न्यायसूत्र (टीका सहित) · अध्याय 9
इति श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्तिकतात्पर्यटीकायां
तृतीयो ऽध्यायः समाप्तः ॥
अत्र तृतीये ऽध्याये प्रथमे आन्हिके 75 सूत्राणि, द्वितीये च 73 सूत्राणि इति आदित आरभ्य मिलितवा 148 सूत्राणि ।
3 अ0 1 आन्हिके 9 प्रकरणानि, 3 आन्हिके 9 प्रकरणानि ।
मिलित्वा 16 प्रकरणानि ।
आदितः 42 प्रकरणानि ।
चतुर्थाध्यायस्याद्यमाह्निकम् ॥
न्य्स्_4,1.1: प्रवृत्तिर्यथोक्ता ॥
अथ मनः परीक्षानन्तरमुद्देशलक्षणक्रमानुरोधेन प्रवृत्तिः परीक्षितुं युक्ता, सा कस्मान्न परीक्ष्यत इति शङ्कानिराकरणाय सूत्रमित्याह ।
मनसो ऽनन्तरमिति ।
( 446।3 ) प्रवृत्तिर्यथोक्ता (सू.1) ॥
अस्य शेषस्तथा परीक्षिता यथा लक्षिता तथा परीक्षितेत्यर्थः ।
पृच्छति किं पुनरिति ।
प्रमेयमात्मादि मनोन्तं परीक्षितं, न पुनः प्रवृत्तेः स्वरूपं वा कार्यं वा परीक्षितामिति भावः ।
उत्तरम् ।
यावद्धर्माधर्माश्रयमिति ।
एकद्रव्येत्येकस्मिन्नेवात्मनि वर्त्ततैत्यर्थः ।
अवस्थिता न तु बुद्ध्यादिवदाशुतरविनाशिनीत्यर्थः ।
आत्मसमवायादिति ।
कार्यत्वे सतीति द्रष्टव्यं विशेषणम् ।
तेन न सामान्यविशेषाभ्यां व्यभिचारः ।
प्रायणादीत्यादिशब्देन सुखादिक्षयो ऽपवर्गश्च गृह्यते ।
संसारापवर्गहेतुभूतात्मसद्भावासद्भावाभ्यामिति शेषः ।
एवमाद्युक्तमिति ।
आदिग्रहणेनात्मसमवेता प्रवृत्तिर्न तु पृथिव्याद्याश्रयेति दर्शयति
न्य्स्_4,1.2: तथा दोषाः ॥
प्रवृत्तेरनन्तरास्तर्हि दोषाः परीक्ष्यन्तामित्यत आह ।
तथा दोषाः
(सू. 2) ॥
उक्ता इति शेषः ।
प्रवृत्तितुल्यतया प्रवृतिपरीक्षयैव तावद्दोषाणां सत्त्वं परीक्षितमित्यर्थः ।
कार्यरूपप्रवृत्तितुल्यतामाह बुद्धिसमानाश्रयत्वादिति ।
अभीष्टविषयानुचिन्तनप्रभवाः खल्विमे दोषा नानुचिन्तनबुद्धिव्यधिकरणा भवितुमर्हन्ति, तथा सति चैत्रस्याभीष्टविषयानुचिन्तने मैत्रस्य रागः प्रवर्त्तेत ।
तस्माद्बुद्धिसमानाश्रयत्वादात्मगुणाः
आत्मगुणत्वाच्च कार्यप्रवृत्तितुल्यतया प्रवृत्तिपरीक्षयैव त्तावद्दोषाः परीक्षिता इत्यर्थः ।
इदं च प्रवृत्तितुल्यत्वमपरं दोषाणामित्याह ।
संसारस्यानादित्वादिति ।
एतच्चोक्तं वीतरागजन्मादर्शनादित्यनेन ।
तथोद्देशपरीक्षापरेण द्वितीयसूत्रेण यत्तेषां दोषाणां परीक्षितं तदाह ।
सम्यग्ज्ञाना च्चेति ।
स्यादेतत् ।
गुणत्वेसत्यात्मगुणा इति सिद्ध्यति तदेव तु कुत इत्यत आह ।
कार्यत्वेसतीति ।
( 440।1 ) इन्द्रियान्तरं मन इति मानसप्रत्यक्षैश्चात्मत्वसुखत्वादिभिरनैकान्तित्वं मा भूदत उक्तं कार्यत्वे सतीति विशेषणम् ।
अचाक्षुषप्रत्यक्षत्वादित्यत्रापि कार्यत्वे सतीति विशेषणमनुषञ्जनीयम्
न्य्स्_4,1.3: तत् त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ॥
न्य्स्_4,1.4: नैकप्रत्यनीकभावात् ॥
तदेवं बहु परीक्षितं दोषाणां,
यत्तु किं चिद्दोषाणामपरीक्षितमस्ति तत्परीक्षितुमुपक्रमते ।
प्रर्वतनालक्षणा इत्युक्तं तथा च मानादय
इति ।
रागद्वेषमोहा एव दोषा न च मानादयस्तेष्वन्तर्भवन्ति बुद्धिव्यपदेशभेदात् ।
प्रवर्त्तनालक्षणत्वं तु तेषामप्यस्ति तस्मादतिव्यापकत्वान्न लक्षणमेतद्युक्तं युक्तत्वे वा लक्षणसूत्रे मानादयो ऽपि दोषवत्पठनीया इति पूर्वपक्षः ।
सिद्धान्तवाद्याह नोपसंख्यायन्ते संगृहीतत्वादिति ।
रागद्वेषमोहानां सामान्यत्रयाणां कामादयो विशेषास्तथा चोपपन्नो बुद्धिव्यपदेशभेदः सङ्ग्रहश्चेति भावः ।
अस्ववस्त्वादानेच्छा स्वामिदानपूर्विका स्पृहा ।
पुनर्भवप्रार्थना तृष्णाहेतुभूता प्रवृत्तिद्वारेण पुनर्भवप्रतिसंधानस्येति ।
प्रमाणविरुद्धेति।(449।1) अन्यायेनेत्यर्थः ।
परस्य ज्ञातेर्ममाप्येतदिति बुद्धिरभिनिवेशः
तत्प्रतिषेधाभिप्रापयो ज्ञानिपिशाचस्येर्ष्येत्युच्यते ।
अमर्षलक्षणो द्वेष इति ।
( 450।1 ) ननु कृतापकारस्य या असहिष्णुता सो ऽमर्ष इति द्वेषस्यैव विशेष इत्युक्तं कथं द्वेषसामान्यमुच्यत
इत्यत आह ।
असहिष्णुता दुःखस्य दुःख साधनानां चेति ।
मिथ्याप्रतिपत्तिलक्षणो मोह इति ।
संशयोपि हि यथाबस्थिते पदार्थे अयथाभावप्रतिपत्ति भवति, व्यवस्थितं हि वस्तु अवयवस्थिततया गृह्णाति संशयः एवं पण्डितमानिनो मीमांसकदुर्दुरूढस्याभिमान इति ॥ 3-4 ॥
न्य्स्_4,1.5: व्यभिचारादहेतुः ॥
एकियोनयो हि रूपादयो न चैषामेकत्वं, यदि पुनस्तत्र रूपादीनां परस्परभेदसिद्धये कश्चित्कारणभेद आस्थीयते स रागादिष्वपि समान इति भावः ।
आर्यप्रज्ञेति भाष्यम् ।
आरात्तत्त्वाद्याता आर्या ।
आर्या चासौप्रज्ञा चेति आर्यप्रज्ञा ।
सम्यग्बोधः सम्बोधः
न्य्स्_4,1.6: तेषां मोहः पापीयान् नामूढस्येतरोत्पत्तेः ॥
नासति निदानोच्छेदे निदानिनामुच्छेद इति--रागद्वेषयोर्निदानिनोरुच्छेदाय तन्निदानत्वं मोहस्य दर्शयति सति चार्थान्तरत्व
इति ।
तेषां मोहः पापीयान् कुतः नामूढस्येतरोत्पत्तेः
अमूढस्येतरोत्पत्तिर्न भवति यत इत्यत्रार्थे नामूढस्येतरोत्पत्तेरित्युक्तम् ।
मोहाद्विषयस्य सुखसाधनत्वानुस्मृतिः
दुःखसाधनतानुस्मृतिश्च सङ्कल्पः ।
रञ्जनीयाः कोपनीया इति कर्तरि कृत्यो भव्यगेयादिपाठात् ।
वार्तिकं मूढोमुह्यतीति ।
(451।3) मूढ इति मोहवासनावान् ।
भवतु निदानोच्छेदादुच्छेदो निदानिनः निदानस्य कुत उच्छेद इत्यत आह ।
तत्वज्ञानाच्चेति ।
प्रतिपक्षाभ्यासान्निदानोच्छेद
इत्यर्थः
न्य्स्_4,1.7: निमित्तनैमित्तकभावादर्थान्तरभावो दोषेभ्यः दोषनिमित्तित्वादिति हेतोरप्रयोजकत्वमाह ।
न दोषलक्षणावरोधादिति ।
तथाभावस्तज्जीतायत्वमतथाभावो ऽतज्जातीयत्वम् ॥ 7-8 ॥
न्य्स्_4,1.9: निमित्तनैमित्तकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ॥
अनैकान्तिकत्वमाह ।
निमित्तनैमित्तिकोपपत्तेश्चेति
न्य्स्_4,1.10: आत्मनित्यत्वे प्रेत्यभावसिद्धिः ॥
उत्पादोच्छेदौ प्रेत्यभावो न चात्मनो नित्यस्य तौ स्तः तस्मादस्मिन् दर्शने न युक्तः प्रेत्यभावः ।
वैनाशिकानां तु सत्त्वोत्पादनिरोधाभ्यां युक्तः प्रेत्यभावः ।
प्रेत्येति ल्यब् मुखं व्यादाय स्वपितीतिवद् द्रष्टव्यः ।
तथा च भूत्वा प्रायणमिति भवनप्रायणयोः समानकर्तृकत्वमप्युपपन्नमिति पूर्वपक्षः ।
पूर्वाभ्यस्तसूत्रे आत्मनित्यत्वव्यवस्थापनात् सत्त्वोत्पादोच्छेदे च कृतहानाकृताभ्यागमदोषेणाभ्युदयनिःश्रेयसार्थमप्रवृत्तिः
ऋष्युपदेशानर्थक्यप्रसङ्गश्च स्वदेहेन्द्रियबुद्धिसंवेदनासम्बन्धोत्पादविपनाशौ नित्यस्यात्मनो जन्मप्रायणे तथा चोपपन्नः प्रेत्यभाव इति सिद्धान्तः
न्य्स्_4,1.11: व्यक्ताद् व्यक्तानां प्रत्यक्षप्रामाण्यात् ॥
न्य्स्_4,1.12: न घटाद् घटानिष्पत्तेः ॥
न्य्स्_4,1.13: व्यक्ताद् घटनिष्पत्तेरप्रतिषेधः ॥
प्रेत्यभावविचारप्रस्तावेनेदमपरं विचारयति ।
येयं प्रेतयोत्पत्तिर्नाम सा कथमिति चेत् ।
अत्र हि प्रावादुकानां नानाविधा विप्रतिपत्तयः सन्ति ।
तत्राभिमतं तावत्पक्षं गृह्णाति ।
व्यक्तादिति ।
अग्रे विप्रतिपत्तीर्निवारयिष्यति ।
शरीरेन्द्रियविषयोपकरणाधारमिति एकवद्भावेन नपुंसकत्वम् ।
प्रत्यक्षगृहीतसम्बन्धप्रभवमनुमानं प्रत्यक्षेप्युपदिशति प्रतयक्षमूलकत्वादिति ।
ननु भवतु शरीरं पृथिव्यादि च व्यक्तं महत्त्वानेकद्रव्यवत्त्वरूपविशेषेभ्यः तन्मूलकारणं परमाणवः कथं व्यक्ता इत्यत आह ।
तत्सामान्यादिति ।
रूपादिमत्सामग्रीपूर्वकं गवादि शरीरमित्यर्थः ॥ 11-13 ॥
न्य्स्_4,1.14: अभावाद् भावोत्पत्तिर् नानुपमृद्य प्रादुर्भावात् ॥
अतः परं प्रावादुकानां तैर्थिकानां च दर्शनान्युपन्यस्तानि कानि चित्प्रतिषिध्यन्ते तत्र कानि चिदभ्यनुज्ञायन्त इति ( 454।3 ) तत्र तावदेके प्राहुरभावाद्भावोत्पत्तिः कुतः नाननुपमृद्य प्रादुर्भावो यतः तस्मादित्यर्थः ।
विश्यं हि शून्यताया एव जायते ।
एवं किल श्रूयते असदेवेदसग्र आसीदिति ।
अत एवाद्याप्यसत
एव जन्म दृश्यते न सतः तत्कस्य हेतोः अभावस्तस्या कारणमिति ।
उपलक्षणं चेदं नानुपमृद्य प्रादुर्भावादितिद्व
असत उत्पादाभित्यपि द्रष्टव्यम् ।
तस्मादसदुपादानं विश्वमिति सिद्धम्
न्य्स्_4,1.15: व्याघातादप्रयोगः ॥
तत्र सिद्धान्तीप गूढाभिसन्धिराह उपमृद्यप्रादुर्भवतीति व्याघात इति
न्य्स्_4,1.16: नातीतानागतयोः कारकशब्दप्रयोगात् ॥
तदभिसन्धिमविद्वान् पूर्वपक्षी दूषयति ।
न अतीतानागतयोः कारकशब्दप्रयोगादिति ।
उपमृद्य प्रादुर्भवतीति भाक्त एष प्रयोगो न मुख्य इत्यर्थः ।
भिन्नस्य कुम्भस्य कपालानीति तु यद्यपि न साक्षात्कारकशब्दस्तथापि षष्ठ्या सम्बन्धाभिधानात् तस्य क्रियामर्भत्वात्क्रियायाश्च कारकनान्तरीयकत्वात्पारम्पर्येण कारकशब्दता द्रष्टव्या ।
पृच्छति कः पुनरङ्कुरेण बीजोपमर्दार्थः ।
(445।2) का पुनर्भक्तिः यया योगादुपसंगृह्णाति बीजमङ्कुर इति भवति प्रयोग इत्यर्थः ।
उत्तरम् ।
अनन्तरोत्पत्त्यर्थः उपमर्द्येपमर्दयोरप्यानन्तर्यमनयोरपीति एतत्सामान्यमित्यर्थः ।
पुनरपि गूढाभिसन्धिरेव सिद्धान्ती उक्तं स्मारयति ।
अत्रोक्तमिति ।
अभिप्रायमुद्घाटयति ।
यदपीदमुच्यत इति ।
नौपचारिकं प्रयोगं व्यासेधामः कारकशब्दानां, किन्तु यथा भविष्यन्नङ्कुरः सम्प्रति असन्न बीजमुपमृद्गाति एवं बीजाभावो ऽसन्नाङ्कुरं करोतीति ब्रूमः ।
तदिदमाह अपि त्वसतः कारणादुत्पत्तिर्न युक्तेति ।
ननूक्तमुपमृद्य प्रादुर्भावादित्यनेनानन्तर्यं बीजविनाशाङ्कुरोत्पादयोः सूचितं बीजविनाशानन्तर्याच्चाङ्कुरोत्पादस्य बीजविनाशकार्यत्वमित्यत आह ।
यत्पुनरेतदानन्तर्यसामर्थ्यादिति ।
अनन्यप्रयुक्तमानन्तर्यं कार्यकारणभावसाधनम्
इदन्तु व्यूहानन्तर्यप्रयुक्तमिति नाभावस्य कारणत्वं गमयितुमर्हतीत्यर्थः ।
यदि व्यूहान्तरकार्यो ऽङ्कुरो ऽथ कस्मादविनष्टे पूर्वव्यूहे न भवतीत्यत आह ।
न चाविनष्टे इति ।
ननु यदि बीजावयवव्यूहान्तरमङ्कुरोत्पादहेतुर्न बीजं कस्मादङ्कुरार्थिनः कृषीवला बीजमुपाददतैत्यत
आह ।
एवं चेति ।
बीजावयवोपादाने अवर्जनीयतया बीजमागच्छदशक्यप्रत्याख्यानमित्यर्थः
न्य्स्_4,1.17: न विनष्टेभ्यो ऽनिष्पत्तेः ॥
तदेवमर्थं परिशोध्यात्रैवार्थे सूत्रं योजयति ।
अस्य चार्थस्येति ।
न विनष्टेभ्यो बीजेभ्यो ऽङ्कुरस्यानिष्पत्तेः ।
बीजविनाशश्चेदङ्कुरोत्पादहेतुरथ विनष्टे बीजे तदवयवेषु परस्परविच्छिन्नेष्वसति तेषां व्यूहान्तरे कस्मादङ्कुरो न भवति भवति तु सति तेषां व्यूहे तस्माद्विनष्टेभ्यो ऽङ्कुरानुत्पत्तेरसति व्यूहे न बीजनाशः कारणमिति सूत्रार्थः
न्य्स्_4,1.18: क्रमनिर्देशादप्रतिषेधः ॥
क्रमनिर्द्देशादित्यस्य हेतोरस्मत्पक्षे ऽप्यप्रतिषेधः ।
तत्राप्यानन्तर्यस्य तुल्यत्वात् ।
तथापि विनिगमनायां को हेतुरित्यत आह ।
अभावश्चेदङ्कुरोत्पादकारणं स्यात् ।
अनुपाख्येय इति शेषः ।
न ह्यनन्वयविनष्टयोः शालियवबीजयोः कश्चिद्विशेषो ऽस्ति येनैकस्माच्छाल्यङ्कुरो नान्यस्मादिति ।
को नु खल्वभावानामस्त्याजानतो भेद इति ।
अपि च कारणानां शक्तिभेदात्कार्याणि भिन्नशक्तियुक्तानि ।
यदा तु कारणानामभेदस्तदा कुतस्तच्छेक्तीनां भेदः तथा च कार्याणि भिन्नशक्तीनि न स्युरित्याह ।
अनन्वितं च कार्यं सर्वाभिरिति ।
यदप्यसत उत्पादादभावस्योपादानत्वं तदपि कार्याणां भिन्नत्वेन भिन्नशक्तिकत्वेन च प्रयुक्तम् ।
तत्प्रागभावानां स्वाभाविकभेदविरहात् ।
अपि च प्रागभावानामनादित्वेन कार्योत्पादस्याप्यनादित्वप्रसङ्गः
भावरूपकारणसहकारित्वं त्वभावस्य न निषिध्यते अस्मदभिमतस्योपाख्येयस्य ।
अत
एव पाकजादीनांरूपादीनां पूर्वरूपादिध्वंसनिमित्तत्वमप्युपेयते ।
श्रुतिस्तु पूर्वपक्षाभिप्राया, तथा च सिद्धान्तश्रुत्यन्तरं सदेव सोम्येदमग्र आसीदिति कथमसतः सज्जायेतेति ।
शून्यताविवर्तो विश्वप्रपञ्च
इति तु दर्शनमसत्ख्यात्यनिर्वचनीयख्यातिनिराकरणेनापाकृतम् ।
अपि च शून्यत्वे ख्यातुरभावात्ख्यातरेभावः ।
तस्मान्न शून्यतोपादानस्तद्विवर्तो वा विश्वप्रपञ्च इति सिद्धम्
न्य्स्_4,1.19: ईश्वरः कारणम्-- पुरुषकर्माफल्यदर्शनात् ॥
अथापर आह--- इश्वरः कारणं पुरुषकर्माफल्यदर्शनात्
(सू. 19) मा मूदयं नामरूपप्रपञ्चः शून्यतोपादानो ऽपि तु ब्रह्मोपादानोभविष्यति, ब्रह्मैवहि प्रपञ्चरूपेण परिणमते मृत्तिकेव घटशरावोदञ्चनादिभावेन ।
न चैवं नित्यत्वव्याघातः ।
परिणामे ऽपि तत्त्वाविघातात् तल्लक्षणत्वाच्च नित्यतायाः ।
यदाह ऽयस्मिंस्तत्त्वं न विहन्यते तदपि नित्यऽमित्येकं दर्शनम् ।
अपरं च ब्रह्मैवानिर्वचनीयानाद्यविद्योपधानान्नामरूपप्रपञ्चभेदेन विवर्त्तते सुखमिवैकमनेकमणिकृपाणादिभेदान्नैकविधप्रतिबिम्बभेदेनेति,
तदेतद्दर्शनद्वयमनेन सूचितम् ।
ईश्वरो ब्रह्म ईशनायोगात् ।
चेतनाशक्तिः क्रियाशक्तिश्चेशना ।
सा चास्ति ब्रह्मणीति ब्रह्मश्वरः कारणं जगतः ।
श्रूयते हि तदैक्षत बहुस्यां प्रजायेयेत्यादि ।
सा चेयं श्रुतिश्चेतनस्य जगत्कारणतामाह ।
न चाभावो वा प्रधानं वा परमाणवो वा चेतयन्ते ।
ननु जीवा एव चेतनास्तत्कर्मनिमित्तोनामरूपप्रपञ्चो भविष्यति, कृतमत्र भगवतेश्वरेणेत्यत उक्तं पुरुषकर्माफल्दर्शनादिति पुरुषश्चेत्
चेतयेनैवं निष्फलं कर्मारभेद, निष्फलं विद्वान् प्रवर्त्तमानः कथं चेतनो नामद्व तस्मात्पुरूषकर्माफल्यदर्शनादीश्वरः कारणमित्यर्थः
न्य्स्_4,1.20: न पुरुषकर्माभावे फलानिष्पत्तेः ॥
तदेतद्दर्शनद्वयमपाकरोति ।
न पुरुषकर्माभावो फलानिष्यतेः (सू. 20) ॥
इदमात्राकूतम् न तावन्मृत्तिकेव नामरूपप्रपञ्चरूपेण ब्रह्म परिणमते ।
तद्धि सर्वात्मना वा परिणमते एकदेशेन वा, तत्र सर्वात्मना परिणामे तत्त्वविघातादनित्यत्वम् ।
एकेदेशेन परिणामे सावयवत्वात्तदेवानित्यत्वम् ।
अथ तत्वेनानुगतस्य परिणामः तच्च ब्रह्म ? न तर्हि ब्रह्मणः परिणामः ।
न च निर्भागस्यैकस्य स्वसम्वेदनप्रत्यक्षस्य विपरीतज्ञानगोचरत्वसम्भवः ।
सामान्यतो ग्रहे रूपविशेषाग्रहे च तदन्यरूपारोपेण विभ्रमो दृष्टः शुक्तिकादौ, न तु जातु शुक्तिरूपं विद्वान रजतमिति विपर्यस्यति ।
न च निरंशे स्वसंवेदनप्रत्यक्षे ब्रह्मणि तत्स्वरूपाग्रहः सामान्यग्रहो वा भवति ।
तस्मादीश्वरो जगद्भेदेन विवर्ततैत्ययुक्तम् ।
निमित्तं तु स्यादीश्वरो जगतः, स चेदनपेक्ष एव जगत्कारणमित्युच्यते तत्रेदमुपतिष्ठते ।
नपुरुषकर्माभावे फलानिष्पत्तेरिति ।
अस्य व्यतिरेकमाह वार्तिककारः ।
ईश्वरश्चेत्कारणं भवेदिति ।
( 456।11 ) एकरूर्पं कार्यं स्यादित्याह ईश्वरस्येति ।
कर्मणीश्वरो ऽनीश्वरः स्यात् ।
तथा च तत्कारणानि नेश्वरेण प्रयुज्यन्तैत्यनेकान्तो वक्ष्यमाणो हेतुरित्यर्थः
न्य्स्_4,1.21: तत्कारितत्वादहेतुः ॥
तदेवमीश्वरोपादानत्त्वं च ब्रह्मविवर्तत्वं च निरपेक्षेश्वरनिमित्तत्वं च निराकृत्पयाभिमतं पक्षं गृह्णाति ।
तत्कारितत्वादहेतुः (सू. 21 ) ॥
परमाणूपादानस्य जगतः पुरुषकर्मापेक्ष
ईश्वरो निमित्तकारणं यच्च तेनापेक्षणीयं पुरुषकर्म तदपीश्वरनिमित्तकमेव ।
न च यदपेक्ष्यते तस्यानिमितत्वमित्युपदिष्टात्प्रवेदयिष्यामः ।
तस्मादीश्वरकारितत्वात्पुरुषकारस्य तत्सहाय
ईश्वरो निमित्तकारणं जगत इत्यस्य पक्षस्य निराकरणे पुरुषकर्माभावे फलानिष्पत्तेरित्यहेतुः ।
निरपेक्षेश्वरनिमित्तकत्त्वनिराकरणे हेतुरेवेत्यर्थः ।
भाष्यं गुणविशिष्टमात्मान्तरमिति ।
गुणानीश्वरस्य ज्ञानादीनुपपादयिष्यति वार्त्तिककारः ।
आत्मकल्पादित्यत्रात्मप्रकारादात्मजातीयादिति यावत् ।
संसारवद्भ्य आत्मभ्यो विशेषमाह ।
अधर्मेति ।
नन्वस्य कर्मानुष्ठानाभावात् कुतो धर्मः तथा चाणिमादिकमैश्वर्यं कार्यरूपं विनैव कर्मणेत्यकृताभ्यागमप्रसङ्ग
इत्यत आह ।
संकल्पानुविधायी चास्य धर्म
इति ।
प्रवर्त्तयतु किमेतावतेत्यत आह ।
एवं च स्वकृताभ्यागमस्यालोपेनेति ।
मा भूद्बाह्यानुष्ठानं संकल्पलक्षणानुष्ठानजनितधर्मफलमस्यैश्वर्यं जगन्निर्माणफलमिति नाकृताभ्यागमप्रसङ्ग
इत्यर्थः ।
स्यादेतत् ।
प्रयोजनं विना न प्रेक्षावतां प्रवृत्तिः न च प्राप्तसकलप्राप्तव्यस्यास्ति प्रापणीयं किं चिदीश्वरस्य, तस्मात् कृतमस्य जगन्निर्माणेनेत्यत
आह ।
आप्तकल्पश्चेति ।
माभूदस्य भगवतः स्वार्थः परानुग्रहार्थं जगन्निर्माणे प्रवर्त्स्यतीत्यर्थः ।
अत्रैव दृष्टान्तमाह ।
अयं यथा पितुरपत्यानाम् ।
अयं पिता स्वापत्यानां यथा पितेत्यर्थः ।
दार्ष्टान्तिके योजयति तथा पितृभूत ईश्वर इति ।
नन्वात्मान्तराण्यनित्त्यज्ञानयोगीनि दृष्टानि तद्वैलक्षण्यादीश्वरोनात्मजातीयो भवितुमर्हतीत्यत आह न चात्मकल्पादिति ।
यद्यप्यात्मान्तराण्यनित्यज्ञानयोगीनि अयं च नित्यज्ञानादियुक्तः तथाप्यात्मजातीय एव बुद्व्यादिगुणयोगित्वात् ।
अन्यथा तोयादिपरमाणूनामतोयत्वादिप्रसङ्गो नित्यरूपादियोगात् ।
करकादिगतानां रूपादीनामनित्यत्वोपलब्धेरिति ।
यदि चायं बुद्ध्यादिगुणैर्नोपाख्यायेन प्रमाणाभावानुपपन्न एव स्यादित्याह बुद्ध्यादिभिश्चेति ।
स्यादेतत् यदि कारुण्यादीश्वरो जगन्निर्माणे प्रवर्त्तते हन्त भोः सुखिनमेव सृजेन्न तु दुःखिनम् ।
न च क्षेत्रज्ञगतधर्माधम्रसहकारितया निर्माणवैचित्र्यं वाच्यं, धर्मस्य तदनधिष्ठितस्य स्वकार्याकरणेन कारुणिकेन तदधिष्टानायोगात्--तस्मात्सुखिदुःख्यादिभेदेन जगद्वैचित्र्यदर्शनान्नानुकम्पाप्रयुक्त ईश्वरः करोतीत्यत आह ।
स्वकृताभ्यागमालोपेन प्रवर्तमानस्येति ।
अयमभिसन्धिः ।
कारुणिको ऽप्ययमात्मान्तरातिशायितमहिमापि न वस्तूनां सामर्थ्यमन्यथा कर्तुं पारयति ।
तस्मादधर्मेणोत्पत्तिमता(पि) नेश्वरप्रभावादपि नित्येन भवितुं युक्तम् ।
न च स्वफलविरोधिना फलमप्रदाय विनंष्टुमपि शक्यम् ।
अतः क्षेत्रज्ञानां नियतिमलङ्घयता ईश्वरेण नाधर्मः शक्यो ऽनधिष्ठातुम्,
तस्मात्कारुणिको ऽप्ययं वस्तुस्वभावमनुविधीयमानो धर्माधर्मसहकारी जगद्वैचित्र्यं विधत्ते तदिदमुक्तं स्वकृताभ्यागमालोपेन प्रवर्त्तमानस्येति ।
पुरुषैर्यत्कर्म कृतं तत्फलाभ्यागमालो पेन प्रवर्त्तमानस्येत्यर्थः ।
वार्तिक ईश्वरप्रक्रियेति ।
( 457।9 ) प्रक्रिया प्रकरणं ईश्वरनिमित्तत्वविचार
इत्यर्थः ।
अथ विद्यमानः प्रतिबन्धान्न प्रवर्त्तयतीति ।
( 458।12 ) सुखाय पुरुषार्थेन प्रधाने प्रवर्तयितव्ये अधर्मः पुरुषार्थस्य प्रतिबन्धकः-- एवं दुःखाय पुरुषार्थेन प्रधाने प्रवर्त्तयितव्ये अधर्मः पुरुषार्थस्य प्रतिबन्धकः एवं दुःखाय पुरुषार्थेन प्रधाने प्रवर्तयितव्ये धर्म इत्यर्थः ।
न चायं हेतुस्तस्मान्निवर्त्तत इति ।
(459।14) अयमेवाचेतनत्वलक्षणो हेतुः क्षीरान्न निवर्त्तत इत्यर्थः ।
परिस्पन्दःक्रिया सा मूर्त्यनुविधायिनी नामूर्ते सर्वगत ईश्वरे संभविनी इति मन्वानः शङ्कते ।
क्रियानावेशादकारणमिति चेदिति ।
(460।16) अपरिस्पन्दा अपि ज्ञानचिकीर्षाप्रयत्ना आख्यातपदवाच्यतया भवन्ति क्रिया ईश्वरैत्यभिसंधिना परिहारः ।
न विकल्पानुपपत्तेः ।
यदा च युगपदनेकानि द्रव्याणि संहन्यते तदासाधारणकार्यव्यावृत्तेभ्यः संयोगेभ्यः इति ।
(461।8) असाधारणं कार्यम्--एकैकस्य तन्तुद्वयसंयोगस्य द्वितन्तुकं तस्माद्व्यावृत्तेभ्यः संयोगेभ्यः सह साधारणस्यैव कार्यस्य पटलक्षणस्योत्पादादित्यर्थः ।
न केवलमुत्पन्नक्रियेषु क्रियोपरतौद्रव्योत्पादः क्व चिदनुत्पन्नक्रियेष्वपि द्रव्येष्ववस्थितसंयोगेभ्यः पूर्वद्रव्योपरतौ द्रव्यान्तरोत्पाद इत्याह ।
एकावयवविभागे त्विति ।
तुशब्देन पूर्वस्मादुत्पन्नोपरतक्रियाविशेषो दर्शितः ।
किमक्रियावतामेवारम्भो नेत्याह कानि चित्पुनरिति ।
अन्यतरकर्मजान्नोदनात्संयोगान्निवृत्ते कर्मणि इतरस्मिन् द्रव्ये कर्मनिर्वृत्तिसमकालमेव द्रव्यं चोत्पद्यत इति तत्स्वाभाव्यात्प्रवर्त्ततैत्यदुष्टमिति ।
चेतनो ऽप्ययं परानुग्रहस्वभावो ऽपि वस्तुस्वभावमनुरुध्यमानः कर्माशयानुरोधेन जगद्वैचित्र्यं विधत्ते ।
न चावश्यं दुष्कृते पुंसां प्रवृत्तिं विहन्तीत्यर्थः ।
अद्यत्वे ऽपि चेतनानां विचित्रस्वभावत्वं दृष्ट्रं सदसन्मध्यमानां जनानाम् ।
अथ नित्यमैश्वर्यं धर्मवैयर्थ्यं न तद्धर्माद्भवतीति ।
( 464।3 )
ततश्चेश्वरस्यैश्वर्यं स्वकृतकर्मफलं वेदितव्यमित्ययुक्तं भाष्यमिर्तिं भावः ।
परिहरति नित्यमिति ब्रूमः ।
तस्य हि ज्ञानक्रियाशक्ती नित्ये इति ऐश्वर्यं नित्यम् ।
अणिमादिकं त्वनित्यं तदभिप्रायं च भाष्यकारस्य धर्मफलत्वाभिधानम् ।
प्रत्यात्मवृत्तिधर्माधर्मसन्निचयाधिष्ठानं धृत्यात्मवृत्तिसंकल्पानुविधायिन ईश्वरस्य धर्मस्य प्रयोजनमिति ।
अभ्युपेत्येश्वरधर्ममेतदुक्तं भाष्यकृता ।
परमार्थतस्तु नेश्वरस्य धर्मसद्भावे प्रमाणमस्ति नित्याभ्यामेव ज्ञानक्रियाशक्तिभ्यां सकलकार्योत्पादसिद्धेरित्याशयवानाह ।
न चेश्वरे धर्मो ऽस्तीति ।
बुद्धिमत्त्वात्तर्ह्यत्मान्तरमिति ।
आत्मान्तरं शरीर्यन्तरमभिप्रेतमिति ।
स च शरीरसंबन्धो वर्त्तमानः केषां चिद्यथा संसारिणां केषां चिदतीतो यथा मुक्तानां शुकप्रह्लादादीनाम् ।
तदनेनेश्वरेण बुद्धिमता सतावश्यं भाव्यं शरीरिणेति देश्यार्थः ।
नात्मान्तरं शरीर्यन्तरमित्यर्थः ।
कुतो गुणभेदात् ।
नित्याश्चेदस्य बुद्ध्यादयः कृतं शरीरग्रहणेन तदुत्पादार्थेनेति भावः ।
नन्विदमेव बुद्धिमत्कारणाधिष्ठिताः परमाणवः प्रवर्त्तन्त इति ।
पक्षधर्मताबलात्तर्कसहायान्नित्यबुद्धिमत्त्वमस्य सिद्ध्यतीत्यर्थः ।
प्रत्यर्थनियमासंभवादित्यादिना तर्कः प्रमाणसहायो दर्शितः ।
एवं तावद्गुणभेदेनाशरीरित्वमीश्वरस्य दर्शितं न चैतस्य शरीरयोगो विकल्पमपि सहतैत्याह ।
अथ बुद्धिमत्तयेति ।
( 465।4 ) अतीतानागतवर्त्तमानविषया प्रत्यक्षेति ।
साक्षात्कारवतीत्यर्थः ।
न पुनरक्षमाश्रिता नित्यत्वात् ।
उपलक्षणं चैतत् ।
नानुमानिकी चेति ।
नैन्द्रियकी नौपमानिकीत्यपि द्रष्टव्यम् ।
अक्लिष्टेति ।
( 466।4 ) क्लेशो ऽविद्या तददूषितेत्यर्थः ।
मूर्त्तिमद्द्रव्यसम्बन्धित्वादिति ।
संयोगित्वादित्यर्थः ।
तथा च न रूपादिभिर्व्याभिचारः ।
तथा च न रूपादिभिर्व्यभिचारः ।
एतावदभिप्रेतमाचार्यस्य त्रयो हि खलु भावा जगति भवन्ति प्रसिद्धचेतनकर्तृकाः
यथा प्रासादाट्टालगोपुरतोरणादयः ।
प्रसिद्धतद्विपर्ययाः ।
यथा परमाण्वाकाशादयः ।
सन्दिग्धचेतनकर्त्तृका यथा तनुगिरिमहीधरादयः ।
तत्र प्रमेयत्वाद्वादिविप्रतिपत्तेर्वा साधकबाधकप्रमाणाभावेचेतनकर्त्तृत्वे संशयः ।
न च प्रत्यक्षानुपलब्धिमात्रमत्र बाधकं भवितुमर्हति ।
स्वभावविप्रकर्षिणां सतामपि प्रत्यक्षानुपलब्धेः परमाण्वादीनाम् ।
तथा च विवादाध्यासितास्तनुतरुमहीधरादय
उपादानाभिज्ञकर्तृका उत्पत्तिमत्वात् अचेतनोपादानत्वाद्वा युदुत्पत्तिमदचेतनोपादानकं वा तत्सर्वमुपादानाभिज्ञपूर्वकं यथा प्रासादादि, तथा च विवादाध्यासितास्तनुतरुमहीधरादयस्तस्मात्तथेति ।
न चैषामुत्पत्तिमत्त्वमसिद्धम् ।
सावयवत्वेन वा महत्त्वे सति क्रियावत्त्वेन वा वस्त्रादिवत्तत्सिद्धेः ।
न चैतावता वैनाशिकानां कर्मणा चेतनेन मीमांसकानां क्षेत्रज्ञेन चेतनेन चेतनकर्त्तृत्वसिद्धेः पृथिव्यादीनां सिद्धसाधनं चैतन्ये ऽपि तेषामुपादानानभिज्ञत्वात् ।
तज्ज्ञत्वे वा स एवास्माकमीश्वरः ईदृशमस्तु सिद्धसाधनं को हे क्लेशं विना न वाञ्छितसिद्धिमिच्छेत् ।
न च साध्यहीनो दृष्टान्तः ।
पटादीनामप्युपादानाभिज्ञकुविन्दादिकर्त्तृकत्वात् ।
अत एव न विरुद्धता हेतोः, एवं हि सा भवेत्,
यद्युपादानाभिज्ञर्त्तृकाः पटादयो भवेयुः
न चैतत्परेषामपि सम्मतम् ।
स्यादेतद्
अर्थाक्षिप्तस्य विशेषस्य शरीरादिमत्त्वादेः प्रमाणविरोधाद्विरुद्धता ।
यथा तृणादिविकारकारित्वादग्निमद्धिममित्यत्र वह्निमत्वाक्षिप्ततृणादिविकारोपयुक्तवह्निगतोद्भूतोष्णस्पर्शविरुद्धशीतस्पर्शस्य प्रतयक्षेणोपलम्भाद्बाधितो विरुद्धो हेतुः ।
तथा ह्यस्य क्षित्याद्युपादानादिविषयं ज्ञानमात्ममनःसन्निकर्षशरीरादिकारणकं नासति तस्मिन् भवतीति तदनेनाक्षिप्तं,
तच्चात्र प्रमाणबाधितं, तन्निवृत्तौ च ज्ञानमस्य निर्वत्तेत उष्णत्वोद्भूतिनिवृत्ताविव दाहको वह्निरवश्याय इति ।
न ।
अव्यापकनिवृत्तावव्याप्यनिवृत्तोरयोगात् ।
कारणं चेदव्यापकं कार्यस्य हन्त हता तर्हि व्याप्यव्यापकसंकथा ।
भवेदेतद्यदि क्षित्याद्युपादानज्ञानमप्यस्य कार्यं स्यान्नित्यं तु तदभ्युपेयत इति न शरीरादिनिवृत्तावपि निवर्त्तितुमर्हति ।
अव्यापकनिवृत्तेरव्याप्यस्यानिवृत्तेरिति ।
अन्यथा नाश्ववान् मैत्र इति गोमानपि न स्यात् ।
न च बुद्ध्यादीनामनित्यानां बहुलमुपलब्धेर्नित्या बुद्धिरसम्भाविनीति सांप्रतम् ।
न हि प्रत्यक्षाः पाथसीया हिमकरकादयस्तद्गता रूपादयो ऽनित्या इति तदारम्भकैः परमाणुभिस्तद्गतैर्वा रूपादिभिस्तथा भवितव्यम् ।
सदकारणतया तु नित्यतोभयत्रापि तुल्या ।
न च शरीरादिसहभावेन ज्ञानस्य तत्र तत्रोपलम्भाच्छरीरादीनां ज्ञानं व्याप्यमिति युक्तम् ।
स्वाभाविकसम्बन्धशालिता हि व्याप्यता सा चोपाधिविरहे भवति,
अस्ति च शरीरादिसहभावे ज्ञानस्योपाधिः कार्यत्वम् ।
कार्यं ज्ञानं स्वकारणं शरीरादिनातिवर्त्तते नित्यं तु तदतिवर्त्तमानमपि साहित्योपलम्भं न विरुणद्धि, तस्माद्यथा ऽनित्यः शब्दः उत्पत्तिमत्वात्
घटवदिति प्रयुक्ते कश्चित्साध्यदृष्टान्तयोर्धर्मवैचित्र्यात्प्रत्यवतिष्ठेत,
यदि घटसाधर्म्यादुत्पत्तिमत्त्वादनित्यः शब्दः हन्त तस्मादेव रूपादिमता तेन भाव्यम्,
न चेदयं घटसाधर्म्येण रूपादिमान् एवमनित्यो ऽपि माभूदित्येवं च प्रत्यवतिष्ठमान उत्कर्षसमजातिवादी पराजीयते एवमेवेवाद्युत्कर्षसमजातिवादितया पराजेतव्यः साधर्म्यमात्रेणाप्रयोजकेन प्रत्यवस्थानात् ।
तस्य च सर्वानुमानेषु सुलभतया सर्वानुमानोच्छेदापादकत्वात् ।
स्यादेतत् ।
उत्पत्तिमत्त्वमुपादानाद्यभिज्ञकर्तृपूर्वकत्वमात्रव्याप्तं घटादिषु दृष्टं तावन्मात्रमेव पृथिव्यादीनां गमयेद् नित्यसर्वविषयज्ञानवत्कर्तृत्वं तु कुतस्त्यम् ।
न हि तद्दृष्टान्तधर्मिणि दृष्टम् ।
अथ रूपाद्युपलब्धेः क्रियात्वेन चक्षुराद्यनुमानपि कथं, न हि च्छिदादयः क्रिया इन्द्रियादिसाधनाः
तासां कुठारादिसाधनत्वात् ।
अथ दृष्टान्तधर्मिण्यदृष्टमपीन्द्रियसाधनत्वं पक्षधर्मताबलात्सिध्यति ।
रूपाद्युपलब्धिगतं हि क्रियात्वं तदेव करणं गमयेद् यदुपलब्धिनिर्वर्तनसमर्थं,
न च कुठारादयः समर्था इति पक्षधर्मताबलात्कुठारादिविलक्षणमदृष्टचरमपि चक्षुराद्युपस्थापयतीति ? तदितरत्रापि समानम् ।
न ह्ययरिभेयानियतदिग्देशैन्द्रियकानैन्द्रियकत्रसस्थावरादिलक्षणकार्योत्पादयौगपद्यमसत् इ सर्वविषयज्ञाने तन्नित्यत्वेवा सूद्धुमर्हति,
नो खल्वीदृशं परमेश्वरविज्ञानं कार्यशरीरादिकार्यं सम्भवति शरीराद्युत्पत्तेः प्रागस्याचैतन्येन तत्प्राक्कालकार्यान्तरोत्पादायेश्वरान्तरकल्पनाप्रसङ्गात् ।
एवं तत्प्राक्तत्प्रागित्यनेकालौकिककल्पनया वरं बुद्धिनित्यत्वं कल्पितम् ।
एतेन शरीरेन्द्रियनित्यत्वकल्पना ऽपि प्रत्युक्ता ।
एतेन यदेके ब्रुवते--
सन्निवेशादिमत्सर्वं बुद्धिमद्धेतु यद्यपि ।
प्रसिध्येत्सन्निवेशादेरेककारणता कुतः ।
इति ।
तदपि परिहृतम् ।
तेषां प्रसिध्येत्सर्वज्ञनिराक्रियामनोरथो यदि पिशितचक्षुषः परमाणून् क्षेत्रज्ञान्
तत्समवेतान्वा कर्माशयान् द्रष्टुमीशते,
न चैतदस्ति ।
तस्मादतीन्द्रियार्थदर्शिनो ऽस्मदादिबिलक्षणा बहवः कल्पनीयाः तद्वरमेक एव तादृशः कल्पनालाघवायेति ।
न च कादाचित्कपरिपाकादृष्टवत् क्षेत्रज्ञपरमाणुसंयोगादेव तनुभुवनादिकार्योपपत्तेः कृतं चेतनकर्तृकत्वेनेति वाच्यम् ।
उत्पत्तिमत्त्वस्योपादानाद्यभिज्ञकर्तृकत्वेनोपाधिविरह्विणः स्वाभाविकप्रतिबन्धसिद्धेः ।
न चाविज्ञातानामिन्द्रियमनसां ज्ञानोत्पादसाधनानामनधिष्ठानस्य च वत्सवृद्धिनिमित्तस्याप्येचतनस्य क्षीरस्य स्वातन्त्र्येण प्रकृतेः, वने विटपादीनां च विना प्रयत्नमुत्पादस्य दर्शनाद्व्यभिचार
इति सांप्रतम् ।
सर्वेषामेव तेषां विवादास्पदीभूतत्वेन पक्षनिक्षेपात् ।
न च शशशृङ्गास्तितावदनुपलब्धिविरोधादपक्षधर्मत ।
धर्मिणो दर्शनानर्ह्वतया भगवतस्तद्विरोधानुपपत्तेः ।
अन्यथा सर्वानुमानोच्छेदप्रसङ्गात् शृङ्गस्य तु शशाशिरोवर्तिनो वत्सादिगतस्येव दर्शनार्हस्यानुपलब्धिनिराकृतस्य साधनानर्हत्वात् ।
स्यादेतत् ।
नोत्पत्तिमात्रं स्वभावप्रतिबद्धं बुद्धिमद्धेतुत्वेन, किं तु तद्विशेषः, यद्दृष्टेरक्रियादर्शिनो ऽपि कृतबुद्धिरुत्पद्यते तस्य च दृष्टेः सोपजायते ।
यद् बुद्धिमद्भावानुविधायिभावाभावं दृष्टं घटादि च तथा न तृत्पत्तिमन्मात्रं तनुभुवनाद्यपि तस्य सद्भावासद्भावानुविधानादर्शनात् ।
तदेतेन विशेषेणोपाधिना प्रयुक्तां बुद्धिमद्धेतुकत्वव्याप्तिमुपजीवदुत्पत्तिसामान्यं न तेन स्वभावप्रतिबद्धमिति न तद्गमयितुमर्हतीति,
अन्यथा धूमप्रयुक्तां धूमध्वजव्याप्तिमुपजीव्य पाण्डुतादेः कुमुदकपोतकादिगतादपि धूमकेतुनानुमानप्रसङ्गादिति ।
अत्रोच्यते ।
इदमेव निपुणतरं भवन्तो निरूपयन्तु किं बुद्धिमदन्वयव्यतिरेकानुविधानं विशेष आहो तद्दर्शनम् ।
यदि पूर्वपक्षः स बुद्धिमद्धेतुकत्वं तनुभुवनादीनामातिष्ठमानैरभ्युपेयत एव ।
न हि कारणं कार्याननुविहितभावाभावमन्यो वक्तुमर्हत्यस्वीकात् ।
अथ दर्शनं नतर्ह्यक्रियादर्शिनः कृतबुद्धिसंभवः ।
य एव हि पटो ऽनेन बुद्धिमद्धेत्वेन्वयव्यतिरेकानुविधायी दृष्टः स एव तत्कार्यो न तु विपणिवर्ती ।
तज्जातीयस्य तदन्वयव्यतिरेकानुविधानदर्शनाददृष्टान्वयव्यतिरेकानुविनधानमपि तज्जातीयं तथेति चेत् ।
हन्तोत्पत्तिमद् घटादि बुद्धिमदन्वयव्यतिरेकानुविधायीत्यन्यदपि तज्जातीयं तनुभुवनादि तथा भवद्दण्डेन न पराणुद्यते ।
घटजातीयमुत्पत्तिमद् बुद्धिमत्पूर्वमिति चेत् ।
ननु प्रासादादि न तद्धेतुकं भवेत् ।
अघटजातीयत्वात् ।
अथ यज्जातीयं बुद्धिमदन्वयव्यतिरेकानुविधायि दृष्टं तज्जातीयमेवादृष्टान्वयव्यतिरेकमपि बुद्धिमद्धेतुकम् ।
तत्कि मिदार्नीं कार्यजातीयं प्रासादादि बुद्धिमद्धेतुकं न दृष्टं येनोत्पत्तिमत्तनुभुवनादि तथा न स्यात् ।
न खलु तज्जातीयत्वे कश्चिद्विशेष
इति ।
यत्तु मृद्विकारत्वेन वल्मीकस्य घटादिवत्कुलालकार्यत्वं न भवति तत्कुम्भकारस्य प्रत्यक्षानुपलम्भविरोधात् ।
अदृश्यचेतनपूर्वकत्वे तु तस्योपेयत एव ।
स्यादेतत् ।
नोत्पत्तिमात्रमुपादानाभिज्ञकर्तृकत्वेन व्याप्तम् ।
अपि तु यदस्मदादिशक्यज्ञानोपादानादि,
न च तथा तनुभुवनाद्युत्पत्तिमदपि, तस्माद्
व्याप्तिविरहान्न तत्पूर्वकमिति ।
तदयुक्तम् ।
उत्पत्तिमत्त्वतदुपादानाद्यभिज्ञकर्तृकत्त्वयोः प्रथममन्वयव्यतिरेकाभ्यां व्याप्तौ सिद्धायां तदुपादानादिशक्यज्ञानत्वकल्पनायाः कार्यज्ञानविषये व्यवस्थापनात् ।
व्याप्तिबलेन ज्ञानसामान्यसिद्धौपक्षधर्मताबलेन तन्नित्यत्वसिद्धिरित्युक्तम् ।
तेनोपाधेरनुस्त्रियमाणस्यानुपलब्धेः स्वभावप्रतिबद्धमुत्पत्तिमत्त्वं बुद्धिमद्धेतुकत्त्वेन ।
न चस्वभावप्रतिबद्धमुत्पत्तिमत्वं स्वसंबन्धिनमतीत्यापि वर्त्स्यतीति शक्यं शङ्कितुम् ।
तथा सति स्वभावहानिप्रसङ्गः ।
स्यादेतत् ।
न सर्वज्ञपूर्वकाः क्षित्यादयः प्रमेयत्वसत्वादिभ्यः घटादिवदित्यनुमानानि सन्ति प्रतिपक्षसाधनानीति सत्प्रतिपक्षतया प्रकृतमनुमानाभासम् ।
अत्रोच्यते ।
किमनेन सर्वज्ञपूर्वकत्वं निषिध्यते उत ज्ञातृमात्रपूर्वकत्वं सर्वग्रहणमुपलक्षणार्थम् ।
यदि पूर्वःपक्षः तदैकदेशदर्शिपूर्वकत्वं साधितं स्यात् ।
तथा चापसिद्धान्तः, न च शक्यमपि,
न ह्यस्मदादिना ऽर्वाग्दर्शिनाशक्याः पृथिव्यादयः कर्तुं, ज्ञातृमात्रपूर्वकत्वे तु निषेध्ये घटादिभिर्व्यभिचारः ।
यच्चेश्वरो नाधिष्ठाता परमाण्वादीनामशरीरित्वाद्
मुक्तात्मवत् ऐश्वरं ज्ञानं न सर्वविषयम् अनित्यं च ज्ञानत्वात् अस्मदादिज्ञानवदित्यनुमानं तत्पक्षधर्मतासिद्ध्यर्थमीश्वरसिद्धिं तद्बुद्धिमत्त्वं चापेक्षमाणं तत्साधकप्रमाणविरुद्धमात्मानमेव तावन्नासादयितुमर्हति प्रागेव तद्विरोद्धुम् ।
न ह्यागमानुमाने जगत्कर्तृत्वनित्यसर्वविषयबुद्धिमत्त्वव्यतिरेकेण केवलमश्विरं साधयतः तथा च ताभ्यां विरुद्धं भवदनुमानं नोत्पतुमर्हतीति सिद्धम् ।
बुद्धिवदिच्छाप्रयत्नावपि तस्य नित्यौ सकर्तृकत्वसाधनान्तर्गतौ वेदितव्यौ ज्ञानचिकीर्षाप्रयत्नसमवायलक्षणत्वात् कर्तृत्वस्य, तेषां च परस्पराविनाभावादन्यतरसिद्धावितरयोः सिद्धेः ।
तदेवमुत्पत्तिमत्वादेव पक्षधर्मतासहायादेवम्भूतेश्वरसिद्धिरित्युक्तम् ।
भवतु वा तस्मादुपादानाद्यभिज्ञकर्तृकत्वमात्रसिद्धिः परिशेषानुमानात्तु व्यतिरेकसिद्धेर्विशेषसिद्धिः ।
तथा हि तनुभुवनाद्यभिज्ञः कर्त्ता नानित्यासर्वविषयबुद्धिमान्
तत्कर्तुस्तदुपादानाद्यनभिज्ञत्वप्रसङ्गात् ।
न ह्येवंविधस्तदुपादानाद्यभिज्ञो दृष्टः यथास्मदादिः
तदुपादानाद्यभिज्ञश्चायं तस्मात्तथेति ।
नोखलु परमाणुभेदान् प्रतिक्षेत्रज्ञसमवायिनश्च तस्मात्तथेति ।
नोखलु परमाणुभेदान् प्रतिक्षेत्रज्ञसमवायिनश्च कर्माशयानन्यः शक्तो ज्ञातुमृते तादृशादीश्वरादिति प्रपञ्चितमधस्तात् ।
परपुरुषसमवेतावपि धर्माधर्मावधिष्टातुं शक्नोति सम्बन्धाद्
न हि साक्षात्संयोगसमवायावेव सम्बन्धौ संयुक्तसंयोगिसमवायस्यापि तद्भावात् ।
संयुक्ताः खल्वीश्वेरण परमाण्वादयः तैश्च क्षेत्रज्ञाः तत्समवेतौ धर्माधर्माविति संयुक्तसमवायोव वा क्षेत्रज्ञेनेश्वरस्य संयोगात् अजसंयोगस्याप्युपपादितत्वात् ।
धर्माधर्मौ परमाणून्वा स्वधर्मोपग्रहमन्तरेणापि चेश्वरः स्वकार्याभिमुखान् करिष्यति विषविद्याविदिव विषशकलं क्रियारम्भाभिमुखम् ।
एतेन चेतनोपादानत्त्मपि व्याख्यातम् ।
वार्तिककृता तूपलक्षणतया चेततत्वं हेतुरुक्तः ।
उत्पत्तिमत्वादयो ऽपि हेतव ऊहनीयाः इमं च न्यायमाम्नाय
उपोद्बलयति ।
ऽएतस्य वाक्षरस्य प्रशासने गांर्गि द्यावापृथिवी विधृते तिष्ठतःऽ ऽद्यावापृथिवी जनयन् देव एकःऽ ऽतदैक्षत बहु स्यां प्रजायेयेऽत्यादिः ।
स्मृतिश्च भवति ।
अज्ञो जन्तुरनीशो ऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वाऽ अकारणत्वेन चेश्वरज्ञाननित्यतां दर्शयति श्रुतिः ऽअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः स वेत्ति विश्वं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुषं पुराणऽ मित्यादिका ।
एतयैवाशरीरित्वं दर्शितं भवति ।
परिशिष्टं तु वार्त्तिककृता स्वयमेव प्रपञ्चितमित्युपरम्यते
न्य्स्_4,1.22: अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् ॥
कण्टकादीनां संस्थानविशेषवतां निमित्तादर्शनेनानिमित्तत्तां मन्वानस्येनैव दृष्टान्तेन शरीरादीनामपि संस्थानभेदवतामनिमित्ततां मन्वानः पूर्वपक्षयति ।
अनिमित्तत इति ।
अदृश्यमाननिमित्तानां शरीरकण्टकाकादीनां पक्षनिक्षेपात् पक्षेण व्यभिचारानुद्भावनात् ।
उद्भावने वा सर्वानुमानोच्छदप्रसङ्गात् सर्वत्र तस्य सुलभत्वात् ।
उभयसिद्धेन निमित्ततत्पटादिदृष्टान्तेन संस्थान भेदवत्त्वात्कण्टकशरीरादीनामपि निमित्तवत्त्वमिति सिद्धान्तः
न्य्स्_4,1.23: अनिमित्तनिमित्तत्वाद् नानिमित्ततः ॥
सिद्धान्त्येकदेशिमतमुद्भाव्य दूषयति ।
अपरे त्विति ( 468।9 )
न्य्स्_4,1.24: निमित्तानिमित्तयोरर्थान्तरभावादप्रतिषेधः ॥
स्वयं वार्तिककारः कण्टकादीनामनिमित्ततां विकल्प्य दूषयति ।
कण्टकादीनामनिमित्तं जन्मेति ।
प्रतिपाद्यप्रतिपादकन्यायस्येति ।
( 469।2 ) प्रतिपाद्यः पुरुषः कर्म, प्रतिपादकश्च पुरुषः कर्ता, कर्तृकर्मणी च कारके, कारकं च क्रियाया निमित्तमिति प्रतिपाद्यप्रतिपादकविषयो न्यायः स चायमनिमित्तं शरीरादीनां जन्मेति प्रतिजानानेनानेनाभ्युपेयते ।
अन्यथा तेमूकतैव स्यादिति ।
तदिदमुक्तं सर्वं चामिमित्तं प्रतिपादयसि चेति व्याहतम् ।
न केवलं प्रतिपाद्यप्रतिपादकन्यायाभ्युपगमादितो ऽपीत्याह ।
वाक्योपादानाच्चेति ।
प्रतिपादननिमित्तं वाक्यमुपादत्से अभिधत्सेचानिमित्तं सर्वमिति व्याघात इत्यर्थः ।
तथा ऽप्यन्यतरधर्मासिद्ध
इति ।
अन्यतरेण साध्यधर्मेणानिमित्तत्वाख्येनासिद्धो ऽनिमित्तत्वस्यैवासिद्धेः ।
ननु प्रतिवादिनो वाङ्न्यात्रेण न सिद्धमसिद्धं भवत्यतिप्रसङ्गादित्यत आह ।
संस्थानविशेषवत्त्वस्य भावात् ।
पटादिदृषन्तेन कण्टकादीनां सनिमित्तकत्वस्य प्रामाणिकत्वेन वाङ्न्यात्रादसिद्धेरिति ।
कस्मात्पुनः पूर्व पक्षः स्वयं सूत्रकारेण न निराकृत इत्यत आह भाष्कारः स खल्वयं वादो ऽकर्मनिमितित्त इति
न्य्स्_4,1.25: सर्वमनित्यम् उत्पत्तिविनाशधर्मकत्वात् ॥
अन्ये तु मन्यन्ते ।
सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वादिति ।
हेतोर्गकत्वं दर्शयितुं पृच्छति ।
किमनित्यमिति ।
उतरं यस्य कदा चिद्भावः ।
हेत्वर्थं विवृणोति उत्पत्तीति ।
यद् उत्पत्तिधर्मकर्मनुत्पन्नं नास्ति तद् उत्पन्नं चास्ति विनाशधर्मकं च विनष्टं नास्ति अविनष्टं चास्ति तस्मात्पूर्वापरयोः कालयोरभावान्मध्ये च भावात्सिद्धं कदाचिद्भावलक्षणमनित्यत्वमुत्पत्तिविनाशधर्मकत्वादित्यर्थः ।
साध्यधर्मिरूपं पृच्छति, किं पुनरिति ।
उत्तरं भौतिकं चेति ।
अत्र तावत्स्वयं वार्तिककार
उत्तरमाह ।
सर्वमनित्यमिति सूत्रस्य दृष्टान्तार्थत्वादिति ।
( 470।1 ) अर्थशब्दो निमित्तवचनः दृष्टान्तनिमित्तत्वात् सूत्रस्य प्रतिज्ञाहेतूपन्यासपरस्य ।
न दृष्टान्तं विना हेतुः प्रतिज्ञातार्थस्य गमको यत
इत्यर्थः ।
एतदेव विभजते सर्वमनित्यमिति ।
निराकरणान्तरमाह उत्पत्तिविनाशधर्मकत्वादितिचायमिति
न्य्स्_4,1.26: नानित्यतानित्यत्वात् ॥
सिद्धान्त्येकदेशिमतमुपन्यस्य दूषयति ।
नानित्यतानित्यत्वादिति ॥ 27-28 ॥
न्य्स्_4,1.27: तदनित्यत्वम् अग्नेर्दाह्यं विनाश्यानुविनाशवत् ॥
न्य्स्_4,1.28: नित्यस्याप्रत्याख्यानं यथोपलब्धि व्यवस्थानात् ॥
परमसिद्धान्तं सूत्रोक्तमाह ।
अयं खल्विति ।
अथोच्चते न वयं सर्वमनित्यं साधयामो ऽपि तु यस्पय यस्यानित्यता नामास्ति धर्मस्तत्सर्वमनित्यमिति ।
ततश्चाकाशादीनां नित्यत्वे ऽपि नास्मत्पक्षक्षतिरिति तदेतत्सिद्धसाधनेन दूषयति ।
अनित्यताभावाच्च सर्वमनित्यमिति न दोष इति ।
( 471।5 ) यस्य सन् धर्मीस्वं तद्योगादनित्यः स्यात्स एव कदाचिन्नास्तीत्यत आह ।
अनित्यत्वं नाम धर्मः सो ऽसति धर्मिणि न भवतीति ।
स्यादेतद् उत्पत्तिविनाशधर्मकत्वावगतावनित्यतायोगाद्
घटादि भवत्वनित्यं तेनैव दृष्टान्तेन सत्त्वादाकाशादयो ऽपि भविष्यन्त्यनित्या इति देशयति ।
अथ पुनरिति परिहरति ।
तस्याप्युत्तरपदसिद्धौ तत्पदार्थस्य नित्यत्वस्य सिद्धेरिति
न्य्स्_4,1.29: सर्वं नित्यं पञ्चभूतनित्यत्वात् ॥
अयमपर एकान्तः--- सर्वं नित्यं कस्मात्पञ्चभूतनित्यत्वात् ।
पञ्चभूतात्मकं खल्वेतद् गोघटादिकार्यमुपलभ्यते व्यपदिशन्ति हि मृद् घटो सृच्छरीरमिति ।
भूतानि च नित्यानि तेषामुच्छेदस्य नैयायिकैरनभ्युपगमात् ।
तेन भूतानां गोघटादीनां नित्यतेति पूर्वः पक्षः
न्य्स्_4,1.30: नोत्पत्तिविनाशकारणोपलब्धेः ॥
भूतेभ्यो भौतिकानि भिन्नानि न हि परमसूक्ष्माः परमाणवो गोघटादयः ।
परमाणुवत्तेषामतीन्द्रियत्वे सर्वाग्रहप्रसङ्गादित्युक्तं द्वितीये ऽध्याये ।
तस्माद्ग्रहणाग्रहणविरुद्धधर्माध्यातयोगादन्वे भौतिका भूतेभ्यः ।
तथा च तेषामुत्पत्तिविनाशकारणोपलब्धेर्न नित्यत्वं भूनित्यत्वे ऽपीति सिद्धान्तमाह ।
नोत्पत्तिविनाशकारणोपलब्धेरिति
न्य्स्_4,1.31: तल्लक्षणावरोधादप्रतिषेधः ॥
भूतसारूप्येण तादात्म्यं मन्यमानः पुनरपि पूर्वपक्षवाद्याह ।
तल्लक्षणावरोधाद्गोघटादीनां भूतनित्यत्वेन नित्यत्वाप्रतिषेधः
न्य्स्_4,1.32: नोत्पत्तितत्कारणोपलब्धेः ॥
भूतसाम्यं गोघटादीनां भूतकार्यत्वे ऽप्युपपद्यमानं न भूतात्मकत्वमवगमयतीत्याशयवानाह ।
नोत्पत्तितत्कारणोपलब्धेरिति ।
(32) अपि च यद्युत्पत्तिविनाशौ न भावानां वस्तुसन्तौ कथ प्रेक्षावतामभिमतोत्वपत्तिकारणे ऽनभिमतविनाशकारणे च तदर्थिनां प्रवृत्तिरित्याह ।
उत्पत्तिविनाशकारणेति ।
अपि चाव्यापको हेतुरित्याह शब्दकर्मबुद्ध्यादीनां चाव्याप्तिः ।
अव्यापकश्चानैकान्त उक्तः ।
पक्षो हि सर्वं नित्यमिति ।
( 471। 0 ) तस्मिन्सत्वासत्त्वाभ्यामनेकान्तः
नैकः सत्त्वासत्त्वलक्षणो ऽन्तो ऽस्येत्यनेकान्त इति ।
तदेतद्वार्त्तिककारो वक्ष्यत्यर्थदृष्ट्या पक्षस्यान्तद्वये ऽवस्थानादिति ।
हेतोरन्तद्वये सत्त्वासत्त्वरूपे पक्षस्यावस्थानादिति योजना ।
असति बाधके मिथ्यात्वकल्पनायामतिप्रसङ्ग इत्यमुमर्थं शङ्कानिराकरणाभ्यामाह स्वप्नविषयेत्यादि ।
भाष्योक्तमर्थमुक्त्वा स्वयं वार्तिककार
आह ।
सर्वस्य चेति ।
यावद्येन प्रतिपाद्यत इति ।
प्रतिपादनेन क्रियत इत्यर्थः ।
शेषमतिरोहितार्थम् ।
न्य्स्_4,1.33: न व्यवस्थानुपपत्तेः ॥
तदेवं सांख्यानां मतमपास्य स्वायम्भुवानां मतमपाकर्तुमुपन्यस्यति ।
अपरे सर्वं नित्यमित्यन्था वर्णयन्ति ।
त्रिविधः खल्वयं धर्मिणः परिणामोधर्मलक्षणावस्थारूपः
तद्यथासुवर्णं धर्मि तस्य परिणामो वर्धमानरुचकादिः
धर्मस्य तु लक्षणपरिणामो ऽनागतादि ।
यदा खल्वयं सुवर्णकारो वर्धमानकं भङ्क्त्वा रुचकं रचयति तदा वर्धमानको वर्त्तमानलक्षणं हित्त्वातीतलक्षणमापद्येते रुचकं त्वनागतलक्षणं हित्वा वर्त्तमानतामापद्यते वत्तमानतापन्न
एव तु रुचको नवपुराणभावमापद्यमानो ऽवस्थापरिणामवान् भवति ।
नवपुराणावस्थाश्च वर्त्तमानलक्षणाश्रया लक्षणपरिणामाः सो ऽयं त्रिविधः परिणामो धर्मिणः धर्मलक्षणावस्थाश्च धर्मिणो भिन्नाश्चाभिन्नाश्च ।
तथा च ते धर्म्यभेदान्नित्याः
भेदाच्चोत्पत्तिविनाशविषत्वमित्युभयमुपपन्नम् ।
ननु यद्युपजनापायधर्मकत्वं धर्मिणां हन्तोत्पत्तेः प्राक्तेषा मसत्वाद्विनाशाच्चोर्द्धमसत्वात्कथं सर्वनित्यत्वसिद्धिरित्यत आह यच्चोपजायते तत्प्रागप्युपजनादस्ति ।
धर्मिरूपेणेति शेषः ।
तन्निवृत्तमप्यस्तीति ।
अत्रापिप धर्मिरूपेणेति शेषः ।
निराकरोति ।
न व्यवस्थानुपपत्तेः (सू. 33) ॥
उपजनापाययोः स्वरूपतः कालतो विशेषतः सम्बन्धितो ऽनागतत्वादिव्यवस्थानुपपत्तिरित्यर्थः ।
एतदुक्तं भवति न तावद्भेदाभेदो परस्परपरीहारव्यवस्थितधर्मावेकत्र समाविशतः ।
तस्मादुपजनापायव्यवस्थायै भेदं धर्मलक्षणावस्थानां धर्मिण इच्छता तेषामतित्यत्वमभ्युपेतव्यं, सांख्यवत्सकार्याभ्युपगमेन तु नित्यत्वव्यवस्थापने वार्त्तिककार आह ।
यच्च निवर्त्तते तन्निवृत्तमप्यस्तीति ब्रुवाण
इति ।
सुगमम्
न्य्स्_4,1.34: सर्वं पृथग् भावलक्षणपृथक्त्वात् ॥
अयमप्यन्य एकान्तो बौद्धानां सर्वं पृथक् कस्माद् भावलक्षणपृथक्त्वात् ।
न रूपाद्यतिरिक्तं द्रव्यं नाम किं चिदस्ति नाप्यवयवातिरिक्तः कश्चिदस्त्यवयवीति सौत्रान्तिका वैभाषिकाश्च प्रपतिपेदिरे
न्य्स्_4,1.35: नानेकलक्षणैरेकभावनिष्पत्तेः ॥
तान्निराकरोति ।
नानेकलक्षणैरेकभावनिष्पत्तेः (सू. 35) ॥
अनेकविधैर्लक्षणैः सम्बद्धस्यैकस्य भावस्य घटादेरवयविनो निष्पत्तेरिति
न्य्स्_4,1.36: अथापि लक्षणव्यवस्थानादेवाप्रतिषेधः ॥
अथापीति ।
अपि चेत्यर्थः ।
अणुसमूहे चागृह्यमाण इति ।
परमसूक्ष्मत्वेनातीन्द्रियत्वादित्यर्थः ।
अथाप्येतदनूक्तमिति ।
अपि च भावलक्षणपृथत्कादिति हेतुमुत्का बोद्धेन पश्चादेतदुक्तं, किं तदुक्तमित्यत
आह ।
नास्त्यको भावो यस्मात्समुदाय
इति ।
एतदनूक्तं दूषयति ।
एकानुपपत्तेर्नास्त्येव समूहः ।
अनूक्तं विवृणोति ।
नास्त्येको भावो यस्मात् समूहे भावशब्दप्रयोगः ।
अस्य दूषणं विवृणोति ।
एकस्यानुपपत्तेरिति ।
एततप्रपञ्चयति एकसमुच्चयो हीति ।
नास्त्येको भाव इति यस्य भावस्यैकत्वप्रतिषेधः प्रतिज्ञायते समूहे भावशब्दप्रयोग इति ब्रुवता स एवाभ्यनुज्ञायते ।
ननु समूहो ऽभ्यनुज्ञायते न त्वेको भाव इत्यत आह ।
एकसमुच्चयो हि समूह इति ।
तदेनन प्रतिज्ञाया हेतोर्व्याघात
उक्तः ।
संप्रति प्रतिज्ञाया हेतुना व्याघात
इत्याह समूहे भावशब्दप्रयोगादिति चेति ।
वार्त्तिकम् ।
अस्य प्रयोग इति ।
( 475।9 ) कुम्भशब्दो ऽनेकविषय इति पारमार्थिकानेकविषयः काल्पनिकं तु कुम्भस्यैकत्वं न वार्यते तथा चैकपदमित्येकपदेन व्यभिचारः तस्यापि पारमार्थिकानेकविषयत्वादित्यर्थः ।
स्यादेतद्
घटादिशब्देभ्यो रूपादीनां बुध्नादीनां च बहूनामवगमात् कथमेकार्थतेत्यत आह ।
आधाराधेयभावेति ।
यदि नानार्थता ऽपि भवति घटादिशब्दानां तथा ऽपि प्रत्येकमेकत्वं तदर्थानामशक्यापह्नवमिति न पूर्वपक्षिणो ऽभिमतसिद्धिरिति ।
उपेत्य तूच्चते अनेकार्थत्वमप्यत्र न सम्भवतीति ।
समूहे भेदस्य चानवस्थादिति ।
( 476। 19) यदि समूहमात्रमेव न त्वेकं किं चिदस्ति तथा सति घटलक्षणे समूहे भेद्यमाने नाल्पतरतमादिभेदः प्रतीयेत घटादिकपालशर्कराचूर्णपरमाणूनां समूहत्वेनानन्तावयवत्वादयं महानयमल्पो ऽल्पतर
इति विभागो न स्यात् ।
तस्मादनेन तारतम्यं समर्थयमानेन क्व चित् समूहनिवृत्तिर्वाच्यान चासावसमूहमेक मन्तरेणेत्येको ऽभ्युपेयतैत्यर्थः ।
उक्तमर्थमविद्वान् शङ्कते ।
अथ मन्यस इति ।
(477।5) रूपादीनां समुदाय इति चत्वारि वाद्रव्याणीति चावान्तरदर्शनभेदविवक्षया द्रष्टव्यम् ।
उक्तार्थदर्शनेनोत्तरम् ।
एतस्मिन् वै दर्शन
इति1 अथानन्तं समुदायं प्रतिपद्यस इति निराकृतस्यापि पुनराशङ्का आगमविरोधमापायितुम् ।
एकानुपपत्तौ नानेकोपपत्तिरिति ।
यत्तदनेकमुक्तमेतत् त्याज्यमिति ।
शेषं भाष्यव्याख्यया व्याख्यातम्
न्य्स्_4,1.37: सर्वमभावो भावेष्वितरेतराभावसिद्धेः ॥
सम्प्रति शून्यतावादिनमुत्थापयति ।
अयमपर एकान्तः ।
(478।1) सर्वमभाव इति प्रतिज्ञा ।
अत्र हेतुर्भावेष्वितरेतराभावसिद्धेरिति ।
सर्वमिदं प्रमाणप्रमेयप्रमितिरूपमभावस्तुच्छम् ।
भावेष्वितरेतराभावसिद्धेरिति ।
वार्त्तिककारो व्याचष्टे असत्प्रत्ययभावप्रतिषेधाभ्यां भावशब्दसामानाधिकरण्यात् ।
प्रमाणादयः खल्वमी परस्परानात्मकतया असदिति प्रत्ययस्य नञश्च गोचरा इत्यनुभूयन्ते अतस्तद्वाचिनां शब्दानां तत्सामानाधिकरण्यं ततः प्रमाणादयो ऽसन्तः अनुत्पन्नप्रध्वस्तपटवत् ।
अपि चामी भावा नित्या अनित्या वा नित्यत्वे सर्वसामर्थ्यरहितस्यासत्त्वम् ।
न हि नित्यं क्व चित्कार्यौपयुज्यते क्रमाक्रमानुपपत्तेरित्युक्तम् ।
अनित्यत्वे तु विनाशस्वभावाश्चेद् द्वितीयादिक्षणैव प्रथमक्षणे ऽपि न स्युः ।
सत्त्वे वानामी विनाशस्वभावाः
अतत्स्वभावत्त्वे वा क्षणान्तरे ऽपि न विनश्येयुः ।
नो खलु नीलं स्वकारणादुपजातं जातु कारणसहस्रैरपि शक्यं पीतं कर्त्तुमिति विनाशस्वभावकत्वमकामेनापि अनित्यानामेषितत्यम् ।
तस्माद्भावानां शून्यतैव पारमार्थिकी कल्पनया त्ववस्तुसत्या सन्तैवावभासन्त इति युक्तमुत्पश्यामः ।
तथा च सर्वे भावा इति ।
सर्वे भावशब्दा इत्यर्थः ।
प्रयोगश्च सर्वेभावशब्दा असद्विषयाः असत्प्रत्ययप्रतिषेधाभ्यां सामानाधिकरण्यात् ।
अनुत्पन्नप्रध्वस्तपटशब्दवत् ।
अत्र तावदुत्सूत्रं भाष्योक्तं दूषण वार्त्तिककार आह ।
प्रतिज्ञापदयोः प्रतिज्ञाहेत्वोश्च व्याघात इति ।
अभिन्नविभक्तिकत्वमभिन्नार्थकविभक्तिकत्वं न त्वभिन्नविभक्तिकत्वमेव, भिन्नविभक्तिकानामपि सामानाधिकरण्यात् ।
यथा चैत्रः पठतीति ।
यथा च न त्वां तृणाय मन्य इति ।
नामति तत्प्रत्ययेन भवितुमिति ।
न ह्यत्यन्तासन्निरूपाख्यं सर्वमिति वा भाव इति वा ऽभिधानस्पय गोचरः उपपादितं हि द्वितीयसूत्र एव यथा ऽसद्वा ऽनिर्वचनीयं वा न ख्यातिगोचरो ऽपि तु सदेव सदन्तरात्मना,
तथा च कुतो ऽत्यन्तासतः कल्पनागोचरत्वमपीति ।
शेषं भाष्य इति ।
प्रतिज्ञाहेतोर्व्याघातो भाष्ये प्रपञ्चित इति
न्य्स्_4,1.38: न स्वभावसिद्धेर्भावानाम् ॥
उत्सूत्रमुत्का भाष्यकारः सौत्रं दूषणं वक्तुमाह ।
सूत्रेण चाभिसम्बन्धो दूषणस्य ।
न स्वभावसिद्धेर्भावानाम् (सू. 38) ॥
सर्वमभाव इति नास्ति ।
कस्मात्स्वभावसिद्धेर्भावानां स्वभावो धर्मो द्रव्यादीनां सदादिः ।
अथ वा स्वभावः स्वरूपं भावानां येनामी भावाः स्वभावाद्व्यावर्त्तन्ते ।
यद्वा असन्निति प्रत्ययस्य गव्यश्वात्मनेति विशेषणात् ।
अगौरित्यस्य गां परिहृत्याश्वादिभिः संबन्धाद्गोभावसिद्धेरेवमश्वादिष्वपीति स्वभावसिद्धेर्भावानां नाभाव इत्यर्थः ।
न स्वभावसिद्धेरिति सूत्रमनूद्य वार्त्तिकारः स्वरूपमात्रेण व्याख्यायं प्रश्नपूर्वकं तात्पर्यमस्य दर्शयति ।
पूर्वसूत्रस्येति ।
( 479।5 ) कश्चस्वभावैत्यादिना सिद्धो भाव इत्यन्तेन सूत्रस्य व्याख्यानत्रयं भाष्यकारीयं वार्त्तिककारो दर्शयति ।
सामान्यो धर्मः समानो नित्यत्वादिरित्यर्थः ।
प्रश्नपूर्वकमसत्प्रत्ययप्रतिषेधसामानाधिकरण्यं भावस्योपपादयति ।
कथं तर्हीति ।
( 480।2 ) असच्छब्दः खल्व भावविशेषणं सदेवाभिधत्ते शुक्लगुणविशिष्टे पटे वर्त्तते तथा चासत्प्रत्ययाभिधानयोरुपपन्नं भाववाचिना पदेवन सामानाधिकरण्यमित्यर्थः ।
भावश्च कश्चिन्नित्यः कश्चिदनित्यः तत्र नित्यस्यार्थक्रियाकारित्वमुपपादितं क्षणभङ्गभङ्ग एव ।
अनित्यो ऽपि न विनाशस्वभावो भावः किं तु स्वकारणादयं सत्स्वभावो जातः कारणान्तरात्तु विनश्यति ।
यतूक्तं नीलं शक्यं न पीतं कर्त्तुमिति ।
तत्र ब्रूमः शक्य एव नीलः पटः पीतः कर्त्तुम् आमश्यामो घटो वह्निसंयोगाद्रक्तः ।
अथ नीलत्वं न पीतत्वं शक्यं कर्तुं ननु भावो ऽपि नाभावः कर्त्तुं शक्य इति ।
यथैव कुम्भाधिकरणे श्यामरक्तत्वे पर्यायेण भवतः एवं कपालाधिकरणौ कुम्भभावाभावावित्यदोषः
न्य्स्_4,1.39: न स्वभावसिद्धिर् आपेक्षिकत्वात् ॥
स्वभावसिद्धेरिति यदुक्तं तदाक्षिपति शून्यवादी ।
न स्वभावसिद्धिरापेक्षिकत्वात् (सू. 39) ॥
सर्व एवं हि भावा भिन्नस्वभावा भिन्नत्वं च तेषामन्यापेक्षम् ।
तथा हि नीलं भिन्नं पीताद्यपेक्षया न तु स्वभावतः एवं ह्रस्वत्वदीर्घत्वपरत्त्वापरत्वपितापुत्रत्वादयः परस्परापेक्षा द्रष्टव्याः ।
यच्च परापक्षं तन्न स्वाभाविकं यथा जपाकुसुमापेक्षं स्फटिकस्य रक्तत्वमित्याक्षेपार्थः
न्य्स्_4,1.40: व्याहतत्वादयुक्तम् ॥
समाधत्ते ।
व्याहतत्वादयुक्तम् (सू. 40) ॥
तद्व्याचष्टे यदीति ।
ननु यद्यनेन क्रमेणोभयाभावो भवति भवतु सिद्धमेव नः समीहितमित्यत आह ।
अपेक्षायामनपेक्षायां चेति ।
परिमाणभेदो हि दीर्घत्वं ह्रस्वत्वं च स च भावानामौत्पत्तिकः केवलं तस्यातिशयानतिशयौ परस्परग्रहणाधीनौ ।
तथा हीक्षुयष्टेर्वेणुयष्टितो ह्रस्वत्वं पूर्वसंख्यायोगिहस्तपरिमितत्वमनतिशयः
वेणुयष्टेर्दीर्घत्वमतिशयः परसंख्यायोगिहस्तपरिमितत्वं तच्चेदं प्रतियोगिनिरूपणाधीननिरूपणम्,
न तु प्रतियोग्यधीनोत्पत्तीति, न वस्तुधर्मो ऽयं परापरापेक्षः ।
भिन्नत्वं च भेदः स च वस्तुविशेषणं नोत्पत्तौ वस्त्वन्तरमपेक्षते किं तु स्वनिरूपणे ।
एवं पितृत्वमपि व्यवस्थिता जनकशक्तिरेव सा जन्यनिरूपणाधीननिरूपणा न तु तदधीनोत्पत्तिः ।
विपञ्चितं चैतदस्माभिर्ब्रह्मतत्त्वपरीक्षायाम् ।
परत्वापरत्वादयस्त्वपेक्षाबुद्धिनिमित्ततया परापेक्षोत्पत्तिका अपि लोकयात्रां वहन्तो न शक्याः प्रत्याख्यातुम् ।
न चैतावता तदधिकरणं भावो न निरपेक्ष इति सर्वमवदातम् ।
स्यादेतत् अपेक्षामात्रमेव दीर्घत्वादयो भविष्यन्ति कृतमेषां वस्तुस्वभावेनेत्यत
आह ।
स्वभावसिद्धौ चासत्यामिति ।
(481।1) अपेक्षा सामर्थ्यमपेक्षाप्रयोजनयोगः ।
स्वयंवार्तिककारो दूषणान्याह सर्वथा चायं व्याहत इति ।
निगदव्याख्यातम्
न्य्स्_4,1.41: संख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् ॥
उत्तरसूत्रावतारपरं भाष्यम् ।
अथैते संख्यैकान्तवादाः संख्या एकान्तो येषु वादेषु ते तथोक्ताः ।
अथ शून्यतावादानन्तरं ते परीक्ष्यन्तैत्यर्थः ।
तत्र प्रथमं ब्रह्माद्वैतमुत्थापयति ।
सर्वमेकं कुतः सदविशेषात् ।
इदमस्याकूतम् ।
न तावदयं नामरूपप्रपञ्चः प्रकाशाद्भिन्नः सन् प्रकाशितुमर्हति ।
जडस्य स्वयंप्रकाशासंभवात् ।
न च प्रकाशयोनगात्प्रकाशत इति युक्तम् ।
न खल्वान्तरेण प्रकाशेनास्य कश्चिद्योगः संभवति ।
विषयविषयिभावः सम्बन्ध इति चेन्न ।
तत्राकिञ्चित्करस्य विषयित्वासम्भवात् ।
न चार्थे ज्ञानं फपवलं जनयतीति सांप्रतम् ।
अतीतानागतयोरर्थयोस्तदसंभवात् ।
न च न तयोर्विषयभावः ।
तस्मात् ज्ञानाद्भिन्नस्य नामरूपप्रपञ्चस्य न प्रकाशसम्भव इति ज्ञानस्यैवायं विवर्त्त इति युक्तमुत्पश्यामः ।
न च प्रकाशात्मनो घटादय एवोदयव्ययधर्मिणः परस्परव्यावृत्ताः सन्त्विति सांप्रतम् ।
तद्व्यावृत्तिग्रहे प्रमाणाभावात् ।
सा हि यद्यतो वयावर्तते तदुभयग्रहे गृह्यते न च विज्ञानानि विलक्षणानि स्वरूपमात्रावस्थितानि परस्परवार्त्तानभिज्ञानि ज्ञानान्तरमपि ग्रहीतुमुत्सहन्ते प्रागेव स्वस्माद्व्यावर्तयितुम् ।
न च निषेध्यनिषेधाधिकरणग्रहणकारणको व्यावृत्तिग्रहः स्वकारणेन समसमयोत्पादो भवितुमर्हति ।
तादृशोः सव्येतरविषाणवत्कार्यकारणभावाभावात् ।
न चैकं विज्ञानं क्षणिकं निषेध्यनिषेधाधिकरणे गृहीत्वा पश्चान्निषेधं गृह्णातीति युक्तम् ।
क्षणिकस्याक्रमस्य क्रमवद्व्यापारायोगात् ।
न चैकं विज्ञानं निषेध्यनिषेधाधिकरणे गृह्णाति अथ ज्ञानान्तरं निषेधतीति युक्तम् ।
चैत्रगृहीते ऽपि तस्मिन्यैत्रस्य निषेधज्ञानप्रसङ्गात् ।
न च ज्ञानस्वरूपग्रह एवास्य निषेध ग्रह इति सांप्रतम् ।
एवं हि स भवेद्यदि स्वरूपतदन्यव्याववृत्त्योरेकत्वं भवेत् ।
तत्र व्यावृत्तिस्वभावो वा भावो भावस्वभाव वा व्यावृत्तिः ।
तत्र पूर्वस्मिन्कल्पे व्यावृत्तेस्तुच्छत्वात्तत्स्वभावा भवाभेदास्तुच्छाः स्युः ।
ततश्च वचोभङ्न्यन्तरेण शून्यबादप्रसङ्गः ।
उत्तरस्मिंस्तु कल्पे विधिरूपो भाव एव व्यावृत्तिरिति विधिरूपतया च ते व्यावर्त्तन्त इति न व्यावृत्ता भावाः परस्परं परमार्थतः तदिदमुक्तं सदविशेषादिति ।
(482।1) अनाद्यनिर्वचनीयाविद्यानिबन्धनं तु भावानां भेदं न व्यासेधामः ।
न च ज्ञातुरपि ज्ञानाद्भेदग्राहकमस्ति प्रमाणमुक्तादेव विशेषात् ।
तस्मान्न ज्ञेयानां परस्परतश्च ज्ञानाच्च भेदः ।
नापि ज्ञातुर्ज्ञानादसित भेदः
नापि ज्ञानानामन्योन्यस्य, तस्मात्प्रकाश एव स्वयं प्रकाशः कूटस्थनित्य आनदघनो ऽनाद्यविद्योपदर्शितविविधविचित्रनामरूपप्रपञ्चो ब्रह्मेत्यद्वैतसिद्धिः ।
अत एव श्रुतयो भवन्ति ।
ऽएकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्च न ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ इत्येवमादिकाः ।
तदेवमैकान्तिकमेकत्वमुपन्यस्य द्वित्वमैकान्तिकमाह सर्वं द्वेधा कुतः नित्यानित्यभेदात् ।
न हि नित्यानित्याभ्यामन्यो राशिरस्ति यमाश्रित्य पदार्थास्त्रित्वादिके व्यावतिष्ठेरन्निति ।
मतान्तरमाह सर्वं त्रेधा ।
तदेव दर्शयति ।
ज्ञाता ज्ञेयं ज्ञानमिति ।
ज्ञप्तिरपि ज्ञायमानत्वाज्
ज्ञेयान्नातिरिच्यत इति भावः ।
मतान्तरमाह ।
सर्वा चतुर्धा ।
दर्शयति ।
प्रमाता प्रमाणं प्रमेयं प्रमितिरिति ।
यदि प्रमितिर्नाम तत्त्वं प्रमाणादिभ्यो भिन्नं नाश्रीयते प्रमायाः प्रधानक्रियाया अभावात्कथं प्रमात्रादयः ।
कथं च प्रधाक्रियामन्तरेणैकवाक्यता स्यात् कारकवैचिश्यं वा ।
प्रमायाः फलत्वावस्थाया उपरि प्रमेयव्यपदेशं न वारयामः ।
न चैतावता तत्त्वान्तरं न भवति ।
इति ।
एवं यथासम्भवमन्ये ऽपीति ।
प्रकृतिपुरुषाविति वा पञ्चस्कन्धा इति वा पशुपाशतदुच्छेदेश्वरा इति वेत्यादयः ।
तत्र परीक्षां संख्यैकान्ततानिराकरणरूपान्तां दर्शयति सूत्रेण ॥
संख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् (सू. 41) ॥
अनवयवेन सर्वं चेदेकं द्वेधा त्रेधा चतुर्धा चेति प्रतिज्ञार्थः ? तदतिरिक्तं साधनं वाच्यम् ।
न हि साध्यमेव साधनं भवति ।
तथा च साधनस्य तदतिरेकान्न सेख्यैकान्तसिद्धिः,
न च किं चिदपि स्वसंवेदनमस्ति, ज्ञानप्रदीपादीनामपि परसंवेद्यत्वात् ।
यथा च ज्ञानातिरिक्तो ऽप्यर्थो विषयस्तथा विज्ञानवादनिरासावसरे वक्ष्यते ।
न च विज्ञानादर्थस्य भेदो ऽशक्यग्रहः ।
तथा हि नीलमुपलभ इत्यनुहङ्कारास्पदमश्वेतादिरूपं नीलं प्रतयात्ममनुभवगोचरः एवं नीलादीनामपि परस्परम् ।
अन्यथा घटमानयेति देशितो नयने निमील्य शयीत, शयीथा इति देशिते तोयमाहरेत् ।
कस्य चित् कुतश्चित्कथं चिद्विवेचकाभावात् ।
न चानिर्वचनीयानाद्यविद्यानिबन्धनो ऽयं भेदव्यवहार इति सांप्रतम् ।
अनिर्वचनीयख्यातेः पूर्वमेव निराकृतत्वात् ।
तस्मात्सर्वजनसंवेदनसिद्धो ऽयं भेदप्रत्ययो न कारणमुखनिरीक्षणेन युक्तो निराकर्तुम् ।
अपि तु स्पष्टदृष्टात्कार्याद्भेदप्रत्ययलक्षणात्तादृशं तत्कारणं कल्पनीयं यादृशेन तत्कारणेन प्रपञ्चप्रत्ययो ऽप्रत्यूहमुत्पद्येत ।
तच्च प्रत्यक्षमेव ।
तथा हि तन्नीलं परिच्छिन्दत्पीतादिभ्यो ऽस्य भेदं परिच्छिनत्ति संयुक्तविशेषणतालक्षणादिन्द्रियार्थसन्निकर्षात् ।
नीलं हि नीलमित्यनुभवन् पीतादिकं च पीतादिकमित्यनुभवन्स्मरन्वा शक्नोति निषेध्यनिषेधाधिकरणतया समाकलयितुं रूपमात्रेणागृहीतपरस्पभेदमपि ।
न हि तन्न भेदेन प्रथतैत्यभेदेन प्रथेत।न येनानयोर्नीलपीतयोर्गृहीतस्वरूपयोरवध्यवधिमद्भावो न स्यात् ।
तथा च तौ गृहीत्वा प्रत्यक्षेण शक्यो ऽनयोर्भेदो ग्रहीतुमित्यसांप्रतमेतत् ।
ऽअन्योन्यसंश्रयाद्भेदो न प्रमान्तरसाधनः ।
तस्मिन्निदं नायमयमिति भेदं विना नधीःऽ ।
एतेन प्रमातुरपि प्रमाया भेदो व्याख्यातः ।
प्रमातारश्चानेकविधसुखदुःखोपभोगव्यवस्थानाद्बधिरान्धकाणादिकोविदजाल्मसंसारिमुक्तविभागोपपत्तेश्च भेदवन्तो ऽनुमीयन्ते ।
एकस्मिन्नपर्यायेण विरुद्धधर्मसंसर्गासंभवात् ।
कल्पनया कथञ्चित्संभाव्यमानो ऽप्ययं गोमयपायसीयन्यामावहति ।
तदेवं प्रत्यक्षविरोधादनुपपन्नार्थाः श्रुतय
ऽएकमेवाद्वितीयऽ मित्याद्याः प्रथमां वृत्तिमुल्लङ्घ्य जधस्यामवलम्बन्ते ऽयजमानः प्रस्तरऽ ऽआदित्यो वै यूपऽ इत्यादिवदिति ।
यदाह भगवान्
जैमिनिः--- ऽगुणवादस्त्वितिऽ ऽतत्सिद्धिरितिऽ
चेति, तस्मान्नाद्वैतमिति ।
न्य्स्_4,1.42: न कारणावयवभावात् ॥
साध्यात्साधनस्य भेदेन च संख्यान्तरैकान्ता अप्यपहृतार्था इत्युक्तम्
न्या. सू.
1
अत्र पूर्वपक्षवाद्याह---
न कारणावयवभावात् (सू. 42) ॥
तद्व्याचष्टे कारणस्य साध्यावयवभावात् ।
एकस्य द्वयादीनां वा कश्चिदेकदेशः साधनं तथा च न संख्यान्तरं न च साधनभाव इत्यर्थः
न्य्स्_4,1.43: निरवयवत्वादहेतुः ॥
निराकरोति ।
निरवयवत्वादहेतुः (सू. 43) ॥
अवयवभावादिति यदि साध्यस्य कश्चिदवयवो भवेन्न संख्यैकान्तः स्यादिति सर्वमेकमित्येतस्मिन्प्रतिज्ञार्थे न किं चिदपवृज्यते व्यावर्त्तते यतस्तत्साधनं स्यादित्यर्थः ।
अथ कस्मान्न साध्यमेव हेतुरित्यत
आह ।
आत्मनि चेति । (402।20) चो हेतौ ।
अपि चैते संख्यैकान्ताः प्रत्यक्षादिप्रमाणविरोधान्मिथ्यावादा इत्याह ।
ते खल्विमे संख्यैकान्ता इति ।
खलुशब्दः समुच्चये ।
प्रक्रकोटरपाण्यादिविशेषकारितो योर् ऽथभेदः स्थाणुपुरुषादिः तत्प्रत्याख्यानेनेत्यर्थः ।
अथ विशेषकारितार्थभेदाभ्यनुज्ञानेन वर्तन्ते तथा ऽप्येकान्तत्वं जहति एकत्वादिसंख्याया अनैकान्तिकत्वमित्यर्थः ।
अथ सामान्यकारित
इति (483।5) संख्यामात्रमङ्गीक्रियते न पुनरस्नया ऐकान्तिकत्वमित्यर्थः ।
तदस्माकमभिमतमेवेत्याह तथा ऽपि न किं चिद्बाध्यत इति ।
ये ऽप्याहुः सत्तासामान्यमेव तत्त्वं भेदास्तु काल्पनिका इति तान् प्रत्याह ।
न च भेदमन्तरेणेति ।
यदाहुः ।
ऽनिर्विशेषं न सामान्यं भवेच्छशविषाणवऽ
दिति ।
स्यादेतत् प्रेत्यभावपरीक्षायां क
एषामवसरो यदेते एकान्तवादाः परीक्ष्यन्त
इत्यत आह ।
ते इति ।
अद्वैतादिष्वेकान्तेषु प्रेत्यभावो न तात्त्विको भवेदपि तु काल्पनिकः
न केवलं प्रेत्यभावो ऽपि तु षोडशापि पदार्थाः ।
तस्मादेतेषां यत्तत्त्वज्ञानं तस्य प्रविवेकार्थं ज्ञेयप्रविवेकेन ज्ञानप्रविवेक
इति तदर्थमेते परीक्षिता इति ।
तदनेन प्रबन्धेन प्रेत्यभावः परीक्षितः
न्य्स्_4,1.44: सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ॥
अथोद्देशक्रमानुरोधात्फलमिदानीं परीक्ष्यते ।
तत्राग्निहोत्रादीनां फलमनन्तरभावि कालान्तरभावि वेति संशयः ।
एतदुक्तं भवति ।
कर्मानन्तरं दुःखं च लोकपङ्क्त्यादि चोपलभ्यते प्रशंसन्ति हि लौकिका धार्मिको ऽयं साधुतम इति,
तत्किमेतावदेवास्य फलमस्तु अथामुष्मिकं स्वर्गादीति ।
किं प्राप्तं स्वर्गादिफलत्वे कर्मणः स्वरूपेणाकारणत्वाच्चिरनिवृत्ते तस्मिंस्तदुत्पत्तेः अपूर्वकल्पनायां च प्रधानाङ्गापूर्वाणि भूयांसि कल्पनीयानि न च तान्युत्पन्नमात्राणि जनयन्ति फलमिति तत्सहकार्यन्तराणि कल्पनीयानीत्यदृष्टकल्पनागौरवात् तदनन्तरदृष्टफलाबाधनाच्च, नास्याऽभुष्मिकं फलं स्वर्गादि, अपि त्वनन्तरदृश्यमानमेव ।
तत्रापि दुःखफलत्वे उपदेशव्याघाताल् लोकपङ्क्तिलाभख्यात्यादिकमेव फलं तच्च सुखहेतुतया कथं चित्स्वर्गादिपदेनोच्यते ।
दृष्टो हि सुखहेतौ स्वर्गपदप्रयोगो लोके यथा चन्दनं स्वर्गः सूक्ष्माणिवासांसि स्वर्ग इति प्राप्तम् ।
एवं प्राप्ते ब्रूमः ।
स्वर्ग पदस्य तावदर्थवादतो--- ऽयन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदऽमिति सुखं प्रति वाचकत्वमवधारितम् ।
न च तद्वाचकत्वेनैव चन्दनादौ तत्प्रयोगोपपत्तावनेकार्थत्वकल्पनाप युक्ता ।
यदाहुरन्यायश्चानेकार्थत्वमिति ।
तस्मान्मुख्यो ऽयं स्वर्गशब्द उक्तभेदे सुखे ।
तथा च स्वर्गकाम इत्यत्र मुख्यार्थसंभवे नोपचरितार्थता युक्ता ।
न चानेकादृष्टकल्पनाभयान्मुख्यार्थपरित्यागो न्याय्यः प्रमाणसिद्धे नियोगपर्यनुयोगानुपपत्तेः ।
यथा ऽहुः ।
ऽश्रुतिसिद्ध्यर्थमश्रुतोपलब्धौ यत्नवता भवितव्यं न तु श्रुतशैथिल्यमादरणीयऽमिति ।
तथा--- ऽप्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपिऽ ।
न चानन्तरदृश्यमानं लोकपङ्क्त्यादि होमाद्यनुष्ठानफलमपि तु तदुपलम्भफलम् ।
अदाम्भिकानां प्रच्छन्नमनुतिष्ठतामपि लोकपङ्क्यादेरभावात् ।
तस्मात्सुष्ठूक्तं न सद्यः कालान्तरोपभोग्यत्वादिति भाष्यम् ।
तथा प्रवृत्त्या संस्कारो धर्माधर्मलक्षणो जन्यत इति ।
नैष पुरुषसंस्कारः स्नानादिजन्य
इव बोद्धव्यो ऽपि तु पुरुषधर्मतामात्रेण संस्कार इत्युच्यते परमार्थतस्त्वयं धर्मः पुरुषाश्रयो ऽपि कर्मणा फले जनयितव्ये तस्यावान्तरव्यापार इति ।
वार्तिकं सद्यस्तापादिफलेतञ्
(484।1) अतिद्गुणसंविज्ञानो ऽयं बहुव्रीहिस्तापादीति ।
तेन लोकपङ्क्त्यादिकमुच्यते
न्य्स्_4,1.45: न सद्यः कालान्तरोपभोग्यत्वात् ॥
न्य्स्_4,1.46: कालान्तरेणानिष्पत्तिर् हेतुविनाशात् ॥
न्य्स्_4,1.47: प्राङ् निष्पत्तेर्वृक्षफलवत् तत् स्यात् ॥
स्वर्गः फलं श्रूयते इत्ययुक्तम्, स्वर्गकाम इति स्वर्गस्य पुरुषविशेषणत्वेन श्रवणादसाध्यत्वादत
आह ।
देशितया च क्रियया नानर्थिकया श्रवितव्यम् ।
आप्तोपदेशः खल्वयमुपदेश्यस्य कर्मणो ऽभिमतोपायतामाह तत्र कर्मणो ऽभिमतापेक्षायां पुरुषविशेषणस्याप्यपेक्षितत्वात्साध्यत्वमिति सिद्धम् ।
एवं हि लोकपङ्क्त्यादिरग्निहोत्राद्यनुष्ठानसाध्या भवेद् यदि तत्कामस्य स्वर्गकामस्येवाग्निहोत्राद्यनुष्ठानं देश्येत, न चैतदस्तीत्याह न च तापादिकाम
इति ।
लोकपङ्क्त्यादिकाम इत्यर्थः ।
शेषमतिरोहितार्थम्
46
न्य्स्_4,1.48: नासन् न सन् न सदसत् सदसतोर्वैधर्म्यात् ॥
इदमिदानीं चिन्त्यते किमेतत्फलमुत्पत्तेः प्रायसद्वा सद्वा सदसद्वा ऽनभयं वेति ।
अत्र समस्तपक्षाक्षेपेण फलाभावमभिधित्सुः पूर्वपक्षयति ।
तदिदं फलं निष्पत्तेः प्राक् ।
नासन्न सन्न सदसत् ।
सदसत् कस्मान्न भवतीत्यत आह ।
सदसतोर्वैर्ध्म्यात् ।
परस्परविरुद्धधर्मत्वाद् धर्मः स्वभावः
विरोधादित्यर्थः ।
अथानुभयं कस्मान्न भवतीत्यत
आह ।
नाप्युभयविपरीतमिति ।
सिद्धान्त्याह ।
प्रागुत्पत्तेरुत्पत्तिधर्मकमसदित्यद्धा
न्य्स्_4,1.49: प्रागुत्पत्तेरुत्पत्तिधर्मकम् असद् इत्य् अद्धा, कस्माद् उत्पादव्ययदर्शनात् ॥
ननु नासदुतपद्यते न सन्निरुद्ध्यतैत्याचक्षते सांख्याः तत्कथमेतदित्यत आह ।
उत्पादव्ययदर्शनात्
(सू. 49) ॥
यथा नित्यस्वरूपायाश्चितिशक्तेर्नोत्पादो न च व्यय एवं फलस्यापि नित्यस्य तौ न स्यातामित्यर्थः ।
न हि सत्पक्ष इति ।
(486।1) सत्कार्यपक्षैत्यर्थः ।
न किं चिज्जायत इति ।
न प्रतिज्ञावाक्यात्किञ्चित्तत्त्वज्ञानं सम्भवति ।
किं चिच्च संदेहादि न विनश्यतीति ।
अज्ञानतिरो भावः संशयविपर्ययतिरोभावः ।
कारणस्य हि प्रधानस्य लक्षणं महान् लक्ष्यते हि महता प्रधानमिति ।
एवं तस्याप्यहङ्कारस्तस्य पुष्टिः स्थूलतेत्यर्थः ।
पश्चाद्भवतीति केवलकारणावस्थायाः पश्चादिति
न्य्स्_4,1.50: बुद्धिसिद्धं तु तद् असत् ॥
यच्चोक्तमुपादाननियमादिति ।
तत्र यदि पुरुषस्योपादाननियमः पटार्थी तन्तूनेवोपादत्ते न वीरणं, कटार्थी वीरणमिति,
ततस्तदुपादानानां तत्र तत्र कार्ये सामर्थ्यपरिज्ञानात् तच्च सामर्थ्यमानुमानिकं तदिदमुच्यते ।
सू. बुद्धिसिद्धं तु तदसदिति
तदसद्भावि कार्यमनेनैव कारणेन जन्यते नान्येनेत्यनुमानाद्
बुद्धिसिद्धमेवेत्यर्थः ।
अथासत्कार्यपक्षे तन्तव
एव पटस्योपादानं न वीरणादीत्ययं नियमो न स्यादिति ब्रूषे तदयुक्तम्, असत्त्वाविशेषे ऽपि स्वकारणादुत्पन्नं किं चिदेव चित्कार्यं जनयितुं समर्थं नान्यदित्ययं स्वभावविशेषादुपपद्यत इति ।
अपि च सत्कार्यपक्षे प्रधानोपादानत्वाद्विश्वस्य तस्य चाभेदापवत्कारणात्मकत्वाच्च कार्यजातस्य सर्वं सर्वात्मकमितीदमिहनेदमिदमिदानीं नेदमिदमेवंनेदमिति नियमो न स्यात् कस्य चित्कुतश्चिद्विवेकहेतोरभावात् ।
तस्मादस्ति रासभे ऽपि विषाण मिति तत्र तस्यासत्त्वं ब्रुवाणः स्वसिद्धान्तं बाधतैत्याह ।
असत्त्वाच्च खरविषाणं नोत्पद्यत इति ब्रुवाण
इति ।
सत्त्वे चासत्त्वे च समाने यस्य कारणमस्ति तदुत्पद्यत इति गुडजिह्विका ।
परमार्थतस्त्वसत्त्वे कारणसामर्थ्यनियमादुत्पत्तिनियमः कल्पते,
सर्वात्मना सर्वस्य सत्त्ववे तु न नियमहेतुरस्तीत्युक्तप्रापयम् ।
देशयति अथासत्कार्ये किं प्रमाणं ? न ह्यनुमानमस्मिन्नर्थे प्रमाणं भवितुमर्हति आश्रयासिद्धेः ।
नापि प्रत्यक्षं तेनाप्यसतः स्वातन्त्र्येणानिरूपणादिति भावः ।
विदिताभिप्राय उत्तरमाह नासत्त्ववे न सत्त्ववे ऽनुमानमस्ति ।
यथा ऽस्माकमाश्रयासिद्धिदोषादसत्त्वे कार्यस्य नानुमानम् ।
एवं भावे ऽपि कार्यस्य सत्त्वे नानुमानमाश्रयासिद्धेरेव ।
क्व तर्ह्यनुमानमित्यत
आह धर्मिण्यविप्रतिपत्तेरनुमानमस्तीति योजना ।
तथा सत्याश्रयो ऽस्यसिद्ध्यतीत्यर्थः ।
पुनः पृच्छति क्वेति ।
यदि धर्मिण्यविप्रतिपत्तिः क्व तर्हि विवादः ।
उत्तरं यदुभयेति ।
धर्म्यधिकरणान्
सत्कार्यवादिनामेव वादान्विभजते तान्प्रतीति ।
तन्तुमात्रं पट इति ।
तन्तुभ्यो ऽभिन्न इत्यर्थः ।
कार्यात्मनेति ।
कार्यं कारणाद्भिन्नाभिन्नमित्यर्थः ।
असत्कार्यपक्षस्तु स्वाभिमतः स्फुटत्वादवान्तरप्रतिबन्द्यभावाच्च नोपन्यस्तः ।
उपपादित इति द्वितीयाध्याये ।
प्रागुपलब्धिकालादिति ।
कारणव्यापारात् प्रागित्यर्थः ।
संस्थानविशेषशून्यतामात्रविवक्षया तुर्यादिदृष्टान्तो न तु प्रागभावो विवक्षितः ।
शक्तिविशेषावस्थिता इति कारणव्यापारात् प्रागिति शेषः ।
अत्र सिद्धसाधनं वयमपि ब्रमहे स्वव्यापारात्पटोत्पत्तिनिमित्तात्प्राक्
तन्तवः शक्तिविशेषावच्छिन्ना ऐवेति ।
परेषां सत्कार्यसाधनमुपन्यस्यति ।
विद्यमानांभिव्यक्त्यर्थास्तन्तवस्तदर्थिना नियमेनोपादानात् खनित्रादिवत् ।
(489।1)
यथा हि खनित्रं विद्यमानमेवोदकं मृदपनयनेन व्यनक्तीति ।
तदेतद् दूषयति ।
विद्यमानस्याभिव्यक्तिरसतीति अभिव्यक्तिवत्कार्ये ऽपि प्रसङ्गः ।
यथाव्यक्तेरसत्या एवोत्पादस्तथा कार्यस्याप्यसत पत्रोत्पाद
इत्यर्थः ।
खनित्रादिवदिति दृष्टान्तः साध्यविकल
इत्याह यदपीति ।
सा ऽप्राप्तिः कुतो भवतीति वक्तव्यमिति ।
प्राप्तिः खलु संयोगः स च गुणः
गुणश्च द्रव्यविनाशाद्विनश्येद् विरोधिगुणान्तराद्वा ।
तत्र तावदावरणद्रव्यमाव्रियमाणं वोदकं न विनष्टं येन तयोः संयोगो विनश्येत् ततस्तद्विरोधिगुणान्तरोत्पादो वक्तव्यः स एव च संयोगविरोधी गुणो विभाग
इत्युच्यतैत्यर्थः ।
प्राप्तेरभावो ऽप्राप्तिरिति पक्षं दूषयित्वा पर्युदासपक्षमाशङ्क्य दूषयति अथ प्राप्तेरिति ।
पुनः शङ्कते अथभिन्नदेशोत्पत्तिमिति ।
न च वयं संयोगं विभागं वा गुणमुपेमः ।
किं तु भिन्नदेशोत्पन्न एव द्रव्ये विभागो निरन्तरोत्पन्न एव संयोग इत्यर्थः ।
निराकरोति श्रिन्नदेश इति ।
विशेषणोपादानान्न भिन्नदेशोत्पत्तिर्विभागः कस्माद् उत्पन्ने उत्पन्नमिति भिन्नदेशतया भिन्नमिति विशेषणं हि स्वानुरिक्तं प्रत्ययं विशेष्ये जनयति, न त्वन्यानुरक्तम् ।
न खलु नीलं विशेषणमुत्पले रक्तप्रत्ययं जनयत्वभ्रान्तस्येत्यर्थः ।
अपि च क्षणभङ्गं भावानां व्यासेधद्भिरस्माभिर्भिन्नदेशोत्पत्तेः प्रतिषेधान्न भिन्नदेशोत्पत्तिर्विमागः ।
शङ्कते क्षणिकत्वाद्विभागस्येति ।
उत्पद्य हीन्द्रियसन्निकर्षाद्विभागेन स्वविषयं ज्ञानं जनयितव्यम् ।
न चैतावन्तं कालमसावस्ति क्षणिकत्वेनोत्पन्नापवर्गित्वादित्यर्थः ।
निराकरोति नसामान्याभिव्यक्तीति ।
(490।1) एतद्विभजते ।
पूर्वं तावदुत्पन्नो विभागः सामान्यं व्यनक्तीति ।
स्वकारणसमवायः सत्तासमवायो वा उत्पत्तिः ।
तद्विशिष्ट उत्पन्न
इत्युच्यते ।
येषां सामान्यग्रहपुरः सरं विशेषज्ञानं तन्मते न सामान्यं व्यनक्ति तदुत्तरकालं च स्वप्रत्ययं जनयतीत्युक्तम् ।
एतदुक्तं भवति न वयं बौद्धा इव पूर्वापरकालमात्रावस्थितिलक्षणां क्षणिकतां विभागादीनामाचक्ष्महे किं त्वाशुतरविनाशलक्षणां सा च द्वित्रादिक्षणस्थायिनां चिरस्थायिभ्योव घटादिभ्यो व्यावृत्तात्मा शक्यावक्तुमिति
न्य्स्_4,1.51: आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवदित्यहेतुः ॥
देहाद्यतिरिक्तमात्मानं नित्यं परलोकिनमसन्तं मन्यमान आह ।
आश्रयव्यतिरेकाद्वृक्षफलोत्पत्तिवदित्यहेतुः
(सू. 51) ॥
मूलसेकफलोत्पादयोरेकवृक्षाश्रयत्वम् ।
कर्मणस्तु होमादेराश्रयः शरीरम् ।
न चामुष्मिकस्य स्वर्गादेः शरीरमाश्रयः तस्मिन्नष्टे ऽस्य भावात् ।
तस्मादाश्रयव्यतिरेकात्स्वर्गादेर्वृक्षफलोत्पत्तिवदित्ययं दृष्टान्तः स्वर्गफलत्वे होमस्याहेतुरित्यर्थः
न्य्स्_4,1.52: प्रीतेरात्माश्रयत्वादप्रतिषेधः ॥
अस्त्यात्मा स्वगौपभोगसमर्थः शरीरादिव्यतिरिक्तः कर्त्तेत्युषपादितमित्याशयवानाह ।
प्रीतेरात्माश्रयत्वादप्रतिषेधः (सू. 52)
न्य्स्_4,1.53: न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात् ॥
अस्तु स्वर्गाद्यात्माश्रयं तथा ऽप्यव्यापको हेतुः पुत्रादिफलेभ्यो निवृत्तेरिति देशयति ।
न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्द्देशात् (सू. 53) ॥
न्य्स्_4,1.54: तत्संबन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः ॥
परिहरति ।
तत्सम्बन्धात्फलनिष्पत्तेस्तेषु फलवदुपचारः (सू. 54) ॥
स्वर्गो ऽपि तावत्स्वर्गतया न काम्यते किं तु भोग्यतया ।
एवं सति कैव कथा पुत्रादिषु ।
ते ऽपि भोग्यतयैव काम्यन्ते न तु स्वरूपं भोग्यमिति तत्साध्यं सुखं भोग्यम् ।
तस्मात्पुत्रादिसम्बधात्तदुत्पत्तेः सुखोत्पत्तेः तेषु यथा फलशब्दप्रयोगस्तथा तेषु पुत्रादिष्वित्यर्थः ।
सूत्रार्थकथनेनैव भाष्यवार्तिकेव्याख्याते
न्य्स्_4,1.55: विविधबाधनायोगाद् दुःखमेव जन्मोत्पत्तिः ॥
फलानन्तरं दुःखपरीक्षणं, तत्रेयं परीक्षा भवतु दुःखं बाधनालक्षणमनुभूयमानं,
यत्पुनरिदं सुखं प्रत्यात्ममनुकूलवेदनीयं तत्कथं दुःखमनुभवविरोधात् ।
शरीरेन्द्रियबुद्धयश्च यदि दुःखहेतुतया दुःखं कस्मात्सुखहेतुतया सुखमेव न भवन्ति ।
सेयमतिभीरुता सकललोकयात्राविरोधिनी ।
यथाहुः ऽन हि मृगाः सन्तीति शालयो नोप्यन्ते ।
न हि भिक्षवः सन्तीति स्थाल्यो नाधिश्रीयन्तऽइति ।
तस्मान्मांसार्थीव कण्टकानुद्धृत्त्य मांसमश्नन्नानर्थं कण्टकजन्यमाप्नोतीत्येवं प्रेक्षावान् दुःखमुद्धृत्त्येन्द्रियादिसाधनं सुखं भोक्ष्यते, सन्ति च विविधदुःखपरिवर्जनहेतवो दृष्टाः परिदृष्टसामर्थ्या अन्वयव्यतिरेकाभ्यामित्यभिप्रायवान् पूर्वपक्षी गुडजिव्हिकया संशयान इव पृच्छति ।
तत्किमिदमिति ।
सिद्धान्तिन उत्तरम्
अन्य इत्याह सूत्रकार इति ।
तेनैवाभिप्रायेण पूर्वपक्षी पृच्छति कथम् ।
उत्तरं न वै सर्वलोकसाक्षिकमिति ।
अयं तु दुःखभावनोपदेशः किमर्थमित्यत
आह भाष्यकारः दुःखहानार्थः ।
किंभूतस्य दुःखहानमित्यत आह ।
जन्ममरणप्रबन्धस्यानुभवः प्राप्तिः तन्निमित्ताद् दुःखोपदेशपरिशीलनेन निर्विण्णस्यालंप्रत्ययवतः अत एव दुःखं जिहासत
इति योजनीयम् ।
स्वाभिप्रायेण पूर्वपक्षी पृच्छति ।
कया युक्त्या ।
उत्तरम् ।
सर्वे खपलु सत्त्वनिकाया इति ।
उत्पत्तिः सुखदुःखहेतुभूता विषयसंपत्तिः तस्याः संस्थानानि भुवनानि ।
आ सत्यलोकादा चावीचेरिति ।
एतदुक्तं भवति ।
यदि दुःखवर्जनेन शक्यते सुखमुपादातुं ततस्तादृशं सुखमनकूलवेदनीयं कः प्रज्ञावान् प्रजह्यात् ।
न च तादृशमस्ति सुखं क्व चिदपि सर्वस्य दुःखाविनाभाविनः केवलस्योपादातुमशक्यत्वात् ।
न हि मधुविषसंपृक्तमन्नं विषमपहृत्य शक्यं मधुमात्रमुपादातुमिति ।
तस्मान्नेदं सुखस्य प्रत्याख्यानमपि तु सुख एव दुःखभावनमुपदिश्यते
अत्र हेतुरुपादीयते ऋषिणा । विविधबाधनायोद् दुःखमेव जन्मोत्पत्तिः (सू. 55) ॥
जन्मन उत्पत्तिः सा दुखमेव भावयितव्या विविधबाधनायोगादिति
न्य्स्_4,1.56: न सुखस्याप्यन्तरालनिष्पत्तेः ॥
कस्मात्पुनर्दुःखमेव स्वरूपतो न भवतीत्यत आह ।
न सुखस्यान्तरालनिष्पत्तेः (सू. 56) ॥
न खल्वयं दुःखोद्देशो दुःखकयनं सुखस्य प्रत्याख्यानम्
न्य्स्_4,1.57: बाधनानिवृत्तेर्वेदयतः पर्येषणदोषादप्रतिषेधः ॥
इतश्च दुःखसंज्ञाभावनं न सुखस्य प्रत्याख्यानं दुःखोद्देशेनेत्याह ।
यस्मादिदं मे सुखसाधनमिति वेदयन् प्रार्थयते सुखसाधनम् ।
तच्च उक्ताद्बहुप्रकाराद्बाधनाहेतुरिति दुःखभावनयोपदेशनमिति ।
कामं काम्यं कामयमानस्य यदा कामः समृध्यति संपन्नो भवति ।
अथानन्तरमेनं पुरुषमपरः काम
इच्छा क्षिप्रं बाधते स्वर्गादिप्राप्तावपि स्वराज्यादि कामयते ।
एवं तत्प्राप्तौ प्राजापत्यादीति अस्येच्छा तदुपायप्रार्थनादिना दुःखेन प्रबाधतैत्यर्थः ।
समन्तादुदनेमि यथा भवति तथा भूमिं लभति इति योजना
न्य्स्_4,1.58: दुःखविकल्पे सुखाभिमानाच्च ॥
नन्वयं यद्यप्यन्तराले सुखान्यनुभवति तथा ऽपि दुःखसंभेदमाकलयन् अनुपदिष्टो ऽपि स्वयमेव निवर्त्स्यति कृतमस्य दुःखभावनोपदेशेनेत्यत आह ॥
दुःखविकल्पे सुखाभिमानाच्च (सू. 58) ॥
शास्त्रनिष्ठानां विवेकिनां खलु विविधबाधनानुषङ्गाद्
अनवयवेन सुखमात्रं दुःखमेवेति विनिश्चयो ऽक्षिपात्रकल्पा हि ते ।
तद्यथेषीकातूलसम्पर्कादप्यक्षिपात्र दूयते न गात्रावयवान्तराणि तथा मृदुचित्ततया विवेकिनो दूयन्ते अविवेकिनस्तु प्रणयकलहकुपितकुरङ्गशाबलोचनाङ्गनालक्तकरसार्द्रपोदपल्लवपातमपि शिरसि रहसि सुखमभिमन्यमाना धनपुलककञ्चुकाञ्चिततनवः सान्द्रानन्दाश्रुप्लुतनयना निर्वृण्वन्तीति तान् प्रत्ययमुपदेशोर् ऽथवानित्यर्थः ।
जायस्व म्रियस्व चेति संधावतीति ।
पुनर्जायते पुनर्म्रियते जनित्वा म्रियते मृत्वा जायते तदिदं संधावनव्यापारप्रचय इत्यर्थः ।
चोदयति ।
कस्माद् दुःखं जन्मेति नोच्यत इति ।
यदि दुःखभावनोपदेशो जन्मनि एवं सत्येवकारः किमर्थ इत्यर्थः ।
परिहरति ।
जन्मविनिग्रहार्थीय
इति विनिग्रहो विनिवृत्तिः स एवार्थः प्रवर्तत
इति जन्मविनिग्रहार्थीयः ।
यथा च मत्वर्थीय
इति ।
एतदुक्तं भवति ।
जन्म दुःखमेवेति भावयितव्यं नात्रमनागपि सुखबुद्धिः कर्तव्या अनेकानर्थपरम्परायामपवर्गप्रत्यूहप्रसङ्गादिति
न्य्स्_4,1.59: ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः ॥
दुःखोद्देशानन्तरमपवर्ग
उद्दिष्टो लक्षितश्चेति शेषः ।
स प्रत्याख्यायते ।
ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः (सू. 59) ॥
तद्व्याचष्टे भाष्यकारः ।
ऋणानुबन्धादिति ।
अस्ति हि ।
... ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेद् ।
अनपाकृत्य मोहेन मोक्षमिच्छन् व्रजत्यधः। ...
ऋणत्रयापाकरणेनैव वयःसमाप्तेर्मोक्षनिवेशक्षणो नास्तीत्यपवर्गाभाव इत्यर्थः ।
क्लेशानुबन्धान्नास्त्यपवर्गः ।
नानुच्छिन्ननिदानः संसारः शक्य उच्छेत्तुमित्यर्थः ।
प्रवृत्त्यनुबन्धादित्यस्यापीयमेव व्याख्या
न्य्स्_4,1.60: प्रधानशब्दानुपपत्तेर्गुणशब्देनानुबादो निन्दाप्रशंसोपपत्तेः ॥
एवं पूर्वपक्षयित्वा सिद्धान्तमुपक्रमते ।
अत्राभिधीयते ।
यत्तावदृणानुबन्धादिति ।
जायमान इत्यस्य प्रधानार्थतानुपपत्त्या गुणशब्दत्वं साधयितुं दृष्टान्तलाभाय ऋणशब्दस्य प्रथमं गुणशब्दत्वमाह ।
प्रधानशब्दानुपपत्तेरिति ।
तद्व्याचष्टे ।
ऋणैरिति ।
नायं प्रधानशब्द इति ।
(491।1) ऋणवानिवास्वतन्त्रस्तेषु तेषु कर्मसु नाधिकारीति निन्दा ।
तदभावे तु स्वतन्त्र
इति प्रशंसा ।
एवं जायमान इति गुणशब्दो न मुख्य इति ।
कस्मात् पुनर्न मुख्य इत्यत
आह मातृतो जातमात्रस्यैवानधिकारात् ।
कस्मादनधिकार इत्यत आह ।
अर्थिनः शक्तस्य चाधिकारात् ।
कस्मादर्थिन इत्यत आह ।
कर्मविधावग्निहोत्रं जुहुयात्स्वर्गकाम इत्यादौ कामसंयोगश्रुतेः ।
न च बालकः सुखदुःखप्राप्तिपरिहारकामो ऽपि विवेकेन स्वर्गपुत्रपश्वन्नादि कामयत इति ।
शक्तस्य च प्रवृत्तीति ।
न ह्यशकनीयमर्थमशक्तं प्रति वेद आप्तोपदेशरूपो विधातुमर्हति ।
न च बालकः शक्तो ऽविद्वत्त्वादिना ।
अत एव तिर्यग्देवर्षिपङ्गुशूद्रषार्षेयाणामनधिकारः सामर्थ्याभावात् ।
न केवलं वैदिको ऽयमीदृशो व्यवहारो ऽपि तु लौकिको पीत्याह ।
न भिद्यते चायं लौकिकात् ।
तद्व्याचष्टे लौकिकस्तावदिति ।
उपपन्नानवद्यवादीति ।
उपपन्नं प्रमाणेन अनवद्यं पुनरुक्तदोण अनपेक्षितमुपदेष्टव्यं यन्न भववति तदित्यर्थः ।
न्यायप्राप्तमिममर्थं लिङ्गदर्शनमुपोद्बलयतीत्याह ।
गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं कर्माभिवदतीति ।
गार्हस्थ्यस्य लिङ्गं पत्नी यस्मिन्कर्मणि तत्तथोक्तम् ।
ऽपत्न्यवेक्षितमाज्यं भवतिऽ ।
ऽपत्न्य उद्गायन्तिऽ ।
ऽक्षौमे वसानावग्निमादधीयाताऽ मित्येवमादि ।
तदनेन गार्हस्थ्यात्पूर्वावस्था तावदृणानुबद्धा न भवतीत्युक्तं संप्रत्युत्तरावस्थापि न ऋणानुबद्धेत्याह ।
यदा चार्थिनो ऽधिकारस्तदा ऽर्थित्वस्याविपरिणामे जरामर्यवादोपपत्तिः ।
तेन युदक्तमृणापाकरणेन वयःपर्यवसानान्नस्ति मोक्षावसरस्तदपाकृतं भवति ।
अविपरिणामपदार्थव्याख्यानं न निवर्तत इति ।
तुरीयस्येत्यस्य व्याख्यानं चतुर्थस्येति ।
प्रायेण पञ्चसप्ततिवर्षेष्वतिवाहितेषु अर्थतृष्णा तनूभवति ।
अत्यन्तसंयोगे तु जरया हवेत्यनर्थकम् ।
मृत्युना वेत्यनेनैव सिद्धेरिति शेषः ।
यद्युच्यते अशक्ततोपलक्षणमेतज्जरया हवा मृत्युना वेति, तेन कस्यानर्थक्यमित्यत
आह ।
अशक्तो विमुच्यतैत्येतदपि नोपपद्यत इति ।
स्यादेतत् ।
यद्यपि गृहस्थस्य यज्ञादिविधानान्तराणि सन्ति तथा ऽपि जायमानस्त्रिभिरृणैरिति वाक्यं बालस्यापि यज्ञादि विधास्यतीत्येतां शङ्कां विमर्शपूर्वमपाकरोति ।
अथापि विहितं वा ऽनूद्येत कामाद्वार् ऽथः प्रकल्प्येतेति ।
न तावज्जायमानो हवै इति शक्ये विधिविभक्तिरस्ति तेन सिद्धानुवादः स्वरसतः प्रतीयते यदि तु तस्यार्थस्य सिद्धिर्वाक्यान्तराद्वा प्रमाणान्तराद्वा कथमपि न कल्पेत ततोव ऽवचनानि त्वपूर्वत्वाऽ
दिति न्यायान्द्विधित्वमस्य कल्प्येत, सन्ति तु शतशस्तदर्थविधायकानि वाक्यानि विभक्तिमन्तीति को जात्वस्य स्वेच्छामात्रेण विधित्वं कल्पयेत् ।
तस्माद्विहितानुवचनमेव न्याय्यमिति जायमानशब्दो जघन्यवृत्तिरिति युक्तमुत्पश्यामः ।
स्यादेतत् ।
जायमानशब्दो ऽनुपचारितार्थः स्वभावतो मातुरुदराद्विभागमाह ।
स कथं चिदनुवादानुरोधपेन जघन्यवृत्तिः कल्पनीयः ।
तद्वरं मुख्यार्थानुरोधेन विधानमेव कल्प्यताम् ।
एवं सति श्रुतिरनुरोधिता भवति ।
अस्ति च बालकस्यापि फलोत्पादनयोग्यता तदात्मनः फलं प्रति समवायिकारणत्वात् ।
तेन यद्यपि जातमात्रस्य फलसाधनानुष्ठानयोग्यता नास्ति तथा ऽपि फलोत्पादं प्रति योग्यता ऽस्ति, फलेन च प्रयोजनं न तत्साधनेनेत्यत
आह फलस्य साधनानि हि प्रयत्नविषयो न फलमिति ।
अयमभिसन्धिः ।
विधिर्हि स्वव्यापारे कर्तृतया पुरुषं नियुङ्क्ते प्रयत्नश्चास्य व्यापारः सम्भवति विषये न शक्यो निवर्त्तयितुमिति स्वविषयमपेक्षते ।
न चास्य साक्षात्फलं विषयो भवितुमर्हति ।
उद्देश्यतामात्रेण तु भवेत् ।
नैतावता प्रयत्नो ऽस्य निर्वृणोति यावदयं साक्षादभिनिर्वर्तनीयं न प्राप्नोति ।
तदुपायस्य साक्षादभिनिवर्त्तनीय इति फलोद्देशप्रवृत्तस्य पुरुषप्रयत्नस्य निर्वृणोति यावदुपायो विषयः ।
न च बालकस्य तदुपायमविदुषस्तत्र सामर्थ्यमस्ति ।
असमर्थश्चाकर्ता कथमात्मानं प्रयत्नेन व्याप्नुयात् ।
अव्याप्नुवंश्च कथमधिकारीति जायमानशब्दो जघन्यवृत्तिरेव न्याय्य
इति सिद्धम् ।
विहितं च जायमानमिति ऋणवाक्यात्प्राग्विधीयते च ऋणवाक्यार्द्ध्वमित्यर्थः ।
यदुक्तं तत्र हि प्रव्रज्या विधीयत इति तदमूष्यमाण आह प्रत्यक्षविधानाभावादिति चेत् ।
शङ्कां निराकरोति ।
न प्रतिषेधस्यापि विधानाभावात ।
शङ्कां विभजते प्रत्यक्षत इति ।
परमाप्तो हि भगवानीश्वरो ऽनुकम्पया भूतोपदेशायप्रवृत्तो यद्गार्हस्थ्यमेवाश्रयममुपदिशति ततो ऽवगच्छामो न सन्त्याश्रमान्तराणि भूतेभ्यो हितानीत्यर्थः ।
अत एवाहुः ऽऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्येतिऽ ।
निराकरणं विभजते न प्रतिषेधस्येति ।
स्मृतीतिहासपुराणानि तावदविवादं विदधति चातुराश्रम्यमुपलभ्यन्ते यदि प्रत्यक्षया श्रुत्या प्रतिषिध्यन्ते ततस्तद्विरोधेनौदुम्बरीसर्ववेष्टनवत् तत्राप्रमाणानि स्युः, न च तत्प्रतिषेधः श्रुतेः साक्षादवगम्यते ।
तस्मात्स्मृत्यादिविहितं चातुराश्रम्यमप्रतिषिद्धं श्रुत्या न शक्यं परित्यक्तुमित्यर्थः ।
न चाविधानेन तत्प्रतिषेधानुमानमित्याह ।
अधिकाराच्चेति ।
गार्हस्थ्योपदेशस्याधिकारात्तस्यैव विधानं नाश्रमान्तरस्य न त्वाश्रमान्तराभावात् ।
न हि व्याकरणं शब्दं व्युत्पादयत्प्रमाणाद्यभावमाक्षिपति ।
अपि च मा भूत्प्रत्यक्षविधानं श्रुतौ ससाधनापवर्गाभिधानानि चातुराश्रम्याभिधानानि च प्रत्यक्षाण्युपलभ्यन्ते वचनानि तान्यपूर्वत्वाद्विधानानि अपवर्गस्य ससाधनस्य चातुराश्रम्यस्य च भविष्यन्तीत्याह ।
ऋग्ब्राह्मणं चापवर्गाभिधाय्यभिधायत इति ।
मृत्युमिः परं कर्मभ्य इति ।
कर्मपरित्यागमपवर्गसाधनं सूचयति ।
अमृतत्वमिति चापवर्गो दर्शितः ।
सूचितं कर्मत्यागमपवर्गसाधनं श्रुत्यन्तरेण विशदयति ।
न कर्मणा न प्रजयेति ।
परेण नाकमिति ।
नाकमित्यविद्यामुपलक्षयति ।
अविद्यातः परमित्यर्थः ।
निहितं गुहायामिति लौकिकप्रमाणागोचरत्वं दर्शयति ।
तमसः परस्तादिति ।
अविद्या तमः तस्य परस्तात् ।
आदित्यवर्णमिति ।
नित्यप्रकाशमित्यर्थः ।
तदनेनेश्वरप्रणिधानस्यापवर्गोपायतवमुक्तम् ।
ऋच उदाहूत्य ब्राह्मणमुदाहरति अथ ब्राह्मणानीति ।
यज्ञ इत्यादिना गृहस्थाश्रमो दर्शितः ।
तप
एवेति वानप्रस्थाश्रमः ।
ब्रह्मचारीति ब्रह्मचर्याश्रमः ।
एषामभ्युदयलक्षणं फलमाह ।
सर्व एवैत इति ।
चतुर्थाश्रममाह ।
ब्रह्मसंस्थ इति ।
तथाक्रतुरिति ।
क्रतुः संकल्पः ।
कामयमानोव य आसीत् स एवाथाकामयमानो भवति ।
अकामयमानः कामं परिहरन् तत्परिहारसिद्धौ सो ऽकामयंस्तस्य व्याख्यानं निष्काम इति ।
आत्मकाम
इति ।
कैवल्योपेतात्मकामः तत्प्राप्त्या आप्तकामो भवति ।
न तस्य प्राण इति शाश्वतो भवतीत्यर्थः ।
प्रकृतमुपसंहरति तत्र यदुक्तमिति ।
अपरामपि चातुराश्रम्याभिधायिनीं श्रुमिमाह ।
ये चत्वाच इति ।
इतश्च फलार्थिन एष जरामर्यवाद
इत्याह ।
फलार्थिनश्चेति
न्य्स्_4,1.61: समारोपणादात्मन्यप्रतिषेधः ॥
पृष्ट्वा ।
सूतं पटते कथम् ।
समारोपणादात्मन्यप्रतिषेधः (सू. 61) ॥
आत्मयग्नीनां समारोपणादृणानुबन्धनापवर्गस्याप्रतिषेधः ।
तदेनन च्छलेन प्रत्यक्षविधानं प्रव्रज्याया अपि दर्शितम् ।
एषणाव्युत्थितस्य विपर्यस्तुबुद्धेः
अलमाभिरेषणाभिरनर्थहेतुभिरिति कृतबुद्धेः
अत एव निवृत्ते फलार्थित्वे समारोषणमात्मन्यग्नीनां विधीयते इति ।
एवं ब्राह्मणानीति यदैषणाभ्यो व्युत्थितस्य प्रव्रज्याविधानं तदा तदभिधायीनि ब्राह्मणान्युपपन्नानीत्यर्थः
न्य्स्_4,1.62: पात्रचयान्तानुपपत्तेश्च फलाभावः ॥
प्रमृते खलु यजमाने यज्ञपात्राणि यजमानस्य शरीरे यथावयसवं निधायान्त्येष्टिः क्रियते ।
तत्र जरामर्ये कर्मण्यविशेषेण कल्प्यमाने सर्वस्य पात्रचयान्तानि कर्माणीति प्रसज्येत मरणपर्यन्तानि कर्माणीति प्रसज्येतेत्यर्थः ।
नन्विष्यत एव पात्रचयान्तत्वं कर्मणामित्यत
आह ।
तत्रैषणाव्युत्थानमिति ।
तस्मान्नाविशेषेण कर्तुः प्रयोजकं फलं भवतीति ।
फलाभाव
इत्यस्य सूत्रावपयवस्याविशेषेण फनस्य कर्तृप्रयोजनकत्वाभाव इत्यर्थः ।
तदनेनैषणाव्युत्थानश्रुतिविरोधा दर्शितः ।
तदेवं चातुराश्रम्यस्य श्रुतिरुक्ता ।
संप्रति स्मृत्यादयो ऽपि चातुराश्रयम्यस्योपदेशकाः सन्तीत्याह चातुराश्रम्यविधानाच्चेति ।
शङ्कते तदप्रमाणमिति चेत् ।
जगन्निर्मातुः परमकारुणिकस्य सर्वज्ञस्यात्रभवतः परमेश्वरस्यागमो भवतु प्रमाणमाप्तोक्तत्वात् ।
मनुव्यासादीनां त्वाप्तत्वानिश्चयात्कयं तत्प्रणीतानां प्रामाण्यनिश्चय इत्यर्थः ।
उत्तरं प्रमाणेनेति ।
स्यादेतत् ।
भवतु वेदेनाभ्यनुज्ञानादितिहासपुराणप्रामाण्यं धर्मशास्त्राणां तु मन्वादिप्रणीतानां कुतः प्रामाण्यनिश्चय इत्यत आह ।
अप्रामाण्ये चेति ।
सर्वजनपरिग्रहात्तेषामपिप्रामाण्यमित्यर्थः ।
बुद्धादिस्मृतयस्तु वेदनिन्दितैर्म्लेच्छादिभिः परिगृहीता न त्वार्यैरिति न ताः प्रमाणं भवितुमर्हन्तीत्यर्थः ।
द्रष्टृप्रवक्तृसामान्याच्चाप्रामाण्यानुपपत्तिः ।
य एव वेदस्य द्रष्ट्रारो ऽनुष्ठातारश्च तदर्थस्य त एवेतिहासादीनां प्रवक्तारः प्राचेतसकृष्णद्वैयायनमनुप्रभृतयः ।
अपि च वैदिकानि कर्माणि स्मार्तीमितिकर्तव्यतामपेक्षन्ते स्मार्तनि च वैदिकानि मन्त्रादीनीति सर्वमेतदप्रमाण्ये धर्मशास्त्राणां नोपपद्यते ।
यद्यपि च मन्वादयो ऽपि धर्मज्ञानवैराग्यैश्वर्यशालितया अनुभूयाप्युपदिशन्तीति संभवति तथापि वेदमूलकत्वमेवेतिहासपुराणादिनां युक्तम् ।
तथा हि ।
ऽवेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
यः कश्चित्कस्य चिद्धर्मोमनुना परिकीर्तितः ॥
स सर्वो ऽभिहितो वेदे सर्वज्ञानमयो हि सः ... इत्यादिभिः स्ववचनप्रपञ्चैरात्मा बद्धपा वेद एवार्पितस्तैरिति ।
अथायमितिहासादिगोचरोर् ऽथः कस्मात्प्रत्यक्षप्रतीतेन वेदेन नोच्यत इति तदनभिधानादवगच्छमो नूनमयमनभिमतो वेदानां कर्तुरिति ।
निराकृतो ऽप्ययं पुनर्निराक्रियते दार्ढ्यार्थं विषयव्यवस्थानाच्चेत्यनेन
न्य्स्_4,1.63: सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः ॥
यदप्युक्तं क्पलेशानुबन्धस्याविच्छेदादिति तद्दूषयति ।
सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः (सू. 63) तद्व्याचष्टे सुषुप्तस्य खल्विति ।
लोकसिद्धतया सुषुप्तावस्थोदाहृता ।
महाप्रलयावस्थायामपि क्लेशमुक्ता एवात्मानः केवलमसौ न लोकसिद्धेति नोदाहृता ।
एतावांस्तु मुक्तावस्थायां विशेषः यदस्यां क्लेशवासनापि नास्ति ।
सुषुप्तावस्थायां प्रलयावस्थायां च क्लेशविच्छेदे ऽपि तद्वासना ऽस्तीति
न्य्स्_4,1.64: न प्रवृत्तिः प्रतिसंधानाय हीनक्लेशस्य ॥
यदपि प्रवृत्त्यनुबन्धादिति तत्राह--- न प्रवृत्तिः प्रतिसंधानाय हि हीनक्लेशस्य (सू. 64) ॥
देहिनः ।
तद्व्याचष्टे क्षीणेषु रागद्वेषमोहेषु सत्यपि न प्रवृत्तिः स्वप्रतिसंधानाय ।
उपपादितमिदमस्माभिर्यथा दोषतुषावनद्धाः कर्मतन्दुला जन्माङ्कुराय कल्पन्ते, न केवला इत्यर्थः ।
शङ्कते कर्मवैफल्येति।वैफल्ये शास्त्रस्य कर्मणां फलसाधनताप्रतिपादकस्याप्रामाण्यप्रसङ्ग
इति भावः ।
निराकरोति न कर्मविपाकेति ।
विपाक फलं तस्य प्रतिसंवेदनं भोगः
न्य्स्_4,1.65: न क्लेशसंततेः स्वाभाविकत्वात् ॥
पूर्वपक्षबाद्याह ।
न क्लेशसंततेः स्वाभाविकत्वात् (सू. 65) ॥
सिद्धान्त्येकदेशी ब्रूते ।
न्य्स्_4,1.66: प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविकेप्यनित्यत्वम् ॥
प्रागु--त्वम् (सू. 66) ॥
दध्यादेरुत्पत्तेः प्राक् क्षीरादिषुयो भावस्तस्यानित्यत्ववदिति योजना
न्य्स्_4,1.67: अणुश्यामतानित्यत्ववद्ध ॥
अपरस्त्वेकदेशी भावमेव दृष्टान्तयतीत्याह ।
अणुश्यामतानित्यत्ववद्वा (सू. 67) ॥
यदेतच्छ्यामं रूपं तदन्नस्येत्यागमः पार्थिवानां परमाणूनां श्यामतामनादिमाह
अन्नपदेन मृदो ऽभिधानादिति भावः ।
अत्र प्रथममेकदेशिनं दूषयति सतः खल्विति ।
द्वितीयमेकदेशिनं दूषयति ।
अनादिरणुश्यामतेति हेत्वश्रावान्न युक्तम् ।
अणुश्यामता कार्या पृथिवीरूपत्वात्
लोहितादिवदिति प्रत्युतानित्यताहेतुरस्ति ।
पुरुषयत्नजलोहितापदिरूपवैलक्षण्येन त्वस्पवयाप्रयत्नपूर्वकत्वमात्रेणानादित्वाभिधानमिति नागमविरोधः
मूल पाठ: Nyāyasūtra with Vacaspatimiśra's Nyāyavārttikatātparyaṭīkā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0