भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र (टीका सहित) · अध्याय 11

11.2

इति श्रीवात्स्यायनीये न्यायभाष्ये पञ्चमाध्यायस्याद्यम् आह्निकम्।
% प्.1160
न्यायदर्शनम्
पञ्चमाध्यायस्य द्वितीयम् आह्निकम्
विप्रतिपत्त्यप्रतिपत्त्योर् विकल्पान् निग्रहस्थानबहुत्वम् इति सङ्क्षेपेणोक्तम्, तद् इदानीं विभजनीयम्। निग्रहस्थानानि खलु पराजयवस्तून्य् अपराधाधिकरणानि प्रायेण प्रतिज्ञाद्यवयवाश्रयाणि तत्त्ववादिनम् अतत्त्ववादिनं चाभिसंप्लवन्ते।
% प्रायेण ... चाभिसंप्लवन्ते।] प्.1162
********************** न्य्स्भ्_5,2.1 **********************
तेषां विभागः ---
न्य्स्_5,2.1: प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरम् अर्थान्तरं निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्तकालं न्यूनम् अधिकं पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगो ऽपसिद्धान्तो हेत्वाभासाश् च निग्रहस्थानानि ॥
% प्.1163
तानीमानि द्वाविंशतिधा विभज्य, लक्ष्यन्ते ---
********************** न्य्स्भ्_5,2.2 **********************
न्य्स्_5,2.2: प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥
साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिद्रष्टान्तधर्मं स्वदृष्टान्ते ऽभ्यनुजानन् प्रतिज्ञां जहातीति प्रत्ज्ञाहानिः। निदर्शनम् --- ``ऐन्द्रियकत्वाद् अनित्यः शब्दो घटवद्ऽऽ इत्य् कृते अपर आह -- दृष्टम् ऐन्द्रियकत्वं सामान्ये नित्ये, कस्मान् न तथा शब्द इति प्रत्यवस्थिते इदम् आह ---
% प्रत्यवस्थिते इदम् आह ---] प्.1164
यद्य् ऐन्द्रियकं सामान्यं नित्यं कामं घटो नित्यो ऽस्त्व् इति।
% प्.1165
स खल्व् अयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन् निगमनान्तम् एव पक्षं जहाति, पक्षं जहत्प्रतिज्ञां जहातीत्य् उच्यते, प्रतिज्ञाश्रयत्वात् पक्षस्येति

11.3

********************** न्य्स्भ्_5,2.3 **********************
% प्.1167
न्य्स्_5,2.3: प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम् ॥
प्रतिज्ञातार्थो ``अनित्यः शब्द ऐन्द्रियकत्वाद् घटवद्ऽऽ इत्य् उक्ते यो ऽस्य प्रतिषेधः प्रतिदृष्टान्तेन हेतुव्यभिचारः --- सामान्यम् ऐन्द्रियकं नित्यम् इति, तस्मिंश् च प्रतिज्ञातार्थप्रतिषेधे, ``धर्मविकल्पाद्ऽऽ इति दृष्टान्तप्रतिदृष्टान्तयोः साधर्म्ययोगे धर्मभेदात् सामान्यम् ऐन्द्रियकं सर्वगतम् ऐन्द्रियकस् त्व् असर्वगतो घट इति धर्मविकल्पात्, ``तदर्थनिर्देशऽऽ इति साध्यसिद्ध्यर्थम्। कथम्? यथा घटो ऽसर्वगत एवं शब्दो ऽप्य् असर्वगतो घटवद् एवानित्य इति।
% प्.1168
तत्रानित्यः शब्द इति पूर्वा प्रतिज्ञा, असर्वगत इति द्वितीया प्रतिज्ञा प्रतिज्ञान्तरम्। तत् कथं निग्रहस्थाम् इति? न प्रतिज्ञायाः साधनं प्रतिज्ञान्तरम्, किं तु हेतुदृष्टान्तौ साधनं प्रतिज्ञायाः, तद् एतद् असाधनोपादानम् अनर्थकम् इति। आनर्थक्यान् निग्रहस्थानम् इति

11.4

********************** न्य्स्भ्_5,2.4 **********************
% प्.1169
न्य्स्_5,2.4: प्रतिज्ञाहेत्वोर् विरोधः प्रतिज्ञाविरोधः ॥
गुणव्यतिरिक्तं द्रव्यम् इति प्रतिज्ञा, ``रूपादितो ऽर्थान्तरस्यानुपलब्धेर्ऽऽ इति हेतुः।
% प्.1170
सो ऽयं प्रतिज्ञाहेत्वोर् विरोधः। कथम्? यदि गुणव्यतिरिक्तं द्रव्यम्, रूपादिभ्यो ऽर्थान्तरस्यानुपलब्धिर् नोपपद्यते। अथ रूपादिभ्यो ऽर्थान्तरस्यानुपलब्धिः, गुणव्यतिरिक्तं द्रव्यम् इति नोपपद्यते।
% नोपपद्यते।] प्.1171
गुणव्यतिरिक्तं च द्रव्यं रूपादिभ्यश् चार्थान्तरस्यानुपलब्धिर् इति विरुध्यते --- व्याहन्यते न सम्भवतीति

11.5

********************** न्य्स्भ्_5,2.5 **********************
% प्.1172
न्य्स्_5,2.5: पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः ॥
अनित्यः शब्द ऐन्द्रियकत्वाद् इत्य् उक्ते परो ब्रूयात् सामान्यम् ऐन्द्रियकं न चानित्यम्,
% प्.1173
एवं शब्दो ऽप्य् ऐन्द्रियको न चानित्य इति। एवं प्रतिषिद्धे पक्षे यदि ब्रूयात् --- ``क पुनर् आहानित्यः शब्दऽऽ इति, सो ऽयं प्रतिज्ञातार्थनिह्नवः प्रतिज्ञासन्न्यास इति

11.6

********************** न्य्स्भ्_5,2.6 **********************
न्य्स्_5,2.6: अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषम् इच्छतो हेत्वन्तरम् ॥
निदर्शनम् --- एकप्रकृतीदं व्यक्तम् इति प्रतिज्ञा। कस्माद् धेतोः? एकप्रकृतीनां विकाराणां परिमाणात्। मृत्पूर्वकाणां शरावादीनां दृष्टं परिमाणम्, यावान् प्रकृतेर् व्यूहो भवति तावान् विकार इति। दृष्टं च प्रतिविकारं परिमाणम्। अस्ति चेदं परिमाणम् प्रतिव्यक्तं तदेकप्रकृतीनां विकाराणां परिमाणात् पश्यामो व्यक्तम् इदम् एकप्रकृतीति।
% प्.1174
अस्य व्यभिचारेण प्रत्यवस्थानं --- नानाप्रकृतीनाम् एकप्रकृतीनां च विकाराणां दृष्टं परिमाणम् इति। एवं प्रत्यवस्थिते आह --- एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनात्। सुखदुःखमोहसमन्वितं हीदं व्यक्तं परिमितं गृह्यते, --- तत्र प्रकृत्यन्तररूपसमन्वयाभावे सत्य् एकप्रकृतित्वम् इति। तद् इदम् अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषं ब्रुवतो हेत्वन्तरं भवति। सति च हेत्वन्तरभावे पूर्वस्य हेतोर् असाधकत्वान् निग्रहस्थानम्। हेत्वन्तरवचने सति यदि हेत्वर्थनिदर्शनो दृष्टान्त उपादीयते,
% दृष्टान्त उपादीयते,] प्.1175
नेदं व्यक्तम् एकप्रकृति भवति, प्रकृत्यन्तरोपादानात्। अथ नोपादीयते, दृष्टान्ते हेत्वर्थस्यानिदर्शितस्य साधकभावानुपपत्तेर् आनर्थक्याद् धेतोर् अनिवृत्तं निग्रहस्थानम् इति

11.7

********************** न्य्स्भ्_5,2.7 **********************
% प्.1176
न्य्स्_5,2.7: प्रकृताद् अर्थाद् अप्रतिसम्बद्धार्थम् अर्थान्तरम् ॥
यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे (चोर्र्.; पक्षपतिपक्ष-, एद्.) हेतुतः साध्यसिद्धौ प्रकृतायां ब्रूयात् --- नित्यः शब्दो ऽस्पर्शत्वाद् इति हेतुः। हेतुर् नाम हिनोतेर् धातोस् तुनि प्रत्यये कृदन्तं पदम्। पदं च नामाख्यातोपसर्गनिपाताः। अभिधेयस्य क्रियान्तरयोगाद् विशिष्यमाणरूपः शब्दो ``नामऽऽ। क्रियाकारकसमुदायः कारकसङ्ख्याविशिष्टक्रियाकालयोगाभिधायाख्यातम्, धात्वर्थमात्रं च कालाभिधानविशिष्टम्। प्रयोगेष्व् अर्थाद् अभिद्यमानारूपा निपाताः।
% -रूपा निपाताः।] प्.1177
उपसृज्यमानाः क्रियावद्योतका उपसर्गा इत्य् एवमादि। तदर्थान्तरं वेदितव्यम् इति

11.8

********************** न्य्स्भ्_5,2.8 **********************
न्य्स्_5,2.8: वर्णक्रमनिर्देशवन् निरर्थकम् ॥
यथा ऽनित्यः शब्दः --- कचटतपाः, जवगडदशत्वात्, झभञ् घढधषवद् इति ----
% प्.1178
एवम्प्रकारं निरर्थकम्। अभिधानाभिधेयभावानुपपत्तौ अर्थगतेर् अभावाद् वर्णा एव क्रमेण निर्दिश्यन्त इति

11.9

********************** न्य्स्भ्_5,2.9 **********************
न्य्स्_5,2.9: परिषत्प्रतिवादिभ्यां त्रिर् अभिहितम् अप्य् अविज्ञातम् अविज्ञातार्थम् ॥
यद् वाक्यं परिषदा प्रतिवादिना च त्रिर् अभिहितम् अपि न विज्ञायते श्लिष्टशब्दम् अप्रतीतप्रयोगम् अतिद्रुतोच्चरितम् इत्य् एवमादिना कारणेन,
% -प्रतीतप्रयोगम् ... कारणेन,] प्.1179
तदविज्ञातम् अविज्ञातार्थम् असामर्थ्यसंवरणाय प्रयुक्तम् इति निग्रहस्थानम् इति

11.10

********************** न्य्स्भ्_5,2.10 **********************
न्य्स्_5,2.10: पौर्वापर्यायोगाद् अप्रतिसम्बद्धार्थम् अपार्थकम् ॥
यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वापर्येणान्वययोगो नास्तीत्य् असम्बद्धार्थत्वगृह्यते, तत् समुदायार्थस्यापायाद् अपार्थकम्। यथा --- दश दाडिमानि, षड् अपूपाः;
% प्.1180
कुण्डम्, अजाजिनम्, पललपिण्डः, अथ रौरुकम् एतद्, कुमार्याः पायं तस्याः पिता ऽप्रतिशीन इति

11.11

********************** न्य्स्भ्_5,2.11 **********************
% प्.1181
न्य्स्_5,2.11: अवयवविपर्यासवचनम् अप्राप्तकालम् ॥
प्रतिज्ञादीनाम् अवयवानां यथालक्षणम् अर्थवशात् क्रमः, तत्रावयवविपर्यासेन वचनम् अप्राअप्तकालम् असम्बद्धार्थं निग्रहस्थानम् इति

11.12

********************** न्य्स्भ्_5,2.12 **********************
% प्.1185
न्य्स्_5,2.12: हीनम् अन्यतमेनाप्य् अवयवेन न्यूनम् ॥
प्रतिज्ञादीनाम् अवयवानाम् अन्यतमेनाप्य् अवयवेन हीनं न्यूनं निग्रहस्थानम्, साधनाभावे साध्यासिद्धिर् इति

11.13

********************** न्य्स्भ्_5,2.13 **********************
% प्.1186
न्य्स्_5,2.13: हेतूदाहरणाधिकम् अधिकम् ॥
एकेन कृतत्वाद् अन्यतरस्यानर्थक्यम् इति, तद् एतन् नियमाभुपगमे वेदितव्यम् इति

11.14

********************** न्य्स्भ्_5,2.14 **********************
% प्.1187
न्य्स्_5,2.14: शब्दार्थयोः पुनर् वचनं पुनरुक्तम् अन्यत्रानुवादात् ॥
अन्यत्रानुवादात् शब्दपुनरुक्तम् अर्थपुनरुक्तं वा, नित्यः शब्दो नित्यः शब्द इति शब्दपुनरुक्तम्। अर्थपुनरुक्तम् --- अनित्यः शब्दो निरोधधर्मको ध्वनिर् इति।
अनुवादे त्व् अपुनरुक्तं शब्दाभ्यासाद् अर्थविशेषोपपत्तेः। यथा हेत्वपदेशात् प्रतिज्ञायाः पुनर् वचनं निगमनम् इति

11.15

********************** न्य्स्भ्_5,2.15 **********************
न्य्स्_5,2.15: अर्थाद् आपन्नस्य स्वशब्देन पुनर्वचनम् ॥
पुनरुक्तम् इति प्रकृतम्। निदर्शनम् --- उत्पत्तिधर्मकत्वाद् अनित्यम् इत्य् उक्त्वा अर्थाद् आपन्नस्य यो ऽभिधायकः शब्दस् तेन स्वशब्देन ब्रूयाद् अनुत्पत्तिधर्मकं नित्यम् इति,
% -पन्नस्य यो ... नित्यम् इति,] प्.1188
तच् च पुनरुकतं वेदितव्यम्। अर्थसम्प्रत्ययार्थे शब्दप्रयोगे प्रतीतः सो ऽर्थो ऽर्थाप्त्त्येति

11.16

********************** न्य्स्भ्_5,2.16 **********************
% प्.1189
न्य्स्_5,2.16: विज्ञातस्य परिषदा, त्रिर् अभिहितस्याप्य् अप्रत्युच्चारणम् अननुभाषणम् ॥
विज्ञातस्य वाक्यार्थस्य परिषदा, प्रतिवादिना त्रिर् अभिहितस्य यद् अप्रत्यौच्चारणं तद् अननुभाषणं नाम निग्रहस्थानम् इति। अप्रत्युच्चारयन् किमाश्रयं परपक्षप्रतिषेधं ब्रूयात्

11.17

********************** न्य्स्भ्_5,2.17 **********************
% प्.1191
न्य्स्_5,2.17: अविज्ञातं चाज्ञानम् ॥
विज्ञातार्थस्य परिषदा, प्रतिवादिना त्रिर् अभिहितस्य यद् अविज्ञातं तद् अज्ञानं नाम निग्रहस्थानम् इति। अयं खल्व् अविज्ञाय कस्य प्रतिषेधं ब्रूयाद् इति

11.18

********************** न्य्स्भ्_5,2.18 **********************
न्य्स्_5,2.18: उत्तरस्याप्रतिपत्तिर् अप्रतिभा ॥
परपक्षप्रतिषेध उत्तरम्, तद् यदा न प्रतिपद्यते तदा निगृहीतो भवति

11.19

********************** न्य्स्भ्_5,2.19 **********************
% प्.1192
न्य्स्_5,2.19: कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः ॥
यत्र कर्तव्यं व्यासज्य कथां व्यवच्छिनत्ति --- इदं मे करणीयं विद्यते, तस्मिन् अवसिते पश्चात् कथयामीति, विक्षेपो नाम निग्रहस्थानम्। एकनिग्रहावसानायां कथायां स्वयम् एव कथान्तरं प्रतिपद्यत इति

11.20

********************** न्य्स्भ्_5,2.20 **********************
% प्.1193
न्य्स्_5,2.20: स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥
यः परेण चोदितं दोषं स्वपक्षे ऽभ्युपगम्यानुद्धृत्य वदति --- भवत्पक्षे ऽपि समानो दोष इति,
% दोष इति,] प्.1194
स स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषं प्रसञ्जयन् परमतम् अनुजानातीति मतानुज्ञां नाम निग्रहस्थानम् आपद्यत इति

11.21

********************** न्य्स्भ्_5,2.21 **********************
% प्.1195
न्य्स्_5,2.21: निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥
पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः, तस्योपेक्षणं निग्रहस्थानं प्राप्तो ऽसीत्य् अननुयोगः। एतच् च कस्य पराजय इत्य् अनुयुक्तया परिषदा वचनीयम्, न खलु निग्रहं प्राप्तः स्वकौपीनं विवृणुयाद् इति

11.22

********************** न्य्स्भ्_5,2.22 **********************
% प्.1196
न्य्स्_5,2.22: अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ॥
निग्रहस्थालक्षणस्य मिथ्याध्यवसायाद् अनिग्रहस्थाने निगृहीतो ऽसीति परं ब्रुवन् निरनुयोज्यानुयोज्गान् निगृहीतो वेदितव्य इति

11.23

********************** न्य्स्भ्_5,2.23 **********************
% प्.1197
न्य्स्_5,2.23: सिद्धान्तम् अभ्युपेत्यानियमात् कथाप्रसङ्गो ऽपसिद्धान्तः ॥
कस्यचिद् अर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययाद् अनियमात् कथां प्रसञ्जयतो ऽपसिद्धान्तो वेदितव्यः। यथा न सद् आत्मानं जहाति, न सतो विनाशो, नासद् आत्मानं लभते, नासद् उत्पद्यत इति सिद्धान्तम् अभ्युपेत्य स्वपक्षं व्यवस्थापयति --- एकप्रकृतीदं व्यक्तं विकाराणाम् अन्वयदर्शनात्। मृदन्वितानां शरावादीनां दृष्टम् एकप्रकृतित्वम्, तथा चायं व्यक्तभेदः सुखदुःखमोहान्वितो दृश्यते। तस्मात् समन्वयदर्शनात् सुखादिभिर् एकप्रकृतीदं विश्वम् इति। एवम् उक्तवान् अनुयुज्यते --- अथ प्रतृतिर् विकार इति कथं लक्षितव्यम् इति। यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते, सा प्रकृतिः। यद् धर्मान्तरं प्रवर्तते निवर्तते वा स विकार इति। सो ऽयं प्रतिज्ञातार्थविपर्यासाद् अनियमात् कथां प्रसञ्जयति। प्रतिज्ञातं खल्व् अनेन --- नासद् आविर्भवति,
% प्.1198
न सत् तिरोभवतीति। सदसतोश् च तिरोभावाविर्भावम् अन्तरेण न कस्यचित् प्रवृत्तिः प्रवृत्त्युपरमश् च भवति। मृदि खल्व् अवस्थितायां भविष्यति शरावादिलक्षणं धर्मान्तरम् इति प्रवृत्तिर् भवति, अभूद् इति च प्रवृत्त्युपरमः। तद् एतद् मृद्धर्माणाम् अपि न स्यात्। एवं प्रत्यवस्थितो यदि सतश् चात्महानम् असतश् चात्मलाभम् अभ्युपैति, तद् अस्यापसिद्धानतो निग्रहस्थानं भवति। अथ नाभ्युपैति, पक्षो ऽस्य न सिध्यति

11.24

********************** न्य्स्भ्_5,2.24 **********************
% प्.1199
न्य्स्_5,2.24: हेत्वाभासाश् च यथोक्ताः ॥
हेत्वाभासाश् च निग्रहस्थानानि। किं पुनर् लक्षणान्तरयोगाद् हेत्वाभासा निग्रहस्थानत्वम् आपन्नाः यथा प्रमाणानि प्रमेयत्वम् इत्य् अत आह --- यथोक्ता इति। हेत्वाभासलक्षणेनैव निग्रहस्थानभाव इति।
% प्.1200
त इमे प्रमाणादयः पदार्था उद्दिष्टा लक्षिताः परीक्षिताश् चेति

मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Edition: Taranatha Nyaya-Tarkatirtha Calcutta : Metropolitan Printing & Publ. 1936-1944 (Calcutta Sanskrit Series, 18 & 19) · Data entry Indology Student Team, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc