भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र (टीका सहित) · अध्याय 8

8.1

॥ इति वात्स्यायनीये न्यायभाष्ये तृतीयाध्यायद्वितीयमाह्निकं समाप्तम् ॥
॥ तृतीयाध्यायश्च समाप्तः ॥
॥ अथ सटीके न्यायभाष्ये चतुर्थाध्यायस्य प्रथममाह्निकम् ॥
********************** न्य्स्भ्_4,1.1 **********************
मनसो ऽनन्तरं प्रवृत्तिः परीक्षितव्या, तत्र खलु यावद् धर्माधर्माश्रयशरीरादि परीक्षितं सर्वा सा प्रवृत्तेः परीक्षेत्याह---
न्य्स्_4,1.1: प्रवृत्तिर्यथोक्ता ॥
तथा परीक्षितेति

8.2

प्रवृत्त्यनन्तरास्तर्हि दोषाः परीक्ष्यन्तामित्यत आह---
********************** न्य्स्भ्_4,1.2 **********************
न्य्स्_4,1.2: तथा दोषाः ॥
परीक्षिता इति, बुद्धिसमानाश्रयत्वादात्मगुणाः. प्रवृत्तिहेतुत्वात् पुनर्भवप्रतिसंधानसामर्थ्याच्च संसारहेतवः. संसारस्यानादित्वादनादिना प्रबन्धेन प्रवर्तन्ते।
मिथ्याज्ञाननिवृत्तिस्तत्त्वज्ञानात् तन्निवृत्तौ रागद्वेषप्रबन्धोच्छेदे ऽपवर्ग इति।
प्रादुर्भावतिरोधानधर्मका इत्येवमाद्युक्तं दोषाणामिति

8.3

********************** न्य्स्भ्_4,1.3 **********************
"प्रवर्तनालक्षणा दोषाः 1-1-18"
इत्युक्तं तथा चेमे मानेर्ष्यासूयाविचिकित्सामत्सरादयः ते कस्मान्नोपसंख्यायन्ते ? इत्यत आह---
न्य्स्_4,1.3: तत् त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ॥
तेषां दोषाणां त्रयो राशयः ।
त्रयः पक्षाः-- रागपक्षः-- कामो मत्सरः स्पृहा तृष्णा लोभ इति. द्वेषपक्षः-- क्रोध ईर्ष्यासूया द्रोहो ऽमर्ष इति, मोहपक्षः-- मिथ्याज्ञानं विचिकित्सा मानः प्रमाद इति. त्रैराश्यान्नोपसंख्यायन्ते इति।
लक्षणस्य तर्ह्य् अभेदात् त्रित्वमनुपपन्नम् ?. नानुपपन्नम्-- रागद्वेषमोहार्थान्तरभावात् ।
आसक्तिलक्षणो रागः. अमर्षलक्षणो द्वेषः. मिथ्याप्रतिपत्तिलक्षणो मोह इति, एतत् प्रतयात्मवेदनीयं सर्वशरीरिणाम् ।
विजानात्ययं शरीरी रागमुत्पन्नम्-- ऽअस्ति मे ऽध्यात्मं रागधर्मःऽ इति, विरागं च विजानाति-- ऽनास्ति मे ऽध्यात्मं रागधर्मःऽ इति. एवमितरयोरपीति।
मानेर्ष्यासूयाप्रभृतयस्तु त्रैराश्यमनुपतिता इति नोपसंख्यायन्ते

8.4

********************** न्य्स्भ्_4,1.4 **********************
न्य्स्_4,1.4: नैकप्रत्यनीकभावात् ॥
नार्थान्तरं रागादयः, कस्मात् ?, एकप्रत्यनीकभावात् ।
तत्त्वज्ञानम् ।
सम्यङ्मतिः ।
आर्यप्रज्ञा ।
संबोध इत्येममिदं प्रत्यनीकं त्रयाणामिति

8.5

********************** न्य्स्भ्_4,1.5 **********************
न्य्स्_4,1.5: व्यभिचारादहेतुः ॥
एकप्रत्यनीकाः पृथिव्यां श्यामादयो ऽग्निसंयोगेनैकेन. एकयोनयश्च पाकजा इति

8.6

********************** न्य्स्भ्_4,1.6 **********************
सति चार्थान्तरभावे---
न्य्स्_4,1.6: तेषां मोहः पापीयान् नामूढस्येतरोत्पत्तेः ॥
मोहः पापः पापतरो वा द्वावभिप्रेत्योक्तम्, कस्मात् ?. नामूढस्येतरोत्पत्तेः ।
अमूढस्य रागद्वेषौ नोत्पद्येते, मूढस्य तु यथासंकल्पमुत्पत्तिः ।
विषयेषु रञ्जनीयाः संकल्पा रागहेतवः कोपनीयाः संकल्पा द्वेषहेतवः उभये च संकल्पा न मिथ्याप्रतिपत्तिलक्षणत्वाद् मोहादन्ये, ताविमौ मोहयोनी रागद्वेषाविति, तत्त्वज्ञानाच्च मोहनिवृत्तौ रागद्वेषानुत्पत्तिरित्येकप्रत्यनीकभावोपपत्तिः, एवं च कृत्वा तत्त्वज्ञानात्"
दुःखजन्मप्रवृत्तिदोषमित्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः 1-1-2"
इति व्याख्यातमिति

8.7

********************** न्य्स्भ्_4,1.7 **********************
प्राप्तस्तर्हि---
न्य्स्_4,1.7: निमित्तनैमित्तकभावादर्थान्तरभावो दोषेभ्यः ॥
अन्यद्धि निमित्तम् अन्यच्च नैमित्तकमिति दोषनिमित्तत्वाददोषो मोह इति

8.8

********************** न्य्स्भ्_4,1.8 **********************
न्य्स्_4,1.8: न दोषलक्षणावरोधान्मोहस्य ॥
"प्रवर्तनालक्षणा दोषः 1-1-18"
इत्यनेन दोषलक्षणेनावरुध्यते दोषेषु मोह इति

8.9

********************** न्य्स्भ्_4,1.9 **********************
न्य्स्_4,1.9: निमित्तनैमित्तकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ॥
द्रव्याणां गुणानां वानेकविधविकल्पो निमित्तनैमित्तकभावो तुल्यजातीयानां दृष्ट इति

8.10

********************** न्य्स्भ्_4,1.10 **********************
दोषानन्तरं प्रेत्यभावः, तस्यासिद्धिः-- आत्मनो नित्यत्वात् ।
न खलु नित्यं किञ्चित् जायते म्रियते वा इति. जन्ममरणयोर्नित्यत्वादात्मनो ऽनुपपत्तिः उभयं च प्रेत्यभाव इति । तत्रायं सिद्धानुवादः---
न्य्स्_4,1.10: आत्मनित्यत्वे प्रेत्यभावसिद्धिः ॥
नित्योयमात्मा प्रैति ।
पूर्वशरीरं जहाति ।
म्रियते इति. प्रेत्य च ।
पूर्वशरीरं हित्वा भवति ।
जायते ।
शरीरान्तरमुपादत्ते इति. तच्चैतदुभयम् ।
पुनरुत्पत्तिः प्रेत्यभाव इति. तच्चैतत् नित्यत्वे संभवतीति।
यस्य तु सत्त्वोत्पादः सत्त्वनिरोधः प्रेत्यभावस्तस्य कृतहानमकृताभ्यागमश्च दोषः, उच्छेदहेतुवादे ऋष्युपदेशाश्चानर्थका इति

8.11

********************** न्य्स्भ्_4,1.11 **********************
कथमुत्पत्तिरितिचेत् ?.
न्य्स्_4,1.11: व्यक्ताद् व्यक्तानां प्रत्यक्षप्रामाण्यात् ॥
केन प्रकारेण किन्धर्मकात् कारणाद् व्यक्तं शरीरमुत्पद्यते इति ?, व्यक्तात् ।
भूतसमाख्यातात् पृथिव्यादितः परमसूक्ष्माद् नित्यात् व्यक्तम् ।
शरीरेन्द्रियविषयोपकरणाधारं प्रज्ञातं द्रव्यमुत्पद्यते, व्यक्तं च खल्विन्द्रियग्राह्यं तत्सामान्यात् कारणमपि व्यक्तम्।
किं सामान्यम् ?. रूपादिगुणयोगः ।
रूपादिगुणयुक्तेभ्यः पृथिव्यादिभ्यो नित्येभ्यो रूपादिगुणयुक्तं शरीरादि उत्पद्यते-- प्रत्यक्षप्रामाण्यात् ।
दृष्टो हि रूपादिगुणयुक्तेभ्यो मृत्प्रभृतिभ्यस्तथाभूतस्य द्रव्यस्योत्पादः तेन चादृष्टस्यानुमानमिति ।
रूपादीनामन्वयदर्शनात् प्रकृतिविकारयोः पृथिव्यादीनां नित्यानामतीन्द्रियाणां कारणभावो ऽनुमीयते इति

8.12

********************** न्य्स्भ्_4,1.12 **********************
न्य्स्_4,1.12: न घटाद् घटानिष्पत्तेः ॥
इदमपि प्रत्यक्षम्-- न खलु व्यक्ताद् घटाद् व्यक्तो घट उत्पद्यमानो दृश्यते इति. व्यक्ताद् व्यक्तस्यानुत्पत्तिदर्शनान्न व्यक्तं कारणमिति

8.13

********************** न्य्स्भ्_4,1.13 **********************
न्य्स्_4,1.13: व्यक्ताद् घटनिष्पत्तेरप्रतिषेधः ॥
न ब्रूमः सर्वं सर्वस्य कारणमिति किं तु यदुत्पद्यते व्यक्तं द्रव्यं तत् तथाभूतादेवोत्पद्यते इति, व्यक्तं च तद् मृद्द्रव्यं कपालसंज्ञकं यतो घट उत्पद्यते न चैतद् निह्नुवानः क्वचिदभ्यनुज्ञां लब्धुमर्हतीति।
तदेतत् तत्त्वम्

8.14

********************** न्य्स्भ्_4,1.14 **********************
अतः परं प्रावादुकानां दृष्टयः प्रदर्श्यन्ते---
न्य्स्_4,1.14: अभावाद् भावोत्पत्तिर् नानुपमृद्य प्रादुर्भावात् ॥
असतः सदुत्पद्यते इत्ययं पक्षः, कस्मात् ?, उपमृद्य प्रादुर्भावात् ।
उपमृद्य बीजमङ्कुर उत्पद्यते नानुपमृद्य, न चेद् बीजोपमर्दे ऽङ्कुरकारणम् ? अनुपमर्देपि बीजस्याङ्कुरोत्पत्तिः स्यादिति

8.15

********************** न्य्स्भ्_4,1.15 **********************
अत्राभिधीयते---
न्य्स्_4,1.15: व्याघातादप्रयोगः ॥
ऽउपमृद्य प्रादुर्भावात्ऽ इत्ययुक्तः प्रयोगः-- व्याघातात् ।
यदुपमृद्नाति न तदुपमृद्य प्रादुर्भवितुमर्हति-- विद्यमानत्वात्. यच्च प्रादुर्भवति न तेनाप्रादुर्भूतेन ।
अविद्यमानेनोपमर्द इति

8.16

********************** न्य्स्भ्_4,1.16 **********************
न्य्स्_4,1.16: नातीतानागतयोः कारकशब्दप्रयोगात् ॥
अतीति चानागते चाविद्यमाने कारकशब्दः प्रयुज्यन्ते-- पुत्रो जनिष्यते जनिष्यमाणं पुत्रमभिनन्दति, पुत्रस्य जनिष्यमाणस्य नाम करोति, अभूत् कुम्भो भिन्नं कुम्भमनुशोचति-- भिन्नस्य कुम्भस्य कपालानि, अजाताः पुत्राः पितरं तापयन्ति इति बहुलं भाक्ताः प्रयोगा दृश्यन्ते।
का पुनरियं भक्तिः ?. आनन्तर्य भक्तिः ।
आनन्तर्यसामर्थ्यादुपमृद्य प्रादुर्भावार्थः ।
प्रादुर्भविष्यन्नङ्कुर उपमृद्गातीति भाक्तं कर्तृत्वमिति

8.17

********************** न्य्स्भ्_4,1.17 **********************
न्य्स्_4,1.17: न विनष्टेभ्यो ऽनिष्पत्तेः ॥
न विनष्टाद् बीजादङ्कुर उत्पद्यते इति तस्मान्नाभावाद् भावोत्पत्तिरिति

8.18

********************** न्य्स्भ्_4,1.18 **********************
न्य्स्_4,1.18: क्रमनिर्देशादप्रतिषेधः ॥
उषमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः स खल्वभावाद् भावोत्पत्तेर्हेतुर्निर्दिश्यते स च न प्रतिषिध्यते इति ॥
व्याहतव्यूहानामवयवानां पूर्वव्यूहनिवृत्तौ व्यूहान्तराद् द्रव्यनिष्पत्तिर्नाभावात् ।
बीजावयवाः कुतश्चिन्निमित्तात् प्रादुर्भूताक्रियाः पूर्वव्यूहं जहति व्यूहान्तरं चापद्यन्ते व्यूहान्तरादङ्कुर उत्पद्यते-- दृश्यन्ते खलु अवयवास्तत्संयोगाश्चाङ्कुरोत्पत्तिहेतवः, न चानिवृत्ते पूर्वव्यूहे बीजावयवानां शक्यं व्यूहान्तरेण भवितुमिति उपमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः तस्मान्नाभावाद् भावोत्पत्तिरिति, न चान्यद् बीजावयवेभ्यो ऽङ्कुरोत्पत्तिकारणमित्युपपद्यते बीजोपादाननियम इति

8.19

********************** न्य्स्भ्_4,1.19 **********************
अथापर आह---
न्य्स्_4,1.19: ईश्वरः कारणम्-- पुरुषकर्माफल्यदर्शनात् ॥
पुरुषोयं समीहमानो नावश्यं समीहाफलं प्राप्नोति तेनानुमीयते-- पराधीनां पुरुषस्य कर्मफलाराधनमिति. यदधीनं स ईश्वरः तस्मादीश्वरः कारणमिति

8.20

********************** न्य्स्भ्_4,1.20 **********************
न्य्स्_4,1.20: न पुरुषकर्माभावे फलानिष्पत्तेः ॥
ईश्वराधीना चेत् फलनिष्पत्तिः स्याद् अपि तर्हि पुरुषस्य समीहामन्तरेण फलं निष्पद्येतेति

8.21

********************** न्य्स्भ्_4,1.21 **********************
न्य्स्_4,1.21: तत्कारितत्वादहेतुः ॥
पुरुषकारमीश्वरो ऽनुगृह्णाति ।
फलाय पुरुषस्य यतमानस्येश्वरः फलं संपादयतीति. यदा न संपादयति तदा पुरुषकर्माफलं भवतीति. तस्माद् ईश्वरकारितत्वाद् अहेतुः--
"पुरुषकर्माभावे फलानिष्पत्तेः" इति।
गुणविशिष्टमात्मान्तरमीश्वरः तस्यात्मकल्पात्
कल्पान्तरानुपपत्तिः, अधर्ममिथ्याज्ञानप्रमादहान्या
धर्मज्ञानसमाधिसंपदा च विशिष्टमात्मान्तरमीश्वरः
तस्य च धर्मसमाधिफलम् अणिमाद्यष्टविधमैश्वर्यम्,
संकल्पानुविधायी चास्य धर्मः प्रत्यात्मवृत्तीन्
धर्माधर्मसंचयान् पृथिव्यादीनि च भूतानि
प्रवर्तयति, एवं च स्वकृताभ्यागमस्यालोपेन
निर्माणप्राकाम्भमीश्वरस्य स्वकृतकर्मफलं वेदितव्यम्।
आप्तकल्पश्चायम् उयथा पितापत्यानां तथा पितृभूत ईश्वरो
भूतानाम्, न चात्मकल्पादन्यः कल्पः संभवति ।
न तावदस्य बुद्धिं विना कश्चिद् धर्मो लिङ्गभूतः
शक्य उपपादयितुम्. आगमाच्च द्रष्टा बोद्धा
सर्वज्ञाता ईश्वर इति ।
बुद्ध्यादिभिश्चात्मलिङ्गैर्निरुपाख्यमीश्वरं
प्रत्यक्षानुमानागमविषयातीतं कः रक्त उपपादयितुम् ।
स्वकृताभ्यागमलोपेन च प्रवर्तमानस्यास्य
यदुक्तं प्रतिषेधजातम् अकर्मनिमित्ते शरीरसर्गे
तत्सर्वं प्रसज्यते इति

8.22

********************** न्य्स्भ्_4,1.22 **********************
अपर इदानीमाह---
न्य्स्_4,1.22: अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् ॥
अनिमित्ता शरीराद्युपत्तिः--
कण्टकतैक्ष्ण्यादिदर्शनात् = कण्टकस्य तैक्ष्ण्यं पर्वतधातूनां चित्रता
ग्राव्णां श्लक्ष्णता. निनिर्मित्तं चोपादानं दृष्टं
तथा शरीरसर्गोपीति

8.23

********************** न्य्स्भ्_4,1.23 **********************
न्य्स्_4,1.23: अनिमित्तनिमित्तत्वाद् नानिमित्ततः ॥
"अनिमित्ततो भावोत्पत्तिः"
इत्युच्यते. यतश्चोत्पद्यते तन्निमित्तम्, अनिमित्तस्य निमित्तत्वाद् नानिमित्ता भावोत्पत्तिरिति

8.24

********************** न्य्स्भ्_4,1.24 **********************
न्य्स्_4,1.24: निमित्तानिमित्तयोरर्थान्तरभावादप्रतिषेधः ॥
अन्यद्धि निमित्तम् अन्यच्च निमित्तप्रत्याख्यानं.
न च प्रत्याख्यानमेव प्रत्याख्येयं यथा-- ऽअनुदकः
कमण्डलुःऽ इति नोदकप्रतिषेध उदकं भवतीति ॥
स खल्वयं वादः ऽअकर्मनिमित्तः शरीरादिसर्गःऽ
इत्येतस्मान्न भिद्यते अभेदात् तत्प्रतिषेधेनैव
प्रतिषिद्धो वेदितव्य इति

8.25

********************** न्य्स्भ्_4,1.25 **********************
अन्ये तु मन्यन्ते---
न्य्स्_4,1.25: सर्वमनित्यम् उत्पत्तिविनाशधर्मकत्वात् ॥
किमनित्यं नाम ?, यस्य कदाचिद् भावस्तदनित्यम् = उत्पत्तिधर्मकमनुत्पन्नं नास्ति. विनाशधर्मकं
चाविनष्टं नास्ति।
किं पुनः ?, सर्वं भौतिकं च शरीरादि अभौतिकं च बुद्ध्यादि तदुभयमुत्पत्तिविनाशधर्मकं विज्ञायते तस्मात्तत्सर्वमनित्यमिति

8.26

********************** न्य्स्भ्_4,1.26 **********************
न्य्स्_4,1.26: नानित्यतानित्यत्वात् ॥
यदि तावत् सर्वस्यानित्यता नित्या ? तन्नित्यत्वाद् न सर्वमनित्यम्।
अथानित्या ? तस्याम् अविद्यमानायां सर्वं नित्यमिति

8.27

********************** न्य्स्भ्_4,1.27 **********************
न्य्स्_4,1.27: तदनित्यत्वम् अग्नेर्दाह्यं विनाश्यानुविनाशवत् ॥
तस्या अनित्यताया अप्यनित्यत्वम् ।
कथम् ?, यथाग्निर्दाह्यं विनाश्यानुविनश्यति
एवं सर्वस्यानित्यता सर्वं विनाश्यानुविनश्यतीति

8.28

********************** न्य्स्भ्_4,1.28 **********************
न्य्स्_4,1.28: नित्यस्याप्रत्याख्यानं यथोपलब्धि व्यवस्थानात् ॥
अयं खलु वादो नित्यं प्रत्याचष्टे नित्यस्य च प्रत्याख्यानमनुपपन्नम् ।
कस्मात् ?, यथोपलब्धि व्यवस्थानात् ।
यस्योत्पत्तिविनाशधर्मकत्वमुपलभ्यते
प्रमाणतस्तदनित्यम्. यस्य नोपलभ्यते तद्
विपरीतम्, न च परमसूक्ष्माणां भूतानाम् आकाशकालदिगात्ममनसां
तद्गुणानां च केषाञ्चित् सामान्यविशेषसमवायानां
चोत्पत्तिविनाशधर्मकत्वं प्रमाणत उपलभ्यते
तस्माद् नित्यान्येतानीति

8.29

********************** न्य्स्भ्_4,1.29 **********************
अयमन्य एकान्तः---
न्य्स्_4,1.29: सर्वं नित्यं पञ्चभूतनित्यत्वात् ॥
भूतमात्रम् इदं सर्वं. तानि च नित्यानि--
भूतोच्छेदानुपपत्तेरिति

8.30

********************** न्य्स्भ्_4,1.30 **********************
न्य्स्_4,1.30: नोत्पत्तिविनाशकारणोपलब्धेः ॥
उत्पत्तिकारणं चोपलभ्यते विनाशकारणं
च तत् सर्वनित्यत्वे व्याहन्यते इति

8.31

********************** न्य्स्भ्_4,1.31 **********************
न्य्स्_4,1.31: तल्लक्षणावरोधादप्रतिषेधः ॥
यस्योत्पत्तिविनाशकारणमुपलभ्यते
इति मन्यसे न तद् भूतलक्षणहीनमर्थान्तरं
गृह्यते. भूतलक्षणावरोधाद् भूतमात्रमिदम्
इत्य् अयुक्तो ऽयं प्रतिषेध इति

8.32

********************** न्य्स्भ्_4,1.32 **********************
न्य्स्_4,1.32: नोत्पत्तितत्कारणोपलब्धेः ॥
कारणसमानगुणस्योत्पत्तिः कारणं चोपलभ्यते
न चैतदुभयं नित्यविषयम्, न चोत्पत्तितत्कारणोपलब्धिः
शक्या प्रत्याख्यातुम्-- न चाविषया काचिदुपलब्धिः,
उपलब्धिसामर्थ्यात् कारणेन समानगुणं
कार्यमुत्पद्यते इत्यनुमीयते स खलूपलब्धेर्विषय
इति, एवं च तल्लक्षणावरोधोपपतितिरिति ।
उत्पत्तिविनाशकारणप्रयुक्तस्य ज्ञातुः प्रयत्नो दृष्ट इति।
प्रसिद्धश्चावयवी तद्धर्मा ।
उत्पत्तिविनाशधर्मा चावयवी सिद्ध इति।
शब्दकर्मबुद्ध्यादीनां चाव्याप्तिः ।
पञ्चभूतनित्यत्वात् तल्लक्षणारोधाच्चेत्यनेन
शब्दकर्मबुद्धिसुखदुःखेच्छोद्वषप्रयत्नाश्च
न व्याप्तास्तस्मादनेकान्तः ॥
स्वप्नविषयाभिमानवद्
मिथ्योपलब्धिरितिचेत् ? भूतौपलब्धौ तुल्यम् ॥
यथा स्वप्ने विषयाभिमान एवमुत्पत्तिकारणाभिमान
इति, एवं च एतद् भूतोपलब्धौ तुल्यम्
उपृथिव्याद्युपलब्धिरपि स्वप्नविषयाभिमानवत् प्रसज्यते ॥
पृथिव्याद्यभावे सर्वव्यवहारविलोप इतिचेत् ? तदितरत्र समानम् ॥
उत्पत्तिविनाशकारणोपलब्धिविषयस्याप्यभावे
सर्वव्यवहारविलोप इति. सोयं नित्यानामतीन्द्रियत्वादविषयत्वाच्चोत्पत्तिविनाशयोः
ऽस्वप्नविषयाभिमानवत्ऽ इत्यहेतुरिति

8.33

********************** न्य्स्भ्_4,1.33 **********************
अवस्थितस्योपादानस्य धर्ममात्रं निवर्तते
धर्ममात्रमुपजायते स खलूत्पत्तिविनाशयोर्विषयः,
यच्चोपजायते तत् प्रागप्युपजननादस्ति
यच्च निवर्तते तद् निवृत्तमप्यस्तीति एवं
च सर्वस्य नित्यत्वमिति---
न्य्स्_4,1.33: न व्यवस्थानुपपत्तेः ॥
अयमुपजन इयं निवृत्तिरिति व्यवस्था नोपपद्यते--
उपजातनिवृत्तयोर्विद्यमानत्वात्, अयं धर्म
उपजातो ऽयं निवृत्त इति सद्भावाविशेषादव्यवस्था,
इदानीमुपजननिवृत्ती नेदानीमिति कालव्यवस्था
नोपपद्यते-- सर्वदा विद्यमानत्वात्, अस्य धर्मस्योपजननिवृत्ती
नास्येति व्यवस्थानुपपत्तिः-- उभयोरविशेषात्,
अनागतो ऽतीत इति च कालव्यवस्थानुपपत्तिः--
वर्तमानस्य सद्भावलक्षणत्वात्।
अविद्यमानस्यात्मलाभ
उपजनो विद्यमानस्यात्महानं निवृत्तिः इत्येतस्मिन्
सति नैते दोषाः, तस्माद् यदुक्तम्-- ऽप्रागप्युपजननादस्ति
निवृत्तं चास्ति ( इति) तदयुक्तमिति

8.34

********************** न्य्स्भ्_4,1.34 **********************
अयमन्य एकान्तः---
न्य्स्_4,1.34: सर्वं पृथग् भावलक्षणपृथक्त्वात् ॥
सर्वं नाना ।
न कश्चिदेको भावो विद्यते, कस्मात् ?, भावलक्षणपृथक्त्वात्
उभावस्य लक्षणम् ।
अभिधानम् ।
येन लक्ष्यते भावः स समाख्याशब्दः तस्य
पृथग्विषयत्वात् ।
सर्वोभावसमाख्याशब्दः समूहवाची, ऽकुम्भःऽ इति संज्ञाशब्दो गन्धरसरूपस्पर्शसमूहे
बध्नपार्श्वग्रीवादिसमूहे च वर्तते, निदर्शनमात्रं
चेदमिति

8.35

********************** न्य्स्भ्_4,1.35 **********************
न्य्स्_4,1.35: नानेकलक्षणैरेकभावनिष्पत्तेः ॥
ऽअनेकविधलक्षणैःऽ इति मध्यमपदलोपी
समासः, गन्धादिभिश्च गुणैर्बुध्नादिभिश्चावयवैः
संबद्ध एको भावो निष्पद्यते।
गुणव्यतिरिक्तं
च द्रव्यम् अवयवातिरिक्तश्चावयवीति,
विभक्तन्यायं चैतदुभयमिति

8.36

********************** न्य्स्भ्_4,1.36 **********************
न्य्स्_4,1.36: अथापि लक्षणव्यवस्थानादेवाप्रतिषेधः ॥
ऽन कश्चिदेको भावःऽ इत्ययुक्तः प्रतिषेधः,
कस्मात् ?. लक्षणव्यवस्थानादेव ।
यदिह लक्षणं भावस्य संज्ञाशब्दभूतं तदेकस्मिन्
व्यवस्थितम्-- ऽयं कुम्भमद्राक्षं तं स्पृशामिऽ
ऽयमेवास्प्राक्षं तं पश्यामीति. नाणुसमूहो
गृह्यते इति. अणुसमूहे चागृह्यमाणे यद्
गृह्यते तदेकमेवेति ॥
अथाप्येतदनूक्तम्--
नास्त्येको भावो यस्मात्समुदायः।
एकानुपपत्तेर्नास्त्येव समूहः।
नास्त्येको भावो यस्मात् समूहे भावशब्दप्रयोगः, एकस्य चानुपपत्तेः
समूहो नोपपद्यते-- एकसमुच्चयो हि
समूह इति, व्याहतत्वादनुपपन्नम्-- ऽनास्त्येको भावःऽ इति ।
यस्य प्रतिषेधः प्रतिज्ञायते-- ऽसमूहे
भावशब्दप्रयोगात्ऽ इति हेतुं ब्रुवता
स एवाभ्युनुज्ञायते-- एकसमुच्चयो हि
समूह इति ।
समूहे भावशब्दप्रयोगादिति
च समूहमाश्रित्य प्रत्येकं समूहिप्रतिषेधः--
नास्त्येको भाव इति, सोयमुभयतो
व्याघाताद् यत्किञ्चन वाद इति

8.37

********************** न्य्स्भ्_4,1.37 **********************
अयमपर एकान्तः---
न्य्स्_4,1.37: सर्वमभावो भावेष्वितरेतराभावसिद्धेः ॥
यावद् भावजातं तत्सर्वम् अभावः, कस्मात् ?,
भावेष्वितरेतराभावसिद्धेः = ऽअसन् गौरश्वात्मनाऽ ऽअनश्वो गौःऽ ऽअसन्न् अश्वो
गवात्मनाऽ ऽअगौरवश्वःऽ इत्य् असत्प्रत्ययस्य प्रतिषेधस्य
च भावशब्देन सामानाधिकरण्यात् सर्वमभाव
इति॥
प्रतिज्ञावाक्ये पदयोः प्रतिज्ञाहेत्वोश्च
व्याघातादयुक्तम् ॥
अनेकस्याशेषता सर्वशब्दस्यार्थः
भावप्रतिषेधश्चाभावशब्दस्यार्थः. पूर्वं
सोपाख्यम् उत्तरं निरुपाख्यम्. तत्र समुपाख्यायमानं
कथं निरुपाख्यम् अभावः स्यादिति = न जात्वभावो निरुपाख्यो ऽनेकतया ।
अशेषतया शक्यः प्रतिज्ञातुमिति।
सर्वमेतदभाव
इति चेत् ? ।
यदिदं सर्वमिति मन्यसे तद्भाव इत्येवं
चेत् ? अनिवृत्तो व्याघातः-- अनेकमशेषं चेति
नाभावप्रत्ययेन शक्यं भवितुम्. अस्ति चायं
प्रत्ययः-- सर्वमिति. तस्मान्नाभाव इति।
प्रतिज्ञाहेत्वोश्च
व्याघातः-- ऽसर्वमभावःऽ इति भावप्रतिषेधः
प्रतिज्ञा. ऽभावेष्वितरेतराभावसिद्धेःऽ
इतिहेतुः. भावेष्वितरेतराभावम् अनुज्ञाय ।
आश्रित्य चेतरेतराभावसिद्धौ सर्वमभाव
इत्युच्यते. यदि सर्वमभावः ?
"भावेष्वितरेतराभावसिद्धेः"
इति नोपपद्यते. अथ भावेष्वितरेतराभावसिद्धि ? सर्वमभाव इति नोपपद्यते

8.38

********************** न्य्स्भ्_4,1.38 **********************
सूत्रेण चाभिसंबन्धः---
न्य्स्_4,1.38: न स्वभावसिद्धेर्भावानाम् ॥
न सर्वमभावः, कस्मात् ? स्वेन भावेन सद्भावाद् भावानाम् ।
स्वेन धर्मेण भावा भवन्तीति प्रतिज्ञायते ।
कश्च स्वो धर्मो भावानाम् ?, द्रव्यगुणकर्मणां
सदादि सामान्यम्. द्रव्याणां क्रियावदित्येवमादिर्विशेषः.
स्पर्शपर्यन्ताः पृथिव्या इति च, प्रत्येकं चानन्तो
भेदः, सामान्यविशेषसमवायानां च
विशिष्टा धर्मा गृह्यन्ते, सोयमभावस्य
निरुपाख्यत्वात् संप्रत्यायको ऽर्थभेदो न
स्यात्. अस्ति त्वयं तस्मान्न सर्वमभाव इति ।
अथ वा---
"न स्वभावसिद्धेर्भावानाम्"
इति स्वरूपसिद्धेरिति. गौरितिप्रयुज्यमाने
शब्दे जातिविशिष्टं द्रव्यं गृह्यते नाभावमात्रम्.
यदि च सर्वमभावः गौरित्यभावः प्रतीयेत,
गोशब्देन चाभाव उच्येत, यस्मात्तु गोशब्दप्रयोगे
द्रव्यविशेषः प्रतीयते नाभावस्तस्मादयुक्तमिति।
अथ वा--
"न स्वभावसिद्धेः"
इति ऽअसन् गौरश्वात्मनाऽ इति गवात्मना
कस्मान्नोच्यते ? अवचनाद् ऽगवात्मना गौरस्तिऽ
इति स्वभावसिद्धिः, ऽअनश्वो ऽश्वःऽ इति वा ऽगौरगौःऽ
इति वा कस्मान्नोच्यते ? अवचनात् स्वेन
रूपेण विद्यमानता द्रव्यस्येतिविज्ञायते।
अव्यतिरेकप्रतिषेधे
च भावानाम् असत्प्रत्ययसामानाधिकरण्यम्।
संयोगादिसंबन्धो व्यतिरेकः अत्राव्यतिरेको ऽभेदाख्यसंबन्धः
तत्प्रतिषेधे चासत्प्रत्ययसामानाधिकरण्यं
यथा-- ऽन सन्ति कुण्डे बदराणीति, ऽअसन्
गौरश्वात्मनाऽ ऽअनश्वोगौःऽ इति च गवाश्वयोरव्यतिरेकः
प्रतिषिध्यते ।
गवाश्वयोरेकत्वं नास्तीति. तस्मिन् प्रतिषिध्यमाने
भावेन गवा सामाधिकरण्यमसत्प्रत्ययस्य--
ऽअसन् गौरश्वात्मनाऽ इति. यथा ऽन सन्ति कुण्डे
बदराणीति कुण्डे बदरसंयोगे प्रतिषिध्यमाने
सद्भिरसत्प्रत्ययस्य सामाधिकरण्यमिति

8.39

********************** न्य्स्भ्_4,1.39 **********************
न्य्स्_4,1.39: न स्वभावसिद्धिर् आपेक्षिकत्वात् ॥
अपेक्षाकृतम् आपेक्षिकम्,
ह्रस्वापेक्षाकृतं दीर्घं दीर्घापेक्षाकृतं
ह्रस्वम्. न स्वेनात्मनावस्थितं किञ्चित्।
कस्मात् ?
अपेक्षासामर्थ्यात्. तस्मान्न स्वभावसिद्धिर्भावानामिति

8.40

********************** न्य्स्भ्_4,1.40 **********************
न्य्स्_4,1.40: व्याहतत्वादयुक्तम् ॥
यदि ह्रस्वापेक्षाकृतं दीर्घं किमिदानीमपेक्ष्य
ऽह्रस्वम्ऽ इति गृह्यते ?।
अथ दीर्घापेक्षाकृतं
ह्रस्वम् ? दीर्घमनापेक्षिकम्, एवमितरेतराश्रययोरेकाभावे ऽन्यतराभावादुभयाभाव
इत्यपेक्षाव्यवस्थानुपपन्ना।
स्वभावसिद्धाव् असत्यां समयोः परिमण्डलयोर्वा द्रव्ययोरापेक्षिके दीर्घत्वह्रस्वत्वे कस्मान्न भवतः ?।
अपेक्षायामनपेक्षायां च द्रव्ययोरभेदः ।
यावती द्रव्ये अपेक्षमाणे तावती एवानपेक्षमाणे नान्यतरत्र भेदः ।
आपेक्षिकत्वे तु सत्य् अन्यतरत्र विशेषोपजनः स्यादिति।
किमपेक्षासामर्थ्यमितिचेत् ? द्वयोर्ग्रहणे ऽतिश्यग्रहणोपपत्तिः।
द्वे द्रव्ये पश्यन् एकत्र विद्यमानमतिशयं गृह्णाति
तद् दीर्घमिति व्यवस्यति, यच्च हीनं गृह्णाति
तद् ह्रस्वमिति व्यवस्यतीति, एतच्चापेक्षासामर्थ्यमिति

8.41

********************** न्य्स्भ्_4,1.41 **********************
अथेमे संख्यैकान्ताः--
सर्वमेकम्-- सद् अविशेषात्, सर्वं द्वेधा--
नित्यानित्यभेदात्, सर्वं त्रेधा-- ज्ञाता ज्ञानं
ज्ञेयमिति, सर्वं चतुर्धा-- प्रमाता प्रमाणं
प्रमेयं प्रमितिरिति, एवं यथासंभवमन्ये ऽपीति।
तत्र परीक्षा---
न्य्स्_4,1.41: संख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् ॥
यदि साध्यसाधानयोर्नानात्वम् ? एकान्तो
न सिध्यति-- व्यतिरेकात्, अथ साध्यसाधनयोरभेदः ? एवमप्येकान्तो न सिध्यति-- साधनाभावात्,
न हि तमन्तरेण कस्यचित् सिद्धिरिति

8.42

********************** न्य्स्भ्_4,1.42 **********************
न्य्स्_4,1.42: न कारणावयवभावात् ॥
न संख्यैकान्तानामसिद्धिः, कस्मात् ?.
कारणस्यावयवभावात् = अवयसवः कश्चित् साधनभूत इत्य् अव्यतिरेकः।
एवं द्वैतादीनामपीति

8.43

********************** न्य्स्भ्_4,1.43 **********************
न्य्स्_4,1.43: निरवयवत्वादहेतुः ॥
"कारणस्यावयवभावात्"
इत्यहेतुः, कस्मात् ? ऽसर्वमेकम्ऽ इत्यनपवर्गेण
प्रतिज्ञाय कस्यचिदेकत्वमुच्यते तत्र व्यपवृक्तो ऽवयवः
साधनभूतो नोपपद्यते, एवं द्वैतादिष्वपीति।
ते खल्विमे संख्यैकान्ता यदि विशेषकारितस्यार्थभेदविस्तरस्य
प्रत्याख्यानेन वर्तन्ते ? प्रत्याक्षानुमानागमविरोधाद्
मिथ्यावादा भवन्ति।
अथाभ्यनुज्ञानेन वर्तन्ते ? समानधर्मकारितो ऽर्थसंग्रहो विशेषकारितश्चार्थभेद
इत्येवमेकान्तत्वं जहतीति।
ते खल्वेते
तत्त्वज्ञानप्रविवेकार्थमेकान्ताः परीक्षिता
इति

8.44

********************** न्य्स्भ्_4,1.44 **********************
प्रेत्यभावानन्तरं फलम्।
तस्मिन्---
न्य्स्_4,1.44: सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ॥
ऽपचति दोग्धीति सद्यः फलम्
ओदनपयसी, ऽकर्षति वपतीति कालान्तरे
फलं शस्याधिगम इति, अस्ति चेयं क्रिया--
"अग्निहोत्रं जुहुयात् स्वर्गकामः"
इति एतस्याः फले संशयः

8.45

********************** न्य्स्भ्_4,1.45 **********************
न्य्स्_4,1.45: न सद्यः कालान्तरोपभोग्यत्वात् ॥
स्वर्गः फलं श्रूयते तच्च भिन्ने ऽस्मिन् देहभेदादुत्पद्यते इति न सद्यः,
ग्रामादिकामानामारम्भफलमिति

8.46

********************** न्य्स्भ्_4,1.46 **********************
न्य्स्_4,1.46: कालान्तरेणानिष्पत्तिर् हेतुविनाशात् ॥
ध्वस्तायां प्रवृत्तौ प्रवृत्तेः फलं न कारणमन्तरेणोत्पत्तमर्हति--
न खलु वै विनष्टात् कारणात् किञ्चिदुत्पद्यते
इति

8.47

********************** न्य्स्भ्_4,1.47 **********************
न्य्स्_4,1.47: प्राङ् निष्पत्तेर्वृक्षफलवत् तत् स्यात् ॥
यथा फलार्थिना वृक्षमूले सेकादि परिकर्म क्रियते तंमिंश्च प्रध्वस्ते
पृथिवीधातुरब्धातुना संगृहीते आन्तरेण
तेजसा पच्यमानो रसद्रव्यं निर्वर्तयति
स द्रव्यभूतो रसो वृक्षानुगतः पाकविशिष्टो
व्यूहविशेषेण संनिविशमानः पर्णादि
फलं निर्वर्तयति एवं परिषेकादि कर्मचार्थवत्--
न च विनष्टात् फलनिष्पत्तिः।
तथा प्रवृत्त्या
संस्कारो धर्माधर्मलक्षणो जन्यते स जातो
निमित्तान्तरानुगृहीतः कालान्तरे फलं
निष्पादयतीति. उक्तं चैतत्--
"पूर्वकृतफलानुबन्धात् तदुत्पत्तिः 3-2-62"
इति

8.48

********************** न्य्स्भ्_4,1.48 **********************
तदिदं प्राङ्
निष्पत्तेर्निष्पद्यमानम्--
न्य्स्_4,1.48: नासन् न सन् न सदसत् सदसतोर्वैधर्म्यात् ॥
प्राङ्निष्पत्तेर्निष्पत्तिधर्मकं
नासत्-- उपादाननियमात् ।
कस्यचिदुत्पत्तये किञ्चिदुपादेयं न सर्वं
सर्वस्येत्य् असद्भावे नियमो नोपपद्यते
इति।
न सत्-- प्रागुत्पत्तेर्विद्यमानस्योत्पत्तिरनुपपन्नेति।
न सदसत्-- सदसतोर्वैधर्म्यात् = ऽसत्ऽ इत्यर्थाभ्यनुज्ञा. ऽअसत्ऽ इत्यर्थप्रतिषेधः
एतयोर्व्याघातो वैधर्म्यं व्याघातादव्यतिरेकानुपपत्तिरिति

8.49

********************** न्य्स्भ्_4,1.49 **********************
न्य्स्_4,1.49: प्रागुत्पत्तेरुत्पत्तिधर्मकम् असद् इत्य् अद्धा, कस्माद् उत्पादव्ययदर्शनात् ॥
यत्पुनरुक्तम्--
ऽप्रागुत्पत्तेः कार्यं नासत्-- उपादाननियमात्ऽ
इति ?---

8.50

********************** न्य्स्भ्_4,1.50 **********************
न्य्स्_4,1.50: बुद्धिसिद्धं तु तद् असत् ॥
इदमस्योत्पत्तये समर्थं न
सर्वमिति प्रागुत्पत्तेर्नियतकारणं कार्यं
बुद्ध्या सिद्धम्-- उत्पत्तिनियमदर्शनात्
तस्मादुपादाननियमस्योपपत्तिः।
सति तु
कार्ये प्रागुत्पत्तेरुत्पत्तिरेव नास्तीति

8.51

********************** न्य्स्भ्_4,1.51 **********************
न्य्स्_4,1.51: आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवदित्यहेतुः ॥
मूलसेकादि परिकर्म फलं चोभयं
वृक्षाश्रयम्. कर्म चेह शरीरे फलं चामुत्रेति
आश्रयव्यतिरेकादहेतुरिति

8.52

********************** न्य्स्भ्_4,1.52 **********************
न्य्स्_4,1.52: प्रीतेरात्माश्रयत्वादप्रतिषेधः ॥
प्रीतिरात्मप्रत्यक्षत्वादात्माश्रया तदाश्रयमेव
कर्म धर्मसंज्ञितम्-- धर्मस्यात्मगुणत्वात्
तस्मादाश्रयव्यतिरेकानुपपत्तिरिति

8.53

********************** न्य्स्भ्_4,1.53 **********************
न्य्स्_4,1.53: न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात् ॥
पुत्रादि फलं निर्दिश्यते न प्रीतिः--
"ग्रामकामो यजेत" "पुत्रकामो यजेत"
इति. तत्र यदुक्तम्-- ऽप्रीतिः फलम्ऽ इति एतदयुक्तम्

8.54

********************** न्य्स्भ्_4,1.54 **********************
न्य्स्_4,1.54: तत्संबन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः ॥
पुत्रादिसंबन्धात्
फलं प्रीतिलक्षणमुत्पद्यते इति पुत्रादिषु
फलवदुपचारो यथान्ने प्राणशब्दः--
"अन्नं वै प्राणाः"
इति

8.55

********************** न्य्स्भ्_4,1.55 **********************
फलानन्तरं दुःखमुद्दिष्टमुक्तं च--
"बाधनालक्षणं दुःखम् 1-1-21"
इति. तत् किमिदं प्रत्यात्मवेदनीयस्य ।
सर्वजन्तुप्रत्यक्षस्य सुखस्य प्रत्याख्यानम् ? आहोस्विदन्यः कल्पः ? इति, अन्य इत्याह, कथम् ?, न वै सर्वलोकसाक्षिकं सुखं शक्यं प्रत्याख्यातुम् ।
अयं तु जन्ममरणप्रबन्धानुभवनिमित्ताद् दुःखाद् निर्विण्णस्य दुःखं जिहासतो दुःखसंज्ञाभावनोपदेशो दुःखहानार्थ इति ।
कया युक्त्या ?, सर्वे खलु सत्त्वनिकायाः सर्वाण्युत्पत्तिस्थानानि सर्वः पुनर्भवो बाधनानुषक्तो दुःखसाहचर्यात्
"बाधनालक्षणं दुःखम् 1-1-21"
इत्युक्तम्. ऋषिभिर्दुःखसंज्ञाभावनमुपदिश्यते,
अत्र च हेतुरुपादीयते---
न्य्स्_4,1.55: विविधबाधनायोगाद् दुःखमेव जन्मोत्पत्तिः ॥
जन्म ।
जायते इति शरीरेन्द्रियबुद्धयः, शरीरादीनां
संस्थानविशिष्टानां प्रादुर्भाव उत्पत्तिः,
विविधा च बाधना-- हीना मध्यमा उत्कृष्टा
चेति. उत्कृष्टा नारकिणां. तिरश्चां तु मध्यमा,
मनुष्यापां हीनाः. देवानां हीनतरा वीतरागाणां
च, एवं सर्वमुत्पत्तिस्थानं विविधबाधनानुषक्तं
पश्यतः सुखे तत्साधनेषु च शरीरेन्द्रियबुद्धिषु
दुःखसंज्ञा व्यवतिष्ठते. दुःखसंज्ञाव्यवस्थानात्
सर्वलोकेष्व् अनभिरतिसंज्ञा भवति. अनभिरतिसंज्ञामुपासीनस्य
सर्वलोकविषयातृष्णा विच्छिद्यते. तृष्णाप्रहाणात्
सर्वदुःखाद् विमुच्यते इति, यथा
विषयोगात् पयो विषयमिति बुध्यमानो
नोपादत्ते. अनुपाददानो मरणदुःखं नाप्नोति

8.46

********************** न्य्स्भ्_4,1.56 **********************
दुःखोद्देशस्तु न
सुखस्य प्रत्याख्यानम्, कस्मात् ?---
न्य्स्_4,1.56: न सुखस्याप्यन्तरालनिष्पत्तेः ॥
खल्वयं दुःखोद्देशः सुखस्य प्रत्याख्यानम्,
कस्मात् ?, सुखस्यान्तरालनिष्पतेः ।
निष्पद्यते खलु बाधनान्तरालेषु सुखं प्रत्यात्मवेदनीयं
शरीरिणां तदशक्यं प्रत्याख्यातुमिति

8.57

********************** न्य्स्भ्_4,1.57 **********************
अथापि---
न्य्स्_4,1.57: बाधनानिवृत्तेर्वेदयतः पर्येषणदोषादप्रतिषेधः ॥
सुखस्य दुःखोद्देशेनेति प्रकरणात्, पर्येषणम् ।
प्रार्थना ।
विषयार्जनतृष्णा. पर्येषणस्य दोषो यदयं
वेदयमानः प्रार्थयते. तच्चास्य प्रार्थितं न
संपद्यते. संपद्य वा विपद्यते. न्यूनं वा संपद्यते.
बहुप्रत्यनीकं वा संपद्यते. इत्येतस्मात्
पर्येषणदोषात् नानाविधो मानसः संतापो
भवति. एवं वेदयतः पर्येषणदोषाद् बाधनाया
अनवृत्तिः. बाधनानिवृत्तेर्दुःखसंज्ञाभावनमुद्दिश्यते.
अनेन कारणेन दुःखं जन्म न तु सुखस्याभावादिति।
अथाप्येतदनूक्तम्---
"कामं कामयमानस्य यदा कामः समृध्यते।
अथैनमपरः कामः क्षिप्रमेव प्रबाधते ॥"
"अपि चेदुदनेमि समन्ताद् भूमिमालभते सगवाश्वां न स तेन धनेन धनैषी तृप्यति किं नु सुखं धनकामे"
इति

8.58

********************** न्य्स्भ्_4,1.58 **********************
न्य्स्_4,1.58: दुःखविकल्पे सुखाभिमानाच्च ॥
दुःखसंज्ञाभावनोपदेशः
क्रियते, अयं खलु सुखसंवेदने व्यवस्थितः
सुखं परमपुरुषार्थं मन्यते-- न सुखादन्यद्
निःश्रेयसमस्ति. सुखे प्राप्ते चरितार्थः कृतकरणीयो
भवति. मिथ्यासंकल्पात् मुखे तत्साधनेषु
च विषयेषु संरज्यते. संरक्तः सुखाय
घटते. घटमानस्यास्य जन्मजराव्याधिप्रायणानिष्टसंयोगेष्टवियोगप्रार्थितानुपपत्तिनिमित्तमनेकविधं
यावद् दुःखमुत्पद्यते तं दुःखविकल्पं सुखमित्यभिमन्यते.
सुखाङ्गभूतं दुःखं-- न दुःखमनासाद्य शक्यं
सुखमवाप्तुम्. तादर्थ्यात् सुखमेवेदमिति
सुखसंज्ञोपहतप्रज्ञः-- ऽजायस्य म्रियस्व संघावऽ
इति संसारं नातिवर्तते. तदस्याः सुखसंज्ञानयाः
प्रतिपक्षो दुःखसंज्ञाभावनमुपदिश्यते. दुःखानुषङ्गाद्
दुःखं जन्मेति न सुखस्याभावात्।
यद्येवं कस्मात् ऽदुःखं जन्मऽ इति नोच्यते ?. सोयमेवं
वाच्ये यदेवकाह--
"दुःखमेव जन्म 55"
इति तेन सुखाभावं ज्ञापयतीति, जन्मविनिग्रहार्थीयो
वै खल्वयमेवशब्दः, कथम् ? न दुःखं जन्म
स्वरूपतः किं तु दुःखोपचारात्. एवं सुखमपीति
एतद् अनेनैव निवर्त्यते न तु दुःखमेव जन्मेति

8.59

********************** न्य्स्भ्_4,1.59 **********************
दुःखोपदेशानन्तरमपवर्गः स प्रत्याख्यायते---
न्य्स्_4,1.59: ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः ॥
ऋणानुबन्धान्नास्त्यपवर्गः = "जायमानो ह वै ब्राह्मणस्त्रिभिरृणैरृणवान्
जायते-- ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजाया पितृभ्यः"
इति ऋणानि. तेषामनुबन्धः ।
स्वकर्मभिः संबन्धः-- कर्मसंबन्धवचनात्--
"जरामर्य वा एतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासौ
चेति उजरया ह एष तस्मात् सत्राद्विमुच्यते मृत्युना ह वा"
इति ऋणानुबन्धादपवर्गानुष्ठानकालो नास्तीत्य् अपवर्गाभावः।
क्लेशानुबन्धान्नस्त्यपवर्गः ।
क्लेशानुबद्ध एवायं म्रियते क्लेशानुबद्धश्च
जायते नास्य क्लेशानुबन्धविच्छेदो गृह्यते।
प्रवृत्त्यनुबन्धान्नास्त्यपवर्गः ।
जन्मप्रभृत्य् अयं यावत्प्रायणं वाग्बुद्धिशरीरारम्भेणाविमुक्तो
गृह्यते तत्र यदुक्तम्--
"दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः 1-1-2"
इति तदनुपपन्नमिति

8.60

********************** न्य्स्भ्_4,1.60 **********************
अत्राभिधीयते-- यत्तावत् ऽऋणानुबन्धात्ऽ
इति ?. ऋणैरिव ऋणैरिति ---
न्य्स्_4,1.60: प्रधानशब्दानुपपत्तेर्गुणशब्देनानुबादो निन्दाप्रशंसोपपत्तेः ॥
"ऋणैः" इति नायं प्रधानशब्दः, यत्र खल्वेकः प्रत्यादेयं
ददाति द्वितीयश्च प्रतिदेयं गृह्णाति तत्रास्य
दृष्टत्वात् प्रधानमृणशब्दः. न चैतदिहोपपद्यते
प्रधानशब्दानुपपत्तेर्गुणशब्देनायमनुवादः--
ऋणैरिव ऋणैरिति, प्रयुक्तोपमं चैतद्
यथा--
"अग्निर्माणवकः" इति = अन्यत्र दृष्टश्चायमृणशब्द इह प्रयुज्यते
यथाग्निशब्दो माणवके ।
कथं गुणशब्देनानुवादः ?, निन्दाप्रसंसोपपत्तेः = कर्मलोपे ऋणीव ऋणादानाद् निन्द्यते.
कर्मानुष्ठाने च ऋणीव ऋणदानाद् प्रशस्यते स एवोपमार्थ इति।
"जायमानः"
इति गुणशब्दः-- विपर्यये ऽनधिकारात् = "जायमानो ह वै ब्राह्मणः"
इति च शब्दो गृहस्थः संपद्यमानः, जायमान इति
उयदायं गृहस्थो जायते तदा कर्मभिरधिक्रियते--
मातृतो जायमानस्यानधिकारात्
उयदा तु मातृतो जायते कुमारो न
तदा कर्मभिरधिक्रियते-- अर्थिनः शक्तस्य चाधिकारात् = अर्थिनः कर्मभिरधिकारः-- कर्मविधौ कामसंयोगस्मृतेः--
"अग्निहोत्रं जुहुयात् स्वर्गकामः"
इत्येवमादि, शक्तस्य च प्रवृत्तिसंभवात्
उशक्तस्य कर्मभिरधिकारः-- प्रवृत्तिसंभवात्
उशक्तः खलु विहिते कर्मणि प्रवर्तते नेतर
इति।
उभयाभावस्तु प्रधानशब्दार्थे।
मातृतो
जायमाने कुमारे उभयम् = अर्थिता शक्तिश्च न भवतीति, न भिद्यते लौकिकाद्
वाक्याद् वैदिकं वाक्यम्-- प्रेक्षापूर्वकारिपुरुषप्रणीतत्वेन,
तत्र लौकिकस्तावदपरीक्षकोपि न जातमात्रं
कुमारमेवं ब्रूयात्-- ऽअधीष्व यजस्व ब्रह्मचर्यं
चरऽ इति. कुत एष ऋषिरुपपन्नानवद्यवादी
उपदेशार्थेन प्रयुक्त उपदिशति ?, न खलु वै
नर्तकोन्धेषु प्रवर्तते न गायनो बधिरेष्विति।
उपदिष्टार्थविज्ञानं चोपदेशविषयः ।
यश्चोपदिष्टमर्थं विजानाति तं प्रत्युपदेशः
क्रियते न चैतदस्ति जायमानकुमारके
इति।
गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं कर्माभिवदति ।
यच्च मन्त्रब्राह्मणं कर्माभिवदति तत् पत्नीसंबन्धादिना
गार्हस्थ्यलिङ्गेनोपपन्नं तस्माद् गृहस्थोयं
जायमानो ऽभिधीयते इति ॥
अर्थित्वस्य चाविपरिणामे
जरामर्यवादोपपत्तिः।
यावच्चास्य फलेनार्थित्वं
न विपरिणमते ।
न निवर्तते तावदनेन कर्मानुष्ठेयमित्युपपद्यते
जरामर्यवादस्तं प्रतीति.
"जरया ह वा"
इत्यायुषस्तुरीयस्य ।
चतुर्थस्य प्रव्रज्यायुक्तस्य वचनम्--
"जरया ह वा एष एतस्माद्विमुच्यते"
इति. आयुषस्तुरीयम् ।
चतुर्थंप्रव्रज्यायुक्तं जरेत्युच्यते-- तत्र
हि प्रव्रज्या विधीयते, अत्यन्तजरासंयोगे
"जरया ह वा"
इत्यनर्थकम्।
ऽअशक्तो विमुच्यतेऽ इत्येतदपि
नोपपद्यते-- स्वयमशक्तस्य बाह्यां शक्तिमाह--
"अन्तेवासी वा जुहुयात् ब्रह्मणा स परिक्रीतः. क्षीरहोता वा जुहुयाद् धनेन स परिक्रीतः"
इति अथापि विहितं वानूद्येत ? कामाद्वार्थः
परिकल्प्येत ? विहितानुवचनं न्याय्यमिति,
ऋणवानिवास्वतन्त्रो गृह्यस्थः कर्मसु प्रवर्तते
इत्युपपन्नं वाक्यस्य सामर्थ्यम्।
फलस्य हि साधनानि प्रयत्नविषयो न फलं. तानि संपन्नानि फलाय कल्पन्ते।
विहितं च जायमानं विधीयते च जायमानं तेन यः संबध्यते
सोयं जायमान इति।
प्रत्यक्षविधानाभावादितिचेत् ? न-- प्रतिषेधस्यापि प्रत्यक्षविधानाभावादिति।
प्रत्यक्षतो विधीयते गार्हस्थ्यं ब्राह्मणेन यदि
चांश्रमान्तरमभविष्यत् तदपि व्यधास्यत्
प्रत्यक्षतः. प्रत्यक्षविधानाभावान्नास्त्याश्रमान्तरमिति,
न-- प्रतिषेधस्यापि प्रत्यक्षविधानाभावात् = न प्रतिषेधोपि वै ब्राह्मणेन प्रत्यक्षतो
विधीयते-- ऽन सन्त्याश्रमान्तराणि एक एव
गृहस्थाश्रमःऽ इति. प्रतिषेधस्य प्रत्यक्षतो ऽश्रवणादयुक्तमेतदिति
॥ अधिकाराच्च विधानं विद्यान्तरवत् ॥
यथा शास्त्रान्तराणि स्वे स्वे ऽधिकारे प्रत्यक्षतो
विधायकानि नार्थान्तराभावाद् एवमिदं
ब्राह्मणं गृहस्थशास्त्रं स्वे ऽधिकारे प्रत्यक्षतो
विधायकं नाश्रमान्तराणामभावादिति।
ऋग्ब्राह्मणं चापवर्गाभिधाय्य् अभिधीयते ।
ऋचश्च ब्राह्मणानि चापवर्गाभिवादीन भिवन्ति.
ऋवश्च तावत्--
"कर्मभिर्मृत्युमृषयो निषेदुः प्रजावन्तो द्रविणमिच्छमानाः, अथापरे
ऋषयो मनीषिणः परं कर्मभ्यो ऽमृतत्वमानशुः,"
"न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः"
"परेण नाकं निहितं गुहायां विभ्राजते तद् यतयो विशन्ति"
"वेदाहमेतंपुरुषं महान्तमादित्यवर्णं तमसः परस्तात्.
तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनाय" ।
अथ ब्राह्मणानि--
"त्रयो धर्मस्कन्धाः-- यज्ञो ऽध्ययनं दानमिति प्रथमस्तप
एव द्वितीयो ब्रह्मचार्याचार्यकुलवासीति
तृतीयो ऽत्यन्तमात्मानमाचार्यकुले ऽवसादयन्
सर्वे एवैते पुण्यलोका भवन्ति ब्रह्मसंस्थो ऽमृतत्वमेति"
"एतमेव प्रव्राजिनो लोकमभीप्सन्तः प्रव्रजन्तीति"
"अथो खल्वाहुः-- काममय एवायं पुरुष
इति स यथाकामो भवति तथाक्रतुर्भवति
यथाक्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते
तदभिसंपद्यते"
इति कर्मभिः संसरणमुक्त्वा प्रकृतमन्यदुपदिशन्ति--
"इति तु कामयमानो ऽथाकामयमानो यो ऽकामो
निष्काम् आत्मकाम आप्तकामो भवति न तस्य
प्राणा उत्क्रामन्ति इहैव समवलीयन्ते ब्रह्मैव
सन् ब्रह्माप्येति"
इति, तत्र यदुक्तम्-- ऽऋणानुबन्धादपवर्गाभावःऽ
इति एतदयुक्तमिति।
"येचत्वारः पथयो देवयानाः"
इति च चातुगश्रम्यश्रुतेरैकाश्रम्यानुपपत्तिः।
फलार्थिनश्चेदं ब्राह्मणम्--
"जरामर्यं वा एतत्सत्रं यदग्रिहोत्रं दर्शपूर्णमासौ च" इति

8.61

********************** न्य्स्भ्_4,1.61 **********************
कथम् ?---
न्य्स्_4,1.61: समारोपणादात्मन्यप्रतिषेधः ॥
"प्राजापत्त्यामिष्टिं निरुप्य नस्यां सर्ववेदसं हुत्वा आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेत्"
इति श्रूयते तेन विजानीमः-- प्रजावित्तलोकैषणाभ्यो
व्युत्थितस्य निवृत्ते फलार्थित्वे समारोपणं
विधीयते इति, एवं च ब्राह्मणानि--
"सो ऽन्यद् व्रतमुपाकरिष्यमाणो याज्ञवल्क्यो मैत्रेयीमितिहोवाच--
प्रव्रजिष्यन् वा अरे अहमस्मात् स्थानादस्मि
हन्त ते ऽनया कात्यायन्या सहान्तं करवाणीति.
अथाप्युक्तानुशासनासि मैत्रेयि एतावदरे
खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवव्राज"
इति

8.62

********************** न्य्स्भ्_4,1.62 **********************
न्य्स्_4,1.62: पात्रचयान्तानुपपत्तेश्च फलाभावः ॥
जरामर्ये च कर्मण्य् अविशेषेण
कल्प्यमाने सर्वस्य पात्रचयान्तानि कर्माणीति
प्रसज्यते तत्रैषणाव्युत्थानं न श्रूयेत--
"एतद्ध स्म वै तत्पूर्वे ब्राह्मणा अनूचाना विद्वांसः
प्रजां न कामयन्ते किं प्रजया करिष्यामो
येषां नोयमात्मायं लोक इति. ते ह
स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च
व्युत्थायाथ भिक्षाचर्यं चरन्ति"
इति, एषणाभ्यश्च व्युत्थितस्य पात्रचयान्तानि
कर्माणि नोपपद्यन्ते इति नाविशेषेण कर्तुः
प्रयोजकं फलं भवतीति।
चातुराश्रम्यविधानाच्चेतिहासपुराणधर्मशास्त्रेष्वैकाश्रम्यानुपपत्तिः।
तदप्रमाणमितिचेत् ? न-- प्रमाणेन प्रामाण्याभ्यनुज्ञानात्।
प्रमाणेन खलु ब्राह्मणेनेतिहासपुराणस्य
प्रामाण्यमभ्यनुज्ञायते--
"ते वा खल्वेते अथर्वाङ्गिरस एतदितिहासपुराणमभ्यवदन्
इतिहासपुराणं पञ्चमं वेदानां वेदः"
इति. तस्माद् अयुक्तमेतत्-- अप्रामाण्यमिति।
अप्रामाण्ये च धर्मशास्त्रस्य प्राणभृतां
व्यवहारलोपात् लोकोच्छेदप्रसङ्गः,
द्रष्टृप्रवक्तृसामान्याच्चाप्रामाण्यानुपपत्तिः = ये एव मन्त्रब्राह्मणस्य द्रष्टारः प्रवक्तारश्च
ते खल्वितिहासपुराणस्य धर्मशास्त्रस्य
चेति।
विषयव्यवस्थानाच्च यथाविषयं प्रामाण्यम् = अन्यो मन्त्रब्राह्मणस्य विषयो ऽन्यश्चेतिहासपुराणधर्मशास्त्रणामिति ।
यज्ञो मन्त्रब्राह्मणस्य. लोकवृत्तमितिहासपुराणसय.
लोकव्यवहारव्यवस्थानं धर्मशास्त्रस्य
विषयः, तत्रैकेन न सर्वं व्यवस्थाप्यते
इति यथाविषयमेतानि प्रमाणानीन्द्रियादिवदिति

8.63

********************** न्य्स्भ्_4,1.63 **********************
यत्पुनरेतत्-- क्लेशानुबन्धस्याविच्छेदादिति--
न्य्स्_4,1.63: सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः ॥
यथा सुषुप्तस्य खलु स्वप्नादर्शने
रागानुबन्धः सुखदुःखानुबन्धश्च विच्छिद्यते
तथापवर्गेपीति, एतच्च ब्रह्मविदो मुक्तस्यात्मनो
रूपमुदाहरन्तीति

8.64

********************** न्य्स्भ्_4,1.64 **********************
यदपि प्रवृत्त्यनुबन्धादिति---
न्य्स्_4,1.64: न प्रवृत्तिः प्रतिसंधानाय हीनक्लेशस्य ॥
प्रक्षीणेषु रागद्वेषामोहेषु
प्रवृत्तिर्न प्रतिसंधानाय, प्रतिसंधिस्तु पूर्वजन्मनिवृत्तौ
पुनर्जन्म तच्चादृष्टकारितं तस्यां प्रहीणायां
जन्मान्तराभावः ।
अप्रतिसंधानम् ।
अपवर्गः।
कर्मवैफल्यप्रसङ्ग इतिचेत् ? न--
कर्मविपाकप्रतिसंवेदनस्याप्रत्याख्यानात्।
पूर्वजन्मनिवृत्तौ पुनर्जन्म न भवतीत्युच्यते
न तु कर्मविपाकप्रतिसंवेदनं प्रत्याख्यायते,
सर्वाणि पूर्वकर्माणि ह्यन्ते जन्मनि विपच्यन्ते
इति

8.65

********************** न्य्स्भ्_4,1.65 **********************
न्य्स्_4,1.65: न क्लेशसंततेः स्वाभाविकत्वात् ॥
नोपपद्यते क्लेशानुबन्धविच्छेदः,
कस्मात् ?, क्लेशसंततेः स्वाभाविकत्वात् = अनादिरियं क्लेशसंततिः न चानादिः
शक्य उच्छेत्तुमिति

8.66

********************** न्य्स्भ्_4,1.66 **********************
अत्र कश्चित् परीहारमाह---
न्य्स्_4,1.66: प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविकेप्यनित्यत्वम् ॥
यथानादिः प्रागुत्पत्तेरभाव उत्पन्नेन भावेन निवर्त्यते
एवं स्वाभाविकी क्लेशसंततिरनित्येति

8.67

********************** न्य्स्भ्_4,1.67 **********************
न्य्स्_4,1.67: अणुश्यामतानित्यत्ववद्ध ॥
अपर आह-- यथानादिरणुश्यामता अथ
चाग्निसंयोगादनित्या तथा क्लेशसंततिरपीति

8.68

सतः खलु धर्मो नित्यत्वमनित्यत्वं च
तत्त्वं भावे ऽभावे भाक्तमिति।
ऽअनादिरणुश्यामताऽ
इति हेत्वभावादयुक्तम्।
अनुत्पत्तिधर्मकमनित्यमिति
नात्र हेतुरस्तीति।
********************** न्य्स्भ्_4,1.68 **********************
अयं तु समाधिः---
न्य्स्_4,1.68: न संकल्पनिमित्तत्वाच्च रागादीनाम् ॥
ऽकर्मनिमित्तत्वादितरेतरनिमित्तत्वाच्चऽ
इति समुच्चयः, मिथ्यासंकल्पेभ्यो रञ्जनीयकोपनीयमोहनीयेभ्यो
रागद्वेषमोहा उत्पद्यन्ते, कर्म च कत्त्वनिकायनिर्वर्तकं
नैयमिकान् रागद्वेषमोहान् निर्वर्तयति--
नियमदर्शनात् ।
दृश्यते हि कश्चित्सत्त्वनिकायो रागबहुलः
कश्चिद् द्वेषबहुलः कश्चिद्
मोहबहुलः इति, इतरेतरनिमित्ता च
रागादीनामुत्पत्तिः
उमूढो रज्यति मूढः कुप्यति. रक्तो मुह्यति.
कुपितो मुह्यति।
सर्वमिथ्यासंकल्पानां
तत्त्वज्ञानादनुत्पत्तिः कारणानुत्पत्तौ च कार्यानुत्पत्तेरिति
रागादीनामत्यन्तमनुत्पत्तिरिति।
ऽअनादिश्च क्लेशसंततिःऽ इत्य् अयुक्तम्-- सर्वे इमे खल्वाध्यात्मिका
भावा अनादिना प्रबन्धेन प्रवर्तन्ते शरीरादयो.
न जात्वत्र कश्चिदनुत्पन्नपूर्वः प्रथमत उत्पद्यते ऽन्यत्र
तत्त्वज्ञानात्।
न चैवं सत्य् अनुत्पत्तिधर्मकं
किञ्चिद् व्ययधर्मकं प्रतिज्ञायते इति।
कर्म च सत्त्वनिकायनिर्वर्तकं तत्त्वज्ञानकृताद्
मिथ्यासंकल्पविघातान्न रागाद्युत्पत्तिनिमित्तं
भवति सुखदुःखसंवित्तिफलं तु भवतीति

मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc