न्यायसूत्र (टीका सहित) · अध्याय 10
% प्.1101 (चोर्र्.; 1200, एद्.)
न्यायदर्शनम्
अथ पञ्चमाध्यायस्याद्यम् आह्निकम्
********************** न्य्स्भ्_5,1.1 **********************
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य ``विकल्पाज् जातिबहुत्वम्ऽऽ इति सङ्क्षेपेणओक्तम्, तद् विस्तरेण विभज्यते --- ताः खल्व् इमा जातयः स्थापनाहेतौ प्रयुक्ते चतुर्विंशतिः प्रतिषेधहेतवः।
न्य्स्_5,1.1: साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्ध्यनित्यनित्यकार्यसमाः ॥
% प्.1102
साधर्म्येण प्रत्यवस्थानम् अविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः। अविशेषं तत्र तत्रोदाहरिष्यामः। एवं वैधर्म्यसमप्रभृतयो ऽपि निर्वक्तव्याः
********************** न्य्स्भ्_5,1.2 **********************
% प्.1105
लक्षणं तु ---
न्य्स्_5,1.2: साधर्म्यवैधर्म्याभ्याम् उपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ॥
साधर्म्येणोपसंहारे साध्यधर्मविपर्ययोपपत्तेः साधर्म्येणैव प्रत्यवस्थानम् अविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः। निदर्शनम् क्रियावान् आत्मा, द्रव्यस्य क्रियाहेतुगुणयोगात्। द्रव्यं लोष्टः क्रियाहेतुगुणयुक्तः क्रियावान्, तथा चात्मा, तस्मात् क्रियावान् इति। एवम् उपसंहृते परः साधर्म्येणैव प्रत्यवतिष्ठते निष्क्रिय आत्मा विभुनो द्रव्यस्य निष्क्रियत्वाद्, विभु चाकाशं निष्क्रियं च, तथा चात्मा, तस्मान् निष्क्रिय इति।
% -न् निष्क्रिय इति।] प्.1106
न चास्ति विशेषहेतुः क्रियावत्साधर्म्यात् क्रियावता भवितव्यम्, न पुनर् अक्रियसाधर्म्याद् निष्क्रियेणेति। विशेषहेत्वभावात् साधर्म्यसमः प्रतिषेधो भवति।
अथ वैधर्म्यसमः --- क्रियाहेतुगुणयुक्तो लोष्टः परिच्छिन्नो दृष्टो न च तथात्मा, तस्मान् न लोष्टवत् क्रियावान् इति। न चास्ति विशेषहेतुः क्रियावत्साधर्म्यात् क्रियावता भवितव्यं न पुनः क्रियावद्वैधर्म्याद् अक्रियेणेति, विशेषहेत्वभावाद् वैधर्म्यसमः।
वैधर्म्येण चोपसंहारः --- निष्क्रिय आत्मा विभुत्वात्, क्रियावद् द्रव्यम् अविभु दृष्टं यथा लोष्टः, न च तथात्मा, तस्मान् निष्क्रिय इति। वैधर्म्येण प्रत्यवस्थानम् --- निष्क्रियं द्रव्यम् आकाशं क्रियाहेतुगुणरहितं दृष्टम्, न च तथात्मा, तस्मान् न निष्क्रिय इति। न चास्ति विशेषहेतुः क्रियावद्वैधर्म्यान् निष्क्रियेण भवितव्यं न पुनर् अक्रियवैधर्म्यात् क्रियावतेति विशेषहेत्वभावाद् वैधर्म्यसमः।
% प्.1107
अथ साधर्म्यसमः --- क्रियावान् लोष्टः क्रियाहेतुगुणयुक्तो दृष्टः, तथा चात्मा, तस्मात् क्रियावान् इति। न चास्ति विशेषहेतुः क्रियावद्वैधर्म्यान् निष्क्रियो न पुनः क्रियावत्साधर्म्यात् क्रियावान् इति विशेषहेत्वभावात् साधर्म्यसमः॥
********************** न्य्स्भ्_5,1.3 **********************
अनयोर् उत्तरम् ---
न्य्स्_5,1.3: गोत्वाद् गोसिद्धिवत् तत्सिद्धिः ॥
साधर्म्यमात्रेण वैधर्म्यमात्रेण च साध्यसाधने प्रतिज्ञायमाने स्याद् अव्यवस्था,
% प्.1108
सा तु धर्मविशेषे नोपपद्यते, गोसाधर्म्याद् गोत्वाज् जातिविशेषाद् गौः सिध्यति, न तु सास्नादिसम्बन्धात्। अश्वादिवैधर्म्याद् गोत्वाद् एव गौः सिध्यति, न गुणादिभेदात्। तच् चैतत् कृतव्याख्यानम् अवयवप्रकरणे। प्रमाणानाम् अभिसम्बन्धाच् चैकार्थकारित्वं समानं वाक्य इति। हेत्वाभासाश्रया खल्व् इयम् अव्यवस्थेति॥
********************** न्य्स्भ्_5,1.4 **********************
% प्.1109
न्य्स्_5,1.4: साध्यदृष्टान्तयोर् धर्मविकल्पाद् उभयसाध्यत्वाच् चोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः ॥
दृष्टान्तधर्मं साध्ये समासञ्जयत उत्कर्षसमः। यदि क्रियाहेतुगुणयोगाल् लोष्टवत् क्रियावान् आत्मा, लोष्टवद् एव स्पर्शवान् अपि प्राप्नोति। अथ न स्पर्शवान्, लोष्टवत् क्रियावान् अपि न प्राप्नोति, विपर्यये वा विशेषो वक्तव्य इति।
साध्ये धर्माभावं दृष्टान्तात् प्रसञ्जयतो ऽपकर्षसमः। लोष्टः खलु क्रियावान् अविभुर् दृष्टः,
% -विभुर् दृष्टः,] प्.1110
कामम् आत्मापि क्रियावान् अविभुर् अस्तु, विपर्यये वा विशेषो वक्तव्य इति।
ख्यापनीयो वर्ण्यो विपर्ययाद् अवर्ण्यः। ताव् एतौ साध्यदृष्टान्तधर्मौ विपर्यस्यतो वर्ण्यावर्ण्यसमौ भवतः।
साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पं प्रसञ्जयतो विकल्पसमः। क्रियाहेतुगुणयुक्तं किञ्चिद् गुरु यथा लोष्टः, किंचिल् लघु यथा वायुः, एवं क्रियाहेतुगुणयुक्तं किञ्चित् क्रियावत् स्यात् यथा लोष्टः, किञ्चिद् अक्रियं यथात्मा, विशेषो वा वाच्य इति।
हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः, तं दृष्टान्ते प्रसञ्जयतः साध्यसमः। यदि यथा लोष्टस् तथात्मा, प्राप्तस् तर्हि यथात्मा तथा लोष्ट इति। साध्यश् चायम् आत्मा क्रियावान् इति कामं लोष्टो ऽपि साध्यः। अथ नैवम्, न तर्हि यथा लोष्टः तथात्मा
********************** न्य्स्भ्_5,1.5 **********************
% प्.1113
एतेषाम् उत्तरम् ---
न्य्स्_5,1.5: किञ्चित्साधर्म्याद् उपसंहारसिद्धेर् वैधर्म्याद् अप्रतिषेधः ॥
अलभ्यः सिद्धस्य निह्नवः। सिद्धं च किञ्चित्साधर्म्याद् उपमानं यथा गौस् तथा गवय इति।
% इति।] प्.1114
तत्र न लभ्यो गोगवययोर् धर्मविकल्पश् चोदयितुम्। एवं साधके धर्मे दृष्टान्तादिसामर्थ्ययुक्ते न लभ्यः साध्यदृष्टान्तयोर् धर्मविकल्पाद् वैधर्म्यात् प्रतिषेधो वक्तुम् इति
********************** न्य्स्भ्_5,1.6 **********************
न्य्स्_5,1.6: साध्यातिदेशाच् च दृष्टान्तोपपत्तेः ॥
यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं तेनाविपरीतो ऽर्थो ऽतिदिश्यते प्रज्ञापनार्थम्। एवं साध्यातिदेशाद् दृष्टान्ते उपपद्यमाने साध्यत्वम् अनुपपन्नम् इति
********************** न्य्स्भ्_5,1.7 **********************
% प्.1116
न्य्स्_5,1.7: प्राप्य साध्यम् अप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वाद् अप्राप्त्यासाधकत्वाच् च प्राप्त्यप्राप्तिसमौ ॥
हेतुः प्राप्य वा साध्यं साधयेद् अप्राप्य वा? न तावत् प्राप्य प्राप्त्याम् अविशिष्टत्वाद् असाधकः। द्वयोर् विद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा?
अप्राप्य साधकं न भवति, नाप्राप्तः प्रदीपः प्रकाशयतीति। प्राप्त्या प्रत्यवस्थानं प्राप्तिसमः, अप्राप्त्या प्रत्यवस्थानम् अप्राप्तिसमः
********************** न्य्स्भ्_5,1.8 **********************
% प्.1117
अनयोर् उत्तरम् ---
न्य्स्_5,1.8: घटादिनिष्पत्तिदर्शनात् पीडने चाभिचाराद् अप्रतिषेधः ॥
उभयथा खल्व् अयुक्तः प्रतिषेधः कर्तृकरणाधिकरणानि प्राप्य मृदं घटादिकार्यं निष्पादयन्ति, अभिचाराच् च पीडने सति दृष्टम् अप्राप्य साधकत्वम् इति
********************** न्य्स्भ्_5,1.9 **********************
% प्.1118
न्य्स्_5,1.9: दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच् च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ॥
साधनस्यापि साधनं वक्तव्यम् इति प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः। क्रियाहेतुगुणयोगी क्रियावान् लोष्ट इति हेतुर् नापदिश्यते, न च हेतुम् अन्तेरेण सिद्धिर् अस्तीति।
% प्.1119
प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः। क्रियावान् आत्मा क्रियाहेतुगुणयोगाद् लोष्टवद् इत्य् उक्ते प्रतिदृष्टान्त उपादीयते --- क्रियाहेतुगुणयुक्तम् आकाशं निष्क्रियं दृष्टम् इति। कः पुनर् आकाशस्य क्रियाहेतुगुणः? वायुना संयोगः संस्कारापेक्षः, वायुवनस्पतिसंयोगवद् इति
********************** न्य्स्भ्_5,1.10 **********************
% प्.1120
अनयोर् उत्तरम् ---
न्य्स्_5,1.10: प्रदीपओपादानप्रसङ्गविनिवृत्तिवत् तद्विनिवृत्तिः ॥
इदं तावद् अयं पृष्टो वक्तुम् अर्हति, अथ के प्रदीपम् उपाददते, किमर्थं वेति? दिदृक्षमाणा दृश्यदर्शनार्थम् इति। अथ प्रदीपं दिदृक्षमाणाः प्रदीपान्तरं कस्मान् नोपाददते? अन्तरेणापि प्रदीपान्तरं दृश्यते प्रदीपः, तत्र प्रदीपदर्शनार्थं प्रदीपोपादानं निरर्थकम्। अथ दृष्टान्तः किमर्थम् उच्यत इति? अप्रज्ञातस्य ज्ञापनार्थम् इति। अथ दृष्टान्ते कारणापदेशः किमर्थं देश्यते? यदि प्रज्ञापनार्थम्, प्रज्ञातो दृष्टान्तः। स खलु ``लौकिकपरीक्षकाणां यस्मिन्न् अर्थे बुद्धिसाम्यं स दृष्टान्तऽऽ इति। तत्प्रज्ञापनार्थः कारणापदेशो निरर्थक इति प्रसङ्गसमस्योत्तरम्
********************** न्य्स्भ्_5,1.11 **********************
% प्.1121
अथ प्रतिदृष्टान्तसमस्योत्तरम् ---
न्य्स्_5,1.11: प्रतिदृष्टान्तहेतुत्वे च नाहेतुर् दृष्टान्तः ॥
प्रतिदृष्टान्तं ब्रुवता न विशेषहेतुर् अपदिश्यते, --- अनेन प्रकारेण प्रतिदृष्टानतः साधको न दृष्टान्त इति। एवं प्रतिदृष्टान्तहेतुत्वे नाहेतुर् दृष्टान्त इत्य् उपपद्यते। स च कथम् अहेतुर् न स्यात्? यद्य् अप्रतिषिद्धः साधकः स्याद् इति
********************** न्य्स्भ्_5,1.12 **********************
% प्.1122
न्य्स्_5,1.12: प्रागुत्पत्तेः कारणाभावाद् अनुत्पत्तिसमः ॥
अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इत्य् उक्ते अपर आह --- प्रागुत्पत्तेर् अनुत्पन्ने शब्दे प्रयत्नानन्तरीयकत्वम् अनित्यत्वकारणं नास्ति, तदभावात् नित्यत्वं प्राप्तम्, नित्यस्य चोत्पत्तिर् नास्ति। अनुत्पत्त्या प्रत्यवस्थानम् अनुत्पत्तिसमः
********************** न्य्स्भ्_5,1.13 **********************
% प्.1123
अस्योत्तरम् ---
न्य्स्_5,1.13: तथाभावाद् उत्पन्नस्य कारणोपपत्तेर् न कारणप्रतिषेधः ॥
तथाभावाद् उत्पन्नस्येति। उत्पन्नः खल्व् अयं शब्द इति भवति। प्रागुतपत्तेः शब्द एव नास्ति, उत्पन्नस्य शब्दभावाच् छब्दस्य सतः प्रयत्नानन्तरीयकत्वम् अनित्यत्वकारणम् उपपद्यते, कारणोपपत्तेर् अयुक्तो ऽयं दोषः ``प्रागुत्पत्तेः कारणाभावाद्ऽऽ इति
********************** न्य्स्भ्_5,1.14 **********************
% प्.1125
न्य्स्_5,1.14: सामान्यदृष्टान्तयोर् ऐन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः ॥
अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इत्य् उक्ते हेतौ संशयेन प्रत्यवतिष्टते --- सति प्रयत्नानन्तरीयकत्वे अस्त्य् एवास्य नित्येन सामान्येन साधर्म्यम् ऐन्द्रियकत्वम्, अस्ति च घटेनानित्येन, अतो नित्यानित्यसाधर्म्याद् अनिवृत्तिः संशय इति
********************** न्य्स्भ्_5,1.15 **********************
% प्.1126
अस्योत्तरम् ---
न्य्स्_5,1.15: साधर्म्यात् संशये न संशयो वैधर्म्याद् उभयथा वा संशये ऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच् च सामान्य्स्याप्रतिषेधः ॥
विशेषाद् वैधर्म्याद् अवधार्यमाणे ऽर्थे पुरुष इति, न स्थाणुपुरुषसाधर्म्यात् संशयो ऽवकाशं लभते। एवं वैधर्म्याद् विशेषात् प्रयत्नानन्तरीयकत्वाद् अवधार्यमाणे शब्दस्यानित्यत्वे नित्यानित्यसाधर्म्यात् संशयो ऽवकाशं न लभते। यदि वै लभते, ततः स्थाणुपुरुषसाधर्म्यानुच्छेदाद् अत्यन्तं संशयः स्यात्। गृह्यमाणे च विशेषे नित्यं साधर्म्यं संशयहेतुर् इति नाभ्युपगम्यते। न हि गृह्यमाणे पुरुषस्य विशेषे स्थाणुपुरुषसाधर्म्यं संशयहेतुर् भवति
********************** न्य्स्भ्_5,1.16 **********************
% प्.1127
न्य्स्_5,1.16: उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः ॥
उभयेन नित्येन चानित्येन च साधर्म्यात् पक्षप्रतिपक्षयोः प्रवृत्तिः प्रक्रिया। अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इत्य् एकः पक्षं प्रवर्त्तयति, द्वितीयश् च नित्यसाधर्म्यात् प्रतिपक्षं प्रवर्त्तयति --- नित्यः शब्दः श्रावणत्वात् शब्दत्ववद् इति। एवं च सति प्रयत्नानन्तरीयकत्वाद् इति हेतुर् अनित्यसाधर्म्येण उच्यमानो न प्रकरणम् अतिवर्त्तते, प्रकरणानतिवृत्तेर् निर्णयानतिवर्तनम्। समानं चैतन् नित्यसाधर्म्येणोच्यमाणे हेतौ। तद् इदं प्रकरणानतिवृत्त्या प्रत्यवस्थानं प्रकरणसमः। समानं चैतद् वैधर्म्ये ऽपि, उभयवैधर्म्यात् प्रक्रियासिद्धेः प्रकरणसम इति
********************** न्य्स्भ्_5,1.17 **********************
% प्.1128
अस्योत्तरम् ---
न्य्स्_5,1.17: प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः ॥
उभयसाधर्म्यात् प्रक्रियासिद्धिं ब्रुवता प्रतिपक्षात् प्रक्रियासिद्धिर् उक्ता भवति। यद्य् उभयसाधर्म्यम्, तत्र एकतरः प्रतिपक्ष इत्य् एवं सत्य् उपपन्नः प्रतिपक्षो भवति। प्रतिपक्षोपपत्तेर् अनुपपन्नः प्रतिषेधः, यदि प्रतिपक्षोपपत्तिः प्रतिषेधो नोपपद्यते, अथ प्रतिषेधोपपत्तिः प्रतिपक्षो नोपपद्यते, प्रतिपक्षोपपत्तिः प्रतिषेधोपपत्तिश् चेति विप्रतिषिद्धम् इति। तत्त्वानवधारणाच् च प्रक्रियासिद्धिर् विपर्यये प्रकरणावसानात्, तत्त्वावधारणे ह्य् अवसितं प्रकरणं भवतीति
********************** न्य्स्भ्_5,1.18 **********************
% प्.1129
न्य्स्_5,1.18: त्रैकाल्यासिद्धेर् हेतोर् अहेतुसमः ॥
हेतुः साधनम्, तत् साध्यात् पूर्वं पश्चात् सह वा भवेत्। यदि पूर्वं साधनम्, असति साध्ये कस्य साधनम्? अथ पश्चाद्, असति साधने कस्येदं साध्यम्? अथ युगपत् साध्यसादने, द्वयोर् विद्यमानयोः किं कस्य साधनं किं कस्य साध्यम् इति हेतुर् अहेतुना न विशिष्यते। अहेतुना साधर्म्यात् प्रत्यवस्थानम् अहेतुसमः
********************** न्य्स्भ्_5,1.19 **********************
% प्.1130
अस्योत्तरम् ---
न्य्स्_5,1.19: न हेतुतः साध्यसिद्धेस् त्रैकाल्यासिद्धिः ॥
न त्रैकाल्यासिद्धिः। कस्मात्? हेतुतः साध्यसिद्धेः। निर्वर्तनीयस्य निर्वृत्तिर् विज्ञेयस्य विज्ञानम् उभयं कारणतो दृश्यते, सो ऽयं महान् प्रत्यक्षविषय उदाहरणम् इति। यत् तु खलूक्तम् असति साध्ये कस्य साधनम् इति? यत् तु निर्वत्यते यच् च विज्ञाप्यते तस्येति
********************** न्य्स्भ्_5,1.20 **********************
न्य्स्_5,1.20: प्रतिषेदानुपपत्तेश् च प्रतिषेद्धव्याप्रतिषेधः ॥
पूर्वं पश्चाद् युगपद् वा प्रतिषेध इति नोपपद्यते, प्रतिषेधानुपपत्तेः स्थापनाहेतुः सिद्ध इति
********************** न्य्स्भ्_5,1.21 **********************
% प्.1131
न्य्स्_5,1.21: अर्थापत्तितः प्रतिपक्षसिद्धेर् अर्थापत्तिसमः ॥
अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इति स्थापिते पक्षे अर्थापत्त्या प्रतिपक्षं साधयतो ऽर्थापत्तिसमः। यदि प्रयत्नानन्तरीयकत्वाद् अनित्यसाधर्म्याद् अनित्यः शब्द इति, अर्थाद् आपद्यते नित्यसाधर्म्यान् नित्य इति, अस्ति चास्य नित्येन साधर्म्यम् अस्पर्शत्वम् इति
********************** न्य्स्भ्_5,1.22 **********************
% प्.1132
अस्योत्तरम् ---
न्य्स्_5,1.22: अनुक्तस्यार्थापत्तेः पक्षहानेर् उपपत्तिर् अनुक्तत्वाद् अनैकानतिकत्वाच् चार्थापत्तेः ॥
अनुपपाद्य सामर्थ्यम् अनुक्तम् अर्थाद् आपद्यते इति ब्रुवतः पक्षहानेर् उपपत्तिर् अनुक्तत्वात्, अनित्यपक्षसिद्धाव् अर्थाद् आपन्नं नित्यपक्षस्य हानिर् इति। अनैकानतिकत्वाच् चार्थापत्तेः।
% प्.1133
उभयपक्षसमा चेयम् अर्थापत्तिः। यदि नित्यसाधर्म्याद् अस्पर्शत्वाद् आकाशवच् च नित्यः शब्दः अर्थाद् आपन्नम् अनित्यसाधर्म्यात् प्रयत्नानन्तरीयकत्वाद् अनित्य इति। न चेयं विपर्ययमात्राद् एकान्तेनार्थापत्तिः। न खलु वै घणस्य ग्राव्णः पतनम् इत्य् अर्थाद् आपद्यते --- द्रवाणाम् अपां पतनाभाव इति
********************** न्य्स्भ्_5,1.23 **********************
न्य्स्_5,1.23: एकधर्मोपपत्तेर् अविशेषे सर्वाविशेषप्रसङ्गात् सद्भावौपपत्तेर् अविशेषसमः ॥
एको धर्मः प्रयत्नानन्तरीयकत्वं शब्दघटयोर् उपपद्यत इत्य् अविशेषे उभयोर् अनित्यत्वे,
% प्.1134
सर्वस्याविशेषः प्रसज्यते। कथम्? सद्भावोपपत्तेः। एको धर्मः सद्भावः सर्वस्योपपद्यते, सद्भावोपपत्तेः सर्वाविशेषप्रसङ्गात् प्रत्यवस्थानम् अविशेषसमः
********************** न्य्स्भ्_5,1.24 **********************
अस्योत्तरम् ---
न्य्स्_5,1.24: क्वचित् तद्धर्मोपपत्तेः क्वचिच् चानुपपत्तेः प्रतिषेधाभावः ॥
यथा साध्यदृष्टान्तयोर् एकधर्मस्य प्रयत्नानन्तरीयकत्वस्योपपत्तेर् अनित्यत्वं धर्मान्तरम् अविशेषः, नैवं सर्वभावानां सद्भावोपपत्तिनिमित्तं धर्मान्तरम् अस्ति, येन अविशेषः स्यात्।
अथ मतम् अनित्यत्वम् एव धर्मानतरं सद्भावोपपत्तिनिमित्तं भावानां सर्वत्र स्याद् इति, एवं खलु वै कल्प्यमाने अनित्याः सर्वे भावाः सद्भावोपपत्तेर् इति पक्षः प्राप्नोति। तत्र प्रतिज्ञार्थव्यतिरिक्तम् अन्यद् उदाहरणं नास्ति, अनुदाहरणश् च हेतुर् नास्तीति। प्रतिज्ञैएकदेशस्य चोदाहरणत्वम् अनुपपन्नम्,
% -ज्ञैकदेशस्य ...] प्.1135
न हि साध्यम् उदाहरणं भवति। सतश् च नित्यानित्यभावात् अनित्यत्वानुपपत्तिः। तस्मात् सद्भावोपपत्तेः सर्वाविशेषप्रसङ्ग इति निरभिधेयम् एतद् वाक्यम् इति। सर्वभावानां सद्भावोपपत्तेर् अनित्यत्वम् इति ब्रुवता ऽनुज्ञातं शब्दस्यानित्यत्वम्, तत्रानुपपन्नः प्रतिषेध इति
********************** न्य्स्भ्_5,1.25 **********************
% प्.1136
न्य्स्_5,1.25: उभयकारणोपपत्तेर् उपपत्तिसमः ॥
यद्य् अनित्यत्वकारणम् उपपद्यते शब्दस्येत्य् अनित्यः शब्दो नित्यत्वकारणम् अप्य् उपपद्यते ऽस्यास्पर्शत्वम् इति नित्यत्वम् अप्य् उपपद्यते। उभयस्यानित्यत्वस्य नित्यत्वस्य च कारणोपपत्त्या प्रत्यवस्थानम् उपपत्तिसमः॥
********************** न्य्स्भ्_5,1.26 **********************
अस्योत्तरम् ---
न्य्स्_5,1.26: उपपत्तिकारणाभ्यनुज्ञानाद् अप्रतिषेधः ॥
उभयकारणोपपत्तेर् इति ब्रुवता नानित्यत्वकारणोपपत्तेर् अनित्यत्वं प्रतिषिध्यते, यदि प्रतिषिध्यते नोभयकारणोपपत्तिः स्यात्। उभयकारणोपपत्तिवचनाद् अनित्यत्वकारणोपपत्तिर् अभ्यनुज्ञायते, अभ्यनुज्ञानाद् अनुपपन्नः प्रतिषेधः।
% प्.1137
व्याघातात् प्रतिषेध इति चेत्, समानो व्याघातः। एकस्य नित्यत्वानित्यत्वप्रसङ्गं व्याहतं ब्रुवतोक्तं प्रतिषेध इति चेत्? स्वपक्षपरपक्षयोः समानो व्याघातः, स च नैकतरस्य साधक इति
********************** न्य्स्भ्_5,1.27 **********************
न्य्स्_5,1.27: निर्दिष्टकारणाभावे ऽप्य् उपलम्भाद् उपलब्धिसमः ॥
निर्दिष्टस्य प्रयत्नानन्तरीयकत्वस्यानित्यत्वकारणस्याभावे ऽपि वायुनोदनाद् वृक्षशाखाभङ्गजस्य शब्दस्यानित्यत्वम् उपलभ्यते।
% वृक्षशाखाभङ्गजस्य ...] प्.1138
निर्दिष्टस्य साधनस्याभावे ऽपि साध्यधर्मोपलब्ध्या प्रत्यवस्थानम् उपलब्धिसमः
********************** न्य्स्भ्_5,1.28 **********************
% प्.1139
अस्योत्तरम् ---
न्य्स्_5,1.28: कारणान्तराद् अपि तद्धर्मोपपत्तेर् अप्रतिषेधः ॥
प्रयत्नानन्तरीयकत्वाद् इति ब्रुवता कारणत उत्पत्तिर् अभिधीयते, न कार्यस्य कारणनियमः। यदि च कारणान्तराद् अप्य् उत्पद्यमानस्य शब्दस्य तद् अनित्यत्वम् उपपद्यते, किम् अत्र प्रतिषिध्यत इति
********************** न्य्स्भ्_5,1.29 **********************
% प्.1140
न प्राग् उच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिः, कस्मात् ? आवरणाअद्यनुपलब्धेः। यथा विद्यमानस्योदकादेर् अर्थस्यावरणादेर् अनुपलब्धिः नैवं शब्दस्याग्रहणकारणेनावरणादिनानुपलब्धिः। गृह्येत चैतद् अस्याग्रहणकारणम् उदकादिवत्, न गृह्यते। तस्माद् उदकादिविपरीतः शब्दो ऽनुपलभ्यमान इति।
न्य्स्_5,1.29: तदनुपलब्धेर् अनुपलम्भाद् अभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः ॥
तेषाम् आवरणादीनाम् अनुपलब्धिर् नोपलभ्यते। अनुपलम्भान् नास्तीत्य् अभावो ऽस्याः सिध्यति। अभावसिद्धौ हेत्वभावात् तद्विपरीतम् अस्तित्वम् आवरणादीनाम् अवधार्यते। तद्विपरीतोपपत्तेर् यत्प्रतिज्ञातं ``न प्राग् उच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिर् इत्य्ऽऽ एतन् न सिध्यति। सो ऽयं हेतुर् ``आवरणाद्यनुपलब्धेर्ऽऽ इत्य् आवरणादिषु चावरणाद्यनुपलब्धौ च समयानुपलब्ध्या प्रत्यवस्थितो ऽनुपलब्धिसमो भवति
********************** न्य्स्भ्_5,1.30 **********************
% प्.1141
अस्योत्तरम् ---
न्य्स्_5,1.30: अनुपलम्भाअत्मकत्वाद् अनुपलब्धेर् अहेतुः ॥
आवरणाद्यनुपलब्धिर् नास्ति, अनुपलम्भाद् इत्य् अहेतुः। कस्मात्? अनुपलम्भात्मकत्वाद् अनुपलब्धेः। उपलम्भाभावमात्रत्वाद् अनुपलब्धेः। यद् अस्ति तद् उपलब्धेर् विषयः, उपलब्ध्या तद् अस्तीति प्रतिज्ञायते। यन् नास्ति तद् अनुपलब्धेर् विषयः, अनुपलभ्यमानं नास्तीति प्रतिज्ञायते। सो ऽयम् आवरणाद्यनुपलभेः अनुपलम्भ उपलब्ध्यभावे ऽनुपलब्धौ स्वविषये प्रवर्त्तमानो न स्वविषयं प्रतिषेधति।
% प्.1142
अप्रतिषिद्धा चावरणाद्यनुपलब्धिर् हेतुत्वाय कल्पते। आवरणादीनि तु विद्यमानत्वाद् उपलब्धेर् विषयाः, तेषाम् उपलब्ध्या भवितव्यम्। यत् तानि नोपलभ्यन्ते, तद् उपलब्धेः स्वविषयप्रतिपादिकाया अभावाद् अनुपलम्भाद् अनुपलब्धेर् विषयो गम्यते --- न सन्त्य् आवरणादीनि शब्दस्याग्रहणकारणानीति। अनुपलम्भात् त्व् अनुपलभिः सिध्यति, विषयः स तस्येति
********************** न्य्स्भ्_5,1.31 **********************
% प्.1143
न्य्स्_5,1.31: ज्ञानविकल्पानां च भावाभावसंवेदनाद् अध्यात्मम् ॥
अहेतुर् इति वर्त्तते। शरीरे शरीरे ज्ञानविकल्पानां भावाभावौ संवेदनीयौ। अस्ति मे संशयज्ञानं नास्ति मे संशयज्ञानम् इति। एवं प्रत्यक्षानुमानागमस्मृतिज्ञानेषु। सेयम् आवरणाअद्यनुपलब्धिर् उपलब्ध्यभावः स्वसंवेद्यः --- नास्ति मे शब्दस्यावरणाद्युपलब्धिर् इति नोपलभ्यन्ते शब्दस्याग्रहणकारणान्य् आवरणादीनीति। तत्र यद् उक्तं तद् अनुपलब्धेर् अनुपलम्भाद् अभावसिद्धिर् इति, एतन् नोपपद्यते
********************** न्य्स्भ्_5,1.32 **********************
% प्.1144
न्य्स्_5,1.32: साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गाद् अनित्यसमः ॥
अनित्येन घटेन साधर्म्याद् अनित्यः शब्द इति ब्रुवतो ऽस्ति घटेनानित्येन सर्वभावानां साधर्म्यम् इति सर्वस्यानित्यत्वम् अनिष्टं सम्पद्यते। सो ऽयम् अनित्यत्वेन प्रत्यवस्थानाद् अनित्यसम इति
********************** न्य्स्भ्_5,1.33 **********************
% प्.1145
अस्योत्तरम् ---
न्य्स्_5,1.33: साधर्म्याद् असिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात् ॥
प्रतिज्ञाद्यवयवयुक्तं वाक्यं पक्षनिवर्तकं प्रतिपक्षलक्षणं प्रतिषेधः। तस्य पक्षेण प्रतिषेध्येन साधर्म्यं प्रतिज्ञादियोगः। तद् यद्य् अनित्यसाधर्म्याद् अनित्यत्वस्यासिद्धिः, साधर्म्याद् असिद्धेः प्रतिषेधस्याप्य् असिद्धिः, प्रतिषेध्येन साधर्म्याद् इति
********************** न्य्स्भ्_5,1.34 **********************
न्य्स्_5,1.34: दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात् तस्य चोभयथाभावान् नाविशेषः ॥
दृष्टान्ते यः खलु धर्मः साध्यसाधनभावेन प्रज्ञायते, स हेतुत्वेनाभिधीयते। स चोभयथा भवति,
% चोभयथा भवति,] प्.1146
--- केनचित् समानः, कुतश्चिद् विशिष्टः। सामान्यात् साधर्म्यं विशेषाच् च वैधर्म्यम्। एवं साधर्म्यविशेषो हेतुः, नाविशेषेण साधर्म्यमात्रं वैधर्म्यमात्रं वा। साधर्म्यमात्रं वैधर्म्यमात्रं चाश्रित्य भवान् आह --- ``साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गाद् अनित्यसम्ऽऽ इति, एतद् अयुक्तम् इति। अविशेषसमप्रतिषेधे च यद् उक्तं तद् अपि वेदितव्यम्
********************** न्य्स्भ्_5,1.35 **********************
% प्.1147
न्य्स्_5,1.35: नित्यम् अनित्यभावाद् अनित्ये नित्यत्वोपपत्तेर् नित्यसमः ॥
अनित्यः शब्द इति प्रतिज्ञायते। तद् अनित्यत्वं किं शब्दे नित्यम् अथानित्यम्? यदि तावत् सर्वदा भवति? धर्मस्य सदा भावाद् धर्मिणो ऽपि सदा भाव इति नित्यः शब्द इति। अथ न सर्वदा भवति? अनित्यत्वस्याभावान् नित्यः शब्दः। एवं नित्यत्वेन प्रत्यवस्थानान् नित्यसमः
********************** न्य्स्भ्_5,1.36 **********************
% प्.1148
अस्योत्तरम् ---
न्य्स्_5,1.36: प्रतिषेध्ये नित्यम् अनित्यभावाद् अनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः ॥
प्रतिषेध्ये शब्दे नित्यम् अनित्यत्वस्य भावाद् इत्य् उच्यमाने ऽनुज्ञातं शब्दस्यानित्यत्वम्, अनित्यत्वोपपत्तेश् च ``नानित्यः शब्दऽऽ इति प्रतिषेधो नोपपद्यते। अथ नाभ्युपगम्यते, नित्यम् अनित्यत्वस्य भावाद् इति हेतुर् न भवतीति हेत्वभावात् प्रतिषेधानुपपत्तिर् इति।
% प्.1149
उतपन्नस्य निरोधाद् अभावः शब्दस्यानित्यत्वम्, तत्र परिप्रश्नानुपपत्तिः। यो ऽयं परिप्रश्नः --- तद् अनित्यत्वं किं शब्दे सर्वदा भवति अथ नेति, अयम् अनुपपन्नः। कस्मात्? उत्पन्नस्य यो निरोधाद् अभावः शब्दस्य तद् अनित्यत्वम्; एवं च सत्य् अधिकरणाधेयविभागो व्याघातान् नास्तीति। नित्यानित्यत्वविरोधाच् च। नित्यत्वम् अनित्यत्वं च एकस्य धर्मिणो धर्माव् इति विरुध्येते, न सम्भवतः।
% एकस्य धर्मिणो ...] प्.1150
तत्र यद् उक्तं --- नित्यम् अनित्यत्वस्य भावान् नित्य एव, तद् अवर्तमानार्थम् उक्तम् इति
********************** न्य्स्भ्_5,1.37 **********************
न्य्स्_5,1.37: प्रयत्नकार्यानेकत्वात् कार्यसमः ॥
प्रयत्नानन्तरीयकत्वाद् अनित्यः शब्द इति। यस्य प्रयत्नानन्तरम् आत्मलाभः तत् खल्व् अभूत्वा भवति, यथा घटादिकार्यम्; अनित्यम् इति च भूत्वा न भवतीत्य् एतद् विज्ञायते।
% प्.1151
एवम् अवस्थिते प्रयत्नकार्यानेकत्वाद् इति प्रतिषेध उच्यते। प्रयत्नानन्तरम् आत्मलाभश् च दृष्टो घटादीनाम्, व्यवधानापोहाच् चाभिव्यक्तिर् व्यवहितानाम्। तत् किं प्रयत्नानन्तरम् आत्मलाभः शब्दस्याहो ऽभिव्यक्तिर् इति विशेषो नास्ति। कार्याविशेषेण प्रत्यवस्थानम् कार्यसमः
********************** न्य्स्भ्_5,1.38 **********************
% प्.1152
अस्योत्तरम् ---
न्य्स्_5,1.38: कार्यान्यत्वे प्रयत्नाहेतुत्वम् अनुपलब्धिकारणोपपत्तेः ॥
सति कार्यान्यत्वे अनुपलब्धिकारणोपपत्तेः प्रयत्नस्याहेतुत्वं शब्दस्याभिव्यक्तौ। यत्र प्रयत्नानन्तरम् अभिव्यक्तिस् तत्रानुपलब्धिकारणं व्यवधानम् उपपद्यते, व्यवधानापोहाच् च प्रयत्नानन्तरभाविनो ऽर्थस्योपलब्धिलक्षणा ऽभिव्यक्तिर् भवतीति,
% प्रयत्नानन्तरभाविनो ...] प्.1153
न तु शब्दस्यानुपलब्धिकारणं किञ्चिद् उपपद्यते, यस्य प्रयत्नानन्तरम् अपोहाच् छब्दस्योपलभिलक्षणा ऽभिव्यक्तिर् भवतीति, तस्माद् उत्पद्यते शब्दो नाभिव्यज्यते इति
********************** न्य्स्भ्_5,1.39 **********************
% प्.1154
हेतोश् चेद् अनैकान्तिकत्वम् उपपद्यते अनैकातिकत्वाद् असाधकः स्याद् इति। यदि चानैकान्तिकत्वाद् असाधकत्वम् ---
न्य्स्_5,1.39: प्रतिषेधे ऽपि समानो दोषः ॥
प्रतिषेधो ऽप्य् अनैकान्तिकः, किञ्चित् प्रतिषेधति किञ्चिन् नेति अनैकान्तिकत्वाद् असाधक इति। अथ वा शब्दस्यानित्यत्वपक्षे प्रयत्नानन्तरम् उत्पादो नाभिव्यक्तिर् इति विशेषहेत्वभावः, नित्यत्वपक्षे ऽपि प्रयत्नानन्तरम् अभिव्यक्तिर् नोत्पाद इति विशेषहेत्वभावः। सो ऽयम् उभयपक्षसमो विशेषहेत्वभाव इत्य् उभयम् अप्य् अनैकातिकम् इति
********************** न्य्स्भ्_5,1.40 **********************
% प्.1155
न्य्स्_5,1.40: सर्वत्रैवम् ॥
सर्वेषु साधर्म्यप्रभृतिषु प्रतिषेधहेतुषु यत्र यत्राविशेषो दृश्यते तत्रोभयोः पक्षयोः समः प्रसज्यत इति
********************** न्य्स्भ्_5,1.41 **********************
न्य्स्_5,1.41: प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः ॥
यो ऽयं प्रतिषेधे ऽपि समानो दोषो ऽनैकान्तिकत्वम् आपद्यते सो ऽयं प्रतिषेधस्य विप्रतिषेधे ऽपि समानः।
% विप्रतिषेधे ऽपि समानः।] प्.1156
तत्रानित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् इति साधनवादिनः स्थापना प्रथमः पक्षः। ``प्रयत्नकार्यानेकत्वात् कार्यसमऽऽ इति दूषणवादिनः प्रतिषेधहेतुना द्वितीयः पक्षः। स च प्रतिषेध इत्य् उच्यते। तस्यास्य प्रतिषेधे ऽपि समानो दोष इति तृतीयः पक्षः विप्रतिषेध उच्यते। तस्मिन् प्रतिषेधविप्रतिषेधे ऽपि समानो दोषो ऽनैकान्तिकत्वं चतुर्थः पक्षः
********************** न्य्स्भ्_5,1.42 **********************
न्य्स्_5,1.42: प्रतिषेधं सदोषम् अभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा ॥
प्रतिषेधं द्वितीयं पक्षं सदोषम् अभ्युपेत्य तदुद्धारम् अकृत्वानुज्ञाय प्रतिषेधविप्रतिषेधे तृतीयपक्षे समानम् अनैकान्तिकत्वम् इति समानं दूषणं प्रसञ्जयतो दूषणवादिनो मतानुज्ञा प्रसज्यत इति पञ्चमः पक्षः
********************** न्य्स्भ्_5,1.43 **********************
% प्.1157
न्य्स्_5,1.43: स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो दोषः ॥
स्थापनापक्षे प्रयत्नकार्यानेकत्वाद् इति दोषः स्थापनाहेतुवादिनः स्वपक्षलक्षणो भवति। कस्मात्? स्वपक्षसमुत्थत्वात्। सो ऽयं स्वपक्षलक्षणं दोषम् अपेक्षमाणो ऽनुद्धृत्यानुज्ञाय प्रतिषेधे ऽपि समानो दोष इत्य् उपपद्यमानं दोषं परपक्षे उपसंहरति। इत्थं चानैकान्तिकः प्रतिषेध इति हेतुं निर्दिशति। तत्र स्वपक्षलक्षणापेक्षयोपपद्यमानदोषोपसंहारे हेतुनिर्देशे च सत्य् अनेन परपक्षदोषो ऽभ्युपगतो भवति। कथं कृत्वा? यः परेण प्रयत्नकार्यानेकत्वाद् इत्यादिनानैकान्तिकदोष उक्तः, तम् अनुद्धृत्य प्रतिषेधे ऽपि समानो दोष इत्य् आह। एवं स्थापनां सदोषाम् अभ्युपेत्य प्रतिषेधे ऽपि समानं दोषं प्रसञ्जयतः परपक्षाभ्युपगमात् समानो दोषो भवति।
% प्रसञ्जयतः परपक्षाभ्युपगमात्...] प्.1158
यथा परस्य प्रतिषेधं सदोषम् अभ्युपेत्य प्रतिषेधविप्रतिषेधे ऽपि समानो दोषप्रसङ्गो मतानुज्ञा प्रसज्यत इति, तथास्यापि स्थापनां सदोषाम् अभ्युपेत्य प्रतिषेधे ऽपि समानं दोषं प्रसञ्जयतो मतानुज्ञा प्रसज्यत इति। स खल्व् अयं षष्ठः पक्षः।
तत्र खलु स्थापनाहेतुवादिनः प्रथमतृतीयपञ्चमपक्षाः, प्रतिषेधहेतुवादिनः द्वितीयचतुर्थषष्ठपक्षाः। तेषां साध्वसाधुतायां मीमांस्यमानायां चतुर्थषष्ठयोर् अर्थाविशेषात् पुनरुक्तदोषप्रसङ्गः। चतुर्थपक्षे समानदोषत्वं परस्योच्यते --``प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषऽऽ इति। षष्ठे ऽपि ``परपक्षदोषाभ्युपगमात् समानो दोषऽऽ इति समानदोषत्वम् एवोच्यते, नार्थविशेषः कश्चिद् अस्ति। समानस् तृटीयपञ्चमयोः पुनरुक्तदोषप्रसङ्गः, तृटीयपक्षे ऽपि ``प्रतिषेधे ऽपि समानो दोषऽऽ इति समानत्वम् अभ्युपगम्यते। पञ्चमपक्षे ऽपि ``प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गोऽऽ ऽभ्युपगम्यते, नार्थविशेषः कश्चिद् उच्यत इति। तत्र पञ्चमषष्ठपक्षयोर् अर्थाविशेषात् पुनरुक्तदोषप्रसङ्गः, तृतीयचतुर्थयोर् मतानुज्ञा, प्रथमद्वितीययोर् विशेषहेत्वभाव इति षट्पक्ष्याम् उभयोर् असिद्धिः।
कदा षट्पक्षी? यदा ``प्रतिषेधे ऽपि समानो दोषऽऽ इत्य् एवं प्रवर्त्तते। तदोभयोः पक्षयोर् असिद्धिः। यदा तु ``कार्यान्यत्वे प्रयत्नाहेतुत्वम् अनुपलब्धिकारणोपपत्तेर्ऽऽ इत्य् अनेन तृटीयपक्षो युज्यते,
% तृतीयपक्षो युज्यते,] प्.1159
तदा विशेषहेतुवचनात् ``प्रयत्नानन्तरम् आत्मलाभः शब्दस्य, नाभिव्यक्तिर्ऽऽ इति सिद्धः प्रथमपक्षो न षट्पक्षी प्रवर्तत इति
मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Edition: Taranatha Nyaya-Tarkatirtha Calcutta : Metropolitan Printing & Publ. 1936-1944 (Calcutta Sanskrit Series, 18 & 19) · Data entry Indology Student Team, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0