भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र (टीका सहित) · अध्याय 7

7.1

॥ इति वात्स्यायनविरचिते न्यायभाष्ये तृतीयाध्यायस्य प्रथममाह्निकम् ॥
अथ न्यायभाष्यतृतीयाध्यायस्य द्वितीयमाह्निकम् ॥
********************** न्य्स्भ्_3,2.1 **********************
परीक्षितानीन्द्रियाणि अर्थाश्च, बुद्धेरिदानीं परीक्षाक्रमः-- सा किमनित्या नित्या वा ? इति।
कुतः संशयः ?---
न्य्स्_3,2.1: कर्माकाशसाधर्म्यात् संशयः ॥
अस्पर्शवत्त्वं ताभ्यां समानो धर्म उपलभ्यते बुद्धौ. विशेषश्चोपजनापायधर्मवत्त्वम्, विपर्ययश्च यथास्वमनित्यनित्ययोस्तस्यां बुद्धौ नोपलभ्यते तेन संशय इति ॥
अनुपपन्नः खल्वयं संशयः-- सर्वशरीरिणां हि प्रत्यात्मवेदनीयानित्या बुद्धिः सुखादिवत्. भवति च संवित्तिः-- ऽज्ञास्यामिऽ ऽजानामिऽ ऽअज्ञासिषम्ऽ इति, न चोपजनापायावन्तरेण त्रैकाल्यव्यक्तिस्ततश्च त्रैकाल्यव्यक्तेः ऽअनित्या बुद्धिःऽ इत्येतत् सिद्धम्, प्रमाणसिद्धं चेदं शास्त्रेप्युक्तम्--
"इन्द्रियार्थसंनिकर्षोत्पन्नम् 1-1-4 "
"युगपत् ज्ञानानुत्पत्तिर्मनसो लिङ्गम् 1-1-16"
इत्येवमादि, तस्मात्संशयप्रक्रियानुपपत्तिरिति।
दृष्टिप्रवादोपालम्भार्थं तु प्रकरणम्. एवं हि पश्यन्तः प्रवदन्ति सांख्याः-- ऽपुरुषस्यान्तःकरणभूता नित्या बुद्धिःऽ इति

7.2

********************** न्य्स्भ्_3,2.2 **********************
साधनं च प्रचक्षते---
न्य्स्_3,2.2: विषयप्रत्यभिज्ञानात् ॥
किं पुनरिदं प्रत्यभिज्ञानम् ? ऽपूर्वमज्ञासिषमर्थं तमिमं जानामीतिज्ञानयोः समाने ऽर्थे प्रतिसन्धिज्ञानं प्रत्यभिज्ञानम् एतच्चावस्थिताया बुद्धेरुपपन्नम्. नानात्वे तु बुद्धिभेदेषूत्पन्नापवर्गिषु प्रत्यभिज्ञानानुपपत्तिः-- नान्यज्ञातमन्यः प्रत्यभिजानातीति

7.3

********************** न्य्स्भ्_3,2.3 **********************
न्य्स्_3,2.3: साध्यसमत्वादहेतुः ॥
यथा खलु नित्यत्वं बुद्धेः साध्यम् एवं प्रत्यभिज्ञानमपीति।
किं कारणम् ?. चेतनधर्मस्य करणे ऽनुपपत्तिः-- पुरुषधर्मः खल्वयं ज्ञानं दर्शनमुपलब्धिर्बोधः प्रत्ययो ऽध्यवसाय इति-- चेतनो हि पूर्वज्ञातमर्थं प्रत्यभिजानाति तस्यैतस्माद् हेतोर्नित्यत्वं युक्तमिति।
करणचैतन्याभ्युपगमे तु चेतनस्वरूपं वचनीयम्-- नानिर्दिष्टस्वरूपमात्मान्तरं शक्यमस्तीति प्रतिपत्तुम्।
ज्ञानं चेद् बुद्धेरन्तःकरणस्याभ्युपगम्यते चेतनस्येदानीं किं स्वरूपं को धर्मः किं तत्त्वम्, ज्ञानेन च बुद्धौ वर्तमानेनायं चेतनः किं करोरीति ॥
चेतयते इतिचेत् ?. न ज्ञानादर्थान्तर वचनम्।
पुरुषश्चेतयते बुद्धिर्जानातीति. नेदं ज्ञानादर्थान्तरमुच्यते-- येतयते जानीते पश्यति उपलभते इत्येकोयमर्थ इति।
बुद्धिर्ज्ञापयतीति चेत् ?. अद्धा जानीते पुरुषो बुद्धिर्ज्ञापयतीति सत्यमेतत्. एवं चाभ्युपगमे ऽज्ञानं पुरुषस्यऽ इति सिद्धं भवति न बुद्धेरन्तःकरणस्येति ॥
प्रतिपुरुषं च शब्दान्तर व्यवस्थाप्रतिज्ञाने ? प्रतिषेधहेतुवचनम्।
यश्च प्रतिजानीते-- कश्चित् पुरुषश्चेतयते कश्चिद् बुध्यते कश्चिदुपलभते कश्चित् पश्यति इति पुरुषानतराणि खल्विमानि।
चेतनो बोद्धा उपलब्धा द्रष्टेति नैकस्येति धर्मा इति, अत्र कः प्रतिषेधहेतुरिति ॥
अर्थस्याभेद इतिचेत् ?. समानम्।
अभिन्नार्था एते शब्दा इति तत्र व्यवस्थानुपपत्तिरित्येवं चेत् मन्यसे ?. समानं भवति ।
पुरुषश्चेतयते बुद्धिर्जानीते इत्यतत्राप्यर्थो न भिद्यते, तत्रोभयोश्चेतनत्वादन्यतरलोप इति।
यदि पुनर्बुध्यते ऽनयेति बोधनं बुद्धिर्मन एवोच्यते तच्च नित्यम् ? अस्त्वेतदेवं न तु मनसो विषयप्रत्यभिज्ञानाद् नित्यत्वम्. दृष्टं हि करणभेदे ज्ञातुरेकत्वात् प्रत्यभिज्ञानम्-- सव्यदृष्टस्येतरेण प्रत्यभिज्ञानादिति चक्षुर्वत्. प्रदीपवच्च ।
प्रदीपान्तरदृष्टस्य प्रदीपान्तरेण प्रत्यभिज्ञानमिति, तस्माद् ज्ञातुरयं नित्यत्वे हेतुरिति

7.4

********************** न्य्स्भ्_3,2.4 **********************
यच्च मन्यते-- बुद्धेर् अवस्थिताया यथाविषयं वृत्तयः ।
ज्ञानानि निश्चरन्ति वृत्तिश्च वृत्तिमतो नान्येति. तच्च---
न्य्स्_3,2.4: न युगपदग्रहणात् ॥
वृत्तिवृत्तिमतोरनन्यत्वे वृत्तिमतो ऽवस्थानाद् वृत्तीनामवस्थानमिति यानीमानि विषयग्रहणानि तान्यवतिष्ठन्ते इति युगपद् विषयाणां ग्रहणं प्रसज्यते इति

7.5

********************** न्य्स्भ्_3,2.5 **********************
न्य्स्_3,2.5: अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ॥
अतीते च प्रत्यभिज्ञाने वृत्तिमानप्यतीत इत्यन्तःकरणस्य विनाशः प्रसज्यते, विपर्यये न नानात्वमिति

7.6

********************** न्य्स्भ्_3,2.6 **********************
अविभु चैक्रं मनः पर्यायेणेन्द्रियैः संयुज्यते इति---
न्य्स्_3,2.6: क्रमवृत्तित्वादयुगपद्ग्रहणम् ॥
इन्द्रियार्थानाम्।
वृत्तिवृत्तिमतोर्नानात्वमिति. एकत्वे च प्रादुर्भावतिरोभावयोरभाव इति

7.7

********************** न्य्स्भ्_3,2.7 **********************
न्य्स्_3,2.7: अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् ॥
अप्रत्यभिज्ञानम् ।
अनुपलब्धिः. अनुपलब्धिश्च कस्य चिदर्थस्य विषयान्तरव्यासक्ते मनस्युपपद्यते-- वृत्तिवृत्तिमतोर्नानात्वात्, एकत्वे हि अनर्थको व्यासङ्ग इति

7.8

********************** न्य्स्भ्_3,2.8 **********************
विभुत्वे चान्तःकरणस्य पर्यायेणेन्द्रियैः संयोगः---
न्य्स्_3,2.8: न गत्यभावात् ॥
प्राप्तानीन्द्रियाण्यन्तःकरणेनेति प्राप्त्यर्थस्य गमनस्याभावः तत्र क्रमवृत्तित्वाभावादयुगपद्ग्रहणानुपपत्तिरिति, गत्यभावाच्च प्रतिषिद्धं विभुनो ऽन्तःकरणस्यायुगपद्ग्रहणं न लिङ्गान्तरेणानुमीयते इति, यथा चक्षुषो गतिः प्रतिषिद्धा-- संनिकृष्टविप्रकृष्टयोस्तुल्यकालग्रहणात्, पाणिचन्द्रमसोर्व्यवधानेन प्रतीघाते सानुमीयते इति।
सो ऽयं नान्तःकरणे विवादो न ( च ) तस्य नित्यत्वे-- सिद्धं हि मनो ऽन्तःकरणं नित्यं चेति।
क्व तर्हि विवादः ?, तस्य विभुत्वे. तच्च प्रमाणतो ऽनुपलब्धः प्रतिषिद्धमिति।
एकं चान्तःकरणं नाना चैता ज्ञानात्मिका वृत्तयः-- चक्षुर्विज्ञानं घ्राणविज्ञानम् ।
रूपविज्ञानं गन्धविज्ञानम्. एतच्च वृत्तिवृत्तिमतोरेकत्वे ऽनुपपन्नमिति।
पुरुषो जानीते नान्तःकरणमिति, एतेन विषयान्तरव्यासङ्गः प्रत्युक्तः ।
विषयान्तरग्रहणलक्षणो विषयान्तरव्यासङ्गः पुरुषस्य नान्तःकरणस्येति।
केन चिदिन्द्रियेण संनिधिः केन चिद् असंनिधिरित्ययं तु व्यासङ्गो ऽनुज्ञायते मनस इति

7.9

********************** न्य्स्भ्_3,2.9 **********************
एकमन्तःकरणं नाना वृत्तय इति, सत्यभेदे वृत्तेरिदमुच्यते---
न्य्स्_3,2.9: स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः ॥
तस्यां वृत्तौ नानात्वाभिमानां यथा द्रव्यान्तरोपहिते स्फटिके ऽन्यत्वाभिमानो ऽनीलःऽ ऽलोहितःऽ इति. एवं विषयान्तरोपधानादिति ॥
न-- हेत्वभावात्।
स्फटिकान्यत्वाभिमानवदयं ज्ञानेषु नानात्वाभिमानो गौणः न पुनर्गन्धाद्यन्यत्वाभिमानवदिति हेतुर्नास्ति हेत्वभावादनुपपन्न इति।
समानो हेत्वभावः इति चेत् ?. न-- ज्ञानानां क्रमेणोपजनापायदर्शनातु क्रमेण हीन्द्रियार्थेषु ज्ञानान्युपजायन्ते
चापयन्ति चेति दृश्यते तस्माद् गन्धाद्यन्यत्वाभिमानवदयं
ज्ञानेषु नानात्वाभिमान इति

7.10

********************** न्य्स्भ्_3,2.10 **********************
"स्फटिकान्यत्वाभिमानवत्"
इत्येतदमृष्यमाणः क्षणिकवाद्याह---
न्य्स्_3,2.10: स्फटिकेप्यपरापरोत्पत्तेः क्षणिकत्वाद् व्यक्तीनामहेतुः ॥
ऽस्फटिकस्याभेदेनावस्थितस्योपधानभेदान्नानात्वाभिमानःऽ
इत्ययमविद्यमानहेतुकः पक्षः, कस्मात् ?.
स्फटिकेप्यपरापरोत्पत्तेः
उस्फटिके ऽप्य् अन्या व्यक्तय उत्पद्यन्ते अन्या निरुध्यन्ते
इति, कथम् ? क्षणिकत्वाद् व्यक्तीनाम्, क्षणश्चाल्पीयान्
कालः क्षणस्थितिकाः क्षणिकाः।
कथं पुनर्गम्यते क्षणिका व्यक्तयः ? इति,
उपचयापचयप्रबन्धदर्शनात्
शरीरादिषु
उपक्तिनिर्वृत्तस्याहाररसस्य शरीरे
रुधिरादिभावेनोपचयो ऽपचयश्च प्रबन्धेन
प्रवर्तते उपचयाद् व्यक्तीनामुत्पादः अपचयाद्
व्यक्तिनिरोधः एवं च सत्यवयवपरिणामभेदेन
वृद्धिः शरीरस्य कालान्तरे गृह्यते इति
सोयं व्यक्तिविशेषधर्मो व्यक्तिमात्रे वेदितव्य
इति

7.11

********************** न्य्स्भ्_3,2.11 **********************
न्य्स्_3,2.11: नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा ॥
सर्वासं व्यक्तिषु
उपचयापचयप्रबन्धः शरीरवदिति नायं नियमः,
कस्मात् ?, हेत्वभावात् = नात्र प्रत्यक्षमनुमानं वा प्रतिपादकमस्तीति,
तस्माद् यथादर्शनमभ्यनुज्ञा ।
यत्र यत्रोपचयापचयप्रबन्धो दृश्यते तत्र तत्र
व्यक्तीनाम् अपरापरोत्पत्तिरुपचयापचयप्रबन्धदर्शनेनाभ्यनुज्ञायते
यथा शरीरादिषु. यत्र यत्र न दृश्यते तत्र
तत्र प्रत्याख्यायते यथा ग्रावप्रभृतिषु, स्फटिकेप्युपचयापचयप्रबन्धो
न दृश्यते तस्मादयुक्तम्-- ऽस्फटिके ऽप्य् अपरापरोत्पत्तिःऽ
इति, यथा चार्कस्य कटुकिम्ना सर्वद्रव्याणां
कटुकिमानमापदयेत् तादृगेतदिति

7.12

********************** न्य्स्भ्_3,2.12 **********************
यश्चाशेषनिरोधेनापूर्वोत्पादं
निरन्वयं द्रव्यसंताने क्षणिकतां मन्यते
तस्यैतत्---
न्य्स्_3,2.12: नोत्पत्तिविनाशकारणोपलब्धेः ॥
उत्पत्तिकारणं तावदुपलभ्यते-- अवयवोपचयो
वल्मीकादीनाम्. विनाशकारणं चोपलभ्यते--
घटादीनामवयवविभागः।
यस्य त्व् अनपचितावयवं निरुध्यते अनुपचितावयवं चोत्पद्यते तस्याशेषनिरोधे
निरन्वये वापूर्वोत्पादे न कारणमुभयत्राप्युपलभ्यते
इति

7.13

********************** न्य्स्भ्_3,2.13 **********************
न्य्स्_3,2.13: क्षीरविनाशे कारणानुपलब्धिवद् दध्युत्पत्तिवच्च तदुपपत्तिः ॥
यथानुपलभ्यमानं क्षीरविनाशकारणं
दध्युत्पत्तिकारणं चाभ्यनुज्ञायते तथा स्फटिके
परापरासु व्यक्तिषु विनाशकारणमुत्पत्तिकारणं
चाभ्यनुज्ञेयमिति

7.14

********************** न्य्स्भ्_3,2.14 **********************
न्य्स्_3,2.14: लिङ्गतो ग्रहणाद् नानुपलब्धिः ॥
क्षीरविनाशलिङ्गं क्षीरविनाशकारणं दध्युतपत्तिलिङ्गं दध्युत्पत्तिकारणं च गृह्यते अतो नानुपलब्धिः।
विपर्ययस्तु स्फटिकादिषु द्रव्येषु अपरापरोत्पत्तीनां न लिङ्गमस्तीत्यनुवृत्तिरेवेति

7.15

********************** न्य्स्भ्_3,2.15 **********************
अत्र कश्चित् परिहारमाह---
न्य्स्_3,2.15: न पयसः परिणामगुणान्तरप्रादुर्भावात् ॥
ऽपयसः परिमाणो न विनाशःऽ इत्येक
आह. परिणामश्चावस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ
धर्मान्तरोत्पत्तिरिति।
ऽगुणान्तरप्रादुर्भावःऽ
इत्यपर आह । सतो द्रव्यस्य पूर्वगुणनिवृत्तौ गुणान्तरमुत्पद्यते
इति. स खल्वेकपक्षीभाव इव

7.16

********************** न्य्स्भ्_3,2.16 **********************
अत्र तु प्रतिधेषः---
न्य्स्_3,2.16: व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् ॥
संमूर्छनलक्षणादवयवव्यूहाद् द्रव्यान्तरे
दध्नि उत्पन्ने गृह्यमाणे पूर्वं पयोद्रव्यम् अवयवविभागेभ्यो
निवृत्तमित्यनुमीयते. यथा मृदवयवानां
व्यूहान्तराद् द्रव्यान्तरे स्थाल्यामुत्पन्नायां
पूर्वं मृत्पिण्डद्रव्यं मृदवयवविभागेभ्यो
निवर्तते इति, मृद्वच्चावयवान्वयः पयोदध्नोः,
नाशेषनिरोधे निरन्वयो द्रव्यान्तरोत्पादो
घटते इति

7.17

********************** न्य्स्भ्_3,2.17 **********************
अभ्यनुज्ञाय न निष्कारणं क्षीरविनाशं दध्युत्पादं च प्रतिषेध
उच्यते इति---
न्य्स्_3,2.17: क्वचिद्विनाशकारणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः ॥
क्षीरदधिवन्निष्कारणौ विनाशोत्पादौ स्फटिकव्यक्तीनामिति नायमेकान्त
इति।
कस्मात् ?, हेत्वभावात् ।
नात्र हेतुरस्ति-- अकारणौ विनाशोत्पादौ
स्फटिकादिव्यक्तीनां क्षीरदधिवत् न पुनर्यथा
विनाशकारणभावात् कुम्भस्य विनाश उत्पत्तिकारणभावाच्चोत्पत्तिरेवं
स्फटिकादिव्यक्तीनां विनाशोत्पत्तिकारणभावाद्विनाशोत्पत्तिभाव
इति ॥
निरधिष्ठानं च दृष्टान्तवचनम्।
गृह्यमाणयोर्विनाशोत्पादयोः
स्फटिकादिषु स्यादयमाश्रयवान् दृष्टान्तः--
क्षीरविनाशकारणानुपलब्धिवद् दध्युत्पत्तिकारणानुपलब्धिवच्चेति.
तौ तु न गृह्येते तस्मान्निरधिष्ठानोयं दृष्टान्त
इति ॥
अभ्यनुज्ञाय च स्फटिकस्योत्पादविनाशौ
योत्र साधकस्तस्याभ्यनुज्ञानादप्रतिषेधः
॥ कुम्भवन्न निष्कारणौ विनाशोत्पादौ
स्फटिकादीनाम् इत्यभ्यनुज्ञेयो ऽयं दृष्टान्तः--
प्रतिषेद्धुमशक्यत्वात्।
क्षीरदधिवत्तु निष्कारणौ
विनाशोत्पादाविति शक्योयं प्रतिषेद्धुम्--
कारणतो विनाशोत्पत्तिदर्शनात्।
क्षीरदध्नोर्विनाशोत्पत्ती
पश्यता तत्कारणमनुमेयम्--कार्यलिङ्गं
हि कारणम्, इत्युपपन्नम्-- अनित्या बुद्धिरिति

7.18

********************** न्य्स्भ्_3,2.18 **********************
इदं तु चिन्त्यते--
कस्येयं बुद्धिः आत्मेन्द्रियमनो ऽर्थानां गुण
इति, प्रसिद्धोपि खल्वयमर्थः ऽपरीक्षाशेषं
प्रवर्तयामीति प्रक्रियते, सोयं बुद्धौ
संनिकर्षोत्पत्तेः संशयः-- विशेषस्याग्रहणादिति।
तत्रानयं विशेषः---
न्य्स्_3,2.18: नेन्द्रियार्थयोस् तद्विनाशेपि ज्ञानावस्थानात् ॥
नेन्द्रियाणामर्थानां
वा गुणो ज्ञानम्-- तेषां विनाशे (अपि) ज्ञानस्य
भावात्, भवति खल्विदमिन्द्रिये ऽर्थे च
विनष्टे ज्ञानम् ऽअद्राक्षम्ऽ इति. न च ज्ञातरि
विनष्टे ज्ञानं भवितुमर्हति, अन्यत् खलु
वै तद् इन्द्रियार्थसंनिकर्षजं ज्ञानं यद्
इन्द्रियार्थविनाशे न भवति, इदमन्यदात्ममनःसंनिकर्षजं
तस्य युक्तो भाव इति
उस्मृतिः खल्वियम् ऽअद्राक्षम्ऽ इति पूर्वदृष्टविषया
न च विज्ञातरि नष्टे पूर्वोपलब्धेः स्मरणं
युक्तम्-- न चान्यदृष्टमन्यः स्मरति, न च मनसि
ज्ञातर्यभ्युपगम्यमाने शक्यमिन्द्रियार्थयोर्ज्ञातृत्वं
प्रतिपादयितुम्

7.19

********************** न्य्स्भ्_3,2.19 **********************
अस्तु तर्हि मनोगुणो ज्ञानम्,
न्य्स्_3,2.19: युगपज्ज्ञेयानुपलब्धेश्च न मनसः ॥
युगपज्ज्ञेयानुपलब्धिरन्तःकरणस्य
लिङ्गं तत्र युगपद्ज्ञेयानुपलब्ध्या यदनुमीयते ऽन्तकरणं
न तस्य गुणो ज्ञानम्।
कस्य तर्हि ?, ज्ञस्य-- वशित्वात्
उवशी ज्ञाता वश्यं करणम्, ज्ञानगुणत्वे
वा करणभावनिवृत्तिः।
घ्राणादिसाधनस्य
च ज्ञातुर्गन्धादिज्ञानभावादनुमीयते-- अन्तःकरणसाधनस्य
सुखादिज्ञानं स्मृतिश्चेति, तत्र यत् ज्ञानगुणं
मनः स आत्मा. यत्तु सुखाद्युपलब्धिसाधनमन्तःकरणं
मनस्तदिति संज्ञाभेदमात्रं नार्थभेद इति।
युगपज्ज्ञेयानुपलब्धेश्चायोगिन इति
चार्थः, योगी खलु ऋद्धौ प्रादुर्भूतायां
विकरणधर्मा निर्माय सेन्द्रियाणि शरीरान्तराणि
तेषु तेषु युगपज् ज्ञेयान्युपलभते तच्चैतद्
विभौ ज्ञातर्युपपद्यते नाणौ मनसीति।
विभुत्वे वा मनसो ज्ञानस्य नात्मगुणत्वप्रतिषेधः--
विभु च मनस्तदन्तःकरणभूतमिति तस्य सर्वेन्द्रियैर्युगपत्
संयोगात् युगपज् ज्ञानान्युत्पद्येरन्निति

7.20

********************** न्य्स्भ्_3,2.20 **********************
न्य्स्_3,2.20: तदात्मगुणत्वेपि तुल्यम् ॥
विभुरात्मा सर्वेन्द्रियैः संयुक्त इति
युगपज्ज्ञानोत्पत्तिप्रसङ्ग इति

7.21

********************** न्य्स्भ्_3,2.21 **********************
न्य्स्_3,2.21: इन्द्रियैर् मनसः संनिकर्षाभावात् तदनुत्पत्तिः ॥
गन्धाद्युपलब्धेरिन्द्रियार्थसंनिकर्षवद्
इन्द्रियमनःसंनिकर्षोति कारणं तस्य चायौगपद्यम्--
अणुत्वान्मनसः अयौगपद्यादनुत्पत्तिर्युगपज्ज्ञानानामात्मगुणत्वेपीति

7.22

********************** न्य्स्भ्_3,2.22 **********************
यदि पुनरात्मेन्द्रियार्थसंनिकर्षमात्राद्
गन्धादिज्ञानमुत्पद्यते ?---
न्य्स्_3,2.22: नोत्पत्तिकारणानपदेशात् ॥
आत्मेन्द्रियसंनिकर्षमात्राद् गन्धादिज्ञानमुत्पद्यते
इति नात्रोत्पत्तिकारणमपदिश्यते येनैतत्
प्रतिपद्येमहीति

7.23

********************** न्य्स्भ्_3,2.23 **********************
न्य्स्_3,2.23: विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥
"तदात्मगुणत्वेपि तुल्यम् 20"
इत्येतदनेन समुच्चीयते, द्विविधो हि गुणनाशहेतुः--
गुणानामाश्रयाभावो विरोधी च गुणः,
नित्यत्वादात्मनो ऽनुपपन्नः पूर्वः, विरोधी
च बुद्धेर्गुणो न गृह्यते. तस्मादात्मगुणत्वे
सति बुद्धेर्नित्यत्वप्रसङ्गः

7.24

********************** न्य्स्भ्_3,2.24 **********************
न्य्स्_3,2.24: अनित्यत्वग्रहाद् बुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दवत् ॥
अनित्या बुद्धिरिति सर्वशरीरिणां
प्रत्यात्मवेदनीयमेतत्. गृह्यते च बुद्धिसंतानस्तत्र
बुद्धेर्बुद्ध्यन्तरं विरोधी गुण इत्यनुमीयते
यथा शब्दसंताने शब्दः शब्दान्तरविरोधीति

7.25

असंख्येयेषु ज्ञानकारितेषु संस्कारेषु
स्मृतिहेतुष्वात्मसमवेतेषु आत्ममनसोश्च
संनिकर्षे समाने स्मृतिहेतौ सति न कारणस्यायौगपद्यमस्तीति
युगपत्स्मृतयः प्रादुर्भवेयुर्यदि बुद्धिरात्मगुणः
स्यादिति, तत्र कश्चित् संनिकर्षस्यायौगपद्यमुपपादयिष्यन्नाह---
********************** न्य्स्भ्_3,2.25 **********************
न्य्स्_3,2.25: ज्ञानसमवेतात्मप्रदेशसंनिकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः ॥
ज्ञानसाधनः संस्कारो ज्ञानमित्युच्यते ज्ञानसंस्कृतैरात्मप्रदेशैः
पर्यायेण मनः संनिकृष्यते. आत्ममनःसंनिकर्षात्
स्मृतयोपि पर्यायेण भवन्तीति

7.26

********************** न्य्स्भ्_3,2.26 **********************
न्य्स्_3,2.26: नान्तःशरीर वृत्तित्वान्मनसः ॥
सदेहस्यात्मनो मनसा संयोगो
विपच्यमानकर्माशयसहितो जीवनमिष्यते
तत्रास्य प्राक् प्रायणादन्तःशरीरे वर्तमानस्य
मनसः शरीराद् बहिर्ज्ञानसंस्कृतैरात्मप्रदेशैः
संयोगो नोपपद्यते इति

7.27

********************** न्य्स्भ्_3,2.27 **********************
न्य्स्_3,2.27: साध्यत्वादहेतुः ॥
विपच्यमानकर्माशयमात्रं
जीवनम् एवं च सति साध्यमन्तःशरीरवृत्तित्वं
मनस इति

7.28

********************** न्य्स्भ्_3,2.28 **********************
न्य्स्_3,2.28: स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः ॥
सुस्मूर्षया खल्वयं मनः प्रणिदधानः चिरादपि
कं चिदर्थं स्मरति स्मरतश्च शरीरधारणं
दृश्यते, आत्ममनःसंनिकर्षजश्च प्रयत्नो द्विविधः--
धारकः प्रेरकश्च, निःसृते च शरीराद्बहिर्मनसि
धारकस्य प्रयत्नस्याभावाद् गुरुत्वात्पतनं
स्यात् शरीरस्यात्मवत इति

7.29

********************** न्य्स्भ्_3,2.29 **********************
न्य्स्_3,2.29: न तद् आशुगतित्वान्मनसः ॥
आशुगति मनस्तस्य बहिः शरीरादात्मप्रदेशेन
ज्ञानसंस्कृतेन संनिकर्षः प्रत्यागतस्य च प्रयत्नोत्पादनम्
उभयं युज्यते इति. उत्पाद्य वा धारकं प्रयत्नं
शरीरान्निःसरणं मनसो ऽतस्तत्रोपपन्नं
धारणमिति

7.30

********************** न्य्स्भ्_3,2.30 **********************
न्य्स्_3,2.30: न स्मरणकालानियमात् ॥
किञ्चित् क्षिप्रं स्मर्यते किञ्चिच्चिरेण.
यदा चिरेण तदा सुस्मूर्षया मनसि धार्यमाणे
चिन्ताप्रबन्धे सति कस्य चिदर्थस्य लिङ्गभूतस्य
चिन्तनमाराधितं स्मृतिहेतुर्भवति तत्रैतत्
चिरनिश्चरिते मनसि नोपपद्यते इति।
शरीरसंयोगानपेक्षश्चात्ममनःसंयोगो
न स्मृतिहेतुः-- शरीरस्योपभोगायतनत्वात् = उपभोगायतनं पुरुषस्य ज्ञातुः शरीरं
न ततो निश्चरितस्य मनस आत्मसंयोगमात्रं
ज्ञानसुखादीनामुत्पत्तौ कल्पते, कॢप्तौ वा
शरीर वैयर्थ्यमिति

7.31

********************** न्य्स्भ्_3,2.31 **********************
न्य्स्_3,2.31: आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः ॥
आत्मप्रेरणेन वा मनसो बहिः शरीरात्
संयोगविशेषः स्याद् यदृच्छया वा ।
आकस्मिकतया ज्ञतया वा मनसः, सर्वथा चानुपपत्तिः।
कथम् ?. स्मर्तव्यत्वाद्. इच्छताः स्मरणज्ञानासंभवाच्च ।
यदि तावदात्मा-- ऽअमुष्यार्थस्य स्मृतिहेतुः
संस्कारो ऽमुष्मिन्नात्मप्रदेशे समवेतस्तेन
मनः संयुज्यताम्ऽ इति मनः प्रेरयति तदा
स्मृत एवासावर्थो भवति न स्मर्तव्यः, न
चात्मप्रत्यक्ष आत्मप्रदेशः संस्कारो वा तत्रानुपपन्नात्मप्रत्यक्षेण
संवित्तिरिति।
सुस्मूर्षया चायं मनः प्रणिदधानश्चिरादपि
कञ्चिदर्थं स्मरति नाकस्मात्।
ज्ञत्वं च मनसो
नास्ति ज्ञानप्रतिषेधादिति

7.32

********************** न्य्स्भ्_3,2.32 **********************
एतच्च--
न्य्स्_3,2.32: व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ॥
यदा खल्वयं व्यासक्तमनाः क्वचिद् देशे शर्करया
कण्टकेन वा पादव्यथनमाप्नोति
तदात्ममनःसंयोगविशेष एषितव्यः--
दृष्टं हि दुःखं दुःखवेदनं चेति. तत्रायं
समानः प्रतिषेधः, यदृच्छया तु न विशैषः--
नाकस्मिकी क्रिया नाकस्मिकः संयोग
इति ॥
कर्मादृष्टमुपभोगार्थं
क्रियाहेतुरितिचेत् ? समानम् ॥
कर्मादृष्टं पुरुषस्थं
पुरुषोपभोगार्थं मनसि क्रियाहेतुः
एवं दुःखं दुःखसंवेदनं न सिध्यति
चेत्येवं चेन्मन्यसे ?, समानं
स्मृतिहेतावपि ।
संयोगविशेषो भवितुमर्हति. तत्र यदुक्तम्--
"आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः 31"
इत्ययमप्रतिषेध इति, पूर्वस्तु
प्रतिषेधः--
"नान्तःशरीर वृत्तित्वान्मनसः 26"
इति

7.33

********************** न्य्स्भ्_3,2.33 **********************
कः खल्विदानीं
कारणयौगपद्यसद्भावे युगपदस्मरणस्य
हेतुरिति ?,
न्य्स्_3,2.33: प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावादयुगपत्स्मरणम् ॥
यथा खल्वात्ममनसोः संनिकर्षः संस्कारश्च
स्मृतिहेतुरेवं प्रणिधानं लिङ्गादिज्ञानानि.
तानि च न युगपद् भवन्ति तत्कृता स्मृतीनां
युगपदनुत्पत्तिरिति

7.34

********************** न्य्स्भ्_3,2.34 **********************
न्य्स्_3,2.34: प्रातिभवत्तु प्रणिधानाद्यनपेक्षे स्मार्ते यौगपद्यप्रसङ्गः ॥
यत् खल्विदं प्रातिभमिव ज्ञानं प्रणिधानाद्यनपेक्षं
स्मार्तमुत्पद्यते कदाचित् तस्य युगपदुत्पत्तिप्रसङ्गः--
हेत्वभावात् ॥
सतः स्मृतिहेतोरसंवेदनात् प्रातिभेद समानाभिमानः = बह्वर्थविषये वै चिन्ताप्रबन्धे
कश्चिदेवार्थः कस्यचित् स्मृतिहेतुः--
तस्यानुचिन्तनात् तस्य स्मृतिर्भवति, न
चायं स्मर्ता सर्वं स्मृतिहेतुं संवेदयते = ऽएवं मे स्मृतिरुत्पन्नऽ इत्यसंवेदनात्
प्रातिभमिव ज्ञानमिदं स्मार्तमित्यभिमन्यते,
न त्वस्ति प्रणिधानाद्यनपेक्ष स्मार्तमिति ॥
प्रातिभे
कथमितिचेत् ?
पुरुषकर्मविशेषादुपभोगवन्नियमः ॥
प्रातिभामिदानीं ज्ञानं युगपत्
कस्मान्नोत्पद्यते ?. यथोपभोगार्थं कर्म युगपदुपभोगं
न करोति एवं पुरुषकर्मविशेषः
प्रतिभाहेतुर्न युगपदनेकं प्रातिभं
ज्ञानमुत्पादयति ॥
हेत्वभावादयुक्तमितिचेत् ? न--
करणस्य प्रत्ययपर्याये समार्थ्यात् ॥
ऽउपभोगवन्नियमःऽ
इत्यस्ति दृष्टान्तो हेतुर्नास्तीति
चेन्मन्यसे ? न-- करणस्य प्रत्ययपर्याये सामर्थ्याद्
नैकस्मिन् ज्ञेये युगपदनेकं
ज्ञानमुत्पद्यते न चानेकस्मिन्, तदिदं
दृष्टेन प्रत्ययपर्यायेणानुमेयं
करणसामर्थ्यमित्यम्भूतमिति. न ज्ञातुः--
विकरणधर्मिणो देहनानात्वे प्रत्यययौगपद्यादिति ॥
अयं च द्वितीयः प्रतिषेधः-- व्यवस्थितशरीरस्य
चानेकज्ञानसमवायादेकप्रदेशे युगपदनेकार्थस्मरणं
स्यात् = क्वचिद्
देशे ऽवस्थितशरीरस्य
ज्ञातुरिन्द्रियार्थप्रबन्धेन
ज्ञानमेकस्मिन्नात्मप्रदेशे समवैति तैन
यदा मनः संयुज्यते तदा
ज्ञातपूर्वस्यानेकस्य युगपत् स्मरणं
प्रसज्यते-- प्रदेशसंयोगपर्यायाभावादिति।
आत्मप्रदेशानामद्रव्यान्तरत्वादेकार्थसमवायस्याविशेषे
स्मृतियौगपद्यप्रतिषेधानुपपत्तिः।
शब्दसंताने
तु श्रोत्राधिष्ठानप्रत्यासत्त्या शब्दश्रवणवत्
संस्कारप्रत्यासत्त्या मनसः स्मृत्युत्पत्तेर्न
युगपदुत्पत्तिप्रसङ्गः।
पूर्व एव तु
प्रतिषेधः-- नानेकज्ञानसमवायादेकप्रदेशे
युगपत् स्मृतिप्रसङ्ग इति

7.35

********************** न्य्स्भ्_3,2.35 **********************
यत् ऽपुरुषधर्मो ज्ञानम्.
अन्तःकरणस्येच्छाद्वेषप्रयत्नसुखदुःखानि
धर्माःऽ इति कस्यचिद् दर्शनं तत्
प्रतिषिध्यते---
न्य्स्_3,2.35: ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः ॥
अयं खलु जानीते तावत्-- ऽइदं मे सुखसाधनम्
इदं मे दुःखसाधनम्ऽ इति. ज्ञातं स्वस्य
सुखसाधनमाप्तुमिच्छति दुःखसाधनं
हातुमिच्छति. प्राप्तुमिच्छायुक्तस्यास्य सुखसाधनावाप्तये
समीहाविशेष आरम्भः
जिहासाप्रयुक्तस्य दुःखसाधनपरिवर्जनं
निवृत्तिः एवं ज्ञानेच्छाप्रयत्नद्वेषसुखदुःखानामेकेनाभिसंबन्धः ।
एककर्तृत्वं ज्ञानेच्छाप्रवृत्तीनां समानश्रयत्वं
च. तस्मात्
ज्ञस्येच्छाद्वेषप्रयत्नसुखदुःखानि धर्मा
नाचेतनस्येति, आरम्भनिवृत्त्योश्च प्रत्यगात्मनि
दृष्टत्वात् परत्रानुमानं वेदितव्यमिति

7.36

********************** न्य्स्भ्_3,2.36 **********************
अत्र भूतचैतनिक
आह---
न्य्स्_3,2.36: तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ॥
आरम्भनिवृत्तिलिङ्गाविच्छाद्वेषाविति.
यस्यारम्भनिवृत्ती तस्येच्छाद्वेषौ तस्य
ज्ञानमिति प्राप्तम्-- पार्थिवाप्यतैजसवायवीनां
शरीराणामारम्भनिवृत्तिदर्शनादिच्छाद्वेषज्ञानैर्योग
इति चैतन्यम्

7.37

********************** न्य्स्भ्_3,2.37 **********************
न्य्स्_3,2.37: परश्वादिष्वारम्भनिवृत्तिदर्शनात् ॥
शरीरचैतन्यनिवृत्तिः।
आरम्भनिवृत्तिदर्शनादिच्छाद्वेषज्ञानैर्योग
इति प्राप्तम् परश्वादेः
करणस्यारम्भनिवृत्तिदर्शनाच्चैतन्यमिति।
अथ शरीरस्येच्छादिभिर्योगः परश्वादेस्तु
करणस्यारम्भनिवृत्ती व्यभिचरतः ?, न
तर्ह्ययं हेतुः-- ऽपार्थिवाप्यतैजसवायवीनां
शरीराणामारम्भनिवृत्तिदर्शनादिच्छाद्वेषज्ञानैर्योगःऽ
इति

7.38

अयं तर्ह्यन्यो ऽर्थः--
"तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः 36"
पृथिव्यादीनां भूतानामारम्भस्तावत्
त्रसविशरारुस्थावरशरीरेषु
तदवयवव्यूहलिङ्गः प्रवृत्तिविशेषः.
लोष्टादिषु लिङ्गाभावात्. प्रवृत्तिविशेषाभावो
निवृत्तिः. आरम्भनिवृत्तिलिङ्गाविच्छाद्वेषाविति
पार्थिवाद्येष्वणुषु तद्दर्शनादिच्छाद्वेषयोस्तद्योगाद्
ज्ञानयोग इति सिद्धं भूतचैतन्यमिति,
********************** न्य्स्भ्_3,2.38 **********************
न्य्स्_3,2.38: कुम्भादिष्वनुपलब्धेरहेतुः ॥
कुम्भादिमृदवयवानां व्यूहलिङ्गः प्रवृत्तिविशेष
आरम्भः सिकतादिषु प्रवृत्तिविशेषाभावो
निवृत्तिः. न च मृत्सिकतानामारम्भनिवृत्तिदर्शनादिच्छाद्वेषप्रयत्नज्ञानैर्योगः,
तस्मात्
"तल्लिङ्गत्वादिच्छाद्वेषयो 36"
इत्यहेतुरिति

7.39

********************** न्य्स्भ्_3,2.39 **********************
न्य्स्_3,2.39: नियमानियमौ तु तद्विशेषकौ ॥
तयोः ।
इच्छाद्वेषयोर्नियमानियमौ विशेषकौ ।
भेदकौ, ज्ञस्येच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती
न स्वाश्रये, किं तर्हि ?. प्रयोज्याश्रये. तत्र
प्रयुज्यमानेषु भूतेषु प्रवृत्तिनिवृत्ती
स्तः न सर्वेष्वित्य् अनियमोपपत्तिः।
यस्य
तु ज्ञत्वाद् भूतानामिच्छाद्वेषनिमित्ते
आरम्भनिवृत्ती स्वाश्रये तस्य नियमःन
स्यात् ।
यथा भूतानां गुणान्तरनिमित्ता प्रवृत्तिः
गुणप्रतिबन्धाच्च निवृत्तिर्भूतमात्रे भवति
नियमेन एव भूतमात्रे ज्ञानेच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती स्वाश्रये
स्यातां न तु भवतः तस्मात् प्रयोजकाश्रिता ज्ञानेच्छाद्वेषिप्रयत्नाः प्रयोज्याश्रये तु प्रवृत्तिनिवृत्ती
इतिसिद्धम्।
एकशरीरे ज्ञातृबहुत्वं निरनुमानम्।
भूतचैतनिकस्य एकशरीरे बहूनि भूतानि
ज्ञानेच्छाद्वेषप्रयत्नगुणानीति ज्ञातृबहुत्वं
प्राप्तम्, ओमिति ब्रुवतः प्रमाणं नास्ति, यथा
नानाशरीरेषु नानाज्ञातारो प्रत्ययव्यवस्थानाद्
एवमेकशरीरेपि प्रत्ययव्यवस्थानुमानं स्यात् ज्ञातृबहुत्वस्येति ॥
दृष्टश्चान्यगुणनिमित्तः प्रवृत्तिविशेषो भूतानां सोनुमानमन्यत्रापि ॥
दृष्टः करणलक्षणेषु भूतेषु परश्वादिषु उपादानलक्षणेषु च मृत्प्रभृतिषु अन्यगुणनिमित्तः प्रवृत्तिविशेषः सोनुमानमन्यत्रापि ।
स त्रसस्थावरशरीरेषु
तदवयवव्यूहलिङ्गः प्रवृत्तिविशेषो भूतानाम् अन्यगुणनिमित्त इति, स च गुणः प्रयत्नसमानाश्रयः संस्कारो धर्माधर्मसमाख्यातः सर्वार्थः
पुरुषार्थाराधनाय प्रयोजको भूतानां प्रयत्नवदिति।
आत्मास्तित्वहेतुभिरात्मनित्यत्वहेतुमिश्च
भूतचैतन्यप्रतिषेधः कृतो वेदितव्यः।
"नेन्द्रियार्थयोस्तद्विनाशेपि ज्ञानावस्थानात् 18"
इति च समानः प्रतिषेध इति।
क्रियामात्रं
क्रियोपरममात्रं चारम्भनिवृत्ती इत्यभिप्रेत्योक्तम्--
"तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः 36"
(इति). अन्यथा त्विमे आरम्भनिवृत्ती आख्याते.
न च तथाविधे पृथिव्यादिषु दृश्येते
तस्मादयुक्तम्--
"तल्लिङ्गत्वादिच्छाद्वेषयोः
पार्थिवाद्येष्वप्रतिषेधः 36"
इति

7.40

********************** न्य्स्भ्_3,2.40 **********************
भूतेन्द्रियमनसां समानः प्रतिषेधो मनस्तूदाहरणमात्रम्---
न्य्स्_3,2.40: यथोक्तहेतुत्वात् पारतन्त्र्यादकृताभ्यागमाच्च न मनसः ॥
"इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् 1-1-10"
इत्यतः प्रभृति यथोक्तं संगृह्यते तेन भूतेन्द्रियमनसां
चैतन्यप्रतिषेधः, पारतन्त्र्यात्
उपरतन्त्राणि
भूतेन्द्रियमनांसिधारणप्रेरणव्यूहनक्रियासु
प्रयत्नवशात् प्रवर्तन्ते. चैतन्ये पुनः स्वतन्त्राणि
स्युरिति, अकृताभ्यागमाच्च = "प्रवृत्तिः
उवाग्बुद्धिशरीरारम्भ इति 1-1-17"
चैतन्ये भूतेन्द्रियमनसां परकृतं कर्म
पुरुषेणोपभुज्ते इति स्यात्, अचैतन्ये
तु तत्साधनस्य स्वकृतकर्मफलोपभोगः
पुरुषस्येत्युपपद्यते इति

7.41

********************** न्य्स्भ्_3,2.41 **********************
अथायं सिद्धोपसंग्रहः---
न्य्स्_3,2.41: परिशेषाद् यथोक्तहेतूपपत्तेश्च ॥
ऽआत्मगुणो ज्ञानम्ऽ इतिप्रकृतम्, परिशेषो नाम प्रसक्तप्रतिषेधे
अन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः ।
भूतेन्द्रियमनसां प्रतिषेधे द्रव्यान्तरं
न प्रसज्यते शिष्यते चात्मा तस्य गुणो
ज्ञानमिति ज्ञायते, यथोक्तहेतूपपत्तेश्चेति--
"दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् 3-1-1"
इत्येवमादीनामात्मप्रतिपत्तिहेतूनामप्रतिषेधादिति।
परिशेषज्ञापनार्थं प्रकृतस्थापनादिज्ञानार्थं
च यथोक्तहेतूपपत्तिवचनमिति।
अथ वा
"उपपत्तेश्च"
इति हेत्वन्तरमेवेदम्-- नित्यः खल्वयमात्मा
यस्मादेकस्मिन् शरीरे धर्मं चरित्वा
कायभेदात् स्वर्गे देवेषूपपद्यते. अधर्मं
चरित्वा देहभेदाद् नरकेषूपपद्यते इति,
उपपत्तिः ।
शरीरान्तरप्राप्तिलक्षणा. सा सति सत्त्वे
नित्ये चाश्रयवती।
बुद्धिप्रबन्धमात्रे
तु निरात्मके निराश्रया नोपपद्यते इति।
एकसत्त्वाधिष्ठानश्चानेकशरीरयोगः संसार
उपपद्यते. शरीरप्रबन्धोदश्चापवर्गो मुक्तिरित्युपपद्यते,
बुद्धिसंततिमात्रे त्वेकसत्त्वानुपपत्तेर्न
कश्चिद् दीर्घमध्वानं संधावति. न कश्चित्
शरीरप्रबन्धाद्विमुच्यत इति संसारापवर्गानुपपत्तिरिति।
बुद्धिसंततिमात्रे च सत्त्वभेदात् सर्वमिदं
प्राणिव्यवहारजातम् अप्रतिसंहितम् अव्यावृत्तम् अपरिनिष्ठितं
च स्यात् ततः स्मरणाभावात्--
नान्यदृष्टमन्यः स्मरतीति, स्मरणं च खलु
पूर्वज्ञातस्य समानेन ज्ञात्रा ग्रहणम्--
ऽअज्ञासिषममुमर्थं ज्ञेयम्ऽ इति. सोयमेको
ज्ञाता पूर्वज्ञातमर्थं गृह्णाति तच्चास्य
ग्रहणं स्मरणमिति. तद् बुद्धिप्रबन्धमात्रे
निरात्मके नोपपद्यते

7.42

********************** न्य्स्भ्_3,2.42 **********************
न्य्स्_3,2.42: स्मरणं त्वात्मनो ज्ञस्वाभाव्यात् ॥
उपपद्यते इति, आत्मन एव स्मरणं न बुद्धिसंततिमात्रस्येति,
तुशब्दो ऽवधारणे।
कथम् ?
ज्ञस्वाभाव्यात् = ज्ञ इत्यस्य स्वभावः
उस्वो धर्मः-- अयं खलु ऽज्ञास्यति
जानाति अज्ञासीत्ऽ इति त्रिकालविषयेणानेकेन
ज्ञानेन संबध्यते. तच्चास्य त्रिकालविषयं
ज्ञानं प्रत्यात्मवेदनीयम्-- ऽज्ञास्यामि
जानामि अज्ञासिषम्ऽ इति वर्तते. तद् यस्यायं
स्वो धर्मस्तस्य स्मरणं न बुद्धिप्रबन्धमात्रस्य
निरात्मकस्येति

7.43

********************** न्य्स्भ्_3,2.43 **********************
स्मृतिहेतूनाम् अयौगपद्याद् युगपदस्मरणमित्युक्तम्,
अथ केभ्यः स्मृतिरुत्पद्यते इति ?, स्मृतिः खलु---
न्य्स्_3,2.43: प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयोर्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ॥
सुस्मूर्षया मनसो धारणं प्रणिधानम्--
सुस्मूर्षितलिङ्गचिन्तनं
चार्थस्मृतिकारणम् 1, निबन्धः खल्वेकग्रन्थोपयमोर्थानाम्--
एकग्रन्थोपयताः खल्वर्था
अन्योन्यस्मृतिहेतवः आनुपूर्व्येणेतरथा
वा भवन्तीति, धारणाशास्त्रकृतो वा
प्रज्ञातेषु वस्तुषु स्मर्तव्यानामुपनिक्षेपो निबन्ध इति 2,
अभ्यासस्तु समाने विषये ज्ञानानामभ्यावृत्तिः अभ्यासजनितः संस्कार आत्मगुणो ऽभ्यासशब्देनोच्यते स च स्मृतिहेतुः समान इति 3,
लिङ्गं पुनः संयोगि समवायि एकार्थसमवायि
विरोधि चेति, संयोगि यथा
धूमो ऽग्नेः गोर्विषणं पाणिः पादस्य रूपं
स्पर्शस्य अभूतं भूतस्येति 4, लक्षणं पश्ववयवस्थं
गोत्रस्य स्मृतिहेतुः-- विदानामिदं
गर्गाणामिदमिति 5, सादृश्यं चित्रगतं प्रतिरूपकं
देवदत्तस्येत्येवमादि 6, परिग्रहात्-- स्वेन
वा स्वामी स्वामिना वा स्वं स्मर्यते 7, आश्रयात्--
ग्रामण्या तदधीनं स्मरति 8, आश्रितात्--
तदधीनेन ग्रामण्यमिति 9, संबन्धात्-- अन्तेवासिना
युक्तं गुरुं स्मरति ऋत्विजा याज्यमिति
10, आनन्तर्यात्-- इतिकग्णीयेष्वर्थेषु 11,
वियोगात्-- येन विप्रयुज्यते
तद्वियोगप्रतिसंवेदी भृशं स्मरति 12,
एककार्यात्-- कर्त्रन्तरदर्शनात् कर्त्रन्तरे
स्मृतिः 13, विरोधात्--
विजिगीषमाणयोरन्यतरदर्शनादन्यतरः
स्मर्यते 14, अतिशयात्-- येनातिशय उत्पादितः
15, प्राप्तेः-- यतो येन किञ्चित् प्राप्तमाप्तव्यं
वा भवति तमभीक्ष्णं स्मरति 16, व्यवधानात्--
कोशादिभिरसिभृतीनि स्मर्यन्ते 17, सुखदुःखाभ्यां
तद्धेतुः स्मर्यते 19, इच्छाद्वेषाभ्यां यमिच्छति
यं च द्वेष्टि तं स्मरति 21, भयात्-- यतो
बिभेति 22, अर्थित्वात्-- येनार्थी भोजनेन् आच्छादनेन
वा 23, क्रियया-- रथेन रथकारं स्मरति 24,
रागात्-- यस्यां स्त्रियां रक्तो भवति
तामभीक्ष्णं स्मरति 25, धर्मात्
जात्यन्तरस्मरणम् इह
चाधीतश्रुतावधारणमिति26, अधर्मात् प्रागनुभूतदुःखसाधनं
स्मरति 27, न चैतेषु निमित्तेषु युगपत्संवेदनानि
भवन्तीति युगपदस्मरणमिति।
निदर्शनं
चेदं स्मृतिहेतूनां न परिसंख्यानमिति

7.44

********************** न्य्स्भ्_3,2.44 **********************
अनित्यायां च बुद्धौ उत्पन्नापवर्गित्वात् कालान्तरावस्थानाच्चानित्यानां संशयः--
किमुत्पन्नापवर्गिणी बुद्धिः शब्दवत् ?
अहो स्वित् कालान्तरावस्थायिनी कुम्भवन् ? इति,
उत्पव्यापवर्गिणीति पक्षः परिगृह्यते,
कस्मात् ?
न्य्स्_3,2.44: कर्मानवस्थायिग्रहणात् ॥
कर्मणो ऽनवस्थायिनो ग्रहणादिति--
क्षिप्तस्येषोरापतनात् क्रियासंतानो
गृह्यते, गत्यर्थनियमाच्च बुद्धीनां
क्रियासंतानवद् बुद्धिसंतानोपपत्तिरिति,
अवस्थितग्रहणे च व्यवधीयमानस्य प्रत्यक्षनिवृत्तेः ।
अवस्थिते च कुम्भे गृह्यमाणे संतानेनैव
बुद्धिर्वर्तते प्राग् व्यवधानात्. तेन
व्यवहिते प्रत्यक्षं ज्ञानं निवर्तते, कालान्तरावस्थाने
तु बुद्धेर्दृश्यव्यवधानेपि
प्रत्यक्षमवतिष्ठेतेति।
स्मृतिश्चालिङ्गं बुद्ध्यवस्थाने-- संस्कारस्य बुद्धिजस्य स्मृतिहेतुत्वात्।
यश्च मन्येत--
अवतिष्ठते बुद्धिः-- दृष्टा हि
बुद्धिविषये स्मृतिः सा च बुद्धावनित्यायां
कारणाभावान्न स्यादिति, तदिदमलिङ्गम्,
कस्मात् ?. बुद्धिजो हि संस्कारो
गुणान्तरं स्मृतिहेतुर्न बुद्धिरिति ॥
हेत्वभावादयुक्तमितिचेत् ? बुद्ध्यवस्थानात्
प्रत्यक्षत्वे स्मृत्यभावः ॥
यावदवतिष्ठते
बुद्धिस्तावदसौ बोद्धव्यार्थः प्रत्यक्षः प्रत्यक्षे
च स्मृतिरनुपपन्नेति

7.45

********************** न्य्स्भ्_3,2.45 **********************
न्य्स्_3,2.45: अव्यक्तग्रहणमनवस्थायित्वाद् विद्युत्संपाते रूपाव्यक्तग्रहणवत् ॥
यद्युत्पन्नावर्गिणीं बुद्धिः ?
प्राप्तम् अव्यक्तं बोद्धव्यस्य ग्रहणं
यथा विद्युत्संपाते वैद्युतस्य प्रकाशस्यानवस्थानादव्यक्तं
रूपग्रहणमिति. व्यक्तं तु द्रव्यणां ग्रहणं
तस्मादयुक्तमेतदिति

7.46

********************** न्य्स्भ्_3,2.46 **********************
न्य्स्_3,2.46: हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा ॥
ऽउत्पन्नापवर्गिणी बुद्धिःऽ इति प्रतिषेद्धव्यम्.
तदेवाभ्यनुज्ञायते--
"विद्युत्संपाते रूपाव्यक्तग्रहणवत्"
इति

7.46

यत्राव्यक्तग्रहणं
तत्रोत्पन्नापवर्गिणी बुद्धिरिति---
ग्रहणहेतुविकल्पाद् ग्रहणविकल्पो न बुद्धिविकल्पात्
॥ यदिदं क्वचिदव्यक्तं क्वचिद् व्यक्तं
ग्रहणम् अयं विकल्पो ग्रहणहेतुविकल्पात्
उयत्रानवस्थितो
ग्रहणहेतुस्तत्राव्यक्तं ग्रहणम् यत्रावस्थितस्तत्र
व्यक्तं न तु बुद्धेर् अवस्थानानवस्थानाभ्यामिति।
कस्मात् ?. अर्थग्रहणं हि बुद्धिः ।
यत् तदर्थग्रहणम् अव्यक्तं व्यक्तं वा बुद्धिः
सेति, विशेषाग्रहणे च
सामान्यग्रहणम् अव्यक्तग्रहणं तत्र
विषयान्तरे बुद्ध्यन्तरानुत्पत्तिर्निमित्ताभावात्.
यत्र सामान्यधर्मयुक्तश्च धर्मी गृह्यते विशेषधर्मयुक्तश्च
तद् व्यक्तं ग्रहणं. तत्र तु विशेषे ऽगृह्यमाणे
सामान्यग्रहणमात्रं तदव्यक्तं ग्रहणम्,
सामान्यधर्मयोगाच्च विशिष्टधर्मयोगो
विषयान्तरम्, तत्र यद् ग्रहणं न भवति
तद् ग्रहणनिमित्ताभावाद् न नु बुद्धेरनवस्थानादिति।
यथाविषयं च ग्रहण व्यक्तमेव-- प्रत्यर्थनियतत्वाच्च
बुद्धीनाम् ।
सामान्यविषयं च ग्रहणं स्वविषयं प्रति
व्यक्तं विशेषविषयं च ग्रहणं
स्वविषयं प्रति व्यक्तम्-- प्रत्यर्थनियता
हि बुद्धयः, तदिदमव्यक्तग्रहणं देशितं
क्व विषये बुद्ध्यनवस्थानकारितं स्यादिति
॥ धर्मिणस्तु धर्मभेदे बुद्धिनानात्वस्य भावाभावाभ्यां
तदुपपत्तिः धर्मिणः खल्वर्थस्य समानाश्च
धर्मा विशिष्टाश्च तेषु प्रत्यर्थनियताः = नाना बुद्धयस्ता उभय्यो यदि धर्मिणि
वर्तन्ते तदा व्यक्तं ग्रहणं
धर्मिणमभिप्रेत्य. यदा तु
सामान्यग्रहणमात्रं तदाव्यक्तं
ग्रहणमिति. एवं धर्मिणमभिप्रेत्य
व्यक्ताव्यक्तयोर्ग्रहणयोरुपपत्तिरिति, न
चेदमव्यक्तं ग्रहणं बुद्धेर्बोद्धव्यस्य वानवस्थायित्वादुपपद्यते
इति

7.47

********************** न्य्स्भ्_3,2.47 **********************
इदं हि
न्य्स्_3,2.47: न प्रदीपार्चिःसंतत्यभिव्यक्तग्रहणवत् तद्ग्रहणम् ॥
अनवस्थायित्वेपि बुद्धेः
तेषां द्रव्याणां ग्रहणं व्यक्तं प्रतिपत्तव्यम्।
कथम् ?.
प्रदीपार्चिःसंतत्यभिव्यक्तग्रहणवत्
उप्रदीपार्चिषां संतत्या वर्तमानानां
ग्रहणानवस्थानं ग्राह्यानवस्थानं च, प्रत्यर्थनियतत्वाद्वा
बुद्धीनां यावन्ति प्रदीपार्चीषि तावत्यो
बुद्धय इति. दृश्यते चात्र व्यक्तं
प्रदीपार्चिषां ग्रहणमिति

7.48

********************** न्य्स्भ्_3,2.48 **********************
चेतना शरीरगुणः-- सति शरीरे
भावादसति चाभावादिति।
न्य्स्_3,2.48: द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ॥
सांशयिकः सति भावः-- स्वगुणो ऽप्सु
द्रवत्वमुपलभ्यते परगुणश्चोष्णता.
तेनायं संशयः-- किं शरीरगुणश्चेतना
शरीरे गृह्यते ? अथ द्रव्यान्तरगुणः ? इति

7.49

********************** न्य्स्भ्_3,2.49 **********************
न शरीरगुणश्चेतना,
कस्मात् ?,
न्य्स्_3,2.49: यावच्छरीरभावित्वाद्रूपादीनाम् ॥
न रूपादिहीनं शरीरं गृह्यते चेतनाहीनं तु गृह्यते यथोष्णताहीना आपः
तस्मान्न शरीरगुणश्चेतनेति ॥
संस्कारवदितिचेत् ? न-- कारणानुच्छेदात् ॥
यथाविधे द्रव्ये
संकारस्तथाविधे एवोपरमः ?. न-- तत्र
कारणोच्छेदादत्यन्तं संस्कारानुपत्तिर्भवति,
यथाविधे शरीरे चेतना गृह्यते
तथाविधे एवात्यन्तोपरमश्चेतनाया
गृह्यते. तस्मात् ऽसंस्कार वत्ऽ इत्यसमः
समाधिः ॥
अथापि शरीरस्थं
चेतनोत्पत्तिकारणं स्यात् द्रव्यान्तरस्थं
वा उभयस्थं वा, तन्न--
नियमहेत्वभावात्
उशरीरस्थेन कदाचित् चेतनोत्पद्यते
कदाचिन्नेति नियमे हेतुर्नास्तीति.
द्रव्यान्तरस्थेन च शरीरे एव
चेतनोत्पद्यते न लोष्टादिष्वित्यत्र
नियमहेतुर्नास्तीति. उभयस्थस्य
निमित्तत्वे शरीरसमानजातीयद्रव्ये
चेतना नोत्पद्यते शरीरे एव चोत्पद्यते इतिनियमे
हेतुर्नास्तीति

7.50

********************** न्य्स्भ्_3,2.50 **********************
यच्च
मन्येत-- सति श्यामादिगुणे द्रव्ये श्यामाद्युपरमो
दृष्ट एवं चेतनोपरमः स्यादिति,
न्य्स्_3,2.50: न पाकजगुणान्तरोत्पत्तेः ॥
नात्यन्तरूपोपरमः = द्रव्यस्य श्यामे रूपे निवृत्ते पाकजं
गुणान्तरम्
उरक्तं रूपमुत्पद्यते, शरीरे तु
चेतनामात्रोपरमो ऽत्यन्तमिति

7.51

********************** न्य्स्भ्_3,2.51 **********************
अथापि---
न्य्स्_3,2.51: प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः ॥
यावत्सु द्रव्येषु पूर्वगुणप्रतिद्वन्द्विसिद्धिस्तावत्सु
पाकजोत्पत्तिर्दृश्यते-- पूर्वगुणैः सह
पाकजानामवस्थानस्याग्रहणात्. न च शरीरे
चेतनाप्रतिद्वन्द्वि सहानवस्थायि
गुणान्तरं गृह्यते येनानुमीयेत तेन
चेतनाया विरोधः, तस्मादप्रतिषद्धा
चेतना यावच्छरीरं वर्तेत न तु वर्तते
तस्मान्न शरीरगुणश्चेतना इति

7.52

********************** न्य्स्भ्_3,2.52 **********************
इतश्च न शरीरगुणश्चेतना---
न्य्स्_3,2.52: शरीरव्यापित्वात् ॥
शरीरं शरीरावयवाश्च सर्वे चेतनोत्पत्त्या व्याप्ता इति न
क्वचिदनुत्पत्तिश्चेतनायाः. शरीरवत् शरीरावयवाश्चेतना
इति प्राप्तं चेतनबहुत्वम्, तत्र यथा प्रतिशरीरं
चेतनबहुत्वे सुखदुःखज्ञानानां व्यवस्था
लिङ्गम् एवमेकशरीरेपि स्यात्. न
तु भवति. तस्मान्न शरीरगुणश्चेतनेति

7.53

********************** न्य्स्भ्_3,2.53 **********************
यदुक्तम्-- न
क्वचिच्छरीरावयवे चेतनाया अनुत्पत्तिरिति.
सा न
न्य्स्_3,2.53: न केशनखादिष्वनुपलब्धेः ॥
केशेषु नखादिषु चानुत्पत्तिश्चेतनाया इत्यनुपपन्नं
शरीरव्यापित्वमिति

7.54

********************** न्य्स्भ्_3,2.54 **********************
न्य्स्_3,2.54: त्वक्पर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः ॥
इन्द्रियाश्रयत्वं शरीरलक्षणम् ।
त्वक्पर्यन्तं जीवमनःसुखदुःखसंवित्त्यायतनभूतं शरीरं
तस्मान्न केशादिषु चेतनोत्पद्यते, अर्थकारितस्तु
शरीरोपनिबन्धः केशादीनामिति

7.55

********************** न्य्स्भ्_3,2.55 **********************
इतश्च न शरीरगुणश्चेतना---
न्य्स्_3,2.55: शरीरगुणवैधर्म्यात् ॥
द्विविधः शरीरगुणः--
अप्रत्यक्षं च गुरुत्वम् इन्द्रियग्राह्यं च रूपादि,
विधान्तरं तु चेतना ।
नाप्रत्यक्षा-- संवेद्यत्वात्. नेन्द्रियग्राह्या--
मनोविषयत्वात्. तस्माद्
द्रव्यान्तरगुण इति

7.56

********************** न्य्स्भ्_3,2.56 **********************
न्य्स्_3,2.56: न रूपादीनामितरेतरवैधर्म्यात् ॥
यथेतरेतरविधर्माणो रूपादयो न शरीरगुणत्वं
जहति. एवं रूपादिवैधर्म्यार्त् चेतना शरीरगुणत्वं
न हास्यतीति

7.57

********************** न्य्स्भ्_3,2.57 **********************
न्य्स्_3,2.57: ऐन्र्दियकत्वाद् रूपादीनामप्रतिषेधः ॥
अप्रत्यक्षत्वाच्चेति, यथेतरेतरविधर्माणो
रूपादयो न द्वैविध्यमतिवर्तन्ते तथा रूपादिवैधर्म्यात्
चेतना न द्वैविध्यमतिवर्तेत यदि शरीरगुणः
स्यादिति. अतिवर्त्तते तु तस्मान्न शरीरगुण
इति ॥
भूतेन्द्रियमनसां ज्ञानप्रतिषेधात् सिद्धे सत्यारम्भो विशेषज्ञापनार्थः ।
बहुधा परीक्ष्यमाणं तत्त्वं सुनिश्चिततरं
भवतीति

7.58

********************** न्य्स्भ्_3,2.58 **********************
परीक्षिता बुद्धिः, मनस इदानीं परीक्षाक्रमः तत् किं प्रतिशरीरमेकमनेकमिति
विचारे---
न्य्स्_3,2.58: ज्ञानायौगपद्यादेकं मनः ॥
अस्ति खलु वै ज्ञानायौगपद्यम्--
एकैकस्येन्द्रियस्य यथाविषयं
करणस्यैकप्रत्ययनिर्वृत्तौ सामर्थ्यात्
न तदेकत्वे मनसो लिङ्गम्. यत्तु खल्विन्द्रियान्तराणां
विषयान्तरेषु ज्ञानायौगपद्यमिति तल्लिङ्गम्।
कस्मात् ?. संभवति खलु वै बहुषु मनःसु
इन्द्रियमनःसंयोगयौगपद्यमिति
ज्ञानयौगपद्यं स्यात्. न तु भवति
तस्माद् विषये प्रत्ययपर्यायादेकं मनो
भवतीति

7.59

********************** न्य्स्भ्_3,2.59 **********************
न्य्स्_3,2.59: न युगपदनेकक्रियोपलब्धेः ॥
अयं खल्वध्यापको ऽधीते व्रजति कमण्डलुं
धारयति पन्थानं पश्यति शृणोत्यारण्यजान्
शब्दान् बिभेति व्याललिङ्गानि बुभुत्सते
स्मरति च गन्तव्यं स्थानीयमिति
क्रमस्याग्रहणाद् युगपदेताः क्रिया इति
प्राप्तं मनसो बहुत्वमिति

7.60

********************** न्य्स्भ्_3,2.60 **********************
न्य्स्_3,2.60: अलातचक्रदर्शनवत् तदुपलब्धिराशुसंचारात् ॥
आशुसंचारादलातचक्रस्य भ्रमतो
विद्यमानः क्रमो न गृह्यते.
क्रमस्याग्रहणाद् अविच्छेदबुद्ध्या
चक्रवद् बुद्धिर्भवति, तथा बुद्धीनां
क्रियाणां चाशुवृत्तित्वाद् विद्यमानः
क्रमो न गृह्यते. क्रमस्याग्रहणाद् युगपत्
क्रिया भवनतीति अभिमानो भवति।
किं पुनः
क्रमस्याग्रहणाद् युगपत् क्रियाभिमानः ? अथ युगपद्भावादेव युगपदनेकक्रियोपलब्धिरिति ?, नात्र विशेषप्रतिपत्तेः कारणमुच्यते।
उक्तम्--
इन्द्रियान्तराणां विषयान्तरेषु पर्यायेण
बुद्धयो भवन्तीति, तच्चाप्रत्याख्येयम्-- आत्मप्रत्यक्षत्वात्।
अथापि दृष्टश्रुतानर्थांश्चिन्तयतः क्रमेण बुद्धयो
वर्तन्ते न युगपद् अनेनानुमातव्यमिति।
वर्णपदवाक्यबुद्धीनां तदर्थबुद्धीनां चाशुवृत्तित्वात्
क्रमस्याग्रहणम्।
कथम् ?, वाक्यस्थेषु खलु
वर्णेषूच्चरत्सु प्रतिवर्णं तावच्छ्रवणं भवति.
श्रुतं वर्णमेकमनेकं वा पदभावेन प्रतिसंधत्ते.
प्रतिसंधाय पदं व्यवस्यति. पदव्यवसायेन
स्मृत्यापदार्थं प्रतिपद्यते,
पदसमूहप्रतिसंधानाच्च वाक्यं व्यवस्यति.
संबद्धांश्च पदार्थान गृहीत्वा वाक्यार्थं
प्रतिपद्यते, न चासां क्रमेण वर्तमानानां बुद्धीनामाशुवृत्तित्वात्
क्रमो गृह्यते. तदेतदनुमानमन्यत्र बुद्धिक्रियायौगपद्याभिमानस्येति।
न चास्ति मुक्तसंशया युगपदुत्पत्तिर्बुद्धीनां
यया मनसो बहुत्वमेकशरीरे ऽनुमीयते
इति

7.61

********************** न्य्स्भ्_3,2.61 **********************
न्य्स्_3,2.61: यथोक्तहेतुत्वाच्चाणु ॥
अणु मन एकं
चेति धर्मसमुच्चयः-- ज्ञानायौगपद्यात्,
महत्त्वे मनसः सर्वेन्द्रियसंयोगाद् युगपद्
विषयग्रहणं स्यादिति

7.62

मनसः खलु भोः
सेन्द्रियस्य शरीरे वृत्तिलाभो नान्यत्र
शरीरात्, ज्ञातुश्च पुरुषस्य शरीरायतना
बुद्ध्यादयो विषयोपभोगो
जिहासितहानम् ईप्सितावाप्तिश्च सर्वे
च शरीराश्रया व्यवहाराः, तत्र खलु
विप्रतिपत्तेः संशयः-- किमयं
पुरुषकर्मनिमित्तः शरीरसर्गः ? अथ वा भूतमात्रादकर्मनिमित्तः ?
इति, श्रूयते खल्वत्र विप्रतिपत्तिरिति।
********************** न्य्स्भ्_3,2.62 **********************
तत्रेदं तत्त्वम्---
न्य्स्_3,2.62: पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ॥
पूर्वशरीरे या प्रवृत्तिः वाग्बुद्धिशरीरारम्भलक्षणा
तत् पूर्वकृतं कर्मोक्तं तस्य फलम् ।
तज्जनितौ धर्माधर्मौं. तत्फलस्यानुबन्धः = आत्मसमवेतस्यावस्थानम्. तेन प्रयुक्तेभ्यो
भूतेभ्यस्तस्य शरीरस्योत्पत्तिर्न स्वतन्त्रेभ्य
इति।
यदधिष्ठानोयमात्मा ऽअयमहमितिमन्यमानो
यत्राभियुक्तो यत्रोपभोगतृष्णया
विषयानुपलभमानो धर्माधर्मौं संस्करोति
तदस्य शरीरम्. तेन संस्कारेण
धर्माधर्मलक्षणेन भूतसहितेन पतिते ऽस्मिन्
शरीरे शरीरान्तरं निष्पद्यते.
निष्पन्नस्य च तस्य पूर्वशरीर वत्
पुरुषार्थक्रिया पुरुषस्य च पूर्वशरीर
वत्प्रवृत्तिरिति कर्मापेक्षेभ्यो भूतेभ्यः
शरीरसर्गेसति एतदुपपद्यते इति, दृष्टा च
पुरुषगुणेन प्रयत्नेन प्रयुक्तेभ्यो भूतेभ्यः
पुरुषार्थक्रियासमर्थानां द्रव्याणां रथप्रभृतीनामुत्पत्तिस्तयानुमातव्यम्--
ऽशरीरमपि
पुरुषार्थक्रियासमर्थमुत्पद्यमानं
पुरुषस्य गुणान्तरापेक्षेभ्यो भूतेभ्य
उत्पद्यतेऽ इति

7.63

********************** न्य्स्भ्_3,2.63 **********************
अत्र नास्तिक आह---
न्य्स्_3,2.63: भूतेभ्यो मूर्त्युपादानवत् तदुपादानम् ॥
यथा कर्मनिरपेक्षेभ्यो भूतेभ्यो निर्वृत्ता मूर्तयः
उसिकताशर्करापाषाणगैरिकाञ्जनप्रभृतयः
पुरुषार्थकारित्वादुपादीयन्ते तथा
कर्मनिरपेक्षेभ्यो भूतेभ्यः शरीमुत्पन्नं
पुरुषार्थकारित्वादुपादीयते इति

7.64

********************** न्य्स्भ्_3,2.64 **********************
न्य्स्_3,2.64: न साध्यसमत्वात् ॥
यथा शरीरोत्पत्तिरकर्मनिमित्ता साध्या
तथा सिकताशर्करापाषाणगैरिकाञ्जनप्रभृतीनामप्य् अकर्मनिमित्तः
सर्गः साध्यः साध्यसमत्वादसाधनमिति = "भूतेभ्यो मूर्त्युपादानवत्"
इति चानेन साध्यम्

7.65

********************** न्य्स्भ्_3,2.65 **********************
न्य्स्_3,2.65: नोत्पत्तिनिमित्तत्वान्मातापित्रोः ॥
विषमश्चायमुपन्यासः, कस्मात् ?, निर्बीजा
इमा मूर्तय उत्पद्यन्ते. बीजपूर्विका तु शरीरोत्पत्तिः।
मातापितृशब्देन लोहितरेतसी बीजभूते
गृह्येते, तत्र सत्त्वस्वय
गर्भवासानुभवनीयं कर्म पित्रोश्च पुत्रुलानुभवनीये
कर्मणी मातुर्गर्भाश्रये शरीरोत्पत्तिं भूतेभ्यः
प्रयोजयन्ति इत्युपपन्नं बीजानुविधानमिति

7.66

********************** न्य्स्भ्_3,2.66 **********************
न्य्स्_3,2.66: तथाहारस्य ॥
"उत्पत्तिनिमित्तत्वात्"
इतिप्रकृतम्, भुक्तं पीतम् आहारस्तस्य
पक्तिनिर्वृत्तं रसद्रव्यं मातृशरीरे
चोपचीयते. बीजे गर्भाशयस्थे बीजसमानपाकं
मात्रया चोपचयः बीजे यावद्
व्यूहसमर्थः संचय इति. संचितं चार्बुदमांसपेशीकलककण्डरशिरःपाण्यादिना
च व्यूहेन इन्द्रियाधिष्ठानभेदेन व्यूह्यते.
व्यूहे च गर्भगनाड्यावतारितं रसद्रव्यमुपचीयते
यावत् प्रसवसमर्थमिति।
न
चायमन्नपानस्य स्थाल्यादिगतस्य कल्पते
इति, एतस्मात् कारणात् कर्मनिमित्तत्वं
शरीरस्य विज्ञायते इति

7.67

********************** न्य्स्भ्_3,2.67 **********************
न्य्स्_3,2.67: प्राप्तौ चानियमात् ॥
न सर्वो दम्पत्योः संयोगो गर्भाधानहेतुर्दृश्यते.
तत्रासति कर्मणि न भवति सति च भवतीत्युपपन्नो
नियमाभाव इति।
कर्मनिरपेक्षेषु
भूतेषु शरीरोत्पत्तिहेतुषु नियमः
स्यात्-- न ह्यत्र कारणाभाव इति

7.68

********************** न्य्स्भ्_3,2.68 **********************
अथापि---
न्य्स्_3,2.68: शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म ॥
यथा खल्विदं शरीरं धातुप्राणसंवाहिनीनां नाडीनां शुक्रान्तानां
धातूनां च स्नायुत्वगस्थिशिरापेशीकललकण्डराणां
च शिरोबाहूदराणां सक्थ्नां च
कोष्ठगानां वातपित्तकफानां च
मुखकण्ठहृदयामाशयपक्वाशयाधःस्त्रोतसां
च परमदुःखसंपादनीयेन संनिवेशेन
व्यूहितम् अशक्यं पृथिव्यादिभिः
कर्मनिरपेक्षैरुत्पादयितुमिति
कर्मनिमित्ता शरीरोत्पत्तिरिति
विज्ञायते, एवं च प्रत्यात्मनियतस्य
निमित्तस्याभावाद् निरतिशयैरात्मभिः
संबन्धात् सर्वात्मनां न समानैः पृथिव्यादिभिरुत्पादितं
शरीरं पृथिव्यादिगतस्य च
नियमहेतोरभावात् सर्वात्मनां सुखदुःखसंवित्तिसाधनं
समानं प्राप्तम्, यत्तु प्रत्यात्मं
व्यवतिष्ठते तत्र शरीरोत्पत्तिनिमित्तं
कर्म व्यवस्थाहेतुरिति विज्ञायते, परिपच्यमानो
हि प्रत्यात्मनियतः कर्माशयो यस्मिन्नात्मनि
वर्तते तस्यैवोपभोगायतनं शरीरमुत्पाद्य
व्यवस्थापयति, तदेवं शरीरोत्पत्तिनिमित्तवत्
संयोगनिमित्तं कर्मेति विज्ञायते।
प्रत्यात्मव्यवस्थानं
तु शरीरस्यात्मना संयोगं प्रचक्ष्महे
इति

7.69

********************** न्य्स्भ्_3,2.69 **********************
न्य्स्_3,2.69: एतेन नियमः प्रत्युक्तः ॥
यो ऽयमकर्मनिमित्ते शरीरसर्गे
सति नियम इत्युच्यते अयम्--
"शरीरोत्पत्तिनिमित्तवत्
संयोगोत्पत्तिनिमित्तं कर्म 68"
इत्यनेन प्रत्युक्तः।
कस्तावदयं नियमः ?. यथैकस्यात्मनः
शरीरं तथा सर्वेषामिति नियमः, अन्यस्यान्यथा
अन्यस्यान्यथा इत्य् अनियमः ।
भेदः
उव्यावृत्तिविशेष
इति, दृष्टा च जन्मव्यावृत्तिः-- उच्चाभिजनो
निकृष्टाभिजन इति. प्रशस्तं
निन्दितमिति. व्याधिबहुलम्. अरोगमिति.
समग्रं विकलमिति. पीडाबहुलं सुखबहुलमिति.
पुरुषातिशयलक्षणोपपन्नं
विपरीतमिति. प्रशस्तलक्षणं निन्दितलक्षणमिति.
पट्विन्द्रियं मृद्विन्द्रियमिति. सूक्ष्मश्च भेदो ऽपरिमेयः,
सोयं जन्मभेदः प्रत्यात्मनियतात्
कर्मभेदादुपपद्यते।
असति कर्मभेदे प्रत्यात्मनियते
निरतिशयत्वादात्मनां समानत्वाच्च पृथिव्यादीनां
पृथिव्यादिगतस्य
नियमहेतोरभावात् सर्वं सर्वात्मनां
प्रसज्येत, न त्विदमित्थम्भूतं
जन्म,तस्माद् नाकर्मनिमित्ता शरीरोत्पत्तिरिति

7.70

********************** न्य्स्भ्_3,2.70 **********************
न्य्स्_3,2.70: उपपन्नश्च तद्वियोगः कर्मक्षयोपपत्तेः ॥
कर्मनिमित्ते शरीरसर्गे
तेन शरीरेणात्मनो वियोग उपपन्नः।
कस्मात् ?, कर्मक्षयोपपत्तेः = उपपद्यते खलु कर्मक्षयः सम्यग्दर्शनात्,
प्रक्षीणे मोहे वीतरागः
पुनर्भवहेतुकर्म
कायवाङ्मनोभिर्न करोति इत्युत्तरस्यानुपचयः
पूर्वोपचितस्य विपाकप्रतिसंवेदनात् प्रक्षयः,
एवं प्रसवहेतोरभावात् पतिते ऽस्मिन्
शरीरे पुनः शरीरान्तरानुत्पत्तेरप्रतिसंधिः।
अकर्मनिमित्ते तु शरीरसर्गे भूतक्षयानुपपत्तेस्तद्वियोगानुपपत्तिरिति

7.71

********************** न्य्स्भ्_3,2.71**********************
न्य्स्_3,2.71: तददृष्टकारितमितिचेत् पुनस्तत्प्रसङ्गोपवर्गे ॥
अदर्शनं खलु अदृष्टमित्युच्यते.
अदृष्टकारिता भूतेभ्यः शरीरोत्पत्तिः।
न जात्व् अनुत्पन्ने शरीरे द्रष्टा निरायतनो
दृश्यं पश्यति. तच्चास्य दृश्यं द्विविधम्--
विषयश्च नानात्वं चाव्यक्तात्मनोः तदर्थः
शरीरसर्गः, तस्मिन्न् अवसिते
चरितार्थानि भूतानि न शरीरमुत्पादयन्तीति
उपपन्नः शरीरवियोग इति, एवं
चेन्मन्यसे ? पुनस्तत्प्रसङ्गो ऽपवर्गे ।
पुनः शरीरोत्पत्तिः प्रसज्यते इति ।
या चानुत्पन्ने शरीरे दर्शनानुत्पत्तिरदर्शनाभिमता
या चापवर्गे शरीरनिवृत्तौ दर्शनानुत्पत्तिरदर्शनभूता
नैतयोरदर्शनयोः क्वचिद् विशेषैत्यदर्शनस्यानिवृत्तेरपवर्गे
पुनः शरीरोत्पत्तिप्रसङ्ग इति ॥
चरितार्थता विशेष इति चेत् ? न--
करणाकरणयोरारम्भदर्शनात् ॥
चरितार्थानि भूतानि दर्शनावसानाद्
न शरीरान्तरमारभन्ते इत्ययं विशेषः.
एवं चेदुच्यते ? न--
करणाकरणयोरारम्भदर्शनात् = चरितार्थानां भूतानां विषयोपलब्धिकरणात्
पुनः पुनः शरीरारम्भो दृश्यते.
प्रकृतिपुरुषयोर्नानात्वदर्शनस्याकरणाद्
निरर्थकः शरीरारम्भः पुनः पुनर्दृश्यते.
तस्मादकर्मनिमित्तायां भूतसृष्टौ न दर्शनार्था
शरीरोत्पत्तिर्युक्ता. युक्ता तु
कर्मनिमित्ते सर्गे दर्शनार्था शरीरोत्पत्तिः।
कर्मविषाकसंवेदनं दर्शनमिति
तददृष्टकारितमिति च कस्यचिद् दर्शनम् ।
अदृष्टं नाम परमाणूनां गुणविशेषः
क्रियाहेतुस्तेन प्रेरिताः परमाणवः संमूर्च्छिताः
शरीरमुत्पादयन्तीति तद् मनः समाविशति
स्वगुणेनादृष्टेन प्रेरितम्. समनस्के शरीरे
द्रष्टुरुपलब्धिर्भवतीति।
एतस्मिन् वै दर्शने
गुणानुच्छेदात् पुनस्तत्प्रसङ्ग ।
अपवर्गे ऽपवर्गे शरीरोत्पत्तिः--
परमाणुगुणस्यादृष्टस्यानुच्छेद्यन्वादिति

7.72

********************** न्य्स्भ्_3,2.72 **********************
न्य्स्_3,2.72: मनःकर्मनिमित्तत्वाच्च संयोगानुच्छेदः ॥
मनोगुणेनादृष्टेन समावेशिते मनसि
संयोगव्युच्छेदो न स्यात्. तत्र किङ्कृतं
शरीरादपसर्पणं मनस इति ?।
कर्माशयक्षये
तु कर्माशयान्तराद्
विपच्यमानादपसर्पणोपपत्तिरिति।
अदृष्टादेवापसप्रणमितिचेत् ?, यो ऽदृष्टः
शरीरोपसर्पणहेतुः स
एवापसर्पणहेतुरपीति न--
एकस्यजीवनप्रायणहेतुत्वानुपपत्तेः ।
एवं च सति एकमदृष्टं
जीवनप्रायणयोर्हेतुरितिप्राप्तं
नैतदुपपद्यते

7.73

********************** न्य्स्भ्_3,2.73 **********************
न्य्स्_3,2.73: नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ॥
विपाकसंवेदनात् कर्माशयक्षये शरीरपातः
प्रायणम्. कर्माशयान्तराच्च पुनर्जन्म।
भूतमात्रात्तु कर्मनिरपेक्षात् शरीरोत्पत्तौ कस्य क्षयात् शरीरपातः ।
प्रायणमिति ? प्रायणानुपपत्तेः खलु वै
नित्यत्वप्रसङ्गं विद्मः, यादृच्छिके तु प्रायणे
प्रायणभेदानुपपत्तिरिति

7.74

********************** न्य्स्भ्_3,2.74 **********************
"पुनस्तत्प्रसङ्गो ऽपवर्गे 71"
एतत्ससाधित्सुराह---
न्य्स्_3,2.74: अणुश्यामतानित्यत्ववदेतत् स्यात् ॥
यथाणोः श्यामता नित्या अग्निसंयोगेन
प्रतिबद्धा न पुनरुत्पद्यते एवमदृष्टकारितं
शरीरमपवर्गे पुनर्नोत्पद्यते इति

7.75

********************** न्य्स्भ्_3,2.75 **********************
न्य्स्_3,2.75: नाकृताभ्यागमप्रसङ्गात् ॥
नायमस्ति दृष्टान्तः, कस्मात् ?, अकृताभ्यागमप्रसङ्गात् ।
अकृतम् ।
प्रमाणतो ऽनुपपन्नं तस्याभ्यागमः ।
अभ्युपपत्तिः
उव्ययसायः,
एतत्श्रद्दधानेन प्रमाणतो ऽनुपपन्नं मन्तव्यम्,
तस्मान्नायं दृष्टान्तः-- न प्रतयक्षं न
चानुमानं किञ्चिदुच्यते इति,
तदिदन्दृष्टान्तस्य साध्यसमत्वमभिधीयते
इति।
अथ वा-- नाकृताभ्यागमप्रसङ्गात् ।
अणुश्यामतादृष्टान्तेनाकर्मनिमित्तां शरीरोत्पत्तिं
समादधानस्य अकृताभ्यागमप्रसङ्गः ।
अकृते सुखदुःखोहेतौ कर्मणि
पुरुषस्य सुखं दुःखमभ्यागच्छतीति प्रसज्येत,
ओमितिब्रहवतः प्रत्यक्षानुमानागमविरोधः।
प्रत्यक्षविरोधस्तावत्-- भिन्नमिदं सुखदुःखं
प्रत्यात्मवेदनीयत्वात् प्रत्यक्षं सर्वशरीरिणाम्।
को भेदः ?, तीव्रं मन्दं चिरमाशु
नानाप्रकारमेकप्रकारम् इत्येवमादिर्विशेषः।
न चास्ति प्रत्यात्मनियतः
सुखदुःखहेतुविशेषः, न चासति
हेतुविशेषे फलविशेषो दृश्यते।
कर्मनिमित्ते तु सुखदुःखयोगे कर्मणां
तीव्रमन्दतोपपत्तेः कर्मसंचयानां
चोत्कर्षापकर्षभावाद्
नानाविधैकविधभावाच्च कर्मणां सुखदुःखभेदोपपत्तिः,
सोयं हेतुभेदाभावाद् दृष्टः सुखदुःखभेदो
न स्यादिति प्रत्यक्षविरोधः ॥
तथानुमानविरोधः-- दृष्टं हि
पुरुषगुणव्यवस्थानात् सुखदुःखव्यवस्थानम्
उयः खलु चेतनावान् साधननिर्वर्तनीयं
सुखं बुद्ध्वा तदीप्सन् साधनावाप्तये
यतते स सुखेन युज्यते न विपरीतः,
यश्च साधननिर्वर्तनीयं दुःखं बुद्ध्वा
तज्जिहासुः साधनपरि वर्जनाय यतते
स दुःखेन त्यज्यते न विपरीतः, नास्ति
चेदं यत्नमन्तरेण चेतनानां सुखदुःखव्यवस्थानं
तेनापि चेतनगुणान्तरव्यवस्थाकृतेन भवितव्यमित्यनुमानम्.
तदेतद् अकर्मनिमित्ते सुखदुःखयोगे
विरुध्यते इति, तच्च गुणान्तरम्
असंवेद्यत्वाददृष्टं विपाककालानियमाच्चाव्यवस्थितम्।
बुद्ध्यादयस्तु संवेद्याश्चापवर्गिणश्चेति।
अथागमविरोधः-- बहु खल्विदभार्षम् ।
ऋषीणामुपदेशजातम् अनुष्ठानपरि वर्जनाश्रयम्.
उपदेशफलं च शरीरिणां
वर्णाश्रमविभागेनानुष्ठानलक्षणा प्रवृत्तिः
परिवर्जनलक्षणा निवृत्तिः।
तच्चोभयमेतस्यां दृष्टौ ऽनास्ति कर्म सुचरितं
दुश्चरितं वाकर्मनिमित्तः पुरुषाणां सुखदुःखयोगःऽ
इतिविरुद्ध्यते, सेयं पापिष्ठानां
मिथ्यादृष्टिः-- ऽअकर्मनिमित्ता
शरीरसृष्टिरकर्मनिमित्तः सुखदुःखयोगःऽ
इति

मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc