न्यायसूत्र (टीका सहित) · अध्याय 11
॥ इति वात्स्यायनविरचिते न्यायभाष्ये पञ्चमाध्यायस्य प्रथममाह्निकं समाप्तम् ॥
अथ न्यायभाष्यपञ्चमाध्यायस्य द्वितीयमाह्निकम्
********************** न्य्स्भ्_5,2.1 **********************
विप्रतिपत्त्यप्रतिपत्त्योर्विकल्पान्निग्रहस्थानबहुत्वमिति संक्षेपेणोक्तं तदिदानीं विर्भजनीयम्।
निग्रहस्थानानि खलु पराजयवस्तून्य् अपराधाधिकरणानि प्रायेण प्रतिज्ञाद्यवयवाश्रयाणि तत्त्ववादिनम् अतत्त्ववादिनं चाभिसंप्लवन्ते, तेषां विभागः---
न्य्स्_5,2.1: प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरमर्थान्तरं निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्तकालं न्यूनमधिकं पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ॥
तानीमानि द्वाविशतिधा विभज्य लक्ष्यन्ते
********************** न्य्स्भ्_5,2.2 **********************
न्य्स्_5,2.2: प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥
साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिदृष्टान्तधर्मं स्वदृष्टान्ते ऽभ्यनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः, निदर्शनम्-- ऽऐन्द्रियकत्वादनित्यः शब्दो घटवत्ऽ इतिकृते. अपर आह-- ऽदृष्टमैन्द्रियकत्वं सामान्ये नित्ये कस्मान्न तथा शब्दः ?ऽ इति. ( एवम् ) प्रत्यवस्थिते. इदमाह-- ऽयद्यैन्द्रियकं सामान्यं नित्यम् ? कामं घटो नित्योस्तुऽ इति, स खल्वयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन् निगमनान्तमेव पक्षं जहाति. पक्षं जहत् प्रतिज्ञा जहातीत्युच्यते-- प्रतिज्ञाश्रयत्वात् पक्षस्येति
********************** न्य्स्भ्_5,2.3 **********************
न्य्स्_5,2.3: प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम् ॥
प्रतिज्ञातार्थः-- ऽअनित्यः शब्द ऐन्द्रियकत्वाद् घटवत्ऽ इत्युक्ते यो ऽस्य प्रतिषेधः ।
प्रतिदृष्टान्तेन हेतुव्यभिचारः-- ऽसामान्यमैन्द्रियकं नित्यम्ऽ इति तस्मिंश्च प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पादिति ।
दृष्टान्तप्रतिदृष्टान्तयोः साधर्म्ययोगे धर्मभेदात् ।
सामान्यमैन्द्रियकं सर्वगतम् ऐन्द्रियकस्त्व् असर्वगतो घट इति धर्मविकल्पात्. तदर्थं निर्देश इति साध्यसिद्ध्यर्थम्।
कथम् ? यथा घटो ऽसर्वगत एवं शब्दोप्यसर्वगतो घटवदेवानित्य इति, तत्र-- ऽअनित्यः शब्दःऽ इति पूर्वा प्रतिज्ञा. ऽअसर्वगतःऽ इति द्वितीया प्रतिज्ञा प्रतिज्ञान्तरम्।
तत् कथं निग्रहस्थानमिति ?, न प्रतिज्ञायाः साधनं प्रतिज्ञान्तरं किं तु हेतुदृष्टान्तौ साधनं प्रतिज्ञायाः, तदेतद् असाधनोपादानम् अनर्थकमिति. आनर्थक्यान्निग्रहस्थानमिति
********************** न्य्स्भ्_5,2.4 **********************
न्य्स्_5,2.4: प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ॥
ऽगुणव्यतिरिक्तं द्रव्यम्ऽ इति प्रतिज्ञा. ऽरूपादितो ऽर्थान्तरस्यानुपलब्धेःऽ इति हेतुः. सोयं प्रतिज्ञाहेत्वोर्विरोधः।
कथम् ?, यदि गुणव्यतिरिक्तं द्रव्यम् ? रूपादिभ्यो ऽर्थान्तरस्यानुपलब्धेः ( इति ) नोपपद्यते, अथ रूपादिभ्योर्थान्तरस्यानुपलब्धिः ? गुणव्यतिरिक्तं द्रव्यमिति, नोपपद्यते, गुणव्यतिरिक्तं च द्रव्यं रूपादिभ्योर्थान्तरस्यानुपलब्धिरिति विरुध्यते ।
व्याहन्यते ।
न संभवतीति
********************** न्य्स्भ्_5,2.5 **********************
न्य्स्_5,2.5: पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः ॥
ऽअनित्यः शब्द ऐन्द्रियकत्वात्ऽ इत्युक्ते परो ब्रूयात्-- ऽसामान्यमैन्द्रियकं न चानित्यमेवं शब्दोप्यैन्द्रियको न चानित्यःऽ इति. एवं प्रतिषिद्धे पक्षे यदि ब्रूयात्-- ऽकः पुनराह अनित्यः शब्दः (इति) ?ऽ इति. सोयं प्रतिज्ञातार्थनिह्नवः प्रतिज्ञासंन्यास इति
********************** न्य्स्भ्_5,2.6 **********************
न्य्स्_5,2.6: अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ॥
निदर्शनम्-- ऽएकप्रकृतीदं व्यक्तम्ऽ इति प्रतिज्ञा. कस्माद् हेतोः ? ऽएकप्रकृतीनां विकाराणां परिमाणात्ऽ ऽमृत्पूर्वकाणां शरावादीनां दृष्टं परिमाणं यावान् प्रकृतेर्व्यूहो भवति तावान् विकारःऽ इति. दृष्टं च प्रतिविकारं परिमाणम्. अस्ति चेदं परिमाणं प्रतिव्यक्तम्, तदेकप्रकृतीनां विकाराणां परिमाणात् पश्यामो व्यक्तमिदमेकप्रकृतीति।
अस्य व्यभिचारेण प्रत्यवस्थानम्-- नानाप्रकृतीनामेकप्रकृतीनां च विकाराणां दृष्टं परिमाणमिति।
एवं प्रतयवस्थिते आह-- एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनात्. सुखदुःखमोहसमन्वितं हीदं व्यक्तं परिमितं गृह्यते. तत्र प्रकृत्यन्तररूपसमन्वयाभावे सत्येकप्रकृतित्वमिति।
तदिदमविशेषोक्ते हेतौ प्रतिषिद्धे विशेषं ब्रुवतो हेत्वन्तरं भवति, सति च हेत्वन्तरभावे पूर्वस्य हेतोरसाधकत्वान्निगहस्थानम्, हेत्वन्तर वचने सति यदि हेत्वर्थनिदर्शनो दृष्टान्त उपादीयते ? नेदं व्यक्तमेकप्रकृति भवति-- प्रकृत्यन्तरोपादानात्, अथ नोपादीयते ?. दृष्टान्ते हेत्वर्थस्यानिदर्शितस्य साधकभावानुपपत्तेः आनर्थक्याद् हेतोरनिवृत्तं निग्रहस्थानमिति
********************** न्य्स्भ्_5,2.7 **********************
न्य्स्_5,2.7: प्रकृतादर्थादप्रतिसंबद्धार्थम् अर्थान्तरम् ॥
यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृतायां ब्रूयात्-- ऽनित्यः शब्दः अस्पर्शत्वादिति हेतुःऽ हेतुर्नाम हिनोतेर्धातोस्तुनि प्रत्यये कृदन्तपदम्. पदं च-- नामाख्यातोपसर्गनिपाताः, अभिधेयस्य क्रियान्तरयोगाद् विशिष्यमाणरूपः शब्दो नाम, क्रियाकारकसमुदायः. कारकसंख्याविशिष्टक्रियाकालयोगाभिधायि आख्यातम्. धात्वर्थमात्रं च कालाभिधानविशिष्टम्, प्रयोगेष्वर्थादभिद्यमानरूपा निपाताः, उपसृज्यमानाः क्रियावद्योतका उपसर्गाः, इत्येवमादि. तदर्थान्तरं वेदितव्यम्
********************** न्य्स्भ्_5,2.8 **********************
न्य्स्_5,2.8: वर्णक्रमनिर्देशवद् निरर्थकम् ॥
यथानित्यः शब्दः कचटतपानां जबगडदशत्वात् झभञ्घढधषवत्ऽ इति, एवंप्रकारं निरर्थकम्-- अभिधानाभिधेयभावानुपपत्तौ अर्थगतेरभावाद् वर्णाः क्रमेण निर्दिश्यन्ते इति
********************** न्य्स्भ्_5,2.9 **********************
न्य्स्_5,2.9: परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातम् अविज्ञातार्थम् ॥
यद् वाक्यं परिषदा प्रतिवादिना च त्रिरभिहितमपि न विज्ञायते श्लिष्टशब्दम् अप्रतीतप्रयोगम् अतिद्रुतोच्चारितमित्येवमादिना कारणेन तदविज्ञातार्थम्, अविज्ञातार्थम् असामर्थ्यसंवरणाय प्रयुक्तमिति निग्रहस्थानमिति
********************** न्य्स्भ्_5,2.10 **********************
न्य्स्_5,2.10: पौर्वापर्यायोगादप्रतिसंबद्धार्थम् अपार्थकम् ॥
यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वापयेणान्वययोगो नास्ति इत्य् असंबद्धार्थत्वं गृह्यते तत्समुदायार्थस्यापायादपार्थकं यथा-- ऽदश दाडिमानि. षडपूपाः. कुण्डमजाजिनम्. पललपिण्डः. अधरौरुकमेतत्. कुमार्याः प्राय्यं तस्याः पिता अप्रतिशीनःऽ इति
********************** न्य्स्भ्_5,2.11 **********************
न्य्स्_5,2.11: अवयवविपर्यासवचनम् अप्राप्तकालम् ॥
प्रतिज्ञादीनामक्यवानां यथालक्षणमर्थवशात् क्रमः तत्रावयवविपर्यासेन वचनम् अप्राप्तकालम् असंबद्धार्थं निग्रहस्थानमिति
********************** न्य्स्भ्_5,2.12 **********************
न्य्स्_5,2.12: हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥
प्रतिज्ञादीनामवयवानामन्यतमेवाप्यवयवेन हीनं न्यूनं निग्रहस्थानम्-- साधनाभावे साध्यासिद्धिरिति
********************** न्य्स्भ्_5,2.13 **********************
न्य्स्_5,2.13: हेतूदाहरणाधिकम् अधिकम् ॥
एकेन कृतत्वादन्यतरस्यानर्थक्यमिति, तदेतन्नियमाभ्युपगमे वेदितव्यमिति
********************** न्य्स्भ्_5,2.14 **********************
न्य्स्_5,2.14: शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ॥
अन्यत्रानुवादात् शब्दपुनरुक्तम् अर्थपुनरुक्तं वा-- ऽनित्यः शब्दः नित्यः शब्दःऽ इति शब्दपुनरुक्तम्. अर्थपुनरुक्तम्-- ऽअनित्यः शब्दः. निरोधधर्मको ध्वानःऽ इति।
अनुवादे त्व् अपुनरुक्तम्-- शब्दाभ्यासादर्थविशेषोपपत्तेः यथा--
"हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् 1-1-39"
इति
********************** न्य्स्भ्_5,2.15 **********************
न्य्स्_5,2.15: अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् ॥
पुनरुक्तमिति प्रकृतम्, निदर्शनम्-- ऽउत्पत्तिधर्मकत्वादनित्यम्ऽ
इत्यक्त्वा अर्थादापन्नस्य यो ऽभिधायकः शब्दस्तेन
स्वशब्देन ब्रूयात्-- ऽअनुत्पत्तिधर्मकं नित्यम्ऽ
इति तच्च पुनरुक्तं वेदितव्यम्-- अर्थसंप्रत्ययार्थे
शब्दप्रयोगे प्रतीतः सो ऽर्थो ऽर्थापत्त्येति
********************** न्य्स्भ्_5,2.16 **********************
न्य्स्_5,2.16: विज्ञातस्य परिषदा त्रिरभिहितस्याप्य् अप्रत्युच्चारणम् अननुभाषणम् ॥
विज्ञातस्य वाक्यार्थस्य परिषदा प्रतिवादिना
त्रिरभिहितस्य यद् अप्रत्युच्चारणं तद् अननुभाषणं
नाम निग्रहस्थानामिति, अप्रत्युच्चारयन् किमाश्रयं
परपक्षप्रतिषेधं ब्रूयात् ?
********************** न्य्स्भ्_5,2.17 **********************
न्य्स्_5,2.17: अविज्ञातं चाज्ञानम् ॥
विज्ञातार्थस्य परिषदा. प्रतिवादिना त्रिरभिहितस्य यदविज्ञान
तद् अज्ञानं निग्रहस्थानमिति, अयं खल्वविज्ञाय
कस्य प्रतिषेधं ब्रूयादिति ?
********************** न्य्स्भ्_5,2.18 **********************
न्य्स्_5,2.18: उत्तरस्याप्रतिपत्तिरप्रतिभा ॥
परपक्षप्रतिषेधः उत्तरं तद् यदा न प्रतिपद्यते ? तदा निगृहीतो भवति
********************** न्य्स्भ्_5,2.19 **********************
न्य्स्_5,2.19: कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः ॥
यत्र कर्तव्यं व्यासज्य कथां व्यवच्छिनत्ति--
ऽइदं मे करणीयं विद्यते तस्मिन्न् अवसिते पश्चात् कथयिष्यामीति (तत्) विक्षेपो नाम निग्रहस्थानम्।
एकनिग्रहावसानायां कथायां स्वयमेव कथान्तरं प्रतिपद्यते इति
********************** न्य्स्भ्_5,2.20 **********************
न्य्स्_5,2.20: स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥
यः परेण चोदितं दोषं स्वपक्षे ऽभ्युपगम्य ।
अनुद्धृत्य वदति-- ऽभवत्पक्षेपि समानो दोषःऽ
इति. स स्वपक्षे दोषाभ्युपगमात् परपक्षे
दोषं प्रसञ्जयन् परमतम् अनुजानातीति
मतानुज्ञानाम निग्रहस्थानमापद्यते इति
********************** न्य्स्भ्_5,2.21 **********************
न्य्स्_5,2.21: निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥
पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः. तस्योपेक्षणम् = ऽनिग्रहस्थानं प्राप्तो ऽसीत्य् अननुयोगः।
एतच्च ऽकस्य पराजयः ?ऽ इत्यनुक्तया परिषदा
वचनीयम्-- न खलु निग्रहं प्राप्तः स्वकौपीनं
विवृणुयादिति
********************** न्य्स्भ्_5,2.22 **********************
न्य्स्_5,2.22: अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ॥
निग्रहस्थानलक्षणस्य मिथ्याध्यवसायाद् अनिग्रहस्थाने
ऽनिगृहीतोसीति परं ब्रुवन् निरवनुगोज्यानुयोगाद्
निरनुगोज्यानुयोगाद् निगृहीतो वेदितव्य
इति
********************** न्य्स्भ्_5,2.23 **********************
न्य्स्_5,2.23: सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गो ऽपसिद्धान्तः ॥
कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययात् ।
अनियमात् कथां प्रसञ्जयतो ऽपसिद्धान्तो
वेदितव्यो यथा-- ऽन सद् आत्मानं जहाति ।
न सतो विनाशः, नासद् आत्मानं लभते = नासदुत्पद्यतेऽ इति सिद्धान्तमभ्युपेत्य
स्वपक्षं व्यवस्थापयति--एकप्रकृतीदं व्यक्तम्--
विकाराणामन्वयदर्शनात्. मृदन्वितानां
शरावादीनां दृष्टमेकप्रकृतित्वं तथा चायं
व्यक्तभेदः सुखदुःखमोहसमन्वितो दृश्यते
तस्मात् समन्वयदर्शनात् सुखादिभिरेकप्रकृतीदं विश्वमिति।
एवमुक्तवान् अनुयुज्यते-- अथ प्रकृतिर्विकार
इति कथं लक्षितव्यम् ? इति, यस्यावस्थितस्य
धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते सा
प्रकृतिः. यच्च धर्मान्तरं प्रवर्तते स विकार
इति।
सो ऽयं प्रतिज्ञातार्थविपर्ययात् ।
अनियमात् कथां प्रसञ्जयति ।
प्रतिज्ञातं खल्वनेन-- नासदाविर्भवति न
सत्तिरो भवतीति।
सदसतोश्च तिरोभावाविर्भावम् अन्तरेण
न कस्यचित् प्रवृत्तिः प्रवृत्त्युपरमश्च भवति,
मृदि खल्वस्थितायां भविष्यति शरावादिलक्षणं
धर्मान्तरमिति प्रवृत्तिर्भवति. अभूदिति
च प्रवृत्त्युपरमः. तदेतद् मृद्धर्माणामपि
न स्यात्, एवं प्रत्यवस्थितो यदि सतश्चात्महानम् असतश्चात्मलाभमभ्युपैति ? तदस्यापसिद्धान्तो निग्रहस्थानं भवति,
अथ नाभ्युपैति ? प्रक्षो ऽस्य न सिध्यति
********************** न्य्स्भ्_5,2.24 **********************
न्य्स्_5,2.24: हेत्वाभासाश्च यथोक्ताः ॥
हेत्वाभासाश्च निग्रहस्थानानि ।
किं पुनर्लक्षणान्तरयोगाद् हेत्वाभासा
निग्रहस्थानत्वमापन्नाः यथा प्रमाणानि प्रमेयत्वम् ? इत्यत आह-- यथोक्ता इति ।
हेत्वाभासलक्षणेनैव निग्रहस्थानभाव
इति।
ते इमे प्रमाणादयः पदार्था उद्दिष्टा
लक्षिताः परीक्षिताश्चेति
मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0