भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र (टीका सहित) · अध्याय 9

9.1

% प्.1035
अथ चतुर्थाध्यायस्य द्वितीयम् आह्निकम्।
********************** न्य्स्भ्_4,2.1 **********************
किं नु खलु भोः यावन्तो विषयास् तावत्सु प्रत्येकं तत्त्वज्ञानम् उत्पद्यते, अथ क्वचिद् उत्पद्यत इति। कश् चात्र विशेषः? न तावद् एकैकत्र यावद् विषयम् उत्पद्यते ज्ञेयानाम् आनन्त्यात्। नापि क्वचिद् उत्पद्यते, यत्र नोत्पद्यते तत्रानिवृत्तो मोह इति मोहशेषप्रसङ्गः। न चान्यविषयेण तत्त्वज्ञानेनान्यविषयो मोहः शक्यः प्रतिषेद्धुम् इति।
% प्.1036
मिथ्याज्ञानं वै खलु मोहो न तत्त्वज्ञानस्यानुत्पत्तिमात्रम्। तच् च मिथ्याज्ञानं यत्र विषये प्रवर्तमानं संसारबीजं भवति स विषयस् तत्त्वतो ज्ञेय इति।
किं पुनस् तन् मिथ्याज्ञानम्? अनात्मन्य् आत्मग्रहः, अहम् अस्मीति मोहो ऽहङ्कार इति। अनात्मानं खल्व् अहम् अस्मीति पश्यतो दृष्टिर् अहङ्कार इति। किं पुनस् तदर्थजातं यद्विषयो ऽहङ्कारः? शरीरेन्द्रियमनोवेदनाबुद्धयः। कथं तद्विषयो ऽहङ्कारः संसारबीजं भवति?
% भवति?] प्.1037
अयं खलु शरीराद्यर्थजातम् अहम् अस्मीति व्यवसितः तदुच्छेदेनात्मोच्छेदं मन्यमानो ऽनुच्छेदतृष्णापरिप्लुतः पुनः पुनस् तद् उपादत्ते, तद् उपाददानो जन्ममरणाय यतते, तेनावियोगान् नात्यन्तं दुःखाद् विमुच्यत इति। यस् तु दुःखं दुःखायतनं दुःखानुषक्तं सुखं च सर्वम् इदं दुःखम् इति पश्यति स दुःखं परिजानति। परिज्ञातं च दुःखं प्रहीणं भवत्य् अनुपादानात् सविषान्नवत्। एवं दोषान् कर्म च दुःखहेतुर् इति पश्यति। न चाप्रहीणेषु दोषेषु दुःखप्रबन्धोच्छेदेन शक्यं भवितुम् इति दोषान् जहाति, प्रहीणेषु च दोषेषु न प्रवृत्तिः प्रतिसन्धानायेत्य् उक्तम्।
प्रेत्यभावफलदुःखानि च ज्ञेयानि व्यवस्थापयति कर्म च दोषांश् च प्रहेयान्। अपवर्गो ऽधिगन्तव्यस् तस्याधिगमोपायस् तत्त्वज्ञानम्। एवं चतसृभिर् विधाभिः प्रमेयं विभक्तम् आसेवमानस्याभ्यस्यतो भावयतः सम्यग्दर्शनं यथाभूतावबोधस् तत्त्वज्ञानम् उत्पद्यते।
एवं च ---
न्य्स्_4,2.1: दोषनिमित्तानां तत्त्वज्ञानाद् अहङ्कारनिवृत्तिः ॥
% प्.1038
शरीरादिदुःखान्तं प्रमेयं दोषनिमित्तं तद्विषयत्वान् मिथ्याज्ञानस्य। तद् इदं तत्त्वज्ञानं तद्विषयम् उत्पन्नम् अहङ्कारं निवर्तयति समानविषये तयोर् विरोधात्। एवं तत्त्वज्ञानाद् ``दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तराभावाद् अपवर्गऽऽ इति। स चायं शास्त्रार्थसंग्रहो ऽनूद्यते नापूर्वो विधीयते इति

9.2

********************** न्य्स्भ्_4,2.2 **********************
% प्.1039
प्रसङ्ख्यानानुपूर्वी तु खलु ---
न्य्स्_4,2.2: दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकृताः ॥
कामविषया इन्द्रियार्था इति रूपादय उच्यन्ते। ते मिथ्या सङ्कल्प्यमाना रागद्वेषमोहान् प्रवर्तयन्ति, तान् पूर्वं प्रसञ्चक्षीत। तांश् च प्रसञ्चक्षाणस्य रूपादिविषयो मिथ्यासङ्कल्पो निवर्तते। तन्निवृत्ताव् अध्यात्मं शरीरादि प्रसञ्चक्षीत। तत्प्रसङ्ख्यानाद् अध्यात्मविषयो ऽहङ्कारो निवर्तते।
% -द् अध्यात्मविषयो ऽहङ्कारो] प्.1040
सो ऽयम् अध्यात्मं बहिश् च विविक्तचित्तो विहरन् मुक्त इत्य् उच्यते

9.3

********************** न्य्स्भ्_4,2.3 **********************
अतः परं काचित् संज्ञा हेया काचिद् भावयितव्येत्य् उपदिश्यते, नाथनिराकरणम् अर्थोपादानं वा। कथम् इति? ---
न्य्स्_4,2.3: तन्निमित्तं त्व् अवयव्यभिमानः ॥
तेषां दोषाणां निमित्तं त्व् अवयव्यभिमानः। सा च खलु स्त्रीसंज्ञा सपरिष्कारा पुरुषस्य, पुरुषसंज्ञा च स्त्रियाः सपरिष्कारा निमित्तसंज्ञा अनुव्यञ्जनसंज्ञा च।
% च।] प्.1041
निमित्तसंज्ञा --- रसनाश्रोत्रम्, दन्तोष्ठम्, चक्षुर्नासिकम्। अनुव्यञ्जनसंज्ञा --- इत्थं दण्डा इत्थम् ओष्ठाव् इति। सेयं संज्ञा कामं वर्धयति तदनुषक्तांश् च दोषान् विवर्जनीयान्, वर्जनं त्व् अस्याः। भेदेनावयवसंज्ञा --- केशलोममांसशोणितास्थिस्नायुशिराकफपित्तोच्चारादिसंज्ञा;
% -शोणितास्थि...] प्.1042
ताम् अशुभसंज्ञेत्य् आचक्षते। ताम् अस्य भावयतः कामरागः प्रहीयते।
सत्य् एव च द्विविधे विषये काचित् संज्ञा भावनीया काचित् परिवर्जनीयेत्य् उपदिश्यते, यथा विषसम्पृक्ते ऽन्ने ऽन्नसंज्ञोपादानाय विषसंज्ञा प्रहाणायेति

9.4

********************** न्य्स्भ्_4,2.4 **********************
% प्.1043
अथेदानीम् अर्थं निराकरिष्यतावयविनिराकरणम् उपपाद्यते ---
न्य्स्_4,2.4: विद्याविद्याद्वैविध्यात् संशयः ॥
सदसतोर् उपलम्भाद् विद्या द्विविधा, सदसतोर् अनुपलम्भाद् अविद्यापि द्विविधा। उपलम्भ्यमाने ऽवयविनि विद्याद्वैविध्यात् संशयः, अनुपलभ्यमाने चाविद्याद्वैविध्यात् संशयः। सो ऽयम् अवयवी *यद् उपलभ्यते (fओल्लोwइन्ग् ठकुर्, यद्य् अपलभ्यते ऋइन्सेन्) अथापि नोपलभ्यते न कथञ्चन संशयान् मुच्यत इति

9.5

********************** न्य्स्भ्_4,2.5 **********************
% प्.1044
न्य्स्_4,2.5: तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ॥
तस्मिन्न् अनुपपन्नः संशयः। कस्मात्? पूर्वोक्तहेतूनाम् अप्रतिषेधाद् अस्ति द्रव्यान्तरारम्भ इति

9.6

********************** न्य्स्भ्_4,2.6 **********************
% प्.1045
न्य्स्_4,2.6: वृत्त्यनुपपत्तेर् अपि न संशयः ॥
वृत्त्यनुपपत्तेर् अपि तर्हि संशयानुपपत्तिर् नास्त्य् अवयवीति

9.7

********************** न्य्स्भ्_4,2.7 **********************
तद् विभजते ---
न्य्स्_4,2.7: कृत्स्नैकदेशावृत्तित्वाद् अवयवानाम् अवयव्यभावः ॥
एकैको ऽवयवो न तावत् कृत्स्ने ऽवयविनि वर्तते, तयोः परिमाणभेदाद् अवयवान्तरसम्बन्धाभावप्रसङ्गाच् च। नाप्य् अवयव्येकदेशेन, न ह्य् अस्यान्ये अवयवा एकदेशभूताः सन्तीति

9.10

********************** न्य्स्भ्_4,2.8 **********************
% प्.1046
अथावयवेष्व् एवावयवी वर्तते---
न्य्स्_4,2.8: तेषु चावृत्तेर् अवयव्यभावः ॥
न तावत् प्रत्यवयवं वर्तते, तयोः परिमाणभेदाद् द्रव्यस्य चैकद्रव्यत्वप्रसङ्गात्। नाप्य् एकदेशैः सर्वेषु अन्यावयवाभावात्। तद् एवं न युक्तः संशयो नास्त्य् अवयवीति॥
********************** न्य्स्भ्_4,2.9 **********************
% प्.1047
न्य्स्_4,2.9: पृथक् चावयवेभ्यो ऽवृत्तेः ॥
अवयव्यभाव इति वर्तते। न चायं पृथग् अवयवेभ्यो वर्तते अग्रहणात् नित्यत्वप्रसङ्गाच् च। तस्मान् नास्त्य् अवयवीति॥
********************** न्य्स्भ्_4,2.10 **********************
% प्.1048
न्य्स्_4,2.10: न चावयव्यवयवाः ॥
न चावयवानां धर्मो ऽवयवी। कस्मात्? धर्ममात्रस्य धर्मिभिर् अवयवैः पूर्ववत् सम्बन्धानुपपत्तेः। पृथक् चावयवेभ्यो धर्मिभ्यो धर्मस्याग्रहणाद् इति समानम्

9.11

********************** न्य्स्भ्_4,2.11 **********************
% प्.1049
न्य्स्_4,2.11: एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेर् अप्रश्नः ॥
किं प्रत्यवयवं कृत्स्नो ऽवयवी वर्तते अथैकदेशेनेति नोपपद्यते प्रश्नः। कस्मात्? एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेः। कृत्स्नम् इत्य् अनेकस्याशेषाभिधानम्, एकदेश इति नानात्वे कस्यचिद् अभिधानम्। ताव् इमौ कृत्स्नैकदेशशब्दौ भेदविषयौ नैकस्मिन्न् अवयविन्य् उअपपद्येते भेदाभावाद् इति

9.12

********************** न्य्स्भ्_4,2.12 **********************
अन्यावयवाभावान् नैकदेशेन वर्तत इत्य् अहेतुः---
न्य्स्_4,2.12: अवयवान्तरभावे ऽप्य् अवृत्तेर् अहेतुः ॥
अवयवान्तराभावाद् इति। यद्य् अपि एकदेशो ऽवयवान्तरभूतः स्यात् तथाप्य् अवयवे ऽवयवान्तरं वर्तते नावयवीति अन्यो ऽवयवीति।
% -वान्तरं वर्तते ...] प्.1050
अन्यावयवभावे ऽप्य् अवृत्तेर् अवयविनो नैकदेशेन वृत्तिर् अन्यावयवाभावाद् इत्य् अहेतुः।
वृत्तिः कथम् इति चेत्? एकस्यानेकत्राश्रयाश्रितसम्बन्धलक्षणा प्राप्तिः। आश्रयाश्रितभावः कथम् इति चेत्? यस्य यतो ऽन्यत्रात्मलाभानुपपत्तिः स आश्रयः। न कारणद्रव्येभ्यो ऽन्यत्र कार्यद्रव्यम् आत्मानं लभते विपर्ययस् तु कारणद्रव्येष्व् इति।
नित्येषु कथम् इति चेत्, अनित्येषु दर्शनात् सिद्धम्, नित्येषु द्रव्येषु कथम् आश्रयाश्रयिभाव इति चेत्? अनित्येषु द्रव्यगुणेषु दर्शनाद् आश्रयाश्रितभावस्य नित्येषु सिद्धिर् इति।
% प्.1053
तस्माद् अवयव्यभिमानः प्रतिषिध्यते निःश्रेयसकामस्य, नावयवी, यथा रूपादिषु मिथ्यासङ्कल्पो न रूपादय इति

9.13

********************** न्य्स्भ्_4,2.13 **********************
% प्.1054
सर्वाग्रहणम् अवयव्यसिद्धेर् इति प्रत्यवस्थितो ऽप्य् एतद् आह ---
न्य्स्_4,2.13: केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः ॥
यथैकैकः केशस् तैमिरिकेण नोपलभ्यते केशसमूहस् तूपलभ्यते, तथैकैको ऽणुर् नोपलभ्यते अणुसञ्चयस् तूपलभ्यते, तद् इदम् अणुसमूहविषयं ग्रहणम् इति

9.14

********************** न्य्स्भ्_4,2.14 **********************
न्य्स्_4,2.14: स्वविषयान् अतिक्रमेणेन्दिर्यस्य पटुमन्दभावाद् विषयग्रहणस्य तथाभाअवो नाविषये प्रवृत्तिः ॥
यथाविषयम् इन्द्रियाणां पटुमन्दभावाद् विषयग्रहणानां पटुमन्दभावो भवति। चक्षुः खलु प्रकृष्यमाणं नाविषयं गन्धं गृह्णाति, निकृष्यमाणं च न स्वविषयात् प्रच्यवते। सो ऽयं तैमिरिकः कश्चिच् चक्षुर् विषयंकेशं न गृह्णाति, कश्चिद् गृह्णाति केशसमूहम्।
% प्.1055
उभयं ह्य् अतैमिमिरिकेण चक्स्.उषा गृह्यते। परमाणवस् त्व् अतीन्द्रिया इन्द्रियाविषयभूता न केनचिद् इन्द्रियेण गृह्यन्ते, समुदितास् तु गृह्यन्ते, इत्य् अविषये प्रवृत्तिर् इन्द्रियस्य प्रसज्येत। न जात्व् अर्थान्तरम् अणुभ्यो गृह्यत इति। ते खल्व् इमे परमाणवः सन्निहिता गृह्यमाणा अतीन्द्रियत्वं जहति, वियुक्ताश् चागृह्यमाणा इन्द्रियविषयत्वं न लभन्त इति। सो ऽयं द्रव्यान्तरानुत्पत्ताव् अतिमहान् व्याघात इत्य् उपपद्यते द्रव्याअन्तरम् यद् ग्रहणस्य विषय इति।
सञ्चयमात्रं विषय इति चेन् न, सञ्चयस्य संयोगभावात् तस्य चातीन्द्रियस्याग्रहणाद् अयुक्तम्। सञ्चयः खल्व् अनेकस्य संयोगः, स च गृह्यमाणाश्रयो गृह्यते नातीन्द्रियाश्रयः, भवति हीदम् अनेन संयुक्तम् इति। तस्माद् युक्तम् एतद् इति।
% प्.1056
गृह्यमाणस्य चेन्द्रियेण विषयस्यावरणाद्यनुपलब्धिकारणम् उपलभ्यते। तस्मान् नेन्द्रियदौर्बल्याद् अनुपलब्धिर् अणूनाम्, यथा नेन्द्रियदौर्बल्याच् चक्षुषानुपलब्धिर् गन्धादीनाम् इति

9.15

********************** न्य्स्भ्_4,2.15 **********************
न्य्स्_4,2.15: अवयवावयविप्रसङ्गश् चैवम् आ प्रलयात् ॥
यः खल्व् अवयविनो ऽवयवेषु वृत्तिप्रतिषेधाद् अभावः सो ऽयम् अवयवस्यावयवेषु प्रसज्यमानः सर्वप्रलयाय वा कल्पेत, निरवयवाद् वा परमाणुतो निवर्तेत। उभयथा चोपलब्धिविषयस्याभावः, तदभावाद् उपलभ्यभावः। उपलभ्याश्रयश् चायं वृत्तिप्रतिषेधः, स आश्रयं व्याघ्नन् आत्मघाताय कल्पत इति

9.17

********************** न्य्स्भ्_4,2.16 **********************
% प्.1057
अथापि ---
न्य्स्_4,2.16: न प्रलयो ऽनुसद्भावात् ॥
अवयवविभागम् आश्रित्य वृत्तिप्रतिषेधाद् अभावः प्रसज्यमानो निरवयवात् परमाणोर् निवर्तते न सर्वप्रलयाय कल्पते, निरवयवत्वं तु परमाणोर् विभागैर् अल्पतरप्रसङ्गस्य यतो नाल्पीयस् तत्रावस्थानात्। लोष्टस्य खलु प्रविभज्यमानावयवस्याल्पतरम् अल्पतमम् उत्तरम् उत्तरं भवति। स चायम् अल्पतरप्रसङ्गः यस्मान् नाल्पतरम् अस्ति यः परमो ऽल्पस् तत्र निवर्तते, यतश् च नाल्पीयो ऽस्ति तं परमऽनुं प्रचक्ष्महे इति॥16\\
********************** न्य्स्भ्_4,2.17 **********************
% प्.1058
न्य्स्_4,2.17: परं वा त्रुटेः ॥
अवयवविभागस्यानवस्थानाद् द्रव्याणाम् असङ्ख्येयत्वात् त्रुटित्वनिवृत्तिर् इति

9.18

********************** न्य्स्भ्_4,2.18 **********************
% प्.1059
अथेदानीम् आनुपलम्भिकः सर्वं नास्तीति मन्यमान आह ---
न्य्स्_4,2.18: आकाशव्यतिभेदात् तदनुपपत्तिः ॥
तस्याणोर् निरवयवस्य नित्यस्यानुपपत्तिः। कस्मात्? आकाशव्यतिभेदात्। अन्तर् बहिश् चाणुर् आकाशेन समाविष्टो व्यतिभिन्नः, व्यतिभेदात् सावयवः, सावयवत्वाद् अनित्य इति

9.19

********************** न्य्स्भ्_4,2.19 **********************
% प्.1060
न्य्स्_4,2.19: आकाशासर्वगतत्वं वा ॥
अथैतन् नेष्यते --- परमाणोर् अन्तर् नास्त्य् आकाशम् इत्य् असर्वगतत्वं प्रसज्यत इति

9.20

********************** न्य्स्भ्_4,2.20 **********************
न्य्स्_4,2.20: अन्तर् बहिश् च कार्यद्रव्यस्य कारणान्तरवचनाद् अकार्ये तदभावः ॥
``अन्तर्ऽऽ इति पिहितं कारणान्तरैः कारणम् उच्यते। ``बहिर्ऽऽ इति च व्यवधायकम् अव्यवहितं कारणम् एवोच्यते। तद् एतत् कार्यद्रव्यस्य सम्भवति, नाणोर् अकार्यत्वात्। अकार्ये हि परमाणाव् अन्तर् बहिर् इत्य् अस्याभावः।
% हि परमाणाव् ...] प्.1061
यत्र चास्य भावो ऽनुकार्यं तत्, न परमाणुः, यतो हि नाल्पतरम् अस्ति स परमाणुर् इति

9.21

********************** न्य्स्भ्_4,2.21 **********************
% प्.1062
न्य्स्_4,2.21: शब्दसंयोगविभवाच् च सर्वगतम् ॥
यत्र क्वचिद् उत्पन्नाः शब्दा विभवन्त्य् आकाशे --- तदाश्रया भवन्ति, मनोभिः परमाणुभिस् तत्कार्यैश् च संयोगा विभवन्त्य् आकाशे, नासंयुक्तम् आकाशेन किञ्चिन् मूर्तद्रव्यम् उपलभ्यते, तस्मान् नासर्वगतम् इति

9.22

********************** न्य्स्भ्_4,2.22 **********************
न्य्स्_4,2.22: अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः ॥
संसर्पता प्रतिघातिना द्रव्येण न व्युह्यते, यथा काष्ठेनोदकम्। कस्मात्? निरवयवत्वात्। सर्पच् च प्रतिघाति न विष्टम्भाति --- नास्य क्रियाहेतुं गुणं प्रतिबध्नाति।
% प्.1063
कस्मात्? अस्पर्शत्वात्। विपर्यये हि विष्टम्भो दृष्ट इति स भवान् सावयवे स्पर्शवति द्रव्ये दृष्टं धर्मं विपरीते नाशाङ्कितुम् अर्हति।
अण्ववयवस्याणुतरत्वप्रसङ्गाद् अनुकार्यप्रतिषेधः। सावयवत्वे चाणोर् अण्ववयवो ऽनुतर इति प्रसज्यते। कस्मात्? कार्यकारणद्रव्ययोः परिमाणभेददर्शनात्। तस्माद् अण्ववयवस्याणुतरत्वम्, यस् तु सावयवो ऽनुकार्यं तद् इति। तस्माद् अनुकार्यम् इदं प्रतिषिध्यत इति।
कारणविभागाच् च कार्यस्यानित्यत्वम्, नाकाशव्यतिभेदात्। लोष्टस्यावयवविभागाद् अनित्यत्वम्, नाकाशसमावेषाद् इति

9.23

********************** न्य्स्भ्_4,2.23 **********************
% प्.1064
न्य्स्_4,2.23: मूर्तिमतां च संस्थानोपपत्तेर् अवयवसद्भावः ॥
परिच्छिन्नानां हि स्पर्शवतां संस्थानं त्रिकोणं चतुरस्रं समं परिमण्डलम् इत्य् उपपद्यते, यत् तत् संस्थानं सो ऽवयवसन्निवेषः, परिमण्डलाश् चाणवस् तस्मात् सावयवा इति

9.24

********************** न्य्स्भ्_4,2.24 **********************
न्य्स्_4,2.24: संयोगोपपत्तेश् च ॥
मध्ये सन्न् अणुः पूर्वापराभ्याम् अणुभ्याम् संयुक्तस् तयोर् व्यवधानं कुरुते। व्यवधानेनानुमीयते पूर्वभागेन पूर्वेणाणुना संयुज्यते, परभागेन परेणाणुना संयुज्यते, यौ तौ पूर्वापरौ भागौ ताव् अस्यावयवौ, एवं सर्वतः संयुज्यमानस्य सर्वतो भागा अवयवा इति।
यत् तावन् ``मूर्तिमतां संस्थानोपपत्तेर् अवयवसद्भावऽऽ इति? अत्रोक्तम्। किम् उक्तम्? विभागे ऽल्पतरप्रसङ्गस्य यतो नाल्पीयस् तत्र निवृत्तेर् अणवयवस्य चाणुतरत्वप्रसङ्गाद् अणुकार्यप्रतिषेध इति।
% प्.1065
यत् पुनर् एतत् संयोगोपपत्तेश् चेति? स्पर्शवत्त्वाद् व्यवधानम् आश्रयस्य चाव्याप्त्या भागभक्तिः। उक्तं चात्र स्पर्शवान् अणुः स्पर्शवतोर् अण्वोः प्रतिघाताद् व्यवधायको न सावयवत्वात्। स्पर्शवत्त्वाच् च व्यवधाने सत्य् अणुसंयोगो नाश्रयं व्याप्नोतीति भागभक्तिर् भवति भागवान्न् इवायम् इति। उक्तं चात्र विभागे ऽल्पतरप्रसङ्गस्य यतो नाल्पीयस् तत्रावस्थानात् तदवयवस्य चाणुतरत्वप्रसङ्गाद् अणुकार्यप्रतिषेध इति

9.25

********************** न्य्स्भ्_4,2.25 **********************
मूर्तिमतां च संस्थानोपपत्तेः संयोगोपपत्तेश् च परमाणूनां सावयवत्वम् इति हेत्वोः ---
न्य्स्_4,2.25: अनवस्थाकारित्वाद् अनवस्थानुपपत्तेश् चाप्रतिषेधः ॥
यावन् मूर्तिमद् यावच् च संयुज्यते तत् सर्वं सावयवम् इत्य् अनवस्थाकारिणाव् इमौ हेतू, सा चानवस्था नोपपद्यते। सत्याम् अनवस्थायां सत्यौ हेतू स्याताम्, तस्माद् अप्रतिषेधो ऽयं निरवयवत्वस्येति।
% प्.1066
विभागस्य च विभज्यमानहानिर् नोपपद्यते तस्मात् प्रलयान्तता नोपपद्यत इति।
% प्.1071
अनवस्थायां च प्रत्यधिकरणं द्रव्यावयवानाम् आनन्त्यात् परिमाणभेदानां गुरुत्वस्य चाग्रःअणम् समानपरिमाणत्वं चावयवावयविनोः परमण्ववयविभागाद् ऊर्ध्वम् इति

9.26

********************** न्य्स्भ्_4,2.26 **********************
% प्.1072
यद् इदं भवान् बुद्धीर् आश्रित्य बुद्धिविषयाः सन्तीति मन्यते मिथ्याबुद्धय एताः, यदि हि तत्त्वबुद्धयः स्युर् बुद्ध्या विवेचने याथात्म्यं बुद्धिविषयाणाम् उपलभ्येत ---
न्य्स्_4,2.26: बुद्ध्या विवेचनात् तु भावानां याथात्म्यानुपलब्धिस् तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः ॥
% प्.1073
यथायं तन्तुर् अयं तन्तुर् इति प्रत्येकं तन्तुषु विविच्यमानेषु नार्थान्तरं किञ्चिद् उपलभ्यते --- यत् पटबुद्धेर् विषयः स्यात्, याथात्म्यानुपलब्धेर् असति विषये पटबुद्धिर् भवन्ती मिथ्याबुद्धिर् भवति, एवं सर्वत्रेति

9.27

********************** न्य्स्भ्_4,2.27 **********************
न्य्स्_4,2.27: व्याहतत्वाद् अहेतुः ॥
यदि बुद्ध्या विवेचनं भावानां न सर्वभावानां याथात्म्यानुपलब्धिः। अथ सर्वभावानां याथात्म्यानुपलब्धिर् न बुद्ध्या विवेचनम्। भावानां बुद्ध्या विवेचनं याथात्म्यानुपलब्धिश् चेति व्याहन्यते।
% याथात्म्यानुपलब्धिश् चेति व्याहन्यते।] प्.1074
तद् उक्तम् --- ``अवयवावयविप्रसङ्गश् चैवम् आ प्रलयाद्ऽऽ इति

9.28

********************** न्य्स्भ्_4,2.28 **********************
न्य्स्_4,2.28: तदाश्रयत्वाद् अपृथग्ग्रहणम् ॥
कार्यद्रव्यं कारणद्रव्याश्रितं तत् कारणेभ्यः पृथङ् नोपलभ्यते, विपर्यये पृथग्ग्रहणात्,
% प्.1075
यत्राश्रयाश्रितभावो नास्ति तत्र पृथग्ग्रहणम् इति। बुद्ध्या विवेचनात् तु भावानां पृथग्ग्रहणम् अतीन्द्रियेष्व् अणुषु, यद् इन्द्रियेण गृह्यते तद् एतया बुद्ध्या विविच्यमानम् अन्यद् इति

9.29

********************** न्य्स्भ्_4,2.29 **********************
न्य्स्_4,2.29: प्रमाणतश् चार्थप्रतिपत्तेः ॥
बुद्ध्या विवेचनाद् भावानां याथात्म्योपलब्धिः, यद् अस्ति यथा च यन् नास्ति यथा च तत् सर्वं प्रमाणत उपलब्ध्या सिध्यति, या च प्रमाणत उपलोअब्धिस् तद् बुद्ध्या विवेचनं भावानाम्, तेन सर्वशास्त्राणि सर्वकर्माणि सर्वे च शरीरिणां व्यवहारा व्याप्ताः। परीक्षमाणो हि बुद्ध्याध्यवस्यतीदम् अस्तीदं नास्तीति तत्र न सर्वभावानुपपत्तिः

9.30

********************** न्य्स्भ्_4,2.30 **********************
% प्.1076
न्य्स्_4,2.30: प्रमाणानुपपत्त्युपपत्तिभ्याम् ॥
एवं च सति सर्वं नास्तीति नोपपद्यते, कस्मात्? प्रमाणानुपपत्त्युपपत्तिभ्याम्। यदि सर्वं नास्तीति प्रमाणम् उपपद्यते, सर्वं नास्तीति एतद् व्याहन्यते। अथ प्रमाणं नोपपद्यते, सर्वं नास्तीत्य् अस्य कथं सिद्धिः? अथ प्रमाणम् अन्तरेण सिद्धिः, सर्वम् अस्तीत्य् अस्य कथं न सिद्धिः?

9.31

********************** न्य्स्भ्_4,2.31 **********************
न्य्स्_4,2.31: स्वप्नविषयाभिमानवद् अयं प्रमाणप्रमेयाभिमानः ॥
यथा स्वप्ने न विषयाः सन्त्य् अथ चाभिमानो भवति, एवं न प्रमाणानि प्रमेयाणि च सन्त्य् अथ च प्रमाणप्रमेयाभिमानो भवति

9.33

********************** न्य्स्भ्_4,2.32 **********************
न्य्स्_4,2.32: मायागन्धर्वनगरमृगतृष्णिकावद् वा ॥
% प्.1077
********************** न्य्स्भ्_4,2.33 **********************
न्य्स्_4,2.33: हेत्वभावाद् असिद्धिः ॥
स्वप्नान्ते विषयाभिमानवत् प्रमाणप्रमेयाभिमानो न पुनर् जागरितान्ते विषयोपलब्धिवद् इत्य् अत्र हेतुर् नास्ति। हेत्वभावाद् असिद्धिः। स्वप्नान्ते चासन्तो विषया उपलभ्यन्त इत्य् अत्रापि हेत्वभावः।
% प्.1078
प्रतिबोधे ऽनुपलम्भाद् इति चेत्? प्रतिबोधविषयोपलम्भाद् अप्रतिषेधः। यदि प्रतिबोधे णुपलम्भात् स्वप्ने विषया न सन्तीति, तर्हि य इमे प्रतिबुद्धेन विषया उपलभ्यन्त उपलम्भात् सन्तीति। विपर्यये हि हेतुसामर्थ्यम्। उपलम्भात् सद्भावे सत्य् अनुपलम्भाद् अभावः सिद्ध्यति, उभयथा त्व् अभावे नानुपलम्भस्य सामर्थ्यम् अस्ति, यथा प्रदीपस्याभावाद् रूपस्यादर्शनम् इति, तत्र भावेनाभावः समर्थ्यत इति।
% प्.1080
स्वप्नान्तविकल्पे च हेतुवचनम्। स्वप्नविषयाभिमानवद् इति ब्रुवता स्वप्नान्तविकल्पे हेतुर् वाच्यः। कश्चित् स्वप्नो भयोपसंहितः, कश्चित् प्रमोदोपसंहितः, कश्चिद् उभयविपरीतः, कदाचित् स्वप्नम् एव न पश्यतीति। निमित्तवतस् तु स्वप्नविषयाभिमानस्य निमित्तविकल्पाद् विकल्पोपपत्तिः

9.34

********************** न्य्स्भ्_4,2.34 **********************
% प्.1083
न्य्स्_4,2.34: स्मृतिसङ्कल्पवच् च स्वप्नविषयाभिमानः ॥
पूर्वोपलब्धविषयः। यथा स्मृतिश् च सङ्कल्पश् च पूर्वोपलब्धविषयौ न तस्य प्रत्याख्यानाय कल्पेते तथा स्वप्ने विषयग्रहणं पूर्वोपलब्धविषयं न तस्य प्रत्याख्यानाय कल्पत इति।
% कल्पत इति] प्.1084
एवं दृष्टविषयश् च स्वप्नान्तो जागरितान्तेन। यः सुप्तः स्वप्नं पश्यति स एव जाग्रत् स्वप्नदर्शनानि प्रतिसन्धत्त इदम् अद्राक्षम् इति। तत्र जाग्रद्बुद्धिवृत्तिवशात् स्वप्नविषयाभिमानो मिथ्येति व्यवसायः। सति च प्रतिसन्धाने या जाग्रतो बुद्धिवृत्तिस् तद्वशाद् अयं व्यवसायः स्वप्नविषयाभिमानो मिथ्येति।
% प्.1085
उभयाविशेषे तु साधनानर्थक्यम्। यस्य स्वप्नान्तजागरितान्तयोर् अविशेषस् तस्य स्वप्नविषयाभिमानवद् इति साधनम् अनर्थकं तदाश्रयप्रत्याख्यानात्।
अतस्मिंस् तद् इति च व्यवसायः प्रधानाश्रयः। अपुरुषे स्थाणौ पुरुष इति व्यवसायः, स प्रधानाश्रयः, न खलु पुरुषे ऽनुपलब्धे पुरुष इत्य् अपुरुषे व्यवसायो भवति, एवं स्वप्नविषयस्य व्यवसायो हस्तिनम् अद्राक्षं पर्वतम् अद्राक्षम् इति प्रधानाश्रयो भवितुम् अर्हति

9.35

********************** न्य्स्भ्_4,2.35 **********************
% प्.1087
एवं च सति ---
न्य्स्_4,2.35: मिथ्योपलब्धिविनाशस् तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे ॥
स्थाणौ प्रुषो ऽयम् इति व्यवसायो मिथ्योपलब्धिः अतस्मिंस् तद् इति ज्ञानम्, स्थाणौ स्थाणुर् इति व्यवसायस् तत्त्वज्ञानम्। तत्त्वज्जानेन च मिथ्योपलब्धिर् निवर्त्यते, नार्थः स्थाणुपुरुषसामान्यलक्षणः। यथा प्रतिबोधे या ज्ञानवृत्तिस् तया स्वप्नविषयाभिमानो निवर्त्यते नार्थो विषयसामान्यलक्षणः, तथा मायागन्धर्वनगरमृगतृष्णिकाणाम् अपि या बुद्धयो ऽतस्मिंस् तद् इति व्यवसायास् तत्राप्य् अनेनैव कल्पेन मिथ्योपलब्धिविनाशस् तत्त्वज्ञानान् नार्थप्रतिषेध इति।
उपादानवच् च मायादिषु मिथ्याज्ञानम्। प्रज्ञापनीयसरूपं च द्रव्यम् उपादाय साधनवान् अपरस्य मिथ्याध्यवसायं करोति सा माया, नीहारप्रभृतीनां नगरसरूपसन्निवेशे दूरान् नगरबुद्धिर् उत्पद्यते विपर्यये तदभावात्, सूर्यमरीचिषु भौमेनोष्मणा संसृष्टेषु स्पन्दमानेषूदकबुद्धिर् भवति सामान्यग्रहणात्, अन्तिकस्थस्य विपर्यये तदभावात्।
% प्.1088
क्वचित् कदाचित् कस्यचिच् च भावान् नानिमित्तं मिथ्याज्ञानम्। दृष्टं च बुद्धिद्वैतं मायाप्रयोक्तुः परस्य च, दूरानिकस्थयोर् गन्धर्वनगरमृगतृष्णिकासु, सुपुतप्रतिबुद्धयोश् च स्वप्नविषये। तद् एतत् सर्वस्याभावे निरुपाख्यतायां निरात्मकत्वे नोपपद्यत इति

9.36

********************** न्य्स्भ्_4,2.36 **********************
न्य्स्_4,2.36: बुद्धेश् चैवं निमित्तसद्भावोपलम्भात् ॥
मिथ्याबुद्धेश् चार्थवद् अप्रतिषेधः। कस्मात्? निमित्तोपलम्भात्, सद्भावोपलम्भाच् च। उपलभ्यते हि मिथ्याबुद्धिनिमित्तं मिथ्याबुद्धिश् च प्रत्यात्मम् उत्पन्ना गृह्यते संवेद्यत्वात्, तस्मान् मिथ्याबुद्धिर् अप्य् अस्तीति

9.37

********************** न्य्स्भ्_4,2.36 **********************
% प्.1089
न्य्स्_4,2.37: तत्त्वप्रधानभेदाच् च मिथ्याबुद्धेर् द्वैविध्योपपत्तिः ॥
तत्त्वं स्थाणुर् इति, प्रधानं पुरुष इति। तत्त्वप्रधानयोर् अलोपाद् भेदात् स्थाणौ पुरुष इति मिथ्याबुद्धिर् उत्पद्यते सामान्यग्रहणात्। एवं पताकायां बलाकेति, लोष्टे कपोत इति न तु समाने विषये मिथ्याबुद्धीनां समावेशः सामान्यग्रहणव्यवस्थानात्। यस्य तु निरात्मकं निरुपाख्यं सर्वं तस्य समावेशः प्रसज्यते।
% प्.1090
गन्धादौ च प्रमेये गन्धादिबुद्दयो मिथ्याभिमतास् तत्त्वप्रधानयोः सामान्यग्रहणस्य चाभावात् तत्त्वबुद्धय एव भवन्ति। तस्माद् अयुक्तम् एतत् --- प्रमाणप्रमेयबुद्धयो मिथ्येति

9.38

********************** न्य्स्भ्_4,2.38 **********************
दोषनिमित्तानां तत्त्वज्ञानाद् अहङ्कारनिवृत्तिर् इत्य् उक्तम्। अथ कथं तत्त्वज्ञानम् उत्पद्यत इति?
न्य्स्_4,2.38: समाधिविशेषाभ्यासात् ॥
स तु प्रत्याहृतस्येन्द्रियेभ्यो मनसो धारकेण प्रयत्नेन धार्यमाणस्यात्मना संयोगस् तत्त्वबुभुत्साविशिष्टः।
% संयोगस् तत्त्वबुभुत्साविशिष्टः।] प्.1091
सति हि तस्मिन्न् इन्द्रियार्थेषु बुद्धयो नोत्पद्यन्ते, तदभ्यासवशात् तत्त्वबुद्धिर् उत्पद्यते

9.39

********************** न्य्स्भ्_4,2.39 **********************
यद् उक्तं ``सति हि तस्मिन्न् इन्द्रियार्थेषु बुद्धयो नोत्पद्यन्तऽऽ इत्य् एतत् ---
न्य्स्_4,2.39: नार्थविशेषप्राबल्यात् ॥
अनिच्छतो ऽपि बुद्ध्युत्पत्तेर् नैतद् युक्तम्। कस्मात्? अर्थविशेषप्राबल्यात्। अबुभुत्समानस्यापि बुद्ध्युत्पत्तिर् दृष्टा यथा स्तनयित्नुशब्दप्रभृतिषु; तत्र समाधिविशेषो नोपपद्यते

9.40

********************** न्य्स्भ्_4,2.40 **********************
न्य्स्_4,2.40: क्षुदादिभिः प्रवर्तनाच् च ॥
% प्.1092
क्षुत्पिपासाभ्यां शीतोष्णाभ्यां व्याधिभिश् चानिच्छतो ऽपि बुद्धयः प्रवर्तन्ते तस्माद् ऐकाग्र्यानुपपत्तिर् इति

9.41

********************** न्य्स्भ्_4,2.41 **********************
अस्त्व् एतत् समाधिं विहाय व्युत्थानं व्युत्थाननिमित्तं समाधिप्रत्यनीकं च, सति त्व् एतस्मिन् ---
न्य्स्_4,2.41: पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ॥
% प्.1093
पूर्वकृतो जन्मान्तरोपचितस् तत्त्वज्ञानहेतुर् धर्मप्रविवेकः फलानुबन्धो *योगाभ्याससामर्थ्यं (चोर्र्.; गोगाभ्यास-, एद्.), निष्फले ह्य् अभ्यासे नाभ्यासम् आद्रियेरन्। दृष्टं हि लौकिकेषु कर्मस्व् अभ्याससामर्थ्यम्

9.42

********************** न्य्स्भ्_4,2.42 **********************
प्रत्यनीकपरिहारार्थं च ---
न्य्स्_4,2.42: अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ॥
योगाभ्यासजनितो धर्मो जन्मान्तरे ऽप्य् अनुवर्तते। प्रचयकाष्ठागते तत्त्वज्ञानहेतौ धर्मे प्रकृष्टायां समाधिभावनायां तत्त्वज्ञानम् उत्पद्यत इति। दृष्टश् च समाधिनार्थविशेषप्राबल्याभिभवः ``नाहम् एतद् अश्रौषं नाहम् एतद् अज्ञासिषम् अन्यत्र मे मनो ऽभूद्ऽऽ इत्य् आह लौकिक इति

9.43

********************** न्य्स्भ्_4,2.43 **********************
% प्.1094
यद्य् अर्थविशेषप्राबल्याद् अनिच्छतो ऽपि बुद्ध्युत्पत्तिर् अनुज्ञायते ---
न्य्स्_4,2.43: अपवर्गे ऽप्य् एवं प्रसङ्गः ॥
मुक्तस्यापि बाह्यार्थसामर्थ्याद् बुद्धय उत्पद्येरन्न् इति

9.44

********************** न्य्स्भ्_4,2.44 **********************
न्य्स्_4,2.44: न, निष्पन्नावश्यम्भावित्वात् ॥
कर्मवशान् निष्पन्ने शरीरे चेष्टेन्द्रियार्थाश्रये निमित्तभावाद् अवश्यम्भावी बुद्धीनाम् उत्पादः। न च प्रबलो ऽपि सन् बाह्यो ऋथ आत्मनो बुद्ध्युत्पादे समर्थो भवति तस्येन्द्रियेण संयोगाद् बुद्ध्युत्पादे सामर्थ्यं दृष्टम् इति

9.45

********************** न्य्स्भ्_4,2.45 **********************
% प्.1095
न्य्स्_4,2.45: तदभावश् चापवर्गे ॥
तस्य बुद्धिनिमित्ताश्रयस्य शरीरेन्द्रियस्य धर्माधर्माभावाद् अभावो ऽपवर्गे। तत्र यद् उक्तम् ``अपवर्गे ऽप्य् एवं प्रसङ्गऽऽ इति, तद् अयुक्तम्। तस्मात् सर्वदुःखविमोक्षो ऽपवर्गः। यस्मात् सर्वदुःखबीजं सर्वदुःखायतनं चापवर्गे विच्छिद्यते तस्मात् सर्वेण दुःखेन विमुक्तिर् अपवर्गः। न निर्बीजं निरायतनं च दुःखम् उत्पद्यत इति

9.46

********************** न्य्स्भ्_4,2.46 **********************
न्य्स्_4,2.46: तदर्थं यमनियमाभ्याम् आत्मसंस्कारो योगाच् चाध्यात्मविध्युपायैः ॥
तस्यापवर्गस्याधिगमाय यमनियमाभ्याम् आत्मसंस्कारः। यमः समानम् आश्रमिणां धर्मसाधनम्, नियमस् तु विशिष्टम्। आत्मसंस्कारः पुनर् अधर्महानं धर्मोपचयश् च। योगशास्त्राच् चाध्यात्मविधिः प्रतिपत्तव्यः। स पुनस् तपः प्राणायामः प्रत्याहारो ध्यानं धारणेति। इन्द्रियविषयेषु प्रसंख्यानाभ्यासो रागद्वेषप्रहाणार्थः। उपायस् तु योगाचारविधानम् इति

9.47

********************** न्य्स्भ्_4,2.47 **********************
% प्.1097
न्य्स्_4,2.47: ज्ञानग्रहणाभ्यासस् तद्विद्यैश् च सह संवादः ॥
तदर्थम् इति प्रकृतम्। ज्ञायते ऽनेनेति ज्ञानम् आत्मविद्याशास्त्रं तस्य ग्रहणम् अध्ययनधारणे, अभ्यासः सततक्रियाध्ययनश्रवणचिन्तनानि। तद्विद्यैश् च सह संवाद इति प्रज्ञापरिपाकार्थम्, परिपाकस् तु संशयच्छेदनम् अविज्ञातार्थबोधो ऽध्यवसिताभ्यनुज्ञानम् इति। समयावादः संवादः

9.48

********************** न्य्स्भ्_4,2.48 **********************
तद्विद्यैश् च सह संवाद इत्य् अविभक्तार्थं वचनं विभज्यते ---
न्य्स्_4,2.48: तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिर् अनसूयिभिर् अभ्युपेयात् ॥
एतन् निगदेनैव नीतार्थम् इति

9.49

********************** न्य्स्भ्_4,2.49 **********************
% प्.1098
यदि च मन्येत पक्षप्रतिपक्षपरिग्रहः प्रतिकूलः परस्येति ---
न्य्स्_4,2.49: प्रतिपक्षहीनम् अपि वा प्रयोजनार्ह्तम् अर्थित्वे ॥
तम् अभ्युपेयाद् इति वर्तते। परतः प्रज्ञाम् उपादित्समानस् तत्त्वबुभुत्साप्रकाशनेन स्वपक्षम् अनवस्थापयन् स्वदर्शनं परिशोधयेद् इति। अन्योन्यप्रत्यनीकानि च प्रावादुकानां दर्शनानि

9.50

********************** न्य्स्भ्_4,2.50 **********************
% प्.1099
स्वपक्षरागेण चैके न्यायम् अतिवर्तन्ते, तत्र ---
न्य्स्_4,2.50: तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् ॥
अनुत्पन्नतत्त्वज्ञानानाम् अप्रहीणदोषाणां तदर्थं घटमानानाम् एतद् इति

9.51

********************** न्य्स्भ्_4,2.51 **********************
विद्यानिर्वेदादिभिश् च परेणावज्ञायमानस्य ---
न्य्स्_4,2.51: ताभ्यां विगृह्य कथनम् ॥
% प्.1100
विगृह्येति विजिगीषया, न तत्त्वबुभुत्सयेति। तद् एतद् विद्यापालार्थं न लाभपूजाख्यात्यर्थम् इति

9.4

इति श्रीवात्स्यायनीये न्यायभाष्ये चतुर्थो ऽध्यायः समाप्तः

मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Edition: Taranatha Nyaya-Tarkatirtha Calcutta : Metropolitan Printing & Publ. 1936-1944 (Calcutta Sanskrit Series, 18 & 19) · Data entry Indology Student Team, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc