भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र (टीका सहित) · अध्याय 9

9.1

॥ इति वात्स्यायनविरचिते न्यायभाष्ये चतुर्थाध्यायस्य प्रथममाह्निकं समाप्तम् ।
अथ न्यायभाष्यचतुर्थाध्यायस्य द्वितीयमाह्निकम्
किं नु खलु भो यावन्तो विषयास्तावत्सु प्रत्येकं तत्त्वज्ञानमुत्पद्यते ? अथ क्वचिदुत्पद्यते ? इति।
कश्चात्र विशेषः ?, न तावदेकैकत्र ।
यावद्विषयमुत्पद्यते-- ज्ञेयानामानन्त्यात्, नापि क्वचिदुत्पद्यते-- तत्र नोत्पद्यते तत्रानिवृत्तो मोह इति मोहशेषप्रसङ्गः-- न चान्यविषयेण तत्त्वज्ञानेनान्यविषयो मोहः शक्यः प्रतिषेद्धुमिति।
मिथ्याज्ञानं वै खलु मोहो न तत्त्वज्ञानस्यानुत्पत्तिमात्रं तच्च मिथ्याज्ञानं यत्र विषये प्रवर्तमानं संसारबीजं भवति स विषयस्तत्त्वतो ज्ञेय इति।
किं पुनस्तन्मिथ्याज्ञानम् ?, अनात्मन्यात्मग्रहः ।
अहमस्मीति मोहो ऽहङ्कार इति. अनात्मानं खल्वहमस्मीति पश्यतो दृष्टिरहङ्कार इति।
किं पुनस्तदर्थजातं यद्विषयो ऽहङ्कारः ?, शरीरेन्द्रियमनोवेदनाबुद्धयः।
कथं तद्विषयो ऽहङ्कारः संसारबीजं भवति ?, अयं खलु शरीराद्यर्थजातम् अहमस्मीति व्यवसितः तदुच्छेदेनात्मोच्छेदं मन्यमानो ऽनुच्छेदतृष्णापरिप्लुतः पुनः पुनस्तदुपादत्ते तदुपाददानो जन्ममरणाय यतते तेनावियोगाद् नात्यन्तं दुःखाद्विमुच्यते इति।
यस्तु दुःखं दुःखायतनं दुःखानुषक्तं सुखं च सर्वमिदं दुःखमिति पश्यति स दुःखं परिजानाति परिज्ञातं च दुःखं प्रहीणं भवति-- अनुपादानात् सविषान्नवत्, एवं दोषान् कर्म च दुःखहेतुरिति पश्यति।
न चाप्रहीणेषु दोषेषु दुःखप्रबन्धोच्छेदेन शक्यं भवितुमिति दोषान् जहाति. प्रहीणेषु च दोषेषु न प्रवृत्तिः प्रतिसंधानायेत्युक्तम्, प्रेत्यभावफलदुःखानि च ज्ञेयानि व्यवस्थापयति कर्म च दोषांश्च प्रहेयान्, अपवर्गो ऽधिगन्तव्यस्तस्याधिगमोपायस्तत्त्वज्ञानम्. एवं चतसृभिर्विधाभिः प्रमेयं विभक्तमासेवमानस्य ।
अभ्यस्यतः ।
भावयतः सम्यग्दर्शनम् ।
यथाभूतावबोधः ।
तत्त्वज्ञानमुत्पद्यते ॥
********************** न्य्स्भ्_4,2.1 **********************
एवं च---
न्य्स्_4,2.1: दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः ॥
शरीरादि दुःखान्तं प्रमेयं दोषनिमित्तम्, तद्विषयत्वान्मिथ्याज्ञानस्य तदिदं तत्त्वज्ञानं तद्विषयमुत्पन्नम् अहङ्कारं निवर्तयति-- समानविषये तयोर्विरोधात्. एवं तत्त्वज्ञानात्"
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग 1-1-2"
इति, स चायं शास्त्रार्थसंग्रहो ऽनूद्यते नापूर्वो विधीयते इति

9.2

********************** न्य्स्भ्_4,2.2 **********************
प्रसख्यानानुपूर्व्या तु खलु---
न्य्स्_4,2.2: दोषनिमित्तं रूपादयो विषयाः संकल्पकृताः ॥
कामविषया इन्द्रियार्था इति रूपादय उच्यन्ते. ते मित्या संकल्प्यमाना रागद्वेषमोहान् प्रवर्तयन्ति तान् पूर्वं प्रसंचक्षीत, तांश्च प्रसंचक्षाणस्य रूपादिविषयो मिथ्यासंकल्पो निवर्तते, तन्निवृत्तौ अध्यात्मं शरीरादि प्रसंचक्षीत, तत्प्रसंख्यानादध्यात्मविषयो ऽहङ्कारो निवर्तते. सोयमध्यात्मं बहिश्च विविक्तचित्तो विहरन् मुक्त इत्युच्यते

9.3

********************** न्य्स्भ्_4,2.3 **********************
अतः परं काचित् संज्ञा हेया काचिद् भावयितव्येत्युपदिश्यते, नार्थनिराकरणमर्थोपादानं वा, कथमिति---
न्य्स्_4,2.3: तन्निमित्तं त्व् अवयव्यभिमानः ॥
तेषाम् ।
दोषाणां निमित्तं त्व् अवयव्यभिमानः, सा च खलु स्त्रीसंज्ञा सपरिष्कारा पुरुषस्य पुरुषसंज्ञा च स्त्रियाः, परिष्कारश्च ।
निमित्तसंज्ञा अनुव्यञ्जनसंज्ञा च, निमित्तसंज्ञा ।
रसनाश्रोत्रं दन्तोष्ठं चक्षुर्नासिकम्, अनुव्यञ्जनसंज्ञा ।
इत्थं दन्तौ इत्थमोष्ठाविति, सेयं संज्ञा कामं वर्धयति तदनुषक्तांश्च दोषान् विवर्जनीयान्।
वर्जनं त्वस्या भेदेनावयवसंज्ञा ।
केशलोममांसशोणितास्थिस्नायुशिराकफपित्तोच्चारादिसंज्ञा तामशुभसंज्ञेत्याचक्षते. तामस्य भावयतः कामरागः प्रहीयते. सत्येव च द्विविधे विषये काचित् संज्ञा भावनीया काचित् परिवर्जनीयेत्युपदिश्यते यथा विषसंपृक्ते ऽन्ने अन्नसंज्ञोपादानाया विषसंज्ञा प्रहाणायेति

9.4

********************** न्य्स्भ्_4,2.4 **********************
अथेदानीमर्थ निराकरिष्यतावयविन्युपपाद्यते---
न्य्स्_4,2.4: विद्याविद्याद्वैविध्यात् संशयः ॥
सदसतोरुपलम्भाद् विद्या द्विविधा. सदसतोरनुपलम्भाद् अविद्यपि द्विविधा, उपलभ्यमाने ऽवयविनि विद्याद्वैविध्यात् संशयः. अनुपलभ्यमाने चाविद्याद्वैविध्यात् संशयः, सो ऽयम् अवयवी यद्युपलभ्यते अथापि नोपलभ्यते न कथञ्चन संशयाद् मुच्यते इति

9.5

********************** न्य्स्भ्_4,2.5 **********************
न्य्स्_4,2.5: तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ॥
तस्मिन्न् अनुपपन्नः संशयः, कस्मात् ?, पूर्वोक्तहेतूनामप्रतिषेधादस्ति द्रव्यान्तरारम्भ इति

9.6

********************** न्य्स्भ्_4,2.6 **********************
न्य्स्_4,2.6: वृत्त्यनुपपत्तेरपि तर्हि न संशयः ॥
वृत्त्यनुपपत्तेरपि तर्हि संशयानुपपत्तिः-- नास्त्यवयवीति

9.7

********************** न्य्स्भ्_4,2.7 **********************
तद्विभजते---
न्य्स्_4,2.7: कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः ॥
एकैको ऽवयवो न तावत् कृत्स्ने ऽवयविनिर्वतते-- तयोः परिमाणभेदाद् अवयवान्तरसंबन्धाभावप्रसङ्गाच्च, नाप्यवयव्येकदेशे-- न ह्यस्यान्ये अवयवा एकदेशभूताः सन्तीति

9.8

********************** न्य्स्भ्_4,2.8 **********************
अथावयवेष्ववयवी वर्तते ?---
न्य्स्_4,2.8: तेषु चावृत्तेरवयव्यभावः ॥
न तावत् प्रत्यवयवं वर्तते-- तयोः परिमाणभेदाद् द्रव्यस्य. चैकद्रव्यत्वप्रसङ्गात्, नाप्येकदेशे-- सर्वेष्वन्यावयवाभावात्, तदेवं न युक्तः संशयः-- नास्त्यवयवीति

9.9

********************** न्य्स्भ्_4,2.9 **********************
न्य्स्_4,2.9: पृथक् चावयवेभ्यो ऽवृत्तेः ॥
पृथक् चावयवेभ्यः ।
धर्मिभ्यो धर्मस्याग्रहणादिति समानम्

9.11

********************** न्य्स्भ्_4,2.10 **********************
न्य्स्_4,2.10: न चावयव्यवयवाः ॥
********************** न्य्स्भ्_4,2.11 **********************
न्य्स्_4,2.11: एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ॥
किं प्रत्यवयवं कृत्स्नो ऽवयवी वर्तते अथैकदेशेनेति नोपपद्यते प्रश्नः, कस्मात् ?, एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेः ।
ऽकृत्स्नम्ऽ इत्यनेकस्याशेषाभिधानम्. ऽएकदेशःऽ इति नानात्वे कस्यचिदभिधानम्, ताविमौ कृस्नैकदेशशब्दौ भेदविषयौ नैकस्मिन्न् अवयविन्युपपद्येते-- भेदाभावादिति

9.12

********************** न्य्स्भ्_4,2.12 **********************
अन्यावयवाभावाद् नैकदेशेन वर्तते इत्यहेतुः---
न्य्स्_4,2.12: अवयवान्तरभावे ःप्यवृत्तेरहेतुः ॥
अवयवान्तराभावादिति, यद्यप्येकदेशो ऽवयवान्तरभूतः स्यात् तथाप्यवयवे ऽवयवान्तरं वर्तेत नावयवीति-- अन्यो ऽवयवीति।
अन्यावयवभावेप्यवृत्तेः-- ऽअवयविनो नैकदेशेन वृत्तिः-- अन्यावयवाभावात्ऽ इत्यहेतुः।
वृत्तिः कथमितिचेत् ? एकस्यानेकत्राश्रयाश्रितसंबन्धलक्षणा प्राप्तिः।
आश्रयाश्रितभावः कथमितिचेत् ? यस्य यतो ऽन्यत्रात्मलाभानुपपत्तिः स आश्रयः न कारणद्रव्येभ्यो ऽन्यत्र कार्यद्रव्यमात्मानं लभते. विपर्ययस्तु कारणद्रव्येष्विति।
नित्येषु कथमितिचेत् ? अनित्येषु दर्शनात् सिद्धम्।
नित्येषु द्रव्येषु कथमाश्रयाश्रयिभाव इतिचेत् ? अनित्येषु द्रव्यगुणेषु दर्शनादाश्रयाश्रयिभावस्य नित्येषु सिद्धिरिति।
तस्मादवयव्यभिमानः प्रतिषिध्यते निःश्रेयसकामस्य. नावयवी. यथा रूपादिषु मित्यासंकल्पो न रूपादय इति

9.13

********************** न्य्स्भ्_4,2.13 **********************
सर्वाग्रहणमवयव्यसिद्धेः 2-1-34"
इतिप्रत्यवस्थितोप्येतदाह---
न्य्स्_4,2.13: केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः ॥
यथैकैकः केशस्तैमिरिकेण नोपलभ्यते केशसमूहस्तूपलभ्यते तथैकैको ऽणुर्नोपलभ्यते अणुसंचयस्तूपलभ्यते तदिदमणुसमूहविषयं ग्रहणमिति

9.14

********************** न्य्स्भ्_4,2.14 **********************
न्य्स्_4,2.14: स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद् विषयग्रहणस्य तथाभावो नाविषये प्रवृत्तिः ॥
यथाविषयमिन्द्रियाणां पटुमन्दभावाद् विषयग्रहणानां पटुमन्दभावो भवति ।
चक्षुः खलु प्रकृष्यमाणं नाविषयं गन्धं गृह्णाति. निकृष्यमाणं च न स्वविषयात् प्रच्यवते, सोयं तैमिरिकः कश्चिच्चक्षुर्विषयं केशं न गृह्णाति गृह्णाति च केशसमूहम्. उभयं ह्य् अतैमिरिकेण चक्षुषा गृह्यते, परमाणवस्त्व् अतीन्द्रियाः ।
इन्द्रियाविषयभूता केनचिदिन्द्रियेण गृह्यन्ते समुदितास्तु गृह्यन्ते इत्यविषये प्रवृत्तिरिन्द्रियस्य प्रसज्येत-- न जात्वर्थान्तरमणुभ्यो गृह्यते इति. ते खल्विमे परमाणवः संहता गृह्यमाणा अतीन्द्रियत्वं जहति वियुक्ताश्चागृह्यमाणा इन्द्रियविषयत्वं न लभन्ते इति सोयं द्रव्यान्तरानुत्पत्तावतिमहान् व्याघात इत्युपपद्यते द्रव्यान्तरं यद् ग्रहणस्य विषय इति।
संचयमात्रं विषय इतिचेत् ? न-- संचयस्य संयोगभावात्तस्य चातीन्द्रियस्याग्रहणादयुक्तम्।
संचयः खल्वनेकस्य संयोगः स च गह्यमाणाश्रयो गृह्यते नातीन्द्रियाश्रयः. भवति हीदमनेन संयुक्तम्ऽ इति. तस्मादयुक्तमेतदिति।
गृह्यमाणस्य चेन्द्रियेण विषयस्यावरणादि अनुपलब्धिकारणमुपलभ्यते तस्मान्नेन्द्रियदौर्बल्यादनुपलब्धिरणूनां यथा नेन्द्रियदौर्बल्याचक्षुषानुपलब्धिर्गन्धादीनामिति

9.15

********************** न्य्स्भ्_4,2.15 **********************
न्य्स्_4,2.15: अवयवावयवप्रसङ्गश्चैवम् आप्रलयात् ॥
यः खल्ववयविनो ऽवयवेषु वृत्तिप्रतिषेधादभावः सोयमवयवस्यावयवेषु प्रसज्यमानः सर्वप्रलयाय वा कल्पेत निरवयवाद्वा निवर्तेत. उभयथा चोपलब्धिविषयस्याभावः तदभावादुपलब्ध्यभावः, उपलब्ध्याश्रयश्चायं वृत्तिप्रतिषेधः स आश्रयं व्याघ्नन् आत्मघाताय कल्पते इति

9.16

********************** न्य्स्भ्_4,2.16 **********************
अथापि---
न्य्स्_4,2.16: न प्रलयो ऽणुसद्भावात् ॥
अवयवविभागमाश्रित्य वृत्तिप्रतिषेधादभावः प्रसज्यमानो निरवयवात् परमाणोर्निवर्तते न सर्वप्रलयाय कल्पते।
निरवयवत्वं खलु परमाणोर्विभागैरल्पतरप्रसङ्गस्य (अभावात्) यतो नाल्पीयस्तत्रावस्थानात्।
लोष्टस्य खलु प्रविभज्यमानावयवस्याल्पतरमल्पतममुत्तरमुत्तरं भवति स चाचमल्पतरप्रसङ्गः यस्मान्नल्पतरमस्ति ।
यः परमो ऽल्पस्तत्र निवर्तते. यतश्च नाल्पीयोस्ति तं पृरमाणुं प्रचक्ष्महे इति

9.17

********************** न्य्स्भ्_4,2.17 **********************
न्य्स्_4,2.17: परं वा त्रुटेः ॥
अवयवविभागस्यानवस्थानाद् द्रव्याणामसंख्येयत्वात् त्रुटित्वनिवृत्तिरिति

9.18

********************** न्य्स्भ्_4,2.18 **********************
अथेदानीमानुपलम्भिकः सर्व नास्तीति मन्यमान आह---
न्य्स्_4,2.18: आकाशव्यतिभेदात् तदनुपपत्तिः ॥
तस्याणोर्निरवयवस्य नित्यस्यानुपपत्तिः, कस्मात् ?. आकाशव्यतिभेदात् ।
अन्तर्बहिश्चाणुराकाशेन समाविष्टः ।
व्यतिभिन्नो व्यतिभेदात् सावयवः सावयवत्वादनित्य इति

9.19

********************** न्य्स्भ्_4,2.19 **********************
न्य्स्_4,2.19: आकाशासर्वगतत्वं वा ॥
अथैतन्नेष्यते ।
परमाणोरन्तर्नास्त्याकाशमिति ? असर्वगतत्वं प्रसज्यते इति

9.20

********************** न्य्स्भ्_4,2.20 **********************
न्य्स्_4,2.20: अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः ॥
ऽअन्तःऽ इति पिहितं कारणान्तरैः कारणमुच्यते, ऽबहिःऽ इति च व्यवधायकमव्यवहितं कारणमेवोच्यते. तदेतत् कार्यद्रव्यस्य संभवति. नाणोः-- अकार्यत्वात् ।
अकार्ये हि परमाणाव् अन्तर्बहिरित्यस्याभावः, यत्र चास्य भावो ऽणुकार्यं तत् न परमाणुः, यतो हि नाल्पतरमस्ति स परमाणुरिति

9.21

********************** न्य्स्भ्_4,2.21 **********************
न्य्स्_4,2.21: सर्वसंयोगशब्दविभवाच्च सर्वगतम् ॥
यत्र क्वचिदुत्पन्नाः शब्दा विभवन्त्याकाशे ।
तदाश्रया भवन्ति. मनोभिः परमाणुभिस्तत्कार्यैश्च संयोगा भवन्त्याकाशे. नासंयुक्तमाकाशेन किञ्चिन्मूर्तद्रव्यमुपलभ्यते तस्मान्नासर्वगतमिति

9.22

********************** न्य्स्भ्_4,2.22 **********************
न्य्स्_4,2.22: अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्मार्ः ॥
संसपता प्रतिघातिना द्रव्येण न व्यूह्यते तथा काष्ठेनोदकम्, कस्मात् ?, निरवयवत्वार्त्, सपच्च प्रतिघाति द्रव्यं न विष्टभ्नाति ।
नास्य क्रियाहेतुं गुणं प्रतिबध्नाति, कस्मात् ? अस्पर्शत्वात् विपर्यये हि विष्टम्भो दृष्ट इति, सावयवे स्पर्शवति द्रव्ये दृष्टं धर्मं विपरीते नाशङ्कितुमर्हति ॥
अण्ववयवस्याणुतरत्वप्रसङ्गादणुकार्यप्रतिषेधः ॥
सावयवत्वे चाणोरण्ववयवो ऽणुतर इति प्रसज्यते, कस्मात् ?, कार्यकारणद्रव्ययोः परिमाणभेददर्शनात्. तस्मादण्ववयवस्याणुतरत्वम्, यस्तु सावयवः अणुकार्यं तदिति. तस्मादणुकार्यमिदं प्रतिषिध्यते इति।
कारणविभागाच्च कार्यस्यानित्यत्वं नाकाशव्यतिभेदात् ।
लोष्टस्यावयवविभागादनित्यत्वं नाकाशसमावेशादिति

9.23

********************** न्य्स्भ्_4,2.23 **********************
न्य्स्_4,2.23: मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः ॥
परिच्छिन्नानां हि स्पर्शवतां संस्थानं त्रिकोणं चतुरस्रं समं परिमण्डलमित्युपपद्यते यत्तत् संस्थानं सो ऽवयवसंनिवेशः परिमण्डलाश्चाणवस्तस्मात् सावयवा इति

9.24

********************** न्य्स्भ्_4,2.24 **********************
न्य्स्_4,2.24: संयोगोपपत्तेश्च ॥
मध्ये सन्न् अणुः पूर्वापराभ्यामणुभ्यां संयुक्तस्तयोर्व्यवधानं कुरुते. व्यवधानेनानुनमीयते-- पूर्वभागेन पूर्वेणाणुना संयुज्यते परभागेन परेणाणुना संयुज्यते. यौ तौ पूर्वापरौ भागौ ताव् अस्यावयवौ. एवं सर्वतः संयुज्यमानस्य सर्वतो भागा अवयवा इति

9.25

यत्तावत्--
"मूर्तिमतां संस्थानोपपत्तेरवयवसद्भावः 23"
इति. अत्रोक्तम्।
किमुक्तम् ?, ऽविभागाल्पतरप्रसङ्गस्य
यतो नाल्पीयस्तत्र निवृत्तेः, अण्ववयवस्य
चाणुतरत्वप्रसङ्गादणुकार्यप्रतिषेधःऽ
इति।
यत्पुनरेतत्--
"संयोगोपपत्तेश्च"
इति ?, स्पर्शवत्त्वाद् व्यवधानम्. आश्रयस्य
चाव्याप्त्या भागभक्तिः उक्तं चात्र-- स्पर्शवानणुः
स्पर्शवतोरण्वोः प्रतिघातात् व्यवधायको
न सावयवत्वात्, स्पर्शवत्त्वाच्च व्यवधाने
सत्य् अणुसंयोगो नाश्रयं व्याप्नोतीति
भागभक्तिर्भवति ।
भागवानिवायमिति, उक्तं नात्र-- ऽविभागे आल्पतरप्रसङ्गस्य
यतो नाल्पीयस्तत्रावस्थानात्. तदवयवस्य
चाणुतरत्वप्रसङ्गादणुकार्यप्रतिषेधःऽ
इति ॥
********************** न्य्स्भ्_4,2.25 **********************
मूर्तिमतां च संस्थानोपपत्तेः
संयोगोपपत्तेश्च परमाणूनां
सावयवत्त्वमितिहेत्वोः---
न्य्स्_4,2.25: अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः ॥
यावद् मूर्तिमद् यावच्च संयुज्यते तत् सर्वं सावयवमित्यनवस्थाकारिणाविमौ हेतू.
साचानवस्था नोपपद्यते.
सत्यामनवस्थायां सत्यौ हेतू स्यातां.
तस्मादप्रतिषेधोयं निरवयवत्वस्येति।
विभागश्च विभज्यमानहानेर्नोपपद्यते तस्मात् प्रलयान्तता नोपपद्यते इति।
अनवस्थायां चप्रत्यधिकरणं द्रव्यावयवानामानन्त्यात्
परिमाणभेदानां गुरुत्वस्य चाग्रहणं समानपरिमाणत्वं
चावयवावयविनोः परमाण्ववयवविभागादूर्ध्वमिति

9.26

********************** न्य्स्भ्_4,2.26 **********************
यदिदं भवान् बुद्धिराश्रित्य ऽबुद्धिविषयाः
सन्तीति मन्यते मिथ्याबुद्धय एताः, यदि
हि तत्त्वबुद्धयः स्युर्बुद्ध्या विवेचने
क्रियमाणे यथात्म्यं बुद्धिविषयाणामुपलभ्येत---
न्य्स्_4,2.26: बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत्तदनुपलब्धिः ॥
यथा ऽअयं तन्तुरयं तन्तुःऽ इति प्रत्येकं
तन्तुषु विविच्यमानेषु नार्थान्तरं किञ्चिदुपलभ्यते
यत् पटबुद्धेर्विषयः स्यात्-- याथात्म्यानुपलब्धेः,
असति विषये पटबुद्धिर्भवन्ती मिथ्याबुद्धिर्भवति,
एवं सर्वत्रेति

9.27

********************** न्य्स्भ्_4,2.27 **********************
न्य्स्_4,2.27: व्याहतत्वादहेतुः ॥
यदि बुद्ध्या विवेचनं भावानाम् ? न सर्वभावानां
याथात्म्यानुपलब्धिः, अथ सर्वभावानां याथात्म्यानुपलब्धिः ? न बुद्ध्या विवेचनं भावानाम्, बुद्ध्या
विवेचनं च याथात्म्यानुपलब्धिश्चेति व्याहन्यते. तदुक्तम्---
"अवयवावयवप्रसङ्गश्चैवम् आप्रलयात् 15" इति

9.28

********************** न्य्स्भ्_4,2.28 **********************
न्य्स्_4,2.28: तदाश्रयत्वादपृथग्ग्रहणम् ॥
कार्यद्रव्यं कारणद्रव्याश्रितं तत्कारणेभ्यः
पृथङ् नोपलभ्यते. विपर्यये पृथक् ग्रहणात्
यत्राश्रयाश्रितभावो नास्ति तत्र पृथग्
ग्रहणमिति, बुद्ध्या विवेचनात्तु भावानां
पृथग् ग्रहणम् ।
अतीन्द्रियेष्वणुषु यदिन्द्रियेण गृह्यते तदेतया
बुद्ध्या विविच्यमानमन्यदिति

9.29

********************** न्य्स्भ्_4,2.29 **********************
न्य्स्_4,2.29: प्रमाणतश्चाथप्रतिपत्तेः ॥
बुद्ध्या विवेचनाद् भावानां याथात्म्योपलब्धिः ।
यदस्ति यथा च यन्नास्ति यथा च तत्सर्वं प्रमाणत
उपलब्ध्या सिध्यति, या च प्रमाणत उपलब्धिस्तद्
बुद्ध्या विवेचनं भावानां तेन सर्वशास्त्राणि
सर्वकर्माणि सर्वे च शरीरिणां
व्यवहारा व्याप्ताः-- परीक्षमाणो हि बुद्ध्याध्यवस्यति--
ऽइदमस्ति इदं नास्तीति. तत्र च न सर्वभावानुपपत्तिः

9.30

********************** न्य्स्भ्_4,2.30 **********************
न्य्स्_4,2.30: प्रमाणानुपपत्त्युपपत्तिभ्याम् ॥
एवं च सति सर्वं नास्तीति नोपपद्यते,
कस्मात् ?. प्रमाणानुपपत्त्युपपत्तिभ्याम् ।
यदि सर्वं नास्तीति प्रमाणमुपपद्यते ? सर्वं
नास्तीत्येतद् व्याहन्यते, अथ प्रमाणं नोपपद्यते ? सर्वं नास्तीत्यस्य कथं सिद्धिः ?, अथ प्रमाणमन्तरेण
सिद्धिः ? सर्वमस्तीत्यस्य कथं न सिद्धिः

9.31

********************** न्य्स्भ्_4,2.31 **********************
न्य्स्_4,2.31: स्वप्नवविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः ॥
यथा स्वप्ने न विषयाः सन्ति अथ चाभिमानो भवति. एवं
न प्रमाणानि प्रमेयाणि च सन्ति अथ च प्रमाणप्रमेयाभिमानो
भवति

9.33

********************** न्य्स्भ्_4,2.32 **********************
न्य्स्_4,2.32: मायागन्धर्वनगरमृगतृष्णिकावद्वा ॥
********************** न्य्स्भ्_4,2.33 **********************
न्य्स्_4,2.33: हेत्वभावादसिद्धिः ॥
ऽस्वप्नान्ते विषयाभिमानवत् प्रमाणप्रमेयाभिमानो
न पुनर्जागरितान्ते विषयोपलब्धिवत्ऽ
इत्यत्र हेतुर्नास्ति. हेत्वभावादसिद्धिः।
स्वप्नान्ते चासन्तो विषया उपलभ्यन्ते इत्यत्रापि
हेत्वभावः ॥
प्रतिबोधे ऽनुपलम्भादितिचेत् ? प्रतिबोधविषयोपलम्भादप्रतिषेधः।
यदि प्रतिबोधे ऽनुपलम्भात् स्वप्ने विषया न
सन्तीति ? तर्हि ये इमे प्रतिबुद्धेन
विषया उपलभ्यन्ते (ते) उपलम्भात् सन्तीति--
विपर्यये हि हेतुसामर्थ्यम् ।
उपलम्भाभावे सति अनुपलम्भादभावः
सिध्यति, उभयथा त्वभावे नानुपलम्भस्य
सामर्थ्यमस्ति. यथा प्रदीपस्याभावाद् रूपस्यादर्शनमिति,
तत्र भावेनाभावः समर्थ्यते इति।
स्वप्नान्तविकल्पे च हेतुवचनम्।
"स्वप्नविषयाभिमानवत्"
इति ब्रुवता स्वप्नान्तविकल्पे हेतुर्वाच्यः,
कश्चित्स्वप्नो भयोपसंहितः कश्चित् प्रमोदोपसंहितः
कश्चिदुभयविपरीतः कदाचित् स्वप्नमेव
न पश्यतीति, निमित्तवतस्तु स्वप्नविषयाभिमानस्य
निमित्तविकल्पाद् विकल्पोपपत्तिः

9.34

********************** न्य्स्भ्_4,2.34 **********************
न्य्स्_4,2.34: स्मृतिसंकल्पवच्च स्वप्नविषयाभिमानः ॥
पूर्वोपलब्धविषयः, यथा स्मृतिश्च
संकल्पश्च पूर्वोपलब्धविषयौ न तस्य प्रत्याख्यानाय
कल्पेते. तथा स्वप्ने विषयग्रहणं पूर्वोपलब्धविषयं
न तस्य प्रत्याख्यानावय कल्पते इति. एवं दृष्टविषयश्च
स्वप्नान्तो जागरितान्तेन।
यः सुप्तः स्वप्नं पश्यति स एव जाग्रत् स्वप्नदर्शनानि प्रतिसंधत्ते--
ऽइदमद्राक्षम्ऽ इति. तत्र जाग्रद्बुद्धिवृत्तिवशात्
स्वप्नविषयाभिमानो मिथ्येति व्यवसायः
उसति च प्रतिसंधाने या जाग्रतो बुद्धिवृत्तिस्तद्वशादयं
व्यवसायः-- स्वप्नविषयाभिमानो मिथ्येति।
उभयाविशेषे तु साधनानर्थक्यम्।
यस्य स्वप्नान्तजागरितान्तयोरविशेषस्तस्य
"स्वप्नविषयाभिमानवत्"
इति साधनमनर्थकम्-- तदाश्रयप्रतयाख्यानात् ।
अतस्मिंस्तदिति च व्यवसायः प्रधानाश्रयः ।
अपुरुषे स्थाणौ पुरुष इति (यः) व्यवसायः
स प्रधानाश्रयः-- न खलु पुरुषे ऽनुपलब्धे
पुरुष इत्य् अपुरुषे व्यवसायो भवति,
एवं स्वप्नविषयस्य व्यवसायः-- ऽहस्तिनमद्राक्षम्ऽ
ऽपर्वतमद्राक्षम्ऽ इति प्रधानाश्रयो भवितुमर्हति

9.35

********************** न्य्स्भ्_4,2.35 **********************
एवं च सति---
न्य्स्_4,2.35: मिथ्योपलब्धिविनाशस्तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे ॥
स्थाणौ ऽपुरुषोयम्ऽ इतिव्यवसायो मिथ्योपलब्धिः ।
अतस्मिंस्तदितिज्ञानम्, स्थाणौ ऽस्थाणुःऽ इतिव्यवसायस्तत्त्वज्ञानम्,
तत्त्वज्ञानेन च मिथ्योपलब्धिर्निवर्त्यते-- नार्थः
स्थाणुपुरुषसामान्यलक्षणः, यथा प्रतिबोधे
या ज्ञानवृत्तिस्तया स्वप्नविषयाभिमानो
निवर्त्यते-- नार्थो विषयसामान्यलक्षणः,
तथा मायगन्धर्वनगरमृगतृष्णिकाणामपि
या बुद्धयः (ताः) एतस्मिंस्तदितिव्यवसायास्तत्राप्यनेनैव
कल्पेन मित्योपलब्धिविनाशस्तत्त्वज्ञानाद्.
नार्थप्रतिषेध इति।
उपादानवच्च मायादिषु मिथ्याज्ञानम्. प्रज्ञापनीयसरूपं च द्रव्यमुपादावय
साधनवान् परस्य मिथ्याध्यवसायं करोति
सा माया, नीहारप्रभतीनां नगरसरूपसंनिवेशे
दूराद् नगरबुद्धिरुत्पद्यते विपर्यये तदभावात्,
सूर्यमरीचिषु भौमेनोष्मणा
संसृष्टेषु स्पन्दमानेषूदकबुद्धिर्भवति--
सामान्यग्रहणात्. अन्तिकस्थस्य विपर्यये
तदभावात्, क्वचित् कदाचित् कस्यचिच्च
भावाद् नानिमित्तं मिथ्याज्ञानम्।
दृष्टं च बुद्धिद्वैतं मायाप्रयोक्तुः परस्य चदूरान्तिकस्थयोर्गन्धर्वनगरमृगतृष्णिकासु
सुप्तप्रतिबुद्ध योश्च स्वप्नविषये. तदेतत् सर्वस्याभावे ।
निरुपाख्यतायाम् ।
निरात्मकत्वे नोपपद्यते इति

9.36

********************** न्य्स्भ्_4,2.36 **********************
न्य्स्_4,2.36: बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ॥
मित्याबुद्धेश्चार्थवद् अप्रतिषेधः, कस्मात् ?,
निमित्तोपलम्भात् सद्भावोपलम्भाच्च ।
उपलभ्यते मिथ्याबुद्धिनिमित्तं मिथ्याबुद्धिश्च
प्रत्यात्ममुत्पन्न गृह्यते-- संवेद्यत्वात्. तस्मात्
मिथ्याबुद्धिरप्यस्तीति

9.37

********************** न्य्स्भ्_4,2.36 **********************
न्य्स्_4,2.37: तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः ॥
तत्त्वं स्थाणुरिति. प्रधानं पुरुष इति.
तत्त्वप्रधानयोरलोपात् ।
भेदात् स्थाणौ पुरुष इति मिथ्याबुद्धिरुत्पद्यते--
सामान्यग्रहणात्, एवं पताकायां बलाकेति
लोष्टे कपोत इति, न त्व् असमाने
विषये मिथ्याबुद्धीनां समावेशः--
सामान्यग्रहणव्यवस्थानात्।
यस्य तु निरात्मकम् ।
निरुपाख्यं सर्व तस्य समावेशः प्रसज्यते।
गन्धादौ च प्रमेये गन्धादिबुद्धयो मिथ्याभिमतास्तत्त्वप्रधानयोः
सामान्यग्रहणस्य चाभावात् तत्त्वबुद्धय एव
भवन्ति, तस्मादयुक्तमेतत्-- ऽप्रमाणमप्रेयबुद्धयो
मिथ्याऽ इति

9.38

********************** न्य्स्भ्_4,2.38 **********************
"दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः 4-2-1"
इत्युक्तम्. अथ कथं तत्त्व ज्ञानमुत्पद्यते ? इति---
न्य्स्_4,2.38: समाधिविशेषाभ्यासात् ॥
स तु प्रत्याहृतस्येन्द्रियार्थेभ्यो
मनसो धारकेण प्रयत्नेन धार्यमाणस्यात्मना
संयोगस्तत्वबुभुत्साविशिष्टः, सति
हि तस्मिन्निन्द्रियार्थेषु बुद्धयो नोत्पद्यन्ते
तदभ्यासवशात् तत्त्वबुद्धिरुत्पद्यते

9.39

********************** न्य्स्भ्_4,2.39 **********************
न्य्स्_4,2.39: नार्थविशेषाप्राबल्यात् ॥
अनिच्छतोपि बुद्ध्युत्पत्तेर्नैतद् युक्तम्,
कस्मात् ? अर्थविशेषप्राबल्याद् अबुभुत्समानस्यापि
बुद्ध्युत्पत्तिर्दृष्टा यथा स्तनयित्नुशब्दप्रभृतिषु.
तत्र समाधिविशेषो नोपपद्यते

9.40

********************** न्य्स्भ्_4,2.40 **********************
न्य्स्_4,2.40: क्षुदादिभिः प्रवर्तनाच्च ॥
क्षुत्पिपासाभ्यां शीतोष्णाभ्यां व्याधिभिश्चानिच्छतोपि
बुद्धयः प्रवर्तन्ते तस्मादैकाग्र्या नुपपत्तिरिति

9.41

********************** न्य्स्भ्_4,2.41 **********************
अस्त्वेतत् समाधिव्युत्थाननिमित्तं समाधिप्रत्यनीकं च. सति त्वेतस्मिन्---
न्य्स्_4,2.41: पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ॥
पूर्वकृतः ।
जन्मान्तरोपचितस्तत्त्वज्ञानहेतुर्धर्मप्रविवेकः.
फलानुबन्धः ।
योगाभ्यासमामर्थ्य, निष्फले ह्यभ्यासे नाभ्यासमाद्रियेरन्.
दृष्टं हि लौकिकेषु कर्मस्व् अभ्याससामर्थ्यम्

9.42

********************** न्य्स्भ्_4,2.42 **********************
प्रत्यनीकपरिहारार्थं च---
न्य्स्_4,2.42: अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ॥
योगाभ्यासजनितो धर्मो जन्मान्तरे ःप्यनुवर्तते,
प्रचयकाष्ठागते तत्त्वज्ञानहेतौ धर्मे प्रकृष्टायां
समाधिभावनायां तत्त्वज्ञानमुत्पद्यते इति,
दृष्टश्च समाधिनार्थविशेषप्राबल्याभिभवः--
ऽनाहमेतदश्रौषम् नाहमेतदज्ञासिषम्--
अन्यत्र मे मनो ऽभूत्ऽ इत्याह लौकिक इति

9.43

********************** न्य्स्भ्_4,2.43 **********************
यद्यर्थविशेषप्राबल्यादनिच्छतोपि बुद्ध्युत्पत्तिरनुज्ञायते ?---
न्य्स्_4,2.43: अपवर्गे ऽप्येवं प्रसङ्गः ॥
मुक्तस्यापि बाह्यार्थसामर्थ्याद् बुद्धय उत्पद्येरन्निति

9.44

********************** न्य्स्भ्_4,2.44 **********************
न्य्स्_4,2.44: न निष्पन्नावश्यम्भावित्वात् ॥
कर्मवशान्निष्पन्ने शरीरे चेष्टेन्द्रियार्थाश्रये निमित्तभावादवश्यम्भावी
बुद्धीनामुत्पादः, न च प्रबलोपि सन् बाह्यो ऽर्थ
आत्मनो बुद्ध्युत्पादे समर्थो भवति-- तस्येन्द्रियेण
संयोगाद् बुद्ध्युत्पादे सामर्थ्यं दृष्टमिति

9.45

********************** न्य्स्भ्_4,2.45 **********************
न्य्स्_4,2.45: तदभावश्चापवर्गे ॥
तस्य ।
बुद्धिनिमित्ताश्रयस्य शरीरेन्द्रियस्य धर्माधर्माभावादभावो ऽपवर्गे.
तत्र यदुक्तम्--
"अण्वर्गेप्येवं प्रसङ्गः 43"
इति तदयुक्तम्, तस्मात् सर्वदुःखविमोक्षोपवर्गः।
यस्मात् सर्वदुःखबीजं सर्वदुःखायतनं
चापवर्गे विच्छिद्यते तस्मात् सर्वेण दुःखेन
विमुक्तिरपवर्गः. न निर्बीजं निरायतनं
च दुःखमुत्पद्यते इति

9.36

********************** न्य्स्भ्_4,2.46 **********************
न्य्स्_4,2.46: तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः ॥
तस्य ।
अपवर्गस्याधिगमाय यमनियमाभ्यामात्मसंस्कारः,
यमः
उसमानमाश्रमिणां धर्मसाधनम्, नियमस्तु विशिष्टम्द्व आत्मसंस्कारः
पुनरधर्महानं धर्मोपचयश्च, योगशास्त्राच्चाध्यात्मविधिः
प्रतिपत्तव्यः स पुनः-- तपः प्राणायामः प्रत्याहारो
ध्यानं धारणेति, इन्द्रियविषयेषु प्रसंख्यानाभ्यासो
रागद्वेषप्रहाणार्थः, उपायस्तु योगाचारविधानमिति

9.47

********************** न्य्स्भ्_4,2.47 **********************
न्य्स्_4,2.47: ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः ॥
"तदर्थम्" इतिप्रकृतम्।
ज्ञायते ऽनेनेति ज्ञानम् = आत्मविद्याशास्त्रं तस्य ग्रहणम् = अध्ययनधारणे, अभ्यासः ।
सततक्रिया ।
अध्ययनश्रवणचिन्तनानि, तद्विद्यैश्च सह संवाद
इति प्रज्ञापरिपाकार्थं, परिपाकस्तु संशयच्छेदनम्
अविज्ञातार्थबोधः अध्यवसिताभ्यनुज्ञानमिति,
समापवादः संवादः

9.48

********************** न्य्स्भ्_4,2.48 **********************
"तद्विद्यैश्च सह संवादः"
इत्यविभक्तार्थं वचनं विभज्यते---
न्य्स्_4,2.48: तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोर्थिभिरनसूयुभिरभ्युपेयात् ॥
एतन्निगदेनैव नीतार्थमिति

9.49

********************** न्य्स्भ्_4,2.49 **********************
यदि मन्येत-- पक्षप्रतिपक्षपरिग्रहः प्रतिकूलः परस्येति---
न्य्स्_4,2.49: प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ॥
"तमभ्युपेयात्"
इतिवर्तते, परतः प्रज्ञामुपादित्समानस्तत्त्वबुभुत्साप्रकाशनेन
स्वपक्षमनवस्थापयन् स्वदर्शनं परिशोधयेदिति

9.50

********************** न्य्स्भ्_4,2.50 **********************
अन्योन्यप्रत्यनीकानि च प्रावादुकानां दर्शनानि स्वपक्षरागेण
चैके न्यायमतिवर्तन्ते. तत्र--
न्य्स्_4,2.50: तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् ॥
अनुत्पन्नतत्त्वज्ञानानाम् अप्रहीणदोषाणां
तदर्थं घटमानानामेतदिति

9.51

********************** न्य्स्भ्_4,2.51 **********************
विद्यानिर्वेदादिभिश्च परेणावज्ञायमानस्य---
न्य्स्_4,2.51: ताभ्यां विगृह्य कथनम् ॥
विगृह्येति विजिगीषया न तत्त्वबुभुत्सयेति, तदेदत्
विद्यापालनार्थं न लाभपूजाख्यात्यर्थमिति

मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc