न्यायसूत्र (टीका सहित) · अध्याय 8
% प्.921
न्यायदर्शनम् अथ चतुर्थाध्यायस्याद्यम् आह्निकम्
********************** न्य्स्भ्_4,1.1 **********************
मनसो ऽनन्तरं प्रवृत्तिः परीक्षितव्या। तत्र खलु यावद् धर्माधर्माश्रयशरीरादि परीक्षितम्, सर्वा सा प्रवृत्तेः परीक्षेत्य् आह ---
न्य्स्_4,1.1: प्रवृत्तिर् यथोक्ता ॥
तथा परीक्षितेति
********************** न्य्स्भ्_4,1.2 **********************
% प्.923
प्रवृत्त्यनन्तरास् तर्हि दोषाः परीक्ष्यन्ताम् इत्य् अत आह ---
न्य्स्_4,1.2: तथा दोषाः ॥
परीक्षिता इति। बुद्धिसमानाश्रयत्वाद् आत्मगुणाः, प्रवृत्तिहेतुत्वात् पुनर्भवप्रतिसन्धानसामर्थ्याच् च संसारहेतवः, संसारस्यानादित्वाद् अनादिना प्रबन्धेन प्रवर्तन्ते, मिथ्याज्ञाननिवृत्तिस् तत्त्वज्ञानात् तन्निवृत्तौ रागद्वेषप्रबन्धोच्छ्येदे ऽपवर्ग इति। प्रादुर्भावतिरोधानधर्मका इत्येवमाद्युक्तम् दोषाणाम् इति
********************** न्य्स्भ्_4,1.3 **********************
% प्.924
प्रवर्तनालक्षणा दोषा इत्य् उक्तम्, तथा चेमे मानेर्ष्यासूयाविचिकित्सामत्सरादयः, ते कस्मान् नोपसङ्ख्यायन्ते इत्य् अत आह ---
न्य्स्_4,1.3: तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ॥
तेषां दोषाणां त्रयो राशयस् त्रयः पक्षाः। रागपक्षः --- कामो मत्सरः स्पृहा तृष्णा लोभ इति। द्वेषपक्षः --- क्रोध ईर्ष्या असूया द्रोहो ऽमर्ष इति। मोहपक्षो
% प्.925
मिथ्याज्ञानं विचिकित्सा मानः प्रमाद इति। त्रैराश्यान् नोपसङ्ख्यायन्ते इति। लक्षणस्य तर्ह्य् अभेदात् त्रित्वम् अनुपपन्नम्? नानुपपन्नम्, रागद्वेषमोहार्थान्तरभावात्;
% प्.926
आसक्तिलक्षणो रागः, अमर्षलक्षणो द्वेषः, मिथ्याप्रतिपत्तिलक्षणो मोह इति। एतत् प्रत्यात्मवेदनीयं सर्वशरीरिणाम् --- विजानात्य् अयं शरीरी रागम् उत्पन्नम् ``अस्ति मे ऽध्यात्मं रागधर्मऽऽ इति। विरागं च विजानाति ---``नास्ति मे ऽध्यात्मं रागधर्मऽऽ इति। एवम् इतरयोर् अपीति। मानेर्ष्यासूयाप्रभृतयस् तु त्रैराश्यम् अनुपतिता इति नोपसङ्ख्यायन्ते
********************** न्य्स्भ्_4,1.4 **********************
% प्.927
न्य्स्_4,1.4: नैकप्रत्यनीकभावात् ॥
नार्थान्तरं रागादयः। कस्मात्? एकप्रत्यनीकभावात् --- तत्त्वज्ञानं सम्यङ्मतिर् आर्यप्रज्ञा सम्बोध इत्य् एकम् इदं प्रत्यनीकं त्रयाणाम् इति
********************** न्य्स्भ्_4,1.5 **********************
% प्.928
न्य्स्_4,1.5: व्यभिचाराद् अहेतुः ॥
एकप्रत्यनीकाः पृथिव्यां श्यामादयो ऽग्निसंयोगेनैकेन, एकयोनयश् च पाकजा इति
********************** न्य्स्भ्_4,1.6 **********************
सति चार्थान्तरभावे ---
न्य्स्_4,1.6: तेषां मोहः पापीयान् नामूढस्येतरोत्पत्तेः ॥
मोहः पापः, पापतरो वा द्वाव् अभिप्रेत्योक्तम्। कस्मात्? नामूढस्येतरोत्पत्तेः ---
% -तरोत्पत्तेः ---] प्.929
अमूढस्य रागद्वेषा नोत्पद्यन्ते मूढस्य तु यथासङ्कल्पम् उत्पत्तिः, विषयेषु रञ्जनीयाः सङ्कल्पा रागहेतवः, कोपनीयाः सङ्कल्पा द्वेषहेतवः, उभये च सङ्कल्पा न मिथ्याप्रतिपत्तिलक्षणत्वान् मोहाद् अन्ये, ताव् इमौ मोहयोनी रागद्वेषाव् इति। तत्त्वज्ञानाच् च मोहनिवृत्तौ रागद्वेषानुत्पत्तिर् इत्य् एकप्रत्यनीकभावोपपत्तिः। एवं च कृत्वा तत्त्वज्ञानाद् ``दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तराभावाद् अपवर्गऽऽ इति व्याख्यातम् इति
********************** न्य्स्भ्_4,1.7 **********************
% प्.930
प्राप्तस् तर्हि ---
न्य्स्_4,1.7: निमित्तनैमित्तिकभावाद् अर्थान्तरभावो दोषेभ्यः ॥
अन्यद् धि निमित्तम् अन्यच् च नैमित्तिकम् इति दोषनिमित्तत्वाद् अदोषो मोह इति
********************** न्य्स्भ्_4,1.8 **********************
न्य्स्_4,1.8: न दोषलक्षणावरोधान् मोहस्य ॥
प्रवर्त्तनालक्षणा दोषा इत्य् अनेन दोषलक्षणेनावरुध्यते दोषेषु मोह इति
********************** न्य्स्भ्_4,1.9 **********************
% प्.931
न्य्स्_4,1.9: निमित्तनैमित्तिकोपपत्तेश् च तुल्यजातीयानाम् अप्रतिषेधः ॥
द्रव्याणां गुणानां वानेकविधविकल्पो निमित्तनैमित्तिकभावे तुल्यजातीयानां दृष्ट इति
********************** न्य्स्भ्_4,1.10 **********************
दोषानन्तरं प्रेत्यभावः, तस्यासिद्धिर् आत्मनो नित्यत्वात् --- न खलु नित्यं किंचिज् जायते म्रियते वा इति जन्ममरणयोर् नित्यत्वाद् आत्मनो ऽनुपपत्तिः, उभयं च प्रेत्यभाव इति तत्रायं सिद्धानुवादः ---
न्य्स्_4,1.10: आत्मनित्यत्वे प्रेत्यभावसिद्धिः ॥
नित्यो ऽयम् आत्मा प्रैति पूर्वशरीरं जहाति म्रियते इति, प्रेत्य च पूर्वशरीरं हित्वा
% प्.932
भवति जायते शरीरान्तरम् उपादत्त इति। तच् चैतद् उभयं ``पुनर् उत्पत्तिः प्रेत्यभावःऽऽ इत्य् अत्रोक्तं पूर्वशरीरं हित्वा शरीरान्तरोपादानं प्रेत्यभावः इति तच् चैतन्नित्यत्वे सम्भवतीति। यस्य तु सत्त्वोत्पादः सत्त्वनिरोधः प्रेत्यभावः तस्य कृतहानम् अकृताभ्यागमश् च दोषः। उच्छेदहेतुवादे ऋष्युपदेशाश् चानर्थका इति
********************** न्य्स्भ्_4,1.11 **********************
% प्.933
कथम् उत्पत्तिर् इति चेत् ---
न्य्स्_4,1.11: व्यक्ताद् व्यक्तानां प्रत्यक्षप्रामाण्यात् ॥
केन प्रकारेण किंधर्मकात् कारणाद् व्यक्तं शरीराद्य् उत्पद्यत इति? व्यक्ताद् भूतसमाख्यातात् पृथिव्यादितः परमसूक्ष्मान् नित्याद् व्यक्तं शरीरेन्द्रियविषयोपकरणाधारं प्रज्ञातं द्रव्यम् उत्पद्यते। व्यक्तं च खल्व् इन्द्रियग्राह्यं तत्सामान्यात् कारणम् अपि व्यक्तम्। किं सामान्यम्? रूपादिगुणयोगः रूपादिगुणयुक्तेभ्यः पृथिव्यादिभ्यो नित्येभ्यो रूपादिगुणयुक्तं शरीराद्य् उत्पद्यते।
% -व्यादिभ्यो नित्येभ्यो रूपादिगुणयुक्तं शरीराद्य् उत्पद्यते।] प्.934
प्रत्यक्षप्रामाण्यात् --- दृष्टो हि रूपादिगुणयुक्तेभ्यो मृत्प्रभृतिभ्यस् तथाभूतस्य द्रव्यस्योत्पादः, तेन चादृष्टस्यानुमानम् इति। रूपादीनाम् अन्वयदर्शनात् प्रकृतिविकारयोः, पृथिव्यादीनां नित्यानाम् अतीन्द्रियाणां कारणभावो ऽनुमीयत इति
********************** न्य्स्भ्_4,1.12 **********************
न्य्स्_4,1.12: न घटाद् घटानिष्पत्तेः ॥
इदम् अपि प्रत्यक्षम् --- न खलु व्यक्ताद् घटाद् व्यक्तो घट उत्पद्यमानो दृश्यते इति, व्यक्ताद् व्यक्तस्यानुत्पत्तिदर्शनान् न व्यक्तं कारणम् इति
********************** न्य्स्भ्_4,1.13 **********************
% प्.935
न्य्स्_4,1.13: व्यक्ताद् घटनिष्पत्तेर् अप्रतिषेधः ॥
न ब्रूमः सर्वं सर्वस्य कारणम् इति, किन् तु यद् उत्पद्यते व्यक्तं द्रव्यं तत् तथाभूताद् एवोत्पद्यते इति। व्यक्तं च तन्मृद्द्रव्यं कपालसंज्ञकं यतो घट उत्पद्यते। न चैतन्निह्नुवानः क्वचिद् अभ्यनुज्ञां लब्धुम् अर्हतीति। तद् एतत् तत्त्वम्
********************** न्य्स्भ्_4,1.14 **********************
अतः परं प्रावादुकानां दृष्टयः प्रदर्श्यन्ते ---
न्य्स्_4,1.14: अभावाद् भावोत्पत्तिर् नानुपमृद्य प्रादुर्भावात् ॥
% प्.936
असतः सद् उत्पद्यते इत्य् अयं पक्षः। कस्मात्? उपमृद्य प्रादुर्भावात्। उपमृद्य बीजम् अङ्कुर उत्पद्यते नानुपमृद्य, न चेद् वीजोपमर्दो ऽङ्कुरकारणम् अनुपमर्दे ऽपि बीजस्याङ्कुरोत्पत्तिः स्याद् इति
********************** न्य्स्भ्_4,1.15 **********************
अत्राभिधीयते ---
न्य्स्_4,1.15: व्याघाताद् अप्रयोगः ॥
उपमृद्य प्रादुर्भावाद् इत्य् अयुक्तः प्रयोगो व्याघातात्। यद् उपमृद्नाति न तद् उपमृद्य प्रादुर्भवितुम् अर्हति विद्यमानत्वात्। यच् च प्रादुर्भवति न तेनाप्रादुर्भूतेनाविद्यमानेनोपमर्द इति
********************** न्य्स्भ्_4,1.16 **********************
% प्.937
न्य्स्_4,1.16: नातीतानागतयोः कारकशब्दप्रयोगात् ॥
अतीते चानागते चाविद्यमाने कारकशब्दाः प्रयुज्यन्ते। पुत्रो जनिष्यते, जनिष्यमाणं पुत्रम् अभिनन्दति, पुत्रस्य जनिष्यमाणस्य नाम करोति, अभूत् कुम्भः, भिन्नं कुम्भम् अनुशोचति, भिन्नस्य कुम्भस्य कपालानि, अजाताः पुत्राः पितरं तापयन्तीति बहुलं भाक्ताः प्रयोगा दृश्यन्ते। का पुनर् इयं भक्तिः? आनन्तर्यं भक्तिः, आनन्तर्यसामर्थ्याद् उपमृद्य प्रादुर्भावार्थः, प्रादुर्भविष्यन्न् अङ्कुर उपमृद्नातीति भाक्तं कर्तृत्वम् इति
********************** न्य्स्भ्_4,1.17 **********************
% प्.938
न्य्स्_4,1.17: न विनष्टेभ्यो ऽनिष्पत्तेः ॥
न विनष्टाद् बीजाद् अङ्कुर उत्पद्यते इति तस्मान् नाभावाद् भावोत्पत्तिर् इति
********************** न्य्स्भ्_4,1.18 **********************
% प्.939
न्य्स्_4,1.18: क्रमनिर्देशाद् अप्रतिषेधः ॥
उपमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः, स खल्व् अभावाद् भावोत्पत्तेर् हेतुर् निर्दिश्यते; स च न प्रतिषिध्यते इति। व्याहतव्यूहानाम् अवयवानां पूर्वव्यूहनिवृत्तौ व्यूहान्तराद् द्रव्यनिष्पत्तिर् नाभावात्। बीजावयवाः कुतश्चिन् निमित्तात् प्रादुर्भूतक्रियाः पूर्वव्यूहं जहति व्यूहान्तरं चापद्यन्ते व्यूहान्तराद् अङ्कुर उत्पद्यते। दृश्यन्ते खलु अवयवास् तत्संयोगाश् चाङ्कुरोत्पत्तिहेतवः। न चानिवृत्ते पूर्वव्यूहे बीजावयवानां शक्यं व्यूहान्तरेण भवितुम् इत्य् उपमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः,
% -म् इत्य् उपमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः,] प्.940
तस्मान् नाभावाद् भावोत्पत्तिर् इति। न चान्यद् बीजावयवेभ्यो ऽङ्कुरोत्पत्तिकारणम् इत्य् उपपद्य्ते बीजोपादाननियम इति
********************** न्य्स्भ्_4,1.19 **********************
अथापर आह ---
न्य्स्_4,1.19: ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् ॥
पुरुषो ऽयं समीहमानो नावश्यं समीहाफलं प्राप्नोति तेनानुमीयते पराधीनं पुरुषस्य कर्मफलाराधनम् इति, यदधीनं स ईश्वरः। तस्माद् ईश्वरः कारणम् इति
********************** न्य्स्भ्_4,1.20 **********************
% प्.942
न्य्स्_4,1.20: न पुरुषकर्माभावे फलानिष्पत्तेः ॥
ईश्वराधीना चेत् फलनिष्पत्तिः स्याद् अपि तर्हि पुरुषस्य समीहाम् अन्तरेण फलं निष्पद्येतेति
********************** न्य्स्भ्_4,1.21 **********************
% प्.943
न्य्स्_4,1.21: तत्कारितत्वाद् अहेतुः ॥
पुरुषकारम् ईश्वरो ऽनुगृह्णाति, फलाय पुरुषस्य यतमानस्येश्वरः फलं सम्पादयतीति। यदा न सम्पादयति तदा पुरुषकर्माफलं भवतीति। तस्माद् ईश्वरकारितत्वात् अहेतुः पुरुषकर्माभावे फलानिष्पत्तेर् इति।
गुणविशिष्टम् आत्मान्तरम् ईश्वरः। तस्य आत्मकल्पात् कल्पान्तरानुपपत्तिः, अधर्ममिथ्याज्ञानप्रमादहान्या धर्मज्ञानसमाधिसम्पदा च विशिष्टम् आत्मान्तरम् ईश्वरः,
% प्.944
तस्य च धर्मसमाधिफलम् अणिमाद्यष्टविधम् ऐश्वर्यम्। सङ्कल्पानुविधायी चास्य धर्मः प्रत्यात्मवृत्तीन् धर्माधर्मसञ्चयान् पृथिव्यादीनि च भूतानि प्रवर्तयति। एवं च स्वकृताभ्यागमस्यालोपेन निर्माणप्राकाम्यम् ईश्वरस्य स्वकृतकर्मफलं वेदितव्यम्। आप्तकल्पश् चायम् --- यथा पितापत्यानां तथा पितृभूत ईश्वरो भूतानाम्। न चात्मकल्पाद् अन्यः कल्पः सम्भवति। न तावद् अस्य बुद्धिं विना कश्चिद् धर्मो लिङ्गभूतः शक्य उपपादयितुम्। आगमाच् च द्रष्टा बोद्धा सर्वज्ञाता ईश्वर इति। बुद्ध्यादिभिश् चात्मलिङ्गैर् निरुपाख्यम् ईश्वरं प्रत्यक्षानुमानागमविषयातीतं कः शक्त उपपादयितुम्।
% लिङ्गैर् निरुपाख्यम् ईश्वरं प्रत्यक्षानुमानागमविषयातीतं कः शक्त उपपादयितुम्।] प्.945
स्वकृताभ्यागमलोपेन च प्रवर्तमानस्यास्य यद् उक्तं प्रतिषेधजातम् अकर्मनिमित्ते शरीरसर्गे तत् सर्वं प्रसज्यते इति
********************** न्य्स्भ्_4,1.22 **********************
% प्.958
अपर इदानीम् आह ---
न्य्स्_4,1.22: अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् ॥
अनिमित्ता शरीराद्युत्पत्तिः कस्मात्? कण्टकतैक्ष्ण्यादिदर्शनात्। कण्टकस्य
% प्.959
तैक्ष्ण्यम्, पर्वतधातूनां चित्रता, ग्राव्णां श्लक्ष्णता, निर्निमित्तं च उपादानवच् च दृष्टं तथा शरीरादिसर्गो .पीति
********************** न्य्स्भ्_4,1.23 **********************
न्य्स्_4,1.23: अनिमित्तनिमित्तत्वान् नानिमित्ततः ॥
अनिमित्ततो भावोत्पत्तिर् इत्य् उच्यते यतश् चोत्पद्यते तन्निमित्तम्। अनिमित्तस्य निमित्तत्वान् नानिमित्ता भावोत्पत्तिर् इति
********************** न्य्स्भ्_4,1.24 **********************
% प्.960
न्य्स्_4,1.24: निमित्तानिमित्तयोर् अर्थान्तरभावाद् अप्रतिषेधः ॥
अन्यद् धि निमित्तम् अन्यच् च निमित्तप्रत्याख्यानम्, न च प्रत्याख्यानम् एव प्रत्याख्येयं
% प्.961
यथानुदकः कमण्डलुर् इति नोदकप्रतिषेध उदकं भवतीति। स खल्व् अयं वादो ऽकर्मनिमित्तः शरीरादिसर्ग इत्य् एतस्मान् न भिद्यते, अभेदात् तत्प्रतिषेधेनैव प्रतिषिद्धो वेदितव्य इति
********************** न्य्स्भ्_4,1.25 **********************
% प्.962
अन्ये तु मन्यन्ते ---
न्य्स्_4,1.25: सर्वम् अनित्यम् उत्पत्तिविनाशधर्मकत्वात् ॥
किम् अनित्यं नाम? यस्य कदाचिद् भावस् तद् अनित्यम्। उत्पत्तिधर्मकम् अनुत्पन्नं नास्ति विनाशधर्मकं च विनष्टं नास्ति। किं पुनः सर्वम्? भौतिकं च शरीरादि
% प्.963
अभौतिकं च बुद्ध्यादि, तद् उभयम् उत्पत्तिविनाशधर्मकं विज्ञायते, तस्मात् तत् सर्वम् अनित्यम् इति
********************** न्य्स्भ्_4,1.26 **********************
न्य्स्_4,1.26: नानित्यतानित्यत्वात् ॥
यदि तावत् सर्वस्यानित्यता नित्या, तन्नित्यत्वान् न सर्वम् अनित्यम्। अथानित्या तस्याम् अविद्यमानायां सर्वं नित्यम् इति
********************** न्य्स्भ्_4,1.27 **********************
% प्.964
न्य्स्_4,1.27: तदनित्यत्वम् अग्नेर् दाह्यं विनाश्यानुविनाशवत् ॥
तस्या अनित्यताया अप्य् अनित्यत्वम्। कथम्? यथा अग्निर् दाह्यं विनाश्यानुविनश्यति एवं सर्वस्यानित्यता सर्वं विनाश्यानुविनश्यतीति
********************** न्य्स्भ्_4,1.28 **********************
न्य्स्_4,1.28: नित्यस्याप्रत्याख्यानं यथोपलब्धि व्यवस्थानात् ॥
अयं खलु वादो नित्यं प्रत्याचष्टे, नित्यस्य च प्रत्याख्यानम् अनुपपन्नम्। कस्मात्? यथोपलब्धि व्यवस्थानात्। यस्योत्पत्तिविनाशधर्मकत्वम् उपलभ्यते प्रमाणतस् तद् अनित्यम्,
% प्.965
यस्य नोपलभ्यते तद्विपरीतम्। न च परमसूक्ष्माणां भूतानाम् आकाशकालदिगात्ममनसां तद्गुणानां च केषाञ्चित् सामान्यविशेषसमवायानां चोत्पत्तिविनाशधर्मकत्वं प्रमाणत उपलभ्यते, तस्मान् नित्यान्य् एतानीति
********************** न्य्स्भ्_4,1.29 **********************
% प्.966
अयम् अन्य एकान्तः ---
न्य्स्_4,1.29: सर्वं नित्यं पञ्चभूतनित्यत्वात् ॥
भूतमात्रम् इदं सर्वं तानि च नित्यानि भूतोच्छेदानुपपत्तेर् इति
********************** न्य्स्भ्_4,1.30 **********************
न्य्स्_4,1.30: नोत्पत्तिविनाशकारणोपलब्धेः ॥
उत्पत्तिकारणं चोपलभ्यते विनाशकारणं च, तत् सर्वनित्यत्वे व्याहन्यते इति
********************** न्य्स्भ्_4,1.31 **********************
% प्.967
न्य्स्_4,1.31: तल्लक्षणावरोधाद् अप्रतिषेधः ॥
यस्योत्पत्तिविनाशकारणम् उपलभ्यते इति मन्यसे, न तद् भूतलक्षणहीनम् अर्थान्तरं गृह्यते, भूतलक्षणावरोधाद् भूतमात्रम् इदम् इत्य् उक्तो ऽयं प्रतिषेध इति
********************** न्य्स्भ्_4,1.32 **********************
% प्.968
न्य्स्_4,1.32: नोत्पत्तितत्कारणोपलब्धेः ॥
कारणसमानगुणस्योत्पत्तिः कारणं चोपलभ्यते। न चैतद् उभयं नित्यविषयम्, न चोत्पत्तितत्कारणोपलब्धिः शक्या प्रत्याख्यातुम्, न चाविषया काचिद् उपलब्धिः। उपलब्धिसामर्थ्यात् कारणेन समानगुणं कार्यम् उत्पद्यते इत्य् अनुमीयते, स खलूपलब्धेर् विषय इति। एवं च तल्लक्षणावरोधोपपत्तिर् इति।
उत्पत्तिविनाशकारणप्रयुक्तस्य ज्ञातुः प्रयत्नो दृष्ट इति। प्रसिद्धश् चावयवी तद्धर्मा। उत्पत्तिविनाशधर्मा चावयवी सिद्ध इति।
% प्.969
शब्दकर्मबुद्ध्यादीनां चाव्याप्तिः। पञ्चभूतनित्यत्वात् तल्लक्षणावरोधाच् चेत्य् अनेन शब्दकर्मबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाश् च न व्याप्ताः तस्माद् अनेकान्तः।
स्वप्नविषयाभिमानवन् मिथ्योपलब्धिर् इति चेत् भूतोपलब्धौ तुल्यम्। यथा स्वप्ने विषयाभिमान एवम् उत्पत्तिकारणाभिमान इति। एवं चैतद् भूतोपलब्धौ तुल्यं पृथिव्याद्युपलब्धिर् अपि स्वप्नविषयाभिमानवत् प्रसज्यते।
% प्.970
पृथिव्याद्यभावे सर्वव्यवहारविलोप इति चेत् तद् इतरत्र समानम् --- उत्पत्तिविनाशकारणोपलब्धिविषयस्याप्य् अभावे सर्वव्यवहारविलोप इति, सो ऽयं नित्यानाम् अतीन्द्रियत्वाद् अविषयत्वाच् चोत्पत्तिविनाशयोः स्वप्नविषयाभिमानवद् इत्य् अहेतुर् इति
********************** न्य्स्भ्_4,1.33 **********************
अवस्थितस्योपादानस्य धर्ममात्रं निवर्तते धर्ममात्रम् उपजायते स खलूत्पत्तिविनाशयोर् विषयः।
% -शयोर् विषयः।] प्.971
यच् चोपजायते तत् प्राग् अप्य् उपजननाद् अस्ति, यच् च निवर्तते तन् निवृत्तम् अप्य् अस्तीति, एवं च सर्वस्य नित्यत्वम् इति?
न्य्स्_4,1.33: न व्यवस्थानुपपत्तेः ॥
अयम् उपजनः इयं निवृत्तिर् इति व्यवस्था नोपपद्यते, उपजातनिवृत्तयोर् विद्यमानत्वात्। अयं धर्म उपजातो ऽयं निवृत्त इति सद्भावाविशेषाद् अव्यवस्था, इदानीम् उपजननिवृत्ती नेदानीम् इति कालव्यवस्था नोपपद्यते सर्वदा विद्यमानत्वात् अस्य धर्मस्योपजननिवृत्ती नास्येति व्यवस्थानुपपत्तिः,
% -जननिवृत्ती नास्येति व्यवस्थानुपपत्तिः,] प्.972
उभ्योर् अविशेषात्। अनागतो ऽतीत इति च कालव्यवस्थानुपपत्तिः, वर्तमानस्य सद्भावलक्षणत्वात्। अविद्यमानस्यात्मलाभ उपजनो विद्यमानस्यात्महानं निवृत्तिर् इत्य् एतस्मिन् सति नैते दोषाः। तस्माद् यद् उक्तं प्राग् अप्य् उपजनाद् अस्ति निवृत्तं चास्ति तद् अयुक्तम् इति
********************** न्य्स्भ्_4,1.34 **********************
अयम् अन्य एकान्तः ---
न्य्स्_4,1.34: सर्वं पृथग् भावलक्षणपृथक्त्वात् ॥
सर्वं नाना न कश्चिद् एको भावो विद्यते। कस्मात्? भावलक्षणपृथक्त्वात् --- भावस्य लक्षणम् अभिधानम्, येन लक्ष्यते भावः स समाख्याशब्दः, तस्य पृथग्विषयत्वात्।
% प्.973
सर्वो भावसमाख्याशब्दः समूहवाची, कुम्भ इति संज्ञाशब्दो गन्धरसरूपस्पर्शसमूहे बुध्नपार्श्वग्रीवादिसमूहे च वर्त्तते, निदर्शनमात्रं चेदम् इति
********************** न्य्स्भ्_4,1.35 **********************
न्य्स्_4,1.35: नानेकलक्षणैर् एकभावनिष्पत्तेः ॥
अनेकविधलक्षणैर् इति मध्यमपदलोपी समासः। गन्धादिभिश् च गुणैर् बुध्नादिभिश् चावयवैः सम्बद्ध एको भावो निष्पद्यते, गुणव्यतिरिक्तं च द्रव्यम् अवयवातिरिक्तश् चावयवीति। विभक्तन्यायं चैतद् उभयम् इति
********************** न्य्स्भ्_4,1.36 **********************
% प्.974
अथापि ---
न्य्स्_4,1.36: लक्षणव्यवस्थानाद् एवाप्रतिषेधः ॥
न कश्चिद् एको भाव इत्य् अयुक्तः प्रतिषेधः। कस्मात्? लक्षणव्यवस्थानाद् एव। यद् इह लक्षणं भावस्य संज्ञाशब्दभूतं तद् एकस्मिन् व्यवस्थितम्, यं कुम्भम् अद्राक्षं तं स्पृशामि यम् एवास्प्राक्षं तं पश्यामीति नाणुसमूहो गृह्यते इति। अणुसमूहे चागृह्यमाणे यद् गृह्यते तद् एकम् एवेति।
अथाप्य् एतद् अनूक्तम् नास्त्य् एको भावो यस्मात् समुदायः, एकानुपपत्तेर् नास्त्य् एव समूहः --- नास्त्य् एको भावो यस्मात् समूहे भावशब्दप्रयोगः;एकस्य चानुपपत्तेः
% प्.975
समूहो नोपपद्यते एकसमुच्चयो हि समूह इति। व्याहतत्वाद् अनुपपन्नं --- नास्त्य् एको भाव इति यस्य प्रतिषेधः प्रतिज्ञायते, समूहे भावशब्दप्रयोगाद् इति हेतुं ब्रुवता स एवाभ्यनुज्ञायते, एकसमुच्चयो हि समूह इति। समूहे भावशब्दप्रयोगाद् इति च समूहम् आश्रित्य प्रत्येकं समूहिप्रतिषेधो नास्त्य् एको भाव इति। सो ऽयम् उभयतो व्याघाताद् यत्किञ्चनवाद इति
********************** न्य्स्भ्_4,1.37 **********************
% प्.977
अयम् अपर एकान्तः ---
न्य्स्_4,1.37: सर्वम् अभावो भावेष्व् इतरेतराभावसिद्धेः ॥
यावद् भावजातं तत् सर्वम् अभावः। कस्मात्? भावेष्व् इतरेतराभावसिद्धेः। ``असन् गौर् अश्वात्मनाऽऽ अनश्वो गौः ``असन्न् अश्वो गवात्मना अगौर् अश्वःऽऽ इत्य् असत्प्रत्ययस्य प्रतिषेधस्य च भावशब्देन सामानाधिकरण्यात् सर्वम् अभाव इति
********************** न्य्स्भ्_4,1.38 **********************
% प्.978
प्रतिज्ञावाक्ये पदयोः प्रतिज्ञाहेत्वोश् च व्याघाताद् अयुक्तम्। अनेकस्याशेषता सर्वशब्दस्यार्थो, भावप्रतिषेधश् चाभावशब्दस्यार्थः। पूर्वं सोपाख्यम् उत्तरं निरुपाख्यं तत्र
% प्.979
समुपाख्यायमानं कथं निरुपाख्यम् अभावः स्याद् इति? न जात्व् अभावो निरुपाख्यो ऽनेकतयाशेषतया शक्यः प्रतिज्ञातुम् इति। सर्वम् एतद् अभाव इति चेत् --- यद् इदं सर्वम् इति मन्यसे तदभाव इति? एवं चेत् अनिवृत्तो व्याघातः, अनेकम् अशेषं चेति नाभावे प्रत्ययेन शक्यं भवितुम्। अस्ति चायं प्रत्ययः सर्वम् इति, तस्मान् नाभाव इति।
प्रतिज्ञाहेत्वोश् च व्याघातः --- सर्वम् अभाव इति भावप्रतिषेधः प्रतिज्ञा, भावेष्व् इतरेतराभावसिद्धेर् इति हेतुः। भावेष्व् इतरेतराभावम् अनुज्ञायाश्रित्य च इतरेतराभावसिद्ध्या सर्वम् अभाव इत्य् उच्यते। यदि सर्वम् अभावो भावेष्व् इतरेतराभावसिद्धेर् इति नोपपद्यते। अथ भावेष्व् इतरेतराभावसिद्धिः, सर्वम् अभाव इति नोपपद्यते।
% प्.980
सूत्रेण चाभिसम्बन्धः।
न्य्स्_4,1.38: न स्वभावसिद्धेर् भावानाम् ॥
न सर्वम् अभावः। कस्मात्? स्वेन भावेन सद्भावाद् भावानाम्। स्वेन धर्मेण भावा भवन्तीति प्रतिज्ञायते। कश् च स्वो धर्मो भावानाम्? द्रव्यगुणकर्मणां सदादिसामान्यम्, द्रव्याणां क्रियावद् इत्येवमादिविशेषः, स्पर्शपर्यन्ताः पृथिव्या इति च; प्रत्येकं चानन्तो भेदः। सामान्यविशेषसमवायानां च विशिष्टा धर्मा गृह्यन्ते।
% प्.981
सो ऽयम् अभावस्य निरुपाख्यत्वात् सम्प्रत्यायको ऽर्थभेदो न स्यात्? अस्ति त्व् अयम्, तस्मान् न सर्वम् अभाव इति।
अथ वा न स्वभावसिद्धेर् भावानाम् इति स्वरूपसिद्धेर् इति। गौर् इति प्रयुज्यमाने शब्दे जातिविशिष्टं द्रव्यं गृह्यते, नाभावमात्रम्। यदि च सर्वम् अभावः गौर् इत्य् अभावः प्रतीयेत, गोशब्देन चाभाव उच्येत। यस्मात् तु गोशब्दप्रयोगे द्रव्यविशेषः प्रतीयते नाभावस् तस्माद् अयुक्तम् इति।
अथ वा न स्वभावसिद्धेर् इति। असन् गौर् अश्वात्मनेति गवात्मना कस्मान् नोच्यते? अवचनाद् गवात्मना गौर् अस्तीति स्वभावसिद्धिः, अनश्वो ऽश्व इति वा गौर् अगौर् इति वा कस्मान् नोच्यते? अवचनात् स्वेन रूपेण विद्यमानता द्रव्यस्येति विज्ञायते।
% प्.982
अव्यतिरेकप्रतिषेधे च भावेन असत्प्रत्ययसामानाधिकरण्यम् भावे संयोगादिसम्बन्धो व्यतिरेकः। अत्र अव्यतिरेकः अभेदाख्यसम्बन्धः तत्प्रतिषेधे सदा च असत्प्रत्ययसामानाधिकरण्यम्, यथा न सन्ति कुण्डे बदराणीति। असन् गौर् अश्वात्मना अनश्वो गौर् इति च गवाश्वयोर् अव्यतिरेकः प्रतिषिध्यते गवाश्वयोर् एकत्वं नास्तीति। तस्मिन् प्रतिषिध्यमाने भावेन गवा सामानाधिकरण्यम् असत्प्रत्ययस्य असन् गौर् अश्वात्मनेति, यथा न सन्ति कुण्डे बदराणीति कुण्डे बदरसंयोगे प्रतिषिध्यमाने सद्भिर् असत्प्रत्ययस्य सामानाधिकरण्यम् इति
********************** न्य्स्भ्_4,1.39 **********************
% प्.983
न्य्स्_4,1.39: न स्वभावसिद्धिर् आपेक्षिकत्वात् ॥
अपेक्षाकृतम् आपेक्षिकम्। ह्रस्वापेक्षाकृतं दीर्घं दीर्घापेक्षाकृतं ह्रस्वम्, न स्वेनात्मनावस्थितं किञ्चित्। कस्मात्? अपेक्षासामर्थ्यात्। तस्मान् न स्वभावसिद्धिर् भावानाम् इति
********************** न्य्स्भ्_4,1.40 **********************
न्य्स्_4,1.40: व्याहतत्वाद् अयुक्तम् ॥
यदि ह्रस्वापेक्षाकृतं दीर्घं ह्रस्वम् अनापेक्षिकम्। किम् इदानीम् अपेक्ष्य ह्रस्वम् इति गृह्यते? अथ दीर्घापेक्षाकृतं ह्रस्वम्, दीर्घम् अनापेक्षिकम्? एवम् इतरेतराश्रययोर् एकाभावे अन्यतराभावाद् उभयाभाव इति अपेक्षाव्यवस्थानुपपन्ना।
% रेतराश्रययोर् एकाभावे अन्यतराभावाद् उभयाभाव इति अपेक्षाव्यवस्थानुपपन्ना।] प्.984
स्वभावसिद्धाव् असत्यां समयोः परिमण्डलयोर् वा द्रव्ययोर् आपेक्षिके दीर्घत्वह्रस्वत्वे कस्मान् न भवतः? अपेक्षायाम् अनपेक्षायां च द्रव्ययोर् अभेदः। यावती द्रव्ये अपेक्षमाणे तावती एवानपेक्षमाणे नान्यतरत्र भेदः। आपेक्षिकत्वे तु सत्य् अन्यतरत्र विशेषोपजनः स्याद् इति।
% प्.985
किम् अपेक्षासामर्थ्यम् इति चेत्? द्वयोर् ग्रहणे ऽतिशयग्रहणोपपत्तिः। द्वे द्रव्ये पश्यन्न् एकत्र विद्यमानम् अतिशयं गृह्णाति तद् दीर्घम् इति व्यवस्यति, यच् च हीनं गृह्णाति तद् ध्रस्वम् इति व्यवस्यतीति। एतच् चापेक्षासामर्थ्यम् इति
********************** न्य्स्भ्_4,1.41 **********************
% प्.986
अथेमे सङ्ख्यैकान्तवादाः ---
सर्वम् एकं सदविशेषात्।
% प्.987
सर्वं द्वेधा नित्यानित्यभेदात्। सर्वं त्रेधा ज्ञाता ज्ञानं ज्ञेयम् इति। सर्वं चतुर्द्धा प्रमाता प्रमाणं प्रमेयं प्रमितिर् इति। एवं यथासम्भवम् अन्ये ऽपीति। तत्र परीक्षा ---
% प्.988
न्य्स्_4,1.41: सङ्ख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् ॥
यदि साध्यसाधनयोर् नानात्वम्, एकान्तो न सिद्ध्यति व्यतिरेकात्। अथ
% प्.989
साध्यसाधनयोर् अभेदः? एवम् अप्य् एकान्तो न सिध्यति साधनाभावात्, न हि हेतुम् अन्तरेण कस्यचित् सिद्धिर् इति
********************** न्य्स्भ्_4,1.42 **********************
न्य्स्_4,1.42: न कारणावयवभावात् ॥
न सङ्ख्यैकान्तानाम् असिद्धिः कस्मात्? कारणस्यावयवभावात्। अवयवः कश्चित् साधनभूत इत्य् अव्यतिरेकः। एवं द्वैतादीनाम् अपीति
********************** न्य्स्भ्_4,1.43 **********************
% प्.990
न्य्स्_4,1.43: निरवयवत्वाद् अहेतुः ॥
कारणस्यावयवभावाद् इत्य् अहेतुः। कस्मात्? सर्वम् एकम् इत्य् अनपवर्गेण प्रतिज्ञाय कस्यचिद् एकत्वम् उच्यते, तत्र व्यपवृक्तो ऽवयवः साधनभूतो नोपपद्यते। एवं द्वैतादिष्व् अपीति।
% प्.991
ते खल्व् इमे सङ्ख्यैकान्ता यदि विशेषकारितस्यार्थभेदविस्तारस्य प्रत्याख्यानेन वर्त्तन्ते, प्रत्यक्षानुमानागमविरोधान् मिथ्यावादा भवन्ति। अथाभ्यनुज्ञानेन वर्त्तन्ते? समानधर्मकारितो ऽर्थसंग्रहो विशेषकारितश् चार्थभेद इति एवम् एकान्तत्वं जहतीति। ते खल्व् एते तत्त्वज्ञानप्रविवेकार्थम् एकान्ताः परीक्षिता इति
********************** न्य्स्भ्_4,1.44 **********************
% प्.992
प्रेत्यभावानन्तरं फलम्, तस्मिन् ---
न्य्स्_4,1.44: सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ॥
पचति दोग्धीति सद्यः फलमोदनपयसी, कर्षति वपतीति कालान्तरे फलं
% प्.993
शस्याधिगम इति। अस्ति चेयं क्रिया अग्निहोत्रं जुहुयात् स्वर्गकाम इति एतस्याः
% प्.994
फले संशयः। न सद्यः कालान्तरोपभोग्यत्वात् । स्वर्गः फलं श्रूयते, तच् च भिन्ने ऽस्मिन् देहभेदाद् उत्पद्यते इति। न सद्यः ग्रामादिकामानाम्ü@आरम्भफलम् इति
********************** न्य्स्भ्_4,1.45 **********************
% प्.995
न्य्स्_4,1.45: कालान्तरेणानिष्पत्तिर् हेतुविनाशात् ॥
ध्वस्तायां प्रवृत्तौ प्रवृत्तेः फलं न कारणम् अन्तरेणोत्पत्तुम् अर्हति, न खलु वै विनष्टात् कारणात् किञ्चिद् उत्पद्यते इति
********************** न्य्स्भ्_4,1.46 **********************
न्य्स्_4,1.46: प्राङ् निष्पत्तेर् वृक्षफलवत् तत् स्यात् ॥
यथा फलार्थिना वृक्षमूले सेकादि परिकर्म क्रियते, तस्मिंश् च प्रध्वस्ते पृथिवीधातुर् अब्धातुना संगृहीत आन्तरेण तेजसा पच्यमानो रसद्रव्यं निर्वर्तयति, स द्रव्यभूतो रसो वृक्षानुगतः पाकविशिष्टो व्यूहविशेषेण सन्निविशमानः पर्णादि फलं निर्वर्तयति, एवं परिषेकादि कर्म चार्थवत्। न च विनष्टात् फलनिष्पत्तिः। तथा प्रवृत्त्या संस्कारो धर्माधर्मलक्षणो जन्यते, स जातो निमित्तान्तरानुगृहीतः कालान्तरे फलं निष्पादयतीति। उक्तञ् चैतत् ``पूर्वकृतफलानुबन्धात् तदुत्पत्तिर्ऽऽ इति
********************** न्य्स्भ्_4,1.47 **********************
% प्.996
तद् इदं प्राङ् निष्पत्तेर् निष्पद्यमानम्---
न्य्स्_4,1.47: नासन् न सन् न सदसत् सदसतोर् वैधर्म्यात् ॥
प्राङ् निष्पत्तेर् निष्पत्तिधर्मकं नासत्, उपादाननियमात्। कस्यचिद् उत्पत्तये किञ्चिद् उपादेयं न सर्वं सर्वस्येत्य् असद्भावे नियमो नोपपद्यते इति। न सत्, प्राङ् उत्पत्तेर् विद्यमानस्योत्पत्तिर् अनुपपन्नेति। न, सदसत् सदसतोर् वैधर्म्यात्
% प्.997
सद् इत्य् अर्थाभ्यनुज्ञा, असद् इति अर्थप्रतिषेधः, एतयोर् व्याघातो वैधर्म्यं व्याघाताद् अव्यतिरेकानुपपत्तिर् इति
********************** न्य्स्भ्_4,1.48 **********************
प्राग् उत्पत्तेर् उत्पत्तिधर्मकम् असद् इत्य् अद्धा। कस्माअत्?
न्य्स्_4,1.48: उत्पादव्ययदर्शनात् ॥
% प्.999
यत् पुनरुक्तं प्राग् उत्पत्तेः कार्यं नासद् उपादाननियमाद् इति---
********************** न्य्स्भ्_4,1.49 **********************
न्य्स्_4,1.49: बुद्धिसिद्धं तु तद् असत् ॥
इदम् अस्योत्पत्तये समर्थं न सर्वम् इति प्राग् उत्पत्तेर् नियतकारणं कार्यं बुद्ध्या
% प्.1000
सिद्धम् उत्पत्तिनियमदर्शनात्। तस्माद् उपादाननियमस्योपपत्तिः सति तु कार्ये प्राग् उत्पत्तेर् उत्पत्तिर् एव नास्तीति
********************** न्य्स्भ्_4,1.50 **********************
% प्.1003
न्य्स्_4,1.50: आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवद् इत्य् अहेतुः ॥
मूलसेकादि परिकर्म फलं चोभयं वृक्षाश्रयम्, कर्म चेह शरीरे, फलं चामुत्र इत्य् आश्रयव्यतिरेकाद् अहेतुर् इति
********************** न्य्स्भ्_4,1.51 **********************
% प्.1004
न्य्स्_4,1.51: प्रीतेर् आत्माश्रयत्वाद् अप्रतिषेधः ॥
प्रीतिर् आत्मप्रत्यक्षत्वाद् आत्माश्रया, तदाश्रयम् एव कर्म धर्मसंज्ञितम्, धर्मस्यात्मगुणत्वात् तस्माद् आश्रयव्यतिरेकानुपपत्तिर् इति
********************** न्य्स्भ्_4,1.52 **********************
न्य्स्_4,1.52: न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात् ॥
पुत्रादि फलं निर्दिश्यते न प्रीतिः, ``ग्रामकामो यजेतऽऽ ``पुत्रकामो यजेतेऽऽति तत्र यद् उक्तं प्रीतिः फलम् इत्य् एतद् अयुक्तम् इति
********************** न्य्स्भ्_4,1.53 **********************
% प्.1005
न्य्स्_4,1.53: तत्सम्बन्धात् फलनिष्पत्तेस् तेषु फलवदुपचारः ॥
पुत्रादिसम्बन्धात् फलं प्रीतिलक्षणम् उत्पद्यते इति पुत्रादिषु फलवदुपचारः, यथान्ने प्राणशब्दो ``अन्नं वै प्राणाःऽऽइति
********************** न्य्स्भ्_4,1.54 **********************
% प्.1006
फलानन्तरं दुःखम् उद्दिष्टम्, उक्तं च ``बाधनालक्षणं दुःखम्ऽऽइति। तत् किम् इदं प्रत्यात्मवेदनीयस्य सर्वजन्तुप्रत्यक्षस्य सुखस्य प्रत्याख्यानम्, आहोस्विद् अन्यः कल्प इति?
अन्य इत्य् आह। कथम्? न वै सर्वलोकसाक्षिकं सुखं शक्यं प्रत्याख्यातुम्। अयं तु जन्ममरणप्रबन्धानुभवनिमित्ताद् दुःखान् निर्विण्णस्य दुःखं जिहासतो दुःखसंज्ञाभावनोपदेशो दुःखहानार्थ इति।
% भावनोपदेशो दुःखहानार्थ इति।] प्.1007
कया युक्त्या? सर्वे खलु सत्त्वनिकायाः सर्वाण्य् उत्पत्तिस्थानानि सर्वः पुनर्भवो बाधनानुषक्तो दुःखसाहचर्याद् बाधनालक्षणं दुःखम् इत्य् उक्तम् ऋषिभिः, दुःखसंज्ञाभावनम् उपदिश्यते अत्र च हेतुर् उपादीयते---
न्य्स्_4,1.54: विविधबाधनायोगाद् दुःखम् एव जन्मोत्पत्तिः ॥
जन्म जायते इति शरीरेन्द्रियबुद्धयः शरीरादीनां च संस्थानविशिष्टानां प्रादुर्भाव उत्पत्तिः। विविधा च बाधना, हीना मध्यमा उत्कृष्टा चेति। उत्कृष्टा नारकिणाम्, तिरश्चां तु मध्यमा, मनुष्याणां तु हीना, देवानां हीनतरा वीतरागाणां च। एवं सर्वम् उत्पत्तिस्थानं विविधबाधनानुषक्तं पश्यतः सुखे तत्साधनेषु च शरीरेन्द्रियबुद्धिषु दुःखसंज्ञा व्यवतिष्ठते।
% बुद्धिषु दुःखसंज्ञा व्यवतिष्ठते।] प्.1008
दुःखसंज्ञाव्यवस्थानात् सर्वलोकेष्व् अनभिरतिसंज्ञा भवति। अनभिरतिसंज्ञाम् उपासीनस्य सर्वलोकविषया तृष्णा विच्छिद्यते, तृष्णाप्रहाणात् सर्वदुःखाद् विमुच्यते इति। यथा विषयोगात् पयो विषम् इति बुध्यमानो नोपादत्ते, अनुपाददानो मरणदुःखं नाप्नोति
********************** न्य्स्भ्_4,1.55 **********************
दुःखोद्देशस् तु न सुखस्य प्रत्याख्यानम्, कस्मात्?
न्य्स्_4,1.55: न सुखस्यान्तरालनिष्पत्तेः ॥
न खल्व् अयं दुःखोद्देशः सुखस्य प्रत्याख्यानम्। कस्मात्, सुखस्यान्तरालनिष्पत्तेः। निष्पद्यते खलु बाधनान्तरालेषु सुखं प्रत्यात्मवेदनीयं शरीरिणाम्, तद् अशक्यं प्रत्याख्यातुम् इति
********************** न्य्स्भ्_4,1.56 **********************
% प्.1009
अर्थापि---
न्य्स्_4,1.56: बाधनानिवृत्तेर् वेदयतः पर्येषणदोषाद् अप्रतिषेधः ॥
सुखस्य, दुःखोद्देशेनेति प्रकरणात् पर्येषणं प्रार्थना विषयार्जनतृष्णा, पर्येषणस्य दोषो यद् अयं वेदयमानः प्रार्थयते तच् चास्य प्रार्थितं न सम्पद्यते, सम्पद्य वा विपद्यते, न्यूनं वा सम्पद्यते, बहुप्रत्यनीकं वा सम्पद्यते इति एतस्मात् पर्येषणदोषान् नानाविधो मानसः सन्तापो भवति एवं वेदयतः पर्येषणदोषाद् बाधनाया अनिवृत्तिः। बाधनानिवृत्तेर् दुःखसंज्ञाभावनम् उपदिश्यते । अनेन कारणेन दुःखं जन्म न तु सुखस्याभावाद् इति।
% प्.1010
अथाप्य् एतद् अनूक्तम्---
``कामं कामयमानस्य यदा कामः समृध्यति।
अथैनम् अपरः कामः क्षिप्रम् एव प्रबाधते॥ऽऽ
``अपि चेद् उदनेमि समन्ताद् भूमिम् इमां लभते सगवाश्वाम्। न स तेन धनेन धनैषी तृप्यति किन् नु सुखं धनकामे॥ऽऽ इति
********************** न्य्स्भ्_4,1.57 **********************
% प्.1011
न्य्स्_4,1.57: दुःखविकल्पे सुखाभिमानाच् च ॥
दुःखसंज्ञाभावनोपदेशः क्रियते। अयं खलु सुखसंवेदने व्यवस्थितः सुखं परमपुरुषार्थं मन्यते, न सुखाद् अन्यन् निःश्रेयसम् अस्ति सुखे प्राप्ते चरितार्थः कृतकरणीयो भवति। मिथ्यासङ्कल्पात् सुखे तत्साधनेषु च विषयेषु संरज्यते, संरक्तः सुखाय घटते, घटमानस्यास्य जन्मजराव्याधिप्रायणानिष्टसंयोगेष्टवियोगप्रार्थितानुपपत्तिनिमित्तम् अनेकविधं यावद् दुःखम् उत्पद्यते, तं दुःखविकल्पं सुखम् इत्य् अभिमन्यते। सुखाङ्गभूतं दुखम्, न दुःखम् अनासाद्य शक्यं सुखम् अवाप्तुम्, तादर्थ्यात् सुखम् एवेदम् इति सुखसंज्ञोपहतप्रज्ञो जायस्व चेति संधावतीति संसारं
% प्.1012
नातिवर्त्तते। तद् अस्याः सुखसंज्ञायाः प्रतिपक्षो दुःखसंज्ञाभावनम् उपदिश्यते, *दुःखानुषङ्गाद् (चोर्र्.; दुःखानुसङ्गाद्, एद्.) दुःखं जन्मेति, न सुखस्याभावात्।
यद्य् एवं कस्माद् दुःखं जन्मेति नोच्यते? सो ऽयम् एवं वाच्ये यद् एवम् आह दुःखम् एव जन्मेति तेन सुखाभावं ज्ञापयतीति जन्म विनिग्रहार्थीयो वै खल्व् अयम् एवशब्दः। कथम्? न दुःखं जन्म स्वरूपतः, किं तु दुःखोपचारात्; एवं सुखम् अपीति एतद् अनेनैव निर्वर्त्त्यते न तु दुःखम् एव जन्मेति
********************** न्य्स्भ्_4,1.58 **********************
% प्.1013
दुःखोद्देशानन्तरम् अपवर्गः, स प्रत्याख्यायते---
न्य्स्_4,1.58: ऋणक्लेशप्रवृत्त्यनुबन्धाद् अपवर्गाभावः ॥
ऋणानुबन्धान् नास्त्य् अपवर्गः---``जायमानो ह वै ब्राह्मणस् त्रिभिर् ऋणैर् ऋणवान् जायते, ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यऽऽ इति ऋणानि, तेषाम् अनुबन्धः स्वकर्मभिः सम्बन्धः, कर्मसम्बन्धवचनात् ``जरामर्यं वा एतत् सत्रं यद् अग्निहोत्रं दर्शपूर्णम् आसौ चऽऽ इति ``जरया ह वा एष तस्मात् सत्राद् विमुच्यते मृत्युना ह वाऽऽ इति *ऋणानुबन्धाद् (चोर्र्.; ऋणानुवन्धाद्, एद्.) अपवर्गानुष्ठानकालो नास्तीत्य् अपवर्गाभावः।
% प्.1014
क्लेशानुबन्धान् नास्त्य् अपवर्गः क्लेशानुबद्ध एवायं म्रियते, क्लेशानुबद्धश् च जायते नास्य क्लेशानुबन्धविच्छेदो गृह्यते।
प्रवृत्त्यनुबन्धान् नास्त्य् अपवर्गः---जन्मप्रभृत्य् अयं यावत् प्रायणं वाग्बुद्धिशरीरारम्भेणाविमुक्तो गृह्यते, तत्र यद् उक्तं ``दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तराभावाद् अपवर्गऽऽ इति, तद् अनुपपन्नम् इति
********************** न्य्स्भ्_4,1.59 **********************
अत्राभिधीयते। यत् तावद् ऋणानुबन्धाद् इति ऋणैर् इव ऋणैर् इति---
न्य्स्_4,1.59: प्रधानशब्दानुपपत्तेर् गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः ॥
ऋणैर् इति नायं प्रधानशब्दः। यत्र खल्व् एकः प्रत्यादेयं ददाति, द्वितीयश् च प्रतिदेयं गृह्णाति तत्रास्य दृष्टत्वात् प्रधानम् ऋणशब्दः। न चैतद् इहोपपद्यते, प्रधानशब्दानुपपत्तेः, गुणशब्देनायम् अनुवाद ऋणैर् इव ऋणैर् इति।
% नुपपत्तेः गुणशब्देनायम् अनुवाद ऋणैर् इव ऋणैर् इति।] प्.1015
प्रयुक्तोपमं चैतद् यथाग्निर् माणवक इति---अन्यत्र दृष्टश् चायम् ऋणशब्द इह प्रयुज्यते, यथाग्निशब्दो माणवके। कथं गुणशब्देनानुवादः? निन्दाप्रशंसोपपत्तेः। कर्मलोपे ऋणीव ऋणादानान् निन्द्यते, कर्मानुष्ठाने च ऋणीव ऋणदानात् प्रशस्यते स एवोपमार्थ इति।
% प्.1016
जायमान इति गुणशब्दो विपर्यये ऽनधिकारात्। जायमानो ह वै ब्राह्मण इति च गुणशब्दो गृहस्थः सम्पद्यमानो जायमान इति; यदायं गृहस्थो जायते तदा कर्मभिर् अधिक्रियते मातृतो जायमानस्यानधिकारात्। यदा तु मातृतो जायते कुमारो न तदा कर्मभिर् अधिक्रियते अर्थिनः शक्तस्य चाधिकारात्। अर्थिनः कर्मभिर् अधिकारः कर्मविधौ कामसंयोगस् मृतेः ``अग्निहोत्रं जुहुयात् स्वर्गकामऽऽ इत्य् एवमादि। शक्तस्य च (3*) प्रवृत्तिसम्भवात् शक्तस्य कर्मभिर् अधिकारः प्रवृत्तिसम्भवात्। (4*) शक्तः खलु विहिते कर्मणि प्रवर्त्तते नेतर इति। उभयाभावस् तु प्रधानशब्दार्थे। मातृतो जायमाने कुमारे उभयम् अर्थिता शक्तिश् च न भवतीति।
% प्.1017
न भिद्यते च लौकिकाद् वाक्याद् वैदिकं वाक्यं प्रेक्षापूर्वकारिपुरुषप्रणीतत्वेन। तत्र लौकिकस् तावद् अपरीक्षको ऽपि न *जातमात्रं (चोर्र्.; जातप्रात्रं, एद्.) कुमारकम् एवं ब्रूयाद् अधीष्व यजस्व ब्रह्मचर्यं चरेति। कुत एवम् ऋषिर् उपपन्नानवद्यवादी उपदेशार्थेन प्रयुक्त उपदिशति? न खलु वै नर्त्तको ऽन्धेषु प्रवर्त्तते न गायको बधिरेष्व् इति।
उपदिष्टार्थविज्ञानं चोपदेशविषयः। यश् चोपदिष्टम् अर्थं विजानाति तं प्रत्य् उपदेशः क्रियते, न चैतद् अस्ति जायमानकुमारक इति। गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं कर्म अभिवदति। यच् च मन्त्रब्राह्मणं कर्म अभिवदति तत् पत्नीसम्बन्धादिना गार्हस्थ्यलिङ्गेनोपपन्नम्, तस्माद् गृहस्थो ऽयं जायमानो ऽभिधीयते इति।
अर्थित्वस्य चाविपरिणामे जरामर्यवादोपपत्तिः।
% प्.1018
यावच् चास्य फलेनार्थित्वं न विपरिणमते न निवर्तते तावद् अनेन कर्मानुष्ठेयम् इत्य् उपपद्यते जरामर्यवादस् तं प्रतीति। जरया ह वेत्य् आयुषस्ü@तुरीयस्य चतुर्थस्य प्रव्रज्यायुक्तस्य वचनं ``जरया ह वा एष एतस्माद् विमुच्यतेऽऽ इति। आयुषस् तुरीयं चतुर्थं प्रव्रज्यायुक्तं जरेत्य् उच्यते, तत्र हि प्रव्रज्या विधीयते; अत्यन्तजरासंयोगे जरया ह वेत्य् अनर्थकम्। ``अशक्तो विमुच्यतेऽऽ इत्य् एतद् अपि नोपपद्यते, स्वयम् अशक्तस्य बाह्यां शक्तिम् आह---``अन्तेवासी वा जुहुयाद् ब्रह्मणा स परिक्रीतः, क्षीरहोता वा जहुयाद् धनेन स परिक्रीतऽऽ इति।
% प्.1019
अथापि विहितं वानूद्येत कामाद् वार्थः परिकल्प्येत? विहितानुवचनं न्याय्यम् इति। ऋणवान् इवास्वतन्त्रो गृहस्थः कर्मसु प्रवर्त्तते इत्य् उपपन्नं वाक्यस्य
% प्.1020
सामर्थ्यम्। फलस्य हि साधनानि प्रयत्नविषयो न फलम्, तानि सम्पन्नानि फलाय कल्पन्ते। विहितं च जायमानम्, विधीयते च जायमानम्, तेन यः सम्बद्ध्यते सो ऽयं जायमान इति।
प्रत्यक्षविधानाभावाद् इति चेन् न, प्रतिषेधस्यापि प्रत्यक्षविधानाभावाद् इति। प्रत्यक्षतो विधीयते *गार्हस्थ्यं (चोर्र्.; गार्हथ्यं, एद्.) ब्राह्मणेन, यदि चाश्रमान्तरम् अभविष्यत् तद् अपि व्यधास्यत
% प्.1021
प्रत्यक्षतः, प्रत्यक्षविधानाभावान् नास्त्य् आश्रमान्तरम् इति। न, प्रतिषेधस्यापि प्रत्यक्ष्तो विधानाभावात्। न प्रतिषेधो ऽपि वै ब्राह्मणेन प्रत्यक्षतो विधीयते --- न सन्त्य् आश्रमान्तराणि एक एव गृहस्थाश्रम इति प्रतिषेधस्य प्रत्यक्षतो ऽश्रवणाद् अयुक्तम् एतद् इति।
अधिकाराच् च विधानं विद्यान्तरवत्। यथा शास्त्रान्तराणि स्वे स्वे ऽधिकारे प्रत्यक्षतो विधायकानि नार्थान्तराभावाद् एवम् इदं ब्राह्मणं गृहस्थशास्त्रं स्वे ऽधिकारे प्रत्यक्षतो विधायकं नाश्रमान्तराणाम् अभावाद् इति।
% प्.1022
ऋग्ब्राह्मणं चापवर्गाभिधाय्य् अभिधीयते। ऋचश् च ब्राह्मणानि चापवर्गाभिवादीनि भवन्ति। ऋचश् च तावत् ---
``कर्मभिर् मृत्युम् ऋषयो निषेदुः प्रजावन्तो द्रविणम् इच्छमानाः। अथापरे ऋषयो मनीषिणः परं कर्मभ्यो ऽमृतत्वम् आनशुः॥ऽऽ
``न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः। परेण नाकं निहितं गुहायां विभ्राजते यद् यतयो विशन्ति॥ऽऽ
``वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात्। तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽयनाय॥ऽऽ
अथ ब्राह्मणानि ---
``त्रयो धर्मस्कन्धाः ---यज्ञो ऽध्ययनं दानम् इति प्रथमस् तप एव द्वितीयो ब्रह्मचार्य् आचार्यकुलवासीति तृतीयो ऽत्यन्तम् आत्मानम् आचार्यकुले ऽवसादयन् सर्वे एवैते पुण्यलोका भवन्ति ब्रह्मसंस्थो ऽमृतत्वम् एति।ऽऽ
``एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्तीतिऽऽ।
% प्.1023
अथो खल्व् आहुः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुर् भवति यत्क्रतुर् भवति तत् कर्म कुरुते यत् कर्म कुरुते तद् अभिसंपद्यते।ऽऽ
इति कर्मभिः संसरणम् उक्त्वा प्रकृतम् अन्यद् उपदिशन्ति ``इति नु कामयमानो ऽथाकामयमानो यो ऽकामो निष्काम आत्मकाम आप्तकामो भवति न तस्य प्राणा उत्क्रामन्ति इहैव समवलीयन्ते ब्रह्मैव सन् ब्रह्माप्य् एतीतिऽऽ।
तत्र यद् उक्तम् ऋणानुबन्धाद् अपवर्गाभाव इत्य् एतद् अयुक्तम् इति। ``ये चत्वारः पथयो देवयानाऽऽ इति च चातुराश्रम्यश्रुतेर् ऐकाश्रम्यान् उपपत्तिः
********************** न्य्स्भ्_4,1.60 **********************
फलार्थिनश् चेदं ब्राह्मणं ``जरामर्यं वा एतत् सत्रं यद् अग्निहोत्रम्. दर्शपूर्णम् आसौ चेतिऽऽ कथम्?
न्य्स्_4,1.60: समारोपणाद् आत्मन्य् अप्रतिषेधः ॥
% प्.1024
``प्राजापत्याम् इष्टं निरूप्य तस्यां सर्ववेदसं हुत्वा आत्मन्य् अग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद्ऽऽ इति *श्रूयते (चोर्र्.; श्रूयते, एद्.)। तेन विजानीमः प्रजावित्तलोकैषणाभ्यो व्युत्थितस्य निवृत्ते फलार्थित्वे समारोपणं विधीयते इति।
एवं च ब्राह्मणानि ``सो ऽन्यद् व्रतम् उपाकरिष्यमाणो याज्ञवल्क्यो मैत्रेयीम् इति होवाच प्रव्रजिष्यन् वा अरे अहम् अस्मात् स्थानाद् अस्मि हन्त ते ऽनया कात्यायन्या सहान्तं करवाणीति। अथाप्य् उक्तानुशासनासि मैत्रेयि एतावद् अरे खल्व् अमृतत्वम् इति होक्त्वा याज्ञवल्क्यः प्रवव्राजेतिऽऽ
% प्.1025
********************** न्य्स्भ्_4,1.61 **********************
न्य्स्_4,1.61: पात्रचयान्तानुपपत्तेश् च फलाभावः ॥
जरामर्ये च कर्मण्य् अविशेषेण कल्प्यमाने सर्वस्य पात्रचयान्तानि कर्माणीति प्रसज्यते, तत्रैषणाव्युत्थानं न श्रूयेत। ``एतद् ध स्म वै तत् पूर्वे ब्राह्मणा अनूचाना विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नो ऽयम् आत्मायं लोक इति ते ह स्म पुत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्तीतिऽऽ। एषणाभ्यश् च व्युत्थितस्य पात्रचयान्तानि कर्माणि नोपपद्यन्ते इति नाविशेषेण कर्त्तुः प्रयोजकं फलं भवतीति।
% प्.1026
चातुराश्रम्यविधानाच् चेतिहासपुराणधर्मशास्त्रेष्व् ऐकाश्रम्यानुपपत्तिः। तद् अप्रमाणम् इति चेद् न, प्रमाणेन प्रामाण्याभ्यनुज्ञानात् --- प्रमाणेन खलु ब्राह्मणेनेतिहासपुराणस्य प्रामाण्यम् अभ्यनुज्ञायते ``ते वा खल्व् एते अथर्वाङ्गिरस एतद् इतिहासपुराणम् अभ्यवदन्न् इतिहासपुराणं पञ्चमं वेदानां वेद इतिऽऽ। तस्माद् अयुक्तम् एतदप्रामाण्यम् इति। अप्रामाण्ये च धर्मशास्त्रस्य प्राणभृतां व्यवहारलोपाल् लोकोच्छेदप्रसङ्गः।
% प्.1027
द्रष्टृप्रवक्तृसामाण्याच् चाप्रामान्यानुपपत्तिः। ये एव मन्त्रब्राह्मणस्य द्रष्टारः प्रवक्तारश् च, ते खल्व् इतिहासपुराणस्य धर्मशास्त्रस्य चेति।
विषयव्यवस्थानाच् च यथाविषयं प्रामाण्यम्। अन्यो मन्त्रब्राह्मणस्य विषयो ऽन्यच् चेतिहासपुराणधर्मशास्त्राणाम् इति। यज्ञो मन्त्रब्राह्मणस्य, लोकवृत्तम् इतिहासपुराणस्य, लोकव्यवहारव्यवस्थानं धर्मशास्त्रस्य विषयः। तत्रैकेन न सर्वं व्यवस्थाप्यते इति यथाविषयम् एतानि प्रमाणानीन्द्रियादिवद् इति
********************** न्य्स्भ्_4,1.62 **********************
% प्.1028
यत् पुनर् एतत् क्लेशानुबन्धस्याविच्छेदाद् इति ---
न्य्स्_4,1.62: सुषुप्तस्य स्वप्नादर्शने क्लेशाभावाद् अपवर्गः ॥
यथा सुषुप्तस्य खलु स्वप्नादर्शने रागानुबन्धः सुखदुःखानुबन्धश् च विच्छिद्यते तथापवर्गे ऽपीति। एतच् च ब्रह्मविदो मुक्तस्यात्मनो रूपम् उदाहरन्तीति
********************** न्य्स्भ्_4,1.63 **********************
% प्.1029
यद् अपि प्रवृत्त्यनुबन्धाद् इति ---
न्य्स्_4,1.63: न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य ॥
प्रक्षीणेषु रागद्वेषमोहेषु प्रवृत्तिर् न प्रतिसन्धानाय। प्रतिसन्धिस् तु पूर्वजन्मनिवृत्तौ पुनर्जन्म, तच् चादृष्टकारितम्, तस्यां प्रहीणायां पूर्वजन्माभावे जन्मान्तराभावो ऽप्रतिसन्धानम् अपवर्गः।
कर्मवैफल्यप्रसङ्ग इति चेद् न, कर्मविपाकप्रतिसंवेदनस्याप्रत्याख्यानात्। पूर्वजन्मनिवृत्तौ पुनर्जन्म न भवतीत्य् उच्यते, न तु कर्मविपाकप्रतिसंवेदनं प्रत्याख्यायते, सर्वाणि पूर्वकर्माणि ह्य् अन्ते जन्मनि पिपच्यन्त इति
********************** न्य्स्भ्_4,1.64 **********************
% प्.1030
न्य्स्_4,1.64: न क्लेशसन्ततेः स्वाभाविकत्वात् ॥
नोपपद्यते क्लेशानुबन्धविच्छेदः, कस्मात्? क्लेशसन्ततेः स्वाभाविकत्वात्। अनादिर् इयं क्लेशसन्ततिः, न चानादिः शक्य उच्छेतुम् इति
********************** न्य्स्भ्_4,1.65 **********************
अत्र कश्चित् परीहारम् आह ---
न्य्स्_4,1.65: प्राग् उत्पत्तेर् अभावानित्यत्ववत् स्वाभाविके ऽप्य् अनित्यत्वम् ॥
यथानादिः प्राग् उत्पत्तेर् अभाव उत्पन्नेन भावेन निवर्त्यते, एवं स्वाभाविकी क्लेशसन्ततिर् अनित्येति
********************** न्य्स्भ्_4,1.66 **********************
% प्.1031
अपर आह ---
न्य्स्_4,1.66: अणुश्यामता ऽन्य्त्यत्ववद् वा ॥
यथानादिर् अणुश्यामता अथ चाग्निसंयोगाद् अनित्या, तथा क्लेशसन्ततिर् अपीति। सतः खलु धर्मो नित्यत्वम् अनित्यत्वं च, तत्त्वं भावे अभावे भाक्तम् इति। अनादिर् अणुश्यामतेति हेत्वभावाद् अयुक्तम्। अनुत्पत्तिधर्मकम् अनित्यम् इति नात्र हेतुर् अस्तीति
********************** न्य्स्भ्_4,1.67 **********************
% प्.1032
अयं तु समाधिः ---
न्य्स्_4,1.67: न, सङ्कल्पनिमित्तत्वाच् च रागादीनाम् ॥
कर्मनिमित्तत्वाद् इतरेतरनिमित्तत्वाच् चेति समुच्चयः। मिथ्यासङ्कल्पेभ्यो रञ्जनीयकोपनीयमोहनीयेभ्यो रागद्वेषमोहा उत्पद्यन्ते, कर्म च सत्त्वनिकायनिर्वर्तकं नैयमिकान् रागद्वेषमोहान् निर्वर्त्तयति, नियमदर्शनात्। दृश्यते हि कश्चित् सत्त्वनिकायो रागबहुलः कश्चिद् द्वेषबहुलः कश्चिन् मोहबहुल इति। इतरेतरनिमित्ता च रागादीनाम् उत्पत्तिः। मूढो रज्यति मूढः कुप्यति रक्तो मुह्यति कुपितो मुह्यति।
% प्.1033
सर्वमिथ्यासङ्कल्पानां तत्त्वज्ञानाद् अनुत्पत्तिः कारणानुत्पातौ च कार्यानुत्पत्तेर् इति रागादीनाम् अत्यन्तम् अनुत्पत्तिर् इति। अनादिश् च क्लेशसन्ततिर् इत्य् अयुक्तम्, सर्वे इमे खल्व् आध्यात्मिका भावा अनादिना प्रबन्धेन प्रवर्त्तन्ते शरीरादयः, न जात्व् अत्र कश्चिद् अनुत्पन्नपूर्वः प्रथमत उत्पद्यते ऽन्यत्र तत्त्वज्ञानात्। न चैवं सत्य् अनुत्पत्तिधर्मकं किञ्चिद् अव्ययधर्मकं प्रतिज्ञायते इति। कर्म च सत्त्वनिकायनिर्वर्तकं तत्त्वज्ञानकृतान् मिथ्यासङ्कल्पविघातान् न रागाद्युत्पत्तिनिमित्तं भवति, सुखदुःखसंवित्तिः फलं तु भवतीति
मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Edition: Taranatha Nyaya-Tarkatirtha Calcutta : Metropolitan Printing & Publ. 1936-1944 (Calcutta Sanskrit Series, 18 & 19) · Data entry Indology Student Team, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0