न्यायसूत्र (टीका सहित) · अध्याय 4
॥ वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य द्वितीयाह्निकम् ॥
समाप्तश्चायं प्रथमो ऽध्यायः ।
श्री श्रीनिवास स्वामि, श्री विनायक स्वामि, श्री सरस्वती देवी,
ओं
अथ सटीके न्यायभाष्ये द्वितीयाध्यायस्य प्रथममाह्निकम्
********************** न्य्स्भ्_2,1.1 **********************
अत ऊर्ध्वं प्रमाणादिपरीक्षा सा च"विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः 1-1-41"इत्यग्रे विमर्श एव परीक्ष्यते---
न्य्स्_2,1.1: समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशय ॥
समानस्य धर्मस्याध्यवसायात् संशयो न धर्ममात्रात्, अथ वा ऽसमानमनयोर्धर्ममुपलभेऽ इति धर्मधर्मिग्रहणे संशयाभाव इति, अथ वा समानधर्माध्यवसायादर्थान्तरभूते धर्मिणि संशयो ऽनुपपन्नः-- न जातु रूपासयार्थान्तरभूतस्याध्यवसायादर्थान्तरभूते स्पर्शे संशय इति, अथ वा नाध्यवसायात् = अर्थावधारणाद् अनवधारणज्ञानं संशय उपपद्यते--- कार्यकारणयोः सारूप्याभवादिति।
एतेन"अनेकधर्माध्यवसायात्"इति व्याख्यातम्।
अन्यतरधर्माध्यवसायाच्च संशयो न भवति-- ततो ह्यन्यतरावधारणमेवेति
********************** न्य्स्भ्_2,1.2 **********************
न्य्स्_2,1.2: विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च ॥
न विप्रतिपत्तिमात्रादव्यवस्थामात्राद्वा संशयः, किं तर्हि ?. विप्रतिपत्तिमुपलभमानस्य संशयः, एवमव्यवस्थायामपीति।
अथ वा ऽअस्त्यात्माऽ इत्येके ऽनास्त्यात्माऽ इत्यपरे मन्यन्ते इत्युपलब्धेः कथं संशयः स्यात् ? इति।
तथोपलब्धिरव्यवस्थिता अनुपलब्धिश् चाव्यवस्थितेति विभागेनाध्यवसिते संशयो नोपपद्यते इति
********************** न्य्स्भ्_2,1.3 **********************
न्य्स्_2,1.3: विप्रतिपत्तौ च संप्रतिपत्तेः ॥
यां व विप्रतिपत्तिं भवान् संशयहेतुं मन्यते सा संप्रतिपत्तिः-- सा हि द्वयोः प्रत्यनीकधर्मविषया, तत्र यदि विप्रत्तिपत्तेः संशयः ? संप्रतिपत्तेरेव संशय इति
********************** न्य्स्भ्_2,1.4 **********************
न्य्स्_2,1.4: अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः ॥
न संशयः, यदि तावदियमव्यवस्था आत्मन्येव व्यवस्थिता ? व्यवस्थानादव्यवस्था न भवतीत्यनुपपन्नः संशयः, अथाव्यवस्थात्मनि न व्यवस्थिता ? एवमतादात्म्यादव्यवस्था न भवतीति संशयाभाव इति
********************** न्य्स्भ्_2,1.5 **********************
न्य्स्_2,1.5: तथात्यन्तसंशयस् तद्धर्मसातत्योपपत्तेः ॥
येन कल्पेन भवान् समानधर्मोपपत्तेः संशय इति मन्यते तेन खल्व् अत्यन्तसंशयः प्रसज्यते-- समानधर्मोपपत्तेरनुच्छेदात् संशयानुच्छेदः-- नायमतद्धर्मा धर्मी विमृश्यमानो गृह्यते सततं तु तद्धर्मा भवतीति
********************** न्य्स्भ्_2,1.6 **********************
अस्य प्रतिषेधप्रपञ्चस्य संक्षेपेणोद्धारः---
न्य्स्_2,1.6: यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो नात्यन्तसंशयो वा ॥
न संशयानुत्पत्तिः संशयानुच्छेदश्च प्रसज्यते, कथम् ?. यत्तावत्-- ऽसमानधर्माध्यवसायः संशयहतुः न समानधर्ममात्रमिति,ऽ एवमेतत्।
कस्मादेवं नोच्यते ? इति,"वशेषापेक्षिः"इतिवचनात् तत्सिद्धेः. विशेषस्यापेक्षा = आकाङ्क्षा सा चानुपलभ्यमाने वशेषे सिमर्था।
न चोक्तम्-- ऽसमानधर्मापेक्षःऽ इति।
समाने च धर्मे कथमाकाङ्क्षा न भवेद् यद्ययमप्रत्यक्षः म्यात्, एतेन सामर्थ्येन वज्ञायिते-- ऽसमानधर्माध्यवसायात्ऽ इति।
उपपत्तिवचनाद्वा. समानधर्मोपपत्तेरित्युच्यते. न चान्या सद्भावसंवेदनादृते समानधर्मोपपत्तिरस्ति, अनुपलभ्यमानसद्भावो हि समानो धर्मो ऽवद्यिमानवद् भवतीति।
वषियशब्देन वा वषियिणः प्रत्ययस्याभिधानं यथा लोके ऽधूमेनाग्निरनुमीयतेऽ इत्युक्ते ऽधूमदर्शनेनाग्निरनुमीयतेऽ इतिज्ञायते, कथम् ?. दृष्ट्वा हि धूममथाग्निमनुमिनोति नादृष्टे. न चं वाक्ये दर्शनशब्दः श्रूयते. अनुजानाति च वाक्यस्यार्थप्रत्यायकत्वं तेन मन्यामहे-- वषियशब्देन वषियिणः प्रत्ययस्याभिधानं बोद्धानुजानाति. एवमिहापि समानधर्मशब्देन समानधर्माध्यवसायमाहेति।
यदुक्तम्-- ऽसमानमनयोधर्ममुपलभे इति धर्मधर्मिग्रहणे संशयाभावःऽ इति, पूर्वदृष्टविषयमेततुयावहमर्थौ पूर्वमद्राक्षं तयोः समानं धर्ममुपलभे विशेषं नोपलभे इति. कथं नु विशेषं पश्येयं येनान्यतरमवधारयेयमिति, न चैतत् समानधर्मोपलब्धौ धर्मधर्मिग्रहणमात्रेण निवर्तते इति।
यच्चोक्तम्-- नार्थान्तराध्यवसायादन्यत्र संशय इति. यो ह्यर्थान्तराध्यवसायमात्रं संशयहेतुमुपाददीत स एवं वाच्य इति।
यत्पुनरेतत्-- कार्यकारणयोः सारूप्याभावादिति, कारणस्य भावाभावयोः कार्यस्य भावाभावौ कार्यकारणयोः सारूप्यमुयस्योत्पादात् यदुत्पद्यते यस्य चानुत्पादाद् यन्नोत्पद्यते तत् कारणं कार्यमितरद् इत्येत्सारूप्यम् अस्ति च संशयकारणे संशये चैतदिति।
एतेन अनेकधर्माध्यवसायादिति प्रतिषेधः परिहृत इति।
यत्पुनरेतदुक्तम्-- विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च न संशय इति, पृथक्प्रवादयोर्व्याहतमर्थमुपलभे विशेषं च न जानामिउनोपलभे येनान्यतरमवधारयेयं तत्कोत्र विशेषः स्याद् येनैकतरमवधारयेयमिति संशयो विप्रतिपत्तिजनितोयं न शक्यो विप्रतिपत्तिसंप्रतिपत्तिमात्रेण निवर्तयितुमिति।
एवम् उपलब्ध्यनुपलब्ध्यव्यवस्थाकृते संशये वेदितव्यमिति।
यत्पुनरेतत्--"विप्रतिपत्तौ च संप्रतिपत्तेः3"इति, विप्रतिपत्तिशब्दस्य योर्थः तदध्यवसायो विशेषापेक्षः संशयहेतुस्तस्य च समाख्यान्तरेण न निवृत्तिःउसमाने ऽधिकरणे व्याहतार्थौ प्रवादौ विप्रतिपत्तिशब्दस्यार्थः तदध्यवसायश्च विशेषापेक्षः संशयहेतुः न चास्य संप्रतिपत्तिशब्दे समाख्यान्तरे योज्यमाने संशयहेतुत्वं निवर्तते. तदिदमकृतबुद्धिसंमोहनमिति।
यत्पुनः"अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः4"इति, संशयहेतोरर्थस्याप्रतिषेधात् अव्यवस्थाभ्यनुज्ञानाच्च निमित्तान्तरेण शब्दान्तरकल्पना व्यर्था, शब्दान्तरकल्पना-- ऽअव्यवस्था खल्व् अव्यवस्था न भवति-- अव्यवस्थात्मनि व्यवस्थितत्वादितिऽ ।
नानयोरुपलब्ध्यनुपलब्ध्योः सदसद्विषयत्वं विशेषापेक्षं संशयहेतुर्न भवतीति प्रतिषिध्यते।
यावता चाव्यवस्थात्मनि व्यवस्थिता न तावतात्मानं जहाति तावता ह्यनुज्ञाता भवत्यव्यवस्था, एवमियं क्रियमाणापि शब्दान्तरकल्पना नार्थान्तरं साधयतीति।
यत्पुनरेतत्-- "तथात्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः5"इति, नायं समानधर्मादिभ्य एव संशयः।
किं तर्हि ?. तद्विषयाध्यवसायाद् विशेषस्मृतिसहितात् इति. अतो नात्यन्तसंशय इति।
"अन्यतरधर्माध्यवसायाद्वा न संशयः"इति. तन्न युक्तम्-- विशेषापेक्षो विमर्शः संशयः इतिवचनात्. विशेषश्चान्यतरधर्मो न तस्मिन्न् अध्यवसीयमाने विशेषापेक्षा संभवतीति
********************** न्य्स्भ्_2,1.7 **********************
न्य्स्_2,1.7: यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥
यत्र यत्र संशयपूर्विका परीक्षा शास्त्रे कथायां वा तत्र तत्रैवं संशये परेण प्रतिषिद्धे समाधिर्वाच्य इति, अतः सर्वपरीक्षाव्यापित्वात् प्रथमं संशयः परीक्षित इति
********************** न्य्स्भ्_2,1.8 **********************
अथ प्रमाणपरीक्षा---
न्य्स्_2,1.8: प्रत्यक्षादीनामप्रामाण्यम्-- त्रैकाल्यासिद्धेः ॥
प्रत्यक्षादीनां प्रमाण्यं नास्ति-- त्रैकाल्यासिद्धेःउपूर्वापरसहभावानुपपत्तेरिति
********************** न्य्स्भ्_2,1.9 **********************
अथ सामान्यवचनस्यार्थविभागः---
न्य्स्_2,1.9: पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसंनिकर्षात् प्रत्यक्षोत्पत्तिः ॥
गन्धादिविषयं ज्ञानं प्रत्यक्षं तद् यदि पूर्वं पश्चाद् गन्धादीनां सिद्धिः ? नेदं गन्धादि संनिकर्षादुत्पद्यते इति
********************** न्य्स्भ्_2,1.10 **********************
न्य्स्_2,1.10: पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः
असति प्रमाणे केन प्रमीयमाणो ऽर्थः प्रमेयः स्यात् ?, प्रमाणेन खलु प्रमीयमाणो ऽर्थः प्रमेयम् इत्येतत् सिध्यति ॥
********************** न्य्स्भ्_2,1.11 **********************
न्य्स्_2,1.11: युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् ॥
यदि प्रमाणं प्रमेयं च युगपद् भवतः ? एवमपि गन्धादिष्विन्द्रियार्थेषु ज्ञानानि प्रत्यर्थनियतानि युगपद् संभवन्तीति ज्ञानानां प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावःउया इमा बुद्धयः क्रमेणार्थेषु वर्तन्ते तासां क्रमवृत्तित्वं न संभवतीति।
व्याघातश्च-- "युगपद् ज्ञानानुत्पत्तिर्मनसो लिङ्गम् 1-1-26"इति, एतावांश्च प्रमाणप्रमेययोः सद्भावविषयः स चानुपपन्न इति, तस्मात् प्रत्यक्षादीनां प्रमाणत्वं न संभवतीति
अस्य समाधिः--- उपलब्धिहेतोरुपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावा- ऽनियमाद् यथादर्शनं विभागवचनम्2. क्वचिदुपलब्धिहेतुः पूर्वं पश्चादुपलब्धिविषयो यथादित्यस्य प्रकाशः, उत्पद्यमानानां क्वचित् पूर्वमुपलब्धिविषयः पश्चादुपलब्धिहेतुर्यथावस्थितानां प्रदीपः, क्वचिदुपलब्धिहेतुरुपलब्धिविषयश्च सह भवतो यथा धूमेनाग्नेर्ग्रहणमिति। उपलब्धिहेतुश्च प्रमाणं प्रमेयं तूपलब्धिविषयः। एवं प्रमाणप्रमेययोः पूर्वापरसहभावे ऽनियते यथार्थो दृश्यते तथा विभज्य वचनीय इति, तत्रैकान्तेन प्रतिषेधानुपपत्तिः-- सामान्येन खलु विभज्य प्रतिषेध उक्त इति। समाख्याहेतोस्रैकाल्ययोगात् तथाभूता समाख्या3. यत्पुनरिदम्-- ऽपश्चात्सिद्धौउअसति प्रमाणे प्रमेयं न सिध्यति-- प्रमाणेन प्रमीयमाणो ऽर्थः प्रमेयमिति विज्ञायतेऽ इति, प्रमाणमित्येतस्याः समाख्याया उपलब्धिहेतुत्वं निमित्तं तस्य त्रैकाल्ययोगः-- ऽउपलब्धिमकार्षीत्ऽ ऽउपलब्धिं करोतिऽ ऽउपलब्धिं करिष्यतिऽ इति समाख्याहेतोः त्रैकाल्ययोगात् समाख्या तथाभूता, प्रमितो ऽनेनार्थः प्रमीयते प्रमास्यते इति प्रमाणम्. प्रमितं प्रमीयते प्रमास्यते इति च प्रमेयम्, एवं सति भविष्यत्यस्मिन् हेतुत उपलब्धिःउप्रमास्यते ऽयमर्थः प्रमेयमिदम् इत्येतत्सर्वं भवतीति।
त्रैकाल्यानभ्यनुज्ञाने च व्यवहारानुपप4त्तिः. यश्चैवं नाभ्यनुजानीयात् तस्य ऽपाचकमानय पक्ष्यतिऽ ऽलावकमानय लविष्यतीतिव्यवहारो नोपपद्यते इति।
"प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः 2-1-8"इत्येवमादिवाक्यं प्रमाणप्रतिषेधः. तत्रायं प्रष्टव्यः- अथानेन प्रतिषेधेन भवता किं क्रियते इति, किं संभवो निवर्त्यते ? अथासंभावो ज्ञाप्यते ? इति, तद् यदि संभवो निवर्त्यते ? सति संभवे प्रत्यक्षादीनां प्रतिषेधानुपपत्तिः, अथासंभवो ज्ञाप्यते ? प्रमाणलक्षणं प्राप्तस्तर्हि प्रतिषेधः-- प्रमाणासंभवस्योपलब्धिहेतुत्वादिति
********************** न्य्स्भ्_2,1.12 **********************
किं चातः---
न्य्स्_2,1.12: त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥
अस्य तु विभागः-- पूर्वं हि प्रतिषेधसिद्धावसति प्रतिषेध्ये किमनेन प्रतिषिध्यते ?, पश्चात् सिद्धौ प्रतिषेधासिद्धिः- प्रतिषेधाभावादिति, यूगपत्सिद्धौ प्रतिषेध्यसिद्ध्यभ्यनुज्ञानादनर्थकः प्रतिषेध इति, प्रतिषेधलक्षणे च वाक्ये ऽनुपपद्यमाने सिद्धं प्रत्यक्षादीनां प्रमाणत्वमिति
********************** न्य्स्भ्_2,1.13 **********************
न्य्स्_2,1.13: सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः ॥
कथम् ?. "त्रैकाल्यासिद्धेः"इत्यस्य हेतोर्यद्युदाहरणमुपादीयते ? हेत्वर्थस्य साधकत्वं दृष्टान्ते दर्शयितव्यमिति. न च तर्हि प्रत्यक्षादीनामप्रामाण्यम्, अथ प्रत्यक्षादीनामप्रामाण्यम् ?. उपादीयमानमप्युदाहरणं नार्थं साधयिष्यतीति. सोयं सर्वप्रमाणैर्व्याहतो हेतुरहेतुः-- "सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः 1-2-6"इति, वाक्यार्थो ह्यस्य सिद्धान्तः स च वाक्यार्थः-- ऽप्रत्यक्षादीनि नार्थं साधयन्तिऽ इति. इदं चावयवानामुपादानमर्थस्य साधनायेति। अथ नोपादीयते? अप्रदर्शितहेत्वर्थस्य दृष्टान्ते न साधकत्वमिति प्रतिषेधो नोपपद्यते-- हेतुत्वासिद्धेरिति
********************** न्य्स्भ्_2,1.14 **********************
न्य्स्_2,1.14: तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥
प्रतिषेधलक्षणे स्ववाक्ये तेषामवयवाश्रितानां प्रत्यक्षादीनां प्रामाण्ये ऽभ्यनुज्ञायमाने परवाक्येप्यवयवाश्रितानां प्रामाण्यं प्रसज्यते-- अविशेषादिति. एवं च न सर्वाणि प्रमाणानि प्रतिषिध्यन्ते इति।"विप्रतिषेधः"इति वीत्ययमुपसर्गः संप्रतिपत्त्यर्थे नव्याघाते-- अर्थाभावादिति
********************** न्य्स्भ्_2,1.15 **********************
न्य्स्_2,1.15: त्रैकाल्याप्रतिषेधश्च शब्दादातोद्यसिद्धिवत्तत्सिद्धेः ॥
किमर्थं पुनरिदमुच्यते ? पूर्वोक्तनिबन्धनार्थम्. यत्तावत् पूर्वोक्तम्-- ऽउपलब्धिहेतोरुपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावानियमाद् यथादर्शनं विभागवचनम्ऽ इति तदितः समुत्त्थानं यथा विज्ञायेत।
अनियमदर्शी खल्वयं क्रृषिर्नियमेन प्रतिषेधं प्रत्याचष्टे-- त्रैकाल्यस्य चायुक्तः प्रतिषेध इति।
तत्रैकां विधामुदाहरति-- शब्दादातोद्यसिद्धिवदिति, यथा पश्चात् सिद्धेन शब्दने पूर्वसिद्धमातोद्यमनुमीयते. साध्यं चातोद्यं साधनं च शब्दः. अन्तर्हिते ह्यातोद्ये स्वनतो ऽनुमानं भवतीति-- वीणा वाद्यते वेणुः पूर्यते इति स्वनविशेषेणातोद्यविशेषं प्रतिपद्यते. तथा पूर्वसिद्धमुपलब्धिविषयं पश्चात्सिद्धेनोपलब्धिहेतुना प्रतिपद्यते इति. निदर्शनार्थत्वाच्चास्य शेषयोर्विधयोर्यथोक्तमुदाहरणं वेदितव्यमिति।
कस्मात् पुनरिह तन्नोच्यते पूर्वोक्तमुपपाद्यते ? इति, सर्वथा तावदयमर्थः प्रकाशयितव्यः स इह वा प्रकाश्येत तत्र वा न कश्चिद्विशेष इति।
प्रमाणं प्रमेयमिति च समाख्या समावेशेन वर्तते-- समाख्यानिमित्तवशात्. समाख्यानिमित्तं तूपलब्धिसाधनं प्रमाणम् उपलब्धिविषयश्च प्रमेयमिति. यदा चोपलब्धिविषयः क्वचिदुपलब्धिसाधनं भवति तदा प्रमाणं प्रमेयमिति चैको ऽर्थो ऽभिधीयते
********************** न्य्स्भ्_2,1.16 **********************
अस्यार्थस्यावद्योतनार्थमिदमुच्यते---
न्य्स्_2,1.16: प्रमेयता च तुलाप्रामाण्यवत् ॥
गुरुत्वपरिमाणज्ञानसाधनं तुला प्रमाणम्. ज्ञानविषयो गुरुद्रव्यं सुवर्णादि प्रमेयम्. यदा (च) सुवर्णादिना तुलान्तरं व्यवस्थाप्यते तदा तुलान्तरप्रतिपत्तौ सुवर्णादि प्रमाणं तुलान्तरं प्रमेयमिति, एवमनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः-- आत्मा तावदुपलबिधविषयत्वात् प्रमेये परिपठितः उपलब्धौ च स्वातन्त्र्यात् प्रमाता, बुद्धिरुपलब्धिसाधनत्वात् प्रमाणम्. उपलब्धिविषयत्वात् प्रमेयम्. उभयाभावात् प्रमितिः एवमर्थविशेषे समाख्यासमावेशो योज्यः।
तथा च कारकशब्दा निमित्तवशात् समावेशेन वर्तन्ते इति. ऽवृक्षस्तिष्ठतीति स्वस्थितौ स्वातन्त्र्यात् कर्ता, ऽवृक्षं पश्यतीतिदर्शनेनाप्तुमिष्यमाणत्वात् कर्म. ऽवृक्षेण चन्द्रमसं ज्ञापयतीति ज्ञापकस्य साधकतमत्वात् करणम्. ऽवृक्षायोदकमासिञ्चतीति आसिच्यमानेनोदकेन वृक्षमभिप्रैतीति संप्रदानम्. ऽवृक्षात् पर्णं पततीति "ध्रुवमपाये ऽपादानम्" इत्यपादानम्. ऽवृक्षे वयांसि सन्तीति "आधारो ऽधिकरणम्" इत्यधिकरणम्, एवं च सति च द्रव्यमात्रं कारकं न वा क्रियामात्रम्।
किं तर्हि ? क्रियासाधनं क्रियाविशेषयुक्तं कारकम्--- यत् क्रियासाधनं स्वतन्त्रः स कर्ता. न द्रव्यमात्रं न क्रियामात्रम्, क्रियया व्याप्तुमिष्यमाणतमं कर्म. न द्रव्यमात्रं न क्रियामात्रम्, एवं साधकतमादिष्वपि, एवं च कारकान्वाख्यानं यथैवोपपत्तित एवं लक्षणतः कारकान्वाख्यानमपि न द्रव्यमात्रेण न क्रियया वा।
किं तर्हि ?. क्रियासाधने क्रियाविशेषयुक्त इति, कापरकशब्दश्चायं प्रमाणं प्रमेयमिति स च कारकधर्मं न हातुमर्हति. अस्ति भो कारकशब्दानां निमित्तवशात् समावेशः प्रत्यक्षादीनि च प्रमाणानि-- उपलब्धिहेतुत्वात्. प्रमेयं च-- उपलब्धिविषयत्वात्, संवेद्यानि प्रत्यक्षादीनि प्रमाणानि च-- ऽप्रत्यक्षेणोपलभे अनुमानेनोपलभे उपमानेनोपलभे आगमेनोपलभे. प्रत्यक्षं मे ज्ञानम् आनुमानिकं मे ज्ञानम् औपमानिकं मे ज्ञानम् आगमिकं मे ज्ञानम्ऽ इति विशेषा गृह्यन्ते, लक्षणतश्च ज्ञाप्यमानानि ज्ञायन्ते विशेषेण-- ऽइन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानम्ऽ इत्येवमादिना
सेयमुपलब्धिः प्रत्यक्षादिविषया किं प्रमाणान्तरतः ? अथान्तरेण प्रमाणम् = असाधना ? इति, कश्चात्र विशेषः ?,
********************** न्य्स्भ्_2,1.17 **********************
न्य्स्_2,1.17: प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥
यदि प्रत्यक्षादीनि प्रमाणेनोपलभ्यन्ते ? येन प्रमाणेनोपलभ्यन्ते तत् प्रमाणान्तरमस्तीनि प्रमाणान्तरसद्भावः प्रसज्यते इत्यनवस्थामाह-- तस्याप्यन्येन तस्याप्यन्येनेति, न चानवस्था शक्यानुज्ञातुम्-- अनुपपत्तेरिति
********************** न्य्स्भ्_2,1.18 **********************
न्य्स्_2,1.18: तद्विनिवृत्तर्वा प्रमाणसिद्धिवत् प्रमेयसिद्धि ॥
यदि प्रत्यक्षाद्युपलब्धौ प्रमाणान्तरं निवर्तते ? आत्मेत्युपलब्धावपि प्रमाणान्तरं निवर्त्स्यति-- अविशेषात्. एवं च सर्वप्रमाणविलोप इति
********************** न्य्स्भ्_2,1.19 **********************
अत आह---
न्य्स्_2,1.19: न प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः ॥
यथा प्रदीपप्रकाशः प्रत्यक्षाङ्गत्वाद् दृश्यदर्शने प्रमाणं स च प्रत्यक्षान्तरेण
चक्षुषः संनिकर्षेण गृह्यते, प्रदीपभावाभावयोर्दर्शनस्य तथाभावाद् दर्शनहेतुरनुमीयते. ऽतमसि प्रदीपमुपाददीथाःऽ इत्याप्तोपदेशेनापि प्रतिपद्यते, एवं प्रत्यक्षादीनां यथादर्शनं प्रत्यक्षादिभिरेवोपसब्धिः।
इन्द्रियाणि तावत् स्वविषयग्रहणेनैवानुमीयन्ते. अर्थाः प्रत्यक्षतो गृह्यन्ते. इन्द्रियार्थसंनिकर्षास्त्वावरणेन लिङ्गेनानुमीयन्ते. इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमात्ममनसोः संयोगविशेषादात्मसमवायाच्च सुखादिवद् गृह्यते. एवं प्रमाणविशेषो विभज्य वचनीयः।
यथा च दृश्यः सन् प्रदीपप्रकाशो दृश्यान्तराणां दर्शनहेतुरिति दृश्यदर्शनव्यवस्थां लभते एवं प्रमेयं सत् किञ्चिदर्थजातमुपलब्धिहेतुत्वात् प्रमाणप्रमेयव्यवस्थां लभते, सेयं प्रतयक्षादिभिरेव प्रत्यक्षादीनां यथादर्शनमुपलब्धिर्न प्रमाणान्तरतो न च प्रमाणमन्तेरण निःसाधनेति ॥
तनैव तस्याग्रहणमिति चेत् ? न-- अर्थभेदस्य लक्षणसामान्यात्5।
प्रत्यक्षादीनां प्रत्यक्षादिभिरेव ग्रहणमित्ययुक्तम्-- अन्येन ह्यन्यस्य ग्रहणं दृष्टमिति, न-- अर्थभेदस्य लक्षणसामान्यातुप्रत्यक्षलक्षणेनानेकोर्थः संगृहीतस्तत्र केन चित् कस्यचिद् ग्रहणमित्यदोषः, एवमनुमानादिष्वपीति, यथोद्धृतेनोदकेनाशयस्थस्य ग्रहणमिति ॥
ज्ञातृमनसोश्च दर्शनात्6।
ऽअहं सुखी अहं दुःखी चऽ इति तेनैव ज्ञात्रा तस्यैव ग्रहणं दृश्यते."
युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्"
इति च तेनैव मनसा तस्यैवानुमानं दृश्यते, ज्ञातुर्ज्ञेयस्य चाभेदो ग्रहणस्य ग्राह्यस्य चाभेद इति ॥
निमित्तभेदो ऽत्रेति चेत् ? समानम्7।
न निमित्तान्तरेण विना ज्ञातात्मानं जानीते. न च निमित्तान्तरेण विना मनसा मनो गृह्यते इति, समानमेतत् ।
प्रत्यक्षादिभिः प्रत्यक्षादीनां ग्रहणम् इत्यत्राप्यर्थभेदो न गृह्यते इति ॥
प्रत्यक्षादीनां चाविषयस्यानुपपत्तेः8।
यदि स्यात् किञ्चिदर्थजातं प्रत्यक्षादीनामविषयः यत् प्रत्यक्षादिभिर्न शक्यं ग्रहीतुं तस्य ग्रहणाय प्रमाणान्तरमुपादीयेत तत्तु न शक्यं केनचिदुपपादयतुमिति, प्रतयक्षादीनां यथादर्शनमेवेदं सच्चासच्च सर्वं विषय इति ॥
केचित्तु दृष्टान्तमपरिगृहीतं हेतुना ।
विशेषहेतुमन्तरेण साध्यसाधनायोपाददते यथा प्रदीपप्रकाशः प्रदीपान्तरप्रकाशमन्तरेण गृह्यते तथा प्रमाणानि प्रमाणान्तरमन्तरेण गृह्यन्ते इति. स चायम्--- क्व चिन्निवृत्तिदर्शनादनिवृत्तिदर्शनाच्च क्व चिदनेकान्तः9।
यथायं प्रसङ्गो निवृत्तिदर्शनात् प्रमाणसाधनायोपादीयते एवं प्रमेयसाधनायाप्युपादेयः-- अविशेषहेतुत्वात्, यथा स्थाल्यादिरूपग्रहणे प्रदीपप्रकाशः प्रमेयसाधनायोपादीयते एवं प्रमाण साधनायाप्युपादेयः-- विशेषहेत्वभावात्, सोयं विशेषहेतुपरिग्रहमन्तरेण दृष्टान्त एकस्मिन् पक्षे उपादेयो न प्रतिपक्षे इत्यनेकान्तः ।
एकस्मिंश्च पक्षे दृष्टान्त इत्यनेकान्तः- विशेषहेत्वभावादिति ॥
विशेषहेतुपरिग्रहे सति उपसंहाराभ्यनुज्ञानादप्रतिषेधः10।
विशेषहेतुपरिगृहीतस्तु दृष्टान्त एकस्मिन् पक्षे उपसंहियमाणो न शक्यो ऽननुज्ञातुम् एवं च सति ऽअनेकान्तःऽ इत्ययं प्रतिषेधो न भवति।
प्रत्यक्षादीनां प्रत्यक्षादिभिरुपलब्धाव् अनवस्थेतिचेत् ? न-- संविद्विषय- निमित्तानामुपलब्ध्या व्यवहारोपप11त्तेः।
प्रत्यक्षेणार्थमुपलभे अनुमानेनार्थमुपलभे उपमानेनार्थमुपलभे आगमेनार्थमुपलभे इति. प्रत्यक्षं मे ज्ञानम् आनुमानिकं मे ज्ञानम् औपमानिकं मे ज्ञानम् आगमिकं मे ज्ञानमिति संविद्विषयं संविन्निमित्तं चोपलभमानस्य धर्मार्थसुखापवर्गप्रयोजनः तत्प्रत्यनीकपरिवर्जनप्रयोजननश्च व्यवहार उपपद्यते सोयं तावत्यैव निर्वर्तते. न चास्ति व्यवहारान्तरमनवस्थासाधनीयं येन प्रयुक्तो ऽनवस्थामुपाददीतेति
********************** न्य्स्भ्_2,1.20 **********************
सामान्येन प्रमाणानि परीक्ष्य विशेषेण परीक्ष्यन्ते, तत्र---
न्य्स्_2,1.20: प्रत्यक्षलक्षणानुपपत्तिर् असमग्रवचनात् ॥
आत्ममनःसंनिकर्षो हि कारणान्तरं नोक्तमिति, न चासंयुक्ते द्रव्ये संयोगजन्यस्य गुणस्योत्पत्तिरिति. ज्ञानोत्पत्तिदर्शनादात्ममनःसंनिकर्षः कारणम्।
मनःसंनिकर्षानपेक्षस्य चेन्द्रिनयार्थसंनिकर्षस्य ज्ञानकारणत्वे युगपदुत्पद्येरन् बुद्धय इति मनःसंनिकर्षोपि कारणम्
********************** न्य्स्भ्_2,1.21 **********************
तदिदं सूत्रं पुरस्तात् कृतभाष्यम्---
न्य्स्_2,1.21: नात्ममनसोः संनिकर्षाभावे प्रत्यक्षोत्पत्तिः ॥
आत्ममनसोः संनिकर्षाभावे नोत्पद्यते प्रत्यक्षम् इन्द्रियार्थसंनिकर्षाभाववदिति, सति चेन्द्रियार्थसंनिकर्षे ज्ञानोत्पत्तिदर्शनात् कारणभावं ब्रुवते
********************** न्य्स्भ्_2,1.22 **********************
न्य्स्_2,1.22: दिग्देशकालाकाशेष्वप्येवं प्रसङ्गः ॥
दिगादिषु सत्सु ज्ञानभावात् तान्यपि कारणानीति. अकारणभावेपि ज्ञानोत्पत्तेर्दिगादिसंनिधेरवर्जनीयत्वात् ।
यदाप्यकारणं दिगादीनि ज्ञानोत्पत्तौ तदापि सत्सु दिगादिषु ज्ञानेन भवितव्यं न हि दिगादीनां संनिधिः शक्यः परिवर्जयितुमिति।
तत्र कारणभावे हेतुवचनम्-- एतस्माद् हेतोर्दिगादीनि ज्ञानकारणानीति।
आत्ममनःसंनिकर्षस्तर्ह्युपसंख्येय इति
********************** न्य्स्भ्_2,1.23 **********************
तत्रेदमुच्यते---
न्य्स्_2,1.23: ज्ञानलिङ्गत्वादात्मनो नानवरोधः ॥
ज्ञानमात्मलिङ्गम्-- तद्गुणतवात्. न चासंयुक्ते द्रव्ये संयोगजस्य गुणस्योत्पत्तिरस्तीति
********************** न्य्स्भ्_2,1.24 **********************
न्य्स्_2,1.24: तदयौगपद्यलिङ्गत्वाच्च न मनसः ॥
अनवरोध इति वर्तते,
"युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् 1-1-16"
इत्युच्यमाने सिध्यत्येव मनःसंनिकार्षापेक्ष इन्द्रियार्थसंनिकर्षो ज्ञानकारणमिति
********************** न्य्स्भ्_2,1.25 **********************
न्य्स्_2,1.25: प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः संनिकर्षस्य स्वशब्देन वचनम् ॥
प्रत्यक्षानुमानोपमानशब्दानां निमित्तमात्ममनःसंनिकर्षः प्रत्यक्षस्यैवेन्द्रियार्थसंनिकर्ष इत्य् असमानो ऽसमानत्वात् तस्य ग्रहणम्
********************** न्य्स्भ्_2,1.26 **********************
न्य्स्_2,1.26: सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः संनिकर्षनिमित्तत्वात् ॥
इन्द्रियार्थसंनिकर्षस्य ग्रहणं नात्ममनसोः संनिकर्षस्येति, एकदा खल्वयं प्रबोधकालं प्रणिधाय सुप्तः प्रणिधानवशात् प्रबुध्यते, यदा तु तीव्रौ ध्वनिस्पर्शौं प्रबोधकारणं भवतस्तदाप्रसुप्तस्येन्द्रियार्थसंनिकर्षनिमित्तं प्रबोधज्ञानमुत्पद्यते तत्र न ज्ञातुर्मनसश् च संनिकर्षस्य प्राधान्यं भवति, किं तर्हि ?. इन्द्रियार्थयोः संनिकर्षस्य--नह्यत्मा जिज्ञासमानः प्रयत्नेन मनस्तदा प्रेरयतीति।
एकदा खल्वयं विषायान्तराव्यासक्तमनाः संकल्पवशाद् विषयान्तरं जिज्ञासमानः प्रयत्नप्रेरितेन मनसा इन्द्रियं संयोज्य यद् विषयान्तरं जानीते, यदा तु खल्वस्य निःसंकल्पस्य निर्जिज्ञासस्य च व्यासक्तमनसो बाह्यविषयोपनिपातनाद् ज्ञानमुत्पद्यते तदेन्द्रियार्थसंनिकर्षस्य प्राधान्यम्-- न ह्यत्रासौ जिज्ञासमानः प्रयत्नेन मनः प्रेरयतीति।
प्राधान्याच्चेन्द्रिनयार्थसंनिकर्षस्य ग्रहणं कार्यं गुणत्वान्नात्ममनसोः संनिकर्षस्येति
********************** न्य्स्भ्_2,1.27 **********************
प्राधान्ये च हेत्वन्तरम्---
न्य्स्_2,1.27: तैश्चापदेशो ज्ञानविशेषाणाम् ॥
तैः ।
इन्द्रियैरर्थैश्च व्यपदिश्यन्ते ज्ञानविशेषाः, कथम् ?. ऽघ्राणेन जिघ्रतिऽ ऽचक्षुषा पश्यतिऽ ऽरसनया रसयतीति. ऽघ्राणविज्ञानं चक्षुर्विज्ञानं रसनविज्ञानम्ऽ ऽगन्धविज्ञानं रूपविज्ञानं रसविज्ञानम्ऽ इति च, इन्द्रियविषयविशेषाच्च पञ्चधाबुद्धिर्भवति अतः प्राधन्यमिन्द्रियार्थसंनिकर्षस्येति
********************** न्य्स्भ्_2,1.28 **********************
यदुक्तम्-- ऽइन्द्रियार्थसंनिकर्षग्रहणं कार्यं नात्ममनसोः संनिकर्षस्येति. कस्यात् ?. सुप्तव्यासक्तमनसामिन्द्रियार्थयोः संनिकर्षस्य ज्ञाननिमित्तत्वात्ऽ इति. सोयम्---
न्य्स्_2,1.28: व्याहतत्वादहेतुः ॥
यदि तावत् क्वचिदात्ममनसोः सनिकर्षस्य ज्ञानकारणत्वं नेष्यते ? तदा
"युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् 1-1-26"
इति व्याहन्येत. नेदानीं मनसः संनिकर्षमिन्द्रियार्थसंनिकर्षो ऽपेक्षते. मनःसंयोगानपेक्षायां च युगपज्ज्ञानोत्पत्तिप्रसङ्गः।
अथ मा भूद् व्याघात इति सर्वविज्ञानानामात्ममनसोः संनिकर्षः कारणमिष्यते ? तदवस्थमेवेदं भवति-- ऽज्ञानकारणत्वादात्ममनसोः संनिकर्षस्य ग्रहणं कार्यम्ऽ इति
********************** न्य्स्भ्_2,1.29 **********************
न्य्स्_2,1.29: नार्थविशेषप्राबल्यात् ॥
नास्ति व्याघातः- न ह्यात्ममनःसंनिकर्षस्य ज्ञानकारणत्वं व्यभिचरति. इन्द्रियार्थसंनिकर्षस्य प्राधान्यमुपादीयते-- अर्थविशेषप्राबल्याद्धि सुप्तव्यासक्तमनसां ज्ञानोत्पत्तिरेकदा भवति।
अर्थविशेषः कश्चिदेवेन्द्रियार्थस्तस्य प्राबल्यं तीव्रतापटुते, तच्चार्थविशेषप्राबल्यामिन्द्रियार्थसंनिकर्षविषयं नात्ममनसोः संनिकर्षविषयं तस्मादिन्द्रियार्थसंनिकर्षः प्रधानमिति।
असति प्रणिधाने संकल्पे चासति सुप्तव्यासक्तमनसां यद् इन्द्रियार्थसंनिकर्षादुत्पद्यते ज्ञानं तत्र मनःसंयोगोपि कारणमिति मनसि क्रियाकारणं वाच्यमिति, यथैव ज्ञातुः खल्वयमिच्छाजनितः प्रयत्नो मनसः प्रेरक आत्मगुण एवमात्मनि गुणान्तरं सर्वस्य साधकं प्रवृत्तिदोषजनितमस्ति येन प्रेरितं मन इन्द्रियेण संबध्यते. तेन ह्य् अप्रेर्यमाणे मनसि संयोगाभावात् ज्ञानातुत्पत्तौ सर्वार्थतास्य निवर्तते. एषितव्यं चासय गुणान्तरस्य द्रव्यगुणकर्मकारकत्वम् अन्यथा हि चतुर्विधानामणूनां भूतसूक्ष्माणां मनसां च ततो ऽन्यस्य क्रियाहेतोरसंभवात् शरीरेन्द्रियविषयाणामनुत्पत्तिप्रसङ्गः
********************** न्य्स्भ्_2,1.30 **********************
न्य्स्_2,1.30: प्रत्यक्षमनुमानम् एकदेशग्रहणादुपलब्धेः ॥
यदिदमिन्द्रियार्थसंनिकर्षादुत्पद्यते ज्ञानम् ऽवृक्षःऽ इति एतत् किल प्रत्यक्षं तत्खल्वनुमानमेव, कस्मात् ?. एकदेशग्रहणाद् वृक्षस्योपलब्धेः ।
अर्वाग्भागमयं गृहीत्वा वृक्षमुपलभते न चैकदेशो वृक्षः, तत्र यथा धूमं गृहीत्वा वह्निमनुमिनोति तादृगेव तद् भवति।
किं पुनर्गृह्यमाणादेकदेशाद् अर्थान्तरमनुमेयं मन्यसे ?, अवयवसमूहपक्षे अवयवान्तराणि द्रव्योत्पत्तिपक्षे तानि चावयवी चेति।
अवयवसमूहपक्षे तावदेकदेशग्रहणाद् वृक्षबुद्धेरभावः-- न ह्य् अगृह्यमाणमेकदेशान्तरं वृक्षो गृह्यमाणैकदेशवदिति।
अथ एकदेशग्रहणादेकदेशान्तरानुमाने समुदायप्रतिसंधानात् तत्र वृक्षबुद्धिः ?, न तर्हि वृक्षबुद्धिरनुमानमेवं सति भवितुमर्हतीति।
द्रव्यान्तरोत्पत्तिपक्षे नावयव्य् अनुमेयः-- अस्यैकदेशसंबद्धस्याग्रहणाद् ग्रहणे चाविशेषादनमुमेयत्वाभावः, तस्माद् वृक्षबुद्धिरनुमानं न भवति
********************** न्य्स्भ्_2,1.31 **********************
एकदेशग्रहणमाश्रित्य प्रत्यक्षस्यानुमानत्वमुपपाद्यते तच्च--
न्य्स्_2,1.31: न प्रत्यक्षेण यावत् तावदप्युपलम्भात् ॥
न प्रत्यक्षमनुमानम्, कस्मात् ?. प्रत्यक्षेणैवोपलम्भात् ।
यत् तदेकदेशग्रहणमाश्रीयते प्रत्यक्षेणासावुपलम्भः, न चोपलम्भो निर्विषयोस्ति यावच्चार्थजातं तस्य विषयस्तावदभ्यनुज्ञायमानं प्रत्यक्षव्यवस्थापकं भवति।
किं पुनस्ततो ऽन्यदर्थजाम् ?. अवयवी समुदायो वा।
न चैवदेशग्रहणम् अनुमानं भावयितुं शक्यम्-- हेत्वभावादिति ॥
अन्यथापि च प्रत्यक्षस्य नानुमानत्वप्रसङ्गः-- तत्पूर्वकत्वात्12।
प्रत्यक्षपूर्वकमनुमानम्-- संबद्धावग्निधूमौ प्रत्यक्षतो दृष्टवतो धूमप्रत्यक्षदर्शनाद् अग्नावनुमानं भवति. यच्च संबद्धयोर्लिङ्गलिङ्गनोः प्रत्यक्षं यच्च लिङ्मात्रप्रत्यक्षग्रहणं नैतदन्तरेणानुमानस्य प्रवृत्तिरस्ति न त्वेतदनुमानम्-- इन्द्रियार्थसंनिकर्षजत्वात्. न चानुमेयस्येन्द्रियेण संनिकर्षादनुमानं भवति, सोयं प्रत्क्षानुमानयोर्लक्षणभेदो महानाश्रयितव्य इति
********************** न्य्स्भ्_2,1.32 **********************
न्य्स्_2,1.32: न चैकदेशोपलब्धिर् अवयविसद्भावात् ॥
न चैकदेशोपलब्धिमात्रम्, किं तर्हि ?. एकदेशोपलब्धिः तत्सहचरितावयव्युपलब्धिश्च, कस्मात् ?. अवयविसद्भावात् ।
अस्ति ह्ययमेकदेशव्यतिरिक्तो ऽवयवी, तस्यावयवस्थानस्योपलब्धिकारणप्राप्तस्य एकदेशोपलब्धौ अनुपलब्धिरनुपपन्नेति ॥
अकृत्स्नग्रहणादितिचेत् ? न-- कारणतो ऽन्यस्यैकदेशस्याभावात्13।
न चावयवाः कृत्स्ना गृह्यन्ते-- अवयवैरेवावयवान्तरव्यवधानात्. नावयवी कृत्स्नो गृह्यते इति-- नायं गृह्यमाणेष्ववयवेषु परिसमाप्त इति, सेयमेकदेशोपलब्धिरनिवृत्तैवेति।
कृत्स्नमिति वै खल्वशेषतयां सत्यां भवति. अकृत्स्नमिति शेषे सति. तच्चैतद् अवयवेषु बहुष्वस्ति-- अव्यवधाने ग्रहणाद् व्यवधाने चाग्रहणादिति।
अङ्गं तु भवान् पृष्टो व्याचष्टाम्-- गृह्यमाणस्यावयविनः किमगृहीतं मन्यसे ? येनैकदेशोपलब्धिः स्यादिति, न ह्यस्य कारणेभ्यो ऽन्ये एकदेशा भवन्तीति, तत्रावयववृत्तं नोपपद्यते इति।
इदं तस्य वृत्तम्-- येषामिन्द्रियसंनिकर्षाद् ग्रहणमवयवानां तैः सह गृह्यतेयेषामवयवानां व्यवधानादग्रहणं तैः सह न गृह्यते।
न चैतत्कृतोस्ति भेद इति।
समुदायोप्यशेषता वा समुदायो वृक्षः स्यात् ? तत्प्राप्तिर्वा ? उभयथा ग्रहणाभावः ।
मूलस्कन्धशाखापलाशादीनामशेषता वा समुदायो वृक्ष इति स्यात् ? प्राप्तिर्वा समुदानयिनामिति ? उभयथा (अपि) समुदायभूतस्य वृक्षस्य ग्रहणं नोपपद्यते इति ।
अवयवैस्तावदवयवान्तरस्य व्यवधानादशेषग्रहणं नोपपद्यते प्राप्तिग्रहणमपि नोपपद्यते-- प्राप्तिमतामग्रहणात्, सेयमेकदेशग्रहणसहचरिता वृक्षबुद्धिर्द्रव्यान्तरोत्पत्तौ कल्पते न समुदायमात्रे इति
********************** न्य्स्भ्_2,1.33 **********************
न्य्स्_2,1.33: साध्यत्वादवयविनि संदेहः ॥
"अवयविसद्भावात्"
इत्ययमहेतुः-- साध्यत्वात् ।
साध्यं तावदेतत्-- कारणेभ्यो द्रव्यान्तरमुत्पद्यते इति. अनुपपादितमेतत्, एवं च सति विप्रतिपत्तिमात्रं भवति विप्रतिपत्तेश्चावयविनि संशय इति
********************** न्य्स्भ्_2,1.34 **********************
न्य्स्_2,1.34: सर्वाग्रहणमवयव्यसिद्धेः ॥
यद्यवयवी नास्ति ? सर्वस्य ग्रहणं नोपपद्यते।
किं तत् सर्वम् ?, द्रव्यगुणकर्मसामान्यविशेषसमवायाः।
कथं कृत्वा ?, परमाणुसमवस्थानं तावद् दर्शनविषयो न भवति-- अतीन्द्रियत्वादणूनाम्. द्रव्यान्तरं चावयविभूतं दर्शनविषयो नास्ति. दर्शनविषयाश्चेमे द्रव्यादयो गृह्यन्ते ते निरधिष्ठाना न गृह्येरनु गृह्यन्ते तु-- ऽकुम्भोयं श्याम एको महान् संयुक्तः स्पन्दते अस्ति मृन्मयश्चऽ इति. सन्ति चेमे गुणादयो धर्मा इति. तेन सर्वस्य ग्रहणात् पश्यामो ऽस्ति द्रव्यान्तरभूतो ऽवयवीति
********************** न्य्स्भ्_2,1.35 **********************
न्य्स्_2,1.35: धारणाकर्षणोपपत्तेश्च ॥
अवयव्यर्थान्तरभूत इति, संग्रहकारिते वै धारणाकर्षणे, संग्रहो नाम संयोगसहचरितं गुणान्तरं स्नेहद्रवत्वकारितम् अपां संयोगादामे कुम्भे अग्निसंयोगात् पक्वे।
यदि त्ववयवकारिते अभविष्यताम् ? पांशुराशिप्रभृतिष्वप्यज्ञास्येताम्, द्रव्यान्तरानुत्पत्तौ च तृणोपलकाष्ठादिषु जतुसंगृहीतेष्वपि नाभविष्यतामिति।
अथावयविनं प्रत्याचक्षाणकः ऽमा भूत् प्रत्यक्षलोपःऽ इत्यणुसञ्चयं दर्शनविषयं प्रतिजानानः किमनुयोक्तव्यः ? इति, ऽएकमिदं द्रव्यम्ऽ इत्येकबुद्धेर्विषयं पर्यनुयोज्यः ।
किमेकबुद्धिरभिन्नार्थविषया ? अहो भिन्नार्थविषया ? इति, अभिन्नार्थविषयेतिचेत् ? अर्थान्तरानुज्ञानादवयविसिद्धिः, नानार्थविषयेति चेत् ? भिन्नेष्वेकदर्शनानुपपत्तिः ।
अनेकस्मिन् एक इति व्याहता बुद्धिर्न दृश्यते इति
********************** न्य्स्भ्_2,1.36 **********************
न्य्स्_2,1.36: सेनावनवद् ग्रहणमितिचेत् ? नातीन्द्रियत्वादणूनाम् ॥
यथा सेनाङ्गेषु वनाङ्गेषु च दूरादगृह्यमाणपृथक्त्वेषु ऽएकम्ऽ इत्युपपद्यते बुद्धिः एवमणुषु संचितेष्वगृह्यमाणपृथक्त्वेषु ऽएकम्ऽ इत्युपपद्यते बुद्धिरिति ।
यथागृह्यमाणपृथक्त्वानां सेनावनाङ्गानाम् आरात् कारणान्तरतः पृथक्त्वस्याग्रहणं यथागृह्यमाणजातीनां पलाश इति वा खदिर इति वा नाराज् जातिग्रहणं भवति यथागृह्यमाणप्रस्पन्दानां नारात् स्पन्दग्रहणम्. गृह्यमाणे चार्थजाते पृथक्त्वस्याग्रहणात् ऽएकम्ऽ इति भाक्तः प्रत्ययो भवति. न त्वणूनां गृह्यमाणपृथक्त्वानां कारणतः पृथक्त्वस्याग्रहणाद् भाक्त एकप्रत्ययः-- अतीन्द्रियत्वादणृनामिति ।
इदमेव परीक्ष्यते-- किमेकप्रत्ययो ऽणुसंचयविषयः ? आहो स्विन्न ? इति, अणुसंचय एव सेनावनाङ्गानि, न च परीक्ष्यमाणमुदाहरणमिति युक्तम्-- साध्यत्वादिति ॥
दृष्टमितिचेत् ? न-- तद्विषयस्य परीक्षोपपत्तेः । 14 ।
यदपि मन्येत-- दृष्टमिदं सेनावनाङ्गानां पृथक्त्वस्याग्रहणादभेदेन ऽएकम्ऽ इतिग्रहणं न च दृष्टं शक्यं प्रत्याख्यातुमिति।
तच्च नैवम्-- तद्विषयस्य परीक्षोपपत्तेः
दर्शनविषय एवायं परीक्ष्यते योयमेकमिति प्रत्ययो दृश्यते स परीक्ष्यते-- किं द्रव्यान्तरविषयो वा ? अथाणुसंचयविषयः ? इति, अत्र दर्शनमन्यतरस्य साधकं न भवति।
नानाभावे चाणूनां पृथक्त्वस्याग्रहणादभेदेन ऽएकम्ऽ इतिग्रहणम् अतस्मिंस्तदितिप्रत्ययो यथा स्थाणौ पुरुष इति।
ततः किम् ?. अतस्मिंस्तदितिप्रत्ययस्य प्रधानापेक्षित्वात् प्रधानसिद्धिः।
स्थाणौ पुरुष इति प्रत्ययस्य किं प्रधानम् ?. यो ऽसौ पुरुषे पुरुषप्रत्ययः तस्मिन् सति पुरुषसामान्यग्रहणात् स्थाणौ पुरुषोयमिति, एवं नानाभूतेषु ऽएकम्ऽ इति सामान्यग्रहणात् प्रधाने सति भवितुमर्हति प्रधानं च सर्वस्याग्रहणाद् नोपपद्यते इति. तस्मादभिन्ने एवायमभेदप्रत्ययः-- ऽएकम्ऽ इति॥
इन्द्रियान्तरविषयेष्वभेदप्रत्ययः प्रधानमितिचेत् ? न-- विशेषहेत्वभावाद् दृष्टान्ताव्यवस्था । 15 ।
श्रोत्रादिविषयेषु शब्दादिष्वभिन्नेषु एकप्रत्ययः प्रधानम् अनेकस्मिन्न् एकप्रत्ययस्येति।
एवं च सति दृष्टान्तोपादानं न व्यवतिष्ठते-- विशेषहेत्वभावात्, अणुषु संचितेष्वेकप्रत्ययः किमतस्मिंस्तदितिप्रत्ययः स्थाणौ पुरुषप्रत्ययवत् ? अथार्थस्य तथाभावात् तस्मिंस्तदितिप्रत्ययो यथा शब्दस्यैकत्वादेकः शब्द इति ?, विशेषहेतुपरिग्रहमन्तरेण दृष्टान्तौ संशयमापादयत इति।
कुम्भवत् संचयमात्रं गन्धादयोपीत्यनुदाहरणं गन्धादय इति।
एवं परिमाणसंयोगस्पन्दजातिविशेषप्रत्ययानप्यनुयोक्तव्यः तेषु चैवं प्रसङ्ग इति ॥
एकत्वबुद्धिस्तस्मिंस्तदितिप्रत्यय इति विशेषहेतुः-- महदिति- प्रत्येन सामानाधिकरण्यात् । 16 ।
ऽएकमिदं महच्चऽ इत्येकविषयौ प्रत्ययौ समानाधिकरणौ भवतस्तेन विज्ञायते-- यन्महत् तदेकमिति।
अणुसमूहातिशयग्रहणं महत्प्रत्यय इतिचेत् ? सो ऽयम् अमहत्स्वणुषु महत्प्रत्ययो ऽतस्मिंस्तदितिप्रत्ययो भवतीति।
किं चातः ? अतस्मिंस्तदितिप्रत्ययस्य प्रधानापेक्षित्वात् प्रधानसिद्धिरिति उभवितव्यं महत्येव महत्प्रत्ययेनेति।
अणुः शब्दो महानिति च व्यवसायात् प्रधानसिद्धिरितिचेत् ? न-- मन्दतीव्रताग्रहणमियत्तानवधारणाद् यथा द्रव्ये । 17 ।
ऽअणुः शब्दो ऽल्पो मन्दःऽ इत्येतस्य ग्रहणम् ऽमहान् शब्दः पटुस्तीव्रःऽ इत्येतस्य ग्रहणम्, कस्मात् ? इयत्तानवधारणातुन ह्ययम् ऽमहान् शब्दःऽ इतिव्यवस्यन् ऽइयानयम्ऽ इत्यवधारयति यथा बदरामलकबिल्वादीनि।
ऽसंयुक्ते इमेऽ इति च द्वित्वसमानाश्रयप्राप्तिग्रहणम् ॥
द्वौ समुदायावाश्रयः संयोगस्येतिचेत् ? । 18 ।
कोयं समुदायः ? प्राप्तिरनेकस्य ? अनेका वा प्राप्तिरेकस्य समुदाय इतिचेत् ? प्राप्तेरग्रहणं प्राप्त्याश्रिताया । 19 ।
ऽसंयुक्ते इमे वस्तुनीऽ इति नात्र द्वे प्राप्ती संयुक्ते गृह्येते ॥
अनेकसमूहः सुदाय इतिचेत् ? न-- द्वित्वेन सामानाधिकरण्यस्य ग्रहणात् । 20 ।
ऽद्वाविमौ संयुक्तावर्थौंऽ इति ग्रहणे सति नानेकसमूहाश्रयः संयोगो गृह्यते न च द्वयोरण्वोर्ग्रहणमस्ति तस्मान्महती द्वित्वाश्रयभूते द्रव्ये संयोगस्य स्थानमिति॥
प्रत्यासत्तिः प्रतीघातावसाना संयोगो नार्थान्तरमितिचेत् ? न-- अर्थान्तरहेतुत्वात् संयोगास्य । 21 ।
शब्दरूपादिस्पन्दानां हेतुः संयोगः-- न च द्रव्ययोर्गुणान्तरोपजननमन्तरेण शब्दे रूपादिषु स्पन्दे च कारणत्वं गृह्यते तस्माद् गुणान्तरम्।
प्रत्ययविषयश्चार्थान्तरं तत्प्रतिषेधो वा । 22 ।
ऽकुण्डली गुरुः अकुण्डलश्छात्रःऽ इति संयोगबुद्धेश्च यद्यर्थान्तरंप न विषयः ? अर्थान्तरप्रतिषेधस्तर्हि विषयस्तत्र--- प्रतिषिध्यमानवचनम् । 23 ।
ऽसंयुक्ते द्रव्येऽ इति यदर्थान्तरमन्यत्र दृष्टमिह प्रतिषिध्यते तद् वक्तव्यमिति।
द्वयोर्महतोराश्रितस्य ग्रहणाद् नाण्वाश्रय इति ॥
जातिविशेषस्य प्रत्ययानुवृत्तिलिङ्गस्याप्रत्याख्यानम्. प्रत्याख्याने वा प्रत्ययव्यवस्थानुपपत्तिः।
व्यधिकरणस्यानभिव्यक्तेरधिकरणवचनम् । 24 ।
अणुसमवस्थानं विषय इतिचेत् ?--- प्राप्ताप्राप्तसामर्थ्यवचनम् । 25 ।
किमप्राप्ते अणुसमवस्थाने तदाश्रयो जातिविशेषो गृह्यते ? अथ प्राप्ते ? इति।
अप्राप्ते ग्रहणमितिचेत् ? व्यवहितस्याणुसमवस्थानस्याप्युपलब्धिप्रसङ्गःउव्यवहिते ऽणुसमवस्थाने तदाश्रयो जातिविशेषो गृह्येत।
प्राप्ते ग्रहणमितिचेत् ? मध्यपरभागयोरप्राप्तौ अनभिव्यक्तिः।
यावत् प्राप्तं भवति तावत्यभिव्यक्तिरितिचेत् ? तावतो ऽधिकरणत्वमणुसमवस्थानस्यौयावति प्राप्ते जातिविशेषो गृह्यते तावदस्याधिकरणमिति प्राप्तं भवति तत्र--- एकसमुदाये प्रतीयमाने ऽर्थभेदे । 26 ।
एवं च सति यो ऽणुसमुदायो वृक्ष इति प्रतीयते तत्र वृक्षबहुत्वं प्रतीयेतौयत्र यत्र ह्यणुसमुदायस्य भागे वृक्षत्वं गृह्यते स स वृक्ष इति, तस्मात् समुदिताणुसमवस्थानस्यार्थान्तरस्य जातिविशेषाभिव्यक्तिविषयत्वाद् अवयव्यर्थान्तरभूत इति
********************** न्य्स्भ्_2,1.37 **********************
परीक्षितं प्रत्यक्षम् ॥ अनुमानमिदानीं परीक्षते---
न्य्स्_2,1.37: रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् ॥
अप्रमाणमिति ।
एकदाप्यर्थस्य न प्रतिपादकमिति।
रोधादपि नदी पूर्णा गृह्यते तदा च ऽउपरिष्ठाद् वृष्टो देवःऽ इति मिथ्यानुमानम्. नीडोपघातादपि पिपीलिकाण्डसंचारो भवति तदा च ऽभविष्यति वृष्टिःऽ इति मिथ्यानुमानमिति, पुरुषोपि मयूरवाशितमनुकरोति तदापि शब्दसादृश्याद् मिथ्यानुमानं भवति
********************** न्य्स्भ्_2,1.38 **********************
न्य्स्_2,1.38: नैकदेशत्राससादृश्येभ्यो ऽर्थान्तरभावात् ॥
नायमनुमानव्यभिचारः अननुमाने तु खल्वयमनुमानाभिमानः।
कथम् ?. नाविशिष्टो लिङ्गं भवितुमर्हति, पूर्वोदकविशिष्टं खलु वर्षोदकं शीघ्रतरत्वं स्रोतसो बहुतरफेनफलपर्णकाष्ठादिवहनं चोपलभमानः पूर्णत्वेन नद्याः ऽउपरि वृष्टो देवःऽ इत्यनुमिनोति नोदकवृद्धिमात्रेण।
पिपीलिकाप्रायस्याण्डसंचारे ऽभविष्यति वृष्टिःऽ इत्यनुमीयते न कासां चिदिति।
ऽनेदं मयूरवाशितं तत्सदृशोयं शब्दःऽ इतिविशेषापरिज्ञानाद् मिथ्यानुमानमिति, यस्तु विशिष्टाच्छब्दाद् विशिष्टमयूरवाशितं गृह्णति तस्य विशिष्टो ऽर्थो गृह्यमाणो लिङ्गं यथा सर्पादीनामिति।
सोयमनुमातुरपराधो नानुमानस्य यो ऽर्थविशेषेणानुमेयमर्थमविशिष्टार्थदर्शनेन बुभुत्सते इति
********************** न्य्स्भ्_2,1.39 **********************
त्रिकालविषयमनुमानम्-- त्रैकाल्यग्रहणादित्युक्तम् अत्रच---
न्य्स्_2,1.39: वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः ॥
वृन्तात् प्रच्युतस्य फलस्य भूमौ प्रत्यासीदतो यद् ऊर्ध्वं स पतितो ऽध्वा तत्संयुक्तः पतितकालः, यो ऽधस्यात् स पतितव्यो ऽध्वा तत्संयुक्तः कालः पतितव्यकालः, नेदानीं तृतीयो ऽध्वा विद्यते यत्र पततीति वर्तमानः कालो गृह्येत. तस्माद् वर्तमानः कालो न विद्यते इति
********************** न्य्स्भ्_2,1.40 **********************
न्य्स्_2,1.40: तयोरप्यभावो वर्तमानाभावे तदपेक्षत्वात् ॥
नाध्वव्यङ्ग्यः कालः, किं तर्हि ?, क्रियाव्यङ्ग्यः ।
पततीति यदा पतनक्रिया व्युपरता भवति स कालः पतितकालः, यदोत्पत्स्यते स पतितव्यकालः, यदा द्रव्ये वर्तमाना क्रिया गृह्यते स वर्तमानः कालः, यदि चायं द्रव्ये वर्तमानं पतनं न गृह्णाति कस्य उपरमम् उत्पत्स्यमानतां वा प्रतिवद्यते ?।
पतितः काल इति भूता क्रिया, पतितव्यः काल इति चोत्पत्स्यमाना क्रिया, उभयोः कालयोः क्रियाहीनं द्रव्यम्, अधः प्रततीति क्रियासंबद्धम्, सोयं क्रियाद्रव्ययोः संबन्धं गृह्णाति वर्तमानः कालः तदाश्रयौ चेतरौ कालौ तदभावे न स्यातामिति
********************** न्य्स्भ्_2,1.41 **********************
न्य्स्_2,1.41: नातीतानागतयोरितरेतरापेक्षा सिद्धिः ॥
यद्य् अतीतानागतौ इतरेतरापेक्षौ सिध्येताम् ? प्रतिपद्येमहि वर्तमानविलोपम्. नातीतापेक्षानागतसिद्धिः नाप्यनागतापेक्षातीतसिद्धिः।
कया युक्त्या ।
केन कल्पेन अतीतः. कथमतीतापेक्षानागतसिद्धिः ? केन च कल्पेनानागतः ? इति. नैतच्छक्यं निर्वक्तुम् ।
अव्याकरणीयमेतद् वर्तमानलोपे इति।
यच्च मन्येत-- ह्रस्वदीर्घयोः स्थलनिम्नयोः छायातपयोश्च यथेतरेतरापेक्षया सिद्धिरेवम् अतीतानागतयोरिति, तन्नोपपद्यते-- विशेषहेत्वभावात्. दृष्टान्तवत् प्रतिदृष्टान्तोपि प्रसज्यते-- यथा रूपस्पर्शौं गन्धरसौ नेतरेतरापेक्षौ सिध्यतः एवमतीतानागताविति नेतरेतरापेक्षा कस्य चित् सिद्धिरिति।
यस्मादेकाभावे ऽन्यतराभावादुभयाभावः27।
यद्येकस्यान्यतरापेक्षा सिद्धिः ? अन्यतरस्येदानीं किमपेक्षा ?. यद्यन्यतरस्यैकापेक्षा सिद्धिः ? एकस्येदानीं किमपेक्षा ?, एवमेकस्याभावे अन्यतरन्न सिध्यतीति उभयाभावः प्रसज्यते।
अर्थसद्भावव्यङ्ग्यश्चायं वर्तमानः कालः-- ऽविद्यते द्रव्यम्ऽ ऽविद्यते गुणःऽ ऽविद्यते कर्मऽ इति
********************** न्य्स्भ्_2,1.42 **********************
यस्नय चायं नास्ति तस्य---
न्य्स्_2,1.42: वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ॥
प्रत्यक्षम् इन्द्रियार्थसंनिकर्षजं. न चाविद्यमानम् ।
असद् इन्द्रियेण संनिकृष्यते, न चायं विद्यमानम् ।
सत् किञ्चिदनुजानातीति प्रत्यक्षनिमित्तं प्रत्यक्षविषयः प्रत्यक्षज्ञानं सर्वं नोपपद्यते, प्रत्यक्षानुपपत्तौ तत्पूर्वकत्वाद् अनुमानागमयोरनुपपत्तिः सर्वप्रमाणविलोपे सर्वग्रहणं न भवतीति।
उभयथा च वर्तमानः कालो गृह्यते-- क्वचिदर्थसद्भावव्यङ्ग्यो यथा ऽअस्ति द्रव्यम्ऽ इति. क्वचित् क्रियासंतानव्यङ्ग्यो यथा ऽपचति छिनत्तीति. नानाविधा चैकार्था क्रिया क्रियासंतानः क्रियाभ्यासश्च, नानाविधा चैकार्था क्रिया ऽपचतीति ।
स्थाल्यधिश्रयणम् उदकासेचनं तण्डुलावपनमेधोपसर्पणम् अग्न्यभिज्वालनं दर्वीघट्टनं मण्डस्रावणम् अधोवतारणमिति. छिनत्तीति क्रियाभ्यासः-- उद्यभ्योद्यम्य परशुं दारुणि निपातयन् छिनत्तीत्युच्यते
********************** न्य्स्भ्_2,1.43 **********************
यच्चेदं पच्यमानं छिद्यमानं च तत् क्रियमाणं तस्मिन् क्रियमाणे---
न्य्स्_2,1.43: कृतताकर्तव्यतोपपत्तेस्तूभयथा ग्रहणम् ॥
क्रियासंतानो ऽनारब्धश्चिकीर्पितो ऽनागतः कालः ऽपक्ष्यतीति. प्रयोजनावसानः क्रियासंतानोपरमो ऽतीतः कालः ऽअपाक्षीत्ऽ इति. आरब्धक्रियासंतानो वर्तमानः कालः ऽपचतीति, तत्र या उपरता सा कृतता या चिकीर्षिता सा कर्तव्यता या विद्यमाना सा क्रियमाणता. तदेवं क्रियासंतानस्थः त्रैकाल्यसमाहारः ऽपचति पच्यतेऽ इति वर्तमानग्रहणेन गृह्यते-- क्रियासंतानस्य ह्यत्राविच्छेदो विधीयते नारम्भो नोपरम् इति।
सोयमुभयथा वर्तमानां गृह्यते-- अपवृक्तो व्यपवृक्तश्च अतीतानागताभ्याम्. स्थितिव्यङ्ग्यः-- ऽविद्यते द्रव्यम्ऽ इति. क्रियासंतानाविच्छेदाभिधायी च त्रैकाल्यान्वितः-- ऽपचति छिनत्तीति।
अन्यश्च प्रत्यासत्तिप्रभृतेर्रथस्य विवक्षायां तदभिधायी बहुप्रकारो लोकेषूत्प्रेक्षितव्यः, तस्मादस्ति वर्तमानः काल इति
********************** न्य्स्भ्_2,1.44 **********************
(अथोपमानपरीक्षा)
न्य्स्_2,1.44: अत्यन्तप्रायैकदेशसाधर्म्यादुपमानपासिद्धिः ॥
अत्यन्तसाधर्म्यादुपामनं न सिध्यति-- न चैवं भवति ऽयथा गौरेवं गौःऽ इति, प्रायःसाधर्म्यादुपमानं न सिध्यति-- न हि भवति ऽयथानड्वानेवं महिषःऽ इति, एकदेशसाधर्म्यादुपमानं न सिध्यति-- न हि सर्वेण सर्वमुपमीयते इति
********************** न्य्स्भ्_2,1.45 **********************
न्य्स्_2,1.45: प्रसिद्धसाधर्म्यादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः ॥
न साधर्म्यस्य कृत्स्नप्रायाल्पभावमाश्रित्योपमानं प्रवर्तते, किं तर्हि ?. प्रसिद्धसाधर्म्यात् साध्यसाधनभावमाश्रित्य प्रवर्तते. यत्र चैतदस्ति न तत्रोपमानं प्रतिषेद्धुं शक्यं तस्माद् यथोक्तदोषो नोपपद्यते इति
********************** न्य्स्भ्_2,1.46 **********************
अस्तु तर्ह्युपमानमनुमानम्---
न्य्स्_2,1.46: प्रत्यक्षेणाप्रत्यक्षसिद्धेः ॥
यथा धूमेन प्रत्यक्षेणाप्रत्यक्षस्य वह्नेर्ग्रहणमनुमानम् एवं गवा प्रत्यक्षेणाप्रत्यक्षस्य गवयस्य ग्रहणमिति नेदमनुमानाद् विशिष्यते
विशिष्यते इत्याह, कया युक्त्या ? ---
********************** न्य्स्भ्_2,1.47 **********************
न्य्स्_2,1.47: नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्याम इति ॥
यदा ह्ययमुपयुक्तोपमानो गोदर्शी गवा समानमर्थं पश्यति तदा अयं गवय इत्यस्य संज्ञाशब्दस्य व्यवस्थां प्रतिपद्यते न चैवमनुमानमिति।
परार्थं चोपमानम्-- यस्य ह्युपमेयमप्रसिद्धं तदर्थं प्रसिद्धोपमेयेन क्रियते इति।
परार्थमुपमानमितिचेत् ? न-- स्वयमध्यवसायात् ।
भवति च भोः स्वयमध्यवसायः- यथा गौरेवं गवय इति।
नाध्यवसायः
प्रतिषिध्यते उपमानं तु तन्न भवति--"प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् 1-1-6"न च यस्योपमेयं प्रसिद्धं तं प्रति साध्यसाधनभावो विद्यते इति
********************** न्य्स्भ्_2,1.48 **********************
अथापि---
न्य्स्_2,1.48: तथेत्युपसंहारादुपमानसिद्धेर्नाविशेषः ॥
तथेतिसमानधर्मोपसंहारादुपमानं सिध्यति नानुमानम्-- अयं चानयोर्विशेष इति
********************** न्य्स्भ्_2,1.49 **********************
(अथ शब्दप्रमाणपरीक्षा--)
न्य्स्_2,1.49: शब्दो ऽनुमानम्--अर्थस्यानुपलब्धेरनुमेयत्वात् ॥
शब्दो ऽनुमानं न प्रमाणान्तरम्, कस्मात् ?. शब्दार्थस्यानुमेयत्वात्, कथमनुमेयत्वम् ? प्रत्यक्षतो ऽनुपलब्धेः, यथानुपलभ्यमानो लिङ्गी मितेन लिङ्गेन पश्चाद् मीयते इत्यनुमानम् एवं मितेन शब्देन पश्चाद् मीयते ऽर्थो ऽनुपलभ्यमान इत्यनुमानं शब्दः
********************** न्य्स्भ्_2,1.50 **********************
इतश्चानुमानं शब्दः---
न्य्स्_2,1.50: उपलब्धेरद्विप्रवृत्तित्वात् ॥
प्रमाणान्तरभावे द्विप्रवृत्तिरुपलब्धिः = अन्यथा ह्युपलब्धिरनुमाने अन्यथोपमाने तद् व्याख्यातम्, शब्दानुमानयोस्तूपलब्धिरद्विप्रवृत्तिः यथानुमाने प्रवर्तते तथा शब्देपि, विशेषाभावादनुमानं शब्द इति
********************** न्य्स्भ्_2,1.51 **********************
न्य्स्_2,1.51: संबन्धाच्च ॥
"शब्दोनुमानम्"इति वर्तते, संबद्धयोश्च शब्दार्थयोः संबन्धप्रसिद्धौ शब्दोपलब्धेरर्थग्रहणं यथा संबद्धयोर्लिङ्गलिङ्गिनोः संबन्धप्रतीतौ लिङ्गोपलब्धौ लिङ्गिग्रहणमिति
********************** न्य्स्भ्_2,1.52 **********************
यत्तावत् ऽअर्थस्यानुमेयत्वात्ऽ इति तन्न---
न्य्स्_2,1.52: आप्तोपदेशसामर्थ्यात् शब्दादर्थसंप्रत्ययः ॥
ऽस्वर्गः अप्सरसः उत्तराः कुरवः सप्त द्वीपाः समुद्रो लोकसंनिवेशःऽ इत्येवमादेरप्रत्यक्षस्यार्थस्य न शब्दमात्रात् प्रत्ययः, किं तर्हि ? ऽआप्तैरयमुक्तः शब्दःऽ इत्यतः संप्रत्ययः-- विपर्ययेण संप्रत्ययाभावात् न त्वेवमनुमानमिति।
यत् पुनः--
"उपलब्धेरद्विप्रवृत्तित्वात् 2-1-50" इति.
अयमेव शब्दानुमानयोरुपलब्धेः प्रवृत्तिभेदः तत्र विशेषे सत्यहेतुः-- ऽविशेषाभावात्ऽ इति।
यत् पुनरिदम्--"संबन्धाच्च"इति, अस्ति च शब्दार्थयोः संबन्धो ऽनुज्ञातः अस्ति च प्रतिषिद्धःउ ऽअस्येदम्ऽ इतिषष्ठीविशिष्टस्य वाक्यस्यार्थविशेषो ऽनुज्ञातः प्राप्तिलक्षणस्तु शब्दार्थयोः संबन्धः प्रतिषिद्धः।
कस्मात् ?, प्रमाणतोनुपलब्धेःउप्रत्यक्षतस्तावत् शब्दार्थप्राप्तेर्नोपलब्धिः-- अतीन्द्रियत्वातुयेनेन्द्रियेण गृह्यते शब्दस्तस्य विषयभावमतिवृत्तो ऽर्थो न गृह्यते, अस्ति चातीन्द्रियविषयभूतोप्यर्थः, समानेन चेन्द्रियेण गृह्यमाणयोः प्राप्तिर्गृह्यते इति।
प्राप्तिलक्षणे च गृह्यमाणे संबन्धे शब्दार्थयोः शब्दान्तिके वार्थः स्यात् अर्थान्तिके वा शब्दः स्यात् उभयं वोभयत्र
********************** न्य्स्भ्_2,1.53 **********************
अथ खल्वयम्---
न्य्स्_2,1.53: पूरणप्रदाहपाटनानुपलब्धेश्च संबन्धाभावः ॥
स्थानकरणाभावादिति चार्थः।
न चायमनुमानतोप्युपलभ्यते-- शब्दान्तिके ऽर्थ इति।
एतस्मिन् पक्षे ऽप्य् आस्यस्थानकरणोच्चारणीयः शब्दस्तदन्तिके ऽर्थ इति अन्नाग्न्यसिशब्दोच्चारणे पूरणप्रदाहपाटनानि गृह्येरन्. न च गृह्यन्ते, अग्रहणान्नानुमेयः प्राप्तिलक्षण्ः संबन्धः।
अर्थान्तिके शब्दं इति-- स्थानकरणासंभवाद् अनुच्चारणम्, स्थानं कण्ठादयः करणं प्रयत्नविशेषः तस्यार्थान्तिके ऽनुपपत्तिरिति।
उभयप्रतिषेधाच्च नोभयम्।
तस्मान्न शब्देनार्थः प्राप्त इति
********************** न्य्स्भ्_2,1.54 **********************
न्य्स्_2,1.54: शब्दार्थव्यवस्थानादप्रतिषेधः ॥
शब्दार्थप्रत्ययस्य व्यवस्थादर्शनाद् अनुमीयते-- अस्ति शब्दार्थसंबन्धो व्यवस्थाकारणम्, असंबन्धे हि शब्दमात्रादर्थमात्रे प्रत्ययप्रसङ्गः तस्मादप्रतिषेधः संबन्धस्येति
********************** न्य्स्भ्_2,1.55 **********************
अत्र समाधिः---
न्य्स्_2,1.55: न सामयिकत्वाच्छब्दार्थसंप्रत्ययस्य ॥
न संबन्धकारितं शब्दार्थव्यवस्थानम्. किं तर्हि ?. समयकारितं यत्तदवोचाम-- ऽअस्येदमिति षष्ठीविशिष्टस्य वाक्यस्यार्थविशेषो ऽनुज्ञातः शब्दार्थयोः संबन्धःऽ इति समयं तमवोचाम इति।
कः पुनरयं समयः ?, ऽअस्य शब्दस्येदमर्थजातमभिधेयम्ऽ इत्यभिधानाभिधैयनियमनियोगः, तस्मिन्नुपयुक्ते शब्दादर्थसंप्रत्ययो भवति, विपर्यये हि शब्दश्रवणेपि प्रत्ययाभावः, संबन्धवादिनापि चायमवर्जनीय इति।
प्रयुज्यमानग्रहणाच्च लौकिकानाम्, समयपालनार्थं चेदं पदलक्षणाया वाचो ऽन्वाख्यानं व्याकरणम्, व्याक्यलक्षणाया वाचो ऽर्थलक्षणम्, पदसमूहो वाक्यम् अर्थपरिसमाप्ताविति।
तदेवं प्राप्तिलक्षणस्य शब्दार्थसंबन्धस्यार्थजुषो ऽप्य् अनुमानहेतुर् न भवतीति
********************** न्य्स्भ्_2,1.56 **********************
न्य्स्_2,1.56: जातिविशेषे चानियमात् ॥
सामयिकः शब्दार्थसंप्रत्ययो न स्वाभाविकः-- ऋष्यार्यम्लेच्छानां यथाकामं शब्दप्रयोगो ऽर्थप्रत्यायनाय प्रवर्तते, स्वाभाविके हि शब्दस्यार्थप्रत्यायकत्वे यथाकामं न स्यात्, यथा तैजसस्य प्रकाशस्य रूपप्रत्ययहेतुत्वं न जातिविशेषं व्यभिचरतीति
********************** न्य्स्भ्_2,1.57 **********************
न्य्स्_2,1.57: तदप्रमाण्यम्-- अनृतव्याघातपुनरुक्तदोषेभ्यः ॥
पुत्रकामेष्टिहवनाभ्यासेपु, तस्येति शब्दविशेषमेवाधिकुरुते भगवान् ऋषिः।
शब्दस्य प्रमाणत्वं न संभवति, कस्मात् ?. अनृतदोषात्-- पुत्रकामेष्टौ--"पुत्रकामः पुत्रेष्ट्या यजेत"इति. नेष्टौ संस्थितायां पुत्रजन्म दृश्यते, दृष्टार्थस्य वाक्यस्यानृतत्वात् अदृष्टार्थमपि वाक्यम्--"अग्निहोत्रं जुहुयात् स्वर्गकामः"इत्याद्यनृतमिति ज्ञायते।
विहितव्याघातदोषाच्च-- हवने"उदिते होतव्यम्" "अनुदिते होतव्यम्" "समयाध्युषिते होतव्यम्"इति विधाय विहितं व्याहन्ति--"श्यावो ऽस्याहुतिमभ्यवहरति य उदिते जुहोति" "शबलो ऽस्याहुतिमभ्यवहरति यो ऽनुदिते जुहोति" "श्यावशवलौ वास्याहुतिमभ्यवहरतो यः समयाध्युषिते जुहोति" (इति) व्याघाताच्चान्यतरद् मिथ्येति।
पुनरुक्तदोषाच्च-- अभ्यासे देश्यमाने"त्रिः प्रथमामन्वाह त्रिरुत्तमाम्"इति पुनरुक्तदोषो भवति. पुनरुक्त च प्रमत्तवाक्यमिति. तस्मादप्रमाणं शब्दः-- अनृतव्याघातपुनरुक्तदोषेभ्य इति
********************** न्य्स्भ्_2,1.58 **********************
न्य्स्_2,1.58: न कर्मकर्तृसाधनवैगुण्यात् ॥
नानृतदोषः पुत्रकामेष्टौ, कस्मात् ?, कर्मकर्तृसाधनवैगुण्यात्, इष्ट्या पितरौ संयुज्यमानौ पुत्रं जनयत इति, इष्टिः करणम् साधनं. पितरौ कर्तारौ. संयोगः कर्म. त्रयाणां गुणयोगात् पुत्रजन्म. वैगुण्याद् विपर्ययः, इष्ट्याश्रयं तावत् कर्मवैगुण्यं समीहाभ्रेषः, कर्तृवैगुण्यम् अविद्वान् प्रयोक्ता कपूयाचरणश्च, साधनवैगुण्यं हविरसंस्कृतम् उपहतमिति. मन्त्रा न्यूनाधिकाः स्वरवर्णहीना इति. दक्षिणा दुरागता हीना निन्दिता चेति।
अथोपजनाश्रयं कर्मवैगुण्यं मिथ्यासंप्रयोगः, कर्तृवैगुण्यं योनिव्यापादो बीजोपघातश्चेति, साधनवैगुण्यम् इष्टावभिहितम्।
लोके च ऽअग्निकामो दारुणी मथ्नीयात्ऽ इति विधिवाक्यम् तत्र कर्मवैगुण्यं मिथ्याभिमन्थानम्. कर्तृवैगुण्यं प्रज्ञाप्रयत्नगतः प्रमादः. साधनवैगुण्यम् आर्द्रं सुषिरं दारु इति. तत्र फलं न निष्पद्यते इति नानृतदोषः, गुणयोगेन फलनिष्पत्तिदर्शनात्, न चेदं लौकिकाद् भिद्यते--"पुत्रकामः पुत्रेष्ट्या यजेत"इति
********************** न्य्स्भ्_2,1.59 **********************
न्य्स्_2,1.59: अभ्युपेत्य कालभेदे दोशवचनात् ॥
ऽन व्याघातो हवनेऽ इत्यनुवर्तते, यो ऽभ्युपगतं हवनकालं भिनत्ति ततो ऽन्यत्र जुहोति तत्रायमभ्युपगतकालभेदो दोष उच्यते--"श्यावो ऽस्याहुतिमभ्यवहरति च उदिते जुहोति"तदिदं विधिभ्रेषे निन्दावचनमिति
********************** न्य्स्भ्_2,1.60 **********************
न्य्स्_2,1.60: अनुवादोपपत्तेश्च ॥
ऽपुनरुक्तदोषो ऽभ्यासेनऽ इतिप्रकृतम्, अनर्थको ऽभ्यासः पुनरुक्तः. अर्थवानभ्यासो ऽनुवादः, यो ऽयमभ्यासः--
"त्रिः प्रथमामन्वाह त्रिरुत्तमाम्"इति अनुवाद उपपद्यते-- अर्थवत्त्वात्, त्रिर्वचनेन हि प्रथमोत्तमयोः पञ्चदशत्वं सामधेनीनां भवति तथा च मन्त्राभिवादः--"इदमहं भ्रातृव्यं पञ्चदशारेण वाग्वज्रेण बाधे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः"इति पञ्चदशसामिधेनीवज्रं मन्त्रो ऽभिवदति तदभ्यासमन्तरेण न स्यादिति
********************** न्य्स्भ्_2,1.61 **********************
न्य्स्_2,1.61: वाक्यविभागस्य चार्थग्रहणात् ॥
प्रमाणं शब्दो यथा लोके
********************** न्य्स्भ्_2,1.62 **********************
विभागश्च ब्राह्मणवाक्यानां त्रिविधः---
न्य्स्_2,1.62: विध्यर्थवादानुवादवचनविनियोगात् ॥
त्रिधा खलु ब्राह्मणवाक्यानि विनियुक्तानि-- विधिवचनानि अर्थवादवचनानि अनुवादवचनानीति
********************** न्य्स्भ्_2,1.63 **********************
तत्र---
न्य्स्_2,1.63: विधिर्विधायकः ॥
यद् वाक्यं विधायकम् ।
चोदकं स विधिः, विधिस्तु नियोगो ऽनुज्ञा वा यथा --"अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादि
********************** न्य्स्भ्_2,1.64 **********************
न्य्स्_2,1.64: स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवाद ॥
विधेः फलवादलक्षणा या प्रशंसा सा स्तुतिः संप्रत्ययार्था-- स्तूयमानं श्रद्दधीतेति, प्रवर्तिका च-- फलश्रवणात् प्रवर्तते--"
सर्वजितो वै देवाः सर्वमजयन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वं जयति"
इत्येवमादि।
अनिष्टफलवादो निन्दा वर्जनार्था-- निन्दितं न समाचरेदिति"
स एष वा व प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमो य एतेनानिष्ट्वान्येन यजते गर्ते पतति ।
अयमेवैतद् जीर्यते वा प्रमीयते वा"
इत्येवमादि।
अन्यकर्तृकस्य व्याहतस्य विधेर्वादः परकृतिः--"
हुत्वा वपामेवाग्रे ऽभिधारयन्ति अथ पृषदाज्यं तदुह चरकाध्वर्यवः पृषदाज्यमेवाग्रे ऽभिधारयन्ति ऽअग्नेः प्राणाः पृषदाज्यं स्तोमम्ऽ इत्येवमभिदधति"
इत्येवमादि।
ऐतिह्यसमाचरितो विधिः पुराकल्प इति--"
तस्माद्वा एतेन ब्राह्मणा बहिष्पवमानं सामस्तोममस्तौषन्-- योने यज्ञं प्रतनवामहे"
इत्येवमादि।
कथं परकृतिपुराकल्पौ अर्थवादाविति ?, स्तुतिनिन्दावाक्येनाभिसंबन्धाद् विध्याश्रयस्य कस्यचिदर्थस्य द्योतनादर्थवाद इति
********************** न्य्स्भ्_2,1.65 **********************
न्य्स्_2,1.65: विधिविहितस्यानुवचनमनुवादः ॥
विध्यनुवचनं चानुवादो विहितानुवचनं च ।
पूर्वः शब्दानुवादो ऽपरो ऽर्थानुवादः, यथा पुनरुक्तं द्विविधम् एवमनुवादोपि।
किमर्थं पुनर्विहितमनूद्यते ?, अधिकारार्थम् ।
विहितमधिकृत्य स्तुतिर्बोध्यते निन्दा वा विधिशेषो वाभिधियते, विहितानन्तरार्थो ऽपि चानुवादो भवति, एवमन्यदप्युत्प्रेक्षणीयम्।
लोकेपि च विधिरर्थवादो ऽनुवाद इति च त्रिविधं वाक्यम्-- ऽओदनं पचेत्ऽ इति विधिवाक्यम्, अर्थवादवाक्यम्-- ऽआयुर्वर्चो बलं सुखं प्रतिभानं चान्ने प्रतिष्ठितम्ऽ, अनुवादः-- ऽपचतु पचतु भवान्ऽ इत्यभ्यासः, ऽक्षिप्रं पच्यताम्ऽ इति वा ऽअङ्ग पच्यताम्ऽ इति (वा) अध्येषणार्थम्, ऽपच्यतामेवऽ इति चावधारणार्थम्।
यथा लौकिके वाक्ये विभागेनार्थग्रहणात् प्रमाणत्वम् एवं वेदवाक्यानामपि विभागेनार्थग्रहणात् प्रमाणत्वं भवितुमर्हतीति
********************** न्य्स्भ्_2,1.66 **********************
न्य्स्_2,1.66: नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासेपपत्तेः ॥
ऽपुनरुक्तमसाधु साधुरनुवादःऽ इत्ययं विशेषो नोपपद्यते।
कस्मात् ?. उभयत्र हि प्रतीतार्थः शब्दो ऽभ्यस्तते. चरितार्थस्य शब्दस्याभ्यासादुभयमसाध्विति
********************** न्य्स्भ्_2,1.67 **********************
न्य्स्_2,1.67: शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः ॥
नानुवादपुनरुक्तयोरविशेषः।
कस्मात् ?, अर्थवतो ऽभ्यासस्यानुवादभावात्, समाने ऽभ्यासे पुनरुक्तम् अनर्थकम् अर्थवानभ्यासो ऽनुवादः-- शीघ्रतरगमनोपदेशवत् ऽशीघ्रं शीघ्रं गम्यताम्ऽ इति क्रियातिशयो ऽभ्यासेनैवोच्यते. उदाहरणार्थं चेदम्, एवमन्योप्यभ्यासः-- ऽपचति पचतीति क्रियानुपरमः, ऽग्रामो ग्रामो रमणीयःऽ इति व्याप्तिः, ऽपरि परि त्रिगर्तेभ्यो वृष्टो देवःऽ इति परिवर्जनम्, ऽअध्यधिमण्डं निषण्णम्, इति सामीप्यम्, ऽतिक्तं तिक्तम्ऽ इति प्रकारः, एवमनुवादस्य स्तुतिनिन्दाशेषविधिषु अधिकारार्थताविहितानन्तरार्थता चेति
********************** न्य्स्भ्_2,1.68 **********************
किं पुनः प्रतिषेधहेतूद्धारादेव शब्दस्य प्रमाणत्वं सिध्यति ?. न, अतश्च---
न्य्स्_2,1.68: मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यम् आप्तप्रामाण्यात् ॥
किं पुनरायुर्वेदस्य प्रामाण्यम् ?, यत्तदायुर्वेदेनोपदिश्यते-- ऽइदं कृत्वेष्टमधिगच्छति इदं वर्जयित्वानिष्टं जहातिऽ (इति) तस्यानुष्ठीयमानस्य तथाभावः ।
सत्यार्थता ।
अविपर्ययः, मन्त्रपदानां च विषभूताशनिप्रतिषेधार्थानां प्रयोगे ऽर्थस्य तथाभावः. एतत् प्रामानण्यम्।
किङ्कृतमेतत्?, आप्तप्रामाण्यकृतम्।
किंपुनराप्तानां प्रामाण्यम्?, साक्षात्कृतधर्मता भूतदया यथाभूतार्थचिख्यापयिषेति ।
आप्ताः खलु साक्षात्कृतधर्माणः ऽइदं हातव्यम् इदमस्य हानिहेतुः. इदमस्याधिगतव्यम् इदमस्याधिगमहेतुःऽ इति भूतान्यनुकम्पन्ते, तेषां खलु वै प्राणभृतां स्वयमनवबुद्ध्यमानानां नान्यदुपदेशाद् अवबोधकारणमस्ति, न चानवबोधे समीहा वर्जनं वा, न चाकृत्वा स्वस्तिभावः, नाप्य् अस्यान्य उपकारकोप्यस्ति, हन्त वयमेभ्यो यथादर्शनं यथाभूतमुपदिशामः ते इमे श्रुत्वा प्रतिपद्यमाना हेयं हास्यन्ति अधिगन्तव्यमेवाधिगमिष्यन्तीति एवमाप्तोपदेशः एतेन त्रिविधेनाप्तप्रामाण्येन परिगृहितो ऽनुष्ठीयमानो ऽर्थस्य साधको भवति. एवमाप्तोपदेशः प्रमाणम्, एवमाप्ताः प्रमाणम्।
दृष्टार्थेनाप्तोपदेशेनायुर्वेदेनादृष्टार्थो वेदभागो ऽनुमातव्यः-- प्रमाणमिति-- आप्तप्रामाण्यस्य हेतोः समानत्वादिति।
अस्यापि चैकदेशः--"
ग्रामकामो यजेत"
इत्येवमादिर्दृष्टार्थस्तेनानुमातव्यमिति।
लोके च भूयानुपदेशाश्रयो व्यवहारः, लौकिकस्याप्युपदेष्टुरुपदेष्टव्याथेज्ञानेन परानुजिघृक्षया यथाभूतार्थचिख्यापयिषया च प्रामाण्यम् तत्परिग्रहादाप्तोपदेशः प्रमाणमिति।
द्रष्टृप्रवक्तृसामान्याच्चानुमानम्-- ये एवाप्ता वेदार्थानां द्रष्टारः प्रवक्तारश्चते एवायुर्वेदप्रभृतीनाम् इत्यायुर्वेदप्रामाण्यवद् वेदप्रामाण्यमनुमातव्यमिति।
नित्यत्वाद्वेदवाक्यानां प्रमाणत्वे "तत्प्रामाण्यमाप्तप्रामाण्यात्" इत्ययुक्तम्।
शब्दस्य वाचकत्वादर्थप्रतिपत्तौ प्रमाणत्वं, नित्यत्वे हि सर्वस्य सर्वेण वचनात् शब्दार्थव्यवस्थानुपपत्तिः।
नानित्यत्वे वाचकत्वमितिचेत् ? न-- लौकिकेष्वर्थदर्शनात्।
तेपि नित्या इतिचेत् ? न-- अनाप्तोपदेशादर्थविसंवादो ऽनुपपन्नः-- नित्यत्वाद्धि शब्दः प्रमाणमिति।
अनित्यः स इति चेत् ? अविशेषवचनम् ।
अनाप्तोपदेशो लैकिको न नित्य इति कारणं वाच्यमिति।
यथानियोगं चार्थस्य प्रत्यायनाद् नामधेयशब्दानां लोके प्रामाण्यम्. नित्यत्वात् प्रामाण्यानुपपत्तिः ।
यत्रार्थे नामधेयशब्दो नियुज्यते लोके तस्य नियोगसामर्थ्यात् प्रत्यायको भवति न नित्यत्वात्।
मन्वन्तरयुगान्तरेषु चातीतानागतेषु संप्रदायाभ्यासप्रयोगाविच्छेद इति वेदानां नित्यत्वम्. आप्तप्रामाण्याच्च प्रामाण्यम्, लौकिकेषु शब्देषु चैतत् समानमिति
मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0