भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र (टीका सहित) · अध्याय 5

5.1

॥ इति वात्स्यायनीये न्यायभाष्ये द्वितीयाध्यायस्य प्रथममाह्निकम् ॥
अथ न्यायभाष्यद्वितीयाध्यायस्य द्वितीयमान्हिकम् ॥
********************** न्य्स्भ्_2,2.1 **********************
अयथार्थः प्रमाणोद्देश इति मत्वाह---
न्य्स्_2,2.1: न चतुष्ट्वम् ऐतिह्यार्थापत्तिसंभवाभावप्रामाण्यात् ॥
न चत्वार्येव प्रमाणानि।
किं तर्हि ?. ऐतिह्यमर्थापत्तिः संभवो ऽभाव इत्येतान्यपि प्रमाणानि तानि कस्मान्नोक्तानि ?।
ऽइति होचुःऽ इत्य् अनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यम् ऐतिह्यम्।
अर्थादा पत्तिः अर्थापत्तिः. आपत्तिः ।
प्राप्तिः ।
प्रसङ्गः, यत्राभिधीयमाने ऽर्थे यो ऽन्यो ऽर्थः प्रसज्यते सो ऽर्थापत्तिः यथा-- ऽमेघेष्व् असत्सु वृष्टिर्न भवतीति, किमत्र प्रसज्यते ? ऽतत्सु भवतीति।
संभवो नाम अविनाभाविनो ऽर्थस्य सत्ताग्रहणादन्यस्य सत्तग्रहणं यथा-- द्रोणस्य सत्ताग्रहणा-- दाढकस्य सत्ताग्रहणम्. आढकस्य ग्रहणात् प्रस्थस्येति।
अभावः-- विरोधी अभूतं भूतस्य. अविद्यमानं वर्षकर्म विद्यमानस्य वाय्वभ्रसंयोगस्य प्रतिपादकम्-- विधारके हि वाय्वभ्रसंयोगे गुरुत्वादपां पतनकर्म न भवतीति

5.2

********************** न्य्स्भ्_2,2.2 **********************
सत्यम् एतानि प्रमाणानि न तु प्रमाणान्तराणि. प्रमाणान्तरं च मन्यमानेन प्रतिषेध उच्यते सो ऽयम्--
न्य्स्_2,2.2: शब्द ऐतिह्यानर्थान्तरभावाद् अनुमाने ऽर्थापत्तिसंभवाभावानर्थान्तरभावाच्चाप्रतिषेधः ॥
अनुपपन्नः प्रतिषेधः।
कथम्?, ऽआप्तोपदेशः शब्दःऽ इति. न च शब्दलक्षणम् ऐतिह्याद् व्यावर्तते. सोयं भेदः सामान्यात् संगृह्यते इति।
प्रत्यक्षेणाप्रत्यक्षस्य संबद्धस्य प्रपित्तिरनुमानं तथा चार्थापत्तिसंभवाभावाः, वाक्यार्थसंप्रत्ययेनानभिहितस्यार्थस्य प्रत्यकनीकभावाद् ग्रहणम् अर्थापत्तिरनुमानमेव, अविनाभाववृत्त्या च संबद्धयोः समुदायसमुदायिनोः समुदायेनेतरस्य ग्रहणं संभवः तदप्यनुमानमेव, ऽअस्मिन् सतीदं नोपपद्यतेऽ इति विरोधित्वे प्रसिद्धे कार्यानुत्पत्त्या कारणस्य प्रतिबन्धकमनुमीयते।
सोयं यथार्थ एव प्रमाणोद्देश इति ऽसत्यमेतानि प्रमाणानि न तु प्रमाणान्तराणीत्युक्तम्

5.3

********************** न्य्स्भ्_2,2.3 **********************
अत्रार्थापत्तेः प्रमाणभावाभ्यनुज्ञा नोपपद्यते तथा हीयम्---
न्य्स्_2,2.3: अर्थापत्तिरप्रमाणम् अनैकान्तिकत्वात् ॥
असत्सु मेघेषु वृष्टिर्न भवतीति सत्सु भवति इत्येतदार्थादापद्यते. सत्स्वपि चैकदा न भवति. सेयमर्थापत्तिरप्रमाणमिति

5.5

********************** न्य्स्भ्_2,2.4 **********************
नानैकान्तिकत्वमर्थापत्तेः---
न्य्स्_2,2.4: अनर्थापत्तौ अर्थापत्त्यभिमानात् ॥
ऽअसति कारणे कार्यं नोत्पद्यतेऽ इतिवाक्यात् प्रत्यनीकभूतो ऽर्थः-- ऽसति कारणे कार्यमुत्पद्यतेऽ इत्यर्थादापद्यते. अभावस्य हि भावः प्रत्यनीक इति. सोयं कार्योत्पादः सति कारणे ऽर्थादापद्यमानो न कारणस्य सत्तां व्यभिचरति-- न खल्व् असति कारणे कार्यमुत्पद्यते तस्माद् नानैकान्तिकी।
यत्तु ऽसति कारणे निमित्तप्रतिबन्धात् कार्यं नोत्पद्यतेऽ इति ?. कारणधर्मो ऽसौ न त्वर्थापत्तेः प्रमेयम्।
किं तर्ह्यस्याः प्रमेयम् ?, सति कारणे कार्यमुपद्यते इति ।
यो ऽसौ कार्योत्पादः कारणसत्तां न व्यभिचरति तदस्याः प्रमेयम्।
एवं तु सति अनर्थापत्तौ अर्थापत्त्यभिमानं कृत्वा प्रतिषेध उच्यते इति, दृष्टश्च कारणधर्मो न शक्यः प्रत्याख्यातुमिति ॥ 4 1।
********************** न्य्स्भ्_2,2.5 **********************
न्य्स्_2,2.5: प्रतिषेधाप्रामाण्यं चानैकान्तिकत्वात् ॥
ऽअर्थापत्तिर् न प्रमाणम्-- अनैकान्तिकत्वात्ऽ इति वाक्यं प्रतिषेधः तेनानेन अर्थापत्तेः प्रमाणत्वं प्रतिषिध्यते न सद्भावः, एवमनैकान्तिको भवति. अनैकान्तिकत्वादप्रमाणेनानेन न कश्चिदर्थः प्रतिषिध्यते इति

5.6

********************** न्य्स्भ्_2,2.6 **********************
अर्थ मन्यसे नियतविषयेष्वर्थेषु स्वविषये व्यभिचारो भवति. न च प्रतिषेधस्य सद्भावो विषयः ?, एवं तर्हि---
न्य्स्_2,2.6: तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् ॥
अथाङ्पत्तेरपि कार्योत्पादने कारणसत्ताया अव्यभिचारो विषयः न च कारणधर्मो निमित्तप्रतिबन्धात् कायाङ्नुत्पादकत्वमिति

5.7

********************** न्य्स्भ्_2,2.7 **********************
अभावस्य तर्हि प्रमाणभावाभ्यनुज्ञा नोपपद्यते. कथमिति ?---
न्य्स्_2,2.7: नाभावप्रामाण्यम् प्रमेयासिद्धेः ॥
अभावस्य भूयसि प्रमेये लोकसिद्धे वैयात्यादुच्यते--
"नाभावप्रामाण्यम्-- प्रमेयासिद्धेः"
इति

5.8

********************** न्य्स्भ्_2,2.8 **********************
अथायमर्थबहुत्वादर्थैकदेश उदाह्रियते---
न्य्स्_2,2.8: लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः ॥
तस्याभावस्य सिध्यति प्रमेयम्।
कथम् ?. लक्षितेषु वासःसु अनुपादेयेषु, उपादेयानामलक्षितानाम् अलक्षणलक्षितत्वात् = लक्षणाभावेन लक्षितत्वादिति, उभयसंनिधौऽ अलक्षितानि वासांस्यानयऽ इति प्रयुक्तो येषु वासःसतु लक्षणानि न भवन्ति तानि लक्षणाभावेन प्रतिपद्यते प्रतिपद्य चानयति प्रतिपत्तिहेतुश्च प्रमाणमिति

5.9

********************** न्य्स्भ्_2,2.9 **********************
न्य्स्_2,2.9: असत्यर्थे नाभाव इति चेन् नान्यलक्षणोपपत्तेः ॥
यत्र भूत्वा किञ्चिन्न भवति तत्र तस्याभाव उपपद्यते. न चालक्षितेषु वासःसु लक्षणानि भूत्वा न भवन्ति. तस्मात्तेषु लक्षणाभावो ऽनुपपन्न इति, न-- अन्यलक्षणोपपत्तेः ।
यथायमन्येषु वासःसु लक्षणानामुपपत्तिं पश्यति नैवमलक्षितेषु सोयं लक्षणाभावं पश्यन् अभावेनार्थं प्रतिपद्यते इति

5.10

********************** न्य्स्भ्_2,2.10 **********************
न्य्स्_2,2.10: तत्सिद्धेरलक्षितेष्वहेतुः ॥
तेषु वासःसु लक्षितेषु सिद्धिः ।
विद्यमानता येषां भवति न तेषामभावो लक्षणानाम् ।
यानि च लक्षितेषु विद्यन्ते लक्षणानि तेषामलक्षितेष्वभाव इत्य् अहेतुः-- यानि खलु भवन्ति तेषामभावो व्याहत इति

5.11

********************** न्य्स्भ्_2,2.11 **********************
न्य्स्_2,2.11: न लक्षणावस्थितापेक्षासिद्धेः ॥
न ब्रूमो यानि लक्षणानि भवन्ति तेषामभाव इति किं तु केषु चिल्लक्षणान्यवस्थितानि, अनवस्थितानि केषुचित्. अपेक्षमाणो येषु लक्षणानां भावं न पश्यति तानि लक्षणाभावेन प्रपिद्यते इति

5.12

********************** न्य्स्भ्_2,2.12 **********************
न्य्स्_2,2.12: प्रागुत्पत्तेरभावोपपत्तेश्च ॥
अभावद्वैतं खलु भवति-- प्राक् चोत्पत्तेरविद्यमानता. उत्पन्नस्य चात्मनो हानादविद्यमानता. तत्रालक्षितेषु वासःसु प्रागुत्पत्तेरविद्यमानतालक्षणो लक्षणानामभावो नेतर इति

5.13

"आप्तोपदेशः शब्दः 1-1-7"
इति प्रमाणभावे विशेषणं ब्रुवता ऽनानाप्रकारः शब्दःऽ इति ज्ञाप्यते. तस्मिन् सामान्येन विचारः-- किं नित्यो ऽथानित्यः ? इति, विमर्शहेत्वनुयोगे च विप्रतिपत्तेः संशयः, ऽआकाशगुणः शब्दो विभुर्नित्यो ऽभिव्यक्तिधर्मकःऽ इत्येके, गन्धादिसहवृत्तिर्द्रव्येषु संनिविष्टो गन्धादिवदवस्थितो ऽभिव्यक्तिधर्मकःऽ इत्यपरे, ऽआकाशगुणः शब्द उत्पत्तिनिरोधधर्मको बुद्धिवत्ऽ इत्यपरे, ऽमहाभूतसंक्षोभजः शब्दो ऽनाश्रित उत्पत्तिधर्मको निरोधधर्मकःऽ इत्यन्ये. अतः संशयः-- किमत्र तत्त्वम् ? इति, ऽअनित्यः शब्दःऽ इत्युत्तरम् ।
********************** न्य्स्भ्_2,2.13 **********************
कथम् ?---
न्य्स्_2,2.13: आदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच्च ॥
आदिःउयोनिःउकारणम्-- आदीयते ऽस्मादिति. कारणवद् अनित्यं दृष्टम्. संयोगविभागजश्च शब्दः कारणवत्त्वादनित्य इति।
का पुनरियम् अर्थदेशाना-- ऽकारणवत्त्वात्ऽ इति ?, उत्पत्तिधर्मकत्त्वादनित्यः शब्द इति = भूत्वा न भवति = विनाशधर्मक इति।
सांशयिकमेतत्-- किमुत्पत्तिकारणं संयोगविभागौ शब्दस्य ? आहोस्विदभिव्यक्तिकारणम्?. इत्यत आह-- ऐन्द्रियकत्वात् (इति) इन्द्रियप्रत्यासत्तिग्राह्य ऐन्द्रियकः।
किमयं व्यञ्जकेन समानदेशो ऽभिव्यज्यते रूपादिवत् ? अथ संयोगजाच्छब्दाच्छब्दसंताने सति श्रोत्रप्रत्यासन्नो गृह्यते ? इति--- संयोगनिवृत्तौ शब्दग्रहणान्न व्यञ्जकेन समानदेशस्य ग्रहणम्1।
दारुव्रश्चने दारुपरशुसंयोगनिवृत्तौ दूरस्थेन शब्दो गृह्यते. न च व्यञ्जकाभावे व्यङ्ग्यग्रहणं भवति तस्मान्न व्यञ्जकः संयोगः, उत्पादके तु संयोगे संयोगजाच्छब्दाच्छब्दसन्ताने सति श्रोत्रप्रत्यासन्नस्य ग्रहणमिति युक्तं संयोगनिवृत्तौ शब्दस्य ग्रहणमिति।
इतश्चशब्द उत्पद्यते नाभिव्यज्यते-- कृतकवदुपचारातु ऽतीव्रं मन्दम्ऽ इति कृतकमुपचर्यते-- ऽतीव्रं सुखं मन्दं सुखम्. तीव्रं दुःखं मन्दं दुःखम्ऽ इति. उपचर्यते च-- ऽतीव्रः शब्दो मन्दः शब्दःऽ इति।
व्यञ्जकस्य तथाभावाद् ग्रहणस्य तीव्रमन्दता रूपवदिति चेत् ? न-- अभिभवोपपत्तेः।
संयोगस्य व्यञ्जकस्य तीव्रमन्दतया शब्दग्रहणस्य तीव्रमन्दता भवति न तु शब्दो भिद्यते यथा प्रकाशस्य तीव्रमन्दतया रूपग्रहणस्येति, तच्च नैवम्-- अभिभवोपपत्तेःउ तीव्रो भेरीशब्दो मन्दं तन्त्रीशब्दम् अभिभवति न मन्दः, न च शब्दग्रहणमभिभावकं शब्दश्च न भिद्यते (इति), शब्दे तु भिद्यमाने युक्तो ऽभिभवः तस्मादुत्पद्यते शब्दो नाभिव्यज्यते इति।
अभिभवानुपपत्तिश्यच-- व्यञ्जकसमानदेशस्याभिव्यक्तौ प्राप्त्यभावात्3।
ऽव्यञ्जकेन समानदेशो ऽभिव्यज्यते शब्दःऽ इत्येतस्मिन् पक्षे नोपपद्यते ऽभिभवः-- न हि भेरीशब्देन तन्त्रीस्वनः प्राप्त इति।
अप्राप्ते ऽभिभव इतिचेत् ? शब्दमात्राभिभवप्रसङ्गः4।
अर्थ मन्येत ऽअसत्यां प्राप्तावभिभवो भवतीति, एवं सति यथा भेरीशब्दः कञ्चित् तन्त्रीस्वनमभिभवति एवमन्तिकस्थोपादानानिव दवीयःस्थोपादानानपि तन्त्रीस्वनानभिभवेत्-- अप्राप्तेरविशेषात्. तत्र क्वचिदेव भेर्या प्रणादितायां सर्वलोकेषु समानकालास्तन्त्रीस्वना न श्रूयेरन् इति।
नानाभूतेषु शब्दसन्तानेषु सत्सु श्रोत्रप्रत्यासत्तिभावेन कस्यचिच्छब्दस्यौतीव्रेण मन्दस्याभिभवो युक्त इति।
कः पुनरयमभिभवो नाम ?, ग्राह्यसमानजातीयग्रहणकृतमग्रहणम् अभिभवः यथोल्काप्रकाशस्य ग्रहणार्हस्यादित्यप्रकाशेनेति

5.14

********************** न्य्स्भ्_2,2.14 **********************
न्य्स्_2,2.14: न घटाभावसामान्यनित्यत्वाद् नित्येष्वप्यनित्यवदुपचाराच्च ॥
न खल्वादिमत्त्वादनित्यः शब्दः।
कस्मात् ?, व्यभिचारात् = आदिमतः खलु घटाभावस्य दृष्टं नित्यत्वम्।
कथमादिमान् ?, कारणविभागेभ्यो हि घटो न भवति।
कथमस्य नित्यत्वम् ? यो ऽसौ कारणविभागेभ्यो न भवति न तस्याभावो भावेन कदाचिद् निर्वर्त्यते इति।
यदपि ऐन्द्रियकत्वात्. (इति) तदपि व्यभिचरति = ऐन्द्रियकं च सामान्यं नित्यं चेति।
यदपि कृतकवदुपचारादिति. एतदपि व्यभिचरति नित्येष्वनित्यवदुपचारो दृष्टो यथा हि भवति-- ऽवृक्षस्य प्रदेशः कम्बलस्य प्रदेशःऽ एवम्-- ऽआकाशस्य प्रदेश आत्मनः प्रदेशःऽ इति भवतीति

5.15

********************** न्य्स्भ्_2,2.15 **********************
न्य्स्_2,2.15: तत्त्वभाक्तयोर्नानात्वविभागादव्यभिचारः ॥
नित्यमित्यत्र किं तावत् तत्त्वम् ?, अर्थान्तरस्यानुत्पत्तिधर्मकस्यात्महानानुपपत्तिर्नित्यत्वं तच्चाभावे नोपपद्यते, भाक्तं तु भवति-- यत्तत्रात्मानमहासीतुयद् भूत्वा न भवति न जातु तत् पुनर्भवति. तत्र नित्य इव नित्यो घटाभाव इत्ययं पदार्थ इति।
तत्र यथाजातीयकः शब्दो न तथाजातीयकं कार्यं किञ्चिद् नित्यं दृश्यते इत्य् अव्यभिचारः

5.16

********************** न्य्स्भ्_2,2.16 **********************
यदपि ऽसामान्यनित्यत्वात्ऽ इति. इन्द्रियप्रत्यासत्तिग्राह्यम् ऐन्द्रियकम् इति---
न्य्स्_2,2.16: सन्तानानुमानविशेषणात् ॥
ऽनित्येष्वव्यभिचारःऽ इति प्रकृतम्, नेन्द्रियग्रहणसामर्थ्यात् शब्दस्यानित्यत्वम्।
किं तर्हि ?, इन्द्रियप्रत्यासत्तिग्राह्यत्वात् संतानानुमानं तेनानित्यत्वमिति

5.17

********************** न्य्स्भ्_2,2.17 **********************
यदपि-- ऽनित्येष्वप्यनित्यवदुपचारात्ऽ इति. न---
न्य्स्_2,2.17: कारणद्रव्यस्य प्रदेशशब्देनाभिधानाद् नित्येष्वप्यव्यभिचार इति ॥
ऽएवमाकाशप्रदेशः आत्मप्रदेशःऽ इति. नात्राकाशात्मनोः कारणद्रव्यमभिधीयते यथा कृतकस्य।
कथं ह्यविद्यमानमभिधीयते, अविद्यमानता च प्रमाणतो ऽनुपलब्धेः।
किं तर्हि तत्राभिधीयते ?, संयोगस्याव्याप्यवृत्तित्वमुपरिच्छिन्नेन द्रव्येणाकाशस्वय संयोगो नाकाशं व्याप्नोति = अव्याप्य वर्तते इति. तदस्य कृतकेन द्रव्येण सामान्यम्, न ह्यामलकयोः संयोगाश्रयं व्याप्नोति, सामान्यकृता च भक्तिः-- ऽआकाशस्य प्रदेशःऽ इति, अनेनात्मप्रदेशो व्याख्यातः।
संयोगवच्च शब्दबुद्ध्यादीनामव्याप्यवृत्तित्वमिति।
परीक्षिता च तीव्रमन्दता शब्दतत्त्वं न भक्तिकृतेति।
कस्मात् पुनः सूत्रकारस्यास्मिन्नर्थे सूत्रं न श्रूयते इति ?, शीलमिदं भगवतः सूत्रकारस्य बहुष्वधिकरणेषु द्वौ पक्षौ न व्यवस्थापयति, तत्र शास्त्रसिद्धान्तात् तत्त्वावधारणं प्रतिपत्तुमर्हतीति मन्यते, शास्त्रसिद्धान्तस्तु न्यायसमाख्यातमनुमतं बहुशाखमनुमानमिति

5.18

********************** न्य्स्भ्_2,2.18 **********************
अथापि खलु ऽइदमस्ति इदं नास्तीति कुत एतत् प्रतिपत्तव्यमिति ?, प्रमाणत उपलब्धेरनुपलब्धेश्चेति, अविद्यमानस्तर्हि शब्दः---
न्य्स्_2,2.18: प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च ॥
प्रागुच्चारणान्नस्ति शब्दः।
कस्मात् ? अनुपलब्धेः, सतो ऽनुपलब्धिरावरणादिभ्य एतन्नोपपद्यते।
कस्मात् ?. आवरणादीनामनुपलब्धिकारणानामग्रहणात् = अनेनावृतः शब्दो नोपलभ्यते असंनिकृष्टश्चेन्द्रियव्यवधानाद् इत्येवमादि अनुपलब्धिकारणं न गृह्यते इति. सो ऽयमनुच्चारितो नास्तीति।
उच्चारणमस्य व्यञ्जकं तदभावात् प्रागुच्चारणादनुपलब्धिरिति।
किमिदमुच्चारणं नामेति ?, विवक्षाजनितेन प्रयत्नेन कोष्ठ्यस्य वायोः प्रेरितस्य कण्ठताल्वादिप्रतिघाताद् वर्णाभिव्यक्तिरिति।
संयोगविशेषो वै प्रतिघातः प्रतिषिद्धं च संयोगस्य व्यञ्जकत्वं तस्मान्न व्यञ्जकाभावादग्रहणम् अपि त्वभावादेवेति. सोयमुच्चार्यमाणः श्रूयते श्रूयमाणश्चाभूत्वा भवति इत्यनुमीयते. ऊर्ध्वञ्चोच्चारणान्न श्रूयते स भूत्वा न भवति = अभावान्न श्रूयते इति।
कथम् ?. "आवरणाद्यनुपलब्धेः"इत्युक्तं तस्मादुत्पत्तितिरोभावधर्मकः शब्द इति

5.19

********************** न्य्स्भ्_2,2.19 **********************
एवं च सति तत्त्वं पांशुभिरिवावाकिरन्निदमाह---
न्य्स्_2,2.19: तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः ॥
यद्यनुपलम्भादावरणं नास्ति ?. आवरणानुपलब्धिरपि तर्ह्यनुपलम्भान्नास्तीति. तस्या अभावादप्रतिषिद्धमावरणमिति।
कथं पुनर्जानीते भवान् नावरणानुपलब्धिरुपलभ्यते ? इति।
किमत्र ज्ञेयं प्रत्यात्मवेदनीयत्वात्।
समानम् = अयं खल्वावरणमनुपलभमानः प्रत्यात्ममेव संवेदयते-- ऽनावरणमुपलभेऽ इति, यथा कुड्येनावृतस्यावरणमुपलभमानः प्रत्यात्ममेव संवेदयते, सेयमावरणोपलब्धिवद् आवरणानुपलब्धिरपि संवेद्यैवेति, एवं च सत्यपहृतविषयमुत्तरवाक्यमस्तीति

5.20

********************** न्य्स्भ्_2,2.20 **********************
अभ्यनुज्ञावादेव तूच्यते जातिवादिना---
न्य्स्_2,2.20: अनुपलम्भादप्यनुपलब्धिसद्भाववद् नावरणानुपपत्तिरनुपलम्भात् ॥
यथानुपलभ्यमानाप्यावरणानुपलब्धिरस्ति एवमनुपलभ्यमानमप्यावरणमस्तीति।
यद्यभ्यनुजानाति भवान्-- ऽनानुपलीयमानावरणानुपलब्धिरस्तीति. अभ्यनुज्ञावय च वदति-- ऽनास्त्यावरणमनुपलम्भात्ऽ इत्येतत्. एतस्मिन्नप्यभ्यनुज्ञावादे प्रतिपत्तिनियमो नोपपद्यते इति

5.21

********************** न्य्स्भ्_2,2.21 **********************
न्य्स्_2,2.21: अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥
युदपलभ्यते तदस्ति. यन्नोपलभ्यते तन्नास्तीति अनुपलम्भात्मकम् असदिति व्यवस्थितम्, उपलब्ध्यभावश्चानुपलब्धिरिति सेयमभावत्वान्नोपलभ्यते सचच खल्वावरणं तस्योपलब्ध्या भवितव्यं न नोपलभ्यते तस्मान्नास्तीति।
तत्र यदुक्तम्-- "नावरणानुपपत्तिरनुपलम्भात्" इत्य् अयुक्तमिति

5.22

********************** न्य्स्भ्_2,2.22 **********************
अथ शब्दस्य नित्यत्वं प्रतिजानानः कस्माद् हेतोः प्रतिजानीते ?---
न्य्स्_2,2.22: अस्पर्शत्वात् ॥
अस्पर्शमाकाशं नित्यं दृष्टमिति तथा च शब्द इति

5.24

सो ऽयमुभयतः सव्यभिचारः-- स्पर्शवांश्चाणुर्नित्यः. अस्पर्शं च कर्मानित्यं दृष्टम्।
"अस्पर्शत्वात्" इत्येतस्य साध्यसाधर्म्येणोदाहरणम्---
********************** न्य्स्भ्_2,2.23 **********************
न्य्स्_2,2.23: न कर्मानित्यत्वात् ॥
साध्यवैधर्म्येणोदाहरणम्---
********************** न्य्स्भ्_2,2.24 **********************
न्य्स्_2,2.24: नाणुनित्यत्वात् ॥
उभयस्मिन्नुदाहरणे व्यभिचारान्न हेतुः

5.25

********************** न्य्स्भ्_2,2.25 **********************
अयं तर्हि हेतुः---
न्य्स्_2,2.25: संप्रदानात् ॥
संप्रदीयमानमवस्थितं दृष्टं संप्रदीयते च शब्द आचार्येणान्तेवासिने तस्मादवस्थित इति

5.26

********************** न्य्स्भ्_2,2.26 **********************
न्य्स्_2,2.26: तदन्तरालानुपलब्धेरहेतुः ॥
येन संप्रदीयते यस्मै च तयोरन्तराले ऽवस्थानमस्य केन लिङ्गेनोपलभ्यते ?, सप्रदीयमानो ह्यवस्थितः संप्रादातुरपैति संप्रदानं च प्राप्नोति इत्यवर्जनीयमेतत्

5.27

********************** न्य्स्भ्_2,2.27 **********************
न्य्स्_2,2.27: अध्यापनादप्रतिषेधः ॥
अध्यापनं लिङ्गम्-- असति संप्रदाने ऽध्यापनं न स्यादिति

5.28

********************** न्य्स्भ्_2,2.28 **********************
न्य्स्_2,2.28: उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः ॥
समानमध्यापनमुभयोः पक्षयोः-- संशयानिवृत्तेः-- किमाचार्यस्थः शब्दो ऽस्तेवासिनमापद्यते तदध्यापनम् ? आहो स्वित् नृत्योपदेशवद् गृहीतस्यानुकरणम् अध्यापनम् ? इति,
एवमध्यापनमलिङ्गं संप्रदानस्येति

5.29

********************** न्य्स्भ्_2,2.29 **********************
अयं तर्हि हेतुः---
न्य्स्_2,2.29: अभ्यासात् ॥
अभ्यस्यमानमवस्थितं दृष्टम्-- ऽपञ्चकृत्वः पश्यतीति रूपमवस्थितं पुनः पुनर्दृश्यते, भवति च शब्दे ऽभ्यासः-- ऽदशकृत्वो ऽधीतो ऽनुवाकः विंशतिकृत्वो ऽधीतःऽ इति, तस्मादवस्थितस्य पुनः पुनरुच्चारणम् अभ्यास इति

5.30

********************** न्य्स्भ्_2,2.30 **********************
न्य्स्_2,2.30: नान्यत्वेप्यभ्यासस्योपचारात् ॥
अनवस्थानेप्यभ्यासस्याभिधानं भवति-- ऽद्विर्नृत्यतु भवान् त्रिर्नृत्यतु भवान्ऽ इति ऽद्विरनृत्यत् त्रिरनृत्यत्ऽ ऽद्विरग्निहोत्रं जुहोतिऽ ऽद्विर्भुङ्क्तेऽ (इति)

5.31

********************** न्य्स्भ्_2,2.31 **********************
एवं व्यभिचारात् प्रतिषिद्धहेतौ अन्यशब्दस्य प्रयोगः प्रतिषिध्यते---
न्य्स्_2,2.31: अन्यदन्यस्माद् अनन्यत्वादनन्यदित्यन्यताभावः ॥
यदिदम् ऽअन्यत्ऽ इति मन्यसे तत् स्वात्मनो ऽनन्यत्वादन्यन्न भवति एवमन्यताया अभावः, तत्र यदुक्तम्-- ऽअन्यत्वेप्यभ्यासोपचारात्ऽ इति एतदयुक्तमिति

5.32

********************** न्य्स्भ्_2,2.32 **********************
शब्दप्रयोगं प्रतिषेधतः शब्दान्तरप्रयोगः प्रतिषिध्यते---
न्य्स्_2,2.32: तदभावे नास्त्यनन्यता तयोरितरेतरापेक्षसिद्धेः ॥
अन्यस्माद् अन्यतामुपपादयति भवान् उपपाद्य च अन्यत् प्रत्याचष्टे, ऽअनन्यत्ऽ इति च शब्दमनुजानाति. प्रयुङ्क्ते च ऽअनन्यत्ऽ इति एतत् समासपदम्. अन्यशब्दोयं प्रतिषेधेन सह समस्यते. यदि चात्रोत्तरं पदं नास्ति कस्यायं प्रतिषेधेनन सह समासः ?, तस्मात् तयोरन्यानन्यशब्दयोरितरो ऽनन्यशब्द इतरमन्यशब्दमपेक्षमाणः सिध्यतीति तत्र यदुक्तम्-- ऽअन्यताया अभावःऽ इति एतदयुक्तमिति

5.33

********************** न्य्स्भ्_2,2.33 **********************
अस्तु तर्हिदानीं शब्दस्य नित्यत्वम्---
न्य्स्_2,2.33: विनाशकारणानुपलब्धेः ॥
यदनित्यं तस्य विनाशः कारणाद् भवति यथा लोष्टस्य कारणद्रव्यविभागात्, शब्दश्चेदनित्यस्तस्य विनाशो यस्मात्कारणाद् भवति तदुपलभ्येत न चोपलभ्यते तस्मान्नित्य इति

5.34

********************** न्य्स्भ्_2,2.34 **********************
न्य्स्_2,2.34: अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः ॥
यथा विनाशकारणानुपलब्धेरविनाशप्रसङ्गः एवमश्रवणकारणानुपलब्धेः सततं श्रवणप्रसङ्गः।
व्यञ्जकाभावादश्रवणमितिचेत् ?. प्रतिषिद्धं व्यञ्जकम्।
अथ विद्यमानस्य निर्निमित्तम् अश्रवणमिति ?. विद्यमानस्य निर्निमित्तो विनाश इति।
समानश्च दृष्टविरोधो निमित्तमन्तरेण विनाशे चाश्रिवणे चेति

5.35

********************** न्य्स्भ्_2,2.35 **********************
न्य्स्_2,2.35: उपलभ्यमाने चानुपलब्धेरसत्त्वाद् अनपदेशः ॥
अनुमानाच्चोपलभ्यमाने शब्दस्य विनाशकरणे ऽबवनाशकारणानुपलब्धेः = असत्त्वात्ऽ इत्यनपदेशः यथा ऽयस्माद्विषाणी तस्मादश्वःऽ इति।
किमनुमानमितिचेत् ?. संतानोपपत्तिः, उपपादितः शब्दसंतानः-- संयोगविभागजात् शब्दाच्छब्दान्तरं ततोप्यन्यत् ततोप्यन्यदिति, तत्र कार्यः शब्दः कारणशब्दं विरुणद्धि. प्रतिघातिद्रव्यसंयोगस्तु अन्त्यस्य शब्दस्य निरोधकः, दृष्टं हि तिरःप्रतिकुड्यमन्तिकस्थेनाप्यश्रवणं शब्दस्य श्रवणं दूरस्थेनाप्यसति व्यवधाने इति।
घण्टायामभिहन्यमानायां तारस्तारतरो मन्दो मन्दतर इति श्रुतिभेदाद् नानाशब्दसंतानो ऽविच्छेदेन श्रूयते, तत्र नित्ये शब्दे घण्टास्थमन्यगतं वावस्थितं संतानवृत्ति वा अभिव्यक्तिकारणं वाच्यं येन श्रुतिसंतानो भवतीति, शब्दभेदे चासति श्रुतिभेद उपपादयितव्य इति।
अनित्ये तु शब्दे घण्टास्थं संतानवृत्ति संयोगसहकारि निमित्तान्तरं संस्कारभूतं पटुमन्दमनुवर्तते तस्यानुवृत्त्या शब्दसंतानानुवृत्तिः पटुमन्दभावाच्च तीव्रमन्दता शब्दस्य. तत्कृतश्च श्रुतिभेद इति

5.36

********************** न्य्स्भ्_2,2.36 **********************
न वै निर्निमित्तान्तरं संस्कार उपलभ्यते अनुपलब्धेर्नास्तीति---
न्य्स्_2,2.36: पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः ॥
पाणिकर्मणा पाणिघण्टाप्रश्लेषो भवति तस्मिंश्च सति शब्दसंतानो नोपलभ्यते अतः श्रवणानुपपत्तिः, तत्र प्रतिघातिद्रव्यसंयोगः शब्दस्य निमित्तान्तरं संस्कारभूतं निरुणद्धीत्यनुमीयते. तस्य च निरोधात् शब्दसंतानो नोत्पद्यते अनुत्पन्ने च श्रुतिविच्छेदः, यथा प्रतिघातिद्रव्यसंयोगादिषोः क्रियाहेतौ संस्कारे निरुद्धे गमनाभाव इति।
कम्पसंतानस्य स्पर्शनेन्द्रियग्राह्यस्य चोपरमः कांस्यपात्रादिषु पाणिसंश्लेषो लिङ्गं संस्कारसंतानस्येति, तस्मान्निमित्तान्तरस्य संस्कारभूतस्य नानुपलब्धिरिति

5.37

********************** न्य्स्भ्_2,2.37 **********************
न्य्स्_2,2.37: विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥
यदि यस्य विनाशकारणं नोपलभ्यते तदवतिष्ठते अवस्थानाच्च तस्य नित्यत्वं प्रसज्यते ? एवं यानि खल्पिमानि शब्दश्रवणानि शब्दाभिव्यक्तय इति मतं न तेषां विनाशकारणं भवतोपपाद्यते अनुपपादनादवस्थानम् अवस्थानात् तेषां नित्यत्वं प्रसज्यते इति, अथ नैवम् ?ः न तर्हि विनाशकारणानुपलब्धेः शब्दस्यावस्थानान्नित्यत्वमिति

5.38

********************** न्य्स्भ्_2,2.38 **********************
कम्पसमानाश्रयस्य चानुनादस्य पाणिप्रश्लेषात् कारणोपरमादभावः, वैयधिकरण्ये हि प्रतिघातिद्रव्याप्रश्लेषात् समानाधिकरणस्यैवोपरमः स्यादिति।
न्य्स्_2,2.38: अस्पर्शत्वादप्रतिषेधः ॥
यदिदम् ऽनाकाशगुणः शब्दःऽ इति प्रतिषिध्यते. अयमनुपपन्नः प्रतिषेधः-- अस्पर्शत्वात् शब्दाश्रयस्य, रूपादिसमानदेशस्याग्रहणे शब्दसंतानोपपत्तेरस्पर्शव्यापिद्रव्याश्रयः शब्दः इति ज्ञायते न च कम्पसमानाश्रय इति

5.39

********************** न्य्स्भ्_2,2.39 **********************
प्रतिद्रव्यं रूपादिभिः सह संनिविष्टः शब्दः समानदेशो व्यज्यते इति नोपपद्यते।
कथम् ?
न्य्स्_2,2.39: विभक्त्यन्तरोपपत्तेश्च समासे ॥
संतानोपपत्तेश्चेति चार्थः, तद् व्याख्यातम्।
यदि रूपादयः शब्दश्च प्रतिद्रव्यं समस्ताःउसमुदितास्तस्मिन् समाससमुदाये यो यथाजातीयकः संनिविष्टस्तस्य तथाजातीयस्यैव ग्रहणेन भवितव्यं शब्दस्य रूपादिवत्, तत्र यो ऽयं विभागः एक द्रव्ये नानारूपा भिन्नश्रुतयो विधर्माणः शब्दः अभिव्यज्यमानाः यच्च विभागान्तरं सरूपाः समानश्रुतयः सधर्माणः शब्दाः तीव्रमन्दधर्मतया भिन्नाः श्रूयन्ते. तदुभयं नोपपद्यते-- नानाभूतानामुत्पद्यमानानामयं धर्मो नैकस्य व्यज्यमानस्येति।
अस्ति चायं विभागो विभागान्तरं च तेन विभागोपपत्तेर्मन्यामहे-- न प्रतिद्रव्यं रूपादिभिः सह शब्दः संनिविष्टो व्यज्यते इति

5.40

********************** न्य्स्भ्_2,2.40 **********************
द्विविधश्चायं शब्दः-- वर्णात्मको ध्वनिमात्रश्च तत्र वर्णात्मनि तावत्---
न्य्स्_2,2.40: विकारादेशोपदेशात् संशयः ॥
ऽदध्यत्रऽ इति केचिद् इकारः इत्वं हित्वा यत्वमापद्यते इति विकारं मन्यन्ते, केचिद् इकारस्य प्रयोगे विषयकृते यद् इकारः स्थानं जहाति तत्र यकारस्य प्रयोगं ब्रुवते, संहितायां विषये इकारो न प्रयुज्यते तस्य स्थाने यकारः प्रयुज्यते स आदेश इति, उभयमिदमुपदिश्यते तत्र न ज्ञायते किं तत्त्वमिति ॥
आदेशोपदेशस्तत्त्वम्--- विकारोपदेशे ह्यन्वयस्याग्रहणाद् विकाराननुमानमिति5।
सत्यन्वये किञ्चिद् निवर्तते किञ्चिदुपजायते इति शक्येत विकारो ऽनुमातुं न चान्वयो गृह्यते तस्माद् विकारो नास्तीति॥
भिन्नकरणयोश्च वर्णयोरप्रयोगे प्रयोगोपपत्तिः।
विवृतकरण इकारः ईषत्स्पृष्टकरणो यकारः ताविमौ पृथक् करणाख्येन प्रयत्नेनोच्चारणीयौ तयोरेकस्याप्रयोगे ऽन्यस्य प्रयोग उपपन्न इति॥
अविकारे चाविशेषः7।
यत्रेमौ इकारयकारौ न विकारभूतौ-- ऽयतते. चछति. प्रायंम्तऽ इति. ऽइकारः इदम्ऽ इति च, यत्र च विकारभूतौ-- ऽदृष्ट्याऽ ऽदध्याहरऽ इति उभयत्र प्रयोक्तुरविशेषो यत्नः श्रोतुश्च श्रुतिरत्यादेशोपिपत्तिः ॥
प्रयुज्यमानाग्रहणाच्च8।
न खलु इकारः प्रयुज्यमानो यकारतामापद्यमानो गृह्यते, किं तर्हि ?. इकारस्य प्रयोगे यकारः प्रयुज्यते. तस्मादविकार इति ॥
अविकारे च न शब्दान्वाख्यानलोप9ः।
न विक्रियन्ते वणा इति।
न चैतस्मिन् पक्षे शब्दान्वाख्यानस्यासंभवो येन वर्णविकारं प्रतिपद्येमहीति।
न खलु वर्णस्य वर्णान्तरं कार्यम्-- न हि इकाराद् यकार उत्पद्यते यकाराद्वा इकारः, पृथक्स्थानप्रयत्नोत्पाद्या हीमे वर्णास्तेषामन्यो ऽन्यस्य स्थाने प्रयुज्यते इति युक्तम्।
एतावच्चैतत् परणामो विकारः स्यात् कार्यकारणभावो वा, उभयं च नास्ति तस्मान्न सन्ति वर्णविकारः ॥
वर्णसमुदायविकारानुपपत्तिवच्च वर्णविकारानुपप10त्तिः।
"अस्तेर्भूः" "ब्रुवो वचिः"इति यथा वर्णसमुदायस्य धातुलक्षणस्य क्वचिद्विषये वर्णान्तरसमुदायो न परणामो नि कार्यं शब्दान्तरस्य स्थाने शब्दान्तरं प्रयुज्यते तथा वर्णस्य वर्णान्तरमिति

5.41

********************** न्य्स्भ्_2,2.41 **********************
इतश्च न सन्ति विकाराः---
न्य्स्_2,2.41: प्रकृतिविवृद्वौ विकारवृद्धेः ॥
प्रकृत्यनुविधानं विकारेषु दृष्टं यकारे हस्वदीर्घानुविधानं नास्ति येन विकारत्वमनुमीयत इति

5.42

********************** न्य्स्भ्_2,2.42 **********************
न्य्स्_2,2.42: न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः ॥
दव्यविकारा न्यूनाः समा अधिकाश्च गृह्यन्ते. तद्वदयं विकारो न्यूनः स्यादिति।
द्विविधस्यापि हेतोर् अभावाद् असाधनं दृष्टान्तः-- अत्र नोदाहरणसाधर्म्याद् हेतुरस्ति न वैधर्म्यात्. अनुपसंहृतश्च हेतुना दृष्टान्तो न साधक इति ॥
प्रतिदृष्टान्ते चानियमः प्रसज्येत10।
यथानडुहः स्थाने ऽश्वो वोडुं नियुक्तो न तद्विकारो भवति. एवमिवर्णस्य स्थाने यकारः प्रयुक्तो न विकार इति।
न चात्र नियमहेतुरस्ति-- दृष्टान्तः साधको न प्रतिदृष्टान्त इति

5.43

********************** न्य्स्भ्_2,2.43 **********************
द्रव्यविकारोदाहरणं च---
न्य्स्_2,2.43: नातुल्यप्रकृतीनां विकारविकल्पात् ॥
अतुल्यानां द्रव्याणां प्रकृतिभावो विकल्पने विकारश्च प्रकृतीरनुविधीयते, न त्विवर्णमनुविधीयते यकारः तस्मादनुदाहरणम्-- ऽद्रव्यविकारःऽ इति

5.44

********************** न्य्स्भ्_2,2.44 **********************
न्य्स्_2,2.44: द्रव्यविकारे वैषम्यवद् वर्णविकारविकल्पः ॥
यथा द्रव्यभावेन तुल्यायाः प्रकृतेर्विकारवैषम्यम् एवं वर्णभावेन तुल्यायाः प्रकृतेर्विकारविकल्प इति

5.45

********************** न्य्स्भ्_2,2.45 **********************
न्य्स्_2,2.45: न विकारधर्मानुपपत्तेः ॥
अयं विकारधर्मः-- द्रव्यसामान्ये यदात्मकं द्रव्यं मृद्वा सुवर्णं वा तस्यात्मनो ऽन्वये पूर्वो व्यूहो निवर्तते व्यूहान्तरं चोपजायते तं विकारमाचक्षते, न वर्णसामान्ये कश्चिद् शब्दात्मान्वयी य इत्वं जहाति यत्वं चापद्यते, तत्र यथा सति द्रव्यभावे विकारवैषम्ये नानडुहो ऽश्वो विकारः-- विकारधर्मानुपपत्तेः, एवमिवर्णस्य न यकारो विकारः-- विकारधर्मानुपपत्तेरिति

5.46

********************** न्य्स्भ्_2,2.46 **********************
इतश्च न सन्ति वर्णविकाराः---
न्य्स्_2,2.46: विकारप्राप्तानामपुनरापत्तेः ॥
अनुपपन्ना पुनरापत्तिः।
कथम् ?. पुनरापत्तेरननुमानादिति।
इकारो यकारत्वमापन्नः पुनरिकारो भवति।
न पुनरिकास्य स्थाने यकारस्य प्रयोग इत्यत्रानुमानं नास्ति ?

5.47

********************** न्य्स्भ्_2,2.47 **********************
न्य्स्_2,2.47: सुवर्णादीनां पुनरापत्तेरहेतुः ॥
अननुमानादिति न-- इदं ह्यनुमानम्-- सुवर्णं कुण्डलत्वं हित्वा रुचकत्वमापद्यते रुचकत्वं हित्वा पुनः कुण्डलत्वमापद्यते, एवमिकारो यणि यकारत्वमापन्नः पुनरिकारो भवतीति

5.48

व्यभिचारादननुमानम्-- यथा पयो दधिभावमापन्नं पुनः पयो न भवति-- किमेवं वर्णानां न पुनरापत्तिः ?. अथ सुवर्णवत् पुनरापत्तिरिति ?
********************** न्य्स्भ्_2,2.48 **********************
सूवर्णोदाहरणोपपत्तिश्च---
न्य्स्_2,2.48: न तद्विकाराणां सुवर्णभावाव्यतिरेकात् ॥
अवस्थितं सुवर्णं हीयमानेनोपजायमानेन च धर्मेण धर्मि भवति नैवं कश्चित् शब्दात्मा हीयमानेन इत्वेन उपजायमानेन यत्वेन च धर्मी गृह्यते तस्मात् सुवर्णोदाहरणं नोपपद्यते इति

5.49

********************** न्य्स्भ्_2,2.49 **********************
न्य्स्_2,2.49: वर्णत्वाव्यतिरेकाद् वर्णविकाराणामप्रतिषेधः ॥
वर्णविकारा अपि वर्णत्वं न व्यभिचरन्ति यथा सुवर्णविकारः सुवर्णत्वमिति

5.50

********************** न्य्स्भ्_2,2.50 **********************
न्य्स्_2,2.50: सामान्यवतो धर्मयोगो न सामान्यस्य ॥
कुण्डलरुचकौ सुवर्णस्य धर्मौं न सुवर्णत्वस्य. एवमिकारयकारौ कस्य वर्णात्मनो धर्मौं ? वर्णत्वं सामान्यं न तस्येमौ धर्मौं भवितुमर्हतः, न च निवर्तमानो धर्म उपजायमानस्य प्रकृतिःउतत्र निवर्तमान इकारो न यकारस्योपजायमानस्य प्रकृतिरिति

5.51

********************** न्य्स्भ्_2,2.51 **********************
इतश्च वर्णविकारानुपपत्तिः---
न्य्स्_2,2.51: नित्यत्वे ऽविकारादनित्यत्वे चानवस्थानात् ॥
ऽनित्या वर्णाःऽ इत्येतस्मिनृ पक्षे इकारयकारौ वर्णौं इत्युभयोर्नित्यत्वाद् विकारानुपपत्तिः, नित्यत्वे ऽविनाशित्वात् कः कस्य विकार इति ?।
अथ ऽअनित्या वर्णाःऽ इतिपक्षः ? एवमप्यनवस्थानं वर्णानाम्।
किमिदमनवस्थानं वर्णानाम् ?, उत्पद्य निरोधः, उत्पद्य निरुद्धे इकारे यकार उत्पद्यते. यकारे चोत्पद्य निरुद्धे इकार उत्पद्यते, कः कस्य विकारः ?।
तदेतद् अवगृह्य संधाने. संधाय चावग्रहे वेदितव्यमिति

5.52

********************** न्य्स्भ्_2,2.52 **********************
नित्यपक्षे तु तावत्समाधिः---
न्य्स्_2,2.52: नित्यानामतीन्द्रियत्वात्तद्धर्मविकल्पाच्च वर्णविकाराणामप्रतिषेधः ॥
ऽनित्या वर्णा न विक्रियन्तेऽ इति विप्रतिषेधः, यथा नित्यत्वे सति किञ्चिदतीन्द्रियं किञ्चिदिन्र्दियग्राह्यम् इन्द्रियग्राह्याश्च वर्णाः. एवं नित्यत्वे सति किञ्चिनन विक्रियते वर्णास्तु विक्रियन्ते इति ॥
विरोधादहेतुः-- तद्धर्मविकल्पः, नित्यं नोपजायते नापैति ।
अनुपजनापायधर्मकं नित्यम्. अनित्यं पुनरुपजनापाययुक्तम्.
न चान्तरेणोपजनापायौ विकारः संभवति.
तद् यदि वर्णा विक्रियन्ते ? नित्यत्वमेषां
निवर्तते, अथ नित्याः ? विकारधर्मत्वमेषां
निवर्तते, सोयं विरुद्धो हेत्वाभासो
धर्मविकल्प इति

5.53

********************** न्य्स्भ्_2,2.53 **********************
अनित्यपक्षे समाधिः---
न्य्स्_2,2.53: अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपलब्धिः ॥
यथानवस्थायिनां
वर्णानां श्रवणं भवत्येवमेषां विकारो
भवतीति ॥
असंबन्धादसमर्था।
अर्थप्रतिपादिका वर्णोपलब्धिर्न विकारेण संबन्धादसमर्था
या गृह्यमाणा वर्णविकारमनुमापयेदिति,
तत्र यादृगिदम्-- यथा गन्धगुणा पृथिवी एवं
शब्दसुखादिगुणापीति. तादृगेतद् भवतीति।
नच वर्णोपलब्धिर्वर्णनिवृत्तौ वर्णान्तरप्रयोगस्य
निर्वर्तिका, यो ऽयमिवर्णनिवृत्तौ यकारस्य
प्रयोगः यद्ययमिवर्णोपलब्ध्या निर्वर्तते
तदा तत्रोपलभ्यमान इवर्णो यत्वमापद्यते
इति गृह्येत ?, तस्माद्वर्णोपलब्धिरहेतुर्वर्णविकारस्येति

5.54

********************** न्य्स्भ्_2,2.54 **********************
न्य्स्_2,2.54: विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे ऽविकारोपपत्तेश्चाप्रतिषेधः ॥
"तद्धर्मविकल्पात्"
इति न युक्तः प्रतिषेधः-- न खलु विकारधर्मकं
किञ्चिद् नित्यमुपलभ्यते इति।
"वर्णोपलब्धिवत्"
इति ( च ) न युक्तः प्रतिषेधः-- अवग्रहे हि ऽदधि अत्रऽ
इति प्रयुज्य चिरं स्थित्वा ततः संहितायां
प्रयुङ्क्ते-- ऽदध्यत्रऽ इति. चिरनिवृत्ते चायमिवर्णे
यकारः प्रयुज्यमानः कस्य विकार इति प्रतीयते ? ।
कारणाभावात् कार्याभाव इत्युनयोगः
प्रसज्यते इति

5.55

********************** न्य्स्भ्_2,2.55 **********************
इतश्च वर्णविकारानुपपत्तिः---
न्य्स्_2,2.55: प्रकृत्यनियमाद् वर्णविकाराणाम् ॥
इकारस्थाने यकारः
श्रूयते. यकारस्थाने खल्विकारो विधीयते--
विध्यति ( इति ), तद् यदि स्यात् प्रकृतिविकारभावो
वर्णानाम् ? तस्य प्रकृतिनियमः स्यात्-- दृष्टो
विकारधर्मित्वे प्रकृतिनियम इति

5.56

********************** न्य्स्भ्_2,2.56 **********************
न्य्स्_2,2.56: अनियमे नियमाद् नानियमः ॥
योयं प्रकृतेरनियम उक्तः स नियतः ।
यथाविषयं व्यवस्थितः-- नियतत्वान्नियम
इति भवति, एवं सत्यनियमो नास्ति. तत्र
यदुक्तम्--
"प्रकृत्यनियमात्"
इति एतदयुक्तमिति

5.57

********************** न्य्स्भ्_2,2.57 **********************
न्य्स्_2,2.57: नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः ॥
नियम इत्यत्रार्थाभ्यनुज्ञा. अनियम इति तस्य प्रतिषेधः. अनुज्ञाततिषिद्धयोश्च व्याघातादनर्थान्तरत्वं न भवति.
अनियमश्च नियतत्वाद् नियमो न भवतीति।
नात्रार्थस्य तथाभावः प्रतिषिध्यते, किं तर्हि ?. तथाभूतस्यार्थस्य
नियमशब्देनाभिधीयमानस्य नियतत्वाद्
नियमशब्द एवोपपद्यते, सोयं नियमादनियमे
प्रतिषेधो न भवतीति

5.58

********************** न्य्स्भ्_2,2.58 **********************
न चेयं वर्णविकारोपपत्तिः परिणामात्
कार्यकारणभावाद्वा, किं तर्हि ?---
न्य्स्_2,2.58: गुणान्तरापत्त्युपमर्दह्रातवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्णविकाराः ॥
स्थान्यादेशभावादप्रयोगे
प्रयोगो विकारशब्दार्थः स भिद्यते-- गुणानतरापत्तिः = उदात्तस्यानुदत्त इत्येवमादिः, उपमर्दे
नाम एकरूपनिवृत्तौ रूपान्तरोपजनः, ह्रासः ।
दीर्घस्य ह्रास्वः, वृद्धिः ।
ह्रस्वस्य दीर्घः तयोर्वाप्लुतः, लेशः ।
लाघवम् ऽस्तःऽ इत्यस्तेर्विकारः, श्लेषः ।
आगमः प्रकृतेः प्रत्ययस्य वा, एते एव विशेषाः
विकारा इति एते एवादेशाः. एते चेद्विकारा
उपपद्यन्ते तर्हि वर्णविकारा इति

5.59

********************** न्य्स्भ्_2,2.59 **********************
न्य्स्_2,2.59: ते विभक्त्यन्ताः पदम् ॥
यथादर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंज्ञा भवन्ति।
विभक्तिर्द्वयी-- नामिकी आख्यातिकी च ऽब्राह्मणःऽ
ऽपचतीत्युदाहरणम्।
उपसर्गनिपातास्तर्हि
न पदसंज्ञाः लक्षणान्तरं वाच्यमिति,
शिष्यते च खलु नामिक्या विभक्तेरव्ययाल्लोपस्तयोः
पदसंज्ञार्थमिति।
पदेनार्थसंप्रत्यय इति
प्रयोजनम्

5.60

********************** न्य्स्भ्_2,2.60 **********************
नामपदं चाधिकृत्य परीक्षा-- गौरिति ( नाम ) पदं खलु. इदमुदाहरणम्---
तदर्थे
न्य्स्_2,2.60: व्यक्त्याकृतिजातिसंनिधावुपचारात् संशयः ॥
अविनाभाववृत्तिः संनिधिः, अविनाभावेन
वर्तमानासु व्यक्त्याकृतिजातिषु गौरिति
प्रयुज्यते तत्र न ज्ञायते-- किमन्यतमः पदार्थः ? उत सर्वः ? इति

5.61

********************** न्य्स्भ्_2,2.61 **********************
शब्दस्य प्रयोगसामर्थ्यात् पदार्थावधारणं
तस्मात्---
न्य्स्_2,2.61: याशब्दसमूहत्यागपरिग्रहसंख्यावृद्ध्यपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद् व्यक्तिः ॥
व्यक्तिः पदार्थः, कस्मात् ?. याशब्दप्रभृतीनां
व्यक्तावुपचारात्।
उपचारः ।
प्रयोगः, ऽया गौस्तिष्ठति या गौर्निषण्णाऽ
इति. नूदं वाक्यं जातेरभिधायकम्-- अभेदात्.
भेदात्तु द्रव्याभिधायकम्, ऽगवां समूहःऽ इति भेदाद् द्रव्याभिधानं. न जातेः--
अभेदात्, ऽवैद्याय गां ददातीति द्रव्यस्य त्यागो. न जातेः-- अमूर्तत्वात् प्रतिक्रमानुक्रमानुपपत्तेश्च, परिग्रहः ।
स्वत्वेनाभिसंबन्धः ऽकौण्डिन्यस्य गौःऽ ऽब्राह्मणस्य
गौःऽ इति द्रव्याभिधोन द्रव्यभेदात् संबन्धभेद
इत्युपपन्नम्. अभिन्ना तु जातिरिति, संख्या--
ऽदश गावो विंशतिर्गावःऽ इति भिन्नं द्रव्यं
संख्यायते. न जातिः-- अभेदादिति, वृद्धिः ।
कारणवतो द्रव्यस्यावयवोपचयः-- ऽअवर्धत
गौःऽ इति. निरवयवा तु जातिरिति, एतेनापचयो
व्याख्यातः, वर्णः-- ऽशुक्ला गौः कपिला गौःऽ
इति द्रव्यस्य गुणयोगो न सामान्यस्य,
समासः-- ऽगोहितं गोसुखम्ऽ इति द्रव्यस्य
सुखादियोगो न जातेरिति, अनुबन्धः--
सरूपप्रजननसन्तानः-- ऽगौर्गां जनयतीति
तद् उत्पत्तिधर्मत्वाद् द्रव्ये युक्तं. न जातौ--
विपर्ययादिति।
द्रव्यं व्यक्तिरिति हि नार्थान्तरम्

5.62

********************** न्य्स्भ्_2,2.62 **********************
अस्य प्रतिषेधः---
न्य्स्_2,2.62: न तदनवस्थानात् ॥
न व्यक्तिः पदार्थः, कस्मात् ?
अनवस्थानात्, याशब्दप्रभृतिभिर्यो विशेष्यते
स गोशब्दार्थः-- ऽया गौस्तिष्ठति या गौर्निषण्णाऽ
इति न द्रव्यमात्रमविशिष्टं जात्या विनाभिधीयते ऽ
किं तर्हि ?. जातिविशिष्टं. तस्मान्न व्यक्तिः पदार्थः।
एवं समूहादिषु द्रष्टव्यम्

5.63

********************** न्य्स्भ्_2,2.63 **********************
यदि न व्यक्तिः पदार्थः कथं तर्हि
व्यक्तावुपचार इति ?. निमित्ताद् अतद्भावे ऽपि
तदुपचारो दृश्यते खलु---
न्य्स्_2,2.63: सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाकटान्नपुरुषेष्वतद्भावे ऽपि तदुपचारः ॥
अतद्भावेपि तदुपचार इति ।
अतच्छब्दस्य तेन शब्देनाभिधानमिति, सहचरणात्--
ऽयष्टिकां भोजयऽ इति यष्टिकासहचरितो
ब्राह्मणो ऽभिधीयते इति, स्थानात्-- ऽमञ्चाः
क्राशन्तीति मञ्चस्थाः पुरुषा अभिधीयन्ते,
तादर्थ्यात्-- कटार्थेषु वीरणेषु
व्यूह्यमानेषु ऽकटं करोतीति भवति,
वृत्तात्-- ऽयमो राजाऽ ऽकुबेरो राजाऽ
इति तद्वद्वर्तते इति, मानात्-- आढकेन
मिताः सक्तवः ऽआढकं सक्तवःऽ इति, धारणात्--
तुलया धृतं चन्दनम् ऽतुला चन्दनम्ऽ इति,
सामीप्यात्-- ऽगङ्गायां गावश्चरन्तीति
देशो ऽभिधीयते संनिकृष्टः, योगात्--
कृष्णेन रागेण युक्तः शाकटः ऽकृष्णःऽ इत्यभिधीयते,
साधनात्-- ऽअन्नं प्राणाःऽ इति, आधिपत्यात्--
ऽअयं पुरुषः कुलम्ऽ ऽअयं गोत्रम्ऽ इति।
तत्रायं
सहचरणाद् योगाद् वा जातिशब्दो व्यक्तौ
प्रयुज्यते इति

5.64

********************** न्य्स्भ्_2,2.64 **********************
यदि ऽगौःऽ इत्यस्य पदस्य न व्यक्तिरर्थः ? अस्तु तर्हि---
न्य्स्_2,2.64: आकृतिस् तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः ॥
आकृतिः पदार्थः, कस्मात् ?. पदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः ।
सत्त्वावयवानां तदवयवानां च नियतो व्यूह आकृतिः तस्यां गृह्यमाणायां सत्त्वव्यवस्थानं सिध्यति-- ऽअयं गौःऽ ऽअयमश्वःऽ इति. नागृह्यमाणायाम्. यस्य ग्रहणात् सत्त्वव्यवस्थानं सिध्यति तं शब्दो ऽभिधातुमर्हति ।
सो ऽस्यार्थ इति ॥ नैतदुपपद्यते-- यस्य जात्या योगस्तदत्र जातिविशिष्टमभिधीयते-- ऽगौःऽ इति. न चावयवव्यूहस्य जात्या योगः।
कस्य तर्हि ?. नियतावयवव्यूहस्य द्रव्यस्य, तस्माद् नाकृतिः पदार्थः

5.65

********************** न्य्स्भ्_2,2.65 **********************
अस्तु तर्हि जातिः पदार्थः---
न्य्स्_2,2.65: व्यक्त्याकृतियुक्ते ऽप्य् अप्रसंगात् प्रोक्षणादीनां मृद्गवके जातिः ॥
जातिः
पदार्थः, कस्मात् ?. व्यक्त्याकृतियुक्तेपि मृद्गवके
प्रोक्षणादीनामप्रसङ्गादिति = ऽगां प्रोक्षयऽ ऽगामानयऽ ऽगां देहीति
नैतानि मृद्गवके प्रयुज्यन्ते, कस्मात् ?
जातेरभावात्, अस्ति हि तत्र व्यक्तिरस्ति
आकृतिः, यदभावात् तत्रासंप्रत्ययः स पदार्थ
इति

5.66

********************** न्य्स्भ्_2,2.66 **********************
न्य्स्_2,2.66: नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तेः ॥
जातेरभिव्यक्तिः आकृतिव्यक्ती अपेक्षते ।
नागृह्यमाणायामाकृतौ व्यक्तौ ( च ) जातिमात्रं
शुद्धं गृह्यते तस्मान्न जातिः पदार्थ इति

5.67

********************** न्य्स्भ्_2,2.67 **********************
न वै पदार्थेन न भवितुं
शक्यम्।
कः खल्विदानीं पदार्थ इति ?---
न्य्स्_2,2.67: व्यक्त्याकृतिजातयस्तु पदार्थः ॥
तुशब्दो विशेषणार्थः, किं
विशिष्यते ?. प्रधानाङ्गभावस्यानियमेन
पदार्थत्वमिति. यदा हि भेदविवक्षा विशेषगतिश्च
तदा व्यक्तिः प्रधानमङ्गं तु जात्याकृती. यदा
तु भेदो ऽविवक्षितः सामान्यगतिश्च तदा
जातिः प्रधानमङ्गं तु व्यक्त्याकृती, तदेतद्
बहुलं प्रयोगेषु।
आकृतेस्तु प्रधानभाव
उत्प्रेक्षितव्यः

5.68

********************** न्य्स्भ्_2,2.68 **********************
कथं पुनर्ज्ञायते नाना व्यक्त्याकृतिजातय इति ?. लक्षणभेदात्,
तत्र तावत्---
न्य्स्_2,2.68: व्यक्तिर्गुणविशेषाश्रयो मूर्तिः ॥
व्यज्यते इति व्यक्तिः ।
इन्द्रियग्राह्येति. न सर्वं द्रव्यं व्यक्तिः, यो
गुणविशेषाणां स्पर्शान्तानां गुरुत्वधनत्वद्रवत्वसंस्काराणाम्
अव्यापिनः परिमाणस्याश्रयो यथासंभवं
तद्द्रव्यं मूर्तिः-- मूर्छितावयवत्वादिति

5.69

********************** न्य्स्भ्_2,2.69 **********************
न्य्स्_2,2.69: आकृतिर्जातिलिङ्गाख्या ॥
यया जातिर्जातिलिङ्गानि च प्रख्यायन्ते
तामाकृतिं विद्यात्. सा च नान्या सत्त्वावयवानां
तदवयवानां च नियताद् व्यूहादिति।
नियतावयवव्यूहाः
खलु सत्त्वावयवा जातिलिङ्गम्-- शिरसा
पादेन गामनुमिन्वन्ति ।
नियते च सत्त्वावयवानां व्यूहे सति गोत्वं
प्रख्यायते इति।
अनाकृतिव्यङ्ग्यायां जातौ
ऽमृत्ऽ ऽसुवर्णम्ऽ ऽरजतम्ऽ इत्येवमादिष्वाकृतिर्निवर्तते ।
जहाति पदार्थत्वमिति

5.70

********************** न्य्स्भ्_2,2.70 **********************
न्य्स्_2,2.70: समानप्रसवात्मिका जातिः ॥
या समानां बुद्धिं प्रसूते भिन्नेष्वधिकरणेषु.
यया बहूनि इतरेतरतो न व्यावतेन्ते.
यो ऽर्थो ऽनेकत्र प्रत्ययानुवृत्तिनिमित्तं तत् सामान्यम्, यच्च केषां चिदभेदं केषाञ्चिद् भेदं करोति तत् सामान्यविशेषो जातिरिति

मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc