर्मणः, अन्यथा तत्राप्यनयैव दिशा कारणमात्रसंयोगपूर्वकाः कारणाकारणसंयोगाः कल्पनीयाः स्युः ।
यथा च तत्र क्रमे प्रमाणं नास्ति तथेहापीति ।
यदेकान्तविभागमेकमवयवद्वयमात्रवर्तिनम्, अन्या तु विभागद्वयमवयवद्वयवर्तिनमवयवानवयववर्तिनं चेति ।
यथा चैतद्वैलक्ष्ण्यं तथा वरमेवमसतु यदेकानारम्भकसंयोगप्रतिद्वन्द्विनमन्या तु आरम्भकानारम्भकप्रतिद्वन्द्विनं जनयतीत्यर्थः ॥
तस्मात् कारणमात्रविभागपूर्वके कारणाकारणविभागे प्रमाणं नास्तीति नाभ्युपगम्यत इत्येतावन्मात्रव्यक्तीकरणफलो ऽयमनम्युपगम इत्याह---तस्मादिति ।
कारणाकारणविभागपूर्वकस्तु कार्याकार्यविभागः प्रामाणिक इत्यभ्युपगम्यत इत्याह---यस्त्विति ।
कार्यैकार्थसमवायस्तरुमधिकृत्य क्वचित् पाठः ।
कार्यकारणैकार्थसमवायः ।
सो ऽङ्गुलीमधिकृत्येति ।
स इति ।
असाधारणीभूतनिमित्तजातीयासमवायिकारणजन्य इति प्रतिज्ञार्थः आद्यशब्दत्वादिति हेत्वर्थः ।
यद्यपि विभागापेक्षविभागासमवायिकारणम् असाधारणं शब्दे तदेव वक्तुमुचितम्, तथापि कारणमात्रविभागजविभागमभ्युपेत्योक्तं वार्त्तिककृतेति तथैवाह---तदेवमिति, एतदपि व्यभिचार्य समर्थयति---तदपीति ।
यद्यप्येवमपि विभागजत्वादिति हेतुरदोष एव, न हि विभागाद् द्रव्यस्य जन्म संभवति,
कमणो वा ।
स हि द्रव्यानारम्भकसमवेतो ऽकारणमेव, आरम्भकसमवेतस्तु संयोगनाशद्वारा विनाशक एव, कर्मणो ऽपि कारणं विभागो भवन्न तावदाद्यस्य तस्मिन्नसति विभागस्यैवानुपपत्तेः ।
तदुत्तरस्यापि पूर्वकर्मनिवृत्तौ जन्म ।
यदा तु तन्निवृत्तिरुत्तरसंयोगात्, तदा विभागस्यापीति कथमुत्तरकर्मजन्म विभागात्? तस्मादसन्दिग्धव्याप्तिकं विभागजत्वं शब्दस्य गुणत्वे प्रमाणमेव ।
न च तदवान्तरविशेषमादायासाधारण्यं दोषः ।
तथा सति धूमो ऽप्यगमकः स्यात् ।
तथापि भाष्योक्तोदाहरणव्युत्पादनमात्रमिदमिति मन्तव्यम् ॥
ननु तुल्यजातीयेष्वित्यादिविवक्षितविपरीतापादिकेयं युक्तिरित्यत आह---यद्यपीति ।
पूर्वैव युक्तिरियं भाष्यकारगौरवादुक्तेत्यर्थः ।
पूर्वस्मारणेन प्रकारान्तरत्वं स्फुटयन् वार्त्तिकमवतारयति---पूर्वमिति ।
समानो हि धर्मः पक्षे वर्तमानः सपक्षविपक्षधर्माभ्यामेकजातीयः, तद्रूपप्रतिषेधश्चायमनेक इति ।
तथा च पक्षे वर्तमानस्य सपक्षविपक्षधर्माभ्यां विजातीयत्वमुक्तं भवति ।
यश्च पक्षगः सपक्षविपक्षधर्माभ्यां विजातीयो धर्मः, सो ऽसाधारण एवेति भवत्यभिधेयाविनाभूतत्वात् लक्षणाविषयः ।
तदिदमुक्तम्---लक्षणयैवेति ।
वार्त्तिकं योजयति---समानेति ।
समानशब्देन प्रतियोगितया बुद्धावसमाने ऽप्युस्थापिते संशयकारणत्वे च तस्य प्रमाणसिद्धे तस्मिन् वक्तव्ये यदनेकपदमुपादत्ते सूत्रकारस्तेन जानीमो नूनमयमेवार्थो ऽनया वचोभङ्ग्या अनेन दर्शित इति योजनार्थः ।
एतेन सर्वेषूक्तप्रकारेषु सूत्रकारस्य संप्रतिपत्तिर्दर्शिता भवति ॥
पृत्छतीत्यादिना लक्षणप्रकाराणां प्रयोजनं दर्शितमित्यनुगन्तव्यम् ।
प्रत्यभिज्ञानं तावद्व्यक्तिविषयकं नास्त्येव गकारादाविति द्वितीये व्युत्पादनीयम् ।
यदाप्यस्ति तदाप्यस्य विषयः किं व्यक्तिरुतजातिरिति विषयतः सन्दिह्यते ।
यदापि व्यक्तिरेवास्य विषयः, तदापि प्रमाणमप्रमाणं वेति सन्देह इत्यभिप्रायवान् संमुग्धमाह
सादृश्येनापि संभवति, स्वयं सन्दिग्धं सदिति ।
यद्यपि गवादिव्यक्तय इव गोत्वाद्युपधाना इति जातिमात्रपदार्थवादी न स्वीकरोत्येव, तथापि स्वसिद्धान्तदार्ढ्येन परो ऽप्येवमङ्गीकारयितव्यः ।
अन्यथाभिधेयस्याविनाभावप्रतीतिरेव कथं व्यक्तिभिः? तदभावे च कथं लक्षणापीति? कथं नेत्यादि ।
न च वाच्यं शब्दस्य तथाभावसन्देहे ऽपि घटादौ निश्चितत्वेन व्याप्तिग्रहो यदि स्यात् को दोष इति ।
सर्वोपसंहारेण हि व्याप्तिनिश्चये यत्कृतकं तदवश्यमनित्यमिति कृतकत्वं शब्दे निश्चयमेव कुर्यात् ।
सत्प्रतिपक्षतया शब्दे साध्यसिद्धिं न करोति ।
अप्रतिहततया तु बुद्ध्यादौ करोतीति चेत्---न, प्रतिपक्षसाधने व्याप्तिसद्दूषयति सत्यपि साध्यसिद्धेरविरोधात् ।
विरोधे ऽदुष्टादपि न साध्यसिद्धिरिति सर्वानुमानोच्छदप्रसङ्गः ।
इमं चार्थमनन्तरमेव वक्ष्यते ।
व्याप्तिदोषे तु सर्वोपसंहाराभावात् कथं तद्बलेन बुद्ध्यादौ साध्यसिद्धिरिति सन्दिग्धतत्त्वं शब्दं विहाय व्याप्तिरिति चेत्? एवं तर्हि शब्दादन्यत्वे सति कृतकत्वादिति वाच्यम् ।
तथा च यदि दैवात् शब्दो ऽप्यनित्य एव वस्तुतः, तदा असमर्थविशेषणत्वापत्तिरिति सन्दिग्धासमर्थविशेषणत्वमिति ।
तस्मात् सूष्ठूक्तं सन्दिग्धे नित्यानित्यभावे शब्दे कृतकत्वं गतमिति नानित्यत्वेन स्वभावतः प्रतिबद्धमिति ॥
प्रत्ययभेदभेदित्वं कारणतीव्रत्वादितारतम्येन तीव्रतीव्रतरादित्वं प्रत्येकं सत्प्रतिपक्षत्वम् इत्येकैकस्यान्वयतो व्यतिरेकतो वोभयकोट्यनुपनायकतया न संशयहेतुत्वम् ।
नापि निश्चयहेतुत्वमसत्प्रतिपक्षत्वरूपवैकल्यादित्यर्थः ।
मिलितयोस्त्वसाधारणत्वमिति ।
तथा च तेनैव रूपेण संशयकारणत्वं नान्यथेत्यर्थः ।
अनुनासिकत्वादयो हि सामान्यविशेषाः प्रत्यक्षा भवन्तः प्रत्यक्षव्यक्तिवृत्तय एव भवितुमर्हन्ति ।
न चान्येन्द्रियेण व्यक्तिरन्येन जातिरुपलब्धिगोचरः ।
तथा चानुनासिकत्वादिसामान्याश्रयभूताया एव व्यक्तेः श्रावणत्वे ऽप्यनित्यत्वमुभयवादिसिद्धम् ।
केवलं स व्यक्तिराकाशाश्रया वा, अन्याश्रया वेति विप्रतिपत्तिः ।
सेयमास्तां तावत् ॥
ननु तथापि नैयायिकानां मते शब्दाश्रया एवानुनासिकत्वादयो धर्मा, न च पक्षेणैत्र व्यभिचारः ।
न, अवर्णात्मकेनापि तद्धर्मशालिनानैकान्तिकतोपपत्तेः ।
तस्यापि पक्षत्वमिति चेत्---न, तद्दर्शने ऽनैकान्तिको ऽयमिति विरोधमुखेनाप्युद्भावनात्, वस्तुतः शब्दधर्मत्वे च कालात्ययापदेशदोषात् ।
अप्रयोजकाश्च रूपादयो नित्याश्चक्षुराद्येकैकेन्द्रियग्राह्यत्वात् रूपत्वादिवदित्यनेन समानयोगपेक्षमत्वादिति ॥
विप्रतिपत्तेरित्यादि ।
अस्य च लक्षीभूतस्य संशयस्य परस्परविरहरूपविधिनिषेधप्राधान्यात् ।
अस्त्यात्मा नास्त्यात्मेत्युदाहरणं तु भाष्यकृतैव दर्शितं स्फुटमिति न प्रपञ्चितं वार्तिकटीकाकाराभ्याम् ।
उदाहरणमात्रं चैतत् ।
न न्विदमेव आदरणीयम् ।
आत्मनो ऽनुपलब्धचरत्वे स्मृत्यनारूढस्य संशयानास्पदत्वात् ।
उपलब्धचरत्वे वा सर्वथापह्नवायोगात् ।
एतच्च तृतीये प्रपञ्चनीयमितीहोपेक्षितम्, शब्दो नित्य इत्येके ।
नेत्यपरे इत्यादि तूदाहारणीयम् ॥
कारणभेदेनेति ।
लक्षणभेदरूपेण त्रिविधम्, विधिप्रधानं निषेधप्रधानं निषेधविधिप्रधानमिति ।
न चानभ्यासदशापन्न इति ।
अनभ्यासदशापन्नोपलब्धौ हि प्रमाणोत्तरभावानिश्चये बुद्धित्वसामान्योपलब्धेः सत्यत्वासत्यत्वसंदेह इति यद्यभिमतम्, प्रथमपदेनैव गतमेतत् ।
ततस्तद्द्वारकेर्ऽथे संदेह इह विवक्षित इति यदि, सो ऽपि स्वरूपतो देशकालतः प्रकारतो वति? आद्यस्तावद्विरोधादेवासंगतः ।
न हीदमिदं न वेति संभवति ।
निद्राद्युपप्लवाभावनिश्चयेन तदेककारणकोटिव्युदासात् द्वितीयो ऽपि निरस्तः ।
उपप्लवसंदेहे त्वाध्यात्मिक एव संशयः ।
तृतीये त्वाह---न नागो वा नगो वेति ।
एवमयोग्येति ।
एतावांस्तु विशेषो यत् स्थाणुर्वा पुरुषो वेत्यत्रोपलब्ध्यनुपलब्धी अनुत्पादादेवाव्यवस्थिते ।
प्रकृते तूदाहरणे जातमेव जलज्ञानमप्रामाण्यशङ्कया न व्यवस्थितमिति ॥
एवमयोग्येति ।
यदि विशेषस्मृतिसहिताया अयोग्यानुपलब्धेः धर्मिणमनन्तर्भाव्य संशयः स्यात् स तावन्नात्यन्तानुपलब्धकोट्युल्लेखी, तत्र स्मृतेरभावात् ।
नाप्युपलब्धकोट्युल्लेखी ।
न हि भवति परमाणुरस्ति नवेति अस्त्येव यतः ।
इहेति चेत्? तर्हि देशकालादिविशेषं धर्मिणमुपादायोपपद्यते ।
तथा च स उपलब्धः सन्नन्वयतो व्यतिरेकतो विप्रतिपत्तितो वा विशेषौ स्मारयेत्, न स्वरूपत इति पूर्वानुप्रवेश इत्यर्थः ॥
तदिदमुक्तम्---न संशयो विना समानधर्मादिदर्शनमिति ।
सामग्रीभेदेन भेदे त्रैविध्यं विषयकृतमिति ।
अपि
त्वनेकविधः, प्रत्येकं कारणानां विषयव्यवस्थां प्रत्यहेतुत्वादित्यर्थः ॥23 ॥
॥ परिशुद्धिः ॥
पूर्वाङ्गत्वाविशेषे ऽपि संशये सति प्रयोजनानुसंधानात् ततः प्रयोजनस्यापकर्ष इत्युक्तमृ ।
प्रयोजनमनुसंवाय
च तत्साधनीभूतन्यायमनुसन्धित्सतो दृष्टान्तानुसरणमिति दृष्टान्तादस्योत्कर्ष उद्देशे ।
सैव संगतिरिहापीति आह---उद्देशेति ॥
अर्थशब्दस्य लक्षणे ऽकिञ्चित्करत्वादाधिक्यं मन्वानस्तात्पर्यमाह---अत्रेति ।
अर्थपदं भाष्यकारेण अनूद्यापि न विवृतमित्यत आह---ससाधनाविति ।
नन्वेवं सत्युत्तरभाष्यविरोधः, तदाप्तिहानोपायमनुतिष्ठतीत्यत्र तच्छब्देनार्थस्य परामर्शात् ।
सुखदुःखाप्तिहानोपायमिति च प्रकृतसंगतेरित्यत आह---न चेति ।
अत्र च टीकायां यद्यपि तथापीति तदचतुष्टयमध्याहरन्ति ।
लोक्यत इत्यादि ।
तथा च प्रामाणिकत्वादेव प्रयोजनं न वक्तव्यमिति वाक्यार्थः ।
नन्वेवं सति प्रमाणमपि न व्युत्पाद्यम् ।
तच्च त्वया व्युत्पादितमित्यत आह---न च प्रमाणमीदृशमिति ।
यथा चेति ।
तथा च प्रमाणोपपन्नं न वाच्यमिति वदतः स्वचरिताविरोध इत्यर्थः ॥
कथमसय प्रयुक्तौ साधनत्वं सतो ऽसतो वा? असतो ऽपि स्वज्ञानद्वारा व्यापारान्तरेण वा? क्व च प्रयोजयति, स्वात्मन्येव वा स्वसाधने वा? कथं च व्यापकं स्वरूपेण, कर्मविद्याद्वारा वेति परीक्षासाध्यमित्यर्थः ।
न ब्रूमः प्रयोजनं न्यायस्य अङ्गमुपकारकम्, किं तु प्रयोजनवान् न्यायस्तद्गताचिन्ताङ्गीकरोतीति ।
यावद् वाक्यं न समाप्यते तावदेव ।
ननु चिन्तापि नाङ्गम् ।
न हि न्यायान्निर्णयश्चानिर्णयश्च ।
न च निर्णयादन्यत् प्रयोजनं न्यायस्य ।
तस्मात् किमनेन चिन्तितेनेति शङ्कामपनेतुमाह---मुख्यमित्यादि ।
गौणं प्रयोजनं मुख्यस्यैव प्रयोजनस्य कृते उपादीयते ।
मुख्यमपि यद्यन्योपकारार्थमुपादीयेत,
मुख्यतामेव जह्यात् ।
एतदेव हि मुख्यस्य मुख्यत्वम्, यदनन्यार्थतया पुरुषापेक्षितत्वम् ।
न च निर्णय एवमित्यर्थः ।
वाक्यशेषमाह---प्रयोजनवांस्त्विति ।
मुख्यप्रयोजनवानेव न्यायो गौणप्रयोजननिर्णयकारणतयोपादेयो यतः, अतस्तद्गतां मुख्यप्रयोजनगतां चिन्तामभिसन्धानमङ्गीकरोति अङ्गतया अपेक्षते ।
एतदुक्तं भवति, यद्यपि न प्रयोजनं न्यायस्याङ्गं साध्यत्वात्, तथापि तदभिसन्धानमङ्गम् तदन्तरेण न्यायस्याप्रवृत्तेः ।
निष्फलस्यापि च स्वयं फलवन्यायप्रवर्तकतया तत्सन्निधेः ।
यथा स्वर्गस्य यागानङ्गस्यापि अभिसन्धानं स्वयमफलमपि यागप्रवृत्तिं प्रति कारणतया संनिधीयमानमङ्गमिति ।
एतदेवोपसंहारव्याजेनाह---तस्मादिति ।
अन्ये तु, किं तु मुख्यमित्यवच्छिद्य व्याचक्षते, प्रधानमुद्देश्यमिति यावदिति ।
तदाप्येवमेवोत्तरत्र नेयमिति ।
अक्षरार्थस्तु वार्त्तिकस्य य खलु निष्प्रयोजना चिन्ता प्रयोजनाभिसन्धानशून्यः संशयो नासौ न्यायस्य प्रवर्तक इति स्फुटत्वान्नोक्तः ॥14 ॥
लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाभ्यं स दृष्टान्तः ॥15 ॥
॥ परिशुद्धिः ॥
संशये प्रयोजने च सति क्व पुनरेतत् साध्यसम्बद्धं साधनमुपलभेय, यदुपादायैतत्साधयेयमिति जिज्ञासाक्रमानुरोधेन प्रयोजनानन्तरं दृष्टान्तस्योद्देशः ।
सैव चात्रापि संगतिरित्याह---क्रमेति ॥
न च सामान्यलक्षणमन्तरेण विशेषलक्षणावतार इति तत्सूचकं सूत्रं तथैव व्याचष्टे---साध्यसाधर्म्यादिति ।
अत्रान्वयव्यतिरेकवति प्रकारद्वये ऽपि साध्यसाधनयोरविनाभावसिद्धिरेव फलं प्रतीयते ।
तथा चाविनाभावविषयतया अर्य्यते यः, सोर्ऽथो दृष्टान्त इति सामान्यलक्षणलाभः ।
विशेषे तु टीका स्फुटैव ।
नन्वेवंरूपोर्ऽथ इति कुत एतदित्यत आह---उदाहरणेति ।
क्षीरनीरवदविवेचितानि सांव्यवहारिकाणि प्रमाणानि निसर्गः ।
तद्भावो नैसर्गिकः ।
खलितैलवद् विवेचितानि दुर्निरूपार्थगोचराणि प्रमाणानि विनयः ।
स एव वैनयिकः ।
तमाह---शास्त्रेति ।
सारूप्यव्युत्पत्त्यर्थ इति वार्त्तिके सारूप्यग्रहणमविनाभावमात्रोपलक्षणपरमित्यभिसंधायाह---दृष्टान्तस्य प्रयोजनमाहेति ।
न खल्विति ।
अपि तु वस्तुस्थित एव ज्ञाप्यत इति शेषः ।
तदेतच्छलेन सामान्यलक्षणमाविष्कृतम् ॥25 ॥
॥ इति न्यायपूर्वाङ्गलक्षणप्रकरणम् ॥
॥ न्यायाश्रयसिद्धान्तलक्षणप्रकरणम् ॥
॥ परिशुद्धिः ॥
एवं न्यायपूर्वाङ्गप्रकरणं समर्थ्य परिकलितसामर्थ्यं साधनं यत्रोपनेयं स सिद्धान्तापरनामा न्यायस्याश्रयो ऽवसरप्राप्तत्वादुच्यत इति ।
अथ सिद्धान्त इति भाष्यं स्फुटार्थम् ।
सूत्रमपठित्वा व्याख्यानं तु कुत इत्यत आह---अत्रेति ।
भाष्यकारस्य रीतिरियम्, स्वप्रतिभया स्वतन्त्रसूत्रविवरणं भाष्यमिति लक्षणादिति भावः ।
संस्थितिरित्थम्भावव्यवस्थेति भाष्यं दृष्ट्वा इदमिति सामान्याभ्युपगमे सिद्धान्तभ्रमः स्यात्, अतो व्याचष्टे, भाष्ये चेति ॥
अर्थाभ्युपगमो ऽभ्युपगतो वार्थः सिद्धान्तः, विशेषणविशेष्यभावं प्रति कामचारादिति च प्रथम सूत्र एवोक्तम्, अतो न ग्रन्थचतुष्टयस्यापि मिथो विरोधः ॥26 ॥
॥ परिशुद्धिः ॥
ननु यदि तन्त्रं प्रमाणमभिमतम्, कथं व्यतिरेकमाह---यो ऽथो न शास्त्रित इत्यत आह---अशास्त्रितो ऽप्रामाणिक इति ।
नन्वेवं बौद्धसिद्धान्ता न सिद्धान्ताः स्युरप्रामाणिकत्वात्, तथा य व्यतिक्रमे ऽपि तेषां नापसिद्धान्तो भवेदित्यत आह--आभिमानिकं चेति ।
एतच्चाग्रतो वार्त्तिककार एव तत्प्रत्ययादभ्युपगम इति वदन् स्फुटीकरिष्यतीति ॥27 ॥
॥ परिशुद्धिः ॥
ननु सदृशतन्त्रासिद्धो ऽष्यर्थः क्वचिदभ्युपगम्यमानः सिद्धान्तो यथा प्राभाकरे नियोगो वाक्यार्थः, न्याये उपमानं प्रमाणमित्यत आह---समानशब्द एकपर्यायः ।
यथा तरुवृक्षशब्दौ समानार्थाविति ।
तथाप्यनेकसम्बन्धापेक्षया एकमपि
समानशब्दवाच्यं भवतीत्यत आह---नैयायिकानां हीति ।
व्यतिरेकप्रधानं
चैतत् ।
एकत्र कुत्रचित् सिद्धो न सर्वत्रसिद्ध इत्यर्थः ।
एतावत्येव लक्षणे सिद्धे परतन्त्रासिद्धपदमिमर्थं स्फुटयितुम् ।
अन्यथा सर्वतन्त्रसिद्धो ऽपि समानतन्त्रसिद्ध एवेति भ्रमः स्यादिति ॥29 ॥
यत्सिद्धावन्यप्रकरणसिद्धिः सो ऽधिकरणसिद्धान्तः ॥30 ॥
॥ परिशुद्धिः ॥
मूल पाठ: Nyāyavārttikatātparyapariśuddhi 1 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0