न्यायसूत्र (टीका सहित) · अध्याय 3
॥इति वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य प्रथमाह्निकम्॥
********************** न्य्स्भ्_1,2.1 **********************
तिस्रः कथा भवन्ति, वादो जल्पो वितण्डा चेति।
तासाम्---
न्य्स्_1,2.1: प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥
एकाधिकरणस्थौ विरुद्धौ धर्मौं पक्षप्रतिपक्षौ प्रत्यनीकभावात्, अस्त्यात्मा नास्त्यात्मेति।
नानाधिकरणस्थौ विरुद्धावपि न पक्षप्रतिपक्षौ, यथा नित्य आत्मा, अनित्या बुद्धिरिति।
परिग्रहो ऽभ्युपगमव्यवस्था।
सोद्ययं पक्षप्रतिपक्षपरिग्रहो वादः।
तस्य विशेषणं प्रमाणतर्कसाधनोपालम्भः।
प्रमाणतर्कसाधनः प्रमाणतर्कोपालम्भश्च।
प्रमाणैस्तर्कण च साधनमुपालम्भश्चास्मिन् क्रियत इति।
साधनं स्थापना।
उपालम्भः प्रतिषधः।
तौ साधनोपालम्भौ उभयोरपि पक्षयोर्व्यतिषक्तावनुबद्धौ च तावद् यावदेको निवृत्त एकतरो व्यवस्थित इति।
निवृत्तस्योपालम्भो व्यवस्थितस्य साधनमिति॥
जल्पे निग्रहस्थानविनियोगाद्वादे तत्प्रतिषेधः।
तत्प्रतिषेधे च कस्यचिदभ्यनुज्ञानार्थं सिद्धान्ताविरुद्ध इति वचनम्।
सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध इति विरुद्धस्य हेत्वाभासस्य निग्रहस्थानस्याभ्यनुज्ञा वादे।
पञ्चावयवोपपन्न इति हीनमन्यतमेनाप्यवयवेन न्यूनम् हेतुदाहरणाधिकमधिकम् इति चैतयोरभ्यनुज्ञानार्थमिति॥
अवयवेषु प्रमाणतर्कान्तर्भावे पृथक् प्रमाणतर्कग्रहणं साधनोपलम्भव्यतिषङ्गज्ञापनार्थम्।
अन्यथोभावपि पक्षौ स्थापनाहेतुना प्रवृत्तौ वाद इति स्यात्।
अन्तरेणापि चावयवसंबन्धं प्रमाणान्यर्थं साधयन्तीति दृष्टम्, तेनापि कल्पेन साधनोपालम्भौ वादे भवत इति ज्ञापयति।
छलजातिनिग्रहस्थानसाधनोपालम्भो जल्प इति वचनाद्विनिग्रहो जल्प इति मा विज्ञायि, छलजातिनिग्रहस्थानसाधनोपालम्भ एव जल्पः, प्रमाणतर्कसाधनोपालम्भो वाद एवेति स मा विज्ञायीत्येवमर्थ पृथक् प्रमाणतर्कग्रहणमिति
********************** न्य्स्भ्_1,2.2 **********************
न्य्स्_1,2.2: यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः ॥
यथोक्तोपपन्न इति, प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः।
छलजातिनिग्रस्थानसाधनोपालम्भ इति, छलजातिनिग्रहस्थानैः साधनमुपालम्भश्चास्मिन् क्रियत इति एवंविशेषणो जल्पः॥
न खलु वै छलजातिनिग्रहस्थानैः साधनं कस्यचिदर्थस्य सम्भवति, प्रतिषेधार्थतैवैषां सामान्यलक्षणे विशेषलक्षणे च श्रूयते वचनविघातो ऽर्थविकल्पोपत्त्या छलम् इति, साधर्म्यवैघर्म्याभ्यां प्रत्यवस्थानं जातिः
विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् इति।
विशेषलक्षणेष्वपि यथास्वमिति।
न चैतद्विजानीयात्प्रतिषेधार्थतयैवार्थं साधयन्तीति, छलजातिनिग्रहसथानोपालम्भो जल्प इत्येवमप्युच्यमाने विज्ञायत एतदिति॥
प्रमाणैः साधनोपालम्भेयीश्छलजातिनिग्रहस्थानानामङ्गभावः स्वपक्षरक्षणार्थत्वात्, न स्वतन्त्राणां साधनभावः।
यत्तत्प्रमाणैरर्थस्य साधनं तत्र छलजातिनिग्रस्थानानामङ्गाभावो रक्षणार्थत्वात्।
तानि हि प्रयुज्यमानानि परपक्षविघाते स्वपक्षं रक्षन्ति।
तथा चोक्तं तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंहरक्षणार्थं कण्टकशाखावरणवत् इति।
यश्चासौ प्रमाणैः प्रतिपक्षस्योपालम्भस्तस्य चैतानि प्रयुज्यमानानि प्रतिषेधबिघातात्सहकारीणि भवन्ति।
तदेवमङ्गीभूतानां छलादीनामुपादानं जल्पे, न स्वतन्त्रणां साधनभावः।
उपालम्भे तु स्वातन्त्रयमप्यस्तीति
********************** न्य्स्भ्_1,2.3 **********************
न्य्स्_1,2.3: स प्रतिपक्षस्थापनाहीनः वितण्डा ॥
स जल्पो वितण्डा भवति।
किं विशेषणः? प्रतिपक्षस्थापनया हीनः।
यौ तौ समानाधिकरणौ विरुद्धौ धर्मौं पक्षप्रतिपक्षावित्युक्तौ तयोरेकतरं वैतण्डिको न स्थापयतीति परपक्षप्रतिषेधेनैव प्रवर्त्तत इति॥
अस्तु तर्हि स प्रतिपक्षहीनो वितण्डा? यद्वै खलु तत्परप्रतिषेधलक्षणं वाक्यं स वैतण्डिकस्य पक्षः, न त्वसौ साध्यं कंचिदर्थं प्रतिज्ञाय स्थापयतीति।
तस्माद्यथान्यासमेवास्त्विति
********************** न्य्स्भ्_1,2.4 **********************
हेतुलक्षणाभावादहेतवो हेतुसामान्याद्वेतुवदाभासमानाः।
त इमे---
न्य्स्_1,2.4: सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ॥
********************** न्य्स्भ्_1,2.5 **********************
तेषाम्---
न्य्स्_1,2.5: अनैकान्तिकः सव्यभिचारः ॥
व्यभिचार एकत्राव्यवस्थितिः।
सह व्यभिचारेण वर्त्तते इति सव्यभिचारः।
निदर्शनम्---नित्यः शब्दो ऽस्पर्शत्वात्।
स्पर्शवान् कुंमोः अनित्यो दृष्टः।
न च तथा स्पर्शवान् शब्दः।
तस्मादस्पर्शत्वान्नित्यः शब्द
इति।
दृष्टान्ते स्पर्शवत्त्वमनित्यत्वं च धर्मौं न साध्यसाधनभूतौ गृह्यते, स्पर्शवांश्चाणुर्नित्यश्चेति।
आत्मादौ च दृष्टान्ते उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः इति अस्पर्शत्वादिति हेतुर्नित्यत्वं व्यभिचरति, अस्पर्शा च बुद्धिरनित्या चेति।
एवं द्विविधापि दृष्टान्ते व्यभिचारात्साध्यसाधनभावो नास्तीति लक्षणाभावादहेतुरिति॥
नित्यत्वमप्येको ऽन्तः।
अनित्यत्वमप्येको ऽन्तः।
एकस्मिन्नन्ते विद्यत इति ऐकान्तिको विपर्ययादनैकानितकः, उभायान्तव्यापकत्वादिति
********************** न्य्स्भ्_1,2.6 **********************
न्य्स्_1,2.6: सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः ॥
तं विरुणद्धीति तद्विरोधी, अभ्युपेतं सिद्धान्तं व्याहन्तीति।
यथा सो ऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधात्, न नित्यो विकार उपपद्यते।
अपेतो ऽपि विकारो ऽस्ति विनाशप्रतिषेधात्।
सो ऽयं नित्यत्वप्रतिषेधादिति हेतुर्व्यक्तेरपेतो ऽपि विकारो ऽस्तीत्यनेन स्वसिद्धान्तेन विरुध्यते।
कथम्? व्यक्तिरात्मलाभः।
उपायः प्रच्युतिः।
यद्यात्मलाभात्प्रच्युतो विकारो ऽस्ति, नित्यत्वप्रतिषेधौ नोपपद्यते।
यद्व्यक्तेरपेतस्यापि विकारस्यास्तित्वम्, तत् खलु नित्यत्वमिति।
नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात्प्रच्युतेः उपपत्तिः।
यदात्मलाभात्प्रच्यवते तदनित्यं दृष्टम्।
यदस्ति न तदात्मलाभात्प्रच्यवते।
अस्तित्वं चात्मलाभाप्रच्युतिरिति च विरुद्धावेतौ धमौ न सह सम्भवत इति।
सो ऽयं हेतुर्यं सिद्धान्तमाश्रित्य प्रवर्त्तते तमेव व्याहन्तीति
********************** न्य्स्भ्_1,2.7 **********************
न्य्स्_1,2.7: यस्मात् प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ॥
विमर्शाधिष्ठानौ पक्षप्रतिपक्षावुभावनवसितौ प्रकरणम्।
तस्य चिन्ता विमर्शात्प्रभृति प्राङ्निर्णयाद्यत्समीक्षणम्,
सा जिज्ञासा यत्कृता स निर्णयार्थं प्रयुक्त उभयपक्षसाम्यात् प्रकरणमनतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पते।
प्रज्ञापनं त्वनित्यः शब्दो नित्यधर्मानुपलब्धेरित्यनुपलभ्यमाननित्यधर्मकमनित्यं दृष्टं स्थाल्यादि॥
यन्त्र समानो धर्मः संशयकारणं हेतुत्वेनोपादीयते, स संशयसमः सव्यभिचार एव।
या तु विमर्शस्य विशेषापेक्षिता उभयपक्षविशेषानुपलब्धिश्च सा प्रकरणं प्रवर्तयति।
यथा शब्दे नित्यधर्मो नोपलभ्यते एवमनित्यधर्मः अपि।
सेयमुभयपक्षविशेषानुपलब्धिः प्रकरणचिन्तां प्रवर्तयति।
कथम्? विपर्यये हि प्रकरणनिवृत्तेः।
यदि नित्यधर्मः शब्दे गृह्येत, न स्यात्प्रकरणम्।
यदि वा अनित्यधर्मो गृह्येत, एवमपि निवर्त्तेत प्रकरणम्।
सो ऽयं हेतुरुभौ पक्षौ प्रवर्तयन्नन्यतरस्य निर्णयाय न प्रकल्पते
********************** न्य्स्भ्_1,2.8 **********************
न्य्स्_1,2.8: साध्याविशिष्टः साध्यत्वात् साध्यसमः ॥
द्रव्यं छायेति साध्यम्, गतिमत्त्वादिति हेतुः।
साध्येनाविशिष्टः साधनीयत्वात् साध्यसमः।
अयमप्यसिद्धत्वात्साधयवत्प्रज्ञापयितव्यः।
साध्यं तावदेतत्---किं पुरुषवच्छायापि गच्छति आहो स्विदावरकद्रव्ये संसर्पति आवरणसन्तानादसन्निधिसन्तानो ऽयं तेजसो गृह्यत इति।
सर्पता खलु द्रव्येण यो यस्तेजोभाग आव्रियते तस्य तस्यासन्निधिरेवाविच्छिन्नो गृह्यत इति।
आवरणं तु प्राप्तिप्रतिषेधः
********************** न्य्स्भ्_1,2.9 **********************
न्य्स्_1,2.9: कालात्ययापदिष्टः कालातीतः ॥
कालात्ययेन युक्तो यस्यार्थैकदेशो ऽपदिश्यमानस्य स कालात्ययापदिष्टः कालातीत इत्युच्यते।
निदर्शनम् नित्यः शब्दः संयोगव्यङ्ग्यत्वाद रूपवत्।
प्रागूर्द्धं च व्यक्तेरवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते, तथा च शब्दो ऽप्यवस्थितो भेरीदण्डसंयोगेन व्यज्यते, दारुपरशुसंयोगेन वा।
तस्मात्संयोगव्यङ्ग्यत्वान्नित्यः शब्द इत्ययमहेतुः कालात्ययापदेशात्।
व्यञ्जकस्य संयोगस्य कालं न व्यङ्ग्यस्य रूपस्य व्यक्तिरत्येति।
सति प्रदीपसंयोगे रूपस्य ग्रहणं भवति, न निवृत्ते संयोगे रूपं गृह्यते।
निवृत्ते तु दारुपरशुसंयोगे दूरस्थेन शब्दः श्रूयते विभागकाले।
सेयं शब्दस्य व्यक्तिः।
संयोगकालम् अत्येतीति न संयोगनिमित्ता भवति।
कस्मात्? कारणाभावाद्धि कार्याभाव इति।
एवमुदाहरणसाधर्म्यस्याभावादसाधनमयं हेतुर्हेत्वाभास इति।
अवयवविपर्यासवचनं न सूत्रार्थः।
कस्मात्?
यस्य येनार्थसम्बन्धो दूरस्थस्यापि तस्य सः।
अर्थतो ह्यसमर्थानामानन्तर्यमकारणम्॥
इत्येतद्वचनाद्विपर्यासेनोक्तो हेतुरुदाहरणसाधर्म्यात्तथा वैधर्म्यात्साध्यसाधनं हेतुलक्षण न जहाति।
अजहद्धेतुलक्षणं न हेत्वाभासो भवतीति॥
अवयवविपर्यासवचनमप्रापतकालम् इति च निग्रहस्थानमुक्तम्।
तदेवेदं पुनरुच्यते इति, अतस्तन्न सूत्रार्थः
********************** न्य्स्भ्_1,2.10 **********************
अथ छलम्---
न्य्स्_1,2.10: वचनविधातो ऽर्थविकल्पोपत्या छलम् ॥
न सामान्यलक्षणे छलं शक्यमुदाहर्तुम्, विभागे तूदाहरणानि
********************** न्य्स्भ्_1,2.11 **********************
विभागश्च,
न्य्स्_1,2.11: तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च ॥
********************** न्य्स्भ्_1,2.12 **********************
तेषाम्---
न्य्स्_1,2.12: अविशेषाभिहिते ऽर्थे वक्तुरभिप्रायादर्थानतरकल्पना वाक्छलम् ॥
नवकम्बलो ऽयं माणवक इति प्रयोगः।
अत्र नवः कम्बलो ऽस्येति वक्तुराभिप्रायः।
विग्रहे तु विशेषो, न समासे।
तत्रायं छलवादी वक्तुः अभिप्रायादविवक्षितमन्यमर्थं नव कम्बला अस्येति तावदभिहितं भवतेति कल्पयति।
कल्पयित्वा चासम्भवेन प्रतिषेधति, एको ऽस्य कम्बलः कुतो नव कम्बला इति।
तदिदं सामान्यशब्दे वाचि निमित्ते छलं वाक्छलमिति॥
अस्य प्रत्यवस्थानम्---सामान्यशब्दस्यानेकार्थत्वे ऽन्यतराभिधानकल्पनायां विशेषवचनम्।
नवकम्बल इत्यनेकार्थाभिधानम्, नवः कम्बलो ऽस्येति, नव कम्बला अस्येति च।
एतस्मिन्प्रयुक्ते येयं कल्पना नवकम्बला अस्येत्येतद् भवताभिहितम्, तच्च न सम्भवतीति।
एतस्यामन्यतराभिधानकल्पनायां विशेषो वक्तव्यः,
यस्माद्विशेषो ऽर्थविशेषेषु विज्ञायते ऽयमर्थो ऽनेनाभिहित इति।
स च विशेषो नास्ति, तस्मान्मिथ्याभियोगमात्रमेतदिति॥
प्रसद्धिश्च लोके शब्दार्थसम्बन्धो ऽभिधानाभिधेयनियमनियोगः।
अस्याभिधानस्यायमर्थो ऽभिधेन इति समानः सामान्यशब्दस्य, विशेषो विशिष्टशब्दस्य।
प्रयुक्तपूर्वाश्चेमे शब्दा अर्थे प्रयुज्यन्ते, नाप्रयुक्तपूर्वाः।
प्रयोगश्चार्थसम्प्रत्ययार्थः।
अर्थप्रत्ययाच्च व्यवहार इति।
तत्रैवमर्थगत्यर्थे शब्दप्रयोगे सामर्थ्यात्सामान्यशब्दस्य प्रयोगनियमः।
अजां ग्रामं नय, सर्पिरादर, ब्राह्मणं भोजयेति सामान्यशब्दाः सन्तो ऽर्थावयवेषु प्रयुज्यन्ते, सामर्थ्यात् यत्रार्थक्रियादेशना सम्भवति तत्र प्रवर्तन्ते नार्थसामान्ये, क्रियादेशनासम्भवात्।
एवमयं सामान्यशब्दो नवकम्बल इति यो ऽर्थः सम्भवति नवः कम्बलो ऽस्येति, तत्र प्रवर्तते।
यसतु न सम्भवति नव कम्बला अस्येति, तत्र न प्रवर्तते।
सो ऽयमनुपपद्यमानार्थकल्पनया परवाक्योपालम्भस्ते न कल्पत इति
********************** न्य्स्भ्_1,2.13 **********************
न्य्स्_1,2.13: सम्भवतो ऽर्थस्यातिसामान्ययोगाद् असम्भूतार्थकल्पना सामान्यच्छलम् ॥
अहो खलवसौ ब्राह्मणो विद्याचरणसम्पन्न इत्युक्ते कश्चिदाह सम्भवति ब्राह्मणे विद्याचरणसम्पदिति।
अस्य वचनस्य विधातो ऽर्थविकल्पोपपत्त्या असम्भूतार्थकल्पनया क्रियते यदि ब्राह्मणे विद्याचरणसम्पत् सम्भवति ननु व्रात्ये ऽपि सम्भवेत्, व्रात्यो ऽपि ब्राह्मणः, सो ऽप्यस्तु विद्याचरणसम्पन्नः।
यद्विवक्षितमर्थमाप्नोति चात्येति च तदतिसामान्यम्।
यथा ब्राह्मणत्वं विद्याचरणसम्पदं क्वचिदाप्नोति क्वचिदत्येतीति।
सामान्यनिमित्तं छलं सामान्यच्छलमिति।
अस्य च प्रत्यवस्थानम्---अविवक्षितहेतुकस्य विषयानुवादः प्रशंसार्थत्वाद् वाक्यस्य।
तदत्रासंभूतार्थकल्पनानुपपत्तिः।
यथा सम्भवन्त्यस्मिन् क्षेत्रे शालय इति।
अनिराकृतमविवक्षितं च बीजजन्म।
प्रवृत्तिविषयस्तु क्षेत्रं प्रशस्यते।
सो ऽयं क्षेत्रानुवादो, नास्मिन् शालयो विधीयन्त इति।
बीजातं शालिनिर्वृत्तिः सती न विवक्षिता।
एवं सम्भवति ब्राह्मणे विद्याचरणसम्पदिति सम्पद्विषयो ब्राह्मणत्वं न सम्पद्धेतुः।
न चात्र हेतुर्विवक्षितः।
विषयानुवादस्त्वयं प्रशंसार्थत्वाद् वाक्यस्य, सति ब्राह्मणत्वे सम्पद्धेतुः समर्थ इति।
विषयं च प्रशंसता वाक्येन यथाहेतुतः फलनिर्वृत्तिर्न प्रत्याख्यायते।
तदेवं सति वचनविधातो ऽसम्भूतार्थकल्पनया नोपपद्यत इति
********************** न्य्स्भ्_1,2.14 **********************
न्य्स्_1,2.14: धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥
अभिधानस्य धर्मो यथार्थप्रयोगः।
धर्मविकल्पो ऽन्यत्र दृष्टस्यान्यत्र प्रयोगः।
तस्य निर्देशे धर्मविकल्पनिर्देशे।
यथा मञ्चाः क्रोशन्तीति अर्थसद्भावनेव प्रतिषेधः मञ्चस्थाः पुरुषाः क्रोशन्ति, न तु मञ्चाः क्रोशन्ति॥
का पुनरत्रार्थविकल्पोपत्तिः? अन्यथा प्रयुक्तस्यान्यथार्थकल्पनं, भक्त्या प्रयोगे प्राधान्येन कल्पनम् उपचारविषयं छलमुपचारच्छलम्।
उपचारो नीतार्थः सहचरणादिनिमित्तेन, अतद्भावे तद्वदभिधानमुपचार इति॥
अत्र समाधिः---प्रसिद्धे प्रयोगे वक्तुर्यथाभिप्रायं शब्दार्थयोरभ्यनुज्ञा प्रतिषेधो वा न च्छन्दतः।
प्रधानभूतस्य शब्दस्य भाक्तस्य च गुणभूतस्य प्रयोग उभयोर्लोके सिद्धः।
सिद्धे प्रयोगे यथा वक्तुरभिप्रायस्तथा शब्दार्थावनुज्ञेयौ प्रतिषेध्यौ वा न च्छन्दतः।
यदि वक्ता प्रधानशब्दं प्रयुङ्क्ते, यथाभूतस्याभ्यनुज्ञा प्रतिषेधो वा न न्छन्दतः।
अथ गुणभूतम्? तदा गुणभूतस्य।
यत्र तु वक्ता गुणभूतं शब्दं प्रयुङ्क्ते प्रधानभूतमभिप्रेत्य परः प्रतिषेधति, स्वमनीषया प्रतिषेधो ऽसौ भवति न परोपालम्भ इति
********************** न्य्स्भ्_1,2.15 **********************
न्य्स्_1,2.15: वाक्छलम् एवोपचारच्छलं तद् अविशेषात् ॥
न वाक्छलादुपचारच्छलं भिद्यते, तस्याप्यर्थान्तरकल्पनाया अविशेषात्।
इहापि स्थान्यर्थो गुणशब्दः, प्रधानशब्दः सथानार्थ इति कल्पयित्वा प्रतिषिध्यत इति
********************** न्य्स्भ्_1,2.16 **********************
न्य्स्_1,2.16: न तदर्थान्तरभावात् ॥
न वाक्छलमेवोपचारच्छलं तस्यार्थसद्भावप्रतिषेधस्यार्थान्तरभावात्।
कुतः? अर्थान्तरकल्पनातः।
अन्या ह्यर्थान्तकल्पना, अन्यो ऽर्थसद्भावप्रतिषेध इति
********************** न्य्स्भ्_1,2.17 **********************
न्य्स्_1,2.17: अविशेषे वा किञ्चित्साधर्म्यात् एकच्छलप्रसङ्गः ॥
छलस्य द्वित्वमभ्यनुज्ञाय त्रित्वं प्रतिषिध्यते किंचित्साधर्म्यात्।
यथा चायं हेतुस्त्रित्त्वं प्रतिषेधति तथा
द्वित्वमप्यभ्यनुज्ञातं प्रतिषेधति।
विद्यते हि किंचित्साधर्म्यान्न निवर्तते, त्रित्वमपि न निवर्त्स्यतीति
********************** न्य्स्भ्_1,2.18 **********************
अत ऊद्धम्---
न्य्स्_1,2.18: साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥
प्रयुक्ते हि हेतौ यः प्रसङ्गो जायते सा जातिः।
स च प्रसङ्गः साधर्म्यवैधर्म्याभ्या प्रत्यवस्थानमुपालम्भः प्रतिषेध इति।
उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः इत्यस्योदाहरणवैधर्म्येण प्रत्यवस्थानम्।
तथा उदाहरणवैधर्म्यात्साध्यसाधनं हेतुः इत्यस्योदाहरणसाधर्म्येण प्रत्यवस्थानम्।
प्रत्यनीकभावाज्जायमानो ऽर्थो जातिरति
********************** न्य्स्भ्_1,2.19 **********************
न्य्स्_1,2.19: विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् ॥
विपरीता वा कुत्सिता वा प्रतिपत्तिर्विप्रतिपत्तिः।
विप्रतिपद्यमानः पराजयं प्राप्नोति।
निग्रहस्थानं खलु पराजयप्राप्तिः।
अप्रतिपत्तिस्त्वारम्भविषये ऽप्यनारम्भः।
परेण स्थापितं वा न प्रतिषेधति, प्रतिषेधं वा नोद्धरति।
असमासाच्च नैते एव निग्रहस्थाने इति
********************** न्य्स्भ्_1,2.20 **********************
किं पुनर्दृष्टान्तवज्जातिनिग्रहस्थानयोरभेदो ऽथ सिद्धान्तवद्भेद इत्यत आह---
न्य्स्_1,2.20: तद्विकल्पाञ्जातिनिग्रहस्थानबहुत्वम् ॥
तस्य साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जातिबहुत्वम्, तयोश्च विप्रतिपत्त्यप्रतिपत्त्योविकल्पान्निग्रहस्थानबहुत्त्वम्।
नानाकल्पो विकल्पः।
विविधो वा कल्पो विकल्पः।
तत्राननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणमित्यप्रतिपत्तिर्निग्रहस्थानम्।
शेषस्तु विप्रतिपत्तिरिति॥
त इमे प्रमाणादयः पदार्था उद्दिष्टा यथोद्देशं च लक्षिता यथालक्षणं च परीक्षिष्यन्त इति त्रिविधा चास्य
शास्त्रस्य प्रवृत्तिर्वेदितव्येति
मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0