न्यायसूत्र (टीका सहित) · अध्याय 2
********************** न्य्स्भ्_1,1.2 **********************
तत् खलु वै निःश्रेयसं किं तत्त्वज्ञानानन्तरमेव भवति? नेत्युच्यते किं तर्हि? तत्त्वज्ञानाद्--
न्य्स्_1,1.2: दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्गः ॥
तत्रात्माद्यपवर्गपर्यन्ते प्रमेये मिथ्याज्ञानमनेकप्रकारकं वर्तते।
आत्मनि तावन्नास्तीति, अनात्मन्यात्मेति, दुःखे सुखमिति, अनित्ये नित्यमिति, अत्राणे त्राणमिति, सभये निर्भयमिति, जुगुप्सिते ऽभिमतमिति, हातव्ये अप्रतिहातव्यमिति, प्रवृत्तौ नास्ति कर्म, नास्ति कर्मफलमिति, दोषेषु नायं दोषनिमित्तः संसार इति।
प्रेत्यभावे नास्ति जन्तुर्जीवो वा सत्त्व आत्मा वा यः प्रेयात् प्रेत्य च भवेदिति, अनमित्तं जन्म, अनिमित्तो जन्मोपरम इति, आदिमान् प्रेत्यभावो ऽनन्तश्चेति, नैमित्तिकः सन्नकर्मंनिमित्तः प्रेत्यभाव इति, देहेन्द्रियबुद्धिवेदनासन्तानोच्छेदप्रतिसन्धानाभ्यां निरात्मकः प्रेत्यभाव इति।
अपवर्गे भीष्मः खल्वयं सर्वकार्योपरमः, सर्वविप्रयोगे ऽपवर्गे बहु भद्रकं लुप्यतं इति कथं बुद्धिमान् सर्वसुखोच्छेदमचैतन्यममुमपवर्गं रोचयेदिति॥
एतस्मान्मिथ्याज्ञानादनुकूलेषु रागः, प्रतिकूलेषु च द्वेषः।
रागद्वेषाधिकाराच्चासत्येर्ष्यासूयामानलोभादयो दोषा भवन्ति।
दोषैः प्रयुक्तः शरीरेण प्रवर्तमानो हिंसास्तेयप्रतिषिद्धमैथुनान्याचरति।
वाचा अनृतपरूषसूचनासम्बद्धानि।
मनसा परद्रोहं परद्रव्याभीप्सां नास्तिक्यं चेति।
सेयंपापात्मिका प्रवृत्तिरधर्माय॥
अथ शुभा, शरीरेण दानं परित्राणं परचिरणं च।
वाचा सत्यं हितं प्रियं स्वाध्यायं चेति।
मनसा दयामस्पृहां श्रद्धां चेति।
सेयं धर्माय।
अत्र प्रवत्तिसाधनौ धर्माधर्मौं प्रवृत्तिशब्देनोक्तौ, यथान्नसाधनाः प्राणाः, अन्नं वै प्राणिनः प्राणाः इति।
सेयं प्रवृत्तिः कुत्सितस्याभिपूजितस्य च जन्मनः कारणम्।
जन्म पुनः शरीरेन्द्रियबुद्धिवेदनानां निकायविशिष्टः प्रादुर्भावः।
तस्मिन् सति दुःखम्, तत्पुनः प्रतिकूलवेदनीयं बाधना पीडा ताप इति।
त हमे मिथ्याज्ञानादयो दुःखान्ता धर्मा अविच्छेदेन प्रवर्तमानाः संसार इति॥
यदा तु तत्त्वज्ञानान्मिथ्याज्ञानमपैति, तदा मिथ्याज्ञानाये दोषा अपयन्ति।
दोषापाये प्रवृत्तिरपैति, प्रवृत्त्यपाये जन्मापैति।
जन्मापाये दुःखमपैति।
दुःखापाये चात्यन्तिको ऽपवर्गो निःश्रेयसमिति॥
तत्त्वज्ञानं तु खलु मिथ्याज्ञानविपर्ययेण व्याख्यातम्।
आत्मनि तावत् अस्तीति।
अनात्मन्यनात्मेति।
एवं दुःखे ऽनित्ये ऽत्राणे सभये जुगुप्सिते हातव्ये च यथाविषयं वेदितव्यम्।
प्रवृत्तौ, अस्ति कर्मास्ति कर्मफलमिति।
दोषेष, दोषनिमित्तो ऽयं संसार इति।
प्रेत्यभावे खलु, अस्ति जन्तुर्जोवः सत्त्व आत्मा वा यः प्रेयात् प्रेत्य च भवेदिति।
निमित्तवज्जन्म निमित्तवान् जन्मोपरम इति, अनादिः प्रेत्यभावो ऽपवर्गान्त इति, नैमित्तिकः सन् प्रेत्यभावः
प्रवृत्तिनिमित्तं इति।
सात्म्कः सन् देहेन्द्रियबुद्धिवेदनासन्तानोच्छेदप्रतिसन्धानाभ्यां प्रवर्तत इति।
अपवर्गे, शान्तः
खल्वयं सर्वविप्रयोगः सर्वोपरमो ऽपवर्गः, बहु च कृच्छ्रं घोर पापकं लुप्यत इति कथं बुद्धिमान् सर्वदुःखोच्छेदं सर्वदुःखासंविदमपवर्गं न रोचयेदिति।
तद् यथा, मधुविषसंपृक्तमन्नमनादेयमिति।
एवं सुखं दुःखानुषक्तमनादेयमिति
********************** न्य्स्भ्_1,1.3 **********************
त्रिविधा चास्य शास्त्रस्य प्रवृत्तिरूद्देशो लक्षणं परीक्षा चेति।
तत्र नामधेयेन पदार्थमात्रस्याभिधानमुद्देशः।
तत्रोद्दिष्टस्यातत्त्वव्यवच्छेदको धर्मो लक्षणम्।
लक्षितस्य यथालक्षणमुपपद्यते न वेति प्रमाणैरवधारणं परीक्षा।
तत्रोद्दिष्टस्य प्रविभक्तस्य लक्षणमुच्यते, यथा प्रमाणानां प्रमेयस्य च।
उद्दिष्टस्य लक्षितस्य च विभागवचनम्, यथा छलस्य---
वचनविघातो ऽर्थविकल्पोपपत्त्या छलम् [1.1.3]
तत् त्रिविधम् [1.2.11]
इति॥
अथोद्दिष्टस्य विभागवचनम्---
न्य्स्_1,1.3: प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥
अक्षास्याक्षस्य प्रतिविषयं वृत्तिः प्रत्यक्षम्।
वृत्तिस्तु सन्निकर्षो ज्ञानं वा।
यदा सन्निकर्षस्तदा ज्ञानं प्रमितिः, यदा ज्ञानं तदा हानोपादानोपेक्षबुद्धयः फलम्।
मितेन लिङ्गेन लिङ्गिनो ऽर्थस्य पश्चान्मानमनुमानम्।
उपमानं सामीप्यमानम्, यथा गौरेवं गवय इति।
सामीप्यं तु सामान्ययोगः।
शब्दः शब्द्यते ऽनेनार्थ इत्यभिधीयते विज्ञाप्यत इति॥
उपलब्धिसाधानानि प्रमाणानीति समाख्यानिर्वचनसामार्थ्याद् बोद्धव्यम्।
प्रमीयते ऽनेनेति करणार्थाभिधानो हि प्रमाणशब्दः।
तद्विशेषसमाख्याया अपि तथैव व्याख्यानम्॥
किं पुनरेतानि प्रमाणानि प्रमेयमभिसंप्लवन्ते, अथ प्रतिप्रमेयं व्यवतिष्ठन्त इति? उभयथा दर्शनम्।
अस्त्यात्मेत्याप्तोपदेशात् प्रतीयते।
अत्रानुमानम्,
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् । [1.1.10] इति।
प्रत्यक्षं युञ्जानस्य
योगसमाधिजम्,
आत्मान्यात्ममनसोः संयोगपिशेषादात्मा प्रत्यक्षः । [वै.सू. 6.1.11] इति।
अग्निराप्तोपदेशात् प्रतीयते अमुत्राग्निरिति।
प्रत्यासीदता धूमदर्शनेनानुमीयते।
प्रत्यासन्नेन
च प्रत्यक्षत उपलभ्यते।
व्यवस्था पुनः,
अग्निहोत्रं जुहुयात् स्वर्गकामः
इति।
लौकिकस्य स्वर्गे न लिङ्गदर्शनम्, न प्रत्यक्षम्।
स्तनयित्नुशब्दे श्रूयमाणे शब्दहेतोरनुमानम्।
तत्र न प्रत्यक्षं नागमः।
पाणौ च प्रत्यक्षत उपलभ्यमाने नानुमानं नागम इति॥
सा चेयं प्रमितिः प्रत्यक्षपरा।
जिज्ञासितमर्थमाप्तोपदेशात् प्रतिपद्यमानो लिङ्गदर्शनेनापि बुभुत्सते।
लिङ्गदर्शनेनानुमितं च प्रत्यक्षतो दिदृक्षते।
प्रत्यक्षत उपलब्धे ऽर्थे जिज्ञासा निवर्तते।
पूर्वोक्तमुदाहरणमग्निरिति।
प्रमातुः प्रमातव्ये ऽर्थे प्रमाणानां संकरो ऽभिसंप्लवः, असकरो व्यवस्थेति
********************** न्य्स्भ्_1,1.4 **********************
अथ विभक्तानां लक्षणवचनमिति--
न्य्स्_1,1.4: इन्द्रियार्यसन्निकर्षोत्पन्नु ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ॥
इन्द्रियस्यार्थेन सन्निकर्षादुत्पद्यते यज्ज्ञानं तत् प्रत्यक्षम्।
न तर्हि इदानीमिदं भवति आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति? नेदं कारणावधारणम्--एतावत्प्रत्यक्षे कारणमिति, किं तु विशिष्टकारणवचनमिति।
यत्प्रत्यक्षज्ञानस्य विशिष्टकारणं तदुच्यते, यत्तु समानम् अनुमानादिज्ञानस्य, न तन्निवर्त्यत इति॥
मनसस्तर्हीन्द्रियेण संयोगो वक्तव्यः? भिद्यमानस्य प्रत्यक्षश्रज्ञानस्य नायं भिद्यत इति समानत्वान्नोक्त इति॥
यावदर्थं वै नामधेयशब्दास्तैरर्थसम्प्रत्ययः, अर्थसंप्रत्ययाच्च व्यवहारः।
तत्रेदमिन्द्रियार्थसन्निकर्षादुत्पन्नमर्थज्ञान रूपम् इति वा, रस इत्येव वा भवति, रूपरसशब्दाश्च विषयनामधेयम्।
तेन व्यपदिश्यते ज्ञानम्--रूपमिति जानीते, रस इति जानीते।
नामघेयशब्देन व्यपदिश्यमानं सत् शाब्दं प्रसज्यते।
अत आह--अव्यपदेश्यमिति।
यदिदमनुपयुक्ते शब्दार्थसम्बन्धे अर्थज्ञानम्, न तत् नामधेयशब्देन व्यपदिश्यते, गृहीते ऽपि च शब्दार्थसम्बन्धे अस्यार्थस्यायं शब्दो नामधेयमिति।
यदा तु सो ऽर्थो गृह्यते, तदा तत्पूर्वस्मादर्थज्ञानात्
न विशिष्यते, तत् अर्थविज्ञानं तादृगेव भवति।
तस्य त्वर्थज्ञानस्यान्यः समाख्याशब्दो नास्ति, येन प्रतीयमानं
व्यवहाराय कल्पेत्।
न चाप्रतीयमानेन व्यवहारः।
तस्माज्ज्ञेयस्यार्थस्य संज्ञाशब्देनेतिकरणयुक्तेन निर्द्धिश्यते--रूपमिति ज्ञानम्, रस इति वा ज्ञानमिति।
तदेवमर्थज्ञानकाले स न समाख्याशब्दो व्याप्रियते, व्यवहारकाले तु व्याप्रियते।
तस्मादशाब्दम् अर्थज्ञानमिन्द्रियार्थसन्निकर्षोत्पन्नमिति॥
ग्रीष्मे मरीचयो भौमेनोष्मणा संसृष्टाः स्पन्दमाना दूरस्थस्य चक्षुषा सन्निकृष्यन्ते।
तत्रेन्द्रियार्थसन्निकर्षादुदकमिति ज्ञानमुत्पद्यते।
तच्च प्रत्यक्षं प्रसज्यते इत्यत आह अव्यभिचारीति यदेतस्मिंस्तदति
तद्व्यभिचारि, यत्तु तस्मिंस्तदिति तदव्यभिचारि प्रत्यक्षमिति॥
दूराच्चक्षुषा ह्ययमर्थं पश्यन्नावधारयति धूम इति वा रेणुरिति वा।
तदेतदिन्द्रियार्थसन्निकर्षोत्पन्नमनवधारणज्ञानं प्रत्यक्षं प्रसज्यत इत्यत आह--व्यवसायात्मकमिति।
न चैतन्मन्तव्यम्--आत्ममनः सन्निकर्षजमेवानवधारणज्ञानमिति।
किं तर्हि? चक्षुषा ह्ययमर्थं पश्यन्नावधारयति, यथा चेन्द्रियेण उपलब्धमर्थ मनसोपलभते, एवमिन्द्रियेणानवधारयन्मनसा नावधारयति।
यच्च तदिन्द्रियानवधारणपूर्वकं मनसानवधारणं तद्विशेषापेक्षं विमर्शेमात्रं संशयः, न पूर्वमिति।
सर्वत्र च प्रत्यक्षविषये ज्ञातुरिन्द्रियेण व्यवसायः, पश्चान्मनसानुव्यवसायः, उपहतेन्द्रियाणामनुव्यवसायाभावादिति॥
आत्मादिषु सुखादिषु च प्रत्यक्षलक्षणं वक्तव्यम्, अनिन्द्रियार्थसन्निकर्षजं हि तदिति।
इन्द्रियस्य वै सतो मनस इन्द्रियेभ्यः पृथगुपदेशो धर्मंभेदात्।
भौतिकानीन्द्रियाणि नियतविषयाणि, सगुणानां चैषामिन्द्रियभाव इति।
मनस्त्वभौतिकं
सर्वविषयं च, नास्य सगुणस्येन्द्रियभाव इति।
सति चेन्द्रियार्थसन्निकर्षे सन्निधिमसन्निधि चास्य युगपज्ज्ञानानुत्पत्तिकारणं वक्ष्यामः(1।1।16) इति।
मनसश्चेन्द्रियाभावान्न वाच्यं लक्षणान्तरमिति।
तन्त्रान्तरसमाचाराच्चैतत्प्रत्येतव्यमिति।
परमतमप्रतिषिद्धमनुमतमिति हि तन्त्रयुक्तिः।
व्याख्यातं प्रत्यक्षम्
********************** न्य्स्भ्_1,1.5 **********************
न्य्स्_1,1.5: अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं च ॥
तत्पूर्वकमित्यनेन लिङ्गलिङ्गिनोः सम्बन्धदर्शनं।
लिङ्गदर्शनं चाभिसंबध्यते।
लिङ्गलिङ्गिनोः संबद्धयोर्दर्शनेन लिङ्गस्मृतिरभिसंबध्यते।
स्मृत्या लिङ्गदर्शनेन चाप्रत्यक्षो ऽर्थो ऽनुमीयते॥
पूर्ववदिति--यत्र कारणेन कार्यमनुमीयते, यथा मेधोन्नत्या भविष्यति वृष्टिरिति।
शेषवत्तत्--यत्र कार्येण कारणमनुमीयते, पूर्वोदकविपरीतमुदकं नाद्याः पूर्णत्वं शीघ्रत्वं दृष्ठ्वा स्त्रोतसो ऽनुमीयते भूता वृष्टिरिति।
सामान्यतोदृष्टं--व्रज्यापूर्वकमन्यत्र दृष्टस्यान्यत्र दर्शनमिति, तथा चादित्यस्य, तस्मात् अस्त्यप्रत्यक्षाप्यादित्यस्य व्रज्येति॥
अथ वा पूर्ववदिति--यत्र यथापूर्व प्रत्यक्षभूतयोरन्यतरदर्शनेनान्यतरस्याप्रत्यक्षस्यानुमानम्, यथा
धूमेनाग्निरिति।
शेषवन्नाम परिशषः, स च प्रसक्तप्रतिषेधे ऽन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः, यथा सदनित्यमेवमादिना द्रव्यगुणकर्मणामविशेषेण सामान्यविशेषसमवायेभ्यो निर्भक्तस्य शब्दस्य, तस्मिन् द्रव्यगुणकर्मसंशये, न द्रव्यम्, एकद्रव्यत्वात्, न कर्म, शब्दान्तरहेतुत्वात्, यस्तु शिष्यते सो ऽयमिति शब्दस्य गुणत्वप्रतिपत्तिः।
सामान्यतोदृष्टं नाम--यत्राप्रत्यक्षे लिङ्गलिङ्गिनोः सम्बन्धे केनचिदर्थेन लिङ्गस्य सामान्यादप्रत्यक्षो लिङ्गी गम्यते, यथेच्छादिभिरात्मा, इच्छादयोगुणाः, गुणाश्च द्रव्यसंस्थानाः, तद्यदेषां स्थानं स आत्मेति॥
विभागवचनादेव त्रिविधमिति सिद्धे त्रिविधवचनं महतो महाविषयस्य न्यायस्य लघीयसा सूत्रेणोपदेशात् परं
वाक्यलाघवं मन्यमानस्यान्यस्मिन् वाक्यलाघवे ऽनादरः।
तथा चायमस्येत्थम्भूतेन वाक्यविकल्पेन प्रवृत्तः सिद्धान्ते छले शब्दादिषु च बहुलं समाचारः शास्त्र इति॥
सद्विषयं च प्रत्यक्षं सदसद्विषयं चानुमानम्।
कस्मात्? त्रैकाल्यग्रहणात्--त्रिकालयुक्ता अर्था अनुमानेन गृह्यन्ते।
भविष्यतीत्यनुमीयते भवतीति चाभूदिति च।
असच्च ख्ल्वतीतमनागतं चेति
********************** न्य्स्भ्_1,1.6 **********************
अथोपमानम्---
न्य्स्_1,1.6: प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् ॥
प्रज्ञातेन सामान्यात्प्रज्ञापनीयस्य प्रज्ञापनमुपमानमिति।
यथा गौरेवं गवय इति।
किं पुनरत्रोपमानेन क्रियते? यदा खल्वयं गवा समानधर्मं प्रतिद्यते, तदा प्रत्यक्षतस्तमर्थं प्रतिपद्यत इति।
समाख्यासम्बन्धप्रतिपत्तिः उपमानार्थं इत्याह।
यथा गौरेवं गवय इत्युपमाने प्रयुक्ते गवा समानधर्माणम् अर्थमिन्द्रियार्थसंनिकर्षादुपलभमानो ऽस्य गवयशब्दः संज्ञेति संज्ञासज्ञिसम्बन्धं प्रतिपद्यत इति।
यथा मुद्गस्तथा मूद्गपर्णी यथा भाषस्तथा माषपणीत्युपमाने प्रयुक्ते उपमानात्संज्ञासंज्ञिसम्बन्धं प्रतिपद्यमानस्तामोषधी भैषज्याय आहरति।
एवमन्यो ऽप्युपमानस्य लोके विषयो बुभुत्सितव्य इति
********************** न्य्स्भ्_1,1.7 **********************
अथ शब्दः---
न्य्स्_1,1.7: आप्तोपदेशः शब्दः ॥
आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा।
साक्षात्करणमर्थस्याप्तिः,
तया प्रवर्तत इत्याप्तः।
ऋष्यार्यम्लेच्छानां समानं लक्षणम्।
तथा च सर्वेषां व्यवहाराः प्रवर्तन्त इति।
एवमेभिः प्रमाणैर्देवमनुष्यतिरश्चां व्यवहाराः प्रकल्पन्ते, नातो ऽन्यथेति
********************** न्य्स्भ्_1,1.8 **********************
न्य्स्_1,1.8: स द्विविधो दृष्टादृष्टार्थत्वात् ॥
यस्येह दृश्यते ऽर्थः स दृष्टार्थः।
यस्यामुत्र प्रतीयत सो ऽदृष्टार्थः।
एवमृषिलौकिकवाक्यानां विभाग इति।
किमर्थं पुनरिदमुच्यते? स न मन्येत दृष्टार्थं एवाप्तोपदेशः प्रमाणम्, अर्थस्यावधारणादित, अदृष्टार्थो ऽपि
प्रमाणमर्थस्यानुमानादिति।
इति प्रमाणभाष्यम्
********************** न्य्स्भ्_1,1.9 **********************
किं पुनरनेन प्रमाणेनार्थजातं प्रमातव्यमिति? तदुच्यते---
न्य्स्_1,1.9: आत्माशरीरेन्द्रियार्थबुद्धिमनःवृत्तिदोषप्रेत्यभावफलदुःखापवर्गासतु प्रमेयम् ॥
तत्रात्मा सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः सर्वानुभावी।
तस्य भोगायतनं शरीरम्।
भोगसाधनानीन्द्रियाणि।
भोक्तव्या इन्द्रियार्थाः।
भोगो बुद्धिः।
सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्तीति सर्वविषयमन्तःकरण मनः।
शरीरेन्द्रियार्थबुद्धिसुखदुःखसंवेदनानां निर्वृत्तिकारणं प्रवृत्तिः, दोषश्च।
नास्येदं शरीरमपूर्वमनुत्तरं च।
पूर्वशरीराणामादिर्नास्ति, उत्तरेषामपवर्गो ऽन्त इति प्रेत्यभावः।
समाधनसुखदुःखोपभोगः फलम्।
दुःखमिति नेदमनुकूलवेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानम्।
किं तर्हि? जन्मन एवेदं ससुखसाधनस्य दुःखानुषङ्गात् दुःखेनाविप्रयोगाद्विविधबाधनायोगाद् दुःखमिति समाधिभावनमुपदिश्यते।
समाहितो भावयति,
भावयन्निर्विद्यते, निर्विण्णस्य वैराग्यम्, विरक्तस्यापवर्ग इति।
जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणमपवर्ग इति॥
अस्त्यन्यदपि द्रव्यगुणकर्मसामान्यविशेषसमवायाः प्रमेयम्, तद्भेदेन चापरिसड्ख्येयम्।
अस्य तु तत्त्वज्ञानादपवर्गो मिथ्याज्ञानात्संसार इत्यत एतदुपदिष्टं विशेषेणेति
********************** न्य्स्भ्_1,1.10 **********************
तत्रात्मा तावत्प्रत्यक्षतो न गृह्यते।
स किमाप्तोपदेशमात्रादेव प्रतिपद्यत इति? नेत्युच्ते।
अनुमानाच्च प्रतिपत्तव्य इति।
कथम्?
न्य्स्_1,1.10: इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ॥
यज्जातीयस्यार्थस्य सन्निकर्षात्सुखमात्मापलब्धवान्, तज्जातीयमेव अर्थं पश्यन्नुपादातुमिच्छति, सेयमादातुमिच्छा एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानाद्भवति लिङ्गमात्मनः।
नियतविषये हि बुद्धिभेदमात्रे न संभवति, देहान्तरवदिति।
एकमेकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानात् दुःखहेतौ द्वेषः।
यज्जातीयो ऽस्यार्थः सुखहेतुः प्रसिद्धस्तज्जातीयमर्थ पश्यन् आदातुं प्रयतते।
सो ऽयं प्रयत्न एकमनेकार्थदर्शिनं दर्शनप्रतिसन्धातारम् अन्तेरण न स्यात्।
नियतविषये हि बुद्धिभेदामात्रे न संभवति, देहान्तरवदिति।
एतेन दुःखहेतौ प्रयत्नो व्याख्यातः।
सुखदुःखस्मृत्या चायं तत्साधनमाददानः सुखमुपलभते दुःखमुपलभते, सुःखदुःखे वेदयते।
पूर्वोक्त एव हेतुः।
बुभुत्समानः खल्वयं विमृशति किं स्विदिति, विमृशंश्च जानीते इदमिति, तदिदं ज्ञानं बुभुत्साविमर्शाभ्यामभिन्नकर्तृकं गृह्यमाणमात्मनो लिङ्गम्।
पूर्वोक्त एव हेतुरिति।
तत्र देहान्तरवदिति विभज्यते।
यथा अनात्मवादिनो देहान्तरेषु नियतविषया बुद्धिभेदा न प्रतिसन्धीयन्ते, तथैकदेहविषया अपि न प्रतिसन्धीयेरन्, अविशेषात्।
सो ऽयमेकसत्त्वस्य समाचारः स्वयन्दृष्टस्य स्मरणं, नान्यदृष्टस्य, नादृष्टस्येति।
एवं खलु नानासत्त्वानां समाचारो ऽन्यदृष्टमन्यो न स्मरतीति।
तदेतदुभयमशक्यमनात्मवादिना व्यवस्थापयितुमित्येवमुपपन्नमस्त्यात्मेति
********************** न्य्स्भ्_1,1.11 **********************
तस्य भोगाधिष्ठानम्---
न्य्स्_1,1.11: चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥
कथं चेष्टाश्रयः? ईप्सितं जिहासितं वार्थमधिकृत्येप्साजिहासाप्रयुक्तस्य तदुपायानुष्ठानलक्षणा समीहा चेष्टा, स यत्र
वर्तते तच्छरीरम्।
कथमिन्द्रियाश्रयः? यस्यानुग्रहेणानुगृहीतानि उपघाते न चोपहतानि स्वविषयेषु साध्वसाधुषु प्रवर्तन्ते, स एषामाश्रयः तच्छरीरम्।
कथमर्थाश्रयः? यस्मिन्नायतने इन्द्रियार्थसन्निकर्षादुत्पन्नयोः सुखदुःखयोः प्रतिसंवेदनं प्रवर्तते, स एषामाश्रयः तच्छरीरमिति
********************** न्य्स्भ्_1,1.12 **********************
भोगसाधनानि पुनः,
न्य्स्_1,1.12: घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ॥
जिघ्रत्यनेनेति घ्राणं गन्धं गृह्णातीति।
रसयत्यनेनेति रसनं रसं गृह्णातीति।
चष्टे ऽनेनेति चक्षू रूपं पश्यतीति।
त्वक्स्थानमिन्द्रियं त्वक्।
तदुपचारः स्थानादिति।
शृणोत्यनेनेति श्रोत्रं शब्दं गृह्णातीति।
एवं समाख्यानिर्वचनसामर्थ्याद्बोध्यं स्वविषयग्रहणलक्षणानीन्द्रियाणीति।
भूतेभ्य इति।
नानाप्रकृतीनामेषां सतां विषयनियमः, नैकप्रकृतीनाम्।
सति च विषयनियमे स्ववषियग्रहणलक्षण्त्वं भवतीति
********************** न्य्स्भ्_1,1.13 **********************
कानि पुनरिन्द्रियकारणानि?
न्य्स्_1,1.13: पृथिव्यापस्तेजो वायुराकाशमिति भूतानि ॥
संज्ञाशब्दैः पृथगुपदेशो भूतानां विभक्तानां सुवचं कार्यं भविष्यतीति
********************** न्य्स्भ्_1,1.14 **********************
इमे तु खलु---
न्य्स्_1,1.14: गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ॥
पृथिव्यादीनां यथाविनियोगं गुणा इन्द्रियाणां यथाक्रममर्था विषया इति
********************** न्य्स्भ्_1,1.15 **********************
अचेतनस्य करणस्य बुद्धेर्जानं वृत्तिः, चेतनस्याकर्तुरूपलब्धिरिति युक्तिविरुद्धमर्थं प्रत्याचक्षाणक इवेदमाह---
न्य्स्_1,1.15: बुद्धिरूपलब्धिर्ज्ञानमित्यनर्थान्तरम् ॥
नाचेतनस्य करणस्य बुद्धेर्ज्ञानं भवितुमर्हति।
तद्धि चेतनं स्यात्।
एकश्चायं चेतनो देहेन्द्रियसङ्घातव्यतिरिक्त इति।
प्रमेयलक्षणार्थस्य वाक्यस्यान्यार्थप्रकाशनमुपपत्तिसामर्थ्यादिति
********************** न्य्स्भ्_1,1.16 **********************
स्मृत्यनुमानागमसंशयप्रतिभास्वप्नज्ञानोहाः सुखादिप्रत्यक्षमिच्छादयश्च मनसो लिङ्गानि।
तेषु सत्स्वियमपि---
न्य्स्_1,1.16: युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥
अनिन्द्रियनिमित्ताः स्मृत्यादयः करणान्तरनिमित्ता भवितुमर्हन्तीति।
युगपच्च खलु घ्राणादीनां गन्धादीनां च सन्निकर्षेषु सत्सु युगपज्ज्ञानानि नोत्पद्यन्ते।
तेनानुमीयते, अस्ति तत्तदिन्द्रियसंयोगि सहकारि निमित्तान्तरमव्यापि, यस्यासन्निधेर्नोत्पद्यते ज्ञानम्, सन्निधेश्चोत्पद्यत इति।
मनःसंयोगानपेक्षस्य हीन्द्रियार्थसन्निकर्षस्य ज्ञानहेतुत्वे युगपदुत्पद्येरन् ज्ञानानीति
********************** न्य्स्भ्_1,1.17 **********************
क्रमप्राप्ता तु---
न्य्स्_1,1.17: प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः ॥
मनो ऽत्र बुद्धिरित्यभिप्रेतम्, बुध्यते ऽनेनेति बुद्धिः।
सो ऽयभारम्भः शरीरेण वाचा मनसा च पुण्यः पापश्च दशविधः।
तदेतत्कृतभाष्यं द्वितीयसूत्र इति
********************** न्य्स्भ्_1,1.18 **********************
न्य्स्_1,1.18: प्रवर्तनालक्षणा दोषाः ॥
प्रवर्तना---प्रवृत्तिहेतुत्वम्, ज्ञातारं हि रागादयः प्रवर्तयन्ति पुण्ये पापे वा।
यत्र मित्याज्ञानं तत्र रागद्वेषाविति।
प्रत्यात्मवेदनीया हीमे दोषाः कस्माल्लक्षणतो निद्र्दिश्यन्त इति? कर्मलक्षणाः खलु रक्तद्विष्टमूढाः, रक्तो हि तत्कर्म कुरुते येन कर्मणा सुखं दुःखं वा लभते, तथा द्विष्टस्तथा मूढ इति।
दोषा रागद्वेषमोहा
इत्युच्यमाने बहु नोक्तं भवतीति
********************** न्य्स्भ्_1,1.19 **********************
न्य्स्_1,1.19: पुनर् उत्पत्तिः प्रेत्यभावः ॥
उत्पन्नस्य क्वचित्सत्त्वनिकाये मृत्वा या पुनरूत्पत्तिः स प्रेत्यभावः।
उत्पन्नस्य---सम्बद्धस्य।
सम्बन्धस्तु देहेन्द्रियबुद्धिवेदनाभिः।
पुनरूत्पत्तिः--- पुनर्देहादिभिः सम्बन्धः।
पुररित्यभ्यासाभिधानम्।
यत्र क्वचित्प्राणभृन्निकाये वर्त्तमानः पूर्वोपात्तान् देहादीन् जहाति तत्प्रैति।
यत् तत्रान्यत्र वा देहादीनन्यानुपादत्ते तद्भवति।
प्रेत्यभावः---मृत्वा पुनर्जन्म।
सो ऽयं जन्ममरणप्रबन्धाभ्यासो ऽनादिरपवर्गान्तः प्रेत्यभावो वेदितव्य इति
********************** न्य्स्भ्_1,1.20 **********************
न्य्स्_1,1.20: प्रवृत्तिदोषजनितो ऽर्थः फलम् ॥
सुखदुःखसंवेदनं फलम्।
सुखविपाकं कर्म दुःखविपाकं च।
तत्पुनर्देहेन्द्रियविषयबुद्धिषु सतीषु भवतीति सह देहादिभिः फलमभिप्रतम्।
तथा हि प्रवृत्तिदोषजनितो ऽर्थ फलमेतत्सर्वं भवति।
तदेतत्फलमुपात्तमुपात्तं हेयम्, त्यक्तं त्यक्तमुपादेयमिति नास्य हानोपादानयोर्निष्ठा पर्यवसानं वास्ति, स खल्वयं फलस्य हानोपादानस्रोततसोह्यते लोक इति
********************** न्य्स्भ्_1,1.21 **********************
अथैतदेव---
न्य्स्_1,1.21: बाधनालक्षणं दुःखम् ॥
बाधना पीडा ताप इति।
तयानुबद्धमनषक्तमविनिर्भागेन वर्तमानं दुःखयोगाद् दुःखमिति।
सो ऽयं सर्वं दुःखेनानुबद्धमिति पश्यन् दुःखं जिहासुर्जन्मनि दुःखदर्शी निर्विद्यते निर्विण्णो विरज्यते विरक्तो विमुच्यते
********************** न्य्स्भ्_1,1.22 **********************
यत्र तु निष्ठा यत्र तु पर्यवसानं सो ऽयम्---
न्य्स्_1,1.22: तदत्यन्तविमोक्षो ऽपवर्गः ॥
तेन दुःखेन जन्मना अत्यन्तं विमुक्तिरपवर्गः।
कथम्? उपात्तस्य जन्मनो हानम्, अन्यस्य चानुपादानम्।
एतामवस्थामपर्यन्तामपवर्गं वेदयन्ते ऽपवर्गविदः।
तदभयमजरममृत्युपदं ब्रह्म क्षेमप्रापितरिति॥
नित्यं सुखमात्मनो महत्त्ववत् तत्तु मोक्षे अभिव्यज्यते, तेनाभिव्यक्तेनात्यन्तं विमुक्तः सुखी भवतीति केचित् मन्यन्ते।
तेषां प्रमाणाभावादनुपपत्तिः।
न प्रत्यक्षं नानुमानं नागमो वा विद्यते, नित्यं सुखमात्मनो महत्त्ववत् तत्तु मोक्षे ऽभिव्यज्यत इति॥
नित्यस्याभिव्यक्तिः संवेदनम्, तस्य हेतुवचनम्।
नित्यस्य सुखस्याभिव्यक्तिः संवेदनम् ज्ञानमिति, तस्य हेतुर्वाच्यो यतस्तदुत्पद्यत इति॥
सुखवन्नित्यमिति चेत्? संसारस्थस्य मुक्तेनाविशेषः।
यथा मुक्तः सुखेन तत्संवेदनेन च सन्नित्येनोपपन्नस्तथा
संसारस्थो ऽपीत्यविशेषः प्रसज्यते, उभयस्य नित्यत्वात्॥
अभ्युनुज्ञाने च धर्माधर्मफलेन साहचर्यं यौगपद्यं गृह्यते।
यदिदम् उत्पत्तिस्थानेषु धर्माधर्मफलं सुखं दुःखं च संवेद्यते पर्यायेण, तस्य च नित्यसंवेदनस्य च सहभावो यौगपद्यं गृह्येत, न सुखाभावो नानभिव्यक्तिरस्ति, उभयस्य नित्यत्वात्।
अनित्यत्वे हेतुवचनम्।
अथ मोक्षे नित्यस्य सुखस्य सवेदनमनित्यम्? यतस्तदुत्पद्यते स हेतुर्वाच्यः।
आत्ममनःसंयोगस्य निमित्तान्तरसहितस्य हेतुत्वम्।
तस्य सहकारिनिमित्तान्तरवचनम्।
आत्ममनःसंयोगो हेतुरिति चेत्? एवमपि तस्य सहकारि निमित्तान्तरं वचनीयमिति॥
धर्मस्य कारणवचनम्।
यदि धर्मो निमित्तान्तरम्? तस्य हेतुर्वाच्यो यत उत्पद्यत इति।
योगसमाधिजस्य कार्यावसायविरोधात्प्रक्षये संवेदनेनिवृत्तिः।
यदि योगसमाधिजो धर्मो हेतुः? तस्य कार्यावसायविपोधात्प्रक्षये संवेदनम् अमत्यन्तं निवर्तेत॥
असंवेदने चाविद्यमानेनाविशेषः।
यदि धर्मक्षयात्संवेदनोपरमो नित्यं सुखं न संवेद्यते इति किं विद्यमानं न संवेद्यते, अथाविद्यमानमिति नानुमानं विशिष्टे ऽसतीति।
अप्रक्षयश्च धर्मस्य निरनुमानमुत्पत्तिधर्मकस्यानित्यत्वात्।
योगसमाधिजो धर्मो न क्षीयत इति नास्त्यनुमानम्।
उत्पत्तिधर्मकमनित्यमिति विपर्ययस्य त्वनुमानम्।
यस्य तु संवेदनोपरमो नास्ति तेन संवेदनहेतुर्नित्य इत्यनुज्ञेयम्॥
नित्ये च मुक्तसंसारस्थयोरविशेष इत्युक्तम्।
यथा मुक्तस्य नित्यं सुखं तत्संवेदनहेतुश्च, संवेदनस्य तूपरमो नास्ति, कारणस्य नित्यत्वात्, तथा संसारस्थस्यापीति।
एवं च सति धर्माधर्मफलेन सुखदुःखसंवेदनेन साहचर्यं गृह्येतेति॥
शरीरादिसम्बन्धः प्रतिबन्धहेतुरिति चेत्? न, शरीरादीनामुपभोगार्थत्वात्, विपर्ययस्य चाननुमानात्।
स्यान्मतम्, संसारावस्थस्य शरीरादिसम्बन्धो नित्यसुखसंवेदनहेतोः प्रतिबन्धकः, तेनाविशेषो नास्तीति।
एतच्चायुक्तम्, शरीरादय उपभोगार्थास्ते भोगप्रतिबन्धं करिष्यन्तीत्य नुपपन्नम् ।
न चास्त्यनुमानमशरीरस्यात्मनो भोगः कश्चिदस्तीति॥
इष्टाधिगमार्था प्रवृत्तिरिति चेत्? न, अनिष्टोपरमार्थत्वात्।
इदम् अनुमानम्, इष्टाधिगमार्थो मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षूणाम्, नोभयमनर्थकमिति।
एतच्चायुक्तम्, अनिष्टोपरमार्थो मोक्षोपदेशः, प्रवृत्तिश्च मुमुक्षूणामिति।
नेष्टमनिष्टेनाननुबद्धं सम्भवतीति अनिष्टानुबन्धात् इष्टमप्यनिष्टसम्पद्यते, अनिष्टहानाय च घटमान इष्टमपि जहाति, विवेकहानस्याशक्यत्वादिति॥
दृष्टातिक्रमश्च देहादिषु तुल्यः।
यथा दृष्टमनित्यं सुखं परित्यज्य नित्यं सुखं कामयते, एवं देहेन्द्रिय बुद्धीरनित्या दृष्टा अनिक्रम्य मुक्तस्य नित्या देहेन्द्रियबुद्धयः कल्पयितव्याः, साधीयश्चैवं मुक्तस्य चैकात्म्यं कल्पितं भवतीति॥
उपपत्तिविरूद्धमिति चेत्? समानम्।
देहादीनां नित्यत्वं प्रमाणविरूद्धं कल्पययितुमशक्यमिति? समानम्।
सुखस्यापि तर्हि नित्यत्वं प्रमाणविरूद्धं कल्पयितुमशक्यमिति॥
आत्यन्तिके च संसारदुःखाभावे सुखवचनादागमे ऽपि सत्यविरोधः।
यद्यपि कश्चिदागमः स्यात् मुक्तस्यात्यन्तिकं सुखमिति? सुखशब्द आत्यन्तिके दुःखाभावे प्रयुक्त इत्येवमुपपद्यते, दृष्टो हि दुःखाभावे सुखशब्दप्रयोगो बहुलंलोक इति॥
नित्यसुखरागस्याप्रहाणे मोक्षाधिगमाभावो रागस्य बन्धनसमाज्ञानात्।
यद्ययं मोक्षे नित्यं सुखमभिव्यज्यत इति नित्यसुखरागेण मोक्षायघटमाना न मोक्षमधिगच्छेत्, नाधिगन्तुमर्हतीति।
बन्धनसमाज्ञातो हि रागः।
न च बन्धने सत्यपि कश्चिन्मुक्त इत्युपपद्यत इति॥
प्रहीणनित्यसूखरागस्याप्रतिकूलत्वम्।
अथास्य नित्यसुखरागः प्रहीयते, तस्मिन्प्रहीणे नास्य नित्यसुखारागः प्रतिकूलो भवति? यद्येवम्, मुक्तस्य नित्यं सुखं भवति, अथापि न भवति, नास्योभयोः पक्षयोर्मोक्षाधिगमो विकल्प्यत इति
********************** न्य्स्भ्_1,1.23 **********************
स्थानवत एतर्हि संशयस्य लक्षणं वाच्यमिति तदुच्यते---
न्य्स्_1,1.23: समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरूपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः ॥
समानधर्मोपपत्तेर्विशेषापेक्षो विमर्शः संशय इति।
स्थाणुपुरूषयोः समानं धर्ममारोहपरिणाहौ पश्यन् पूर्वदृष्टं च तयोविशेषं बुभुत्समानः किस्विदित्यन्यतरं नावधारयति, यत् तदनवधारणज्ञानं स संशयः।
समानमनयोर्धर्ममुपलभे विशेषमन्यतरस्य नोपलभ इत्येषा बुद्धिः अपेक्षा।
सा संशयस्य प्रवर्त्तिका वर्त्तते।
तेन विशेषापेक्षो विमर्शः संशयः॥
अनेकधर्मोपपत्तेरिति।
समानजातोयमसमानजातीयं चानेकम्।
तस्यानेकस्य धर्मोपपत्तेः विशेषस्योभयथा दृष्टत्वात्।
समानजातीयेभ्यो ऽसमानजातीयेभ्यश्चार्था विशिष्यन्ते, गन्धवत्त्वात्पृथिव्यवादिभ्यश्च विशिष्यते, गुणकर्मभ्यश्च।
अस्ति च शब्दे विभागजन्यत्वं विशेषः।
तस्मिन् द्रव्यं गुणः कर्म वेति सन्देहः, विशेषस्योभयथा दृष्टत्वात्।
किं द्रव्यस्य सतो गुणकमभ्यो विशेषः, आहोस्विदगुणस्य सतो द्रव्यकर्मभ्यः, अथ
कर्मणः सतो द्रव्यगुणेभ्य इति? विशेषापेक्षा अन्यतमस्य व्यवस्थापकं धर्मं नोपलभ इति बुद्धिरिति॥
विप्रतिपत्तेरिति।
व्याहतमेकार्थदर्शनं विप्रतिपत्तिः, व्याघातः विरोधो ऽसहभाव इति।
अस्त्यात्मेकं दर्शनम् नास्त्यात्मेत्यपरम्।
न च सद्भावासद्भावौ सहैकत्र सम्भवतः।
न चान्यतरसाधको हेतुरूपलभ्यते।
तत्र तत्त्वानवधारणं संशय इति॥
उपलब्ध्यव्यव्थातः खल्वपि।
सच्चोदकमुपलभ्यते तडागादिषु, मरीचिषु चाविद्यमानमुदकमिति, अतः क्कचिदुपसभ्यमाने तत्त्वव्यवस्थापकस्य प्रमाणस्यानुपलब्धेः किं सदुपलभ्यते ऽथासदिति संशयो भवति॥
अनुपलब्ध्यवस्थातश्च।
सच्च नोपलभ्यते मूलकीलकोदकादि, असच्चानुत्पन्नं निरूद्धं वा, ततः क्कचिदनुपलभ्यमाने, किं सन्नोपलभ्यते उतासदिति संशयो भवति।
विशेषापेक्षो पूर्ववत्॥
पूर्वः समानो ऽनेकश्च धर्मो ज्ञेयस्थः, उपलब्ध्यनुपलब्धी पुनर्ज्ञातृस्थे, एतावता विशेषेण पुनर्वचनम्।
समानधर्माधिगमात्समानधर्मोपपत्तेर्विशेषस्मृत्यपेक्षो विमर्श इति
********************** न्य्स्भ्_1,1.24 **********************
स्थानवतां लक्षणवचनमिति समानम्।
न्य्स्_1,1.24: यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥
यमर्थमाप्तव्यं हातव्यं वा व्यवसाय तदाप्तिहानोपायमनुतिष्ठति, प्रयोजनं तद्वेदितव्यम्, प्रवृत्तिहेतुत्वात्।
इममर्थमाप्स्यामि हास्यामि वेतिव्यवसायो ऽर्थस्याधिकारः, एवं व्यवसीयमानो ऽर्थो ऽधिक्रियत इति
********************** न्य्स्भ्_1,1.25 **********************
न्य्स्_1,1.25: लौकिकपरीक्षदाणां यस्मिन्न् अर्थे बुद्धिसाम्यं स दृष्टान्तः ॥
लोकसामान्यमनतीताः लौकिकाः, नैसर्गिकं वैनयिकं बुद्ध्यतिशयम् अप्राप्ताः।
तद्विपरीताः परीक्षकाः, तर्केण प्रमाणैरर्थं परीक्षितुमर्हन्तीति।
यथा यमर्थं लौकिका बुध्यतन्ते, तथा परीक्षका अपि, सो ऽर्थो दृष्टान्तः।
दृष्टान्तविरोधेन हि प्रतिपक्षाः प्रतिषेद्धव्या भवन्तीति, दृष्टान्तसमाधिता न स्वपक्षाः स्थापनीया भवन्तीति, अवयवेषु चोदाहरणाय कल्पत इति
********************** न्य्स्भ्_1,1.26 **********************
अथ सिद्धान्तः।
इदमित्थम्भूतञ्चेत्यभ्यनुज्ञायमानमर्थजातं सिद्धम् सिद्धस्य संस्थितिः सिद्धान्तः।
संस्थितिरित्थम्भावव्यवस्था---धर्मनियमः।
स खल्वयम्---
न्य्स्_1,1.26: तन्त्राधिकरणाभ्युपगसंसस्थितिः सिद्धान्तः ॥
तन्त्रार्थसस्थितिः तन्त्रसंस्थितिः।
तन्त्रमितरेतराभिसम्बद्धस्यार्थसमूहस्योपदेशः शास्त्रम्।
अधिकरणानुषक्तार्थसंस्थितिरधिकरणसंस्थितिः।
अभ्युपगमसंस्थितिरनवधारितार्थपरिग्रहः।
तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः
********************** न्य्स्भ्_1,1.27 **********************
तन्त्रभेदात् तु खलु स चतुर्विधः
न्य्स्_1,1.27: सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ॥
तत्रैताश्चतस्रः संस्थितयो ऽर्थान्तरभूताः
********************** न्य्स्भ्_1,1.28 **********************
तासाम्---
न्य्स्_1,1.28: सर्वतन्त्राविरुद्धस्तन्त्रे ऽधिकृतो ऽर्थः सर्वतन्त्रसिद्धान्तः ॥
यथा घ्राणादीनीन्द्रियाणि, गन्धादय इन्द्रियार्थाः, पृथिव्यादीनि भूतानि, प्रमाणैरर्थस्य ग्रहणमिति
********************** न्य्स्भ्_1,1.29 **********************
न्य्स्_1,1.29: समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥
यथा नासत अत्मलाभः, न सत आत्महानम्, निरतिशयाश्चेतनाः देहेन्द्रियमनःसं विषयेषु तत्तत्कारणेषु च विशेष इति साङ्ख्चानाम् ।
पुरुषकर्मादिनिमित्तो भूतसर्गः, कर्महेतवो दोषाः प्रवृत्तिश्च, स्वगुणविशिष्टाश्चेतनाः, असदुत्पद्यते उत्पन्नं निरुध्यत इति योगानाम्
********************** न्य्स्भ्_1,1.30 **********************
न्य्स्_1,1.30: यत्सिद्धाव् अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः ॥
यस्यार्थस्य सिद्धावन्ये ऽर्था अनुषज्यन्ते, न तैर्विना सो ऽर्थः सिध्यति ते ऽर्था यदधिष्ठानाः, सो ऽधिकरणसिद्धान्तः।
यथा देहेन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति।
अत्रानुषङ्गिणो ऽर्था
इन्द्रियनानात्वम्, नियतविषयाणीन्द्रियाणि, स्वविषयग्रहणलिङ्गानि ज्ञातुर्ज्ञानसाधनानि, गन्धादिगुणव्यतिरिक्तं द्रव्यम्, गुणाधिकरणमनियतविषयाश्चेतना इति।
पूर्वार्थसिद्धावेते ऽर्थाः सिध्यन्ति।
न तैर्विना सो ऽर्थः सम्भवतीति
********************** न्य्स्भ्_1,1.31 **********************
न्य्स्_1,1.31: अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगसिद्धान्तः ॥
यत्र किंचिदर्थजातमपरीक्षितमभ्युपगम्यते, अस्तु द्रव्यं शब्दः, स तु नित्यो ऽथानित्य इति? द्रव्यस्य सतो अनित्यता नित्यता वा तद्विशेषः परीक्ष्यते, सो ऽभ्युपगमसिद्धान्तः स्वबुद्ध्यतिशयचिख्यापयिषया परबुद्ध्यवज्ञानाय च प्रवर्तत इति
********************** न्य्स्भ्_1,1.32 **********************
अथावयवाः---
न्य्स्_1,1.32: प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥
दशावयवानेके नौययिका वाक्ये सञ्चक्षते जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदास इति।
ते कस्मान्नोच्यन्त इति? तत्राप्रतीयमाने ऽर्थे प्रत्ययार्थस्य प्रवर्तिका जिज्ञासा।
अप्रतीयमानमर्थं कस्माज्जिज्ञासते? तं तत्त्वतो ज्ञातं हास्यामि वोपादास्य उपेक्षिष्ये वेति।
ता एता हानोपादानोपेक्षाबुद्धयस्तत्त्वज्ञानस्यार्थः तदर्थमयं जिज्ञासते।
सा खल्वियमसाधनम् अर्थस्येति।
जिज्ञासाधिकष्ठानं संशयश्च व्याहतधर्मोपसङ्घातात् तत्वज्ञाने प्रत्यासन्नः।
व्याहतोर्हि धर्मयोरन्यतरत्तत्त्वं भवितुमर्हतीति।
स पृथगुपदिष्टो ऽप्यसाधनमर्थस्येति।
प्रमातुः प्रमाणानि प्रमेयाधिगमार्थानि, सा शक्यप्राप्तिर्न साधकस्य वाक्यस्य भागेन युज्यते प्रतिज्ञादिवदिति।
प्रयोजनं तत्त्वावधारणमर्थसाधकस्य वाक्यस्य फलं नैकदेश इति।
संशयव्युदासः प्रतिपक्षोपवर्णनं तत्प्रतिषेधेन तत्त्वज्ञानाभ्यनुज्ञानार्थम्, न त्वयं साधकवाक्यैकदेश इति।
प्रकरणे तु जिज्ञादय समर्था अवधारणीयार्थोपकारात्।
तत्त्वार्न्थसाधकभावात्तु प्रतिज्ञादयः साधकवाङ्क्यस्य भागा एकदेशा अवयवा इति
********************** न्य्स्भ्_1,1.33 **********************
तेषां तु यथाविभक्तानाम्---
न्य्स्_1,1.33: साध्यनिर्देशः प्रतिज्ञा ॥
प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टस्य परिग्रहवचनं प्रतिज्ञा साध्यनिर्देशः।
अनित्यः शब्द इति
********************** न्य्स्भ्_1,1.34 **********************
न्य्स्_1,1.34: उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ॥
उदाहरणेन सामान्यात्साध्यस्य धर्मस्य साधनं प्रज्ञापनं हेतुः।
साध्ये प्रतिसन्धाय धर्ममुदाहरणे च प्रतिसन्धाय तस्य साधनतावचनं हेतुः।
उत्पत्तिधर्मकत्वादिति।
उत्पत्तिधर्मकमनित्यं दृष्टमिति
********************** न्य्स्भ्_1,1.35 **********************
किमेतावद्धेतुलक्षणमिति? नेत्युच्यते।
किं तर्हि?
न्य्स्_1,1.35: तथा वैधर्म्यात् ॥
उदाहरणवैधर्म्याच्च साध्यसाधनं हेतुः।
कथम्? अनित्यः शब्दः उत्पत्तिधर्मकत्वात्।
अनुत्पत्तिधर्मकं नित्यं दृष्टम् आत्मादय इति
********************** न्य्स्भ्_1,1.36 **********************
न्य्स्_1,1.36: साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्तः उदाहरणम् ॥
साध्येन साधर्म्यं समानधर्मता।
साध्यसाधर्म्यात्कारणात्तद्धर्मभावी दृष्टान्त इति।
तस्य धर्मस्तद्धर्मः।
तस्येति साध्यस्य।
साध्यं च द्विविधम् धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्वम्, धर्मविशिष्टो वा धर्मी अनित्यः शब्द इति।
इहोत्तरं तद्ग्रहणेन गृह्यत इति।
कस्मात्? पृथग्धर्मवचनात्।
तस्य धर्मस्तद्धर्मः।
तद्धर्मस्य भावस्तद्धर्मभावः।
स यस्मिन् दृष्टान्ते वर्तते स दृष्टान्तः तद्धर्मभावी।
यस्मिन् दृष्टान्ते साध्यसाधर्म्यादुत्पत्तिधर्मकत्वात् साध्यस्य धर्मो ऽनित्यत्वं भवति स दृष्टान्तः।
साध्यसाधर्म्यादुत्पत्तिधर्मकत्वात्तद्धर्मभावी भवति, स चोदादहरणमिष्यते।
स्थाल्यादि द्रव्यमुत्पत्तिधर्मकमनित्यं दृष्टामिति।
तत्र युदत्पद्यते तदुत्पत्तिधर्मकम्।
तच्च भूत्वा न भवति, आत्मानं जहाति निरुध्यत इत्यनित्यम्।
एवमुत्पत्तिधर्मकत्वं साधनमनित्यत्वं साध्यम्।
सो ऽयमेकस्मिन् द्वयोर्धर्मयोः साध्यसाधनभावः साधर्म्याद् व्यस्थित उपलभ्यते।
तं दृष्टान्त उपलभमानः शब्दे ऽप्यनुमिनोति, शब्दो ऽप्युत्पत्तिधर्मकत्वादनित्यः स्थाल्यादिवदिति।
उदाह्रियते ऽनेन धर्मयोः साध्यसाधनभाव इत्युदाहरणम्
********************** न्य्स्भ्_1,1.37 **********************
न्य्स्_1,1.37: तद्विपर्ययात् वा विपरीतम् ॥
दृष्टान्त उदाहरणमिति प्रकृतम् ।
साध्यवैधर्म्यादतद्धर्मभावी च दृष्टान्त उदाहरणमिति ।
अनित्यः शब्द उत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्मकं नित्यमात्मादि, सो ऽयमात्मादिर्दृष्टान्तः साध्यवैधर्म्यादनुत्पत्तिधर्मकत्वादतद्धर्मभावी-यो ऽसौ साध्यस्य धर्मो ऽनित्यत्वं स तस्मिन् न भवतीति।
अत्रात्मादौ दृष्टान्त उत्पत्तिधर्मकत्वस्याभावादनित्यत्वं न भवतीति उपलभमानः शब्दे वपिर्ययमनुमिनोति, उत्पत्तिधर्मकत्वस्य भावादनित्यः शब्द इति।
साधर्म्योक्तस्य हेतोः साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम्।
वैधर्म्योक्तस्य हेतोः साध्यवैधर्म्यादतद्धर्मभावी दृष्टान्त उदाहरणम्।
पूर्वस्मिन् दृष्टान्ते यौ तौ धर्मौं साध्यसाधनभूतौ पश्यति साध्ये ऽपि तयोः साध्यसाधनभावमनुमिनोति।
उत्तरस्मिन् दृष्टान्ते ययोर्धर्मयोरेकस्याभावादितरस्याभावं पश्यति तयोरेकतरस्य भावादितरस्य भावं साध्ये ऽनुमिनोतीति।
तदेतद्धेत्वाभासेषु न सम्भवतीत्यहेतवो हेत्वाभासाः।
तदिदं हेतूदाहरणयोः सामर्थ्यं परमसूक्ष्मं दुःखबोधं पण्डितरूपवेदनीयमिति
********************** न्य्स्भ्_1,1.38 **********************
न्य्स्_1,1.38: उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ॥
उदाहरणापेक्ष उदाहरणतन्त्र उदाहरणवशः।
वशः सामर्थ्यम्।
साध्यसाधर्म्ययुक्ते उदाहरणे स्थाल्यादिद्रव्यमुत्पत्तिधर्मकमनित्यं दृष्टम्, तथा च शब्द उत्पत्तिधर्मक इति साध्यस्य शब्दस्योत्पत्तिधर्मकत्वमूपसंह्रियते ।
साध्यवैधर्म्ययुक्तं पुनरुदाहरणे आत्मादिद्रव्यमनुत्पत्तिधर्मकं नित्यं दृष्टम्, न च तथानुत्पत्तिधर्मकः शब्द इति, अनुत्पत्तिधर्मकत्वस्योपसंहारप्रतिषेधेनोत्पत्तिधर्मकत्त्वमुपसंह्रियते ।
तदिदमुपसंहारद्वेतमुदाहरणद्वैताद्भवति।
उपसंह्रियते अनेनेति चोपसंहारो वेदितव्य इति
********************** न्य्स्भ्_1,1.39 **********************
द्विविधस्य पुनर्हेतोद्विविधस्य चोदाहरणस्योपसंहारद्वैते च समानम्---
न्य्स्_1,1.39: हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥
साधर्म्योक्ते वा वैधर्म्योक्ते वा यथोदाहरणमुपसंह्रियते तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनम्।
निगम्यन्ते अनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्रेति निगमनम्।
निगम्यन्ते समर्थ्यन्ते संबध्यन्ते।
तत्र साधर्म्योक्ते तावद्वेतौ वाक्यम्, अनित्यः शब्द इति प्रतिज्ञा।
उत्पत्तिधर्मकत्वादिति हेतुः।
उत्पत्तिधर्मकं स्थाल्यादि द्रव्यमनित्यमित्युदाहरणम्।
तथा चोत्पत्तिधर्मकः शब्द इत्युपनयः।
तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनम्।
वैधर्म्योक्ते ऽपि, अनित्यः शब्दः।
उत्पत्तिधर्मकत्वात्, अनत्पत्तिधर्मकमात्मादि द्रव्यं नित्यं दृष्टम्।
न च तथानुत्पत्तिधर्मकः शब्दः।
किं तर्हि? उत्पत्तिधर्मकः।
तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति॥
अवयवसमुदाये च वाक्ये संभूयेतरेतराभिसंबन्धात्प्रमाणान्यर्थं साधयन्तीति।
संभवस्तावत्, शब्दविषया प्रतिज्ञा, आप्तोपदेशस्य प्रत्यक्षानुमानाभ्यां प्रतिसन्धानादनृषेश्च स्वातन्त्र्यानुपपत्तेः।
अनुमानं हेतुः, उदाहरणे संदृश्य प्रतिपत्तेः।
तच्चोदाहरणभाष्ये व्याख्यातम्।
प्रत्यक्षविषयमुदाहरणम्, दृष्टेनादृष्टसिद्धेः।
उपमानमुपनयः, तथेत्युपसंहअरात्, न च तथेति चोपमानधर्मप्रतिषेधे विपरीतधर्मोपसंहअरसिद्धेः।
सर्वेषामेकार्थप्रतिपत्तौ सामर्थ्यप्रदर्शनं निगमनमिति॥
इतरेतराभिसंबन्धो ऽपि---असत्यां प्रतिज्ञायामनाश्रया हेत्वादयो न प्रवर्त्तेरन्।
असति हेतौ कस्य साधनभावः प्रदर्श्येत? उदाहरणे साध्ये च कस्योपसंहअरः स्यात्? कस्य चापदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनं स्यात् इति? असत्युदाहरणे केन साधर्म्यं वैधर्म्यं वा साध्यसाधनमुपादीयेत? कस्य वा साधर्म्यवशादुपसंहअरः प्रवर्तेत? उपनयं चान्तरेण साध्ये ऽनुपसंहृतः साधको धर्मो नार्थं साधयेत्।
निगमनाभावे चानभिव्यक्तसंबन्धानां प्रतिज्ञादीनामेकार्थेन प्रवर्तनं तथेति प्रतिपादनं कस्येति॥
अथावयवार्थः।
साध्यस्य धर्मस्य धर्मिणा संबन्धोपपादनं प्रतिज्ञार्थः।
उदाहरणेन समानस्य विपरीतस्य वा साध्यस्य धर्मस्य साधकभाववचनं हेत्वर्थः।
धर्मयोः साध्यसाधनभावप्रदर्शनमेकत्रोदाहरणार्थः।
साधनभूतस्य धर्मस्य साध्येन धर्मेण सामानाधिकरण्योपपादनमुपनयार्थः।
उदाहरणस्थयोर्द्धर्मयोः साध्यसाधनभावोपपत्तौ साध्ये विपरीतप्रसङ्गप्रतिषेधार्थं निगमनम्॥
न चैतस्यां हेतूदाहरणपरिशुद्धौ सत्यां साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जातिनिग्रहस्थानबहुत्वं प्रक्रमते।
अव्यवस्थाप्य खलु धर्मयोः साध्यसाधनभावमुदाहरणे जातिवादी प्रत्यवतिष्ठते।
व्यवस्थितेह खिलु धर्मयोः साध्यसाधनभावे दृष्टान्तस्थे गृह्यमाणे साधनभूतस्य धर्मस्य हेतुत्वेन उपादानं न साधर्म्यमात्रस्य, न वैर्धर्म्यमात्रस्य वेति
********************** न्य्स्भ्_1,1.40 **********************
अत ऊर्ध्वं तर्को लक्षणीय इति अथेदमुच्यते---
न्य्स्_1,1.40: अविज्ञाततत्त्वे ऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ॥
अविज्ञायमानतत्त्वे ऽर्थे जिज्ञासा तावज्जायते जानीयेममर्थमिति।
अथ जिज्ञासितस्य वस्तुनो व्याहतौ धर्मौं विभागेन विमृशति, किं स्वित् इत्त्थमाहोस्विन्नेत्थमिति।
विमृश्यमानयोर्धर्मयोरेकतरं कारणोपपत्त्या अनुज्ञानाति, सम्भवत्यस्मिन् कारणं प्रमाणं हेतुरिति।
कारणोपपत्त्या स्यादेवमेतत् नेतरदिति॥
तत्र निदर्शनम्, यो ऽयं ज्ञाता ज्ञातव्यमर्थं जानीते, तं तत्त्वतो जानीयेति जिज्ञासा।
स किमुत्पत्तिधर्मको ऽनुत्पत्तिधर्मकं इति विमर्शः।
विमृश्यमाने ऽविज्ञाततत्त्वे ऽर्थे यस्य धर्मस्याभ्यनुज्ञाकारणमुपपद्यते, तमनुजानाति।
यद्ययमनुत्पत्तिधर्मकः ततः स्वकृतस्य कर्मणः फलमनुभवति ज्ञाता।
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणम्, उत्तरोत्तरापाये च तदनन्तराभावादपवर्ग इति स्यातां संसारापवर्गौं।
उत्पत्तिधर्मके ज्ञातरि पुनर्न स्याताम्।
उत्पन्नः खलु ज्ञाता देहेन्द्रियविषयबुद्धिवेदनाभिः संबध्यत इति नास्येदं स्वकृतस्य कर्मणः फलम्।
उत्पन्नश्च भूत्वा न भवतीति, तस्याविद्यमानस्य निरुद्धस्य वा स्वकृतकर्मणः फलोपभोगो नास्ति, तदेवमेकस्यानेकशरीरयोगः शरीरवियोगश्चात्यन्तं न स्यादिति, यत्र
कारणमनुपपद्यमानं पश्यति, तन्नानुजानाति।
सो ऽयमेवंलक्षण ऊहस्तर्क इत्युच्यते॥
कथं पुनरयं तत्त्वज्ञानार्थो न तत्त्वज्ञानमेवेति? अनवधारणात्।
अनुजानात्ययमेकतरं धर्मं कारणोपपत्त्या, न त्ववधारयति न व्यवस्यति न निश्चिनोति एवमेवेदमिति।
कथं तत्त्वज्ञानार्थ इति? तत्त्वज्ञानविषयाभ्यनुज्ञालक्षणादूहाद् भावितात्प्रसन्नादनन्तरं प्रमाणसामर्थ्यात् तत्त्वज्ञानम् उत्पद्यत इत्येवं तत्त्वज्ञानार्थ इति॥
सो ऽयं तर्कः प्रमाणानि प्रतिसन्दधानः प्रमाणाभ्यनुज्ञानात् प्रमाणसहितो वादे ऽपदिष्ट इति।
अविज्ञाततत्त्वे ऽर्थे इति यथा सो ऽर्थो भवति तस्य तथाभावस्तत्त्वमविपर्ययो याथातथ्यम्
********************** न्य्स्भ्_1,1.41 **********************
एतस्मिश्च तर्कविषये---
न्य्स्_1,1.41: विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारण निर्णयः ॥
स्थापना साधनम्, प्रतिषेध उपालम्भः।
तौ साधनोपालम्भौ पक्षप्रतिपक्षाश्रयौ व्यतिषक्तावनुबन्धेन प्रवर्त्तमानौ पक्षप्रतिपक्षावित्युच्येते।
तयोरन्यतरस्य निवृत्तिः एकतरस्यावस्थानमवर्जनीयमवश्यम्भावित्वात्।
यस्यावस्थानं तस्यार्थावधारणं निर्णयः॥
नेदं पक्षप्रतिपक्षाभ्यामर्थावधारणं सम्भवतीति एको हि प्रतिज्ञातमर्थं तं हेतुतः स्थापयति प्रतिषिद्धं चोद्धरति द्वितीयस्य।
द्वितीयेन स्थापनाहेतुश्च प्रतिषिध्यते तस्यैव प्रतिषेधहेतुश्चोद्ध्रियते।
स निवर्त्तते।
तस्य निवृत्तौ यो ऽवतिष्ठते तेनार्थावधारणं निर्णयः॥
उभाभ्यामेवार्थावधारणमित्याह।
कया युक्त्या? एकस्य संभवो द्वितीयस्यासम्भवः।
तावेतौ सम्भवासम्भवौ विमर्शं सह निवर्त्तयत उभयसम्भवे।
उभयासम्भवे त्वनिवृत्तो निमर्श इति।
विमृश्येति विमर्शं कृत्वा।
सो ऽयं विमर्शः पक्षप्रतिपक्षाववद्योत्य न्यायं प्रवर्तयतीत्युपादीयत इति।
एतच्च विरुद्धयोरेकधर्मिस्थयोर्बोधव्यम्।
यत्र तु धर्मिसामान्यगतौ विरुद्धौ धर्मौं हेतुतः सम्भवतः तत्र समुच्चयः, हेतुतो ऽर्थस्य तथाभावोपपत्तेः।
यथा क्रियावद् द्रव्यमिति लक्षणवचने यस्य द्रव्यस्य क्रियायोगो हेतुतः संभवति तत् क्रियावत्, यस्य न संभवति तदक्रियमिति।
एकधर्मिस्थायोश्च विरुद्धयोः धर्मयोरयुगपद्भावविनोः कालविकल्पः, यथा तदेव द्रव्यं क्रियायुक्तं क्रियावत्, अनुत्पन्नोपरतक्रियं पुनरक्रियमिति॥
न चायं निर्णये नियमः विमृश्यैव पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय इति, किं तर्हि? भवति खल्विन्द्रियार्थसन्निकर्षादुत्पन्नप्रत्यक्षे ऽर्थावधारणं निर्णय इति, परीक्षाविषये तु विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः।
शास्त्रे वादे च विमर्शवर्जम्
मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0