भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र (टीका सहित) · अध्याय 6

6.1

॥ इति वात्स्यायनीये न्यायभाष्ये द्वितीयाध्यायस्य द्वितीयमाह्निकं समाप्तम् ॥
॥ द्वितीयाध्यायश्च समाप्तः ॥
अथ सटीके न्यायभाष्ये तृतीयाध्यायस्य प्रथममाह्निकम्
परीक्षितानि प्रमाणानि प्रमेयमिदानीं परीक्ष्यते-- तच्चात्मादीति आत्मा विविच्यते-- किं देहेन्द्रियमनोबुद्धिवेदनासंघातमात्रमात्मा ? आहो स्वित् तव्द्यतिरिक्तः ? इति।
कुतः संशयः ?, व्यपदेशस्योभयथा सिद्धेः, क्रियाकरणयोः कर्त्रा संबन्धस्याभिधानं व्यपदेशः स द्विविधः-- अवयवेन समुदायस्य-- ऽमूलैर्वृक्षस्तिष्ठतिऽ ऽस्तम्भैः प्रासादो ध्रियतेऽ इति, अन्येनान्यस्य व्यपदेशः-- ऽपरशुना वृश्चतिऽ ऽप्रदीपेन पश्यतिऽ (इति), अस्ति चायं व्यपदेशः-- ऽचक्षुषा पश्यतिऽ ऽमनसा विजानातिऽ ऽबुद्ध्या विचारयतिऽ ऽशरीरेण सुखदुःखमनुभवतीति, तत्र नावधार्यते-- किमवयवेन समुदायस्य ।
देहादिसंघातस्य ? अथान्येनान्यस्य ।
तव्द्यतिरिक्तस्य ? इति ॥
********************** न्य्स्भ्_3,1.1 **********************
अन्येनायमन्यस्य व्यपदेशः, कस्मात् ?---
न्य्स्_3,1.1: दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥
दर्शनेन यावदर्थो गृहीतः स्पर्शनेनापि सो ऽर्थो गृह्यते-- ऽयमहमद्राक्षं चक्षुषा तं स्पर्शनेनापि स्पृशामि, इति. ऽयं चास्पार्क्षं स्पर्शनेन तं चक्षुषा पश्यामीति एकविषयौ चेर्मा प्रत्ययौ एककर्तृकौ प्रतिसंधीयेते. न च संघातकर्तृकौ. न (वा) इन्द्रियेणैककर्तृकौ, तद् यो ऽसौ चक्षुषा त्वगिन्द्रियेण चैकार्थस्य ग्रहीता भिन्ननिमित्तौ अनन्यकर्तृकौ प्रत्ययौ समानविषयौ प्रतिसंदधाति सो ऽर्थान्तरभूत आत्मा।
कथं पुनर्नेन्द्रियेणैककर्तृकौ ?. इन्द्रियं खलु स्वं स्वं विषयग्रहणम् अनन्यकर्तृकं प्रतिसंधातुमर्हति नेन्द्रियान्तरस्य विषयान्तरग्रहणमिति।
कथं न संघातकर्तृकौ ?. एकः खल्वयं भिन्ननिमित्तौ स्वात्मकर्तृकौ प्रत्ययौ प्रतिसंहितौ वेदयते न संघातः, कस्मात् ?. अनिवृत्तं हि संघाते प्रत्येकं विषयान्तरग्रहणस्याप्रतिसंधानम् इन्द्रियान्तरेणेवेति

6.2

********************** न्य्स्भ्_3,1.2 **********************
न्य्स्_3,1.2: न विषयव्यवस्थानात् ॥
न देहादिसंघातादन्यश्चेतनः, कस्मात् ?. विषयव्यवस्थानात् ।
व्यवस्थितविषयाणीन्द्रियाणि-- चक्षुष्य् असति रूपं न गृह्यते सति च गृह्यते. यच्च यस्मिन्न् असति न भवति सति ( च ) भवति तस्य तदिति विज्ञायते, तस्माद् रूपग्रहणं चक्षुषः चक्षू रूपं पश्यति, एवं घ्राणादिष्वपीति।
तानीन्द्रियाणीमानि स्वस्वविषयग्रहणात् चेतनानि-- इन्द्रियाणां भावाभावयोर्विषयग्रहणस्य तथाभावात्, एवं सति किमन्येन चेतनेन ॥. संदिग्धत्वादहेतुः।
यो ऽयमिन्द्रियाणां भावाभावयोर्विषयग्रहणस्य तथाल्̃आवः स किं चेतनत्वात् ? आहोस्वित् चेतनोपकरणानां ग्रहणनिमित्तत्वात् ? इति संदिह्यते, चेतनोपकरणत्वे ऽपीन्द्रियाणां ग्रहणनिमित्तत्वाद् भवितुमर्हति

6.3

********************** न्य्स्भ्_3,1.3 **********************
यच्चोक्तम्--"विषयव्यवस्थानात्"
इति---
न्य्स्_3,1.3: तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेधः ॥
यदि खल्वेकमिन्द्रियमव्यवस्थितविषयं सर्वज्ञम् ।
सर्वविषयग्राहि चेतनं स्यात् कस्ततो ऽन्यं चेतनमनुमातुं शक्नुयात्, यस्मात्तु व्यवस्थितविषयाणीन्द्रिनयाणि तस्मात् तेभ्यो ऽन्यश्चेतनः सर्वज्ञः ।
सर्वविषयग्राही विषयव्यवस्थितिम् अतीतो ऽनुमीयते, तत्रेदं प्रत्यभिज्ञानम् अप्रत्याख्येयं चेतनवृत्तमुदाह्रियते-- रूपदर्शी खल्वयं रसं गन्धं वा पूर्वगृहीतमनुमिनोति. गन्धप्रतिवेदी च रूपरसाव् अनुमिनोति. एवं विषयशेषेपि वाच्यम्।
रूपं दृष्ट्वा गन्धं जिघ्रति. घ्रात्वा च गन्ध रूपं पश्यति. तदेवमनियतपर्यायं सर्वविषयग्रहणम् एकचेतनाधिकरणम् अनन्यकर्तृकं प्रतिसंधत्ते, प्रत्यक्षानुमानागमसंशयान् प्रत्ययांश्च नानाविषयान् स्वात्मकर्तृकान् प्रतिसंदधाति प्रतिसंधाय वेदयते, सर्वार्थविषयं च शास्त्रं प्रतिपद्यते. अर्थमविषयभूतं श्रोत्रस्य, क्रमभाविनो वर्णान् श्रुत्वा पदवाकयभावं प्रतिसंधाय शब्दार्थव्यवस्थां च बुध्यमानो ऽनेकविषयमर्थजातमग्रहणीयमेकैकेनेन्द्रियेण गृह्णाति, सेयं सर्वज्ञस्य ज्ञेयाव्यवस्थानुपदं न शक्या परिक्रमितुम्।
आकृतिमात्रं तूहाहृतम्, तत्र यदुक्तम्-- ऽइन्द्रियचैतन्ये सति किमन्येन चेतनेनऽ ( इति ) तदयुक्तं भवति

6.4

********************** न्य्स्भ्_3,1.4 **********************
इतश्च देहादिव्यतिरिक्त आत्मा न देहादिसंघातमात्रम्---
न्य्स्_3,1.4: शरीरदाहे पातकाभावात् ॥
शरीरग्रहणेन शरीरेन्द्रियबुद्धिवेदनासंघातः प्राणिभूतो गृह्यते, प्राणिभूतं शरीरं दहतः प्राणिहिंसाकृतपापं पातकमित्युच्यते. तस्याभावः-- तत्फलेन कर्तुरसंबन्धात् अकर्तुश्च संबन्धात् ।
शरीरेन्द्रियबुद्धिवेदनाप्रबन्धे खल्वन्यः संघात उत्पद्यते ऽन्यो निरुध्यते. उत्पादनिरोधसंततिभूतः प्रबन्धो नान्यत्वं बाधते-- देहादिसंघातस्यान्यत्वाधिष्ठानत्वात्. अन्यत्वाधिष्ठानो ह्यसौ प्रख्यायते इति, एवं सति यो देहादिसंघातः प्राणिभूतो हिंसा करोति नासौ हिंसाफलेन संबध्यते. यश्च संबध्यते न तेन हिंसा कृता, तदेवं सत्त्वभेदे कृतहानमकृताभ्यागमः प्रसज्यते, सति च सत्त्वोत्पादे. सत्त्वनिरोधे चाकर्मनिमित्तः सत्त्वसर्गः प्राप्नोति तत्र मुक्त्यर्थो ब्रह्मचर्यवासो न स्यात्।
तद् यदि देहादिसंघातमात्रं सत्त्वं स्यात् शरीरदाहे पातकं न भवेत्. अनिष्टं चैतत्. तस्माद् देहादिसंघातव्यतिरिक्त आत्मा नित्य इति

6.5

********************** न्य्स्भ्_3,1.5 **********************
न्य्स्_3,1.5: तदभावः सात्मकप्रदाहेपि तन्नित्यत्वात् ॥
यस्यापि नित्येनात्मना सात्मकं शरीरं दह्यते तस्यापि शरीरदाहे पातकं न भवेद् दग्धुः, कस्मात् ?. नित्यत्वादात्मनः, न जातु कश्चित् नित्यं हिंसितुमर्हति, अथ हिंस्यते ?. नित्यत्वमस्य न भवति, सेयमेकस्मिन् पक्षे हिंसा निष्फला. अन्यस्मिंस्त्व् अनुपपन्नेति

6.6

********************** न्य्स्भ्_3,1.6 **********************
न्य्स्_3,1.6: न कार्याश्रयकर्तृवधात् ॥
न ब्रूमः-- नित्यस्य सत्त्वस्य वधो हिंसा अपि त्वनुच्छितिधर्मकस्य सत्त्वस्य कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश्च कर्तॄणामिन्द्रियाणामुपघातः ।
पीडा वैकल्यलक्षणः प्रबन्धोच्छेदो वा प्रमापणलक्षणो
च वधो हिंसेति, कार्यं तु सुखदुःखसंवेदनं
तस्यायतनम् अधिष्ठानम् ।
आश्रयः शारीरम्. कार्याश्रयस्य शरीरस्य
स्वविषयोपलब्धेश्च कर्तॄणामिन्द्रियाणां
वधो हिंसा न नित्यस्यात्मनः, तत्र यदुक्तम्---
"तदभावः सात्मकप्रदाहेपि तन्नित्यत्वात् 5"
इति एतदयुक्तम्।
यस्य सत्त्वोच्छेदो हिंसा तस्य कृतहानमकृताभ्यागमश्चेति दोषः।
एतावच्चैतत् स्यात्-- सत्त्वोच्छेदो वा हिंसा अनुच्छित्तिधर्मकस्य सत्त्वस्य कार्याश्रयकर्तृवधो
वा. न कल्पान्तरमस्ति. सत्त्वोच्छेदश्च प्रतिषिद्धः,
तत्र किमन्यच्छेषम् ? यथाभूतमिति।
अथ वा "कार्याश्रयकर्तृवधात्"
इति कार्याश्रयः ।
देहेन्द्रियबुद्धिसंघातो नित्यस्यात्मनः तत्र
सुखदुःखप्रतिसंवेदनं तस्याधिष्ठानम् ।
आश्रयः
उतदायतनं तद् भवति न ततो ऽन्यदिति स एव कर्ता-- तन्निमित्ता
हि सुखदुःखसंवेदनस्य निर्वृत्तिर्न तमन्तरेणेति.
तस्य वधः = उपघातः ।
पीडा प्रमापणं वा हिंसा न नित्यत्वेनात्मोच्छेदः,
तत्र यदुक्तम्--
"तदभावः सात्मकप्रदाहेपि तन्नित्यत्वात्" (इति) एतन्नेति

6.7

********************** न्य्स्भ्_3,1.7 **********************
इतश्च देहादिव्यतिरिक्त आत्मा---
न्य्स्_3,1.7: सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ॥
पूर्वपरयोर्विज्ञानयोरेकविषये
प्रतिसंधिज्ञानं प्रत्यभिज्ञानम्-- ऽतमेवैतर्हि
पश्यामि यमज्ञासिषम्ऽ ऽस एवायमर्थःऽ
इति, सव्येन चक्षुषा दृष्टस्येतरेणापि चक्षुक्षा
प्रत्यंभिज्ञानात्-- ऽयमद्राक्षं तमेवैतर्हि पश्यामिऽ
इति।
इन्द्रियचैतन्ये तु नान्यदृष्टमन्यः
प्रत्यभिजानातीति प्रत्यभिज्ञानानुपपत्तिः, अस्ति
त्विदं प्रत्यभिज्ञानं तस्मादिन्द्रियव्यतिरिक्तश्चेतनः

6.8

********************** न्य्स्भ्_3,1.8 **********************
न्य्स्_3,1.8: नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ॥
एकमिदं चक्षुः मध्ये
नासास्थिव्यवहितं तस्यान्तौ गृह्यमाणौ
द्वित्वाभिमानं प्रयोजयतः मध्यव्यवहितस्य
दीर्घस्येव

6.9

********************** न्य्स्भ्_3,1.9 **********************
न्य्स्_3,1.9: एकविनाशे द्वितीयाविनाशाद् नैकत्वम् ॥
एकस्मिन्नुपहते
चोद्धृते वा वक्षुषि द्वितीयमवतिष्ठते चक्षुर्विषयग्रहणलिङ्गं
तस्मादेकस्य व्यवधानानुपपत्तिः

6.10

********************** न्य्स्भ्_3,1.10 **********************
न्य्स्_3,1.10: अवयवनाशे ऽप्य् अवयव्युपलब्धेरहेतुः ॥
"एकविनोशे
द्वितीयाविनाशात्"
इत्यहेतुः, कस्मात् ?. वृक्षस्य हि कासु चिच्छाखासु
च्छिन्नासूपलभ्यते एव वृक्षः

6.11

********************** न्य्स्भ्_3,1.11 **********************
न्य्स्_3,1.11: दृष्टान्तविरोधादप्रतिषेधः ॥
न कारणद्रव्यविभागे कार्यद्रव्यमवतिष्ठते--
नित्यत्वप्रसङ्गात्, बहुष्ववयविषु यम्य
कारणानि विभक्तानि तस्य विनाशः
येषां कारणान्य् अविभक्तानि तान्य् अवतिष्ठन्ते।
अथ वा दृश्यमानार्थविरोधो दृष्टान्तविरोधः--
मृतस्य हि शरःकपाले द्वाव् अवटौ नासास्थिव्यवहितौ
चक्षुषः स्थाने भेदेन गृह्येते न चैतद् एकस्मिन्
नासास्थिव्यवहिते संभवति, अथ चैकविनाशस्यानियमाद् द्वाविमावार्थौ तौ च पृथगावरणोपघातौ
अनुमीयेते-- विभिन्नाविति।
अवपीडनाच्चैकस्य
चक्षुषो रश्मिविषयसंनिकर्षस्य भेदाद्
दृश्यभेद इवव गृह्यते तच्चैकत्वे विरुध्यते,
अवपीडननिवृत्तौ चाभिन्नप्रतिसंधानमिति,
तस्मादेकस्य व्यवधानानुपपत्तिः

6.12

********************** न्य्स्भ्_3,1.12 **********************
अनुमीयते चायं देहादिसंघातव्यतिरिक्तश्चेतन
इति---
न्य्स्_3,1.12: इन्द्रियान्तरविकारात् ॥
कस्यचिदम्लफलस्य गृहीततद्रससाहचर्ये रूपे
गन्धे वा केन चिदिन्द्रियेण गृह्यमाणे रसनस्येन्द्रियान्तरस्य
विकारो रसानुस्मृतौ रसगर्धिप्रवर्तितो
दन्तोदकसंप्लवभूतो गृह्यते तस्येन्द्रियचैतन्ये ऽनुपपत्तिः--
नान्यदृष्टमन्यः स्मरति

6.13

********************** न्य्स्भ्_3,1.13 **********************
न्य्स्_3,1.13: न स्मृतेः स्मर्तव्यविषयत्वात् ॥
स्मृतिर्नाम धर्मो निमित्तादुत्पद्यते, तस्याः
स्मर्तव्यो विषयः तत्कृत इन्द्रियान्तरविकारो
नात्मकृत इति

6.14

********************** न्य्स्भ्_3,1.14 **********************
न्य्स्_3,1.14: तदात्मगुणसद्भावादप्रतिषेधः ॥
तस्या आत्मगुणत्वे सति सद्भावादप्रतिषेध
आत्मनः = यदि स्मृतिरात्मगुणः एवं सति स्मृतिरुपपद्यते--
नान्यदृष्टमन्यः स्मरतीति।
इन्द्रियचैतन्ये
तु नानाकर्तृकाणां विषयग्रहणानाम् अप्रतिसंधानम्.
प्रतिसंधाने वा विषयव्यवस्थानुपपत्तिः।
एकस्तु चेतनो ऽनेकार्थदर्शी भिन्ननिमित्तः पूर्वदृष्टमर्थं
स्मरतीति।
एकस्यानेकार्थदर्शिनो दर्शनप्रतिसंधानात्
स्मृतेरात्मगुणत्वे सति सद्भावः, विपर्यये
चानुपपत्तिः, स्मृत्याश्रनयाः प्राणभृतां सर्वे
व्यवहाराः।आत्मलिङ्गमुदाहरणमात्रमिन्द्रियान्तरविकार
इति

6.15

********************** न्य्स्भ्_3,1.15 **********************
न्य्स्_3,1.15: अपरिसंख्यानाच्च स्मृतिविषयस्य ॥
अपरिसंख्याय च
स्मृतिविषयमिदमुच्यते--
"न स्मृतेः स्मर्तव्यविषयत्वात्13"
इति, येयं स्मृतिरगृह्यमाणे ऽर्थे-- ऽअज्ञासिषमहममुमर्थम्
1ऽ इति एतस्या ज्ञातृज्ञानविशिष्टः पूर्वज्ञातोर्थो
विषयो नार्थमात्रम्. ऽज्ञातवानहममुमर्थम्2ऽ
ऽअसावर्थो मया ज्ञातः 3ऽ ऽअस्मिंन्नर्थे मम ज्ञानमभूत्
4ऽ इति. चतुर्विधमेतद्वाक्यं स्मृतिविषयज्ञापकं
समानार्थम् ।
सर्वत्र खलु ज्ञाता ज्ञानं ज्ञेयं च गृह्यते।
अथ
प्रत्यक्षे ऽर्थे या स्मृतिस्तया त्रीणि ज्ञानानि
एकस्मिन्नर्थे प्रतिसंधीयन्ते समानकर्तृकाणि
न नानाकर्तृकाणि नाकर्तृकाणि, किं तर्हि ?.
एककर्तृकाणि।
ऽअद्राक्षममुमर्थं यमेवैतर्हि पश्यामिऽ अद्राक्षमिति दर्शनं दर्शनसंविच्च--
न खल्वसंविदिते स्वेदर्शने स्यादेतत्--
अद्राक्षमिति. ते खल्वेते द्वे ज्ञाने. ऽयमेवैतर्हि
पश्यामीति तृतीयं ज्ञानम्. एवमेकोर्थस्त्रिभिर्ज्ञानैर्युज्यमानो
नाकर्तृको न नानाकर्तृकः, किं तर्हि ?. एककर्तृक
इति, सो ऽयं स्मृतिविषयो ऽपरिसंख्यायमानो
विद्यमानः प्रज्ञातो ऽर्थः प्रतिषिध्यते-- ऽनास्त्यात्मा--
स्मृतेः स्मर्तव्यविषयत्वात्ऽ इति।
न चेदं स्मृतिमात्रं स्मर्तव्यमात्रविषयं वा, इदं
खलु ज्ञानप्रतिसंधानवत् स्मृतिप्रतिसंधानम्।
एकस्य सर्वविषयत्वात् = एको ऽयं ज्ञाता सर्वविषयः स्वानि ज्ञानानि
प्रतिसंधत्ते-- ऽअमुमर्थञ्ज्ञास्यामिऽ अमुमर्थं
विजानामिऽ ऽअमुमर्थमज्ञासिषम्ऽ अमुमर्थं
जिज्ञासमानश्चिरम् अज्ञात्वाध्यवस्यति-- ऽअज्ञासिषम्ऽ
इति, एवं स्मृतिमपि त्रिकालविशिष्टां
सुस्मूर्षाविशिष्टां च प्रतिसंधत्ते।
संस्कारसंततिमात्रे तु सत्त्वे उत्पद्योत्पद्य संस्कारास्तिरोभवन्ति,
स नास्त्येकोपि संस्कारो यस्त्रिकालविशिष्टं
ज्ञानं स्मृतिं चानुभवेत्. न चानुभवमन्तरेण
ज्ञानस्य स्मृतेश्च प्रतिसंधानम् अहं मम
इति चोत्पद्यते देहान्तरवत्, अतो ऽनुमीयते--
अस्त्येकः सर्वविषयः ( यः ) प्रतिदेहं स्वज्ञानप्रबन्धं
स्मृतिप्रबन्धं च प्रतिसंधत्ते इति. यस्य देहान्तरेषु
वृत्तेरभावान्न प्रतिसंधानं भवतीति

6.16

********************** न्य्स्भ्_3,1.16 **********************
न्य्स्_3,1.16: नात्मप्रतिपत्तिहेतूनां मनसि संभवात् ॥
न देहादिसंघातव्यतिरिक्त
आत्मा, कस्मात् ?. आत्मप्रतिपत्तिहेतूनां मनसि
संभवात् = "दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् 1
"इत्येवमादीनाम् आत्मप्रतिपादकानां
हेतूनां मनसि संभवचः-- यतो मनो
हि सर्वविषयमिति, तस्मान्न शरीरेन्द्रियमनोबुद्धिसंघातव्यतिरिक्त
आत्मेति

6.17

********************** न्य्स्भ्_3,1.17 **********************
न्य्स्_3,1.17: ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् ॥
ज्ञातुः खलु ज्ञानसाधनान्युपपद्यन्ते--
ऽचक्षुषा पश्यतिऽ ऽघ्राणेन जिघ्रति, ऽस्पर्शनेन
स्पृशतिऽ एवं मन्तुः सर्वविषयस्य मतिसाधनम् अन्तःकरणभूतं
सर्वविषयं विद्यते येनायं मन्यते इति,
एवं सति ज्ञातर्यात्मसंज्ञा न मृष्यते मनःसंज्ञाभ्यनुज्ञायते.
मनसि च मनःसंज्ञा न मृष्यते मतिसाधनसंज्ञा
मृष्यते, तदिदं संज्ञाभेदमात्रं नार्थे
विवाद इति।
प्रत्याख्याने वा सर्वेन्द्रियविलोपप्रसङ्गः ।
अथ मन्तुः सर्वविषयस्य मतिसाधनं
सर्वविषयं प्रत्याख्यायते-- नास्तीते ? एवं
रूपादिग्रहणसाधनान्यपि न सन्तीति सर्वेन्द्रियविलोपः
प्रसज्यते इति

6.18

********************** न्य्स्भ्_3,1.18 **********************
न्य्स्_3,1.18: नियमश्च निरनुमानः ॥
यो ऽयं नियम इष्यते--
रूपादिग्रहणसाधनान्य् अस्य सन्ति मतिसाधनं
सर्वविषयं नास्तीति. अयं नियमो निरनुमानः--
नात्रानुमानमस्ति येन नियमं प्रतिपद्यामहे
इति।
रूपादिभ्यश्च विषयान्तरं सुखादयस्तदुपलब्धौ
करणान्तरसद्भावः, यथा चक्षुषा गन्धो न
गृह्यते इति करणान्तरं घ्राणम् एवं चक्षुर्घ्राणाभ्यां
रसो न गृह्यते इति करणान्तरं रसनम्
एवं शेषेष्वपि, तथा चक्षुरादिभिः, सुखादयो
न गृह्यन्ते इति करणान्तरेण भवितव्यं तच्च
ज्ञानायौगपद्यलिङ्गम्, यच्च सुखाद्युपलब्धौ
करणा तच्च ज्ञानायौगपद्यलिङ्गम् ।
तस्येन्द्रियमिन्द्रियं प्रति संनिधेरसंनिधेर्न
युगपत् ज्ञानान्युत्पद्यन्ते इति, तत्र युदक्तम्--
"आत्मप्रतिपत्तिहेतूनां मनसि संभवात् 16"
इति तदयुक्तम्

6.19

********************** न्य्स्भ्_3,1.19 **********************
किं पुनरयं देहादिसंघातादन्यो नित्यः ? उतानित्यः ? । कुतः संशयः ?, उभयथा दृष्टत्वात् संशयः--
विद्यमानमुभयथा भवति नित्यमनित्यं च,
प्रतिपादिते चात्मसद्भावे संशयानिवृत्तेरिति।
आत्मसद्भावहेतुभिरेवास्य प्राग्देहभेदादवस्थानं
सिद्धम् ऊर्ध्वमपि देहभेदादवतिष्ठते।
कुतः ?---
न्य्स्_3,1.19: पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसंप्रतिपत्तेः ॥
जातः खल्वयं
कुमारो ऽस्मिन् जन्मन्य् अगृहीतेषु
हर्षभयशोकहेतुषु हर्षभयशोकान्
प्रतिपद्यते लिङ्गानुमेयान्, ते च स्मृत्यनुबन्धादुत्पद्यन्ते
नान्यथा. स्मृत्यनुबन्धश्च पूर्वाभ्यासमन्तरेण
न भवति. पूर्वाभ्यासश्च पूर्वजन्मनि सति
नान्यथा इति सिध्यत्येतत्-- अवतिष्ठते ऽयमूर्ध्वम्
( प्राक् च ) शरीरभेदादिति

6.20

********************** न्य्स्भ्_3,1.20 **********************
न्य्स्_3,1.20: पद्मादिषु प्रबोधसंमीलनविकारवत्तद्विकारः ॥
यथा पद्मादिष्व् अनित्येषु
प्रबोधः संमीलनं ( च ) विकारो भवति.
एवमनित्यस्यात्मनो हर्षभयशोकसंप्रतिपत्तिर्विकारः स्यात् ॥
हेत्वभावादयुक्तम् ।
अनेन हेतुना पद्मादिषु प्रबोधसंमीलनविकारवद्
अनित्यस्यात्मनो हर्षादिसंप्रतिपत्तिरिति
नात्रोदाहरणसाधर्म्यात् साध्यसाधनं
हेतुर्न वैधर्म्यादस्ति, हेत्वभावात्--
असंबद्धार्थकमपार्थकमुच्यते
इति।
दृष्टान्ताच्च हर्षादिनिमित्तस्यानिवृत्तिः ।
या चेयमासेवितेषु विषयेषु
हर्षादिसंप्रतिपत्तिः स्मृत्यनुबन्धकृता प्रत्यात्मं
गृह्यते सेयं पद्मादिसंमीलनदृष्टान्तेन
न निवर्तते. यथा चेयं न निवर्तते तथा
जातमात्रस्यापीति।
क्रियाजातश्च पर्णविभागसंयोगः
प्रबोधसंमीलने. क्रियाहेतुश्च क्रियानुमेयः,
एवं च सतिकिं दृष्टान्तेन प्रतिषिध्यते ?

6.21

********************** न्य्स्भ्_3,1.21 **********************
अथ निर्निमित्तः पद्मादिषु
प्रबोधसंमीलनविकार इति मतम् एवमात्मनोपि
हर्षादिसंप्रतिपत्तिरिति ? तच्च---
न्य्स्_3,1.21: नोष्णशीतवर्षकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् ॥
उष्णादिषु सत्सु भावाद् असत्स्वभावाद् तन्निमित्ताः पञ्चभूतानुग्रहेण
निर्वृत्तानां पद्मादीनां प्रबोधसंमीलनविकारा
इति नर्निमित्ताः, एवं हर्षादयोपि विकारा
निमित्ताद् भवितुमर्हन्ति न निमित्तमन्तरेण.
न चान्यत् पूर्वाभ्यस्तस्मृत्यनुबन्धाद् निमित्तमस्तीति।
न चोत्पत्तिनिरोधकारणानुमानमात्मनः--
अदृष्टान्तात्।
न हर्षादीनां निमित्तमन्तरेणोत्पत्तिः।
नोष्णादिवद् निमित्तान्तरोपादानं
हर्षादीनाम्द्व तस्मादयुक्तमेतत्

6.22

********************** न्य्स्भ्_3,1.22 **********************
इतश्च नित्य आत्मा---
न्य्स्_3,1.22: प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् ॥
जातमात्रस्य वत्सस्य प्रवृत्तिलिङ्गः स्तन्याभिलाषो गृह्यते स च नान्तरेणाहाराभ्यासम्।
कया युक्त्या ?, दृश्यते हि शरीरिणां क्षुधा पीड्यमानानामाहाराभ्यांसकृतात्
स्मरणानुबन्धादाहाराभिलाषः, न च पूर्वशरीराभ्यासमन्तरेणासौ
जातमात्रस्योपपद्यते, तेनानुमीयतेभूतपूर्वं
शरीरम् यत्रानेनाहारो ऽभ्यस्य इति,
स खल्वयमात्मा पूर्वशरीरात् प्रेत्य शरीरान्तरमापन्नः
क्षुत्पीडितः पूर्वाभ्यस्तमाहारमनुस्मरन्
स्तन्यमभिलघति, तस्मान्न देहभेदादात्मा
भिद्यते
उभवत्येवोर्ध्वं देहभेदादिति

6.23

********************** न्य्स्भ्_3,1.23 **********************
न्य्स्_3,1.23: अयसो ऽयस्कान्ताभिगमनवत्तदुपसर्पणम् ॥
यथा खल्व् अयो ऽभ्यासमन्तरेणायस्कान्तमुपसर्पति
एवमाहाराभ्यासमन्तरेण बालः स्तन्यमभिलषति

6.24

********************** न्य्स्भ्_3,1.24 **********************
किमिदमयसो ऽयस्कान्ताभिगमनं निर्निमित्तम् ? अर्थ निमित्तात् ? इति, निर्निमित्तं तावत्--
न्य्स्_3,1.24: नान्यत्र प्रवृत्त्यभावात् ॥
यदि निर्निमित्तम् ? लोष्टादयोप्ययस्कान्तमुपसर्पयेयुः--
न जातु नियमे कारणमस्तीति।
अथ निमित्तात् ?. तत् केनोपलभ्यते ? इति, क्रियालिङ्गः
क्रियाहेतुः क्रियानियमलिङ्गश्च क्रियानियमहेतुः
तेनान्यत्र प्रवृत्त्यभावः।
बालस्यापि नियतमुपसर्पणं
क्रियोपलभ्यते. न च स्तन्याभिलाषलिङ्गम्
अन्यदाहाराभ्यासकृतात् स्मरणानुबन्धात्,
निमित्तं दृष्टान्तेनोपपाद्यते. न चासति निमित्ते
कस्य चिदुत्पत्तिः, न दृष्टान्तो दृष्टमभिलाषहेतुं
बाधते, तस्मादयसो ऽस्कान्ताभिगमनमदृष्टान्त
इति।
अयसः खल्वपि नान्यत्र प्रवृत्तिर्भवति ।
न जात्वयो लोष्टमुपसर्पति।
किङ्कृतोस्य
नियमः ? इति, यदि कारणनियमात् स च
क्रियानियमलिङ्गः, एवं बालस्यापि नियतविषयो ऽभिलाषः
कारणनियमाद् भवितुमर्हति, तच्च कारणमभ्यस्तस्मरणम्
अन्येद्वेति दृष्टेन विशिष्यते ।
दृष्टो हि शरीरिणामभ्यस्तस्मरणादाहाराभिलाष
इति

6.25

********************** न्य्स्भ्_3,1.25 **********************
इतश्च नित्य आत्मा, कस्मात् ?---
न्य्स्_3,1.25: वीतरागजन्मादर्शनात् ॥
सरागो जायते इत्यर्थादापद्यते, अयं जायमानो
रागानुविद्धो जायते. रागस्य पूर्वानुभूतविषयानुचिन्तनं
योनिः. पूर्वानुभवश्च विषयाणां पूर्वस्मिन्
जन्मनि शरीरमन्तरेण नोपपद्यते. सोयमात्मा
पूर्वशरीरानुभूतान् विषयान् अनुस्मरन्
तेषु तेषु रज्यते. तथा चायं द्वयोर्जन्मनोः
प्रतिसन्धिः, एवं पूर्वशरीरस्य पूर्वतरेण
पूर्वतरशरीरस्य पूर्वतमेन इत्यादिनानादिश्चेतनस्य
शरीरयोगः अनादिश्च रागानुबन्ध इति
सिद्धं नित्यत्वमिति

6.26

********************** न्य्स्भ्_3,1.26 **********************
कथं पुनर्ज्ञायते-- पूर्वविषयानुचिन्तनजनितो
जातस्य रागः न पुनः---
न्य्स्_3,1.26: सगुणद्रव्योत्पत्तिवत्त्दुत्पत्तिः ? ॥
यथोत्पत्तिधर्मकस्य द्रव्यस्य गुणाः कारणत
उत्पद्यन्ते तथोत्पत्तिधर्मकस्यात्मनो रागः कुतश्चिदुत्पद्यते।
अत्रायमुदितानुवादो निदर्शनार्थः

6.27

********************** न्य्स्भ्_3,1.27 **********************
न्य्स्_3,1.27: न संकल्पनिमित्तत्वाद्रागादीनाम् ॥
न खलु सगुणद्रव्योत्पत्तिवद् उत्पत्तिरात्मनो
रागस्य च।
कस्मात् ?. संकल्पनिमित्तत्वाद्रागादीनाम् ।
अयं खलु प्राणिनां विषयान् आसेवमानानां
संकल्पजनितो रोगो गृह्यते. संकल्पश्च
पूर्वानुभूतविषयानुचिन्तनयोनिः तेनानुमीयते--
जातस्यापि पूर्वानुभूतार्थचिन्तनकृतो राग इति।
आत्मोत्पादाधिकरणात्तु रागोत्पत्तिर्भवन्ती
संकल्पादन्यस्मिन् रागकारणे सति वाच्या
कार्यद्रव्यगुणवत्, न चात्मोत्पादः सिद्धः नापि
संकल्पादन्यद् रागकारणमस्ति, तस्मादयुक्तम्--
ऽसगुणद्रव्योत्पत्तिवत्तयोरुत्पत्तिःऽ इति।
अथापि
संकल्पादन्यद् रागकारणं धर्माधर्मलक्षणमदृष्टमुपादीयते
तथापि पूर्वशरीरयोगो ऽप्रत्याख्येयः--
तत्र हि तस्य निर्वृत्तिर्नास्मिन् जन्मनि ॥
तन्मयत्वाद्राग इति।
विषयाभ्यासः खल्वयं
भावनाहेतुस्तन्मयत्वमुच्यते इति।
जातिविशेषाच्च
रागविशेष इति।
कर्म खल्विदं जातिविशेषनिर्वर्तकं
तादात्म्यात् ताच्छब्द्यं विज्ञायते, तस्मादनुपपन्नम्--
संकल्पादन्यद् रागकारणमिति

6.28

********************** न्य्स्भ्_3,1.28 **********************
अनादिश्चेतनस्य शरीरयोग इत्युक्तम्. स्वकृतकर्मनिमित्तं
चास्यं शरीरं सुखदुःखाधिष्ठान ततृ परीक्ष्यते--
किं घ्राणादिवदेकप्रकृतिकम् ? उत नानाप्रकृतिकम् ? इति।
कुतः संशयः ?, विप्रतिपत्तेः संशयः--
पृथिव्यादीनि भूतानि संख्याविकल्पेन शरीरप्रकृतिरिति प्रतिजानत इति।
किं तत्र
तत्त्वम् ?---
न्य्स्_3,1.28: पार्थिवं गुणान्तरोपलब्धेः ॥
तत्र मानुषं शरीरं पार्थिवम्, कस्मात् ?
गुणान्तरोपलब्धेः = गन्धवती पृथिवी गन्धवच्च शरीरम्, अबादीनाम् अगन्धत्वात्
तत्प्रकृति अगन्धं स्यात्।
न त्विदमबादिभिरसंपृक्तया
पृथिव्यारब्धं चेष्टेन्द्रियार्थाश्रयभावेन
कल्पते इत्यतः पञ्चानां भूतानां संयोगे
सति शरीरं भवति, भूतसंयोगो हि
मिथः पञ्चानां न निषिद्ध इति।
आप्यतैजसवायव्यानि
लोकान्तरे शरीराणि तेष्वपि भूतसंयोगः
पूरुषार्थतन्त्र इति।
अथाल्यादिद्रव्यनिष्पत्तावपि
निःसंशयः-- नाबादिसंयोगमन्तरेण निष्पत्तिरिति।
ऽपार्थिवाप्यतैजसम्-- तद्गुणोलब्धेःऽ ऽनिःश्वासोच्छ्वासोपलब्धेश्चातुर्भौन्तिकम्ऽ
ऽगन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम्ऽ
ते इमे संदिग्धा हेतव इत्युपेक्षितवान्
सूत्रकारः।
कथं संदिग्धाः ?, सति च प्रकृतिभावे
भूतानां धर्मोपलब्धिः असति च संयोगाप्रतिषेधात्
संनिहितानामिति. यथा स्थाल्यामुदकतेजोवाय्वाकाशानामिति।
तदिदमनेकभूतप्रकृति ( सत् ) शरीरम् अगन्धम् अरसम् अरूपम् अस्पर्शं च प्रकृत्यनुविधानात् स्यात्.
न त्विदमित्थम्भूतं तस्मात् पार्थिवं
गुणान्तरोपलब्धेः

6.29

********************** न्य्स्भ्_3,1.29 **********************
न्य्स्_3,1.29: श्रुतिप्रामाण्याच्च ॥
"सूर्यं ते चक्षुर्गच्छताम्" इत्यत्र मन्त्रे "पृथिवीं ते शरीरम्"
इति श्रूयते तदिदं प्रकृतौ विकारस्य प्रलयाभिधानमिति।
"सूर्यं ते चक्षुः स्पृणोमि" इत्यत्र मन्त्रान्तरे "पृथिवीं ते शरीरं स्पृणोमि" इति श्रूयते सेयं कारणाद् विकारस्य स्पृत्तिरभिधीयते इति।
स्थाल्यादिषु च
तुल्यजातीयानामेककार्यारम्भदर्शनाद्
भिन्नजातीयानामेककार्यारम्भानुपपत्तिः

6.30

********************** न्य्स्भ्_3,1.30 **********************
अथेदानीमिन्द्रियाणि
प्रमेयक्रमेण विचार्यन्ते-- किमाव्यक्तिकानि ? आहोस्विद् भौतिकानि ? इति।
कृतः संशयः ?
न्य्स्_3,1.30: कृष्णसारे सत्युपलम्भाद् व्यतिरिच्य चोपलम्भात्संशयः ॥
कृष्णसारं भौतिकं तस्मिन्न् अनुपहते रूपोपलब्धिः उपहते चानुपलब्धिरिति,
व्यतिरिच्य कृष्णसारमवस्थितस्य विषयस्योपलम्भो न कृष्णसारप्राप्तस्य,
न चाप्राप्यकारित्वमिन्द्रियाणाम्, तदिदमभौतिकत्वे विभुत्वात् संभवति,
एवमुभयधर्मोपलब्धेः संशयः

6.31

********************** न्य्स्भ्_3,1.31 **********************
अभौतिकानीत्याह,
कस्मात् ?---
न्य्स्_3,1.31: महदणुग्रहणात् ॥
महदिति--
महत्तरं महत्तमं चोपलभ्यते यथा न्यग्रोधपर्वतादि ।
अण्विति-- अणुतरमणुतमं च गृह्यते यथा
न्यग्रोधधानादि, तदुभयमुपलभ्यमानं चक्षुषो
भौतिकत्वं बाधते-- भौतिकं हि यावत्
तावदेव व्याप्नोति अभौतिकं तु विभुत्वात्
सर्वव्यापकमिति

6.32

********************** न्य्स्भ्_3,1.32 **********************
न महदणुग्रहणमात्रादभौतिकत्वं विभुत्वं
चेन्द्रियाणां शक्यं प्रतिपत्तम्. इदं खलु--
न्य्स्_3,1.32: रश्म्यर्थसंनिकर्षविशेषात् तद्ग्रहणम् ॥
तयोर्महदण्वोर्ग्रहणं चक्षूरश्मेरर्थस्य
च संनिकर्षविशेषाद् भवति यथा प्रदीपरश्मेरर्थस्य
चेति, रश्म्यर्थसंनिकर्षश्च आवरणलिङ्गः--
चक्षुषो हि रश्मिः कुड्यादिभिरावृतमर्थं
न प्रकाशयति यथा प्रदीपरश्मिरिति

6.33

********************** न्य्स्भ्_3,1.33 **********************
आवरणानुमेयत्वे सतीदमाह---
न्य्स्_3,1.33: तदनुपलब्धेरहेतुः ॥
रूपस्पर्शवद्धि तेजः
महत्त्वादनेकद्रव्यवत्त्वाद् रूपवत्त्वाच्चोपलब्धिरिति
प्रदीपवत् प्रत्यक्षत उपलभ्येत चाक्षुषो रश्मिर्यदि
स्यादिति

6.34

********************** न्य्स्भ्_3,1.34 **********************
न्य्स्_3,1.34: नानुमीयमानस्य प्रत्यक्षतो ऽनुपलब्धिरभावहेतुः ॥
संनिकर्षप्रतिषेधार्थेनावरणेन लिङ्गेनानुमीयमानस्य
रश्मेर्या प्रत्यक्षतो ऽनुपलब्धिर्नासावभावं
प्रतिपादयति यथा चन्द्रमसः परभागस्य पृथिव्याश्चाधोभागस्य

6.35

********************** न्य्स्भ्_3,1.35 **********************
न्य्स्_3,1.35: द्रव्यगुणधर्मभेदाच्चोपलब्धिनिमयः ॥
भिन्नः खल्वयं द्रव्यधर्मो गुणधर्मश्च,
महदनेकद्रव्यवच्च विषक्तावयवमाप्यं द्रव्यं
प्रत्यक्षतो नोपलभ्यते स्पर्शस्तु शीतो गृह्यते.
तस्य द्रव्यस्यानुबन्धात् हेमन्तशिशिरौ
कल्पेते, तथाविधमेव च तैजसं द्रव्यमनुद्भूतरूपं
सह रूपेण नोपलभ्यते स्पर्शस्त्व् अस्योष्ण उपलभ्नपयते
तस्य द्रव्यस्यानुबन्धाद् ग्रीष्मवसन्तौ कल्पेते

6.36

********************** न्य्स्भ्_3,1.36 **********************
यत्र त्वेषां भवति---
न्य्स्_3,1.36: अनेकद्रव्यसमवायाद् रूपविशेषाच्च रूपोपलब्धिः ॥
यत्र रूपं च द्रव्यं च तदाश्रयः प्रत्यक्षत
उपलभ्यते, रूपविशेषस्तु यद्भावात् क्वचिद्रूपोपलब्धिः
यदभावाच्च द्रव्यस्य क्वचिदनुपलब्धिः स
रूपधर्मोयमुद्भवसमाख्यात इति, अनुद्भूतरूपश्चायं
नायनो रश्मिः तस्मात् प्रत्यक्षतो नोपलभ्यते
इति।
दृष्टश्च तेजसो धर्मभेदः-- उद्भूतरूपस्पर्शं
प्रत्यक्षं तेजो यथादित्यरश्मयः, उद्भूतरूपमनुद्भूतस्पर्शं
च प्रत्यक्षम् ( तेजः ) यथा प्रदीपरश्मयः, उद्भूतस्पर्शमनुद्भूतरूपमप्रत्यक्षं
यथाबादिसंयुक्तं तेजः, अनुद्भूतरूपस्पर्शो ऽप्रत्यक्षश्चाक्षुषो
रश्मिरिति

6.37

********************** न्य्स्भ्_3,1.37 **********************
न्य्स्_3,1.37: कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ॥
यथा चेतनस्यार्थो
विषयोपलब्धिभूतः सुखदुःखोपलब्धिभूतश्च
कल्पते तथेन्द्रियाणि व्यूढानि, विषयप्राप्त्यर्थश्च
रश्मेश्चाक्षुषस्य व्यूहः, रूपस्पर्शानभिव्यक्तिश्च
व्यवहारप्रकॢप्त्यर्था, द्रव्यविशेषे च प्रतीघातादावरणोपपत्तिर्व्यवहारार्था,
सर्वद्रव्याणां विश्वरूपो व्यूह इन्द्रियवत्
कर्मकारितः पुरुषार्थतन्त्रः।
कर्म तु धर्माधर्मभूतं
चेतनस्योपभोगार्थमिति

6.38

********************** न्य्स्भ्_3,1.38 **********************
न्य्स्_3,1.38: अव्यभिचाराच्च प्रतिधातो भौतिकधर्मः ॥
यश्चावरणोपलम्भादिन्द्रियस्य द्रव्यविशेषे
प्रतिघातः स भौतिकधर्मः-- न भूतानि व्यभिचरति.
नाभौतिकं प्रतिघातधर्मकं दृष्टमिति।
अप्रतिघातस्तु
व्यभिचारी-- भौतिकाभौतिकयोः समानत्वादिति।
यदपि मन्यते-- प्रतिघाताद् भौतिकानीन्द्रियाणि
अप्रतिघातादभौतिकानीति प्राप्तम्. दृष्टश्चाप्रतिघातः
काचाभ्रपटलस्फटिकान्तरितोपलब्धेः, तन्न
युक्तम्, कस्मात् ?. यस्माद् भौतिकमपि
न प्रतिहन्यते-- काचाभ्रपटलस्फटिकान्तरितप्रकाशात्
प्रदीपरश्मीनाम्, स्थाल्यादिषु पाचकस्य
तेजसो ऽप्रतिघातः

6.39

********************** न्य्स्भ्_3,1.39 **********************
उपपद्यते चानुपलब्धिः कारणभेदात्---
न्य्स्_3,1.39: मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ॥
यथानेकद्रव्येण समवायाद्रूपविशेषाच्चोपलब्धिरिति
सत्युपलब्धिकारणे मध्यन्दिनोल्काप्रकाशो
नोपलभ्यते आदित्यप्रकाशेनाभिभूतः, एवं
महदनेकद्रव्यवत्त्वाद् रूपविशेषाच्चोपलब्धिरिति
सत्युपलब्धिकारणे चाक्षुषो रश्मिर्नोपलभ्यते
निमित्तान्तरतः, तच्च व्याख्यातम्--अनुद्भूतरूपस्पर्शस्य
द्रव्यस्य प्रत्यक्षतो ऽनुपलब्धिरिति, अत्यन्तानुपलब्धिश्चाभावकारणम्

6.40

********************** न्य्स्भ्_3,1.40 **********************
यो हि ब्रवीति--
लोष्टप्रकाशो मध्यन्दिने आदित्यप्रकाशाभिभवान्नोपलभ्यते
इति, तस्यैतःस्यात्---
न्य्स्_3,1.40: न रात्रावप्यनुपलब्धेः ॥
अप्य् अनुमानतो ऽनुपलब्धेरिति, एकमत्यन्तानुपलब्धेर्लोष्टप्रकाशो
नास्ति, न त्वेवं चाक्षुषो रश्मिरिति

6.41

********************** न्य्स्भ्_3,1.41 **********************
उपपन्नरूपा चेयम्---
न्य्स्_3,1.41: बाह्यप्रकाशानुग्रहाद्र विषयोपलब्धेरनभिव्यक्तितो ऽनुपलब्धिः ॥
बाह्येन प्रकाशेनानुगृहीतं चक्षुर्विषयग्राहकम्.
तदभावे ऽनुपलब्धिः, सति च प्रकाशानुग्रहे
रूपस्पर्शोपलब्धौ च सत्यां तदाश्रयस्य द्रव्यस्य
चक्षुषा ग्रहणम्, रूपस्यानुद्भूतत्वात्
सेयं रूपानभिव्यक्तितो रूपाश्रयस्य द्रव्यस्यानुपलब्धिर्दृष्टा,
तत्र यदुक्तम्--
"तदनुपलब्धेरहेतुः 33" इति.
एतदयुक्तम्

6.42

********************** न्य्स्भ्_3,1.42 **********************
कस्मात्
पुनरभिभवो ऽनुपलब्धिकारणं चाक्षुषस्य
रश्मेर्नोच्यते ? इति.
न्य्स्_3,1.42: अभिव्यक्तौ चाभिभवात् ॥
बाह्यप्रकाशानुग्रहनिरपेक्षतायां चेति
चार्थः, यद् रूपमभिव्यक्तम् ।
उद्भूतं बाह्यप्रकाशानुग्रहं च नापेक्षते तद्विषयो ऽभिभवः--
विपर्यये ऽभिभवाभावात् = अनुद्भूतरूपत्वाच्चानुपलभ्यमानं बाह्यप्रकाशानुग्रहाच्चोपलभ्यमानं
नाभिभूयते, इति एवमुपपन्नम्-- अस्ति चाक्षुषो रश्मिरिति

6.43

********************** न्य्स्भ्_3,1.43 **********************
न्य्स्_3,1.43: नक्तञ्चरनयनरश्मिदर्शनाच्च ॥
दृश्यते हि नक्तं नयनरश्मयो नक्तञ्चराणां
वृषदंशप्रभृतीनां तेन शेषस्यानुमानमिति।
जातिभेदवदिन्द्रियभेद इति चेत् ?, धर्मभेदमात्रं
चानुपपन्नम्-- आवरणस्य प्राप्तिप्रतिषेधार्थस्य
दर्शनादिति

6.44

********************** न्य्स्भ्_3,1.44 **********************
इन्द्रियार्थसंनिकर्षस्य
ज्ञानकारणत्वानुपपत्तिः, कस्मात् ?---
न्य्स्_3,1.44: अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ॥
तृणादि सर्पद् द्रव्यं काचे ऽभ्रपटले
वा प्रतिहतं दृष्टम्, अव्यवहितेन संनिकृष्यते.
व्याहन्यते वै प्राप्तिर्व्यवधानेनेति, यदि
च रश्म्यर्थसंनिकर्षो ग्रहणहेतुः स्यात् ? न व्यवहितस्य संनिकर्ष इत्य् अग्रहणं स्यात्,
अस्ति चेयं काचाभ्रपटलस्फटिकान्तरितोपलब्धः
सा ज्ञापियति-- अप्राप्यकारीणीन्द्रियाणि (इति). अत एवाभौतिकानि-- प्राप्यकारित्वं हि भौतिकधर्म
इति

6.45

********************** न्य्स्भ्_3,1.45 **********************
न
न्य्स्_3,1.45: कुड्यान्तरितानुपलब्धेरप्रतिषेधः ॥
अप्राप्यकारित्वे सतीन्द्रियणां कुड्यान्तरितस्यानुपलब्धिर् न स्यात्

6.46

********************** न्य्स्भ्_3,1.46 **********************
प्राप्यकारित्वे ऽपि
तु काचाभ्रपटलस्फटिकान्तरितोपलब्धिर्न
स्यात् ?---
न्य्स्_3,1.46: अप्रतीघातात् संनिकर्षोपपत्तिः ॥
न च काचो ऽभ्रपटलं वा नायनरश्मिं
विष्टभ्नाति सो ऽप्रतिहन्यमानः संनिकृष्यते
इति

6.47

********************** न्य्स्भ्_3,1.47 **********************
यश्च मन्यते--
न भैतिकस्याप्रतिघात इति, तन्न---
न्य्स्_3,1.47: आदित्यरश्मेः स्फटिकान्तरितेपि दाह्ये ऽविघातात् ॥
ऽआदित्यरश्मेरविघातात्ऽ
ऽस्फटिकान्तरितेप्यविघातात्ऽ ऽदाह्ये ऽविघातात्ऽ
अविघातादिति च पदाभिसंबन्धाद् वाक्यभेद
इति. यथावाक्यं चार्थभेद इति, आदित्यरश्मिः
कुम्भादिषु न प्रतिहन्यते-- अविघातात् कुम्भस्थमुदकं
तपति, प्राप्तौ हि द्रव्यान्तरगुणस्य उष्णस्य
स्पर्शस्य ग्रहणं तेन च शीतस्पर्शाभिभव
इति 1।
स्फटिकान्तरितेपि प्रकाशनीये प्रदीपरश्मीनामप्रतिघातः
अप्रतिघातात् प्राप्तस्य ग्रहणमिति 2।
भर्जनकपालादिस्थं
च द्रव्यमाग्नेयेन तेजसा दह्यते तत्राविघातात्
प्राप्तिः प्राप्तौ तु दाहः-- नाप्राप्यकारि तेज
इति 3।
"अविघातात्"
इति च केवलं पदमुपादीयते, कोयमविघातो
नाम ?, अव्यूह्यमानावयवेन व्यवधायकेन
द्रव्येण सर्वतो द्रव्यस्याविषृम्भः ।
क्रियाहेतोरप्रतिबन्धः ।
प्राप्तेरप्रतिषेध इति, दृष्टं हि कलशनिषक्तानामपां
बहिः शीतस्पर्शग्रहणम्. न चेन्द्रिनयेणासंनिकृष्टस्य
द्रव्यस्य स्पर्शोपलब्धिः, दृष्टौ च प्रस्पन्दपरिस्रवौ,
तत्र काचाभ्रपटलादिभिर्नायनरश्मेरप्रतिघाताद्
विभिद्यार्थेन सह संनिकर्षादुपपन्नं ग्रहणमिति

6.48

********************** न्य्स्भ्_3,1.48 **********************
न्य्स्_3,1.48: नेतरेतरधर्मप्रसङ्गात् ॥
काचाभ्रपटलादिवद्वा कुड्यादिभिरप्रतिघातः,
कुड्यादिवद्वा काचाभ्रपटलादिभिः प्रतीघात
इति प्रसज्यते, नियमे कारणं वाच्यमिति

6.49

********************** न्य्स्भ्_3,1.49 **********************
न्य्स्_3,1.49: आदर्शोदकायोः प्रसादस्वाभाव्याद् रूपोपलब्धिवत्तदुपलब्धिः ॥
आदर्शोदकयोः प्रसादः ।
रूपविशेषः स्वो धर्मः- नियमदर्शनात्,
प्रसादस्य वा स्वो धर्मो रूपोपलम्भनम्,
यथादर्शप्रतिहतस्य परावृत्तस्य नयनरश्मेः
स्वेन मुखेन संनिकर्षे सति स्वमुखोपलम्भनं
प्रतिबिम्बग्रहणाख्यम् आदर्शरूपानुग्रहात्
तन्निमित्तं भवति-- आदर्शरूपोपघाते तदभावात्.
कुड्यादिषु च प्रतिबिम्बग्रहणं न भवति,
एवं काचाभ्रपटलादिभिरविघातश्चक्षूरश्मेः
कुड्यादिभिश्च प्रतिघातः-- द्रव्यस्वभावनियमादिति

6.50

********************** न्य्स्भ्_3,1.50 **********************
न्य्स्_3,1.50: दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिः ॥
प्रमाणस्य तत्त्वविषयत्वात्, न खलु भोः परीक्षमाणेन
दृष्टानुमिता अर्थाः शक्या नियोक्तुम्-- ऽएवं
भवतऽ इति. नापि प्रतिषेद्धुम्-- ऽएवं न भवतऽ
इति, न हीदमुपपद्यते-- ऽरूपवद् गन्धोपि
चाक्षुषो भवतुऽ इति. ऽगन्धवद्वा रूपं चाक्षुषं
मा भूतऽ इति, ऽअग्निप्रतिपत्तिवद् धूमेनोदकप्रतिपत्तिरपि
भवतुऽ इति, ऽउदकाप्रतिपत्तिवद्वा धूमेनाग्निप्रतिपत्तिरपि
मा भूत्ऽ इति।
किं कारणम् ?, यथा खल्वर्था
भवन्ति ।
य एषां स्वो भावः ।
स्वो धर्म इति तथाभूताः प्रमाणेन प्रतिपद्यन्ते
इति-- तथाभूतविषयकं हि प्रमाणथ्मति।
इमौ खलु नियोगप्रतिषेधौ भवता देशितौ--
काचाभ्रपटलादिवद्वा कुड्यादिभिरप्रतिघातो
भवतु. कुड्यादिवद्वा काचाभ्रपटलादिभिरप्रतिघातो
मा भूत्. इति, न-- दृष्टानुमिताः खल्विमे
द्रव्यधर्माः ।
प्रतिघाताप्रतिघातयोर्हि उपलब्ध्यनुपलब्धी
व्यवस्थापिके-- व्यवहितानुपलब्ध्यानुमीयते--
कुड्यादिभिः प्रतिघातः, व्यवहितोपलब्ध्यानुमीयते--
काचाभ्रपटलादिभिरप्रतिघात इति

6.51

********************** न्य्स्भ्_3,1.51 **********************
अथापि खल्वेकमिन्द्रियम् ?
बहूनीन्द्रियाणि वा ?।
कुतः संशयः ?---
न्य्स्_3,1.51: स्थानान्यत्वे नानात्वाद् अवयविनानास्थानत्वाच्च संशयः ॥
बहूनि द्रव्याणि नानास्थानानि दृश्यन्ते.
नानास्थानश्च सन्नेको ऽवयवी चेति. तेनेन्द्रियेषु
भिन्नस्थानेषु संशय इति

6.52

********************** न्य्स्भ्_3,1.52 **********************
एकमिन्द्रियम्---
न्य्स्_3,1.52: त्वगव्यतिरेकात् ॥
ऽत्वगेकमिन्द्रियम्ऽ इत्याह।
कस्मात् ?
अव्यतिरेकात् ।
न त्वचा किञ्चिदिन्द्रियाधिष्ठानं न प्राप्तम्--
न चासत्यां त्वचि किञ्चिद्विषयग्रहणं भवति.
यया सर्वेन्द्रियस्थानानि व्याप्तानि यस्यां
च सत्यां विषयग्रहणं भवति सा त्वगेकमिन्द्रियमिति

6.52

नेन्द्रियान्तरार्थानुपलब्धेः।
स्पर्शोपलब्धिलक्षणायां
सत्यां त्वचि गृह्यमाणे ( च ) त्वगिन्द्रियेणे
स्पर्शे इन्द्रियान्तरार्था रूपादयो न गृह्यन्ते
अन्धादिभिः. न स्पर्शग्राहकादिन्द्रियाद् इन्द्रियान्तरमस्तीति
स्पर्शवद् अन्धादिभिर्गृह्येरन् रूपादयः न
च गृह्यन्ते तस्मान्नैकमिन्द्रियं त्वगिति ॥
त्वगवयवविशेषेण
धूमोपलब्धिवत्तदुपलब्धिः।
यथा त्वचो ऽवयवविशेषः
कश्चित् चक्षुषि संनिकृष्टो धूमस्पर्शं गृह्णाति
नान्य एवं त्वचो ऽवयवविशेषा रूपादिग्राहकास्तेषामुपघातादन्धादिभिर्न
गृह्यन्ते रूपादय इति ॥
व्याहतत्वादहेतुः।
ऽत्वगव्यतिरेकादेकमिन्द्रियम्ऽ इत्युक्त्वा
ऽत्वगक्यवविशेषेण धूमोपलब्धिवद् रूपाद्युपलब्धिःऽ
इत्युच्यते. एवं च सति नानाभूतानि
विषयग्राहकाणि-- विषयव्यवस्थानात् ।
तद्भावे विषयग्रहणस्य भावात् तदुपघाते
चाभावात्. तथा च पूर्वो वाद उत्तरेण वादेन
व्याहन्यते इति ॥
संदिग्धश्चाव्यतिरेकः।
पृथिव्यादिभिरपि भूतैरिन्द्रियाधिष्ठानानि
व्याप्तानि. न च तेष्वसत्सु विषयग्रहणं
भवतीति. तस्मान्न त्वग् अन्यद्वा
सर्वविषयमेकमिन्द्रियमिति

6.53

********************** न्य्स्भ्_3,1.53 **********************
न्य्स्_3,1.53: न युगपदार्थानुपलब्धेः ॥
आत्मा मनसा संबध्यते मन इन्द्रियेण
इन्द्रियं सर्वार्थैः संनिकृष्टमिति आत्मेन्द्रियमनो ऽर्थसंनिकर्षेभ्यो
युगपद् ग्रहणानि स्युः न च युगपद् रूपादयो
गृह्यन्ते तस्मान्नैकमिन्द्रियं
सर्वविषयमस्तीति ।
असाहचर्याच्च विषयग्रहणानां नैकमिन्द्रियं
सर्वविषयकम्, साहचर्ये हि विषयग्रहणानामन्धाद्यनुपपत्तिरिति

6.54

********************** न्य्स्भ्_3,1.54 **********************
न्य्स्_3,1.54: विप्रतिषेधाच्च न त्वगेका ॥
न खलु त्वगेकमिन्द्रियम्-- व्याघातात्,
त्वचा रूपाण्य् अप्राप्तानि गृह्यन्ते इति अप्राप्यकारित्वे
स्पर्शादिष्वप्येवं प्रसङ्गः, स्पर्शादीनां
च प्राप्तानां ग्रहणाद् रूपादीनाम् ( अपि ) प्राप्तानां
ग्रहणमिति प्राप्तम्।
प्राप्याप्राप्यकारित्वमितिचेत् ?
आवरणानुपपत्तेर्विषयमात्रस्य ग्रहणम् = अथापि मन्येत-- प्राप्ताः स्पर्शादयस्त्वचा
गृह्यन्ते रूपाणि त्व् अप्राप्तानीति, एवं सति नास्त्यावरणम्.
आवरणानुपपत्तेश्च रूपमात्रस्य ग्रहणं
व्यवहितस्य चाव्यहितस्य चेति।
दूरान्तिकानुविधानं
च रूपोपलब्ध्यनुपलब्ध्योर्न स्यात् ।
अप्राप्तं त्वचा गृह्यते रूपमिति दूरे रूपस्याग्रहणमन्तिके
च ग्रहणमित्येतद् न स्यादिति

6.55

********************** न्य्स्भ्_3,1.55 **********************
एकत्वप्रतिषेधाच्च नानात्वसिद्धौ
स्थानाहेतुरप्युपादीयते---
न्य्स्_3,1.55: इन्द्रियार्थपञ्चत्वात् ॥
अर्थः प्रयोजनं तत् पञ्चविधमिन्द्रियाणाम्
उस्पर्शनेनेन्द्रियेण स्पर्शग्रहणे सति न
तेनैव रूपं गृह्यते इति रूपग्रहणप्रयोजनं
चक्षुरनुमीयते, स्पर्शरूपग्रहणे च ताभ्यामेव
न गन्धो गृह्यते इति गन्धग्रहणप्रयोजनं घ्राणमनुमीयते,
त्रयाणां ग्रहणे न तैरेव रसो गृह्यते
इति रसग्रहणप्रयोजनं रसनमनुमीयते,
न चतुर्णां ग्रहणे तैरेव शब्दः श्रूयते इति
शब्दग्रहणप्रयोजनं श्रोत्रमनुमीयते, एवमिन्द्रियप्रयोजनस्यानितरेतरसाधनसाध्यत्वात्
पञ्चैवेन्द्रियाणि

6.56

********************** न्य्स्भ्_3,1.56 **********************
न्य्स्_3,1.56: न तदर्थबहुत्वात् ॥
न खलु ऽइन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणीति सिध्यति, कस्मात् ?
तेषामर्थानां बहुत्वात् ।
बहवः खल्विमे इन्द्रियार्थाः ।
स्पर्शास्तावत् शीतोष्णानुष्णाशीता इति.
रूपाणि शुक्लहरितादीनि. गन्धा इष्टानिष्टोपेक्षणीयाः.
रसाः कटुकादयः, शब्दा वर्णात्मनो ध्वनिमात्राश्च
भिन्नाः, तद् यस्येन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणि
तस्येन्द्रियार्थबहुत्वाद् बहूनीन्द्रियाणि
प्रसज्यन्ते इति

6.57

********************** न्य्स्भ्_3,1.57 **********************
न्य्स्_3,1.57: गन्धत्वाद्यव्यतिरेकाद् गन्धादीनामप्रतिषेधः ॥
गन्धत्वादिभिः स्वसमान्यैः कृतव्यवस्थानां गन्धादीनां
यानि गन्धादिग्रहणानि तान्य् असमानसाधनसाध्यत्वाद्
ग्राहकान्तराणि न प्रयोजयन्ति. अर्थसमूहो ऽनुमानमुक्तो
नार्थैकदेशः, अर्थैकदेशं चाश्रित्य विषयपञ्चत्वमात्रं
भवान् प्रतिषेधति. तस्मादयुक्तोयं प्रतिषेध
इति।
कथं पुनर्गन्धत्वादिभिः स्वसामान्यैः
कृतव्यवस्था गन्धादयः ? इति, स्पर्शः खल्वयं
त्रिविधः--- शीत उष्णो ऽनुष्णाशीतश्च स्पर्शत्वेन
स्वसामान्येन संगृहीतः, गृह्यमाणे च शीतस्पर्शे
नोष्णस्यानुष्णाशीतस्य वा स्पर्शस्य ग्रहणं
ग्राहकान्तरं प्रयोजयति-- स्पर्शभेदानामेकसाधनसाध्यत्वात्
उयेनैव शीतस्पर्शो गृह्यते तेनैवेतरावपीति।
एवं गन्धत्वेन गन्धानाम्. रूपत्वेन रूपाणाम्.
रसत्वेन रसानाम्. शब्दत्वेन शब्दानामिति।
गन्धादिग्रहणानि पुनरसमानसाधनसाध्यत्वान्नग्राहकान्तराणां
प्रयोजकानि, तस्मादुपपन्नमिन्द्रियार्थपञ्चत्वात्
पञ्चेन्द्रियाणीति

6.58

********************** न्य्स्भ्_3,1.58 **********************
यदि सामान्यं संग्राहकम् ? प्राप्तमिन्द्रियाणाम्---
न्य्स्_3,1.58: विषयत्वाव्यतिरेकादेकत्वम् ॥
विषयत्वेन हि सामान्येन गन्धादयः संगृहीता
इति

6.59

********************** न्य्स्भ्_3,1.59 **********************
न्य्स्_3,1.59: न बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ॥
न खलु विषयत्वेन सामान्येन कृतव्यवस्था
विषया ग्राहकान्तरनिरपेक्षाः ।
एकसाधनग्राह्य अनुमीयन्ते. अनुमीयन्ते च पञ्च
गन्धादयो गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्थाः
इन्द्रियान्तरग्राह्यः. तस्मादसंबद्धमेतत्, अयमेव
चार्थो ऽनूद्यते-- ऽबुद्धिलक्षणपञ्चत्वात्ऽ इति ।
बुद्धय एव लक्षणानि-- विषयग्रहणलिङ्गत्वादिन्द्रियाणाम्,
तदेतत्
"इन्द्रियार्थपञ्चत्वात् 55" इत्येतस्मिन्
सूत्रे कृतभाष्यमिति, तस्माद् बुद्धिलक्षणपञ्चत्वात् पञ्चेन्द्रियाणि।
अधिष्ठानान्यपि खलु पञ्च इन्द्रियाणाम्--
सर्वशरीराधिष्ठानं स्पर्शनं स्पर्शग्रहणलिङ्गम्,
कृष्णताराधिष्ठानं चक्षुः बहिर्निस्मृतं
रूपग्रहणलिङ्गम्, नासाधिष्ठानं घ्राणम्,
जिहाधिष्ठानं रसनम्, कर्णच्छिद्राधिष्ठानं
श्रोत्रम्, गन्धरसरूपस्पर्शशब्दग्रहणलिङ्गत्वादिति।
गतिमेदादपीन्द्रियभेदः-- कृष्णसारोपनिबद्धं
चक्षुर्बहिर्निःसृत्य रूपाधिकरणानि द्रव्याणि
प्राप्नोति, स्पर्शनादीनि त्विन्द्रियाणि
विषया एवाश्रयोपसर्पणात् प्रत्यासीदन्ति,
सन्तानवृत्त्या शब्दस्य श्रोत्रप्रत्त्यासत्तिरिति।
आकृति खलु परिमाणम् ।
इयत्ता सा पञ्चधा-- स्वस्थानमात्राणि घ्राणरसनस्पर्शनानि
विषयाव्यापिनानुमेयानि, चक्षुः कृष्णसाराश्रयं
बहिर्निःसृतं विषयव्यापि, श्रोत्रं नान्यदाकाशात्
तच्च विभु शब्दमात्रानुभवानुमेयं पुरुषसंस्कारोपग्रहाच्चाधिष्ठाननियमेन
शब्दस्य व्यञ्जकमिति।
जातिरिति योनिं प्रचक्षते--
पञ्च खल्विन्द्रिनययोनयः पृथिव्यादीनि भूतानि
तस्मात् प्रकृतिपञ्चत्वादपि पञ्चेन्द्रियाणाति
सिद्धम्

6.60

********************** न्य्स्भ्_3,1.60 **********************
कथं पुनर्ज्ञायते--
भूतप्रकृतीनीन्द्रियाणि नाव्यक्तप्रकृतीनीति ?
न्य्स्_3,1.60: भूतगुणविशेषोपलब्धेस्तादात्म्यम् ॥
दृष्टो हि वाय्वादीनां भूतानां गुणविशेषाभिव्यक्तिनियमः
उवायुः स्पर्शव्यञ्जकः आपो रसव्यञ्जिकाः.
तेजो रूपव्यञ्जकम्. पार्थिवं किञ्चिद् द्रव्यं
कस्यचिद् द्रव्यस्य ग्रन्धव्यञ्जकमद्व अस्ति चायमिन्द्रियाणां
भूतगुणविशेषोपलब्धिनियमः तेन भूतगुणविशेषोपलब्धेर्मन्यामहेभूतप्रकृतीनीन्द्रियाणि
नाव्यक्तप्रकृतीनिति

6.62

********************** न्य्स्भ्_3,1.61 **********************
अथार्थविवेचनम्
गन्धादयः पृथिव्यादिगुणा इत्युद्दिष्टम् ।
उद्देशश्च पृथिव्यादीनामेकगुणत्वे चानेकगुणत्वे
समान इत्यत आह---
न्य्स्_3,1.61: गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ॥
********************** न्य्स्भ्_3,1.62 **********************
न्य्स्_3,1.62: अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ॥
स्पर्शपर्यन्तानामिति विभक्तिविपरिणामः,
आकाशस्योत्तरः
उशब्दः स्पर्शपर्यन्तेभ्य इति।
कथं तर्हि
तरप्निर्देशः ?. स्वतन्त्रविनियोगसामर्थ्यात्
तेनोत्तरशब्दस्य परार्थाभिधानं विज्ञायते--
उद्देशसूत्रे हि स्पर्शपयन्तेभ्यः परः शब्द
इति, तन्त्रं वा-- स्पर्शस्य विवक्षितत्वात् ।
स्पर्शपर्यन्तेषु नियुक्तेषु यो ऽन्यस्तदुत्तरः
शब्द इति

6.63

********************** न्य्स्भ्_3,1.63 **********************
न्य्स्_3,1.63: न सर्वगुणानुपलब्धेः ॥
नायं गुणनियोगः साधुः, कस्मात् ?.
यस्य भूतस्य ये गुणा न ते तदात्मकेनेन्द्रियेण
सर्वे उपलभ्यन्ते ।
पार्थिवेन हि घ्राणेन स्पर्शपर्यन्ता न गृह्यन्ते
गन्ध एवैको गृह्यते, एवं शेषेष्वपीति

6.64

********************** न्य्स्भ्_3,1.64 **********************
कथं तर्हीमे गुणा
विनियोक्तव्याः ? इति---
न्य्स्_3,1.64: एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तराणां तदनुपलब्धिः ॥
गन्धादीनामेकैको यथाक्रमं
पृथिव्यादीनामेकैकस्य गुणः अतस्तदनुपलब्धिः ।
तेषां तयोः तस्य चानुपलब्धिः ।
घ्राणेन रसरूपस्पर्शानां. रसनेन रूपस्पर्शयोः.
चक्षुक्षा स्पर्शस्येति

6.65

********************** न्य्स्भ्_3,1.65 **********************
कथं तर्ह्यनेकगुणानि भूतानि गृह्यन्ते ?
इति,
न्य्स्_3,1.65: संसर्गाच्चानेकगुणग्रहणम् ॥
अबादिसंसर्गाच्च
पृथिव्यां रसादयो गृह्यन्ते एवं
शेषेष्वपीति

6.66

********************** न्य्स्भ्_3,1.66 **********************
नियमस्तर्हि न प्राप्नोति--
संसर्गस्यानियमात् ऽचतुर्गुणा पृथिवीऽ
ऽत्रिगुणा आपःऽ ऽद्विगुणं तेजःऽ ऽएकगुणो वायुःऽ
इति, नियमश्चोपपद्यते, कथम् ?---
न्य्स्_3,1.66: विष्टं ह्यपरं परेण ॥
पृथिव्यादीनां पूर्वपूर्वमुत्तरेणोत्तरेण
विष्टम् अतो न संसर्गानियम इति. तच्चैतद्
भूतसृष्टौ वेदितव्यं नैतर्हीति

6.67

********************** न्य्स्भ्_3,1.67 **********************
न्य्स्_3,1.67: न पार्थिवाप्ययोः प्रत्यक्षत्वात् ॥
नेति त्रिसूत्रीं प्रत्याचष्टे, कस्मात् ?, पार्थिवस्य
द्रव्यस्याप्य् अस्य च प्रत्यक्षत्वात्।
महत्त्वानेकद्रव्यत्वाद्रूपाच्चोपलब्धिरिति
तैजसमेव द्रव्यं प्रत्यक्षं स्यात्. न पार्थिवमाप्यं
वा-- रूपाभावात्।
तैजसवत्तु पार्थिवाप्ययोः प्रत्यक्षत्वाद् न संसर्गादनेकगुणग्रहणं भूतानामिति।
भूतान्तररूपकृतं च पार्थिवाप्ययोः प्रत्यक्षत्वं
ब्रुवतः प्रत्यक्षो वायुः प्रसज्यते.
नियमे वा कारणमुच्यतामिति।
रसयोर्वा पार्थिवाप्ययोः प्रत्यक्षत्वात्, पार्थिवो रसः षड्विधः आप्यो मधुर एव न चैतत् संसर्गाद् भवितुमर्हति।
रूपयोर्वा पार्थिवाप्ययोः प्रतयक्षत्वात्,
तैजसरूपानुगृहीतयोः संसर्गे हि व्यञ्जकमेव रूपं न व्यङ्ग्यमस्तीति।
एकानेकविधत्वे च पार्थिवाप्ययोः प्रत्यक्षत्वाद् रूपयोः ।
पार्थिवं हरितलोहितपीताद्यनेकविधं रूपम् आप्यं तु शुक्लमप्रकाशकं न चैतदेकगुणानां संसर्गे सत्युपलभ्यते इति।
उदाहरणमात्रं चैतत्।
अतः परं प्रपञ्चः-- स्पर्शयोर्वा पार्थिवतैजसयोः
प्रत्यक्षत्वात्. पार्थिवो ऽनुष्णाशीतः स्पर्शः
उष्णस्तैजसः प्रत्नयक्षः. न चैतदेकगुणानाम् अनुष्णाशीतस्पर्शेन
वायुना संसर्गेणोपपद्यते इति।
अथ वा पार्थिवाप्ययोर्द्रव्ययोर्व्यवस्थितगुणयोः
प्रत्यक्षत्वात् = चतुर्गुणं पार्थिवं द्रव्यं त्रिगुणमाप्यं
प्रत्यक्षं तेन तत्कारणमनुमीयते-- तथाभूतमिति.
तस्य कार्यं लिङ्म्-- कारणभावाद्धि कार्यभाव
इति।
एवं तैजसवायव्ययोर्दव्ययोः प्रत्यक्षत्वाद्
गुणव्यवस्थायास्तत्कारणे द्रव्ये व्यवस्थानुमानमिति।
दृष्टश्च विवेकः-- पार्थिवाप्ययोः प्रत्यक्षत्वात् ।
पार्थिवं द्रव्यमबादिभिर्वियुक्तं प्रत्यक्षतो
गृह्यते आप्यं च पराभ्यां तैजसं च वायुना,
न चैकैकगुणं गृह्यते इति।
निरनुमानं तु
"विष्टं ह्यपरं परेण 66"
इत्येतदिति ।
नात्र लिङ्गमनुमापकं गृह्यते इति येनैतदेवं प्रतिपद्येमहि।
यच्चोक्तम्-- ऽविष्टं ह्यपरं परेणेति भूतसृष्टौ वेदितव्यं न सांप्रतम्ऽ इति
नियमकारणाभावादयुक्तम्, दृष्टं च सांप्रतम्--
ऽअपरं परेण विष्टम्ऽ इति ।
वायुना च विष्टं तेज इति।
विष्टत्वम् ।
संयोगः सच द्वयोः समानः, वायुना च
विष्टत्वात् स्पर्शवत् तेजः न तु तेजसा
विष्टत्वाद् रूपवान् वायुरिति नियमकारणं
नास्तीति।
दृष्टं च तैजसेन स्पर्शेन वायव्यस्य
स्पर्शस्याभिभवादग्रहणमिति न च तेनैव
तस्याभिभव इति

6.68

********************** न्य्स्भ्_3,1.68 **********************
तदेवं न्यायावेरुद्धं प्रवादं प्रतिषिध्य
"न सर्वगुणानुपलब्धेः 63 " इति
चोदितं समाधीयते---
न्य्स्_3,1.68: पूर्वपूर्वगुणोत्कर्षात् तत्तत्प्रधानम् ॥
तस्मान्न सर्वगुणोपलब्धिर्घ्राणादीनाम्.
पूर्वं पूर्वं गन्धादेर्गुणस्योत्कर्षात् तत्तत्प्रधानम्।
का प्रधानता ?, विषयग्राहकत्वम्।
को गुणोत्कर्षः ?, अभिव्यक्तौ समर्थत्वम्।
यथा बाह्यानां पार्थिवाप्यतैजसानां
द्रव्याणां चतुर्गुणत्रिगुणद्विगुणानां न सर्वगुणव्यञ्जकत्वं
गन्धरसरूपोत्कर्षात्तु यथाक्रमं गन्धरसरूपव्यञ्जकत्वम्
एवं घ्राणरसनचक्षुषां चतुर्गुणत्रिगुणद्विगुणानां
न सर्वगुणग्राहकत्वं गन्धरसरूपोत्कर्षात्तु
यथाक्रमं गन्धरसरूपग्राहकत्वं तस्मात् घ्राणादीभिर्न
सर्वेषां गुणानामुपलब्धिरिति।
यस्तु प्रतिजानीते--
गन्धगुणत्वाद् घ्राणं गन्धस्य ग्राहकम् एवं
रसनादिष्वपीति, तस्य यथागुणयोगं घ्राणादिभिर्गुणग्रहणं
प्रसज्यते इति

6.69

********************** न्य्स्भ्_3,1.69 **********************
किङ्कृतं पुनर्व्यवस्थानं किञ्चित् पार्थिवमिन्द्रियं न सर्वाणि ?. कानिचित् आप्यतैजसवायव्यानि
इन्द्रियाणि न सर्वाणि ? इति---
न्य्स्_3,1.69: तव्द्यवस्थानं तु भूयस्त्वात् ॥
अर्थनिर्वृत्तिसमर्थस्य प्रविभक्तस्य द्रव्यस्य संसर्गः पुरुषसंस्कारकारितो भूयस्त्वम्,
दृष्टो हि प्रकर्षे भूयस्त्वशब्दः--
प्रकृष्टो यथा विषयः ऽभूयान्ऽ इत्युच्यते,
यथा पृथगर्थक्रियासमर्थानि पुरुषसंस्कारवशाद्
विषौषधिमणिप्रभृतीनि द्रव्याणि निर्वर्त्यन्ते
न सर्वं सर्वार्थम् एवं पृथग्विषयग्रहणसमर्थानि
घ्राणादीनि निर्वर्त्यन्ते न सर्वविषयग्रहणसमर्थानीति

6.70

********************** न्य्स्भ्_3,1.70 **********************
स्वगुणान् नोपलभन्ते
इन्द्रियाणि, कस्मादितिचेत् ?---
न्य्स्_3,1.70: सगुणानामिन्द्रियभावात् ॥
स्वान् गन्धादीन् नोपलभन्ते घ्राणादीनि।
केन कारणेनेतिचेत् ?, स्वगुणैः सह घ्राणादीनामिन्द्रियभावात् ।
घ्राणं स्वेन गन्धेन समानार्थकारिणा
सह बाह्यं गन्धं गृह्णाति तस्य स्वगन्धग्रहणं
सहकारिवैकल्यान्न भवति. एवं
शेषाणामपि

6.71

********************** न्य्स्भ्_3,1.71 **********************
यदि पुनर्गन्धः सहकारी च स्याद् घ्राणस्य ?
ग्राह्यश्च ( स्यादेव ? ) इत्यत आह---
न्य्स्_3,1.71: तेनैव तस्याग्रहणाच्च ॥
न गुणोपलब्धिरिन्द्रियाणाम्।
यो ब्रूते-- यथा बाह्यं द्रव्यं चक्षुषां
गृह्यते तथा तेनैव चक्षुषा तदेव
चक्षुर्गृह्यतामिति तादृगिदम्-- तुल्यो
ह्युभयत्र प्रतिपत्तिहेत्वभाव इति

6.72

********************** न्य्स्भ्_3,1.72 **********************
न्य्स्_3,1.72: न शब्दगुणोपलब्धेः ॥
ऽस्वगुणान् नोपलभन्ते इन्द्रियाणीत्येतन्न
भवति-- उपलभ्यते हि स्वगुणः शब्दः श्रोत्रेणेति

6.73

********************** न्य्स्भ्_3,1.73 **********************
न्य्स्_3,1.73: तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् ॥
न शब्देन गुणेन सगुणमाकाशमिन्द्रियं
भवति. न शब्दः शब्दस्य व्यञ्जकः।
न च घ्राणादीनां स्वगुणग्रहणं प्रत्यक्षं
नाप्यनुमीयते, अनुमीयते तु श्रोत्रेणाकाशेन
शब्दस्य ग्रहणं शब्दगुणत्वं चाकाशस्येति,
परिशेषश्चानुमानं वेदितव्यम्-- आत्मा
तावत् श्रोता न करणम्, मनसः श्रोत्रत्वे
बधिरत्वाभावः, पृथिव्यादीनां
घ्राणादिभावे सामर्थ्यं श्रोत्रभावे
चासामर्थ्यम्, अस्ति चेदं श्रोत्रम् आकाशं
च शिष्यते परिशेषादाकाशं श्रोत्रमिति

मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc