न्यायवार्त्तिकतात्पर्यपरिशुद्धि · भाग 121140
प्रश्चान्निष्कृष्याभिधानं कृतम्, समयप्रतिपत्तेः फलस्य ।
तदाह---समाख्येति ।
तथापि किमायातं वार्त्तिकविरोधस्येत्यत
आह---एतदेवेति ।
प्रतिपद्यतामयमित्यादिशड्कोत्तरार्थ सूत्रोक्तं करोति---प्रसिद्धसाधर्म्यादित्यत्रेति ॥
अत्रोपमानस्य फले विप्रतिपद्यमानान् प्रति साशड्कं जरन्नैयायिकजयन्त प्रभृतीनां परिहारमाह--यद्यपीति ।
संज्ञाकर्म संज्ञाकरणम् ।
मानान्तरं शब्दो वा शब्दार्थो वा लिङ्गभूतः ।
तत्र लिङ्गपक्षे, उपलक्षितः प्रतिपादितः ।
शब्दादवगतेन गोसादृश्येन प्रतिपाद्यमानः पिण्ड समानासमानजातीयेभ्यो व्यवच्छिन्नः शक्यमवगनतुमिति संबन्धः ।
शब्दपक्षे, तु गोसादृश्येनोपलक्षितो विशिष्टः शब्दादवगम्यमानः पिण्डः समानासमानजातीयेभ्यो व्यवच्छिन्नः शक्यो ऽवगन्तुम्, गुणकर्मादिवत् सादृश्यस्यापि समानसमानजीतीयव्यवच्छेदकत्वादिति सुगमम् ।
गोसदृशो गवयशब्दवाच्य इति तावदस्तु ।
अथ गोसदृश एव क इत्याशड्कानिवर्तनासामर्थ्यमतेः परिप्लवः ।
एनमेवार्थं कश्चिदित्यादिना दर्शितवान् ।
तत्रेति ।
तर्हि विशिष्टैव प्रतिपत्तिर्वाक्यादस्तु इत्यत आह---न चेति ।
प्रत्यक्षमात्राद् भविष्यतीत्यत आह---न चेति ॥
एतेन वाक्यप्रत्यक्षसमाहारो ऽपि निरस्तः ।
स हि प्रमाणसमाहारो वा स्यात्, फलसमाहारो वा? आद्ये ऽपि प्रमाणत्वे सति समाहारः, समाहृतयोर्वा प्रामाण्यमिति? न तावत् प्रथमः, फलानेकत्वे सति समाहारानुपपत्तेः,
तस्यैकफलं प्रति परस्पराधिपत्यरूपत्वात् ।
नापि द्वितीयः, वाक्यप्रत्यक्षयोर्भिन्नकालत्वात् ।
वाक्यतदर्थयोः स्मृतिद्वारोपनीतावपि गवयपिण्डसंबद्धेनापीन्द्रियादिना तद्गतसादृश्यानुपनये समयपरिच्छेदासिद्धेः ।
फलसमाहारे तु तदन्तर्भावे ऽनुमानशब्दयोरपि प्रत्यक्षत्वप्रसङ्गः ।
तत् किं तत्फलस्य तत्प्रमाणबहिर्भाव एव, अन्तर्भावे वा कियती सीमा? तत्तदसाधारणेन्द्रियादिसाहित्यम् ।
अस्ति तर्हि सादृश्यादिज्ञानकाले ऽपि विस्तारितस्य चक्षुषो व्यापारः? न, तस्मिन् सति
तस्यानुपयोगात् ।
उपलब्धगोसादृश्यविशिष्टगवयपिण्डस्य वाक्यस्मृतिमतः कालान्तरे ऽप्यनुसन्धानबलात् समयपरिच्छेदोपपत्तिरिति ।
तदेतत् जरन्नैयायिकमतमास्कन्दति---नन्विति ।
पूर्वे हि यथा गौस्तथेत्येव वाक्यं गवयपदेनाप्रतीतसमयेनापि प्रयोगमात्रोपयोगिना सहितं संबन्धप्रतिपत्तिहेतुः, प्रतिसंबन्धिनस्तु शब्दाद् वोपलक्षणाद् वोपस्थापनमित्याहुः ।
आधुनिकास्तु प्रतिसंबन्ध्युपस्थितिः पूर्ववदेव, समयपरिच्छेदस्तु प्रयोगानुमानादित्याहुः ॥
अवाचकप्रयोगस्य वाक्यानङ्गतयेति तद्विरहिणश्च संबन्ध्युपलक्षणपर्यवसानादिति मन्यमाना एतदेव
प्रयोगमारोप्य दर्शयन्ति---यो हीति ।
एतेनैव परिप्लवो निरस्तः ।
यदि हि संबन्धो विदितः, कः परिप्लवार्थः? अथ न विदित इति तत्राकाड्क्षानुवृत्तेरेवमुच्यत इति चेत्--तदप्ययुक्तम् ।
न हि विशेषनिष्ठः समयः, तथा सत्यशक्यग्रहत्वात्, अपि तु किञ्चित् निमित्तीकृत्य देशकालादिविशेषविनाकृतव्यक्तिमात्रनिष्ठः ।
तदेव निमित्तं नावगतमिति चेत्? अवगतिरेव तर्हि संन्धस्य संबन्धिनो ऽनवगमादिति किं परिप्लुतं प्रमातुः? न चैष परमार्थः, सादृश्यविशिष्टपिण्डोपक्षेपे निमित्तस्याप्युपक्षेपात् ।
अन्यथा पिण्डोपक्षेपे ऽपि निमित्तानुपक्षेपे मनोधर्मादिशब्दानां जातिशब्दत्वं न स्यात्, अवाचकत्वमेव वा स्यात्, तज्जातीयानां नित्यपरोक्षत्वादिति ॥
अत्रोच्यते अभिनवनैयायिकैः, पञ्चधा हि वाच्यवाचकभावव्यवस्था ।
निमित्तोपलक्षणरहिते शृङ्गग्राहिकया चैत्रमैत्रवत् ।
निर्निमित्ते ऽन्तर्भूतोपलक्षणे निर्वचनिकया पाचकादिशब्दवत् ।
निर्निमित्त एव तटस्थोपलक्षणे परिभाषणिकया आकाशादिशब्दवत् ।
सनिमित्ते तटस्थोपलक्षण एवंप्रकारिकया पृथिव्यादिवत् ।
विशेषवन्निमित्ते निमित्तसंड्कोचनिकया स्वर्गादिवदिति ।
तत्र प्रथमद्वितीययोरसंभावितत्वादिह विदितवृत्तान्ततया तृतीयं प्रकारं निरस्य पञ्चमश्चतुर्थमुपयातीति चतुर्थं व्यवस्थापयति---न तावदिति ।
अविदितगवयशब्दवृत्तान्तस्य तु यद् भविष्यति, तदनन्तरमेव वक्ष्यति ।
तदिदमुक्तमिति ।
परमार्थो वस्तुगतिः ।
ततश्च तथाभूत एव पिण्डे संबन्धो ग्राह्यो,
न तु सादृश्योपलक्षणोपनीते पिण्डमात्र इत्यर्थः ॥
ननु निमित्तमप्यवगतमित्यत आह---न चेति ।
न च गोसादृश्येनोपलक्ष्यत इति उपलक्षणमनुमापनम्, स्मारणं वा ।
उभयमप्यदृष्टसंबन्धे ऽनुपपन्नम् ।
स्मरणमात्रापेक्षया दण्डपुरुषोदाहरणम् ।
एतावदेव च स्यात् ।
यदुत
गवयशब्दो वा गवयत्वं गमयेत्, यथा गौः तथा गवय इति ।
शब्दार्थो वानुमापयेत् अव्यभिचारपक्षे ।
व्यभिचारपक्षे तु स्मारयेदिति ।
ननु सादृश्यमेव जातिभेदमनन्तर्भाव्य प्रत्येतुं न शक्यम्, तस्य भिन्नप्रधानसामान्यव्यक्तिगुणावयवकर्मसामान्यबाहुल्यरूपत्वात् ।
तस्मात् सादृशयथातथादिशब्दा एव तस्य प्रत्यायकाः ।
केवलं प्रसिद्धाप्रसिद्धसन्देहो ऽवाशिष्यते ।
तत्र हस्तित्वादिकं गोशब्देन निरस्तम् ।
महिषत्वादिकं तु अनुचितविषयतया, अन्यथोपमानस्वीकारे ऽप्यप्रतीकारात् ॥
तदयं गोसदृश इत्यस्यार्थः ।
गोतो भिन्नजातीयः, तद्गतगुणावयवादिसामान्यबाहुल्यवानिति ।
नैतदपि साधीयः, दर्पण इव चन्द्रः, चन्द्र इव मुखम् मुखमिवारविन्दम्, अदो ऽरविन्दमिवेदमरविन्दमिति चतुर्धा सादृश्यगतौ भिन्नप्रधानसामान्यनियमायोगेन तदनन्तर्भाव्यैव सादृश्यप्रतिपत्त्युपपत्तेः ।
क्वचिद् दृष्टमिह स्मर्येत तावदिति चेत्? स्मर्यतां तावदत्रावगतम्, न त्विह तदवगतमिति ब्रूमः ।
तस्माद् गोसामान्येनोपलक्ष्यमाणः पिण्डः किं तद्वानेव गवयशब्दस्य वाच्यो भवतु? पचिक्रिययोपलक्ष्यमाणः कर्तेव पाचकशब्दस्य, आहोस्वित् तटस्थमेव गोसादृश्यम्, तदुपलक्षित एव पिण्ड आकाशवत् तस्य वाच्यो भवेत्? किं वोपलक्षणं विहाय गन्धापलक्षितपृथिवीत्वजातिमानिव गोसादृश्योपलक्षितजातिविशेषवानेव पिण्डो ऽस्य वाच्यो भविष्यतीतरनियतकोटिसंशयतिरस्कारेण कोटित्रयावलम्बी सन्देह एव जरन्नैयायिकैरूपप्लुतः संबन्धपरिच्छेद इत्युच्यते, एतास्ववश्यमन्यतमा कोटिर्गवयपदार्थो भविष्यतीति निर्धारणसंभावनां हृदि निधाय ।
ऐतेन मनोधर्मादिप्रतिबन्दिग्रहः प्रत्युक्तः ।
तत्राप्यनुमानेनोन्नीयमानानां मनोव्यक्तीनां समानगुणतया समानार्थक्रियाकारितया
समानजातीयत्वानुमानात् ।
सामान्यानवगतौ तु तत्राप्यशक्य एव समयग्रहः ।
सामान्यं वा न तस्य प्रवृत्तिनिमित्तमिति ॥
तदिदमुक्तम्--सर्वथानुपलब्धेरिति ।
यद्यपि गवयत्वावगमे ऽपि संज्ञासंज्ञिसंबन्धानवगमे तत्र प्रयुज्यमानत्वादिति हेतुरसिद्ध एव ।
न ह्यसति वृत्त्यन्तरे तद्विषयतया प्रयोगः सङ्गतिमविज्ञाय ज्ञातुं शकयते, प्रागेव प्रमाणान्तरात् तदवगमे तु किमनुमानेन साधनीयम्? अत एव प्रत्यक्षे ऽपि गवये अनुमानमनवकाशमेव ।
तथापि संबन्ध्यवगमे गवयपदसमभिव्याहृतं वाक्यमेव संबन्धं बोधयिष्यति ।
अवाचकस्यापि च समभिव्याहार उपयोक्ष्यते उपमानपक्ष इव ।
तदपि ह्यतिदेशवाक्यं
वाक्यमेवेति मत्वा तन्निरासार्थं संबन्धिन एवाप्रतिपत्तिरूपपादिता ॥
अत एवाह---कुतो वाक्याद् वेति ।
अत एव वाक्यस्य व्याप्तिपरतापि निराकृता, संबन्धिनो ऽनवगमात् ।
न च व्यतिरेके तात्पर्यम्, संकेतयितुरभिप्रायोपाधिकत्वात्, सत्प्रतिपक्षत्वाच्चेति ।
यद्यपि विनिगमनायां हेत्वभावे ऽपि नोपमानस्य काचित् क्षतिः, उभयोरपि वाच्यत्वे संबन्धस्य तदानीमवधारणात्, तथापि वस्तुगति विवेचयति---तथापि
किम् इत्यादि तदनुजानाति इत्यन्तं करभवृत्तान्तम् ।
परिहरति---साध्यर्म्यग्रहणं चेति ।
उपलक्षणपदप्रयोगश्चावान्तरभेदसंसूचनाय तेनेयं सूत्रगतिः ।
प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् ।
स च प्रसिद्धो धर्मः समानः प्रतियोगितया तदुपक्षिप्तो ऽसमानश्चेति ।
बहुव्रीहिपक्षे तु प्रसिद्धधर्मण इति ।
शेषं पूर्ववत् ॥
जरन्मीमांसकमतं गोसादृश्यं गवयस्थं प्रत्यक्षमेवेति वदता निरस्तम् ।
शाबरमतमाशड्क्य निराचष्टे--गोस्थामिति ।
जात्यन्तरवर्ति जात्यन्तरस्येति प्रायोवादः ।
तथापि गवयव्यक्त्यवच्छिन्नस्य न गोव्यक्त्यवच्छेदो ऽवगतः, तत्रोपमानमवतरिष्यतीत्यत आह--तस्माद् यथेति ।
दृष्टान्ते तात्पर्यम् ।
प्रयोगस्त्वित्यादि ।
अकृतसमयसंज्ञासमानाधिकरणवाक्यार्थोपधानं प्रमाणवैलक्षण्यमिह द्रष्टव्यम् ।
विषयस्वरूपवैलक्षण्ययोरसिद्धत्वादति ॥6 ॥
॥ परिशुद्धि ॥
इह शब्दे त्रिविधा विप्रतिपत्तिः---प्रामाण्यतो, भेदतो, लक्षणतश्चेति ।
तत्र प्रथमः कल्पो वचनविरोधादेव निरस्तः, तत्प्रामाण्यमनभ्युपगम्य विवक्षितार्थस्य प्रतिपादयितुमशक्यत्वात् ; प्रतिपादने वा तत एव तत्प्रामाण्यसिद्धेरिति ।
भेदस्तु परीक्षापर्वणि निरूपणीयः, लेशतस्त्विहापि ।
व्यावर्तकधर्मयोगादेव भेदव्यवहारो ऽपि ।
लक्षणं च तथा ।
ततः तदेव विवेचनीयम् ।
तत्र विप्रतिपद्यमानं प्रति तु परीक्षावतार इत्याशयवान् सिद्धवत् सङ्गतिभाष्यं व्याख्याय लक्षणमवतारयति---अथेति ॥
तत्र समयबलेन सम्यक्परोक्षानुभवसाधनं शब्द इति एके ।
इह चाद्येन पदेनानुमानम्, द्वितीयेन शब्दाभासः, तृतीयेन सविकल्पकप्रत्यक्षम्, चतुर्थेन पदार्थस्मरणम्, पञ्चमेन कर्तृकर्मणी निरस्येते ।
अपरे तु
चेष्टायामपि गतमेतदित्यतिव्यापकं मत्त्वा शब्दत्वसमवाये सतीत्याहुः ॥
अत्र प्राचयानामयमाशयः ।
यदि चेष्टा न प्रामाणम्, अप्रसङ्ग एव तस्याः, किं शब्दत्वसमवाये सतीत्यनेन निर्वर्तनीयम्? प्रमाणं चेत् तस्याः प्रत्यक्षाद्यनन्तर्भावे पञ्चमप्रमाणाभ्युपगमप्रसङ्गः ।
तस्मात् शब्द एव चेष्टायाः प्रवेशः समयबलप्रवृत्तेः ।
शब्द एव तु शब्दव्यवहारो लौकिकः प्रायिकत्वात्, चाक्षुषे ज्ञानदर्शनव्यवहारवदिति ।
ते ऽपि स्थूलदृश्वानः ।
चेष्टा ह्यभिप्रायस्थशब्दस्मरणमात्रोपयोगिनी लिपिवत् ।
शब्द एव तु चेष्टोत्पादितस्मरणसमारूढः प्रमाणम् ।
अर्थेन च स्मृत्युत्पादनात् शब्दविषयम् एवास्याः प्रामाण्यम्, प्रमाणफलस्य प्रमाणत्वात् ।
न च स्मृतिरस्याः अवान्तरव्यापारः ।
यदि चेष्टोपधानमन्तरेणावगतो ऽपि शब्दो नार्थं गमयेदेवमपि संभवेत्, न चैतदस्ति ॥
नन्वेवं सति चेष्टया एडमूकव्यवहारानुपपत्तिः, न ह्यसौ ततः शब्दस्मृतिमान्, अगृहीतसमयत्वादिति चेत्? ---अत एव तं प्रति समयबलेन शब्दवदर्थे ऽपि चेष्टायाः कुण्ठत्वमेव ।
व्यवहारस्तु अन्वयव्यतिरेकाभ्यां नियतविषयाविनाभावग्रहे प्रवृत्तिनिमित्तौपयिकः, अभिप्रायानुमानादेव एडमूकस्य, करितुरगयोः
कशाड्कुशाभिघातादिव ।
अथ कृतसमयापि चेष्टैव किं न स्यात्, अविनाभावाभावात्? स्मारयतु वा पदार्थान्, तथापि न प्रमाणम् ॥
द्विविधा हि सा समयप्रमारभेदात्---कृत्यन्वयिनी, ज्ञप्त्यन्वयिनी च ।
तत्र कृत्यन्वयिनी प्रयोजकाभिप्रायं स्मारयन्ती प्रवर्तयति, न तु किञ्चित् प्रमाणयति शड्खध्वनिवत् ।
अतो ऽप्रमाणमेव ।
ज्ञप्त्यन्वयिनी तु कारकेषु प्रतिपदिकार्थप्रधाना, क्रियासु वर्तमानार्थप्रधाना ।
तथा च गौरश्वः पुरुष इत्यादिपदैरिव स्वतन्त्रेषु पदार्थेषु स्मारितेषु परस्परान्वययोगः ।
पदैकदेशविभक्तिविशेषवत् चेष्टैकदेशविशेषात् प्रकरणादिविशेषाद् वा कारकादिस्मृतिनियम इति चेत्---चेष्टैकदेशविशेषाभावात् ।
न ह्यतीतानागतवर्तमानपाकादिप्रतिपादकं चेष्टैकदेशविशेषं पश्यामः ।
प्रकरणादयस्तु विषयविशेषे शब्दान् नियमयन्ति, न तु कारककालविशेषेषु प्रवर्तयन्ति ।
तथात्वे वा गौरश्वः पुरुषो हस्तीत्यादावपि कर्मत्वादीन्युन्नीय विवक्षितार्थावसायः स्यात् ।
न हि चेष्टाकलापे प्रकरणादयः
कारकविशेषादीनाक्षेप्तुमलम्, न तु पदकदम्ब्क इत्यस्ति नियमः ।
तथा च कालसंख्याकारकविशेषप्रतिपादकविभक्तिसमभिव्याहारवैयर्थ्यप्रसङ्गः ॥
कथं तर्हि ततो व्यवहारविशेषाः? संशयप्रतिभयोरन्यतरस्माद् विशेषानुपलम्भे विदूरवर्तिनि समानधर्मिणि स्थाण्वर्थिन इवेति ।
तस्मादुभयथापि चेष्टा न प्रमाणम् ।
अतः कस्य चतुर्षु प्रवेशाप्रवेशौ चिन्तनीयौ? एतच्च संभावितप्रामाण्यम् ऐतिह्याद्यन्तर्भावयता चेष्टापभ्रंशलिपिध्वनिपदैकदेशान् साव्यवहारिकानप्यकीर्तयता सूत्रकृता सूचितमपि मन्दमतयो न गृह्णन्तीति तदनुकम्पया लक्षणं व्याचक्षाण एव किञ्चिदुद्भावयति ॥
वाक्यज्ञानं तदर्थज्ञानं वेति ।
आकाड्क्षायोग्यतासत्तिमत्पदकदम्बकं वाक्यम् ।
तस्य ज्ञानं ज्ञानमानं तदित्यर्थः ।
यथाश्रुतमुत्तरत्र ।
किं तु तत्रापि वाक्यमेव प्रधानम्, असाधारणत्वादिन्द्रियादिवत् ।
सन्निधितारतम्यविवेचने तु सर्वस्मिन्नयं न्यायः ।
हानादिबुद्धिः परामर्शलक्षणा, इतरस्या अनुमानफलत्वात् ।
तदनेन निराकाड्क्षायोग्यानासन्नानि पदानि निरस्याता चेष्टादयो ऽपि निरस्ता भवन्तीति विजातीयव्युदासः ।
स्वार्थद्वारकं चाकाड्क्षादिकमिति संगतिग्रहपदप्रतिसन्धानतदर्थस्मरणयोग्यताद्यनुसन्धानप्रकरणादिकमुक्तं भवति ।
अनेनैवाभिप्रायेणोक्तम्---पदार्थस्मृत्यादयस्त्विति ।
तदनेन प्रत्यक्षादेः समानजातीयस्य व्युदासः ।
अनाप्तवचसां चाप्तग्रहणेन निराकरणमिति सामान्यलक्षणलाभः ॥
ननु नायमुपदेशशब्दस्यार्थो यथाश्रुति चाव्यापकता सिद्धार्थासंग्रहादिवदित्यत आह---यद्यपीति ।
न केवलं भूतार्थासंग्रहः साध्यार्थमपि न किञ्चित् संगृह्णातीत्याह---यद्यपि चेति ।
ननु प्रवर्तकत्वेन विधेराज्ञाध्येषणयोः को विशेषः, येनानयोरूपदेशपदेनासंग्रह इत्यतस्ताभ्यां विधेर्वैधर्म्यं प्रतिपाद्य तयोरपि ततो वैधर्म्यमुक्तम्---ते हीति ।
तत् किमाज्ञाध्येषणासंग्रहे ऽपि प्रयत्नः कर्तव्यः? नेत्याह---तथापीति ॥
अयमाशयः ।
यद्यपि लक्षणया ते अपि संग्रहीतुं शक्येते परस्थाने प्रयोक्तृपदं प्रक्षिप्य, तथापि नास्त्यस्माकं तदसंग्रहे ऽपि काचित् प्रयोजनक्षतिः, स्वर्गापवर्गोपायविषयस्य शब्दविशेषस्य लक्षणारम्भात् शास्त्रस्य तदधिकारेण प्रवृत्तेः ।
सामान्यलक्षणे त्वकृते विशेषलक्षणानवतार इत्यतः प्रथमं तथैव व्याख्यातम् ।
वक्ष्यति च
दिग्नागनिराकरणप्रस्तावे ।
परपदमपहाय प्रयोजनवानित्येव वाक्यार्थप्रतिपत्तिः फलमिति च लाक्षणिकपदप्रयोगस्य चायमेवोपयोगो यदुभयलक्षणलाभः ।
प्रयोजनमर्थगतमसाधारणं ग्राह्यं च ।
साधारणं तु शब्दस्य स्वार्थप्रतिपादकत्वम् ।
तच्च परस्यैव ।
ततः तदपेक्षया परेति विशेषणमनर्थकं स्यात् ॥
ननु यदि उपनिषदः प्रयोजनवत्यः, नूनं कञ्चिदर्थं प्रतिपादयन्त्यः क्वचित् परं प्रवर्तयेयुः प्रवृत्त्यड्कितत्वात् प्रयोजनसद्भावस्य ।
न चेत् परं प्रवर्तयेयुः कथं परप्रयोजनवत्त्यः प्रवृत्तिविरहाड्कितत्वात् प्रयोजनाभावस्येत्यत आह---यद्यपीति ।
न क्वचिदित्यादौ साक्षादिति शेषः ।
बुद्धर्षभादीनामनाप्तत्वे कारको हेतुर्मायामोहनिमित्तत्वम् ।
ज्ञापकस्तु प्रमाणाविरुद्धसर्वधर्मक्षणिकनैरात्म्यादिवचनम् ।
यथाश्रुतं भाष्यमव्यापकं मन्वान आह---सुदृढेनेति ।
सुदृढं परितो निरस्तविभ्रमाशङ्कम् प्रमाणं प्रमा ।
तथावधारिता विषयीकृता इति ।
नेयं नित्यानित्यव्याप्तिमभिसन्धाय ॥
ननु कारणमधितिष्ठत एवेश्वरस्यापि कर्तृत्वम् ।
तथा च स्थानकरणादीनामन्वयव्यतिरेकाभ्यां वर्णनिपत्ति प्रति सामर्थ्यावगमात्, तदधिष्ठानशून्यतया तस्य नागमकर्तृत्वं भवेत् ।
न च शरीरमन्तरेण तस्य
स्थानकरणादिसंभवः, तेषां ताल्वादिविवृतादिरूपत्वादित्याशयवानाशङ्कते---तथापीति ।
भाष्यमुत्तरयति---अत आह उपदेष्टेति ॥
न वयमस्य भगवतः कार्यविशेषेणानुविहितभावाभावतयोपकरणं शरीरं निराकुर्मः, त्र्यणुकादिनिष्पत्तये द्व्यणुकादिवच्छरीरान्वयव्यतिरेकानुविधायिकार्यनिष्पत्तये तदुपग्रहस्यापीष्यमाणत्वात् ।
अपि त्वायतनतया कर्तृत्वनिर्वाहकतया व्यापकतया च तत् तस्य नेष्यते भोगाभावात्, कर्तृत्वस्य नित्यत्वात्, कार्यस्य कर्त्रा निरूपाधिसंबन्धात्, शरीरस्यव्यभिचाराच्चेत्यभिप्रायवतो विवरणम्---स्थानकरणेति ।
तदेवं रूप आप्तः कुतः प्रमाणात् निश्चेतव्यः, परचित्तवृत्तीनामप्रत्यक्षत्वात्? कायवाग्व्यापारयोश्च बुद्धिपूर्वकम्, अन्यथापि संभवादित्याशड्क्य म्लेच्छा अपि हीत्यादिना भाष्यतात्पर्यं ब्रुवाणः तन्निश्चयोपायमपि लेशतो दर्शयति---हेतुदर्शनशून्या इति ॥
अयमाशयः ।
द्विविधो हि पुरुषो ऽसर्वज्ञः सर्वज्ञश्चेति ।
तत्र पूर्वस्य तावत् सत्त्वप्रसाधकादेव प्रमाणाद् रागद्वेषमोहविरहसिद्धावनाप्तत्वं निरस्तम् ।
उत्तरस्यापि ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेणैव निश्चीयन्त इति
तत्र सर्वेषामविवाद एव ।
ज्ञानं तु यथार्थमयथार्थं वा स्यात् ।
इच्छापि प्रतिपिपादयिषा विप्रलिप्सा वा स्यादिति सन्देहो ऽवशिष्यते ।
तत्राप्यभ्यासदशापन्ने ऽयमर्थो ऽस्येति सामान्यतो निश्चये भवत्येव तज्ज्ञानस्य यथार्थत्वनिश्चयः, यथाभ्यासदशापन्नमिदमरण्यममीषां म्लेच्छानामतः अस्मिन्नेते मार्गामार्गविभागज्ञा इति पान्थानामेवं निश्चयः ।
विप्रलिप्सा च हेतुदर्शनेन व्याप्ता हेतौ सति स्यात् ।
स च द्विरूपः, स्वोपकारः परोपकारो वा? तत्र तावत् पान्थेषु विमार्गेण प्रतिष्ठमानेषु म्लेच्छादीनां न कश्चित् स्वोपकारः, स्वस्य गृहीतत्वात् शरीरमात्रस्य च करणीयान्तराभावात्, भावे वा अपरित्यागात् ।
नापि द्वितीयः, न ह्यनुन्मत्ता अनपकारिणमपकुर्वते ।
नापि परापकारमात्रं पुरुषार्थः तथा सति सर्वः सर्वमपकुर्यादित्येवं विप्रलिप्सापि निवार्यते ।
अनभ्यासदशापन्नविषये तु प्रवृत्तिसामर्थ्यात् प्रमाणान्तरसंवादाद् वा मोहविप्रलिप्सयोर्निवृत्तिरिति ॥
म्लेच्छा अप्याप्ता भवन्ति यतः प्रतीतिगोचराः, ततः कः सन्देहो महाधियाम् आर्याणां च तत्त्वावधारण इति अपिशब्दार्थः ।
एतेन यद् येन रूपेण न निश्चितम्, न तत् तेन व्यवह्रियते, यथा रथ्यापुरुषः सर्वज्ञत्वेन, न प्रतीयते चाभिमतः पुरुष आप्तत्वेनेति व्यापकानुपलब्धेरसिद्धत्वमुक्तम् ।
परेषाम् अव्यापकमाप्तलक्षणम्, यथाश्रुतस्यार्यम्लेच्छयोः अभावात् ।
विशेषणान्तरप्रक्षेपे त्वस्मल्लक्षणाभ्युपगम इत्यर्थः ।
विपर्यस्तस्यायं प्रश्नः, विपर्यासश्च प्रमाणाभासमूलः ।
अतस्तमाह---अस्तीति ।
भागासिद्धतामाशड्क्याह---अत्र यावतीति ।
ननु परप्रयोगमदूषयित्वा स्वातन्त्र्येण प्रयोगान्तरोपादानं प्रकरणसमाजातिः, सत्प्रतिपक्षतया चेत् स्वर्गादीनां प्रत्यक्षत्वं कुतः सेत्स्यतीत्यत आह---योगजे त्विति ॥
हेत्वभावे फलाभावात् प्रमाणे ऽसति न प्रमा,
चक्षुराद्युक्त विषयं परतन्त्रं बहिर्मनः ॥
इति ।
तस्मादापाततस्तावत् सत्प्रतिपक्षा एवैते हेतव इत्यत आह---अस्माकं तु सभ्यञ्च इति ॥
अयमाशयः, दृश्यते हि तावद् बहिरन्द्रियोपरमे ऽप्यसन्निहितदेशकालार्थसाक्षात्कारः स्वप्ने ।
न च वाच्यं स्मृतिरेवासौ पटीयसीति ।
न हि स्मरणानुभवविभागे अपि साक्षी प्रष्टव्यः ।
किं तर्हि? इदं स्मरामीदमनुभवामीति प्रतीत्या स्वसाक्षिको ऽयम् अर्थः ।
न चारोपितं तत्रानुभवत्वम्--अबाधानात्, स्मृतित्वानुल्लेखनात् अनुपलब्धस्य स्वशिरश्च्छेदादेरवभासनाच्च ।
स्मृतिविपर्यासो ऽसाविति चेत्? यदि स्मृतिविषये विपर्यास इत्यर्थः, तदानुमन्यामहे ।
अथ स्मृतावेवायमनुभवत्वविपर्यास इत्यर्थः, तदा प्रागेव निरस्तः ।
न च संभवत्यपि, न ह्यन्येनाकारेण व्यवसायविषयीभूतो ऽयमर्थो ऽन्येन ज्ञानावच्छेदकतयानुव्यवसीयते ।
तथा च स घट इत्युत्पन्नायां स्मृतौ भ्राम्यतस्तं घटमनुभवामीति स्यात्, न त्विमं घटम्, न ह्ययं घट इति स्मृतेराकारः ।
तस्मादनुभव एवासौ स्वीकर्तव्यः ॥
अस्ति च स्वप्नानुभवस्यापि कस्यचित् सत्यत्वम्, संवादात् ।
तच्च काकतालीयमपि न निर्हेतुकम्, सर्वस्वप्नज्ञानानामपि तथात्वप्रसड्गात् ।
हेतुश्चात्र धर्म एव ।
स च कर्मजवद् योगजो ऽपि योगविधेरवसेयः, कर्मयोगविध्योस्तुल्योगक्षेमत्वात् ।
तस्माद् योगिनामनुभवो धर्मजत्वात् प्रमा, साक्षात्कारिप्रमात्वात् प्रत्यक्षफलम् ।
धर्माजनकभावनाप्रभवस्तु न प्रमेति विभाग इति ।
तत्सामग्रीरहितत्वादित्यसिद्धो हेतुरिति सूक्तम् ॥
अस्माकं तु सभ्यञ्च इति बहवश्चेति अन्वाचये चकारः ।
यद्यपि चास्माकं परमसर्वज्ञसिद्धाववान्तरसर्वज्ञे न सिध्यत्यपि न काचित् प्रकृतहानिः, तथापि तत्सद्भावे अपि प्रमाणसद्भावात् सो ऽपि नोपेक्षामर्हतीति ॥
इह दिग्नागेन भावसाधनत्वकर्मसाधनत्वाभ्यामुपदेशपदं विकल्प्य दूषितम् करणसाधनत्वपक्षस्त्वस्मदमितो ऽपि कुत उपेक्षित इत्यत आह---अन्यस्मादन्यस्येति ।
अर्थेन हि साक्षात् प्रतिबन्धः प्रत्यक्षस्यैव, परम्पराप्रतिबन्धो ऽनुमानस्य ।
तदस्य शाब्दस्य विज्ञानस्य साक्षादर्थप्रतिबन्धे प्रत्यक्षत्वप्रसङ्गः, परम्पराप्रतिबन्धे त्वनुमानत्वापत्तिः ।
अप्रतिबन्धे त्वप्रामाण्यमेव इत्यसंभव एव करणव्युत्पत्तिपक्षस्येति मन्यत इत्यर्थः ।
अत्र भावव्युत्पत्तिपक्षे आप्तत्वनिश्चयः शब्दफलम्, तद्द्वारा वाक्यार्थनिश्चयो वा ।
नन्वाप्तत्वेन निश्चितानां किमपरमविसंवादित्वमवशिष्यते, यन्निश्चेयमित्यत आह---उपदेष्टदृष्ट्ट्टणामित्यर्थ इति ॥
अर्थस्य साक्षात्कारः प्रत्यक्षत्वमिति वर्णयोजना ।
तेनायमर्थः ।
आप्तोपदेशः तस्मिन्नेवाप्ते निश्चयं कुर्वन्
शब्दः प्रमाणम्, अथ वा आप्ते निश्चयं कृत्वा तत्सहायो वाक्यार्थनिश्चयं जनयन्नित्युभयं दूषयतीत्याह--इममिति ।
अनुमानात्करूणाभ्यासहेतुदर्शनशून्यत्वादेः कर्मसाधनत्वपक्षमुत्थापयति--द्वितीयमिति ।
अत्राप्युपदर्शितार्थप्राप्तिनिश्चयः, तद्द्वारा अर्थतथात्वनिश्चयो वा शब्दस्य फलम् ।
तत्र प्रथमं दर्शयति---यस्मादिति ।
द्वितीयं दर्शियति---एवं चेति ।
उपदिश्यमानोर्ऽथः प्राप्तः, प्राप्तत्वेन निश्चितो यस्मादिति वा ।
तथात्वेन निश्चित इति वा सूत्रयोजना, उभयमपि
दूषयतीत्याह---दूषयतीति ॥
नन्वर्थप्राप्त्या अर्थतथात्वं निश्चीयमानं लिङ्गभूतयैव निश्चीयते ।
तत् कथमाह प्रत्येक्षेणेत्यत आह---आप्त्या हीति ।
आप्तिनिश्चये ऽपि शब्दस्य व्यापारो नास्तीति दर्शयितुमर्थतथात्वनिश्चयो ऽपि प्रत्यक्षेणेत्युक्तम्, मूलभूतत्वात् तस्येत्यर्थः ॥
ननु शब्दोपलब्धस्यार्थस्य क्वचिदनुमानेमापि प्रतिपत्तिरस्तीत्यत उक्तम्--प्रायेणेति ।
अत्र चोभयोरपि पक्षयोराप्तोक्तत्वप्रवृत्तिसामर्थ्यहेतुप्रधानयोः शब्दस्य प्रामाण्यनिश्चयः फलमिति शड्कितुमुचितमपि न शड्कितम्, प्रामाण्यनिश्चयाविनाभूतत्वात् अर्थनिश्चयतत्तथात्वनिश्चययोः, तस्य तयोरेवान्तर्भूतत्वादिति मन्यमानेनेति ।
तमिममिति ।
नाप्तत्वसहायो नाप्तत्वनिश्चयसहाय इत्यर्थः ।
प्राप्त्या ।
प्राप्तिनिश्चयेनेत्यर्थः ॥
नन्वनभ्युपगतेभ्यः पक्षेभ्यो न कञ्चिदभ्युपगतस्य विशेषं पश्याम इत्यत आह---एतदुक्तं भवतीति ।
नाप्तत्वहेतुकं नाप्तत्वनिश्चयहेतुकम् ।
अविसंवादित्वम् अविसंवादित्वनिश्चयः ।
अनेन सूत्रेणागमार्थतया आगमफलतया प्रतिपाद्यते ।
नाप्यर्थतथात्वमर्थतथात्वनिश्चय इति नेयम् ।
उपलक्षणतया च विधाद्वयमुदाहृतम् ।
यथा तु पूर्वपक्षे व्याख्यातम्, तथात्रापि द्रष्टव्यम् ।
किं तर्हि फलमस्येत्यत आह--किं त्विति ।
अनेनोल्लेखेनानुव्यवसायेन य प्रतिपत्तिर्विषयीक्रियते सेत्यर्थः ॥
यद्येवं तर्हि क्काप्तोक्तत्वनिश्चय उपयुज्यत इत्यत आह---आप्तत्वं चेति ।
आप्तोक्तत्वं चेत्यर्थः ।
ननु प्रामाण्यमर्थाव्यभिचारः ।
स खलु कथमर्थमप्रत्याय्य प्रत्याययितुं शक्येत्? ततश्च पुनराप्तोक्तत्वेनार्थनिश्चय आयात इत्यत आह---न च यत इति ।
प्रमेयमिति स्वातन्त्र्येणेति शेषः ।
अवच्छेदकतया तु तस्यापि स्फुरणमिष्यत एव,
मनसैव ।
घटस्येत्यर्थः ॥
तदयं संक्षेपः ।
भूतार्थोपदेशकत्वं हि प्रामाण्यम् ।
तदेव प्रमेयमनुपदर्शयतः शब्दस्य न स्यात् ।
तथानाप्तोक्तत्वेनापि हेतुना किं निश्चीयेत? तथा च कस्यावच्छेदकतया अर्थो ऽपि परिस्फुरेत्? तस्माद् यथा सत्तामात्रावस्थितैरदुष्टैरिन्द्रियैः प्रत्यक्षं जन्यते, जातादुष्टत्वैस्तु प्रमाणतया निश्चीयते, तथा सत्तामात्रावस्थितेनाप्तेन प्रमाणं शब्दो जन्यते ।
ज्ञाताप्तत्वेन तूपदेष्ट्रा तथात्वेन निश्चीयत इति प्रत्यक्षवत् स्वविषये व्यवस्थेति ज्ञानमात्रमनुमापयेत् ।
अव्युत्पन्नमिव व्युत्पन्नमपीति शेषः ॥
अयमाशयः ।
अस्ति तावद् वाक्यादर्थविशेषावसाय इत्यविवादम् ।
न चायं लैड्गिकः, वचनमात्रस्यानैकान्तिकत्वात्, आप्तोक्तत्वस्य प्रागेवासिद्धेः ।
न च वचनस्य लिङ्गत्वपक्षे साध्यमप्यस्ति ।
तथा हि, न तावत् तादात्म्यतत्प्राप्ती संभवतः ।
नापि तदुत्पत्तिः, आप्तवचसामप्यतीतानागतगोचराणां परम्परयाप्यर्थादनुत्पत्तेः ।
तस्मादर्थज्ञापकत्वमेव शब्दानामर्थवत्त्वम् ।
न च तदेवानुमेयम्, तस्य स्वातन्त्र्येण भवद्भिरनभ्युपगमात् ।
अभ्युपगमे वा विवादविच्छेदात् ।
न च लिङ्गस्य स्वात्मनो लैड्गिकज्ञानजनकत्वमेवानुमेयम्, तस्य लिड्गान्तरविषयत्वात् ।
तस्माद् वचनमात्रलिङ्गपक्षे यद् वचनं तद् बुद्धिपूर्वकमित्युदाहरणीयम् ।
बुद्धिस्तु किञ्चिदुल्लिखन्ती जायत इति स्वभावादेवोल्लेख्यमात्रप्रतिलम्भः, न तु तत्रापि भूताभूतविभागो, न तु तरां प्रकारविभागः ।
तस्मात् ज्ञानमात्रमनुमापयेदिति सूक्तम् ॥
किमतो यद्येवमित्यत आह---तथा चेति ।
व्यवहारानुभवाभ्यां व्यवस्थापितापि नानुरोधिता स्यात् ।
व्युत्पत्तिप्रयासवैयर्थ्यप्रसङ्गश्चेत्यर्थः ।
ननु ज्ञानविशेषादेवार्थविशेषः सेत्स्यतीत्यत आह---न चेति ।
ज्ञानेनार्थः साधयितव्यः ।
तस्य च न कश्चिद् विशेषोर्ऽथाहिताकारादिलक्षणः समस्ति ।
साकारत्वे ऽप्यतीतानागतादिगोचरस्य तस्यार्थादनुत्पत्तेः ।
तस्मादुल्लेख्यतयार्थ एव विशेषो वक्तव्यः ।
स चेत् ज्ञानसिद्धावन्तर्भूतः किमपरं तेन साधनीयम्? न चेदन्तर्भूतः पुनरप्यविशिष्टमेव ज्ञानमित्यर्थः ॥
स्यादेतत् ।
तज्ज्ञानसिद्ध्यर्न्भत एवार्थो ऽवच्छेदकतया सिध्यतु ।
यद्यपि वचनमात्रमर्थविशेषोल्लेखि
ज्ञानपूर्वकतां व्यभिचरति, तथापि यः पदकदम्बकविशेषो यत्पदार्थजातं स्मारयति, स तत्संसर्गज्ञानपूर्वक इत्यस्ति नियमः ।
एवं च समयग्रहस्याप्युपयोग इति चेत्---न, गौरश्वः पुरुष इत्यादिपदकम्बकेन व्यभिचारात् ।
विशेषणविशेष्यभावेनावस्थितौ न व्यभिचरतीति चेत्? सो ऽयं विशेषणविशेष्यभावो न तावत् स्वरूपतः, पदानां परस्परं स्वातन्त्र्यात् ।
नाप्यर्थतः, तस्यानवगमात् ।
अवगमे वा कस्ततो ऽपरः पदार्थानां संसर्गो, यो ज्ञानावच्छेदकतया अनुमातुमिष्टः? आकाङ्क्षादिमत्त्वे सतीति विशेषणान्न व्यभिचार इति चेत्? अथ केयमाकाङ्क्षा? न तावदविनाभावः स्वरूपतोर्ऽथतश्च, तस्या अभावे ऽपि
वाक्यार्थप्रतिपत्तेः ।
भावे ऽप्यप्रतीतेः, वाक्यार्थप्रतिपादनेन विनापर्यवसानमाकाङ्क्षेति चेत्? एवं तर्हि वाक्यार्थविशेषप्रतिपादकं यत् पदकदम्बकम्, तत् तत्स्मारितार्थसंसर्गज्ञानपूर्वकमिति प्रयोगार्थः ।
तथा च प्रागेव साध्यविशेषसिद्धये हेतुविशेषसिद्धिमिच्छता वाक्यादेव वाक्यार्थविशेषप्रत्यय एषितव्य इत्युपसंहरन्नाह---तस्मादिति ॥
स्यादेतत् ।
तथाप्यसंबद्धस्य प्रकाशकत्वे ऽतिप्रसङ्ग इत्यत आह---न चेति ननु न हि संबन्ध इत्येव गमको ऽतिप्रसड्गात् अपि त्वविनाभाव एव ।
स च शब्दस्यार्थेन नास्तीत्यत आह---न चाविनेति ।
यत् त्वत्रोक्तम्, चक्षुरपि रूपकार्यत्वादेव रूपं प्रकाशयतीति, तदयुक्तम् ।
यदि हि तत्कृतत्वादेव तद् गमयेत्, रूपमिव रसादीनपि गमयेत् ।
अवनाभावज्ञानं वा अपेक्षेत ।
न ह्यविनाभावस्यैष महिमा यदयं सत्तामात्रेणैव गमयति ।
तथात्वे वा धूमादपि चक्षुष इव सत्तामात्रावस्थितादेवाग्निः प्रतीयेत ।
अपि च ज्ञानसमसमयो वार्थः प्रकाशते, अनन्तरसमयो वा ।
तस्माच्च न चक्षुषो जन्म, स्वकारणादेवायमस्य स्वभावभेदलाभो यदनात्मानमप्यकारणमपि कारणत्वाविशेषे ऽपि वा रूपमेवाज्ञातमेव सत्प्रकाशयतीति रूपोलब्धिलक्षणकार्यदर्शनबलेनैव तद्व्यवस्थाप्यते ।
तस्याशक्यापह्नवत्वादिति चेत्? तर्हि यस्य यत्र प्रतिबन्धो नास्ति, न तस्य तत्र प्रामाण्यम्, यथा दहने ऽप्रतिबद्धस्य रासभस्येति व्यापकानुपलब्धिस्त्वयैवानैकान्तिकी कृता ।
किमस्माभिरत्र वक्तव्यम्? किंनिबन्धनस्तर्हि प्रमाणव्यवहारः शब्दे, यन्निबन्धनश्चक्षुरादिषु ।
तत्रैव किं निबन्धन इति चेत्? इदं महापाण्डित्यं यत् सिद्धमातृकायामप्यद्यापि सन्देहः ।
भूतार्थानुभवजनननिबन्धनो हि प्रमाणव्यवहारः सर्वत्रेति बालो ऽप्याह ।
तब्दलेनैव शब्दस्यापि तदनुगुणः स
स्वभावभेदः स्वकारणादायातो व्यवस्थाप्यते ।
यतः तत्तत्सड्केतोपधानसूत्रमर्थं प्रतिपादयतीति, तथापि समयस्य पुरुषायत्तत्वात् किमयं सांव्यवहारिकसड्केतानेव शब्दान् प्रयुड्क्ते? किं वा स्वयमिदानीमर्थभेदेषु सड्केत्येति सन्देहो न निवर्तत इति चेत्---न, उभयथाप्यसंभवात् ।
यद्यसौ प्रतिपादकः कथं स्वहृदयगुहानिक्षिप्तसमयानेव शब्दानुच्चारयेत्? जानात्येव ह्ययं नाविदितसमया एते प्रतिपादका इति ॥
अथ विप्रलम्भकः, तथापि समयान्तरकरणे क उपयोगः, प्रसिद्धसमयैरेव विप्रलम्भसंभवात् ।
यत्रापि हि गुप्तसमयैर्व्यवहारः, तत्रापि न प्रतिपाद्यं प्रति समयो गोप्यः, अपि त्वविश्वस्तान् प्रतीति हृति निघायाह---तसमादिति ॥7 ॥
न द्विविधो दृष्टादृष्टार्थत्वात् ॥1.1.8 ॥
॥ परिशुद्धिः ॥
स्वच्छाः स्वभावशुचयो ऽतिशयेन गुर्व्यो
दुर्बन्धदुर्धरदुराग्रहदुर्विभाव्याः ।
टीकागिरो विशदपारदविप्रुषो वा
येषां वशे ननु वशे जगदेव तेषाम् ॥8 ॥
॥ प्रमाणनिबन्धः समाप्तः ॥
॥ इति प्रमाणलक्षणप्रकरणम् ॥
॥ प्रमेयप्रकरणम् ॥
॥ परिशुद्धिः ॥
ननु यदि प्रमेयमेव मुमुक्षुणा प्रतिपित्सितम्, तदुल्लड्घ्य किमिति प्रथमतः प्रमाणममिहितमित्यत आह---तच्चेति ।
तर्हि उक्तानि प्रमाणानीदानीं परीक्षयन्तां किं प्रमेयलक्षणेनेत्यत आह---लक्षणं चेति ।
तर्हि प्रमेयलक्षणमेवामिधीयताम् ।
किं
प्रत्यक्षादिलक्षणेनेत्यत आह---न चेति ।
ननु प्रमाणं तावत् प्रथमत एव वक्तव्यम् ।
तदितरस्य तदधीनत्वादिति प्रागेव संगमितमेतत् ।
इदानीं तु पञ्चदशसु प्रथमं किमभिधीयतामिति जिज्ञासा ।
अभिधीयमानसंगतिपर्यालोचने च संशयादीनामनुपयोगादनभिधानमेव प्रसक्तम्, कुतः पूर्वापरभावस्पर्धेत्यत आह---अपरीक्षितं चेति ।
एतेन संशयादीनामुपयोगं दर्शयता वक्तव्यता दर्शिता ।
एतस्माद् विशेषात् प्रमाणप्रकरणात्
अपकर्षः संशयादिप्रकरणेभ्यश्च उत्कर्षः प्रमेयप्रकरणस्येति समुदायार्थः ।
आरभ्यतां तहि प्रमेयलक्षणम्, किमन्तर्गडुना विभागेनेत्यत आह---तदिहेति ।
प्रमेयनान्तरीकत्वं प्रमेयालम्ब्नफलत्वम् ।
किं तदर्थजातमिति भाष्यकारीयः प्रश्नः श्लिष्टः, कि लक्षणं कतिविधं चेति ।
अस्मिन्नर्थे विभागवत् सामान्यलक्षणमन्तरेणापि विशेषलक्षणानवतारात् ।
तत्र द्वितीये---सूत्रपाठे नोत्तरम् ।
प्रथमे तु शब्दव्याख्यानेनेति भाष्यगतिः ।
तदत्र द्वितीयप्रश्नार्थो विभागोद्देशसूत्रमवतारयितुमित्यनेन दर्शितः ।
प्रथमस्तु विशिष्टं प्रमेयमद्यापि न सिध्यतीति तदर्थं प्रश्न इत्यनेन ।
तत्र वार्त्तिककारेण तुशब्दसूचितं सामान्यलक्षणं गृहीत्वा विभागनिष्ठः प्रश्न इत्यनेन ।
तत्र वार्त्तिककारेण तुशब्दसूचितं सामान्यलक्षणं गृहीत्वा विभागनिष्ठः प्रश्नः कृत इत्याह---स च विशेष इति ॥
नन्वयमेव च सूत्रार्थ इति विभाग एवास्य सूत्रास्यार्थ इति गम्यते ।
तथा च न विवक्षितविशेषलाभः सूत्रात्, एवं च प्रमेयमात्रविभागो ऽनर्थको ऽसत्यश्चेत्यत आह---येषामिति ।
प्रकृतोपयोगिप्रमेयविशेषलक्षणक्रोडीकृतानामेव विभागो ऽस्य सूत्रस्यार्थ इति वार्त्तिकार्थ इत्यर्थः ।
येषामित्यादिना यथासंख्यं लक्षणद्वयम् ।
नश्च तत्त्वपदेन संबन्धः ।
साक्षादिति च पूरणीयम् ।
अपवर्गो मिथ्याज्ञाननिवृत्तिः, तदादित्वात् ।
संसारो रागद्वेषौ, तदेकदेशत्वादिति ।
परमाणूनामित्युपलक्षणम्, तेनाशरीरानिन्द्रिया तदर्थरूपाणां द्व्यणुकादीनां तद्गुणकर्मणामपीति ॥
ननु यदा दिगादयो ऽभिहिता एवार्थत इति समाधानम्, तदा तदभिधाने क उपयोग इत्यपि समर्थनीयमित्यत आह---कौशलमात्रमिति ॥9 ॥
॥ परिशुद्धिः ॥
ननु प्रत्यक्षमप्यात्मनि प्रमाणमेव, अहमिति विकल्पस्य परैरपीष्टत्वात् ।
न चायमवस्तुकः संदिग्धवस्तुको वा, अशाब्दत्वादप्रतिक्षेपाच्च ।
न चायं लैड्गिकः, अननुसंहितलिङ्गस्यापि स्वप्रत्ययात् ।
नापि स्मृतिरियम्, अननुभूते स्मरणायोगात् ।
अनादिवासनावशादनादिरयमवस्तुको विकल्प इत्यपि न युक्तम्, नीलादिविकल्पेष्वप्येवं वक्तुं सुकरत्वात् ।
कादाचित्कत्वेन तत्र वस्तुकल्पनमिहापि समानम् ।
अर्थक्रियास्थितेः सूत्रप्रामाण्यसिद्धेर्वस्तुस्थितिरित्यपि न युक्तम्, अर्थक्रियास्थितिनिश्चयस्यापि वासनामादायोपप्लावयितुं शक्यत्वात् ।
अत एव प्रमाणान्तरप्रवृत्तेरित्यपि गतम् ।
तस्माद् वासनावादमात्रं विहाय आगन्तुकमपि किञ्चित् कारणं वाच्यम् ।
तच्चाप्तानाप्तशब्दौ वा लिङ्गतदाभासे वा प्रत्यक्षतदाभासे वा? तत्र यथा प्रथममध्यमप्रकाराभावात् नीलविकल्पश्यरमं कल्पमालम्बते, तथाहमित्ति विकल्पो ऽपि ।
तत्रायम्,
प्रत्यक्षपृष्ठभावित्वे साक्षादेव सवस्तुकः ।
तदाभासे तु मूले ऽस्य पारम्पर्यात् सवस्तुता ॥
इति ।
न च बाह्यप्रत्यक्षनिवृत्तावेव निर्मूलत्वम्, बुद्धिविकल्पस्यापि निर्मूलत्वप्रसड्गात् ।
तत्र स्वसंवेदनं मूलम्, इहापि मानसमिति न कश्चिद् विशेषः ।
तत्कथमात्मनि प्रत्यक्षप्रतिषेधकं भाष्यमित्यत आह---अहमिति ।
यद्यपि सवस्तुको ऽयं तथापि शरीरप्रत्ययसामानाधिकरण्यात् तद्वस्तुक एवायमित्यपि स्यात् ।
अतो न तदतिरिक्ते वस्तुनि प्रमाणयितुं शक्यते तावद् यावद् देहादिभ्यो भिन्न आत्मा प्रमाणान्तरेण न साध्यत इत्यर्थः ।
तदिदमुक्तम्---द्रागिति ।
घटादिज्ञानवदिति व्यतिरेकिदृष्टान्तः ।
यथा हि घटादिज्ञानं शरीरादिप्रत्ययवैयधिकरण्यात्
तदतिरिक्ते वस्तुनि द्रागेवप्रमाणयितु शक्यते, तथा नेदमित्यर्थः ॥
ननु यदि नाम न द्रागेव, विचारक्रमेण तु प्रमाणयिष्यते ।
तथा हि,
निरूपाधिशरीरबुद्धितत्समुदायालम्बनत्वेन अहं प्रत्ययस्यातिप्रसड्गात् स्वसंबन्धिनि शरीरादावयमहंप्रत्यय इति वाच्यम् ।
तत्रात्मव्यतिरेकेण कः स्वार्थ इति चिन्तनीयम् ।
अनन्यत्वं स्वत्वं सर्वभावानाम् ।
तथा च यदा तेनैव तदनुभूयते तदा प्रत्येतुः प्रत्येतव्यादनन्यत्वादहमिति स्यात् ।
अत एव घटादयो न कदाचिदप्यनन्यानुभवितृका इति न कदाचिदप्यहमास्पदमिति चेत्? एवं तर्हि त्वन्मते ऽप्ययमहमिति प्रत्ययः शरीरादावारोपरूप एव, ततः प्रत्येतुरन्यत्वात् ।
बुद्धौ मुख्य इति चेत्---न, तस्याः क्रियात्वेनानुभूयमानाया भिन्नस्य तत्कर्तुरहं छिनद्मीतिवदहं जानामीत्यनुभवात् नीलादिप्रत्येतव्याकारवत् प्रतिपत्त्राकारो ऽपि प्रतीतेरेवायमात्मा तथा भासत इति चेत्? तर्हि प्रत्येतव्याकारसमानयोगक्षेमत्वेन प्रतिपत्राकारस्यापि सिद्धं नः समीहितम् ।
अस्तु स्वोपादानमात्रमिति चेत्---न, तत्प्रतिभासने तद्गतार्थाकारस्यापि प्रतिभासप्रसड्गात् ।
आकारमन्तरेणाकारिणो ऽनवभासनात् ।
प्रवृत्तिविज्ञानसंतानादन्य एवायं बुद्धिसंतानः प्रतिपत्ता, यमालयविज्ञानमाचक्षत इति चेत्? एवं तर्हि प्रवृत्तिविज्ञानोपादानमनादिनिधनः सिद्धो ऽधिकः प्रतिपत्ता ।
स किं संतन्यमानज्ञानरूपः, तद्विपरीतरूपो वेति चिन्ता परिशिष्यते ।
तस्याश्च रङ्गभूमिः क्षणभङ्गभङ्ग इत्यत आह---परेति ।
दृढतरं विशेषनिष्ठम् ।
स्मृत्या सह पूर्वापरप्रत्यययोरेकविषयत्वमूकज्ञानगोचरत्वम् ।
पूर्वानुभूतितत्कार्यस्मृतितत्कार्यानुभूतीनामेकेनानुव्यवसायेन
एतेन प्रतिसंधानं प्रत्यभिज्ञानं वा स्यात्, कार्यकारणविशेषयोरेकसंताननियमो वा? आद्ये तत्त्वतः प्रत्यभिज्ञानमसिद्धम्, अभिमानतो विरुद्धम्, अविशिष्टमनैकान्तिकम् ।
द्वितीये ऽपि विरोध एवेति निरस्तम् ।
तदाह---तदनेनेति ।
तदत्र प्रतिसंधाने कार्यकारणभावः परेणोपन्यस्तः किमुपाधितया विपक्षव्यावृत्तिसंदेहमुद्भावयितुम्? अथ स्वदर्शने प्रतिसन्धानव्यवस्थां प्रतिपादयितुम्? प्रतिसन्धानस्य तु क्षणभङ्गसाधनमेव बाधनमित्याशयः ।
तत्र प्रत्यभिज्ञानं प्रतिसन्धानमिति गृहीत्वोपाधिलक्षणमपनिनीषान् कार्यकारणभावप्रतिसन्धानयोः परस्परेण व्याप्ति खण्डयति---न हि यत्रेति ।
पुनः बौद्धः ।
न हि कार्यकारणभावमात्रं प्रतिसन्धाननिबन्धनमाचक्ष्महे ।
किं तर्हि? सादृश्यविशिष्टमिति शङ्कते---वस्तुत इति ।
तदिदमुक्तम्, सभागेषु इति ।
एतद्व्यतिरेकव्यभिचारेण दूषयति---तन्नेति ।
विशिष्टो ऽपि कार्यकारणभावो न प्रतिसन्धानं प्रति प्रयोजको यतस्तन्निवृत्तावपि नेदं निवर्तत इत्यर्थः ।
न च सादृश्यमात्रमेवास्तु तन्निबन्धनमिति साम्प्रतम्, भेदग्रहे तस्यापि व्यभिचारात् ।
तदग्रहपक्षस्तु वाच्य इति तमुपेक्ष्यास्मदभिप्रेतं प्रतिसन्धानमादाय शङ्कते---पूर्वापरेति ।
यत्र कर्तरि प्रतिसन्धानं तत्रावश्यं प्रतिसन्धयानां बुद्धीनां कार्यकारणभावः ।
यत्र चैष एवभूतः, तत्रावश्यं कर्तृप्रतिसन्धानमिति न व्यभिचरतीत्यर्थः ।
दूषयति---हन्तेति ।
नैरात्म्यसाक्षात्कारसात्मीभाव इति सर्वज्ञोपलक्षणपरम् ॥
तदयमर्थः, सर्वज्ञस्तावदुभयवाद्यविवादविषयः ।
स किमात्मनः पूर्वापरप्रत्ययानेककर्तृकतया प्रतिसंधत्ते न वा? आद्ये तत्प्रतिसन्धानादेव प्रतिसन्धातुरेकत्वं सिद्धम् ।
ज्ञानानां भेदस्य धियामस्थैर्यस्य सर्वैरेव प्रतीतेः ।
प्रतिसन्धातुः क्षणिकतायाः सर्वज्ञेनाप्यप्रतीतेः ।
अथ न प्रतिसन्धत्ते, न तर्हि कार्यकारणभावनिबन्धनं कर्तर्यपि प्रतिसन्धानम् ।
न ह्यस्ति संभवो यदन्वये ऽपि यस्यानन्वयस्तत् तावन्मात्रनिबन्धनमिति ।
सैव च इत्यादि सोत्प्रासम् ।
व्यर्थ इति ।
स्वनिबन्धनानुवृत्तौ सत्त्वदृष्टेर्दुरपह्नवत्वात् ।
अवश्यं च तस्य प्रतिसंधानेन भवितव्यम् ।
कथमन्यथोपदिशेत्? अवश्यं चोपदेष्टा स्वीकर्तव्यः ।
यदि पारलौकिकेर्ऽथे विप्रलम्भका एव वक्तार इति निश्चयः, संभावनयापि प्रेक्षावन्तो न प्रवर्तेरन् ।
तस्मादुभयथापि प्रतिसन्धातुरेकत्वं सिद्धम् ॥
अत्र शङ्कते---अथासदपीति ।
ततश्च न काषकारणभावो न तस्य निबन्धनम् अव्यभिचारात् ।
नाप्यनुपदेशप्रसङ्गः, तन्निबन्धनस्य प्रतिसन्धानस्य भावात् ।
नापि दोषावकाशः, स्वरसवाहिनस्तस्य तद्धेतुत्वात् ।
अस्य त्वाहार्यत्वादित्यर्थः ।
शङ्कते---न चेति ।
सो ऽयं कार्यकारणाभावे सत्येव द्रष्टव्यः ।
उपदेशस्तु पूर्वप्रतिसन्धानबलोपनीतकरूणाभ्यासप्रकर्षादेव विरोधप्रतिसन्धानबलेन सुप्तस्येव प्रबोध इति शड्कार्थः ।
उत्तरम्---प्रवृत्तीति ।
न च स्फटिकवद् विषयोपरागपरिहारेण बुद्धिषु भेदग्रह इति युक्तम्, स्फटिकवदुपाधिपरिहारेण बुद्धीनां प्रत्येतुमशक्यत्वात् ।
तथाभावे बुद्धिमात्रेण भेदाग्रहे पार्थिवतया वृक्षात् काष्ठं काष्ठादड्गारः, ततो भस्मादिभेदेन न गृह्येत ।
गृह्यते च ।
तस्मान्निमित्तव्यावृत्तौ प्रतिसन्धानं न स्यात्, भवद् वा निमित्तान्तरमाक्षिपतीत्यर्थः ।
न चोपदेशः प्रतिसन्धानमन्तरेण समर्थितः स्यात् ।
स हि विवक्षायोनिः ।
सा च सड्केतितशब्दस्मरणादियोनिः ।
तदेव च प्रतिसन्धानम् ॥
नन्वालयविज्ञानभेदाग्रहात् प्रतिसन्धानं भविष्यतीत्यत आह---आलयेति ।
स ह्यालयसन्तानो ऽहमास्पदं प्रवृत्तिविज्ञानादन्य एव स्यात्, तदन्तःपातिकादाचित्कानेकाहंप्रत्ययरुपो वा? न तावदाद्यः, न ह्यहमहमिकया परस्परस्वतन्त्रसन्तानद्वयमनुभूयते ।
सत्यपि वा परस्परमनुपादानानुपादेयभावान्न परस्परप्रत्याकलितार्थानुसन्धानबन्धः ।
तथात्वे वा चैत्रमैत्रादिष्वपि प्रसङ्गः ।
उभयोर्वा उभयोपादानत्वे एकमप्यनेकाश्रितमिति किमपराद्धमवयविसंयोगादिभिः? न
चालयविज्ञानोपात्तं प्रवृत्तिविज्ञानं न किञ्चिदुपादत्त इत्यपि युक्तम् ।
तथा सति निमित्ततामपि न यायात्, उपादानत्वव्याप्तत्वान्निमित्ततायाः ।
एवं च यदि ज्ञानान्तरमुपाददीत, तदा अपूर्वानन्तसन्तानप्रवृत्तिप्रसङ्गः ।
तस्मान्नालयसन्तान आनुभविको न चौपपत्तिक इत्यर्थः ।
द्वितीये त्वाह---अहमिति ॥
अयमाशयः ।
अस्य हि भेदाग्रहः स्वरूपतो वा स्यात्, विषयतो वा? स्वरूपतो ऽपि पूर्वाहमिति प्रत्ययमात्राद् वा, प्रवृत्तिविज्ञानेभ्यो ऽपि वा? न तावदाद्यः, अहमित्यज्ञासिषम्, अहमिति जानामि, अहमिति ज्ञास्यामीत्यतीतत्वादिप्रतीतेर्भेदनिश्चयमन्तरेणानुपपत्तेः ।
कथञ्चिद् भेदाग्रहे ऽपि तदर्थस्यैव प्रतिसन्धानमुचितम्, न प्रवृत्तिविज्ञानानाम् ।
न च तेभ्यो ऽपि भेदाग्रह इति चोक्तमेव ।
नापि विषयतः ।
स हि स्वाकारो वा स्यात्,
वस्त्वन्तरमेव वा, अलीकं वा? नाद्यः, प्राग्दूषणेनैव गतत्वात् ।
न ह्यनेन स्वाकारः स्वात्मनो भेदेनारोपितः, अपि तु स्वात्मविषय एव दर्शितः ।
तस्य च भेदो निश्चित इति ।
नापि द्वितीयः, स्वयमनभ्युपगमात् ।
नापि तृतीयः, अहमिति विकल्पस्य सवस्तुकतायाः प्रागेव प्रसाधनात् ।
अवस्तुकत्वे ऽपि न तत्र प्रकृतोपयोगिभेदाग्रहसंभवः ।
स हि विद्यमान एव भेदो न गृह्यते, अविद्यमान एव वा, आरोपितो वा, आरोपितासत्त्वो वा? न तावदाद्यः, अलीकस्य अज्ञायमानभेदसम्पत्तावनलीकत्वप्रसड्गात् ।
नापि द्वितीयः, पारमार्थिकस्य भेदाभावस्य पारमार्थिकाभेदपर्यवसायित्वात् ।
न च परमार्थत एव नानाविकल्पोल्लिखितमलीकमेकात्मकम् अनात्मकत्वात् ।
तथात्वे वा क्व भेदाग्रहस्योपयोगः, एकत्वादेवैकत्वेनानुसन्धानात्? नापि तृतीयः, विरोधपराहतत्वात् ।
यदि हि तत्र भेदारोपः, कथं तदग्रहः? तदग्रहे वा कथं भेदारोपः? न च भेदारोपे ऽभेदारोपस्याप्यवकाशः ।
नापि चतुर्थः, आत्माश्रयप्रसंगात्, पारमार्थिकभेदप्रसड्गाच्च ।
घटपटयोर्यो भेदः पारमार्थिकः, शशविषाणनरविषाणयोर्वा यो भेदः काल्पनिकः, स इह न गृह्यते इत्यभेदानुसंधानमिति चेत्---न, अन्यविषयभेदाग्रहे अन्यत्राभेदारोपे ऽतिप्रसड्गात् ।
चतुष्कोटिविनिर्मुक्तव्यपदेश्यभेदाग्रहे त्वभेदारोपे त्रैलोक्यैकतारोपप्रसङ्गः ॥
तत्र भेदग्रहो ऽप्यस्तीति चेत्? तर्हि यथाभूतो भेदः तत्र गृह्यते, तदग्रहे एवाभेदारोप इत्येव साधु ।
न चैतदलीकविषयत्वपक्षे संभवतीति स्थिरवस्तुगोचरत्वम् एव सत्त्वबुद्धेर्ज्यायः ।
क्षणभङ्गस्तु निषेत्स्यत इति भावः ।
तदिदमुक्तरूपं प्रतिसन्धानं निमित्तवत्तया व्याप्तं निर्निमित्तत्वे नियमानुपपत्तेः ।
तच्चानेककर्तृत्वे नास्तीति व्यापकानुपलब्ध्या विपक्षान्निवर्तमानं निमित्तवत्येककर्तृकत्वे विश्राम्यतीति प्रतिबन्धसिद्धिः इत्यनेनाभिप्रायेणोपसंहरति---तस्मादिति ॥
तदेतत्सर्वं बुद्धीनामुपादानोपादेयभावमभ्युपेत्योक्तम् ।
वस्तुतस्तु तत्रैवायं विवादः ।
तथा हि व्यवहितकाला अपि प्रत्यया यद्येककर्तृकाः, क्व बुद्धीनामुपादानोपादेयभावः? स चेत्, क्व तेषामेककर्तृकता? सा ह्येकोपादानतैव ।
न चैकजातीयत्वे सति तदुत्पत्तिः एवोपादानोपादेयभावः ।
शिष्यो पाध्यायबुद्ध्योरपि तथाभावप्रसङ्गत् ।
भेदाग्रहे सतीत्यपि न युक्तम्, समस्तोपाधिस्वीकारपरिहारेण शिष्याचार्यबुद्ध्योरपि भेदाग्रहात् ।
सोपाधिभेदग्रहस्य प्रकृते ऽपि भावात् ।
शरीरभेदाग्रहस्य जन्मान्तरेणव्यभिवचारात् ।
अनुपलब्धपितृकेण बालेन चाति प्रसड्गात् ।
घटकपालक्षणयोरतथाभावप्रसड्गाच्च् ।
एकाधारतानियम इत्यपि न युक्तम्, तस्य वास्तवस्य क्षणिकपक्षे विषयसमयानां क्षणानामभावात् काल्पनिकस्य त्वतिप्रसंजकत्वात् ।
अस्ति हि सर्वेषामभिमानो यत्रैव घटे
गन्धः तत्रैव रूपरसस्पर्शा इति, यत्रैव शरीरं तत्रैव ज्ञानमिति ।
एतेन चाभ्रान्तसमतैकावसायः प्रकृतिविक्रिये ।
ततो
हेतुफलस्योपादानोपादेयलक्षणमिति निरस्तम् ।
काष्ठस्य तु प्रकृतेर्विकृतिरड्गार इति कुतो निश्चितं भवता? यावता वह्नेरेवासौ विकारः किं न स्यात्, वह्निसंबन्धे काष्ठादेव तदुत्पत्तेरिति चेत्---न, काष्ठसंबन्धे वह्नेरेव तदुत्पत्तिरित्येवं किं न स्यात्? पार्थिवं पार्थिवोपादानकमेवेति निश्चयादिति चेत्? कुत एतत्? सभागेषु क्षणेषु तथा दर्शनादिति चेत्? तदपि कुतः? अभ्रान्तसमतैकावसायादिति चेत्---न, नीलपरमाणुषु परस्परप्रत्यासन्नेषु निरन्तरं
ज्ञायमानेषु परस्परोपादानत्वप्रसंगात् ।
अस्ति हि तेषां तदुत्पत्तौ सत्यां ममता आभिमानिकैकत्वावसायश्च ।
पारमार्थिकस्तु न क्वचिदपि ।
अस्तु पिण्डितानां रूपरसपरमाणूनां सर्वेषा सर्वोपादानत्वमित्यपि न युक्तम्, अनेकवृत्तेः एकस्य स्वयमनभ्युपगमात्, सप्रसिधानां समानदेशत्वाभावाच्च ।
एतेन भ्रान्तसंमतैकावसाय इति पाठान्तरमपास्तम्, लौकिकानां भ्रान्तसंमतेस्तत्रापि तुल्यत्वात् ।
परीक्षकाणां तु प्रकृते ऽप्यसत्त्वात् ।
तस्मात् कार्यकारणभावमात्रमवशिष्यते ।
स च नोपाधिरतिप्रसंगात् ।
किञ्चिदेव स्वकारणसामग्रीवशादुत्पद्यते ज्ञानं यत् कांश्चिदेव कारणसान्तानिकान् प्रत्ययान् प्रत्यवेक्षते नान्यत् ।
नापरानित्येतदप्यसाधीयः, नियामकमन्तरेण शिष्यस्याप्युपाध्यायचित्तप्रत्यवेक्षकज्ञानोत्पादप्रसड्गात् ।
तत्र तेषामनभिसंस्कारकत्वात् नैवमिति चेत्? कारणत्वज्ञानत्वाविशेषे ऽप्येतदेव कुतः? विचित्रा हि कारणानां शक्तिः ।
तत्
किमतिनिर्बन्धेन? यत्र यथा कार्यं दृश्यते तत्र तथा कल्प्यत इति चेत्? तत् किमिदानीं किंभूतस्य कुत्र सामर्थ्यमित्यनुयोगो ऽनुत्तर एव ।
एवं तर्हि सर्वत्र ज्ञापकजनकेष्वनाश्वसात् निरीहं जगत् जायेत ।
क्षणभङ्गसाधनबाधितत्वात् प्रतिसन्धानहेतोरेवं कल्प्यत इति चेत्? अथानेनैतत् किं न बाधयते? तस्य निर्देषत्वादिति चेत्? अस्य तर्हि दोषान्तरं वचनीयम् ।
अगृह्यमाणविशेषत्वादस्तूभयोः सत्प्रतिपक्षत्वमिति चेत्? नन्विदमपि ते व्यसनं निवर्तयिष्यामो मा त्वरिष्टा
इत्युपसंहारशेषः ॥
यदि हि सर्वज्ञस्य चेतसो ऽस्मदादिचित्तमालम्बनप्रत्ययत्वेनोदाह्नियते वैसदृश्याद् दण्डघटवन्न प्रतिसंधत्त इत्यपि परिहरेदत उक्तम्---योगिचित्तमपीति ।
तस्यापि योगिचित्तेन प्रतिसन्धानं स्यादिति विपर्ययो हेतुविपर्यासस्यापि संभवात् ।
तस्यापि योगिचित्तेन प्रतिसन्धानं स्यादिति विपर्ययो हेतुविपर्यासस्यापि संभवात् ।
सहार्थे वा तृतीता ।
इहानुभवो वा कालान्तरभाविनीं स्मृतिं जनयति, जज्जनितो वा संस्कारः? सो ऽप्यतीन्द्रियो ऽध्यक्षसिद्धो वा? अतीन्द्रियो ऽपि तत्कालस्थायी, संतन्यमानो वा? अध्यक्षासिद्धो ऽपि तदुत्तरबुद्धिधारारूपो वा, तदन्यो वा, तद्विशेषो वा? विशेषो ऽप्यनुभवप्रसवत्वमात्रं वा, अनुभवितृसन्तानवैजात्यं चेति? तत्र प्रथमं दूषयति---न ह्यजातेति ।
अध्यक्षसिद्धस्तु तदुत्तरबुद्धिधारारूपात्, अन्यस्तावदनुपलब्धिबाधितः, तैरनभ्युपगतश्च ।
अनुभवप्रभवतामात्रलक्षणस्तु विशेषो ऽविशेष एव ।
न हि कर्मकरकरोपनीतम् एव बीजं क्षितिमासाद्यड्कुरं कुरुते ।
न तु तथाभूतमपि प्रमादपतितम्, तथा नीलाद्यनुभवसन्तानः पीताद्यनुभवेन वोपनीयताम्,
नीलाद्यनुभवेनैव वेति न कश्चित् स्वरूपकृतो विशेषः ।
एवं चाननुभूते ऽपि स्मरणप्रसड्गो न चानुभूते ऽपीति वैजात्यं तु विशेषो भवेत् ।
यथा क्षीरावसेकादम्लत्वं परिहृत्य माधुर्यमादायानुवर्तमानामलकी कालान्तरे अपि फले माधुर्यमुन्मीलयति, लाक्षारसावसेकाद् धवलतां परिहृत्य रक्ततामुपादायानुवर्तमानं कार्पासबीजं कुसुमेषु रक्तताम्, न चैवं प्रकृते संभवति ।
जवाकुसुमाद्युपधानात् तद्रूपतां परिहृत्य धवलिमानमुपादायैव संतन्यमानस्य स्फटिकस्येव ज्ञानस्यापि विषयोपरागं परिहृत्य चिद्रूपतामात्रमुपादायानुवृत्तेः ।
सर्वाकारत्वमेव सर्वविज्ञानानां किं तु कश्चिदाकार ः
स्फुटः, अन्ये त्वपटव इति तु स्वदर्शनश्रद्धा, यतो विरुद्धधर्माध्यासादपि न भीः ।
निराकारपक्षे ऽपि यावानर्थो बुद्धेर्विषयस्तत्र स्फुटैव सा ।
यत्र त्वस्फुटा नासौ तस्या विषयः ।
तथात्वे वा विषयेतरव्यवस्था न स्यात् ।
तस्मादतीन्द्रियः संस्कारः परिशिष्यते ।
स चेत् कालान्तरस्थायी, नूनं तदुपादानमपि तथैव स्थायि ।
न ह्युपादाननिवृत्तावपि उपादेयमवतिष्ठत इत्याशयवानाह---इति पूर्वोत्पन्न इति ।
संतन्यमान एवातीन्द्रियः संस्कारो भविष्यतीत्याशयवानाशङ्कते---पुनः पर इत्यादि ।
पृथक्संस्कारसन्तानो हि न तावत् पराभ्युपेतो नाप्युपपन्नः, आलयस्य प्रागेव प्रतिषेधात् ।
ततो ऽप्यधिकत्वे तत्रैव स्मृत्यादिफलप्रसड्गात् ।
तस्मात् प्रवृत्तिसन्ताने फलानवकाशात् अन्यत्र संस्कारे ऽन्यत्र फले ऽतिप्रसड्गात् ।
तस्माद् प्रवृत्तिसन्ताने फलानवकाशात् अन्यत्र संस्कारे ऽन्यत्र फले ऽतिप्रसड्गात् ।
तस्माद् प्रवृत्तिसन्ताने फलानवकाशात् अन्यत्र संस्कारे ऽन्यत्र
फले ऽतिप्रसड्गात् ।
तस्माद् यत्रानुभवस्तत्र संस्कारः, यत्र च स तत्र स्मृत्यादिफलमिति परमुपपद्यते ॥
एवं च क्षणभङ्गसाधनं प्रतिरोधकमवशिष्यते ।
तत्राह---उपपादयिष्यते हीति ।
एतेन यो यः संस्कारः क्वचित् सन्तान आहितः, स तत्रैव फलदानयोग्यो नान्यत्रेत्यादि निरस्तम्, अतिरिक्तस्य संस्कारस्याश्रयासिद्धत्वात्, विशेषलक्षणस्य च स्वरूपासिद्धत्वात्, अविशिष्टोत्तरकार्यप्रवाहलक्षणस्य च विरुद्धत्वादिति ।
अनित्यत्वस्य हेतोर्विशेषव्यावर्तकत्वोत्कीर्तनं गुणत्वसिद्ध्युपयोगात् ।
अत एव नेतरेतराश्रयत्वशङ्का,
अनित्यत्वेन पारतन्त्र्यं साधयित्वा तेन गुणत्वप्रसाधानात् ।
गुणत्वं तु यदर्थं साधितम्, तत् तत्साधकेनैव साधितमिति वैयर्थ्यमवशिष्यते ।
तदुपसंहरति---तस्मादिति ।
ननु यदि वैयर्थ्यमस्य हृदि निहितमेव वार्त्तिककृता, तत् किमथममुमेव हेतुमुपन्यस्तवानित्यत आह, तदपि पूर्वमूक्तम्, न तु प्रसाधितम् ।
न चासिद्धं साधनं नामेति कृत्वा इति गर्भशोषः ॥
अयमर्थः ।
यथा अनित्यत्वं द्रव्यपारतन्त्र्याविनाभूतम्, तथा गुणत्वमपि ।
यथा च तदिच्छदिषु, तथा गुणत्वमपीति ।
न तावदनयोः साधनत्वं प्रति कश्चिद् विशेषः ।
केवलमनुमानकालाभावो विवक्षितः ।
सो ऽपि नास्ति, एकहेतुसिद्धे ऽपि हेत्वन्तरजिज्ञासुं प्रति भावात् ।
अननुसंहितानित्यत्वमपि तल्लक्षणयोगन गुणत्वव्यवहारिणं प्रति च ।
दृश्यते हीच्छादीनां सामान्यवतामचलनात्मकानां गुणान्तरायोगः ।
अत्र विप्रतिपत्तौ त्वनित्यत्वादेरूपन्यासः ।
तदयमपेरर्थः ।
अनित्यत्वेन पारतन्त्र्यमपि साधयति, तत्साधकं गुणत्वमपीति ।
उत्तरप्रबन्धोपयोगमाह---न चैतदिति ।
द्रव्यपारतन्त्र्येण विशेषितेनेति शेषः ।
तदेतद् विशेषणं कुतः सिद्धमित्यत आह---यद्यपीति ॥
अयमाशयः ।
प्रत्यक्षग्रहणयोग्यास्तावदस्यावयवाः प्रत्यक्षानुपलम्भेनैव निरस्ताः ।
अतीन्द्रियेष्वनुमानं प्रमाणम्, तच्च द्विविधं समव्याप्तिकमसमव्याप्तिकं चेति ।
तत्र यद्यपि द्वितीयस्य निवृत्तौ न साध्यनिवृत्तिः, तथापि प्रथमस्य निवृत्ताववश्यं निवर्तेत ।
तथा हि, क्वचिदुपलभ्यमानस्पर्शवत्तया दुव्यस्यारम्भकत्वं कल्प्येत ।
आरम्भके सति च तत् कार्यद्रव्यं सावयवं व्यवस्थाप्येत, वायुवत् ।
न चेह क्वचिदुपलभ्यमानस्पर्शवत्तास्तीति नारम्भसंभवः, तदभावे न सावयवत्वमाकाशवत् ।
तदिदमुक्तम्---तदवयवकल्पनायां प्रमाणाभावेनेति ।
न तावदण्विति ।
व्यापकमित्यर्थः, विशेषनिषधस्य शेषाभ्यनुज्ञाविषयत्वात् ।
कुत इत्य आह---तत्र तत्रेति ।
तथा सत्येव हीच्छादीनां सार्वत्रिकत्वमुपपद्यते यत इत्यर्थः ।
तदुपपादयति--क्वचिदिति ।
अन्यतरत् शरीरादि ।
क्वचित् स्वभावतः कार्यद्रव्योत्पत्तेरारभ्य तत्करणसंयोगादेः ।
अथ गतेरेव किं न तं तमाप्नोतीत्यत आह---गतिकल्पनायां प्रमाणाभावात् ।
गतिकल्पनाप्रमाणं हि मूर्तिः ।
तया अपरिदृश्यमानापि गतिः कल्प्यते मनसि परमाणुषु च ।
तदभावश्चात्मनि ।
तथा हि, न परमाण्वाश्रया इच्छादयः, अनित्यत्वे सत्यस्मदादिप्रत्यक्षत्वात्, शब्दवत् ।
निरवयवद्रव्याश्रितत्वं च साधयता सावयाश्रितत्वं प्रागेव निरस्तम् ।
अतो ऽमूर्तत्वान्न गतिसंभवो मूर्तेर्गत्या समव्याप्तिकत्वादिति पूर्ववन्नेयम् ॥
ननु नैतदेकमपि वार्त्तिकस्थमित्यत आह---तदेतदादिग्रहणेति ।
ननु तथापि किमनया कष्टसृष्ट्या, यावता गुणत्वमन्यथाप्यमीषां साधयितुं शक्यम्? तथा हि इच्छादयो गुणा अनित्यत्वे सत्येकेन्द्रियग्राह्यजातिमत्त्वात्, रूपादिवदित्यादिना इत्यत आह---तदनयेति ॥10 ॥
॥ परिशुद्धिः ॥
यस्य कृते ऽपवर्गो मृग्यते स तावल्लक्षितः ।
अथेदानी पुरुषस्यापेक्षिततमत्वात् अपवर्गो लक्षयितुमुचितः ।
तत् किमन्तराले शरीरादिलक्षणमित्यत आह---आत्मानमित्यादि ।
अपवर्गस्याभावरूपत्वात् प्रतियोग्यधीननिरूपणतया दुःखादपकर्षः ।
तस्यापि हेत्वधीनोत्पत्तिकतया तद्धेतुरूपेभ्य इन्द्रियादिभ्यो ऽपकर्षः ।
तेषामपि शरीरमाश्रित्य तथाभावात् शरीरादपकर्ष इति संगतिसंक्षेपः ।
साक्षात् शरीरमाश्रित्येति ।
इन्द्रियाणां मनसः अंशतोर्ऽथादेः परम्परया तु शरीराश्रितत्वम् ।
बुद्धेर्देषाणामर्थाद्यंशस्य च ।
अस्मिन्नेवार्थे भाष्यम् इत्याह---तदवतारायेति ॥
अत्र हि चेष्टायाः शरीराव्यभिचारपक्षे अर्थेन्द्रियसमुच्चयो ऽनुपपन्नः, सम्भवे व्यभिचारे च विशेषणस्यार्थवत्त्वात् ।
समुच्चयपक्षे व्यभिचारदर्शिनः कथं चेष्टाश्रय इति प्रश्नो ऽनुपपन्नः, प्रत्येकव्यभिचारे सत्येव हि समुच्चयसम्भवात् ।
अतो विकल्पं गृहीत्वा भाष्यमुत्थापयति---अत्रेति ।
यद्यपि चेष्टा कायव्यापारस्तथापि तस्यैव लक्ष्यत्वादितरेतराश्रयभिया व्यापारमात्रं वक्तव्यमित्याह---चेष्टा व्यापार इति ।
प्रयुक्तस्य इति सतात्पर्यं पदम् ।
अतो व्याचष्टे---प्रयुक्तस्योत्पादितप्रयत्नस्येति ।
तेन कारणद्वारा चेष्टानिरूक्तिः ।
प्रयत्नवदात्मसंयोगासमवायिकारणान्त्यावयविक्रिया चेष्टा ।
फलद्वारा तु हिताहितप्राप्तिपरिहारफलेति ।
तदिदमुभयं विवक्षतोक्तम्---अपि तु विशिष्टो व्यापार इति ।
तेन फलद्वारनिरूक्तौ व्यभिचारोदाहरणम् ।
दारूयन्त्रादिकारणद्वारनिरूक्तौ तु प्राणाख्यो वायुः ।
मनःकरचरणादयस्तु अन्त्यावयविपदेनैव निरस्ताः ।
तत्रोभयव्यभिचारमुद्भावयन् दारूयन्त्रादीत्यहा ।
द्वयमपि परिहरति---मूर्तान्तरेति ।
अत्र च स्पर्शवद्द्रव्यपरिमाणं मूर्तिरिति परलक्षणाभिप्रायेण मूर्तिशब्दः प्रयुक्तः ।
तेन च स्पर्शवद्द्रव्यान्तराप्रयोगे सतीत्यर्थः ।
प्रयोगश्च क्रियौपयिको गुणः ।
स च दारूयन्त्रादौ नोदनादिः ।
प्राणे तु प्रयत्नः ।
तेन यद्यपि शरीरस्य प्रयोजकं मनो ऽस्त्येव, तथापि न तत् स्पर्शवत् ।
यद्यपि च शरीरेणापि तत्र प्रयत्यते, तथापि न तत् ततो ऽन्यत् ।
तदिदम् अन्यरग्रहणफलम् ।
अतो नासिद्धं विशेषणमिति ।
एतच्च यथाश्रुतं भाष्यवार्त्तिकानुरोधेन विशेषणम् ।
आगामिवार्त्तिकपर्यालोचनायां तु चेष्टाशब्द एवायमेवम्भूतेर्ऽथविशेषे वर्तत इति न न्यूनं सूत्रमाशङ्कनीयम् ।
पाषाणेत्यादि ।
न च तस्यापि प्राणित्वेनोच्छ्वासनिःश्वासानुमानात् नयनोदराद्यवयवसंकोचविकाशलक्षणा चेष्टास्तीति वाच्यम्, उच्छ्वासनिःश्वासावकाशाभावात् अन्त्यावयविनो निष्क्रियत्वाच्च ।
अपि च मृतशरीराव्याप्तिपरिहाराय योग्यतैव शरणम् ।
न चोदाहरणमादरणीयमिति ॥
ननु यद्यपीन्द्रियाणि शरीरे न समवयन्ति, तथापि संयुज्यन्ते ।
तावतैव आश्रयार्थ उपपन्न इत्यतो वार्त्तिककारस्य भावमाविष्करोति---संयोगितया त्विति ।
यद्यपि गोलकस्याभिधाते ऽपि चक्षुरूपहन्यते तदनुग्रहे चानुगृह्यते, तथापि विशेषानुपादानात् सर्वेन्द्रियाभिप्रायमेतद् द्रष्टव्यम् ।
न हि गोलकमात्रस्योपधाते ऽनुग्रहे वा त्वगादीन्युपहन्यन्ते अनुगृह्यन्ते वा ।
यथा जरायौवनादिना शरीरोपघातानुग्रहाभ्यां सर्वाणि विकलायन्ते पटूनि वा सम्पद्यन्त इति ।
तदेतद् भाष्यवार्त्तिककाराभ्यामेवानुगृह्यन्ते उपहन्यन्त इति बहुवचनप्रयोगेण स्पष्टं दर्शितमित्युपेक्षितवान् ।
न स्वरूपेण शरीरम् आश्रयन्त इति ।
अव्याप्त्यतिव्याप्ती विहायेति शेषः ।
ननु सुखाद्युपलब्धिहेतुत्वमर्थानां कार्योपहितं रूपम्, न तु तदेव कार्यमित्यत आह---प्रयोजनं तदधिकारेण तत्र प्रवृत्तेरिति ।
तदयं लक्षणार्थः ।
यदवच्छिन्ने आत्मनि अर्था भोगं जनयन्ति तच्छरीरम् ।
तेन नात्मना व्यभिचारः ।
न
ह्यात्मात्मनैवावच्छिद्यते ।
नापि मनसा, तस्य शरीरानवच्छेदेन प्रवृत्तेरभावात् ।
नापीन्द्रियैः, तदवच्छेदेन तत्र भोगोत्पत्तौ बहिरपि भोगप्रसङ्गदिति ।
तदेतत् तस्य भोगधिष्ठानमिति वदता भाष्यकृता एव प्राक् दर्शितं स्फुटमिति
नेह वितन्यते ।
चोदयतीति ।
अर्थगतिं समर्थ्य शब्दगताविति शेषः ।
चेष्टादयः सामान्यशब्दा इति वार्त्तिके बहुवचनं दृष्टान्तब्रह्मणादिशब्दान्तर्भावेन ।
आश्रयशब्दावृत्तिभेदविवक्षया वेत्यतो मन्दाशङ्कत्वादुपेक्षितम् ।
अशेषब्राह्मणभोजनस्याशक्यत्वादित्यनुपपत्तिवर्णनं सम्पातायातमस्य पक्षस्याग्रे वर्णनीयत्वात् ।
अत एव तदुपेक्ष्य प्रकृतोपयुक्तं विवृणोति---विशेषेणेति ।
बुभुक्षितत्वादिना सन्निधीयमानमित्यनेन सम्बन्धः ।
अत्रानयोः प्रकरणादीत्यादिपदसंगृहीतयोर्मध्य इत्यर्थः ।
प्रमाणासम्भवो ऽनुपपत्तिर्बाध इत्यर्थः ।
यस्यापि प्रमाणेन शरीरत्वं बाधितं भवति, तत्रापि व्यापारश्रयत्वं गतमिति ॥
अथ समवायाभिप्रायेणेति ।
अत्र हीन्द्रियाश्रय इति षष्ठीतत्पुरुषो बहुव्रीहिर्वा ।
तत्र समवायाभिप्रायेणोभयं दूषयति---तथापीति ।
उपलक्षणं चैतत् ।
शरीरस्येन्द्रियेष्वित्यपि द्रष्टव्यम् ।
प्रथमपक्षे मूर्तानां समानदेशताप्रसड्गात्, एकस्य द्रव्यस्य अनारम्भकत्वात्, पृथिव्या अबादिद्रव्यानारम्भकत्वाच्च ।
द्वितीयपक्षे तु विजातीयानाम् अनारम्भकत्वात् ।
श्रोत्रमनसोर्द्रव्यानारम्भकत्वादित्यर्थः ।
इन्द्रियविशेषं गृह्णाति---घ्राणस्येति ।
श्लिष्टं वाक्यम् ।
अत्रायमनुयोगः ।
शरीरावयवान्तरेण घ्राणस्य समवायो वा संयोगो वा? प्रथमे ऽपि द्वयी गतिः, घ्राणस्य वा शरीरावयवे समवायः, तस्य वा घ्राण इति ।
तदेतदनुयोगद्वयमभिप्रेत्याह---न तस्येति ।
शरीरावयवसमवायिकारणत्वेन शरीरे ऽसमवायात् ।
न हि कारणं कार्यकार्ये समवैतीत्यर्थः इति षष्ठतत्पुरुषपक्षे ।
बहुव्रीहिपक्षे ऽपि शरीरस्यासमवायात् ।
न हि कारणकारणे कार्यं समवैतीत्यर्थः ।
घ्राणस्य शरीरावयवे समवाय इति तु न सम्भवत्येव, मूर्तयोरेकाश्रयत्वानुपपत्तेरित्यत्र टीका स्फुटा ।
संयोगपक्षं गृह्णाति---अथ तदाधारमिति ।
तत्र संयुक्तमित्यर्थः ।
अत्रापि द्वयीगतिः, आरम्भकतया अनारम्भकतया वा ।
तत्र प्रथमं दूषयति---तथापीति ।
आरभ्यमाणं हि द्रव्यमैन्द्रियकैरेवावयवैरारभ्यते यथा घटः ।
अतीन्द्रियैरेव वा यथा द्व्यणुकादिकम् ।
न तु मिश्रैरिति व्याप्तिः, तामुपोब्दलयितुमप्रत्यक्षत्वप्रसङ्ग उक्तः ।
अनारम्भे तु संयोगिद्रव्यमात्र स्यात् केशादिवत् ।
तथा च न तत्र शरीरसमवायसम्भव इति किमनेन शड्कितेनापीत्युपेक्षितवान् ।
एतेन शरीरसमवेतमेतदिति निरस्तम्, अतीन्द्रियद्रव्यस्यैन्द्रियकेणानारम्भात्, एकद्रव्यस्य च द्रव्यस्याभावात् ।
अल्पपरिमाणस्य महतानारम्भात् ।
शरीरव्यापकत्वे च तस्य सर्वत्र गन्धोपलब्धिप्रसड्गात् ।
अपि चेति ।
यद्यर्थशब्दो रूपादिमात्रवचनः, तदैवं दूषणम् ।
यदा त्विन्द्रियविषयवचनः, तदा वायवीयशरीराव्याप्तिः ।
योगिनस्तदपि तथेति यदि तदेन्द्रियपरमाणुभिरेव व्यभिचारः, तेषामपि तथाभावादिति ।
तदेतत्सर्वं शब्दगतिमुपेक्ष्य चर्चितम् ।
परमार्थतस्तु यदि द्वन्द्वानन्तरं बहुव्रीहिः क लिङ्गसङ्गतिरर्थसङ्गतिश्च? अथ प्रथमत एव बहुव्रीहिः क्कैकपद्यमिति? ॥11 ॥
॥ परिशुद्धिः ॥
इन्द्रियस्येति ।
केनचिदुपाधिना शरीरादीनामेव फलत्वमिति स्वभाविकरूपप्रतीत्यधीनत्वाच्चौपाधिकरूपप्रतीतेः तेभ्यः फलस्यापकर्षः ।
शरीरादीनामेव धर्मः प्रेत्यभावो धर्मिनिरूपणाधीनत्वाच्च धर्मस्य तेभ्यः प्रेत्यभावस्यापकर्षः ।
अर्थादीनां दोषान्तानां शरीरमाश्रित्य दुःखहेतुत्वाविशेषे ऽपि परम्परया शरीराश्रियत्वादिन्द्रियाणां तु साक्षात् तथाभावादेभ्यस्तेषामपकर्षः ।
मनसस्त्वेवंरूपत्वे सत्यपि बाह्येन्द्रियवैधर्म्यज्ञापनार्थत्वात् बुद्धिक्रमानुमेयत्वाच्च बुद्धेः सकाशादपकर्षः ।
तदिदमुक्तम्---उपनायकत्वेनेति ।
साक्षाच्छरीरमाश्रित्य प्रतिनियतविषयाद्युपनयद्वारा दुःखहेतुत्वेनेत्यर्थः ।
शरीरसंयुक्तं सदिति शेषः ।
अतो नोभयावधारणे भागासिद्धमसिद्धं वेति दोषः ।
सर्पमणिप्रदीपादीनां तु संस्कारपदेनैव निरासः ।
एतावांस्तु विशेषो यदञ्जनादीनामिन्द्रियसंस्कारकत्वम् ।
प्रदीपादीनां तु विषयसंस्कारकत्वमिति ॥
ननु भाष्यकृद् आह---भोगसाधनानीति, तत्कथमेतत् तेन सूचितमित्यत आह---साक्षादिति ।
यद्यपि भुज्येत
इति भोगौ सुखदुःखे इति साक्षादेव भोगसाधनत्वं सर्वेषां सम्भवति, तथापि भोगो बुद्धिरिति तत्र तत्र भाष्यदर्शनात् तदनुसारेण व्याचष्टे---पारम्पर्येण चेति ॥
यथा च सामान्यलक्षणमन्तरेण न विशेषलक्षणावसरः, तथा विभागमन्तरेणापीति सो ऽपि वक्तव्यः स्यात् ।
तदेतदेवंलक्षणकमिन्द्रियं बाह्यमाभ्यन्तरं चेतीन्द्रिप्रकरणात् मनो ऽन्यत्र नयता सूत्रकृता एव सूचितम् ।
बाह्यमपि पञ्चधेति ।
गन्धरसरूपस्पर्शशब्दा इति प्रतिनियतार्थविभागं कुर्वता सूत्रकृता एव दर्शितम् ।
यदि ह्यपरमपि बाह्यम् इन्द्रियं स्यात्, कथं पञ्चैव प्रतिनियता विषया इति तदेव व्यवच्छेद्यं दर्शयन्नेव मनाक् स्मारयति,
रसनादि प्रतिनियतविषयम्, मन आदि सर्वविषयमिति च ।
आदिग्रहणेन आत्मशरीरे ।
न त्वात्मादिप्रमेयोद्देशसूत्रे सामान्येनेन्द्रियमात्रमुद्दिष्टम् ।
इह तु घ्राणेत्याद्युच्यते ।
तत् कथं ततो न विशेष इत्यत आह---प्रमाणाद्युद्येशेनेति ।
उद्देशविशेषेण ।
अथ विभागसूत्रत्वे ऽपि लक्षणसूत्रं किं न स्यात्? न ह्यनयोः कश्चिद् विरोध इत्यत आह---लक्षणं हीति ।
ज्ञातं चोद्दिश्यते विधिविषयतया अनूद्यत इत्यर्थः ।
अज्ञातं च विधीयते ज्ञाप्यत इत्यर्थः ॥
परार्थानुमाने विरोधमुक्त्वा स्वार्थानुमाने ऽप्याह---नापि लक्ष्यलक्षणत्वे इति ।
लक्ष्यस्य पक्षरूपतया साध्यत्वात्, लक्षणस्य च लिङ्गरूपतया सिद्धत्वादित्यर्थः ।
तथापि कथमेभ्य एव पदेभ्यो विवक्षितोभयलाभ इत्यत आह---अत्र चेति ।
क्वचित् क्वचित् सामान्यविशेष इति ।
जातिरूपे साधर्म्यरूपे चेत्यर्थः ।
तेन श्रोत्रपदमप्यवयवार्थं निमित्तीकृत्य नभसो विशिष्टादृष्टोपगृहीतकर्णशष्कुल्यवच्छिन्नत्वे वर्तत इति ।
तर्हि योग एवास्त्वित्यत आह---अवयवार्थयोगे ऽपीति ।
तथाप्युभयाभिधायकत्वाविशेषे कथं लक्ष्य--लक्षणपदव्यवस्थेत्यत आह---तथा चेति ।
ननु केवलेनावयवार्थेन लक्षणे अतिव्याप्तिः, घ्राणत्वादिसहितेन तु इतरेतराश्रयत्वमित्यत आह---न चेति ।
सामान्यलक्षणयुक्तस्येति ।
यावता व्यभिचारो निवर्तते तावदुपलक्षणपरम्, न तु समुच्चितं पदं निरूच्यते त्वक्पदं त्वनवयवं वृद्धिक्षयवद्द्रव्यसहजावरणमात्रे वर्तत इत्यभिप्रायवता भाष्यकृता लक्षणं तद्बीजं च दर्शितम् ।
तथापि न प्रकृतसिद्धिः ।
न ह्येवमपि लक्ष्य-लक्षणव्यवस्था सिध्यतीत्यत आह---निर्वचनग्रहणेनेति ।
क्रियात्वादिति कार्यत्वाद् इत्यर्थः ।
संयोगाधारत्वादिति ग्राह्यस्य मृगमदादिगन्धस्य तत्रासमवायात् मृगमदादीनां स्वावयवसमवायेन समवेतसमवायाभावात् ।
स्वातन्त्र्येण ग्रहे विशेषणत्वाभावत् अप्राप्तस्य चाग्रहणात् ।
इतरसन्निकर्षत्रयस्य संयोगगर्भत्वात् संयोगः सिद्ध एवेत्युपक्रमः ।
अथ को नियमार्थः? किं यज्जातीयं यदिन्द्रियं तत्तज्जातीयस्यैव गुणविशेषं गृह्णाति? अथ यज्जातीयं यदिन्द्रियं तज्जातीयस्य तेनैव गुणविशेषो गृह्यते इत्यत आह---न चैवमिति ।
यद्यपि प्रथममप्यवधारणं घ्राणश्रवसोः संभवति, तथापि रसनादिषु व्यभिचारात् तदुपेक्ष्योत्तरं ग्रहीतव्यमित्यर्थः ।
तथापि भूतेभ्य इति सूत्रपदस्य किं तात्पर्यम् इत्यत आह---अनेन खल्विति ।
यद्यपि विशेषसिद्धिरेव शेषं निषेधति, तथापि विपर्यये बाधकं वक्तव्यमित्यत आह---निराकरणहेतुमाहेति ।
न त्वेकप्रकृतिकत्वमाह सांख्यो न त्वेकस्वाभाव्यमिन्द्रियाणामित्यत आह---श्लिष्टं पदमिति ।
एकः पाक्यः ।
सर्वसाधारण इति शेषः ।
एवमुत्तरत्रापि ।
स्तोकभृयस्वनिःशेषत्वेन इति, प्रारब्धपाकापेक्षया ।
तथा च लक्ष्यहानिरिति---न ह्यस्ति संभवो निर्हेतुको व्यवहार इति भावः ॥12 ॥
॥ परिशुद्धिः ॥
इन्द्रियप्रकृतित्वं बाह्येन्द्रियप्रकृतित्वमिति ॥13 ॥
॥ परिशुद्धिः ॥
प्रवृत्तेर्देषापकर्षे मनस प्रवृत्त्यपकर्षे वक्ष्यते ।
बुद्धेर्मनो ऽपकर्षे चोक्तम् ।
विषयनिरूपणीयत्वाच्चर्थेभ्यो बुद्धेदपकर्षः ।
ततोर्ऽथलक्षणमेव क्रमप्राप्तमित्याह---क्रमप्राप्तमिति ।
सूत्रे विभागभागस्यापि विद्यमानत्वात् ।
श्लिष्टं तु शब्दार्थमाह---येषामिति ।
येषाम् उक्तलक्षणयोगस्त हमे विभज्यन्त इत्यर्थः ।
येषां मिथ्याज्ञानविषयीकृतानां निमित्तानुव्यञ्जनसंज्ञाविषयीकृतानां संसारहेतुत्वं त हमे लक्ष्यन्त इत्यर्थः ॥
तत्र चाद्ये पदे विभागपरे ।
ततस्तदर्था इति लक्षणपदं चेत्, लक्ष्यपदं नास्ति ।
लक्ष्यपदं चेत्, लक्षणं नास्ति इत्यत
आह---अत्र चेति ।
अर्थानिमित्तानुव्यञ्जनसंज्ञाविषयतया संसारहेतव इत्यर्थः ।
के ते? य इन्द्रियाणामर्था विषया इत्यर्थः ।
आगामिनो वार्त्तिकस्य भाष्येण विरोधं परिजिहीर्षुराह---न षष्ठीति ।
घ्राणादयः शब्दा इति शेषः ।
व्यधिकरणबहुव्रीहौ न केवलं लक्षणाभावः प्रयोजनाभावश्चेत्याह---न चेति ।
तदर्था इति लक्षणमव्यापकं स्यादिति ।
यदि वाय्वादयः परमार्थतोर्ऽथा इति शेषः ।
आदिग्रहणेन वाय्वादिसंग्रहे लक्षणविभागयोर्व्याघात इत्यर्थः ॥
एतेषां चेत्यादि ।
तद्यथा, दन्तौष्ठमित्यनुरागः ।
अस्थिमांसमिति वैराग्यम् ।
श्यामेति हर्षः ।
पाकजमिदं मांसपार्थिवरूपमिति माध्यस्थम् ।
मुखामोद इति प्रमोदः ।
औपाधिको ऽयमस्य, सहजस्तु पूतिरिति वैमुख्यम् ।
अहो
मधुरमिदम् एतन्मुखावर्जितं ताम्बुलमिति प्रवृत्तिः ।
उच्छिष्टमिदमिति निवृत्तिः ।
प्रेयसीस्पर्श इत्युत्सवः ।
मूल पाठ: Nyāyavārttikatātparyapariśuddhi 1 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0