भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र (टीका सहित) · अध्याय 10

10.1

न्य्स्_4,1.68: न संकल्पनिमित्तत्वाच्च रागादीनाम् ॥
तदेवमेकदेशिनौ दूषयित्वा परमसमाधिमाह ।
अयं तु समाधिः--
न संकल्पनिमित्तत्वाच्च रागादीनाम् (सू. 68) ॥
चकारमनुक्तसमुच्चायार्थं व्याचष्टे ।
कर्मनिमित्तत्वादितरेतरनिमित्तत्वाच्च ।
समुच्च्यो ऽनुक्तस्येति शेषः ।
तत्र संकल्पनिमित्तत्वादिति विभजते ।
मिथ्यासंकल्पेभ्य इति ।
यद्यप्यनुभूतविषयप्रार्थना संकल्पः तथा ऽपितस्य पूर्वभागो ऽनुभवो ग्राह्यः ।
प्रार्थनाया रागत्वात् ।
तेन मिथ्यानुभवः संकल्प इत्यर्थः ।
नन्वेकस्मान्मिथ्याज्ञानात्कुतः कार्यवैचित्र्यमित्यत आह ।
रञ्जनीयकोपनीयमोहनीयेभ्य
इति ।
भव्यगेयादिषु पाठात्कर्त्तरिकृत्यः ।
मोहनीयः संकल्पो मिथ्याज्ञानसंस्कारः ।
कर्मनिमित्तत्वं रागादीनां विभजते ।
कर्म चेति निकायेन जातिरुपलक्ष्यते ।
इतरेतरनिमित्तत्वं रागादीनामाह ।
इतरेतरेति ।
स्यादेतत् ।
भवन्त्यनित्याः क्लेशाः तथापि यदेषां निर्वर्त्तकं मिथ्याज्ञानं तस्य निवृत्तिहोतोरभावत्स
एव क्लेशानुबन्धादपवर्गाभाव इत्यत आह ।
सर्वमित्यासंकल्पानामिति ।
अपि चानादिः क्लेशसंततिरित्युक्तम् ।
कुतः सर्वैमे आध्यात्मिका भावा इति ।
आत्मानमधिकृत्य प्रवर्तमानाः शरीरेन्द्रियादयो भवन्त्यापध्यात्मिका इति ।
अथ यद्यनादीनामपि निवृत्तिः हन्तानुत्पत्तिधर्मकाणामपि निवृत्तिप्रसङ्ग इत्यत आह ।
न चैवं सत्यनुत्पत्तिधर्मकं किं चिदिति ।
रागादीनामुत्पत्तिधर्मकाणामेव व्ययधर्मकत्वाभ्युपगमादित्यर्थः ।
ननु मा भूवन्मिथ्याज्ञाननिमित्ता रागादयो मिथ्याज्ञानानिवृत्तौ,
ये पुनरमी कर्मनिमित्तास्तेषां कुतो निवृत्तिः न च कर्मनिवृत्तौ रागादिनिवृत्तिः
रागादिमतः कर्मनिवृत्तेरभावात्, तस्मान्न मोक्ष इत्यत आह ।
कर्म च निकायनिर्वर्तकं तत्त्वज्ञानकृतान्मिथ्याज्ञानरूपसंकल्पविघातान्न रागाद्युतपत्तिनिमित्तं भवति ।
सर्वरागादीनां मित्याज्ञानमेव निमित्तम् ।
कर्माणि तु निकायनियमेन रागादीन् प्रवर्तयन्तीति कर्मनिमित्तत्वमुक्तमिति भावः ।
ननु यथा रागादयः सत्यपि कर्मणि मिथ्याज्ञाननिवृत्त्या निवर्तन्ते एवं सत्यपि कर्मणि मिथ्याज्ञाननिवृत्त्या फलमपि मा भूदित्यत आह ।
सुखदुः खसंवित्तिः फलं तु भवतीति ।
वार्त्तिकम् ।
यावज्जीवसंयोगे हि जरया ह वेत्यनर्थकमिति ।
(495।9) मृत्युना वेत्यनेनैव गतार्थत्वादित्यनुक्त्वा भाष्योक्ता द्वितीय युक्तिरभिहिता वार्तिककृता ।
यस्मात्स्वयमशक्तस्येत्यनेन ।
यज्ञसाधनत्वादिति ।
(496।7) यज्ञकर्तृत्वादित्यर्थः ।
एतदेव स्फटयति ।
यस्माद्यजमानो यज्ञाङ्गं भवति ।
यथाह भगवान जैमिनिः पुरुषश्च कर्मार्थत्वादिति ।
संकल्पाद्यपेक्षं कर्म रागादिकारणमिति ।
(498।20) यज्जातीयस्य जन्मनो यत्कर्म कारणं तज्जन्मोचितामेव मिथ्याज्ञानवासनामभिव्यनक्तीति तद्द्वारेण रागादीनां कारणं भवति ।
चोदयति ।
सुखादीनामिति ।
यथा मिथ्याज्ञानसहायं कर्म रागादिहेतुः एवं तत्सहायं फलहेतुरिति चरमदेहस्य तत्वज्ञानवतः सदपि कर्म फलकारणं न स्यादित्यर्थः ।
परिहरति ।
न निरप्रेक्षत्वादिति ।
कर्माशयप्रपञ्चमुच्छेत्तुममूढो ऽप्यसक्तो ऽप्यद्विष्टो ऽपि मूढ इव सक्त इव द्विष्ट इव तत्फलं भुङ्क्त इति रागाद्यनपेक्षं कर्म स्वफलं जनयति तेनासौ फलोषभोगो न बन्धहेतुः मूढादीनां बन्धहेतुः मूढादीनां बन्धहेतुफलोपभोगः स चतादृशो रागादिसहायैः कर्मभिः क्रियते न रागादिनिरपेक्षैरित्यवदातम् ॥ इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां चतुर्थाध्यायस्याद्यमाह्निकम् ॥
चतुर्थे ऽध्यायेद्वितीयमाह्निहम् ।
न्य्स्_4,2.1: दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः ॥
तदेवं संशयप्रमाणप्रमेयाणि परीक्षितानि ।
प्रयोजनादयो ऽपि यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्ग
इतयतिदेशेन परीक्षिता इति षोडशापि प्रमाणादयः परीक्षिताः ।
तेषां तत्त्वज्ञानं निःश्रेयसाधिगमहेतुरित्युक्तम् ।
तत्रापि प्रमेयतत्त्वज्ञानं साक्षान्निःश्रेयसहेतुरितरेषां तु तत्त्वज्ञानाङ्गतयेत्युक्तम्1 इदमिहेदानीं परीक्ष्यते किंप्रत्येकमात्मादीनां प्रमेयाणां तत्त्वज्ञानं निःश्रेयसाधिगमहेतुरुताहो कस्य चिदेषामेकदेशस्येति ।
तामिमां परीक्षामवतारयति भाष्यकारः ।
किं नु खवलु भोः यावन्तो विषयाः प्रमेयाणि तावत्सु प्रत्येकमिति।प्रतिप्राणभृद्भेदं यावन्त आत्मानः यावन्ति चेन्द्रियाणिप चेत्यर्थः ।
पार्श्वस्थः पूर्वपक्षिणं पृच्छति कश्चात्र विशेषः ।
पूर्वपक्षिण उत्तरं न तावदेकैकत्रेति ।
समुदायैकदेशाभ्यामनुपपत्तेः ।
प्रमाणादितत्त्वज्ञानान्निःश्रेयसाधिगम इत्ययुक्तमिति पूर्वः पक्षः ।
सिद्धान्तमाह ।
मिथ्याज्ञानं वै खलु मोह इति ।
वैशब्दः खलु पूर्वषक्षाक्षमायां खलुशब्दो हेत्यर्थे ।
अयुक्तः पूर्वपक्षो यस्मान्मिथ्याज्ञानं मोह इति ।
न तत्त्वज्ञानमज्ञाननिवृत्तिमात्रेण निः श्रेयसोपयोगि अपि तु संसारनिदानोच्छेदद्वारेण दृष्टेनैव, न च तत्त्वाज्ञानं संसारहेतुरपि तु मिथ्याज्ञानम् ।
तदुच्छिन्दद्विरोधितया तत्त्वज्ञानमपवर्गहेतुरिति ।
भवत्वेतत्तथा ऽपि पूर्वपक्षस्य किमायातमित्यत आह ।
तच्च मिथ्याज्ञानं यत्र विषये प्रवर्तमानमिति ।
स्वसम्बन्धिनो ह्यात्मादयो विपर्ययेण परिच्छिन्नाः संसारहेतव इति तद्विषयमेव मिथ्याज्ञानमपनेयं नात्माद्यन्तरविषयं ज्ञानं तेन तत्र मिथ्याज्ञानं मा निवर्तिष्ट निवर्ततां वा, स्वात्मादिदृष्टान्तेन,
न तु तस्य संसारनिवृत्तिं प्रत्युपयोगः ।
यस्य तूपयोगस्तत्र तत्त्वज्ञानं दुष्करमिति ।
पृच्छति ।
किं पुनस्तन्मिथ्याज्ञानम् ? सन्ति खलु वादिनां नानाविप्रतिपत्तयः ।
के चिदाहुः ।
विधूतविविधनामरूपप्रपञ्चोपप्लवविशुद्धविदानन्दघनाद्वैतब्रह्मसाक्षात्कारस्तत्त्वज्ञानमिति ।
अन्ये तु सत्त्वपुरुषान्यताख्यातिम् ।
धर्ममुद्गलनैरात्म्यज्ञानमित्यपरे ।
शरीरेन्द्रियाद्यनित्वव्यतिरिक्तनित्यात्मदर्शनमिति वृद्धाः ।
तदेवं विप्रतिपत्तेः प्रश्नः ।
उत्तरम् ।
अनात्मन्यात्मग्रहो ऽहमस्तीति मोहो ऽहङ्कारः ।
न तावदद्वैतानन्दघनात्मज्ञानं तत्त्वज्ञानम् ।
भेदस्य प्रत्यक्षसिद्धस्यासति बाधके ऽपह्नोतुमशक्यत्वात् ।
न च प्रकाशानन्दावात्मधर्मातिरिक्तावात्मस्वभावौ भवितुमर्हतः ।
सत्यं विज्ञानमानन्दं ब्रह्मेति श्रुतिरानन्दचैतन्यशक्त्यभिप्रापया भेद एव च तद्वत्तया कथं चित् सामानाधिकरण्यमुपपद्यते ।
अभेदे त्वानन्दविज्ञानयोस्तत्पदयोः पर्यायतया सह प्रयोगानुपपत्तिः ।
न च प्रकृष्टप्रकाशः सवितेत्यत्र प्रकृष्टप्रकाशयोरभेदो ऽप्रकाशस्यापि प्रकर्षसम्भवात् ।
अप्रकृष्टस्यापि खद्योतादेः प्रकाशसम्भवात् ।
तस्माद्यत्किं चिदेतत् ।
सत्त्वपुरुषान्यताख्यातिस्तु सत्त्वस्यैव प्रकृतेरसम्भवादयुक्ता सत्कार्यवादमूलत्वात्प्रधानसद्भावस्य तन्निराकरणेनैव निराकरणम् ।
धर्मपुद्गलनैरात्म्ये तु क्षणभङ्गभङ्गे नित्यात्मसद्भावकथनेन निराकृते ।

तस्मात्सुष्ठूक्तमनात्मन्यात्मग्रहो ऽहमस्मीति मोहो ऽहङ्कार इति ।
अत एव सर्वस्यैवमात्माशीः कृमेरपि मा न भूवं भूयासमिति ।
सो ऽयमीदृशो ऽभिनिवेशः शरीरादीनामात्मत्वेनाध्यवस्यतो भवति नात्मतत्त्वविदुषः स खल्वहिनिर्ल्वयनीमिवाहिस्ततो व्यतिरिक्तं शरीरादि पश्यन्न तत्र स्निह्यति स्नेहविरहान्न तप्यते नाप्यनुशोचतीति ।
अतत्त्वज्ञानवतः संसारं दर्शयित्वा तत्त्वज्ञानवतः संसारनिवृत्तिमाह ।
यस्तु दुःखमिति ।
तदेवमुक्तेन प्रकारेण मोहतत्त्वज्ञानयोः संसारापवर्गहेतुभावो यस्मात्तस्मान्मोक्षमाणैः प्रेत्यभावफलदुःखानि च ज्ञेयानि व्यवस्थापयतीत्यादिपूर्वोपसंहारः ।
आसेवमानस्याभ्य स्यतो भावयत इति पर्यायकथनं भावनादार्ढ्येपदर्शनार्थम् ।
अर्थगतिं परिशोध्यात्रार्थे सूत्रं पठति ।
दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः
(सूः1) ॥
शास्त्रार्थसंग्रहो ऽनूद्यते शास्त्रतात्पर्यसंग्रहो द्वितीयसूवेणानूद्यतैत्यर्थः ।
किं नु खलु भो इति भाष्यं तदनुपपन्नं यतो न विषयमात्रज्ञानमपवर्गहेतुरपि तु प्रमेयतत्त्वज्ञानमित्यत
आह वार्तिककारः ।
तत्र विषयान्तराणामिति ।
(500।8) यावन्तो विषया इति न विषयमात्राभिप्रायमपि तु प्रमेयाभिप्रायमित्यर्थः ।
सुगममन्यद्वार्तिकम्

10.2

न्य्स्_4,2.2: दोषनिमित्तं रूपादयो विषयाः संकल्पकृताः ॥
शरीरादिष्वनात्मस्वात्मबुद्धिर्निवर्तनीयेत्युक्तं तत्र प्रथमं कस्मिन्नात्मबुद्धिर्निवर्तनीयेत्यपेक्षायामाह ।
प्रसंख्यानानुपूर्व्या तु खलु ।
प्रसंख्यानं समाधिजं तत्त्वज्ञानं तच्च विषये सुकरमिति तत्रैव प्राथमिकस्य प्रथमं प्रयत्नो युक्तः ।
सूत्रम् ।
दोषनिमित्तं रूपादयो विषयाः संकल्पकृताः (सू. 2) ॥
मिथ्याज्ञानं संकल्पस्तेन विषयीकृता इत्यर्थः ।
कामाः काम्याः

10.3

न्य्स्_4,2.3: तन्निमित्तं त्व् अवयव्यभिमानः ॥
अन्ये खलु अवयविसंज्ञां निवर्तयन्तो ऽवयविनमेव प्रत्याचक्षते तान् प्रत्याचक्षाण आह ।
अतः परं काचिदिति (502।2) सूत्रम्--- तन्निमित्तं त्ववयव्यभिमानः (सू. 3) ॥
निमित्तं दन्तत्वादि तद्विशिष्टा विषयाः संज्ञाः प्रियायाः कामुको दन्तोष्ठनासिकादीनवयवाननुभावयन्
तस्यां सक्तो भवति ।
व्यञ्जनान्यवयविनो ऽवयवास्तैः सहोपलम्भात्तेषामनुव्यञ्जनं तत्सादृश्यं तेन तदारोपः ।
तथा च स्त्रैणानां व्यवहारः ।
द्रवत्कनकनिर्मलद्युतिरनङ्गलीलैकभ-
र्महेभकटविभ्रमस्तनभरालसाङ्गी यदि ।
प्रिया न परिरभ्यते तुलितसिद्धंसंजीविनी सहेमहि कुतो ऽन्यथा विषमबाणबाणव्यथाम् ।
मदनसरितमेनां गाहमानो जनो ऽयं जघनपुलिननाभीमण्डलावर्तरम्याम् ।
मुखनलिनसनाथामुल्लसद्भ्रुलतोर्मिं चिरविरहहुताशायासमुज्झां चकार ।
विवेकिनस्त्वशुभसंज्ञां भावयन्तः प्राहुः ।
मज्जामस्थ्नामथ प्लीह्नां यकृतां शकृतामपि ।
पूर्णाः स्नायुशिरास्यूताः स्त्रियश्चर्मप्रसेविकाः ।
ऋषयो ऽप्यूचुः ।
स्थानाद्बीजादुपष्टम्भान्निष्पन्दान्निधनादपि ।
कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः ।
अशुभसंज्ञाभावनाप्रयोजनमाह ।
तामस्यभावयत
इति ।
तत्किमिदानीमवयवानुव्यञ्जनसंज्ञयोर्विषयो नास्त्यशुभसंज्ञाविषय एव परमस्तीत्यत
आह ।
सत्येव च द्विविधविषय इति ।
द्विविध
एवासौ कामिनीलक्षणो विषयस्तथा ऽपि रागादिप्रहाणार्थमवयवादिसंज्ञागोचरत्वं परित्यज्याशुभसंज्ञागोचरत्वमस्योपादीयते वैराग्योत्पादनायेत्यर्थः ।
अत्रैव दृष्टान्तमाह ।
यथा विषसंपृक्त इति ।
न हि विषमधुनी परमार्थतो न स्तः अपि तु वैराग्याय विषसंज्ञा तत्रोपादीयतैत्यर्थः

10.6

न्य्स्_4,2.4: विद्याविद्याद्वैविध्यात् संशयः ॥
तदेवं स्वमतेन प्रसंख्यानोपदेशमुक्त्वा पराभिमतप्रसंख्यानं निराकर्त्तुमुपन्यस्यति ।
अथेदानीमर्थं निराकरिष्यता विज्ञानवादिना ऽवयविनिराकरणमुपपाद्यते ।
अर्थविशेषे खल्ववयवानुव्यञ्जनसंज्ञे ।
तत्रार्थमात्रस्याभावात्कुतो ऽवयवानुव्यञ्जनसंज्ञे, तन्निराकरणाय प्रथममवयवी निराक्रियते पश्चात्परमाणुः, ततश्च ज्ञानमात्रमर्थरहितं सिद्धं भवतीत्यभिप्रायः ।
तत्र संशयपूर्वकत्वादुपपादनस्य विचारस्य संशयं प्रथममाह ।
विद्याविद्याद्वैविध्यात्संशयः (सू. 4) ॥
उपलब्धिर्विद्या अनुपलब्धिश्चाविद्या ।
सच्चोपलभ्यते यथा तडागे तोयम् ।
असच्चोपलभ्यते यथा मरुमरीचिकायामुदकम् ।
सच्च नोपलभ्यते यथा चिरनिखातं भूमौ निध्यादि ।
असच्च नोपलभ्यते यथा भूतले दृश्यमाने तत्तुल्योपलम्भनयोग्यतो घटादिः ।
तदेवं विद्याविद्याद्वैविध्यादवयविनि संशयः ।
यद्यवयव्युपलभ्यते तथापि संशयः
अथ नोपलभ्यते तथा ऽपि संशय इत्यर्थः ।
न्य्स्_4,2.5: तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ॥
तत्र सिद्धान्ती वक्ष्यमाणमप्यवयविनिराकरणहेतुं निराकरिष्यामीत्याशयवानाह ।
तदसंशयः पूर्वहेतुप्रसिद्धत्वात् (सू. 5) ॥
अवयविनः ।
वार्तिककारस्तु स्वयं संशयं निराकरोति ।
न विद्याविद्याद्वैविध्यं संशयस्य कारणमिति (502।21)॥ 4-5 ॥
न्य्स्_4,2.6: वृत्त्यनुपपत्तेरपि तर्हि न संशयः ॥
पूर्वपक्षवाद्याह वृत्त्यनुपपत्तेरिति

10.9

न्य्स्_4,2.7: कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः ॥
वृक्षस्तिष्ठति शाखादिषु शाखादयो वा वृक्ष इति लौकिकीं प्रतिपत्तिमनुरुध्यमानो विकल्पयति वार्त्तिककारः ।
अवयवा अवयविनीति ।
(503।10) एकद्रव्यश्चावयवः प्राप्नोति ।
कुतः एकावयविवृत्तित्वात् ।
भवतु को दोष इत्यत आह ।
न चैकद्रव्यं द्रव्यमविनश्यदाधारमस्ति ।
कृतकस्य नित्यत्वप्रसङ्गादिति शेषः ।
अवयव्येकदेशेनेति ।
अवयविनो य एकदेशास्तेनावयवो ऽवयविनि वर्त्ततैत्यर्थः ।
न ह्यस्यावयविनो ऽन्ये अवयवेषु एकदेशा अवयवाः सन्तीति
न्य्स्_4,2.8: तेषु चावृत्तेरवयव्यभावः ॥
एकेनावयवेनारभ्यत इति सततोत्पत्तिप्रसङ्गः ।
संयोगाय किल चरमभाविने अवयवव्यापारस्तन्निमित्तानि चापेक्ष्यन्ते ।
एकद्रव्यस्योत्पत्तिं प्रति न संयोगापेक्षेति यावदवयवमवयव्युत्पद्येतेत्यवयव्यनवरुद्धो न कदाचिदवयवो दृश्येतेत्यर्थः ॥ 7-8 ॥
न्य्स्_4,2.9: पृथक् चावयवेभ्यो ऽवृत्तेः ॥
अवयव्यतिरेकेण वर्त्तमानो ऽवयव्युपलभ्येत न चास्याधारान्तमुपलभ्यते दृश्यमानश्चावयवो नाधिकरणमस्येति भवतैव वादिना ऽभ्युपगतमित्यभिप्रायेणाह ।
नित्यश्च स्यात्

10.10

न्य्स्_4,2.10: न चावयव्यवयवाः ॥
यस्तु मन्यते अवयवानां धर्ममात्रमवयवी न त्ववयवेभ्यो ऽत्यन्तं भिन्नो ऽभिन्नो वा भिन्नत्वे गवाश्ववद्वर्मधर्मिभावानुपपत्तेः ।
अभेदे ऽपि धर्मिरूपवत्तदनुपपत्तेश्च ।
तस्मात्कथं चिद्भिन्नो ऽभिन्नश्च कथं चिद्धर्ममात्रमवयवानाममयवीति तं प्रत्याह ।
न चावयव्यवयवाः (सू. 10) ॥
न तावद्भेदाभेदौ परस्पराभावात्मानावेकत्र समवेत इत्युक्तम् ।
नाप्यात्यन्तिके ऽभेदे धर्मधर्मिभावः तस्माद्यथात्यन्तिकभेदे ऽपि केषाञ्चिदेव कार्यकारणभावः तथा केषां चिदेव धर्मधर्मिभाव इत्येषितव्यम् ।
तथा च दूषणमित्यर्थः ।
अवयवी चैकदेशेनावयवे वर्त्तत इति अवयवसमूहमात्रमवयवी प्राप्नोतीति ।
अस्यायमर्यः ।
अवयवे हि वर्त्तमानो ऽवयवीत्युच्यते ।
अवयव्येकदेशाश्चेदवयवेषु वर्त्तन्ते एकदेश
एव तर्ह्यवयविनः ।
ते च नानेत्त्यवयवसमूहमात्रमवयवी प्राप्नोति ।
एकस्मिंश्चावयवे एकदेशे वर्त्तमानो ऽवयवीति न तावदवयवी क्वचिदवयवे वर्त्तत इति तदेकदेशानां तत्र तत्रावयवे वृत्तेः तावन्मात्रेण चावयविनो ग्रहणमिति यत्रैवास्यैकदेशो वर्त्तते तत्रैव ग्रहीतव्यः ।
तथा चैकस्मिन् तन्तौ पटैकदेशो वर्त्तत इति तन्तावेकस्मिन् पटो दृश्येतेत्यर्थः

10.12

न्य्स्_4,2.11: एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ॥
सिद्धान्तवाद्याह ।
न्य्स्_4,2.12: अवयवान्तराभावे ऽप्यवृत्तेरहेतुः ॥
एकदेशनेन चावयवी न स्वावयवेषु वर्त्ततैत्यत्र प्रतिज्ञार्थे अवयवान्तराभावादित्यहेतुः ।
कस्माद् यद्यप्यवयवान्तरमवयविनो भवति तथाप्यवयवान्तराण्यवयविनो ऽवयवान्तरेषु वर्त्तन्ते किमायातमवयविवृत्तेरिति ।
एक श्चानेकत्र वर्त्तत इति प्रतिज्ञानानः किं कार्त्स्न्येन किमेकदेशेनेति नानुयोक्तव्यः, कस्मात्
उभयेन कार्त्स्न्येन एकदेशेन वा नानात्वैकार्थसमवायिना एकस्यावयविनो व्याघातात् ।
एतदुपजीव्याह यद्यवयवी नैकदेशेन वर्त्तने न कार्त्स्न्येन
अथ कथं वर्त्तत इति ।
शङ्कते रूपान्तरानिर्द्देशादिति चेत् ।
(506।7) सोपहासं दृष्टान्तमाह ।
यथा अचित्रास्तन्तवः पटं चित्रमारभन्त इति ।
नैयायिकैः किलाचित्रैस्तन्तुभिश्चित्रः पट आरभ्यतैत्यभ्युपेयते ।
तच्चैतदयुक्तम् ।
न तावच्चित्रं रूपमेकं पटसमेवतं स्ववचनविरोधात् ।
नाना हि चित्रमुच्यते तत्कथमेकमिति ।
तेन यदुक्तं भवति नानैकमिति तदुक्तं भवति चित्रमेकमिति ।
यदाहुः ... चित्रं तदेकमिति चेदिदं चित्रतरं महदिति ।
न च नीलपीतादय एव बहवो ऽव्याप्यवृत्तयश्चित्रपदास्पदमिति सांप्रतम् ।
रूपादनां व्याप्यवृत्तित्वात् ।
ते ऽमी विवादाध्यासिता नीलपीतादयो व्यापनीया आश्रयवृत्तयो रूपजातीयत्वात्
शुक्लपटगतरूपवदिति--उपपन्न उपहासो यथा अचित्रास्तन्तवः पटं चित्रमारभन्त इति ।
निराकरोति ।
नोपलभ्यमानरूपाधारत्वात् ।
अवयविनो रूपं निर्द्दिश्यतामिति ब्रुवाणेनेति ।
अवयवो ऽस्यास्तीत्यवयवी अवयवश्च कारणं तद्वानवयवी कार्यमिति कार्यकारणभावाभ्युपगमः कुतो भवति ।
न च प्रसङ्गसाधनं नाम किं चिदस्ति प्रमाणम् ।
तर्कस्तु भवेत् न चायं प्रमाणेनेतिकर्तव्यतां विना प्रमाणमर्थं साधयितुमर्हतीत्यर्थः ।
यदपि त्वयोपहासाभिप्रायेण पटरूपं चित्रं दृष्टान्तीकृतं तत्राभिप्रायस्तावत्तव यादृशस्तादृशोवा सचनात्तावदयं दृष्टान्तः प्रतिभाति ।
दृष्टान्तश्च वादिप्रतिवादिनोरविवादविषय इति तत्साधनं व्यर्थम् ।
तथा ऽप्युपेत्य चित्रवादं ब्रूमः त्वां प्रति चित्रं रूपं पटसम्बन्धितया साधयामस्त्वदभिप्रायव्याप्तोपहासनिराकरणायेत्यर्थः ।
पटस्य चित्रं रूपमित्यनुभव एवात्राबाधितः प्रमाणमिति भावः ।
बौद्धः स्वाभिप्रायमुद्घाटयति अनेकत्वप्रसङ्ग इति श्चेदिति ।
निराकरोति ।
चित्रशब्दस्यैकानेकविषयत्वात् ।
यदि नानैव चित्रमुच्येत ततः स्याद्विरोधः किं त्वेकस्मिन्नपि चित्रपदं प्रयुज्यते ।
तस्मान्नैकत्वेनास्य विरोध इत्यर्थः ।
देशक आह नैकस्मिन्नदृष्टत्वात् ।
एकस्मिंश्चित्रग्राहिणो ऽनुभवस्यादृष्टत्वात् ।
पुरुषविवक्षाधीनप्रवृत्तयस्तु शब्दाः क्व नाम दुर्लभा इति भावः ।
परिहरति नाभ्युपेतहानेरिति ।
(507।1) न तावदनेकपदपर्यायश्चित्रशब्दो ऽनेकं चित्रमित्यनेक प्रदेन सामानाधिकरण्यं प्रतिपत्तुमर्ह्वति ।
पर्यायशब्दानां सहप्रयोगानुपपत्तेः दृश्यते तु प्रयोगो ऽनेकं चित्रमिति ।
तस्माद्यथा शुक्लानि नाना तथा चित्राणि नानेत्यभ्युपेतव्यम् ।
तथा चैकं शुक्लमनभ्युपगच्छतो यथा शुक्लनानात्वाभ्युपगमो हीयते एवमेवैकं चित्रमनभ्युपगच्छतश्चित्रनात्वाभ्युपगमो हीयतहत्यर्थः ।
शङ्कान्तरमाह ।
अथानेकमचित्रमिति ।
निराक्ररोति ।
एवमपीति ।
शङ्कते ।
अथाचित्राणीति ।
परिहरति एवं च न किं चिदिति ।
इष्यत एवास्माभिर्यथा ऽवयवसमवेतैः सितहरितलोहितादिभिरसमवायिकारणैरवयविनि चित्रं रूपमारभ्यत इति ।
देशयति पुटान्तर
इति ।
पुटान्तरं पार्श्वान्तरम् ।
परिहरति ।
भवतैवेदेमुक्तमिति ।
एको ऽपि गुण आरभत इति मत्वा शङ्कते ।
चित्रप्रत्ययस्तत्रेति ।
समाधते न प्रसक्त इति ।
ननु यच्चित्राचित्राभ्यामारब्धमवयविनो रूपं तदपि पीतादिवन्निद्दिंश्यतां न च शक्य निर्द्देष्टुं तस्मान्नास्तीत्यत आह ।
एतावदिति ।
अनिर्वाच्यमप्यनुभूयमानमशक्यापहूवम् ।
यथेक्षुक्षरीरादीनां माधर्यस्यान्तरं महदित्यर्थः ।
न तावदवयवरूपादयवविनो ग्रहणं युक्तमिति ।
न द्रव्यान्तररूपेण द्रव्यान्तरे चाक्षुषत्वं दृष्टं न खलु पृथिव्यादिरूपेण वायुश्चाक्षुष इत्यर्थः ।
प्रकृतमुपसंहरति ।
तस्मादिति ।
अविकल्पिता अविचारिता इत्यर्थः
(508।5)

10.15

न्य्स्_4,2.13: केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः ॥
न्य्स्_4,2.14: स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद् विषयग्रहणस्य तथाभावो नाविषये प्रवृत्तिः ॥
सर्वाग्रहणमवयव्यसिद्धेरिति अत्र प्रत्यवस्थितः पूर्वपक्षी अथेदमाहेति ।
केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धेरित्यादिसूत्रभाष्यवार्तिकानि पूर्वपक्षसिद्धान्तयोरतिरोहितार्थानि ॥ 13-14 ॥
न्य्स्_4,2.15: अवयवावयवप्रसङ्गश्चैवम् आप्रलयात् ॥
अपि चायं वृत्तिविकल्पं
आश्रयव्याघातादयुक्त इत्याह ।
अवयवावयविप्रसङ्गश्चैवमा प्रलयात् (सू. 15) ॥
अत्र त्रयः पक्षाः संभवन्ति ।
यो ऽयमवयवेषु अवयविवृत्तिविकल्पानुपपत्त्या अवयविनो ऽभावप्रसङ्ग आपाद्यते स आ प्रलयाद्वा निवर्त्तता परमाणोर्वा न क्व चिदपि निवर्त्तते इति ।
तत्र प्रथम द्वितीयविकल्पावाश्रित्येदंसूत्रम् ।
यथैव वृत्तिविकल्पः स्थूले घटादाववयवेषु तदवयवेष्विति तदभावात्प्रलये व्यवतिष्ठेत ।
न च तदा प्रलयः सर्वोपाख्याविरहितो दर्शनविषयः संभवतीति दर्शनविषयाभावादनाश्रयो विकल्प आत्मानमेव न लभते ।
उपलक्षणं चैतदा प्रलयादिति ।
आ परमाणोरित्यपि द्रष्टव्यम् ।
परमाणूनामप्यतीन्द्रियत्वेन दर्शनविषयत्वाभावादनाश्रयता विकल्पस्य तदवस्थैव ।
तदिदमुक्तं निरवयवाद्वा परमाणुतो निवर्त्तेतेति

10.16

अथापीति ।
न्य्स्_4,2.16: न प्रलयो ऽणुसद्भावात् ॥
अपि चेत्यर्थः ।
अपि च प्रलयमभ्युपेत्येदमुक्तमा प्रलयादिति ।
वस्तुतस्तु ।
न प्रलयो ऽणुसद्भावात् (सू. 16) ॥
निरवयवत्वे प्रमाणमाह ।
निरवयवत्वं तु परमाणोरिति

10.17

न्य्स्_4,2.17: परं वा त्रुटेः ॥
अथानन्त एवायमवयवाक्यविविभागः कस्मान्न भवतीत्यत आह ।
परं वा त्रुटेः (सू. 17) ॥
त्रुटिस्त्रसरेणुरित्यनर्थान्तरम् ।
जालसूर्यमरीचिस्थं त्रसरेण रजः स्मृतम् ।
यदि त्रुटेः परं द्वित्रिपदके ऽवयवविभगो न व्यवतिष्ठते ततो ऽवयवविभागस्यानवस्थानाद्
द्रव्याणामसंख्येयत्वात् त्रुटित्वनिवृत्तिः
त्रुटिरपि सुमेरुणा तुल्यपरिमाणः स्यात् ।
न खल्वनन्तावयवत्वे कश्चिद्विशेष इत्यर्थः ।
वार्तिकं यावद्वा प्रलयो ऽनिवृत्तिर्वेति ।
प्रलयपरमाणुपक्षे विकल्पनिवृतिर्नास्ति दर्शनविषयस्तु नास्तीत्यनाश्रयो विकल्पः ।
अनन्तावयवत्वे सर्वस्य विकल्पाघ्रातत्वेव दर्शनविषयाभाव इत्यनाश्रयो विकल्पैत्यर्थः ।
संख्योदाहरणम् ।
इयन्तश्च ते परमाणवः संहतास्त्रुटिभावमापद्यन्त इति (510) ।
सावयवत्वे तु परमाणुशब्दस्यार्थो वक्तव्यः ।
किमुक्तं भवति परमाणुरिति परमत्वविशिष्टो ह्यणुः परमाणुः यतः क्षोदीयो नापरमस्तीति यावत् ।
तस्मादपि चेत् क्षोदीयो ऽन्यदस्ति नैष परमत्वविशिष्टो ऽणुरित्यर्थः ।
अथ भिन्नपरिमाणाः परमाण्ववयवास्ततो न्यूनपरिमाणा इति यावत् ।
ततो न परमाणुः प्रतिषिध्यते परमाण्ववयवा एव परमाणवस्ते चानवयवत्वादकार्याः ।
त्वया च परमाण्वारब्धं कार्यं परमाणुरिति कृत्वा आरोप्य वृत्तित्रिकल्पेन प्रतिषिध्यत इति

10.22

न्य्स्_4,2.18: आकाशव्यतिभेदात् तदनुपपत्तिः ॥
अथेदानीमानुपलम्भिकस्तस्य व्याख्यानं सर्वं नास्तीति मन्वानं आह ।
आकाशव्यतिभेदात्तस्य परमाणोर्निरवयवस्यानुपपत्तिः ।
सावयत्वे तु वृत्तिविकल्पात्तदभाव इति शून्यतैव तत्त्वं भावानाम् ।
अनाश्रितोपि विकल्पो यथा लोकप्रतीतिकल्पनामात्रनिर्मितस्तात्त्विकीं शून्यतां गमयति ।
मिथ्याज्ञानानामपि तत्त्वावगमहेतुत्वदर्शनात् ।
यथा दूराद्वनस्पतौ हस्तिप्रत्ययप्रवाहो वनस्पतितत्त्वप्रतिपत्तेर्द्देतुः ।
यथा रेखागवयो वा गवयत्वप्रतिपत्तेरित्यादि बहूत्प्रेक्षितव्यमिति भावः ।
तेदतद्वार्त्तिककारोदूषयति ।
आकाशव्यतिभेदादनित्यः परमाणुरित्यभिधानो व्यतिश्रेदार्थं प्रष्टव्य
इति ।
न्य्स्_4,2.19: आकाशासर्वगतत्वं वा ॥
न्य्स्_4,2.20: अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः ॥
(511।4) अन्तर्बहिरिति वचनं कार्यस्य कारणान्तरवचनमिति (512।3) कारणान्तरं कारणविशेषः तस्य वचनमित्यर्थः ।
उपेत्य परमाणोरवयवान्न तद्विभागस्याकाशं कारणमिति आकाशव्यतिभेदादित्याकाशहेतुकं व्यतिभेदं विभागमाह ।
न चाकाशं विभज्यमानयोर्द्रव्यान्तरयोर्विभागस्य कारणमपि तु कर्मेत्यर्थः ।
सर्वतो ऽव्यवहितस्य यस्य मध्ये अवयवा न सन्तीति तत्सुपिरमिति ।
सर्वतो ऽव्यवहितस्पय निरन्तरस्यावयविनः स्वावयवद्वारेण ।
एतदुक्तं भवति ।
यस्यावयवाः परितो निरन्तरमवस्थिता मध्ये च न सन्ति तत्सुषिरमिति ।
यन्मूर्तिमत्तेन सर्वेणसम्बध्यते ।
मूर्तिमता सर्वेण सम्बद्धत्त्वं सर्वतत्वं वदतो वार्तिककारस्याजसंयोगस्याभ्युपगमः प्रौढिवादतयेति लक्ष्यते ॥ 19-20 ॥
न्य्स्_4,2.21: सर्वसंयोगशब्दविभवाच्च सर्वगतम् ॥
न्य्स्_4,2.22: अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्मार्ः ॥
स्यादेतत्
आकाशं चेत्सर्वगतं ततो मूर्तिमतां द्रव्याणां तेन प्रतिबन्धाद्गतेरावरणं व्यूहान्तरापादनं च जलौघस्येव नावादिना भवेन्न चास्ति,
तस्मान्न सर्वगतमित्यत आह ।
अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः (सू. 22) ॥
यत एवाव्यूहाविष्टम्भावत
एवाप्रत्यूहं विभुत्वमस्येत्यर्थः

10.23

न्य्स्_4,2.23: मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः ॥
पुनः शून्यतावादी प्रत्यवतिष्ठते ।
मूर्त्तिमतांव च संस्थानोपपत्तेरवयवसद्भावः (सू. 23) ॥
चस्त्वर्थः सिद्धान्तं निवर्त्तयति ।
यद्यपि मूर्तिमतामिति संबन्धित्वमात्रेणोपात्तं सूत्रं तथापि हेतुपदतया वार्तिककारोव्याचष्टे ।
सावयवाः परमाणवोमूर्त्तिमत्त्वाद् घटादिवदिति ।
(513।19) प्रयोगान्तरमाह संस्थानवत्त्वादिति

10.25

न्य्स्_4,2.24: संयोगोपपत्तेश्च ॥
सूत्रान्तरमनुवृत्तिसहितं पठति ।
संयोगोपपत्तेश्च (सू. 24) ॥
इति ।
न्य्स्_4,2.25: अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः ॥
पौनरुक्त्यं देशयति ।
नन्विदमिति (514।4) परिहरति ।
न चरितार्थमिति ।
मूर्तिर्नामाव्यापिनो द्रव्यस्य षड्विधं परिमाणमिति ।
परमह्वस्वत्वपरमाणुत्वे परमसूक्ष्म एव द्रव्ये व्यवतिष्ठेते व्यापि तु गृहीत्वा परममहत्त्वपरमदीर्घत्वाभ्यामष्टविधं परिमाणं भवति ।
परममहत्त्वपरमदीर्घत्वं च सर्वगतव्यापिनी इति न मूर्तिः ।
असर्वगतद्रव्यपरिमाणं मूर्त्तिरिति पारमर्षंवचनात् ।
संस्थानं नाम प्रचयाख्यः संयोगो घटादिवृत्तिर्घटत्वादिजातिव्यक्तिहेतुरिति ।
संयोगः संयोगमात्रं न त्वप्राप्तिपूर्विका प्राप्तिरिति ।
तस्मादपौनरुक्त्यम् ।
तदेतच्छून्यतामतमपाकरोति ।
यत्तावन्मूर्तिमत्त्वादिति ।
शून्यतावादी प्रलयान्तत्वाभिमानेनाह ।
अथ तावदिति ।
सिद्धान्त्याह अन्तो निरवयव
इति ।
प्रलयान्तत्वमधस्तान्निकाकृतमिति भावः ।
नन्वधस्तान्निराकरणान्मा भूत्प्रलयान्तो विभागो विभागान्तस्तु भविष्यति किं परमाण्वन्तताग्रहेणेत्याशङ्कते ।
अथान्तो विभागः ।
निराकरोति ।
स न युक्त
इति ।
नासति गुणिनि गुणो ऽस्तीत्यर्थः ।
एतावन्तश्च कल्पाः सम्भविनः ।
तत्र प्रथमकल्पे अनैकान्तिकत्वव्याघातौ द्वितीये विभागस्यानाधारत्वप्रसङ्गः तृतीये त्रुटेरमेयत्वप्रसङ्ग इत्याह ।
एतावच्चैतत् (कल्पजातं) स्यादिति ।
परमाण्वन्ततां विभागस्य ब्रुवन्निरवयवं मूर्त्तिमन्तं परमाणुं प्रतिपद्यस इति ।
अनन्तत्वे तु त्रुटेरमेयत्वप्रसङ्गो व्याघातः ।
प्रलयान्तत्वे च विभागस्यानाधारत्त्वप्रसङ्गो व्याघातः ।
सावयवशब्दस्यार्थः समानजातीयावयवं न केवलं तदारव्धमपि तु तदाश्रितम् ।
तन्त्वाद्यारब्धं पटादि द्रव्यं तन्त्वाद्याश्रितं च ।
नन्वेवमपि कुतः सावयवत्वमित्यत आह ।
अवयवस्तदाधारस्तस्य समानजातीयारब्धस्य कार्यद्रव्यस्याधारः
तस्मात्सावयवत्वं कार्यविशेषः तस्मात्सावयवाः परमाणव इत्यतिब्रुवता कार्यविशैषः परमाणुरित्युक्तं भवति ।
कार्यविषेश्च परमाणुरिति व्याहतम् ।
(515।2) आनन्त्ये तु त्रुटेरमेयत्वप्रसङ्गात् ।
सा खल्वनवयवस्य कल्पितस्य परमसूक्ष्मतया परमाण्वाख्या तेन परमाणुरिति किमुक्तं भवति अनवयवो ऽकार्यश्चेति ।
सावयव इति किमुक्तं भवति सावयवः कार्यश्चेति ।
प्रतिज्ञापदयोर्व्याघातैत्यर्थः ।
अथ मा भूत्त्रृटेरमेयत्वमित्येकपरमाणुपूर्वकत्वं परमाणोः प्रतिपद्यसे ।
शेषमतिरोहितार्थम् ।
यदि द्वे द्रव्य अधिकृत्याभिधीयत इति ।
मध्यस्य हि परमाणोरुपयर्धः पार्श्ववर्तिभिः परमाणुभिर्ये संयोगास्तत्र मध्यस्य पूर्वेण परमाणुना यः संयोगो नासौ मध्यपश्चिमपरमाण्वाश्रितः
एवं मध्यमपरमाणुसंयोगो नैव मध्यमपूर्वपरमाण्वाश्रय
इति ।
एव मन्यत्रापि द्रष्टव्यम् ।
षडपि भिन्नदेशा एवेति समानदेशत्वमंसिद्धम् ।
अथ परमाणूनां सम्बन्धिनं परमाणुं मध्यमधिकृत्योच्यते तदाश्रिता हि संयोगाः षडपि भवन्तीति तत्राह ।
न किं चिद्बाध्यत इति ।
(517।2) स्यादेतत् ।
संयोगसमानदेशत्वेन परमाणवो ऽपि संयुक्ताः समानदेशा इति पिण्डस्याणुमात्रत्वप्रसङ्ग
इति परोक्तमनुवदति ।
यत्पुनरेतदिति ।
तद् दूषयति ।
तन्नेति ।
यत्र यत्समवेतं स तस्य दोशो यथा रूपादीनां द्रव्यं, न च परमाणवः क्व चित्समवयन्ति किं तु तत्संयोगाः ।
तेन देशवतां संयोगानामस्तु समानदेशता न तु परमाणूनामदेशत्वादित्यर्थः ।
देशयति ।
ननु कार्यकारणे इति ।
यथेह कुण्डे बदरमिति यथा बदरं कुण्डदेश एवं तदवयवास्तदवयवाः ।
न च समवाय एव देशदेशित्वनिबन्धनमपि तु संयोगो ऽपि ।
न हीह कुण्डे बदरमिह पटे शुक्लत्वमिति वा आधार्याधारप्रत्ययो विशिष्यते ।
तस्माद्बहूनां द्रव्याणां समानदेशत्त्वदर्शनान्नासिद्धो दृष्टान्त इत्यर्थः ।
तद् दूषयति ।
एतदनभ्युपगमेन प्रत्युक्तम् ।
द्रव्याणामेकत्र समवायेन समानदेशतां व्यासेधामो न तु संयोगेन, समवायेन हि समानदेशता स्थौल्यपरिपन्थिनी ।
यथा गन्धरसरूपस्पर्शाः समानदेशा न स्थौल्यमारभन्ते तत्कस्य हेतोः एषाममूर्तानां समानदेशसमवायात् ।
मूर्तास्तु स्पर्शवन्तः समवायेनासमानदेशाः परस्परसंयोगिनो यदि स्थौल्यमारभन्ते किं बाध्यते तस्मात्संयोगिनो यदि स्थौल्यमारभन्ते किं बाध्यते तस्मात्संयोगेन समानदेशता न प्रतिषध्यते समवायेन तु प्रतिषिध्यते सा हि स्थौल्यविरोधिनीति सिद्धम् ।
अभ्युपेत्यैवमुक्तं संयोगाः समानदेशा इति ।
परमार्थतस्तु कुण्डबदरसंयोगस्य कुण्डबदरे आश्रयः
तदवयवकुण्डबदरसंयोगस्य कुण्डबदरावयवा इति सिद्धं संयोगानामपि भिन्नदेशत्वमित्याह ।
न च संयोगा अपीति ।
उपसंहरति ।
षण्णां समानदेशत्वादिति ।
वाक्यमिति ।
यत्पुनरुक्तं दिग्देशभेदो यस्यास्ति तस्यैकत्वं न युक्तमिति ।
परमाणोः किल भवदभिमतस्यैकस्य दिग्भागाः षट्, न चैकस्य दिग्भागे भेदो ऽस्तीति षडेव परमाणवः ।
एतद् दूषयति क एवमाह दिग्देशभेदो (यस्या) स्तीति ।
स्वरूपेणैका दिक् सर्वगता च नास्या भेदो ऽस्तीत्यर्थः ।
यद्येकैव दिक् क्व तर्हि परमाणावस्मादयं परमाणुः पूर्वो ऽयं पश्चिम इत्यादयो बुद्धिव्यपदेशभेदा इत्यत आह ।
दिग्देशभेदाश्च दिशः संयोगा एकत्वे ऽपि दिश आदित्योदयदेशप्रत्यासन्नदेशसंयुक्तो यः सैतरस्माद्विप्रकृष्टदेशसंयोगात्परमाणोः पूर्वःप एवमादित्यास्तमयदेशप्रत्यासन्नदेशसंयुक्तो यः स इततस्माद्विप्रकृष्टदेशसंयोगात्परमाणोः पश्चिमः तौ च पूर्वपश्चिमौ परमाणू अपेक्ष्य यः सूर्योदयास्तमयदेशविप्रकृष्टदेशसंयोगः स मध्ववतीं ।
एवमेतयोर्यौ तिर्यग्देशसम्बन्धिनौ मध्यस्य आर्जवेन व्यवस्थितौ पार्श्ववर्तिनौ तौ दक्षिणोत्तरौ परमाणू एवं मध्यन्दिनवर्तिसूर्यसन्निकर्षविप्रकर्षौ पूर्वसंख्यावच्छिन्नत्वं चाल्पत्वं परसंख्यावच्छिन्नत्वं च भूयस्त्वम् ।
तस्मादेकस्यापि परमाणोः परमाण्वन्तरसंयोगा अव्याप्यवृत्तय एव भागाः ।
एवं दिशो ऽप्येकस्या अपि संयोगा एव भागाः सो ऽयं परमाणोः षट्केन युगपद्योगो मूर्त्तत्वमात्रप्रयुक्तो न सावयवत्वप्रयुक्त
इति न सावयवत्वं गमयितुमर्हतीति ।
तेन युदच्यते प्रसङ्गसाधनं परैः यन्निरयवं तन्न षट्केन संयुक्तं यथा विज्ञानं तथा च परमाणुरिति व्यापकविरुद्धोपलब्धिरिति तन्निरस्तम् ।
मूर्तत्वप्रयुक्तत्वेन षट्कसंयोगस्य सावयवत्वेन व्याप्तेरसिद्धेः ।
छायातपयोगो ऽपि परमाणोरेकसंयोगस्याव्याप्यवृत्तित्वेनोपपन्नः ।
नन्वनवस्था नोपपद्यत इत्युक्तं तत्कुत इत्यत आह भाष्यकारः ।
अनवस्थायां प्रत्यधिकरणं द्रव्यावयवानामानन्त्यात् ।
क्रियावत्त्वादीनहेतून् सर्वथा विकल्प्य वार्तिककारो दूषयति ।
ये तु क्रियावत्त्वादिति ।

एतेनासिद्धत्वेन ।
न हि घटादिकमवयविनमनभ्युपगच्छतो घटादिरस्तीत्यर्थः ।
मतुपश्चार्थान्तरे दृष्टत्वाद्विरुद्ध इति ।
क्रिया परमाणोरर्थान्तरमनिच्छतो मतुप्प्रयोगो विरुद्ध इत्यर्थः

10.26

न्य्स्_4,2.26: बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत्तदनुपलब्धिः ॥
विज्ञानवाद्याह यदिदं भवान् बुद्धीरिति ।
यदि पटस्तन्तुभ्योभिन्नो भवेत्तन्त्वतिनेकेण गौरिवाश्वातिरेकेणोपलभ्येत ।
न चोपलभ्यते तस्मात्पट इति मिथ्याबुद्धिरियम् ।
तन्तुरित्यपि मिथ्याबुद्धिरंशुभ्यो भेदेनानुपलम्भात् ।
एवमंशुरित्यपि ।
तदनेन क्रमेण परमाणुष्वपि बुद्ध्या विविच्यमानेषु याथात्म्यानुपलब्धेर्न बाह्यवस्तु स्थूलं वा क्षोदीयो वास्तीति सर्वा एव बुद्धयः स्वाकारमबाह्यं बाह्यतया आलम्बमाना मिथ्याभूता इति ।
ननु पटादयः सावयवा भवन्त्वेवं परमाणूनां त्वनवयवत्वाद्
बुद्ध्या विवेचनाद्भावानां याथात्म्योपलब्धिरित्यत
आह ।
परमाणवो ऽपि भागशोविभज्यमानाम्तावद्यावत्प्रलय
इति (519।17) ।
भवन्तु परमाणवो ऽनवयवाः संयोगेभ्यस्तु षड्भ्यो बुद्ध्या विविच्यमानस्य याथात्म्यमुपलभ्यत इति

10.27

न्य्स्_4,2.27: व्याहतत्वादहेतुः ॥
तदेतद् दूषयति ।
व्याहतत्वादहेतुरिति ।
यस्य विविच्यामानस्य याथात्म्यानुपलब्धिस्तत्कुतश्चिद्विवेचनीयम्
अवध्यभावे तदनुपपत्तेः ।
तथा च तेनावधिपना क्व चिदवस्थातव्यम् ।
अनवस्थायां त्रुटेरमेयत्वप्रसङ्गादित्युक्तम् ।
तस्मात्परमाणुषु वा तत्संयोगेषु वा तेनावस्थातव्यम् ।
तथा च यतो विविच्यते भावः स एवास्पयावधिर्याथात्म्येनोपलभ्यत इति बुद्ध्या विविच्यमानस्य सर्वभावानुपपत्त्याव्याघात
इति सिद्धम् ।
दूषणान्तरमाह ।
सर्वभावानुपपत्तिरिति ।
(250।5) प्रमाणस्यापि भावात् तद्गतत्वेन तदनुपपत्तौ सर्वभावानुपपत्तिरित्यर्थः

10.28

न्य्स्_4,2.28: तदाश्रयत्वादपृथग्ग्रहणम् ॥
तदाश्रयत्वादपृथग्ग्रहणम् (सू. 28) ॥
अपृथग्ग्रहणादिति ब्रुवाणः प्रष्टव्यो जायते ।
किं विलक्षणव्यवहाराभावः उत भेदाभावः
उत तन्तुव्यतिरेकेण देशान्तरे ऽनुपलम्भ
इति ।
न तावदाद्यः तन्तवो हि भिन्नाभबुद्धिवेद्याः पटस्तु अभिन्नाभबुद्धिवेद्य इति ।
नापि द्वितीयः ।
तन्तूनामंशुदेशत्वात् पटस्य तन्तुदेशत्वात् ।
तस्मात्तन्तुभ्यो ऽन्यत्रादर्शनमपृथग्ग्रहणं तच्च भेदे ऽपि तदाश्रितत्वेनोपपद्यमानं नाभेदं गमयितुमर्हतीत्यर्थः ।
भाष्यं बुद्ध्या विवेचनात्तु भावानां पृथग्ग्रहणमतीन्द्रियेष्वणुषु ।
यत्र खल्ववयवावयविनावैन्द्रियकौ तत्र पृथग्ग्रहणमविवेचकानामस्फुटतरमतीन्द्रियेभ्यो ऽणुभ्य आनुमानिकेभ्यः प्रत्यक्षदृश्यानां तदाश्रितानामवयविनां पृथग्ग्र्हणमित्यतिस्फुटमित्यर्थः

10.29

न्य्स्_4,2.29: प्रमाणतश्चाथप्रतिपत्तेः ॥
संप्रत्यैन्द्रियके ऽप्यवयवे ऽवयविनो विविच्यमानस्य याथात्म्येन पृथग्ग्रहणमाह ।
प्रमाणतश्चार्थप्रतिपत्तेरिति ।
यदस्ति--पटादिकमवयवि द्रव्यं यथा च स्वावयवसमवेतत्वेन गुणाधारतया च,
यन्नास्ति--शशविषाणादि, यथा च--कार्यकारणभावेन,
तत्सर्वं प्रमाणत उपलब्ध्या सिध्यति ।
सुगमं भाष्यम्

10.31

न्य्स्_4,2.30: प्रमाणानुपपत्त्युपपत्तिभ्याम् ॥
न्य्स्_4,2.31: स्वप्नवविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः ॥
यदुक्तं प्रमाणोपपत्त्यनुपपत्तिभ्यां न सर्वभावानुपपत्तिरिति ।
तत्र प्रत्यवतिष्ठते विज्ञानवादी ।
स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः (सू. 31) ॥
न खलु वास्तवः प्रमाणप्रमेयभावः किं त्वनादिवासनानिबन्धनकल्पनाधीनः ।
यथा हि न स्वप्ने सन्ति विषया अथ च प्रतिभान्ति कल्पनामत्रेण तथा च सांवृतेनापरमार्थसता प्रमाणप्रमेयभावेन बाह्यार्थशून्यता सिध्यति परमार्थसती प्रत्ययानां दृष्टा मिथ्याप्रत्ययानामपि तत्त्वप्रतिपत्तिहेतुतेत्यावेदितं पुरस्तादित्यर्थः ।
तद्व्याचष्टे वार्त्तिककारः ।
यथा न स्वप्ने विषयाः सन्तीति

10.32

न्य्स्_4,2.32: मायागन्धर्वनगरमृगतृष्णिकावद्वा ॥
ननु स्वप्नप्रत्ययानामस्त्वेवन्धर्मकत्वं ये पुनरभी जाग्रत्यत्प्रयाः स्तम्भ इति वा कुम्भ इति वा किमायातं तेषामत्यन्तवैलक्षण्यादित्यत
आह ।
मायागन्धर्वेति ।
जाग्रत्प्रत्यया अप्येवंविधाः सहस्रशो दृश्यन्ते न चैते स्तम्भकुम्भादिप्रत्ययास्ततो विलक्षणा इत्यर्थः

10.35

न्य्स्_4,2.33: हेत्वभावादसिद्धिः ॥
तदेतद्दूषयति ।
हेत्वभावादसिद्धिः (सू. 33) ॥
न्य्स्_4,2.34: स्मृतिसंकल्पवच्च स्वप्नविषयाभिमानः ॥
तद्व्याचष्टे भाष्यकारः ।
स्वप्नान्ते विषयाभिमानवदिति ।
अन्तशब्दो ऽवयववचनो ऽप्याश्रितत्वमात्रेणावस्थायां प्रयुक्तः ।
तेन स्वप्नावस्थाया मित्यर्थः ।
एतदुक्तं भवति स्वप्नज्ञानस्यायाथार्थ्यमिच्छता वाधकपन्तरेण तदनुपपत्तेर्जाग्रत्प्रत्ययो ऽस्य बाधको वक्तव्यः
न चासावसमीचीनस्तद्बाधितुमुत्सहत इति समीचीनत्वं जाग्रत्प्रत्ययस्याभ्युपगन्तव्यम् ।
तथा च जागरितान्ते विषयोपलब्धिवदित्यनुपपन्नम् ।
वार्त्तिकं ख्यातिरिति चेत् ।
प्रत्ययत्वमेव स्वप्नोदाहरणसहितं प्रमाणप्रमेयाभिमानभिथ्यात्वे हेतुरित्यर्थः ।
विपर्यये च सामर्थ्याभावादिति ।
पूर्वं प्रतिबुद्धेनेति विशेषणं विवक्षित्वोक्तम् ।
अधुना त्वनुपलब्धेरिति विवक्षित्वोच्यतैत्ययौ नरुक्त्यम् ।
अत्र विज्ञानवादी स्वपक्षे प्रमाणमाह ।
न चित्तव्यतिरेकिणो विषयाः ग्राह्यत्वाद्
वेदनावदिति ।
इदमत्राकूतम् ।
विज्ञानस्य हि बाह्योर् ऽथो ग्राह्यो भवन्निराकारस्य सत्तामात्रेण वा भवेत् कारणत्वेन वा एकसामग्र्यधीनत्वेन वा ज्ञानाहितफलाधारत्वेन वा ।
न तावत्सत्तामात्रेणान्यस्यान्यो विषयः सत्तामात्रस्य विषयान्तरेषु भावात्सर्वे ऽर्थाः सर्वविषया इति सर्वसर्वज्ञतापत्तिः ।
न च सत्तामात्रामपि विषयत्वव्यवस्थापकम्
असतो ऽपि विषयत्वात् ।
अत एव न कारणत्वेन विषयभावः ।
अपि च चक्षुरादयो ऽपि विज्ञानस्य कारणमिति विषया रूपविज्ञानस्य प्रसज्येरन्,
वर्त्तमानावभासि च विज्ञानं न भवेत् ।
क्षणिकत्वेनोत्पादकस्यार्थक्षणस्योत्पाद्यविज्ञानसमये विनिपातात् ।
एकसामग्र्यधीनत्वेन तु विषयत्वे वर्त्तमानावभासितोपपद्यते ।
सा तु नोपपद्यते असतोरप्यतीतानागतयोर्ग्रहणे व्यापकत्वादतिव्यापकत्वाच्च इन्द्रियादिक्षणस्यैकसामग्र्यधीनस्यालम्बनत्वप्रसङ्गात् ।
विज्ञानाहितफलाधार आलम्बनमिति चेत् किं पुनर्विज्ञानेनार्थे जन्यते प्राकट्यं न चैतदर्थधर्मो ऽपि शुक्लादिवत्सर्वपुरुषसाधारणम् ।
ज्ञानाहितस्यार्थधर्मस्यापि ज्ञानवन्तं प्रत्यसाधारणत्वदर्शनात् ।
यथा यस्यापेक्षाबुद्धिजनितं द्वित्वमर्थधर्मः सो ऽपेक्षाबुद्धिमन्तमेव पुरुषं प्रत्यसाधारण
इति ।
तन्न अव्यापकत्वात् ।
सन्ति खल्वतीतानागतविषयाणि सहस्रशो विज्ञानानि शब्दानुमानजानि च,
न चैतन्यर्थे फलमाधातुमुत्सहन्ते अर्थस्य तदानीमसम्भवात् ।
न खल्वस्ति सम्भवो ऽसन्ननुत्पन्नरूपो धर्मी धर्मो ऽस्याविनश्यन् प्रत्युत्पन्नरूप इति ।
स्वकारणादात्मानात्मप्रकाशनशक्तियुक्तमुत्पद्यते ज्ञानं तादृशं येन कश्चिदेवास्य विषयो न सर्वमिति चेत् ।
हन्त भोः शक्तेः शक्यनिष्ठत्वात्किमस्य शक्यमिति वक्तव्यम् ।
अर्थ इति चेन्न ।
न तावदयमस्य निर्वर्त्यः अर्थस्यैव ज्ञाननिर्वर्त्तकत्वात् ।
न चार्थाधारं फलमाधत्तैत्युक्तम् ।
न चासति शक्ये शक्तिसंभवः तस्मादनाकारं विज्ञानं बाह्मं गोचरयतीति मनोरथमात्रम् ।
अस्तु साकारमेव बाह्यगोचरम् ।
तथा हि नीलाद्याकारं ज्ञानं नीलादिगोचरम् ।
नीलमस्य स्वरूपं यतः ।
अत्रैवं वक्तव्यम् ।
किं सर्वात्मना सारूप्यभावाद् विषयभाव आहो कथं चित्सारूप्यभावात् ।
न तावदर्थस्य जडात्मनो ज्ञानेन प्रकाशात्मना सर्वथा सारूप्यं सारूप्ये ज्ञानमपि जडं भवेदिति ज्ञानत्वहानिः ।
एकदेशेन च सारूप्ये तत् क्व नाम नास्तीति सर्वं ज्ञानं सर्वं वेदयेत् ।
अपि च नीलज्ञानात्समनन्तरप्रत्ययादुत्पन्नं ज्ञानं न तथा नीलार्थसरूपं यथा नीलज्ञानसरूपमिति समनन्तरप्रत्ययतत्सारूप्याभ्यां विषयः स्यानन चैतदस्ति, तस्मान्न सारूप्यसमुत्पत्ती अपि विषयलक्षणम् ।
स्तामस्य सारूप्यसमुत्पत्ती मनस्कारेन्द्रियादिभिस्तथापि यमध्यवस्यति सो ऽस्य विषयो ऽर्थं चाध्यवस्यतीति अर्थ एवास्य विषयो न मनस्कारादीतिचेत् ।
अथ को ऽयमध्यवसायः।न तावद्ग्रहणं न खलु द्वावाकारौ गृह्येते नीलमित्यनुभवो न तु नीले इति ।
स्वाकारस्य बाह्यसमारोपो ऽध्यवसाय इति चेत् ।
स किं गृह्यमाणे बाह्ये उतागृह्यमाणे ।
न हि नीलद्वयं प्रकाशतैत्युक्तम् ।
न चारोपविषयमगृहीत्वारोप्यमारोपयितुमर्हतीति ।
न ह्यननुभवन् पुरोवर्तति शुक्लभास्वरं रजतमारोपयति तत्र ।
अपि चागृह्यमाणे बाह्ये प्रवृत्तिनियमो न भवेत् ।
इतरेषामगृह्यमाणत्वेनाविशेषात्तेष्वपि प्रवृत्तिप्रसङ्गात् ।
न च साकारज्ञाननये बाह्यसद्भावे प्रमाणमस्ति अगृह्यमाणत्वात् ।
ननु नीलाद्याकारस्य कादाचित्कत्वमेव प्रमाणम् ।
तथाहि यद्यस्मिन्सत्यपि कदा चिद्भवेत्तत्तदितरापेक्षम् ।
यथा सत्यपि सोपाने विच्छिन्नगमनरचनप्रतिभासाः प्रत्ययाः सन्तानान्तरापेक्षास्तथा च सत्यप्यालयसंताने षडपि प्रवृत्तिप्रत्यया इति स्वभावहेतुः ।
वासनापरिपाकप्रत्ययकादाचित्कत्वात् कदा चिदुत्पाद इति चेत् ।
नन्वेकसन्तानपतितानामालयज्ञानानां तत्तत्प्रवृत्तिविज्ञानजननशक्तिर्वासना तस्याश्च कार्यजननं प्रत्याभिमुख्यं परिपाकः तस्य च प्रत्ययः स्वसन्तानवर्त्ती पूर्वक्षणो हेतुः सन्तानान्तरापेक्षानभ्युपगमात् ।
तथा च सर्वे आलयसन्तानपतिताः परिपाकहेतवो भवेयुः
न वा कश्चिदपि अविशेषात् ।
क्षणभेदाच्छक्तिभेदस्तस्य कादाचित्कत्वात्कार्यकादाचित्कत्वमिति चेत् ।
नन्वेकस्यैव नीलविज्ञानजननसामर्थ्यं शक्तिप्रबोधजननसामर्थ्य च क्षणान्तरस्य तन्न स्यात् ।
सत्त्वे वा कथं क्षणभेदात्सामर्थ्यभेद
इत्यालयसन्तानवत्रिनः सर्वे समर्था इति समर्थहेतुसद्भावे कार्यक्षेपानुपपत्तिः ।
स्वसन्तानमात्राधीनत्वे तु निषेध्यस्य कादाचित्कत्वस्य विरुद्धं सदातनत्वं तस्योपलब्ध्या तु कादाचित्कत्वं निवर्त्तमानं हेत्वन्तरापेक्षत्वे व्यवतिष्ठत इति प्रतिबन्धसिद्धिः ।
न च संतानान्तरनिमित्तानि प्रवृत्तिविज्ञानानि सन्तत्यन्तराणामपि नित्यसन्निधानाद्विज्ञानानामदेशात्मकत्वेन दूरत्वानुपपत्तेर्व्यतिरिक्तस्यानभ्युपगमात् ।
नापि कालतो विप्रकर्षसम्भवः अपूर्वसत्त्वप्रादुर्भावानभ्युपगमात् ।
तदिदमनुमानं सौत्रान्तिकानां बाह्याम्युपगम
इति ।
तदयुक्तम् ।
स्वसन्तानमात्रनिमित्तत्वे ऽपि नीलादिविज्ञानानां कादाचित्कत्वोपपत्तौ सन्दिग्धव्यतिरोकित्वेन हेतोरनैकान्तिकत्वात् ।
ननूक्तम् न क्षण्भेदः कार्यभेदहेतुरिति कल्पितस्य सन्तानस्य सर्वसामर्थ्यविरहिणो भेदः कार्यभेदहेतुरिति न तु परमार्थसतः क्षणस्य कार्यभेदहेतुत्वमिति को ऽन्यो भदन्ताद्वक्तुमर्हति ।
ननु यदि क्षणभेदः शक्तिभेदहेतुस्ततो भिनानां क्षणानां नैका शक्ति स्यात् तथा चैकेन केन चिन्नीलज्ञाने जनिते तन्नीलज्ञानं क्षणान्तरान्न स्यात् ।
यदि भिन्नानां नैकं सामर्थ्यम् ।
अथ बाह्यार्थवादिनो ऽपि कथं भिन्नानां नीलोत्पलसन्तानानामेकनीलोत्पलाकारज्ञानधारासामर्थ्यम् ।
यद्युच्यते अन्यदेव नीलविज्ञानं यन्नीलोत्पलसन्तानान्तरात् ।

वयमपि ब्रूमहे अन्यदेव नीलविज्ञानं यत् क्षणान्तरादिति ।
तस्मात्कश्चिदेव तादृशः स्वलक्षणभेदो जायते यः कं चिदेव कार्यभेदं जनयति न कार्यान्तरमिति ।
तस्मात्साकारस्यापि ज्ञानस्यार्थो न गोचरो ।
न चागोचरः शक्यो ऽनुमातुमिति ।
न च प्रत्यक्षवदनुमानमप्यर्थगोचरं तस्मात्साधूक्तं वार्त्तिककृता न चित्तव्यतिरेकिणो विषयः ग्राह्यत्वाद्वेदनावदिति ।
नीलादयो हि विषया उभयवादिसिद्धास्तेषां चित्तभेदाभेदयोर्विप्रतिपत्तिः ।
तत्रैषां चित्तव्यतिरेकः परैरभ्युपगतः प्रतिषिध्यते यावांश्च प्रतिषिध्यते सर्वो ऽनुपलब्धेरिति ग्राह्यत्वादित्ययं हेतुर्विरुद्धव्याप्तोपलब्धिः प्रतिषेध्यश्चित्तव्पयतिरेकस्तद्विरुद्धस्तदव्यतिरेकस्तेन व्याप्तं ग्राह्यत्वं तस्योपलब्धिरेव तन्निषेध्यस्यानुपलब्धिरिति ।
अत्र तावदेतद्वक्तव्यम् ।
ग्राह्यत्त्वस्याभेदेन व्याप्तौ सत्यां भेदं निवर्तयेद् न त्वभेदेनास्य व्याप्तिः ।
तथा हि यदेतन्नीलं स्थूलं विच्छिन्नमुपलभ्यते तस्यास्य विच्छेदः स्थौल्यं च न ज्ञानस्यात्मा,
नानादिग्देशव्यापिता हि स्थौल्यम् ।
न चैकमदिग्देशात्मकमनवयवं विज्ञानं नानादिग्देशव्यापि सम्भवति ।
यथाह ।
तस्मान्नार्थे न विज्ञाने स्थूलाभासस्तदात्मनः ।
एकत्र प्रतिषिद्धत्वाद्वहुष्वपि न सम्भव इति ।
एवमर्थविच्छेदो ऽपि न ज्ञानात्मकः ।
तस्य तथात्वे परमार्थतोर् ऽथाद्विच्छिन्नं ज्ञानं स्यात् ।
तस्मादयमपि न ज्ञानमित्यसन्नभ्युपगन्तव्यः ।
न च सदसतोरेकत्वमित्यनात्मा ऽपि विज्ञाने प्रकाशतैत्यनिच्छता ऽपि स्वीकर्त्तव्यम् ।
तथा च सदपि प्रकाशिष्यते ।
नन्वनात्म्न्यर्थे ऽकिंञ्चित्करं विज्ञानं कथमर्थप्रकाशकम् ।
अथाकिञ्चित्करं ज्ञानं स्थौल्ये कथमस्य प्रकाशकम् ।
स्वभावादिति चेत् अत्राप्यसौ न दण्डवारितः ।
यद्धि यस्य स्वभावः तस्य नान्यापेक्षा यथा लिङ्गस्य स्वसाध्यसम्बन्धे ।
स्वभावतश्चार्थस्य ज्ञानमिति न तदीयत्वे अन्यदपेक्षते ।
असम्बद्धत्वात्कथं ज्ञानमर्थस्येति चेद् अथ सम्बन्ध एव सम्बन्धिनोः कथम् ।
सम्बन्धान्तरकल्पनायामनवस्था ।
तस्माद्यथा सम्बन्ध एव सम्बन्धान्तरमन्तेरण सम्बन्धिनोः
एवं ज्ञानमपि सम्बन्धान्तरमन्तरेणार्थस्येति समानम् ।
न चातिप्रसङ्गः ।
स्वकारणादुत्पन्नस्य कस्य चिद्विज्ञानस्य कश्चिदेव विषयो नान्यः ।
न स्वभावाः पर्यनुयोगमर्हन्ति एवं भवतैवं मा भवत एवं कस्मान्न भवतेति ।
अकिञ्चित्करस्य रूपविज्ञानस्य कथं रूपविषयतेति चेत् ।
किं रूपविज्ञानं प्रमाणं विवक्षित्वेदमुच्यते आहो फलं विवक्षित्वा ।
यदि प्रमाणं ततो न तदकिञ्चित्करं तत्र हानोपादानोपेक्षाप्रसवहेतुत्वात् ।
अथ फलं तदयुक्तम् ।
क्व नाम फलं किञ्चित्करं न हि गतिजन्या नगरप्राप्तिश्चैत्रस्य चैत्रनगरसंयोगसमवायाय किं चित्करोति ।
एवमर्थविषयत्वाय स्वाभाविकाय न ज्ञानेन किं चिदपरं जनयितव्यम् ।
अर्थप्रतिबद्धत्वं ज्ञानस्यार्थविषयत्वं न हि ज्ञानिमनुव्यवसायज्ञानेन निरूप्यमाणमर्थनिरूपणं विना शक्यं निरूपयितुमित्युक्तम् ।
कर्मण्यसमवेतं कथं कर्मणः ।
तत्पारतन्त्र्यादिति चेत् किमिदं पारतन्त्र्यम् ।
तन्निरूपणाधीननिरूपणत्वमिति चेत् तदिहापि समानमन्यत्राभिनिवेशात् ।
तस्मादभेदेन ग्राह्यस्याव्याप्यत्वाद्ग्राह्यत्वं विरुद्धव्याप्तं न भेदं निवर्तयितुमर्हतीति दूषणे स्थवीयसि सत्येव दूषणान्तरमाह वार्तिककारः वेदना सुखदुःखे चित्तं विज्ञानमिति ।
अभ्युपेत्याह अथाभिन्नंविज्ञानं वेदनात
इति ।
(522।1)यथा ऽङ्गुल्यग्रं न तेनैवाङ्गुल्यग्रेण स्पृश्यते एवं ज्ञानं न तेनैव ज्ञानेन ग्रहीतुं शक्यते ।
ननु न गृहीतिर्ग्राह्या न ह्यस्याः कर्मभावो विद्यते क्रियाफलशालितया कर्म भवति न चास्यामस्ति फलान्तरम्, अपि तु स्वयमाविर्भूतस्वभावा गृहीतिरपराधीनप्रकाशा ग्राह्येत्युच्यते ।
यदि वैषा स्वयं न प्रकाशेत नार्था अपि प्रकाशेरन्
तत्प्रकाशाधीनप्रकाशा हि ते ।
तथा हि यद्यत्प्रकाशाधीनप्रकाशं तत्तस्मिन् प्रकाशमाने प्रकाशते यथा दण्डप्रकाशाधीनप्रकाशो दण्डिप्रकाशः ज्ञानप्रकाशाधीनप्रकाशश्च विषय इति स्वभावहेतुः न च ज्ञानादन्यत्स्वसंवेदनं न दृष्टमित्येतावता स्वसंवेदनं विज्ञानं न भवेदिति दर्शनादर्शनाभ्यां न हेतुर्गमको ऽपि तु स्वसाध्याविनाभावात् स च विपर्यये बाधकप्रमाणप्रवृत्त्या सिध्यतीति कृतं दृष्टान्तेनेत्यत्र
आह ।
न कर्म क्रिया चैकं भवतीति ।
इदमत्राकूतम् ।
किं पुनरिदमर्थानां संवित्प्रकाशाधीनत्वप्रकाशत्वं नाम न हि संवित्प्रकाशेनार्थे प्रकाशान्तरं जन्यते ।
अपि च लिङ्गप्रकाशाधीनप्रकाशो हि लिङ्गिप्रकाशः न च लिङ्गे प्रकाशमाने प्रकाशते किं तु लिङ्गप्रकाशे विनष्टे ।
यद्युच्येत न ज्ञानादतिरिक्तो ऽरथप्रकाशो ज्ञानप्रकाशश्च किं तु ज्ञानमेव स्वसंवेदनमर्थस्य स्वात्मनश्चेति ।
एवं तर्हि किमायातं न ह्यात्मैवात्मायत्तः ।
न च ज्ञानमेवात्मनः परस्य च प्रकाश इति सिद्धम् ।
अन्यो हि ज्ञानप्रकाशो मानस ऐन्द्रियकश्चार्थप्रकाशः ।
न च प्रमाणज्ञानप्रकाशाधीनोर् ऽथप्रकाशः किं तु प्रमाणज्ञानसत्ताधीनः फलाधीनं तु न किं चिदित्यविदितम् ।
तत्सिद्धमेतद्विवादाध्यासितं विज्ञानं स्वप्रकाशाद्भिन्नं प्रकाशमानत्वात् ।
सत्त्वान्तरप्रकाशस्य सत्त्वान्तरप्रकाशवत् ।
तदनेनाभिसंधिनोक्तं न च कर्म च क्रिया चैकं भवतीति ।
एतेन सहोपलम्भनियमादभेदो नीलतद्धियोरिति परास्तं वेदितव्यम् ।
अर्थज्ञानोपलम्भयोरेकोपलम्भतैव नास्ति कुतः पुनरस्य नियम इति ।
अथ यथाश्रुतः सहोपलम्भो हेतुरित्युच्यते ततो विरुद्धः अभेदे सहार्थासंभवात् ।
कृतप्रपञ्चश्चायमर्थो न्यायकाणिकायामिह तु विस्तरभयान्न प्रपञ्चित
इत्युपरम्यते ।
सो ऽपि दृष्टं विज्ञानभेदमनुवयोक्तव्य
इति ।
न संतानमात्रनिबन्धनो विज्ञानभेदो भवितुमर्हति नीलपीतादिरूपः नापि संतानान्तराधिपत्यसन्निधाननिबन्धनो विज्ञानानामदेशात्मकानां स्वरूपेण देशविप्रकर्षायोगात् ।
नापि कालविप्रकर्षो ऽपूर्वसत्त्वप्रादुर्भावाभावादिति भावः ।
शङ्कते स्वप्नवद्विज्ञानश्रेदमिति ।
बाह्याभावे ऽप्याध्यात्मिको विज्ञानभेदहेतुरस्तीति भावः ।
निराकरोति सो ऽपीति ।
स्वप्नज्ञानमपि पारंपर्येण बाह्यनिबन्धनमित्यर्थः ।
अवाह्यनिमित्तकत्वं स्वप्नप्रत्ययस्याभ्युपेत्याह ।
अथ स्वप्नपक्षे ऽपीति ।
वर्गः पक्षः ।
न चैकं विज्ञानं चिन्तनीयमपरं चिन्तकमिति वाच्यम् ।
व्यतिरिक्तालम्बनत्वानभ्युपगमादिति भावः ।
अभ्युपेत्य त्वबाह्यनिमित्तत्वं स्वप्नप्रत्ययानामेतदुक्तम् ।
बाह्यनिमित्तत्वमेव तु पारमार्थिकं इत्याह ।
ये चैते स्वप्न प्रत्यया इति ।
समापीति ।
अपिशब्दः संभावनायां मम पक्षे संभाव्यत एतत्
यत्सर्व एव प्रत्यया मिथ्या भवन्तीत्यर्थः ।
सुगममितरत् ।
मिथ्या निद्रा ।
विषयमन्तरेण विज्ञानस्फुटता चावक्तव्येति ।

सामान्यविशेषतद्वतां ग्रहणं स्फुटता सामान्यमात्रग्रहणमस्फुटता तच्चैतदसतिविषये दुष्करं तदाकारोत्पत्तेरशक्यत्वादित्यर्थः ।
शङ्कते असत्यर्थे विज्ञानश्रेदो दृष्ट इति चेत् ।
(523।12) स्वप्नमायागन्धर्वनगरमृगतृष्णादिविज्ञानेष्वनुवर्तमानेषु विषयेन्र्दियमनोदोषननिमित्तत्वमस्तु,
ये पुनरमी प्रतीनां सर्वेषामनुवृत्तिमन्तः पूयपूर्णनदीप्रत्यया न ते बाह्यविषया दोषवत्त्वाद्भवितुमर्हन्ति ।
दोषनिमित्तत्वाद्बहुनामनुवृत्तेरभावात् ।
अदुष्टेन्द्रियार्थसन्निकर्षकत्वे तु जलरुचिराकारविरोधात् ।
तस्मादनादिवासनावैचित्र्यलब्धजन्मतया ऽर्थनिरपेक्षा एव विचित्राकारा बुद्धय उदयन्ते व्ययन्ते चेति सांप्रतमिति शङ्कार्थः ।
न तत्र नद्यस्तीति स्वमतदार्ढ्येनोक्तम् ।
न व्याघातादितञ्
अयिमभिसंधिः ।
जनरुधिरयो रसवीर्यविपाकादिभेदात्तोयरसवीर्यपरिपाकादिदर्शनान्नद्यास्तोयपूर्णत्वे निश्चिते पूयपूर्णत्वनिश्चयः प्रेतानां मिथ्येति निश्चये तदनुवृत्तेर्देषानुवृत्तिः कल्पनीया दोषश्च प्रेत्तशरीरनिवर्त्तकं कर्मैव ।
यथोक्तं तुल्यकर्मविपाकोत्पन्नाः प्रेता इति ।
कर्मणो वासना ऽन्यत्र फलमन्यत्र कल्पत
इति ।
(524।6) फनपलं पुत्रपश्वन्नादि ।
तद्यदि विज्ञानं तदा यत्र ज्ञानसन्ताने कर्मवासना तत्रैव पुत्राद्याकारं विज्ञानं फलमिति सामानाधिकरण्यमुपपद्यते ।
पुत्रपश्वन्नादौ त्वर्थरूपे फले वैयधिकरण्यं स्यात् तथा चातिप्रसङ्ग इति भाव ।
निराकरोति तन्नानभ्युपगमादिति ।
न पुत्रादि स्वरूपेण फलमपि तु तन्निमित्ता प्रीतिः ।
तस्या एव चेतनेन काम्यमानत्वात् तल्लक्षणत्वाच्च फलस्येति भावः ।
मुक्तकेनार्थं साधयित्वा प्रयोगानाह ।
मदीयाच्चित्तादिति ।
यदि चित्तमात्रं पक्षीक्रियते तदा दृष्टान्तो नास्तीत्यत उक्तं मदीयाच्चितादिति ।
मदीयाहङ्कारानास्पदत्वे सतीति विशेषणान्न स्वचित्तेन व्यभिचारः ।
आरोपनिराकरणार्थत्वाच्च हेतूनां नासमर्थविशेष्यतेति ।
न्य्स्_4,2.35: मिथ्योपलब्धिविनाशस्तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे ॥
अपि च मित्योपलब्धीनां बाह्यानालम्बनत्वमास्थाय तत्त्वबुद्धीनां बाह्यानालम्बनत्वं साधनीयम् ।
तासां बाह्यानालम्बनत्वं बाधकाधीनं बाधकं चात्र समारोपितरजताद्यभिमानं निवर्त्तयति न तु पुरो ऽवस्थितमर्थसामान्यं शुक्लभास्वरम् ।
तस्मान्न बाधकानुरोधादपि मिथ्याज्ञानं बाह्यानालम्बनमिति स्वप्नवदिति दृष्टान्तः साध्यविकल इत्याह ।
एवं सति मिथ्याज्ञानस्य प्रधानाश्रयत्वे मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानाद्बाधकात् स्वप्नविषयाभिमानप्रणाशवत् प्रतिषेधो न सामान्यस्यापीति शेषः ।
शेषं भाष्ये ।
भाष्यं सुबोधम्

10.36

न्य्स्_4,2.36: बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ॥
यस्तु माध्यमिको मिथ्याबुद्धि दृष्टान्तेन बाह्यापह्नवं कृत्ववा तेनैव दृष्टान्तेन विज्ञानाभावं कृत्वा विचारासहत्वं तत्त्वम्भावानां व्यवस्थापयांबभूव तं प्रत्याह ।
बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् (सू. 36) ॥
अर्थे हि निषिद्धे भवेदप्येतत् ।
तद्व्यवस्थापने तद्वदेवाप्रत्यूहं बुद्धिसद्भावो ऽपि सिध्यति ।
न चैवं वादिनः प्रमाणमस्त्यसता च प्रमाणेन विचारासहत्त्वं भावानां व्यवस्थापयन्
श्लाघनीयप्रज्ञो देवानांप्रिय इतञ् नि च कल्पनामात्रर्मित
उपायस्तत्त्वज्ञानाय पर्याप्तः ।
न च वनस्पत्यादितत्त्वज्ञानस्य मिथ्याहस्तिज्ञानं निबन्धनमपि तु प्रणिहितमनस
इन्द्रियार्थसन्निकर्षविशेषः ।
न चासौ मिथ्याज्ञानसमये आसीत् ।
न च मोहाभ्यासः समीचीनाय ज्ञानाय कल्पते स हि माहेमेव द्रढयतीति सर्वमवदातम् ।
सो ऽयं माध्यमिको ऽनुभूयमानां मिथ्याबुद्धिं नापह्नोतुमर्हति ।
तथा च मिथ्याबुद्धिं प्रतिपद्यमानेन तस्या निमित्तं वक्तव्यमित्युक्तम्

10.37

न्य्स्_4,2.37: तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः ॥
तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपतिः (सू. 37) ॥
मिथ्याबुद्ध्या स्वनिमित्तं लक्ष्यते तेन मिथ्याज्ञाननिमित्तस्य द्वैविध्यमित्यर्थः ।
यत्र स्थाणौ पुरुष इति ज्ञानं भवति तत्र तत्त्वं स्थाणुरिति प्रधानं पुरुष इति यः पूर्वं पुरुषो ऽभूदित्यर्थः ।
एवं तावद्रूपबुद्धीः प्रतिपाद्य गन्धादिबुद्धीरपि प्रतिपादयति भाष्यकारः ।
गन्धादौ च प्रमेय इति ।
उपसंहरति ।
तस्मादयुक्तमेतदिति

10.38

न्य्स्_4,2.38: समाधिविशेषाभ्यासात् ॥
दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिरित्युक्तम् ।
अथ तत्त्वज्ञानं कथमुत्पद्यत इति ।
(525।9) न तावदागमत
उपपत्तितो वा तत्त्वज्ञानमहङ्कारनिवृत्तिं कर्तु मुत्सहते ।
दोषनिमित्तेषूत्पन्नज्ञानानामपि पूर्ववदहङ्कारदोषानुवृत्तेः साक्षात्कारस्तूपायाभावादयुक्त
इति ।
अस्योत्तरं सूत्रम् ।
समाधितत्त्वाभ्यासात् (सू. 38) ॥
समाधिपदं व्याचष्टे भाष्यकारः ।
स तु प्रत्याहृतस्येन्द्रियेभ्यो मनस इति ।
अनेन विक्षेपं निवर्त्तयति ।
इन्द्रियेभ्यः प्रतीपमाहृतस्य मनसः क्व चित् हृत्पुण्डरीकप्रदेशे आत्मनो निजौकसि धारकेण प्रयत्नेन धार्यमाणस्यात्मना संयोगो ऽयम् ।
स खलु सुप्तावस्थायामस्तीत्यत
उक्तं तत्त्वबुभुत्साविषिष्ट इति ।
तदभ्यासश्च तद्विषयप्रयत्नोत्पादषौनःपुन्यं तस्मादादरनैरन्तर्यदीर्घकालविशिष्टात्तत्त्वबुद्धिरुत्पद्यते

10.39

न्य्स्_4,2.39: नार्थविशेषाप्राबल्यात् ॥
एतदाक्षेपसूत्रमवतारयति यदुक्तं सति हि तस्मिन्निति ।
न्य्स्_4,2.40: क्षुदादिभिः प्रवर्तनाच्च ॥
इन्द्रियविषयैरपहृतमनसो धारणा ।
तथा च तदभ्यासाभावान्न सत्त्वसाक्षात्कार
इति सूत्रार्थः

10.42

40 ॥
न्य्स्_4,2.41: पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ॥
समाधानसूत्रमवतारयति ।
अस्त्वेतत्समाधिव्युत्थाननिमित्तमिति ।
सूत्रम् ।
पूर्वकृतफलानुबन्धात्तदुत्पत्तिः (सू. 41) ॥
पूर्वकृतः समाधिः तस्य फलं संस्कारः
तस्यानुबन्धः स्थेमा तस्मादिति सूत्रार्थः ।
तद्व्याचष्टे भाष्यकारः ।
पूर्वकृत इति ।
प्रविविच्यते ऽनेनेति प्रविवेकः प्रकृष्टः संस्कारः स त्वात्मधर्म
इति ।
कस्मात्पुनरदृश्यमानः संस्कारः कल्प्यतैत्यत
आह ।
निष्फले हीति ।
प्रयत्नविशेषा हि विशरारवो बहवो ऽपि परस्परमसहभवन्तो न तत्त्वसाक्षात्कारापय पार्याप्ता इति तज्जनिताः संस्काराः कल्प्यन्ते तेषां स्थेम्ना सम्भवति सम्भूयकारितेत्यर्थः ।
न्य्स्_4,2.42: अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ॥
प्रचयकाष्ठा प्रचयावधिः
यतः परमपरः प्रचयो नास्ति ।
तत्सहकारिशालितया प्रकृष्टायां समाधिभावनायां समाधिप्रयत्नः समाधिभावना तस्यामित्यर्थः

10.43

न्य्स्_4,2.43: अपवर्गे ऽप्येवं प्रसङ्गः ॥
पूर्वपक्षवाद्याह ।
यद्यर्थविशेषप्राबल्यादिति ।
स खल्वयमीदृशो बाह्यार्थस्य महिमा यत
इन्द्रियाद्यनपेक्षादेवात्मनो बुद्धिं जनयिव्यतीत्यभिमानः पूर्वपक्षिणः

10.44

न्य्स्_4,2.44: न निष्पन्नावश्यम्भावित्वात् ॥
सिद्धान्तसूत्रम् ।
न निष्पन्नावश्यं भावित्वात् (सू. 44) व्याख्यातम् ।
न खलु तण्डुला अत्यन्तं फलीकृता अपि पिठरोदकदहनसंयोगप्रचयमन्तरेण पुलाका भवन्तीति भावः

10.46

न्य्स्_4,2.45: तदभावश्चापवर्गे ॥
न्य्स्_4,2.46: तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः ॥
किं समाधिविशेष एव तत्त्वज्ञानसाधनम् ।
मैवम् ।
किं तु ।
तदर्थं यमनियमाभ्यामात्मसंस्कारो योगच्चाध्यात्मविध्युपायैः (सू. 46) समानमाश्रमिणां धर्मसाधनम् ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमपरिग्रह
इति यमः ।
नियम इति ।
यस्याश्रमिणो ऽसाधारणो धर्मोपायः ।
योग इति विषयेण योगशास्त्रं पातञ्जलं लक्षयति ।
योगाचारः एकाकिता आहारविशेषः
एकत्रानवस्थानमित्यादि यतिधर्मोक्तम् ।
एते ऽपि तत्त्वज्ञानक्रमोत्पादक्रमेणापमर्गसाधनमित्यर्थः

10.47

न्य्स्_4,2.47: ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः ॥
ननु यद्येते तत्त्वज्ञानोत्पादक्रमेणापवर्गोपायः कृतं तर्ह्यान्वीक्षिक्येत्यत आह ।
ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः (सू. 47) ॥
तद्व्याचष्टे तदर्थमिति प्रकृतम् ।
आत्मविद्याऽन्वीक्षिकी ।
अभ्यासः सततक्रिया तत्र प्रयत्न इत्यर्थः ।
प्रयोजनमाह प्रज्ञापरिपाकार्थम् ।
परिपाकस्तु संशयच्छेदनम् ।
किं देहाद्यतिरिक्त
आत्मा उत नेति संशयः ।
तस्य च्छेदनं लोकस्य तत्त्वज्ञानमात्मनि तदवरोधः अध्यवसितं प्रमाणेन ।
तस्याभ्यनुज्ञानं तर्केण

10.48

न्य्स्_4,2.48: तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोर्थिभिरनसूयुभिरभ्युपेयात् ॥
सब्रह्मचारी सहाध्यायी ।
गुरुशिष्यसहाध्यायिभ्यो ऽन्यः शास्त्रेणानुशिष्टः शिष्टश्रेयोर्थिनः श्रेयसि मोक्षलक्षणे श्राद्धाः ।
तेषामपवर्गे श्रद्धादर्शनादस्ति तदुपायाभ्यासः प्रागभवीय इत्यनुमीयते ।
तेन तेषामपि प्राग्भवीयसंस्कारवशात्प्रतिभोपावसनीयेति ।
अभ्युपेयादभिमुखमुपेत्य जानीयात् गुर्वादिभिः सहेत्यर्थः ।
नीतार्थम् गतार्थम्

10.49

न्य्स्_4,2.49: प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ॥
तदनेन गुर्वादिभिर्वादं कृत्वा तत्वनिर्णय उक्तः ।
यदि च मन्येत पक्षप्रतिपक्षपरिग्रहः प्रतिकूलः परस्य गुर्वादेस्तस्मान्न वादो ऽप्युचित
इति ।
तत्रेदं सूत्रमुपतिष्ठते ।
प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे (सू. 49) ॥
व्याचष्टे तमभ्युपेयादिति वर्त्तते ।
परतो गुर्वादेः प्रज्ञामुपादित्समानस्तत्त्वबुभुत्साप्रकाशनेनात्मनः शरीरादिभ्यो भेदं बुभुत्सैत्यभिदधानः स्वपक्षमनवस्थापयन् स्वदर्शनं गुर्वादिकृताद्विचारात्पूर्वपक्षोच्छेदेन सिद्धान्तव्यवस्थापनलक्षणात् स्वदर्शनं परिशोधयेत् ।
अन्योन्यप्रत्यनीकानिं च प्रावादुकानां दर्शनान्ययुक्तपरित्यागेन युक्तपरिग्रहणेन च परिशोधयेदिति संबध्यते

10.50

न्य्स्_4,2.50: तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् ॥
ननु यत्र वादस्यैव दशेयमीदृशी तत्त्वनिर्णये दत्तजलाञ्जली तर्हि जल्पवितण्डे इत्यत आह ।
स्वपक्षरागेण चैकै न्यायमतिवर्त्तन्ते ।
तत्र ।
तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् (सू. 50) इति सूत्रम् ।
तद् व्याचष्टे अनुत्पन्नतत्त्वज्ञानानामिति

10.51

न्य्स्_4,2.51: ताभ्यां विगृह्य कथनम् ॥
न केवलं तदर्थं घटमानानां जल्पवितण्डे अपि तु विद्यानिर्वेदादिभिनश्च परेणावज्ञायमानस्य ।
ताभ्यां विगृह्य कथनम् (सू. 51) इति सूत्रम् ।
यस्तु स्वदर्शनविलसितमिथ्याज्ञानावलेपदुर्विदग्यतया सद्विद्यानवैराग्याद्वा लाभपूजाख्यात्यर्थितया कुहेतुभिरीश्वराणां जनाधाराणां पुरतो वेदब्राह्मणपरलोकादिदूषणप्रवृत्तस्तं प्रति वादी समीचीनदूषणमप्रतिभयापश्यन्
जल्पवितण्डे अवतार्य विगृह्य जल्पवितण्डाभ्यां तत्त्वकथनं करोति विद्यापरिपालनाय ।
मा भूदीश्वराणां मतिविभ्रमेण तच्चरितमनुवर्तिनीनां प्रजानां धर्मविप्लव इति ।
इदमपि प्रयोजनं जल्पवितण्डयोः ।
न तु लाभख्यात्यादि दृष्टम् ।
न हि परहितप्रवृत्तः परमकारुणिको मुनिर्दृष्टार्थं परपांसुलोपायमुपदिशतीति ।
शङ्कावार्त्तिकम् ।
व्यापकत्वादन्तः करणस्येति ।
(525।13) अस्य वक्ष्यमाणो ऽभिसन्धिः ।
निराकरोति ।
नोक्तोत्तरत्वाद् सांख्यं दूपयद्भिरित्यर्थः ।
शङ्किता स्वाभिप्रायमुद्घाटयति ।
स्वाङ्गगतीक्षणेति ।
यावद्धस्तावच्छिन्ने आत्मप्रदेशे प्रयत्नो न जायते न तावत्तत्रकर्म न च तत्रात्ममनः सन्निकर्षं विना प्रयत्नः ।
न च मनस इन्द्रियसंयोगं विनेक्षणम् ।
न चाणुना मनसा इन्द्रियेण हस्ते चापर्यायेण सम्भवः ।
तस्माद्व्यापकं मन इति शङ्कार्थः ।
निराकरोति न शरीरात्ममनः संयोगयौगपद्यात् प्रयत्नदर्शनयोर्युपगदुत्पत्तेः ।
तत्रात्मनःशरीरसम्बन्धात्स्वाङ्गगतिरिति ।
पाणिचालनेच्छापेक्षेणात्ममनःसंयोगेन पाणिं चालयामीत्येवमाकारः प्रयत्नो जायते तत्र प्रयत्नवदात्ममनःसंयोगात्पाणौ क्रिया जायते ।
यद्यप्यात्मनः सर्वाङ्गे संयोगो न विशिष्यते तथापीच्छाविशेषादुत्पन्नः प्रयत्नविशेषः पाणावेव कर्म करोति ।
नान्यत्र प्रयत्नवदात्मसयोगाच्चक्षुषः प्रेरणम् ।
यद्यपि चानयोः प्रयत्नयोर्न युगपदुत्पादः तथापि तदत्यन्तसौक्ष्म्यात्कालभेदो न लक्ष्यते ।
नन्वेकस्मिन्नात्मप्रदेशे वर्त्तमानसंयोगो वा प्रयत्नो वा कथं देशान्तरे असंयोगित्यप्रयत्नवति कार्यमारभत इत्यत
आह ।
न चात्मनः प्रदेशाः सन्तीति ।
परिशिष्टवार्त्तिकं भाष्यव्याख्यया व्याख्यातम्

मूल पाठ: Nyāyasūtra with Vacaspatimiśra's Nyāyavārttikatātparyaṭīkā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc