न्यायसूत्र (टीका सहित) · अध्याय 10
॥ इति श्रीवात्स्यायनविरचिते न्यायभाष्ये चतुर्थोध्यायः समाप्तः ॥
अथ सटीके न्यायभाष्ये पञ्चमाध्यायस्य प्रथममाह्निकम्
********************** न्य्स्भ्_5,1.1 **********************
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जातिबहुत्वमिति संक्षेपेणोक्तं तद्विस्तरेण विभजते, ताः खल्विमा जातयः स्थापनाहेतौ प्रयुक्ते चतुर्विंशतिः प्रतिषेधहेतवः ।
न्य्स्_5,1.1: साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकारणाहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः ॥
साधर्म्येण प्रत्यवस्थान् अविशिष्यमाणं स्यापनाहेतुतः साधर्म्यसमः, विशेषं तत्र तत्रोदाहरिष्याम्यः, एवं वैधर्म्यसमप्रभृतयोपि निर्वक्तव्याः
********************** न्य्स्भ्_5,1.2 **********************
लक्षणं तु---
न्य्स्_5,1.2: साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ॥
साधर्म्येणोपसंकारे साध्यधर्म्विपर्ययोपपत्तेः साधर्म्येणैव प्रत्यवस्थानम् अविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः, निदर्शनम्-- ऽक्रियावानात्मा-- द्रव्यस्य क्रियःहेतुगुणयोगात्. द्रव्यं लोष्टः क्रियाहेतुगुणयुक्त क्रियावान् तथा चात्मा तसमात् क्रियावान्ऽ इति, एवमुपसंहृते परः साधर्म्येणैव प्रत्यवतिष्ठते-- ऽनिष्क्रिय आत्मा-- विभुनो द्रव्यस्य निष्क्रियत्वात्. विभु चाकाशं निष्क्रियं च तथा चात्मा तस्मात् निष्क्रियःऽ इति, न चास्ति विशेषहेतुः-- क्रियावत्साधर्म्यात् क्रियावता भवितव्यं न पुरक्रियसाधर्म्याद् निष्क्रियेणेति, विशेषहेत्वभावान् साधर्म्यसमाः प्रतिषेधो भवति।
अथ वैधर्म्यसमः-- ऽक्रियाहेतुगुणयुक्तो लोष्टः परिच्छिन्नो दृष्टो न तथात्मा तस्मान्न लोष्टवत् क्रियावान्ऽ इति. न नास्ति विशेषहेतुः-- क्रियावत्साधर्म्यात् क्रियावता भवितव्यं न पुनः क्रियावद्वैधर्म्याद्कियेणेति. विशेषहेत्वभावाद् वैधर्म्यसमः।
वैधर्म्येण चोपसंहारे-- ऽनिष्क्रिय आत्मा-- विभुत्वात्. क्रियावद् द्रव्यमविभु दृष्टं यथा लोष्टः न च तथात्मा तस्माद् निष्क्रियःऽ इति, वैधर्म्येण प्रत्यवस्थानम्-- ऽनिष्क्रियं द्रव्यमाकाशं क्रियाहेतुगुणरहितं दृष्टं न तथात्मा तस्मान्न निष्क्रियःऽ इति. नि चास्ति विशेषहेतुः-- क्रियावद्वैधर्म्याद् निष्क्रियेण भवितव्यं न पुनरक्रियवैधर्म्यात् क्रियावतेति. विशेषहेत्वभावाद् वैधर्म्यसमः।
अथ ( पुनः ) साधर्म्यसमः-- ऽक्रियावान् लोष्टः क्रियाहेतुगुणयुक्तो दृष्टः तथा चात्मा तस्मात्पव क्रियावान्ऽ इति. न चास्ति विशेषहेतुः-- क्रियावद्वैधर्म्याद् निष्क्रियो न पुनः क्रियावत्साधर्म्यात् क्रियावानिति. विशेषहेत्वभावात् साधर्म्यसमः
********************** न्य्स्भ्_5,1.3 **********************
अनयोरुत्तरम्---
न्य्स्_5,1.3: गोत्वाद्गोसिद्धिवत्तत्सिद्धिः ॥
साधर्म्यमात्रेण वैधर्म्यमात्रेण च साध्यसाधने प्रतिज्ञायमाने स्यादव्यवस्था सा तु धर्मविशेषे नोपपद्यते, गोसाधर्म्याद् गोत्वाज्जातिविशेषाद् गौः सिध्यति न तु सास्नादिसंबन्धात्. अश्वादिवैधर्म्याद् गोत्वादेव गौः सिध्यति न गुणादिभेदात्, तच्चैतत् कृतव्याख्यानमवयवप्रकरणे, प्रमाणानामभिसंबन्धाच्चैकार्थकारित्वं समानं वाक्ये इति, हेत्वाभासाश्रया खल्व् इयम् अव्यवस्थेति
********************** न्य्स्भ्_5,1.4 **********************
न्य्स्_5,1.4: साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्च उत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः ॥
दृष्टान्तधर्म साध्ये समासजत उत्कर्षसमः-- यदि क्रियाहेतुगुणयोगल्लोष्टवत् क्रियावानात्मा ( तदा ) लोष्टवदेव स्पर्शवानपि प्राप्नोति. अथ न स्पर्शवान् लोष्टवत् क्रियावानपि न प्राप्नोति, विपर्यये वा विशेषो वक्तव्य इति।
साध्ये धर्माभावं दृष्टान्तात् प्रसजतो ऽपकर्षसमः-- लोष्टः खलु क्रियावान् अविभुर्दृष्टः काममात्मापि क्रियावानविभुरस्तु. विपर्यये वा विशेषो वक्तव्य इति।
ख्यापनीयो वर्ण्यो विपर्ययादवर्ण्यः तावेतौ साध्यदृष्टान्तधर्मौं विपर्यस्यतो वर्ण्यावर्ण्यसमौ भवतः।
साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पं प्रसजतो विकल्पसमः-- क्रियागुणहेतुयुक्तं किञ्चिद् गुरु यथा लोष्टः किञ्चिच्च लघु यथा वायुरेवं क्रियाहेतुगुणयुक्तं किञ्चत् क्रियावत् स्याद् यथा लोष्टः किञ्चिदक्रियं यथात्मा. विशेषो वा वाच्य इति।
हेत्वाद्यिवयवसामर्थ्ययोगी धर्मः साध्यस्तं दृष्टान्ते प्रसजतः साध्यसमः-- यदि ऽयथा लोष्टस्तथात्मा ?ऽ प्राप्तस्तर्हि ऽयथात्मा तथा लोष्टःऽ इति. साध्यश्चायमात्मा क्रियावानिति कामं लोष्टोपि साध्यः, अथ नैवम् ? न तर्हि ऽयथा लोष्टस्तथात्माऽ (इति )
********************** न्य्स्भ्_5,1.5 **********************
एतेषामुत्तरम्---
न्य्स्_5,1.5: किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः ॥
अलभ्यः सिद्धस्य निह्नवः, सिद्धं च किञ्चित्साधर्म्यादुपमानम्-- ऽयथा गौस्तथा गवयःऽ इति, तत्र न लभ्यो गोगवययोर्धर्मविकल्पश्चोदयितुम्, एवं साधके धर्मे दृष्टान्तादिसामर्थ्ययुक्ते न लभ्यः साध्यदृष्टान्तयोर्धर्मविकल्पात्
वैधर्म्यात् प्रतिषेधो वक्तुमिति
********************** न्य्स्भ्_5,1.6 **********************
न्य्स्_5,1.6: साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥
यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं तेनाविपरीतो ऽर्थो ऽतिदिश्यते प्रज्ञापनार्थम्. एवं साध्यातिदेशाद् दृष्टान्ते उपपद्यमाने साध्यत्वमनुपपन्नमिति
********************** न्य्स्भ्_5,1.7 **********************
न्य्स्_5,1.7: प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वाद् अप्राप्त्यासाधकत्वाच्च प्राप्त्यप्राप्तिसमौ ॥
हेतुः प्राप्य वा साध्यं साधयेदप्राप्य वा ?, न तावत् प्राप्य-- प्राप्त्यामविशिष्टत्वाद् असाधकःउ द्वयोर्विद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा ?।
अप्राप्य साधकं न भवति-- नाप्राप्तः प्रदीपः प्रकाशयतीति।
प्राप्त्या प्रत्यवस्थानं प्राप्तिसमः, अप्राप्त्या प्रत्यवस्थानम् अप्राप्तिसमः
********************** न्य्स्भ्_5,1.8 **********************
न्य्स्_5,1.8: घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः ॥
उभयथा खल्वयुक्तः प्रतिषेधः-- कर्तृकरणाधिकरणानि प्राप्य मृदं घटादिकार्यं विष्पादयन्ति, अभिचाराच्च पीडने सति दृष्टम् अप्राप्य साधकत्वमिति
********************** न्य्स्भ्_5,1.9 **********************
न्य्स्_5,1.9: दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ॥
साधनस्यापि साधनं वक्तव्यमिति प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः-- क्रियाहेतुगुणयोगी क्रियावान् लोष्ट इतिहेतुर्नापदिश्यते न च हेतुमन्तरेण सिद्धिरस्तीति।
प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः-- ऽक्रियावानात्मा क्रियाहेतुगुणयोगात् लोष्टवत्ऽ इत्युक्ते प्रतिदृष्टान्त उपादीयते-- ऽक्रियाहेतुगुणयुक्तमाकाशं निष्क्रियं दृष्टम्ऽ इति, कः पुनराकाशस्य क्रियाहेतुर्गुणः ? वायुना संयोगः संस्कारापेक्षः वायुवनस्पतिसंयोगवदिति
********************** न्य्स्भ्_5,1.10 **********************
अमयोरुत्तरम्---
न्य्स्_5,1.10: प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तद्विनिवृत्तिः ॥
इदं तावदयं पृष्टो वक्तुमर्हति-- अथ के प्रदीपमुपाददते किमर्थं चेति ?, दिदृक्षमाणा दृश्यदर्शनार्थमिति । अथ प्रदीपं दिदृक्षमाणाः प्रदीपान्तरं कस्मान्नोपाददते ?, अन्तरेणापि प्रदीपान्तरं दृश्यते प्रदीपस्तत्र प्रदीपदर्शनार्थं प्रदीपोपादानं निरर्थकम्।
अथ दृष्टान्तः किमर्थमुच्यते इति ?. अप्रज्ञातस्य ज्ञापनार्थमिति।
अथ दृष्टान्ते कारणादेशः किमर्थं मृग्यते ?, यदि प्रज्ञापनार्थम् ?, प्रज्ञातो दृष्टान्तः स खलु--"लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः 1-1-25"इति तत्प्रज्ञापनार्थःकारणापदेशो निरर्थक इति प्रसङ्गसमस्योत्तरम्
********************** न्य्स्भ्_5,1.11 **********************
अथ प्रतिदृष्टान्तसमस्योत्तरम्---
न्य्स्_5,1.11: प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥
प्रतिदृष्टान्तं ब्रुवता न विशेषहेतुरपदिश्यते-- अनेन प्रकारेण प्रतिदृष्टान्तः साधको न दृष्टान्त इति, एवं प्रतिदृष्टान्तहेतुत्वे नाहेतुर्दृष्टान्त इत्युपपद्यते. स च कथं हेतुर्नस्याद् यद्यप्रतिषिद्धः साधकः स्यादिति
********************** न्य्स्भ्_5,1.12 **********************
न्य्स्_5,1.12: प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥
अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते अपर आह-- प्रागुत्पत्तेरनुत्पन्ने शब्दे प्रयत्नानन्तरीयकत्वमनित्यत्वकारणं नास्ति तदभावाद् नित्यत्वं प्राप्तं नित्यस्य चोत्पत्तिर्नास्ति।
अनुत्पत्त्या प्रत्यवस्थानम् अनुत्पत्तिसमः
********************** न्य्स्भ्_5,1.13 **********************
अस्योत्तरम्---
न्य्स्_5,1.13: तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ॥
तथाभावादुत्पन्नस्येति-- उत्पन्नः खल्वयं शब्द इति भवति. प्रागुत्पत्तेः शब्द एव नास्ति-- उत्पन्नस्य शब्दभावात्. शब्दस्य सतः प्रयत्नानन्तरीयकत्वम् अनित्यत्वकारणमुपपद्यते. कारणोपपत्तेरयुक्तोयं दोषः--
"प्रागुत्पत्तेः कारणाभावात्"इति
********************** न्य्स्भ्_5,1.14 **********************
न्य्स्_5,1.14: सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः ॥
अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते हेतौ. संशयेन प्रत्यवतिष्ठते-- सति प्रयत्नानान्तरीयकत्वे अस्त्येवास्य नित्येन सामान्येन साधर्म्यम्- ऐन्द्रियकत्वम्. अस्ति च घटेनानित्येन. अतो नित्यानित्यसाधर्म्यादनिवृत्तः संशय इति
********************** न्य्स्भ्_5,1.15 **********************
अस्योत्तरम्---
न्य्स्_5,1.15: साधर्म्यात्संशये न संशयो वैधर्म्याद् उभयथा वा संशये ऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः ॥
विशेषाद् वैधर्म्यादवधार्यमाणे ऽर्थे ऽपुरुषःऽ इति न स्थाणुपुरुषसाधर्म्यात् संशयो ऽवकाशं लभते, एवं वैधर्म्याद् विशेषात् प्रयत्नानन्तरीयकत्वादवधार्यमाणे शब्दस्यानित्यत्वे नित्यानित्यसाधर्म्यात् संशयो ऽवकाशं न लभते. यदि वै लभेत ? ततः स्थाणुपुरुषसाधर्म्यानुच्छेदादत्यन्तं संशयः स्यात्, गृह्यमाणे च विशेषे नित्यसाधर्म्यं संशयहेतुरिति नाभ्युपगम्यते-- नहि गृह्यमाणे पुरुषस्य विशेषे स्थाणुपुरुषसाधर्म्यं संशयहेतुर्भवति
********************** न्य्स्भ्_5,1.16 **********************
न्य्स्_5,1.16: उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः ॥
उभयेनौनित्येन चानित्येन साधर्म्यात् पक्षप्रतिपक्षयोः प्रवृत्तिः प्रक्रिया, ऽअनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवत्ऽ इत्येकः पक्षं प्रवर्तयति. द्वितीयश्च नित्यसाधर्म्यात्. एवं च सति ऽप्रयत्नानन्तरीयकत्वात्ऽ इतिहेतुरनित्यसाधर्म्येणोच्यमानो न प्रकरणमतिवर्तते. प्रकरणानतिवृत्तेर्निर्णयाननिवर्तनम्, समानं चैतन्नित्यसाधर्म्येणोच्यमाने हेतौ, तदिदं प्रकरणानतिवृत्त्या प्रत्यवस्थानं प्रकरणसमः।
समानं चैतद्वैधर्म्ये ऽपि = उभयवैधर्म्यात् प्रक्रियासिद्धेः प्रकरणसम इति
********************** न्य्स्भ्_5,1.17 **********************
अस्योत्तरम्---
न्य्स्_5,1.17: प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपतिः प्रतिपक्षोपपत्तेः ॥
उभयसाधर्म्यात् प्रक्रियासिद्धिं ब्रुवता प्रतिपक्षात् प्रक्रियासिद्धिरुक्ता भवति, यद्युभ्यसाधर्म्यं तत्रैकतरः प्रतिपक्ष इत्येवं सत्युपपन्नः प्रतिपक्षो भवति. प्रतिपक्षोपपत्तेरनुपपन्नः प्रतिषेधः-- यतः प्रतिपक्षोपपत्तिः प्रतिषेधोपपत्तिश्चेति विप्रतिषिद्धमिति।
तत्त्वानवधारणाच्च प्रक्रियासिद्धिः-- विपर्यये प्रकरणावसानातु तत्त्वावधारणे ह्यवसितं प्रकरणं भवतीति
********************** न्य्स्भ्_5,1.18 **********************
न्य्स्_5,1.18: त्रैकाल्यासिद्धेर्हेतोरहेतुसमः ॥
हेतुःउसाधनं तत् साध्यात् पूर्वं पश्चात् सह वा भवेत्. यदि पूर्वं साधनम् ? असति साध्ये कस्य साधनम्, अथ पश्चात् ? असति साधने कस्येदं साध्यम्, अथ युगपत् साध्यसाधते ? द्वयोर्विद्यमानयोः किं कस्य साधनं किं कस्य साध्यम्. इति हेतुरहेतुना न विशिष्यते।
अहेतुना साधर्म्यात् प्रत्यवस्थानम् अहेतुसमः
********************** न्य्स्भ्_5,1.19 **********************
अस्योत्तरम्---
न्य्स्_5,1.19: न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः ॥
न त्रैकाल्यासिद्धिः, कस्मात् ? हेतुतः साध्यसिद्धेः, निर्वतैनीयस्य निर्वृत्तिः विज्ञेयस्य विज्ञानम् उभयं कारणतो दृश्यते. सोयं महान् प्रत्यक्षविषय उदाहरणमिति।
यत्तु खलूक्तम्-- असति साध्ये कस्य साधनमिति ? यत्तु निर्वर्त्यते यच्च विज्ञाप्यते तस्येति
********************** न्य्स्भ्_5,1.20 **********************
न्य्स्_5,1.20: प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥
ऽपूर्वं पश्चाद् युगपद्वाऽ प्रतिषेध इति नोपपद्यते. प्रतिषेधानुपपत्तेः स्थापनाहेतुः सिद्ध इति
********************** न्य्स्भ्_5,1.21 **********************
न्य्स्_5,1.21: अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः ॥
ऽअनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवत्ऽ इति स्थापिते पक्षे अर्थापत्त्या प्रतिपक्षं साधयतो ऽर्थापत्तिसमः, यदि प्रयत्नानन्तरीयकत्वादनित्यसाधर्म्यादनित्यः शब्द इति ? ( तदा ) अर्थादापद्यते-- नित्यसाधर्म्यान्नित्य इति, अस्ति त्वस्य नित्येन साधर्म्यम् अस्पर्शत्वमिति
********************** न्य्स्भ्_5,1.22 **********************
अस्योत्तरम्---
न्य्स्_5,1.22: अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच्चार्थापत्तेः ॥
अनुपपाद्य सामर्थ्यम् अनुक्तमर्थादापद्यते इतिब्रुवतः पक्षहानेरुपपत्तिः-- अनुक्तत्वात् = अनित्यपक्षसिद्धौ अर्थादापन्नम्-- नित्यपक्षस्य हानिरिति।
अनेकान्तिकत्वाच्चार्थापत्तेः = उभयपक्षसमा चेयमर्थापत्तिः-- यदि नित्यसाधर्म्यादस्पर्शत्वादाकाशवच्च नित्यः शब्दः ? ( तदा ) अर्थादापन्नम्-- अनित्यसाधर्म्यात् प्रयत्नानन्तरीयकत्वादनित्य इति, न चेयं विपर्ययमात्रादेकान्तेनार्थापत्तिः. न खलु वै धनस्य ग्राव्णः पतनमिति अर्थादापद्यते-- द्रवाणामपां पतनाभाव इति
********************** न्य्स्भ्_5,1.23 **********************
न्य्स्_5,1.23: एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेर् अविशेषसमः ॥
एको धर्मः प्रयत्नानन्तरीयकत्वं शब्दघटयोरुपपद्यते इत्यविशेषे उभयोरनितयत्वे सर्वस्याविशेषः प्रसज्यते।
कथम् ? सद्भावोपपत्तेः = एको धर्मः सद्भावः सर्वस्योपपद्यते।
सद्भावोपपत्तेः सर्वाविशेषप्रसङ्गात् प्रत्यवस्थानम् अविशेषसमः
********************** न्य्स्भ्_5,1.24 **********************
अस्योत्तरम्---
न्य्स्_5,1.24: क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः ॥
यथा साध्यदृष्टान्तयोरेकधर्मस्य प्रयत्नानन्तरीयकत्वस्योपपत्तेरनित्यत्वं धर्मान्तरम् अविशेषो नैवं सर्वभावानां सद्भावोपपत्तिनिमित्तं धर्मान्तरमस्ति येनाविशेषः स्यात्।
अथ मतम्-- अनित्यत्वमेव धर्मान्तरं सद्भावोपपत्तिनिमित्तं भावानां सर्वत्र स्यादिति ?, एवं खलु वै कल्प्यमाने-- ऽअनित्याः सर्वे भावाः सद्भावोपपत्तेःऽ इतिपक्षः प्राप्नोति, तत्र प्रतिज्ञार्थव्यतिरिक्तमन्यदुदाहरणं नास्ति. अनुदाहरणश्च हेतुर्नास्तीति, प्रतिज्ञैकदेशस्य चोदाहरणत्वमनुपपन्नम्-- न हि साध्यमुदाहरणं भवति, सतश्च नित्यानित्यभावादनित्यत्वानुपपत्तिस्तस्मात् ऽसद्भावोपपत्तेः सर्वाविशेषप्रसङ्गःऽ इति निरभिधेयमेतद्वाक्यमिति।
ऽसर्वभावानां सद्भावोपपत्तेरनित्यत्वम्ऽ इति ब्रुवतानुज्ञातं शब्दस्यानित्यत्वं तत्रानुपपन्नः प्रतिषेध इति
********************** न्य्स्भ्_5,1.25 **********************
न्य्स्_5,1.25: उभयकारणोपपत्तेरुपपत्तिसमः ॥
यद्य् अनित्यत्वकारणमुपपद्यते शब्दस्य इत्य् अनित्यः शब्दः ? नित्यत्वकारणमप्युपपद्यते ऽस्यास्पर्शत्वमिति नित्यत्वमप्युपपद्यते।
उभयस्य = अनित्यत्वस्य नित्यत्वस्य च कारणोपपत्त्या प्रत्यवस्थानमुपपत्तिसमः
********************** न्य्स्भ्_5,1.26 **********************
अस्योत्तरम्---
न्य्स्_5,1.26: उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ॥
"उभयकारणोपपत्तेः"इतिब्रुवता नानित्यत्वकारणोपपत्तेरनित्यत्वं प्रतिषिध्यते, यदि प्रतिषिध्यते ? नोभयकारणोपपत्तिः स्यात्।
उभयकारणोपपत्तिवचनादनित्यत्वकारणोपपत्तिरभ्यनुज्ञायते अभ्यनुज्ञानादनुपपन्नः प्रतिषेधः।
व्याघातात् प्रतिषेध इतिचेत् ? समानो व्याघातः।
एकस्य नित्यत्वानित्यत्वप्रसङ्गं व्याहतं ब्रुवता उक्तः प्रतिषेध इतिचेत् ? स्पपक्षपरपक्षयोः समानो व्याघातः स च नैकतरस्य साधक इति
********************** न्य्स्भ्_5,1.27 **********************
न्य्स्_5,1.27: निर्दिष्टकारणाभावेप्युपलम्भादुपलब्धिसमः ॥
निर्दिष्टस्य प्रयत्नानन्तरीयकत्वस्यानित्यत्वकारणस्याभावेपि वायुनोदनाद् वृक्षशाखाभङ्गजस्य शब्दस्यानित्यत्वमुपलभ्यते।
निर्दिष्टस्य साधनस्याभावेपि साध्यधर्मोपलब्ध्या प्रत्यवस्थानमुपलब्धिसमः
********************** न्य्स्भ्_5,1.28 **********************
अस्योत्तरम्---
न्य्स्_5,1.28: कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ॥
प्रयत्नानन्तरीयकत्वादिति ब्रुवता कारणत उत्पत्तिरभिधीयते. न ( तु ) कार्यस्य कारणनियमः, यिद च कारणान्तरादप्युपपद्यमानस्य शब्दस्य तद् अनित्यत्वमुपपद्यते ? किमत्रप्रतिषिध्यते ? इति
न प्रागुच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिः, कस्मात् ? आवरणाद्यनुपलब्धेःउयथा विद्यमानस्योदकादेरर्थस्यावारणादेरनुपलब्धिर्नैवं शब्दस्याग्रहणकारणेनावरणादिनानुपलब्धिःउगृह्येत चैतदस्याग्रहणकारणमुदकादिवद् न ( च ) गृह्यते तस्मादुदकादिविपरीतः शब्दो ऽनुपलभ्यमान इति---
********************** न्य्स्भ्_5,1.29 **********************
न्य्स्_5,1.29: तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः ॥
तेषाम् आवरणादीनामनुपलब्धिर्नोपलभ्यते अनुपलम्भान्नास्तीत्य् अभावो ऽस्याः सिध्यति. अभावसिद्धौ हेत्वभावात् तद्विपरीतम् अस्तित्वमावरणादीनामवधार्यते. तद्विपरीतोपपत्तेर्यत् प्रतिज्ञातम्-- ऽन प्रागुच्चारणाद्विद्यमानस्य शब्दस्यानुपलब्धिःऽ इत्येतन्न सिध्यति. सो ऽयं हेतुः-- आवरणाद्यनुपलब्धेरिति आवरणादिषु चावरणाद्यनुपलब्धौ च समतयानुपलध्या प्रत्यवस्थितो ऽनुपलब्धिसमो भवति
********************** न्य्स्भ्_5,1.30 **********************
अस्योत्तरम्---
न्य्स्_5,1.30: अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥
ऽआवरणाद्यनुपलब्धिर्नास्ति-- अनुपलम्भात्ऽ इत्यहेतुः, कस्मात् ?, अनुपलम्भात्मकत्वादनुपलब्धेः = उपलम्भाभावमात्रत्वादनुपलब्धेः यदस्ति तदुपलब्धेर्विषयः = उपलब्ध्या तदस्तीति प्रतिज्ञायते. यन्नास्ति तदनुपलब्धेर्विषयः = अनुपलभ्यमानं नास्तीति प्रतिज्ञायते, सोयमावरणाद्यनुपलब्धेरनुपलम्भो ऽनुपलब्धौ स्वविषये प्रवर्तमानो न स्वविषयं प्रतिषेधति, अप्रतिषिद्धा चावरणाद्यनुपलब्धिर्हेतुत्वाय कल्पयते।
आवरणादीनि तु विद्यमानत्वादुपलब्धेर्विषयाः तेषामुपलब्ध्या भवितव्यं यत्तानि नोपलभ्यन्ते तद् उपलब्धेः स्वविषयप्रतिपादिकाया अभावाद् = अनुषलम्भादनुपलब्धेर्विषयो गम्यते-- ऽन सन्त्यावरणादीनि शब्दस्याग्रहणकारणानीति, अनुपलम्भादनुपलब्धिः सिध्यति-- विषयः स तस्येति
********************** न्य्स्भ्_5,1.31 **********************
न्य्स्_5,1.31: ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ॥
अहेतुरिति वर्तते।
शरीरे शरीरिणां ज्ञानविकल्पानां भावाभावौ संवेदनीयौ-- ऽअस्ति मे संशयज्ञानम् नास्ति मे संशयज्ञानम्ऽ इति. एवं प्रत्यक्षानुमानागमस्मृतिज्ञानेषु. सेयमावरणाद्य् अनुपलब्धिः ।
उपलब्ध्यभावः स्वसंवेद्यः-- नास्ति मे शब्दस्यावरणाद्युपलब्धिः इति = ऽ
नोपलभ्यन्ते शब्दस्याग्रहणकारणान्यावरणादीनीति, तत्र यदुक्तम्-- ऽतदनुपलब्धेरनुपलम्भादभावसिद्धिःऽ इति एतन्नोपपद्यते
********************** न्य्स्भ्_5,1.32 **********************
न्य्स्_5,1.32: साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ॥
ऽअनित्येन घटेन साधर्म्यादनित्यः शब्दःऽ इतिब्रुवतः--"
अस्ति घटेनानित्येन सर्वभावानां साधर्म्यम्"
इति सर्वस्यानित्यत्वमनिष्टं संपद्यते, सोयमनित्यत्वेन प्रत्यवस्थानादनित्यसम इति
********************** न्य्स्भ्_5,1.33 **********************
अस्योत्तरम्---
न्य्स्_5,1.33: साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात् ॥
प्रतिज्ञाद्यवयवयुक्तं वाक्यं पक्षनिवर्तकं प्रतिपक्षलक्षणं प्रतिषेधः, तस्य पक्षेण प्रतिषेध्येन साधर्म्यं प्रतिज्ञादियोगः, तद् यद्यनित्यसाधर्म्यादनित्यत्वस्यासिद्धिः ?-- साधर्म्यादसिद्धेः, प्रतिषेधस्याप्यसिद्धिः-- प्रतिषेध्येन साधर्म्यादिति
********************** न्य्स्भ्_5,1.34 **********************
न्य्स्_5,1.34: दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथा भावान्नाविशेषः ॥
दृष्टान्ते यः खलु धर्मः साध्यसाधनभावेन प्रज्ञायते स हेतुत्वेनाभिधीयते. स चोभयथा भवति-- केन चित्समानः कुतश्चिद्विशिष्टः. सामान्यात् साधर्म्य विशेषाच्च वैधर्म्यम्. एकं साधर्म्यविशेषो हेतुः नाविशेषेण साधर्म्यमात्रं वैधर्म्यमात्रं वा. साधर्म्यमात्रं वैधर्म्यमात्रं चाश्रित्यभावानाह--
"साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः 32"
इति. एतदयुक्तमिति।
अविशेषसमप्रतिषेधे च यदुक्तं तदपि वेदितव्यम्
********************** न्य्स्भ्_5,1.35 **********************
न्य्स्_5,1.35: नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः ॥
ऽअनित्यः शब्दःऽ इति प्रतिज्ञायते. तदनित्यत्वं किं शब्दे नित्यम् ? अथानित्यम् ?. यदि तावत् सर्वदा भवति ? धर्मस्य सदा भावाद् धर्मिणोपि सदा भाव इति ऽनित्यः शब्दःऽ इति, अथ न सर्वदा भवति ? अनित्यत्वस्याभावाद् नित्यः शब्दः, एवं नित्यत्वेन प्रत्यवस्थ्रानात् नित्यसमः
********************** न्य्स्भ्_5,1.36 **********************
अस्योत्तरम्---
न्य्स्_5,1.36: प्रतिषेध्ये नित्यमनित्यभावादनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः ॥
प्रतिषेध्ये शब्दे ऽनित्यमनित्यत्वस्य भावात्ऽ इत्युच्यमाने ऽनुज्ञातं शब्दस्यानित्यत्वम्. अनित्यत्वोपपत्तेश्च ऽनानित्यः शब्दःऽ इति प्रतिषेधो नोपपद्यते, अथ नाभ्युपगम्यते ? ऽनित्यमनित्यत्वस्य भावात्ऽ इतिहेतुर्न भवतीति हेत्वभावात् प्रतिषेधानुपपत्तिरिति।
उत्पन्नस्य निरोधाद् अभावः शब्दस्यानित्यत्वं तत्र परिप्रश्नानुपपत्तिः ।
सोयं प्रश्नः-- ऽतदनित्यत्वं किं शब्दे सर्वदा भवति ? अथ न ?ऽ इत्यनुपपन्नः, कस्मात् ? उत्पन्नस्ययो निरोधाद् अभावः शब्दस्य तद् अनित्यत्वम्. एवं च सत्य् अधिकरणाधेयविभागो व्याघातान्नास्तीति।
नित्यानित्यत्वविरोधाच्च नित्यत्वमनित्यत्वं चैकस्य धर्मिणो धर्माविति विरुध्येते ।
न संभवतः, तत्र यदुक्तम्-- ऽनित्यमनित्यत्वस्य भावाद् नित्य एवऽ तद् अवर्तमानार्थमुक्तमिति
********************** न्य्स्भ्_5,1.37 **********************
न्य्स्_5,1.37: प्रयत्नकार्यानेकत्वात् कार्यसमः ॥
ऽप्रयत्नानन्तरीयकतवादनित्यः शब्दःऽ इति, यस्य प्रयत्नानन्तरमात्मलाभः तत्खलु अभूत्वा भवति यथा घटादि कार्यम्. अनित्यमिति च ऽभूत्वा न भवतीत्येतद्विज्ञायते, एवमवस्थिते
"प्रयत्नकार्यानेकत्वात्"
इतिप्रतिषेध उच्यते ।
प्रयत्नानन्तरमात्मलाभश्च दृष्टो घटादीनाम्. व्यवधानापोहाच्चाभिव्यक्तिर्व्यवहितानाम्, तत् किं प्रयत्नानन्तरमात्मालाभः शब्दस्य ? आहो अभिव्यक्तिः ? इति विशेषो नास्ति।
कार्याविशेषेण प्रत्यवस्थानं कार्यसमः
********************** न्य्स्भ्_5,1.38 **********************
अस्योत्तरम्---
न्य्स्_5,1.38: कार्यान्यत्वे प्रयत्नाहेतुत्वम् अनुपलब्धिकारणोपपत्तेः ॥
सति कार्यान्यत्वे अनुपलब्धिकारणानुपपत्तेः प्रयत्नस्याहेतुत्वं शब्दस्याभिव्यक्तौ ।
यत्र प्रयत्नानन्तरमभिव्यक्तिस्तत्रानुपलब्धिकारणं व्यवधानमुपपद्यते. व्यवधानापोहाच्च प्रयत्नानन्तरभाविनो ऽर्थसयोपलब्धिलक्षणाभिव्यक्तिर्भवतीति. न तु शब्दस्यानुपलब्धिकारणं किं चिदुपपद्यते यस्य प्रयत्नानन्तरमपोहात् शब्दस्योपलब्धिलक्षणाभिव्यक्तिर्भवतीति. तस्मादुत्पद्यते शब्दो नाभिव्यज्यते इति
********************** न्य्स्भ्_5,1.39 **********************
हेतोश्चेदनैकान्तिकत्वमुपपाद्यते-- अनैकान्तिकत्वादसाधकः स्यादिति, यदि चानैकान्तिकत्वादसाधक्त्वम् ?---
न्य्स्_5,1.39: प्रतिषेधे ःपि समानो दोषः ॥
प्रतिषेधोप्यनैकान्तिकः-- किञ्चित् प्रतिषेधति किञ्चिन्नेति. अनैकान्तिकत्वाद् असाधक इति।
अथ वा शब्दस्यानित्यत्वपेक्षे प्रयत्नानन्तरमुत्पादो नाभिव्यक्तिरिति विशेषहेत्वभावः, नित्यत्वपक्षेपि प्रयत्नानन्तरमभिव्यक्तिर्नोत्पाद इति विशेषहेत्वभावः, सोयमुभयपक्षसमोविशेषहेत्वभाव इत्युभयमप्यनैकान्तिकमिति
********************** न्य्स्भ्_5,1.40 **********************
न्य्स्_5,1.40: सर्वत्रैवम् ॥
सर्वेषु साधर्म्यप्रभतिषु प्रतिषेधहेतुषु यत्र यत्राविशेषो दृश्यते तत्रोभयोः पक्षयोः समः प्रसज्यते इति
********************** न्य्स्भ्_5,1.41 **********************
न्य्स्_5,1.41: प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्दोषः ॥
यो ऽयं प्रतिषेधेपि समानो दोषः अनैकान्तिकत्वमापाद्यते सो ऽयं प्रतिषेधस्य प्रतिषेधेपि समानः, न ऽअनित्यः शब्दः प्रयत्नानन्तरीयकत्वात्ऽ इति साधनवादिनः स्थापना प्रथमः पक्षः,
"प्रयत्नकार्यानेकत्वात् कार्यसमः 37"
इति दूषणवादिनः प्रतिषेधहेतुना द्वितीयः पक्षः स च प्रतिषेध इत्युच्यते, तस्यास्य प्रतिषेधेपि समानो दोष इति तृतीयः पक्षः ( स च ) विप्रतिषेध उच्यते, तस्मिन् प्रतिषेधविप्रतिषेधेपि समानो दोषः अनैकान्तिकत्वं चतुर्थः पक्षः
********************** न्य्स्भ्_5,1.42 **********************
न्य्स्_5,1.42: प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा ॥
प्रतिषेधम् ।
द्वितीयं पक्षं सदोषमभ्युपेत्य ।
तदुद्धारमनुक्त्वानुज्ञाय प्रतिषेधविप्रतिषेधे ।
तृतीयपक्षे समानम् अनैकान्तिकत्वमिति समानं दूषणं प्रसजतो दूषणवादिनो मतानुज्ञा प्रसज्यते इति पञ्चमः पक्षः
********************** न्य्स्भ्_5,1.43 **********************
न्य्स्_5,1.43: स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो दोषः ॥
स्थापनापेक्षे "प्रयत्नकार्यानेकत्वात्"
इतिदोषः प्रतिषेधहेतुवादिनः स्वपक्षलक्षणो भवति, कस्मात् ?, स्वपक्षसमुत्थत्वात्, सोयं स्वपक्षलक्षणं दोषमपेक्षमाणो ऽनुद्धृत्य ।
अनुज्ञाय "प्रतिषेधेपि समानो दोषः 39"
इत्युपपद्यमानं दोषं परपक्षे उपसंहरति,इत्थं चानैकान्तिकः प्रतिषेध इति हेतुं निर्दिशति, तत्र स्वपक्षलक्षणापेक्षयोपपद्यमानदोषोपसंहारे हेतुनिर्देशे च सति अनेन परपक्षो ऽभ्युपगतो भवति।
कथं कृत्वा ?, यः परेण "प्रयत्नकार्यानेकत्वात्"
इत्यादिनानैकान्तिकत्वदोष उक्तस्तम् अनुद्धृत्य
"प्रतिषेधेपि समानो दोषः 39"
इत्याह, एवं स्थापनां सदोषामभ्युपेत्य प्रतिषेधेपि समानं दोषं प्रसजतः परपक्षाभ्युपगमात् समानो दोषो भवति. यथा परस्य प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधेपि समानो दोषप्रसङ्गो मतानुज्ञा प्रसज्यते इति तथास्यापि स्थापनां सदोषामभ्युपेत्य प्रतिषेधेपि समानं दोषं प्रसजतो मतानुज्ञा प्रसज्यते इति, स खल्वयं षष्ठः पक्षः।
तत्र खलु स्थापनाहेतुवादिनः प्रथमतृतीयपञ्चमपक्षाः, प्रतिषेधहेतुवादिनः द्वितीयचतुर्थषष्ठपक्षाः, तेषां साध्व् असाधुतायां मीमांस्यमानायां चतुर्थषष्ठयोरविशेषात् पुनरुक्तदोषप्रसङ्गः ।
चतुर्थपक्षे समानदोषत्वं परस्योच्यते--
"प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः 41"
इति,
षष्ठेपि "परपक्षाभ्युपगमात् समानो दोषः"
इतिसमानदोषत्वमेवोच्यते नार्थविशेषः कश्चिदस्ति।
समानस्तृतीयपञ्चमयोः पुनरुक्तदोषप्रसङ्ग ।
तृतीयपक्षेपि "प्रतिषेधेपि समानो दोषः 39"
इति समानत्वमभ्युपगम्यते. पञ्चमपक्षेपि प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो ऽभ्युपगम्यते नार्थविशेषः कश्चिदुच्यते इति।
तत्र पञ्चमषष्ठपक्षयोरर्थाविशेषात् पुनरुक्तदोषः, तृतीयचतुर्थयोर्मतानुज्ञा, प्रथमद्वितीययोर्विशेषहेत्वभाव इति षट्पक्ष्यामुभयोरसिद्धिः।
कदा षट्पक्षी ?, यदा "प्रतिषेधेपि सामानो दोषः"
इत्येवं प्रवर्तते तदोभयोः पक्षयोरसिद्धिः, यदा तु
"कार्यान्यत्वेप्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः 38"
इत्यनेन तृतीयपक्षो युज्यते तदा विशेषहेतुवचनात् प्रयत्नानन्तरमारमलाभः शब्दस्य नाभिव्यक्तिरिति सिद्धः प्रथमपक्षो न षट्पक्षी प्रवर्तते इति
मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0