भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र (टीका सहित) · अध्याय 8

8.1

इति मिश्रश्रीवाचस्यतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां
तृतीयाध्यायस्य प्रथममाह्निकं समाप्तम् ॥
श्रीवाचस्पतिमिश्रविरचितायां न्यायवार्तिकतात्पर्यटीकायां
तृतीयो ऽध्यायः
न्य्स्_3,2.1: कर्माकाशसाधर्म्यात् संशयः ॥
परीक्षितानीन्द्रियाण्यर्थाश्च बुद्धेरिदानीं परीक्षाक्रमः ।
क्रमः स्थानं ।
वृत्तवर्त्तिव्यमाणानुकीर्त्तनं हेतुहेतुमद्भावज्ञापनार्थम् ।
अर्थोन्द्रियपरीक्षा च बुद्धिपरीक्षणं ( च ) यथोपयुज्यते तथा बुद्धिपरीक्षायामेव स्फुटपीभविष्यति ।
संशयमाक्षिपति ।
अनुपपन्नरूप इति ।
(398 । 12) यद्युपलभ्यमानज्ञानविषयः संशयः सो ऽनुपपन्नः सांख्यानामपि तदनित्यत्वस्याभ्युपगमात् ।
अथ सांख्याभिमतमहत्तत्त्वविषयः तस्य सत्त्व एव विप्रतिपत्तिरिति कुतस्तद्गतधर्मविचारः सति धर्मिणि धर्माश्चिन्त्यन्ते न सन्दिग्धसत्त्वा इति भावः ।
समाधते दृष्टिप्रवादेति ।
सांख्यानां हि दर्शने प्रवादो महदन्तः करणं बुद्धिरिति तदुपालम्भार्थं दूषणार्थं प्रकरणमिति ।
अयमभिप्रायः
नेह नित्यानित्यविचारो ऽपि तवनया द्वारा वृत्तरतिरिक्ता सांख्याभिमता बुद्धिर्निराक्रियते सामान्यतो बुद्धिमात्रस्य नित्यानित्यत्वविचारेण ।
यदि हि नित्या बुद्धिः स्यात्ततो वृत्तिभ्य
उदयव्ययवतीभ्यो ऽतिरिक्तं महत्तत्वमन्तःकरणं स्यात् ।
अथ तु नित्यत्वसाधनानि प्रतिसन्धानादीनि न बुद्धिनित्यत्वस्येशते ततो वृत्तय एव बुद्धयो न तु तदतिरिक्तं बुद्धितत्त्वं सिध्यतीति सिध्यति बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरमिति बुद्धेर्लक्षणं तथा चास्पय लक्षणे सङ्गतिः
इतरथा तु प्रधानतो नित्यानित्यत्वविचारो न लक्षणेन सङ्गच्छत इति

8.2

न्य्स्_3,2.2: विषयप्रत्यभिज्ञानात् ॥
साधनं च प्रचक्षते ।
विषयप्रत्यभिज्ञानादिति ।
( 399 । 3 ) वृत्तिमान् किल विषयं प्रत्यभिजानन्नात्मानमपि प्रत्यभिजानाति ।
न च चेतनो वृत्तिमान् तस्य कूटस्थनित्यत्वात् ।
अन्यथा पूर्वापरावस्थाभेदवान् न कृटस्थनित्यः स्यात् ।
परिणामिनित्या तु बुद्धिरुदयव्ययवदनेकवृत्तिमती युज्यत इति भावः

8.3

न्य्स्_3,2.3: साध्यसमत्वादहेतुः ॥
सिद्धान्त्याह साध्यसमत्वादहेतुरिति ।
वृत्तयो हि वृत्तिमतो भिन्नस्तेन तासां नित्यत्वे ऽपि न वृत्तिमान् कौटस्थ्वाच् च्यवते ।
तथा च प्रत्यभिज्ञातात्मैव प्रत्यभिज्ञानान्नित्यः स्यान्न त्वन्तःकरणं बुद्धिसंज्ञकं, न हि तत्प्रत्यभिज्ञाने प्रकाशत
इत्यर्थः ।
क्रियानाधारत्वाच्च करणस्येति ।
प्रधानक्रियानाधारः करणं प्रधानक्रिया चेयमुपलब्धिः स्वतो यदाधारा प्रतीयते स कर्त्ता न करणं, तथा च प्रत्यभिज्ञानाद्युपलब्ध्या तदाधारः कर्त्तात्मा सिध्यति नित्यो न तु करणमित्यर्थः ।
क्रियामात्राभिधानेन शङ्कते ।
स्वक्रियेतञ् प्रिधानक्रियामालम्ब्य निराकरोति ।
सत्यं भवतीति ।
ननु यदि भेदविवक्षया कर्त्रादिशब्दवृत्तिरभेदविवक्षया च कारकशब्दप्रवृत्तिः कथं तर्हि कर्त्ता कारकं करणं कारकमित्यादिसामानाधिकरण्यं भेदाभेदविवक्षयोर्विरुद्धार्थत्वादित्यत
आह ।
कारकशब्देनापीति ( 440 । 4 ) नाभेदविवक्षा विशेषाणां किं तु सामान्यविवक्षा भिद्यत इति भेदो न भेदो ऽभेद इति सामान्यस्याभिधानात् ।
तथा च सामान्यविवक्षया प्रवृत्तः शब्दस्तद्भेदाभिधानाद्भेदवाचिना सामानाधिकरण्यं प्रतिपद्यमान इतरेतरव्यावृत्ते विशेषे ऽपादानादौ प्रवर्त्तते अन्यस्य कारकविशेषस्य कारकशब्देन सामानाधिकरण्यासंभवात् ।
पूर्ववदिति ।
द्वितीयाध्यायोक्तं कारकविशेषस्य लक्षणं स्मारयति ।
चोदयति यद्यन्यकारकेति ।
कारकाणामुपादानेन खलु प्रवर्त्तितः कर्त्ता कारकाण्युपादत्ते ।
तस्मादितराप्रयोज्यत्वमस्यासिद्धमित्यर्थः ।
परिहरति ।
न प्रयुज्यते फलस्य प्रयोजकत्वादिति ।
नाप्रयुज्यमानं कर्त्तारं ब्रूमो ऽपि तु कारकाप्रयोज्यं,
न च फलं कारकमित्यर्थः ।
उपेत्य प्रत्यभिज्ञानमन्तः करणे तस्येति ।
प्रत्यक्षं चेत्प्रत्यभिज्ञानं नैकत्वे किं त्वनुमानं ततो यद्यत्प्रत्यभिज्ञायते तत्तदेकमिति न निदर्शनमस्ति, न हि तस्यैकत्वमन्यतो निश्चितमतः प्रतयभिज्ञानात् ।
नाप्यनेकत्वं दृष्टं तथा चासाधारणतया हेत्वा भास
इत्यर्थः ।
प्रत्यभिज्ञानस्वरूपावधारणे च सति विरुद्धो हेत्वाभासो बुद्ध्यनित्यत्वसाधनादिति ।
शेषं निगदेनैव व्याख्यातम् ।
चेतनाध्यवसायाभेदो बुद्धिलक्षणे ऽस्माभिर्विचारितः

8.4

न्य्स्_3,2.4: न युगपदग्रहणात् ॥
वृत्तिमतो ऽवस्थानाद्वृत्त्यवस्थानप्रसङ्ग
इति सूत्रार्थः

8.8

न्य्स्_3,2.5: अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ॥
न्य्स्_3,2.6: क्रमवृत्तित्वादयुगपद्ग्रहणम् ॥
न्य्स्_3,2.7: अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् ॥
न्य्स्_3,2.8: न गत्यभावात् ॥
आक्षेप्तुर्वचनं ममाप्येवं कस्मान्नेति ( 403 । 15 ) समाधातुर्वचनं न कारणभेदे दृष्टत्वादिति ।
कारणभेदेहि सति एकस्य कर्तुर्युगपदनेकं कार्यं दृष्टम् ।
साङ्ख्यानां चान्तःकरणं कर्तृ व्यापकं चेति सर्वव्यापकेनान्तः करणेनाधिष्ठितानीन्द्रियाणि युगपदेव कार्याणि कुर्युः ।
अस्माकिं त्वन्तःकरणस्य करणत्वादेकेन्द्रियग्राह्ये ऽपि न युगपत्कार्योत्पाद
इति विशेषः ।
गत्यभावाच्च प्रतिषिद्धं विभुनो ऽन्तःकरणस्यायुगपद्ग्रहणं न लिङ्गान्तरेणानुमीयत इति भाष्यस्य गतयभावाच्च विभुनो ऽन्तःकरणस्येति प्रतीकमनूद्य तस्यार्थमाह प्राप्त्यर्थस्य गमनस्या भावादिति ।
न चा ऽयुगपत्प्रत्ययोत्पत्तौ प्रमाणमस्ति येन प्रमाणेन प्रतिषिद्धमपि प्रत्ययायौगपद्यं प्रतिपद्यते ।
तस्माद्विभुन्यन्तःकरणे ऽवश्यंभावि प्रत्यययौगपद्यं न चैतद्दृष्टं तस्मादन्तःकरणमण्वित्यर्थः ।
ननु दीर्घां शष्कुलीं भक्षयतः पञ्चानामपि ज्ञानानां युगपदुत्पादो दृष्ट इति को ऽयं प्रसङ्गः अन्तःकरणस्य विभुत्वे युगपदुत्पादः प्रसज्येतेत्यत आह ।
न च युगपत्प्रत्ययोत्पत्ताविति ।
अतिशीघ्रतया युगपदुत्पादाभिमानो न तु तत्र यौगपद्यं भाविकमित्यर्थः ।
पुरुषो जानीते नान्तः करणमिति स्वमतसमाधानपरं भाष्यं व्याचष्टे यस्य पुनर्वृत्तिर्वृत्तिमतोरिति ।
( 404 । 12 ) यदपि सांख्या आचख्युर्विषयान्तरव्यासक्ते ऽन्तःकरणे चक्षुरादिसंबन्धस्याप्यज्ञानदन्तःकरणवृत्तिर्ज्ञानमिति तन्निराकरणपरं भाष्यम्--एतेन विषयान्तरव्यासङ्ग
इति ।
तदनुभाष्य वार्त्तिककारो व्याचष्टे ।
एतेनेति ।
तत्रेति ।
नेत्यस्योपजीव्यमाह पुरुषो जानीते नान्तःकरणमिति ।
हेतुना विषयान्तरव्यासङ्गो ऽन्तःकरणस्य प्रत्युक्तः ।
व्यासक्तो हि स भवति यो जानीते ।
न चान्तःकरणं जानीते किं तु पुरुष इति तस्येदृशव्यासङ्गो नान्तःकरणस्य, अन्यादृशस्त्वन्तःकरणस्य व्यासङ्गो न निषिध्यतैत्यर्थः

8.9

न्य्स्_3,2.9: स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः ॥
चोद्यभाष्यम् एकमन्तःकरणं नानावृत्तय इति तद्व्याचष्टे ।
एकमन्तःकरणं नानावृत्तय इति ।
नैतदिति ।
सम्यगाचष्टे जानीते संचक्षाणकः सांख्यः ।
सङ्ख्या हि समीचीना बुद्धिस्तया वर्त्तत इति सांख्यः ।
एतदुक्तं भवति--यद्यपि वृत्तयो नाना प्रतिभान्ति तथा ऽपि भ्रान्तिरियमन्तःकरणादेकस्मादभिन्नानां नानात्वानुपपत्तेः ।
तस्मात्स्फटिकस्य यथैकस्यापि तापिच्छजपाकर्णिकारादिकुसुमोपधानभेदाद्भेद
औपाधिक एवमन्तःकरणमणेरपि स्वच्छस्येन्द्रियप्रणाडिकया तत्तदर्थोपरक्तस्यौपाधिकं नानात्वं वृत्तिरिति च प्रत्यय इति ज्ञानमिति चाख्यायतैत्यर्थः ।
तदेतद् दूषयति ।
नानेकान्तादिति ।
( 405 । 4 ) यो ऽपि वृतीनामौपाधिकभेदमाह तेनाप्युपाधयो ऽर्था आजानतो भिन्ना वक्तव्याः ।
तथा च भेदस्य द्विधा दर्शनादनेकान्तो दृष्टान्तो नैकार्थस्य साधकः ।
न हेत्वभावादिति भाष्यं व्याचष्टे यथाश्रुतिसूत्र इति ।
न केवलं साधनाभावो बाधकं चात्रास्तीत्याह विकल्पानुपपत्तेश्चेति ।
न परपक्षस्य प्रतिषेधमात्रेण स्वपक्षसिद्धिरस्तीत्याशयवान् पृच्छति ।
अथ भवतामिति ।
उत्तरं ज्ञानानां क्रमेणेति ।
स्यादेतत् प्रत्ययनानात्वाभिमानो भविष्यति हेतुरेकत्वे वृत्तीनाम्, एकत्वं वृत्तीनां नानात्वाभिमानविषयत्वात् स्फटिकवदिति तस्मान्न हेत्वभाव इति अत आह ।
एकानेकविषयत्वाच्च प्रत्ययनानात्वाभिमानस्य
एकानेकविषयाधिगतिः कथमिति ।
नानात्वाभिमानो ऽपि दृष्टान्तवदसाधकः नैकान्तिकत्वात् ।
तदेवमन्तरा परकीयामाशङ्कां निराकृत्य पुनरपि वृत्तिभेदं साधयति ।
यश्चायमभिन्न इति ।
यद्यर्थोपधानभेदात्प्रययेषु भेदो नाजानत स्तत एकस्मिन्नर्थे न प्रत्ययभेदः प्रत्ययोपधानभेदाभावादित्यर्थः ।
कश्चिद्देशयति ।
स्फटिक इति ।
परिहरति नैरन्तर्यदर्शनादिति ।
( 406 । 1 ) नीलीद्रव्यलेपस्यापि सान्तरत्वं नीलः स्फटिक इति साक्षात्कारानुमेयमिति भावः ।
इतो ऽपि प्रत्ययभेद इत्याह ।
यस्य च प्रत्ययाभेद
इति ।
प्रमाणस्य भेदः प्रत्ययलक्षणकार्यभेदोन्नेयो नासति प्रत्ययभेदे भवितुमर्हति ।
शङ्कते विषय भेदादिति ।
एतदुक्तं भवति ।
प्रातिस्विको ऽपि भेदो विषयाणां यदि प्रमाणभेदहेतुः
हन्तैतस्यानन्त्येन प्रमाणानामनन्तो भेदः स्याद् न तु त्रित्वं तस्मादवान्तरसामान्यं विषयाणामास्थेयं न च तदपि स्वरूपमात्रनिष्ठं विषयाणां संभवति एकस्मिन्नपि प्रमाणानां संप्लवात् ।
तस्मात्प्रत्ययभेदोपहितसामान्या विषयास्त्रित्वे व्यवतिष्ठमानाःप प्रमाणमपि त्रित्वे व्यवस्थापयन्ति ।
सामग्रीत्रयान्वयव्यतिरेकानुविधायिनश्च प्रत्ययास्त्रयो भवन्ति ।
तथा च त्रिविषयत्वात्प्रमाणानि त्रीणि, तदिदमुक्तं विषयभेदादिति ।
निराकरोति ।
तन्नेति ।
प्रमाणाभेदे सामग्रीत्रयाभेदे तदुनविधायिनां प्रत्ययानामभेदात् ।
न हि प्रत्ययभेदामन्तरेण सामग्रीभेदः शक्यो विज्ञातुं, तस्मात्प्रत्ययसामग्रयभेदे ऽपि विषयभेदानधिगतेर्न विषयभेदस्त्रित्वाधिगमो वा प्रत्ययभेदमन्तरेणेति ।
शङ्कते विषयतादात्म्यादिति चेत् ।
प्रत्ययप्रत्येतवययोरभेदादुपपन्नः प्रत्ययभेद इत्यर्थः ।
निराकरोति ।
तन्नेति ।
अपि च प्रत्ययाभेदे प्रकारवत्त्वाभावाद् यथाध्यवस्यति बुद्धिस्तथा चेतयते पुरुष इति व्याघातः ।
कुतो ऽप्रकारवत्त्वाद् भिन्नो हि प्रकारवान् भवति नाभिन्न इत्यर्थः ।
अन्तःकारणस्य बुद्धेः प्रत्ययानामभेदे बुद्धिस्तं प्रत्ययमुपलभते इति विरोध इति

8.10

न्य्स्_3,2.10: स्फटिकेप्यपरापरोत्पत्तेः क्षणिकत्वाद् व्यक्तीनामहेतुः ॥
तदेवं स्वमतेन सांख्यपक्षं दूषयित्वा बौद्धैर्यत्सांख्यराद्धान्ते दूषणमुक्तं तद्
दूषयितुं बौद्धमतमुपन्यस्यति ।
स्फटिकान्यत्वाभिमानैतदिममृष्यमाणः क्षणिकवाद्याहेति ।
स्फटिः--तुः ( सू. 10 ) ॥
यत्सत्तत्सर्वं क्षणिकं यथा शरीरं तथा च स्फटिक इति जरन्तो बौद्धाः ।
शरीरस्या च च कालपरिपाकवशेन स्थौल्यस्य ह्रासस्य च दर्शनात् प्रतिक्षणं सूक्ष्मः परिणतिभेदो ऽनुमीयते स चान्तरा विनाश
एवेति ।
यस्यापि स्फटिकादेस्तादृशं स्थौल्यंह्रासो वान दृश्यते तस्यापि सत्त्वेन शरीरवदेव प्रतिक्षणं विनाशोत्पादावनुमीयेते इति ।
स्यादेतद् यदैवोपचयापचयौ शरीरस्य दृश्येते तदैवोत्पादविनाशौ भविष्यतः पूर्वं तु तत्प्रबन्धकल्पनायां किं प्रमाणमित्यत
आह ।
यस्पय खलु प्रतिक्षणमिति ।
( 407 । 9 ) अस्य प्रयोगः प्रतिक्षणमन्यच्चान्यच्चेति ।
पटस्य कुङ्कुमादिद्रव्यसंयोगे सत्यन्ते ऽरुणिमलक्षणो विशेषो दृश्यते न चास्यारुणिमा प्रतिक्षणभावीत्यत उक्तं बाह्यप्रत्ययाभेदेसतीति ।
अभिन्नो हि शरीरोपचयहेतुः प्रतिदिनमुपयुज्यमानो ऽन्नपानप्रचथोयथा पाकजोत्पत्तावौष्ण्यापेक्षो वह्निसंयोगो बाह्यः प्रत्ययः कारणं, पटे त्तु रागोत्पत्तौ कुङ्कुमद्रव्यसंयोगः सांप्रतिको विशिष्ट इत्यर्थः

8.11

न्य्स्_3,2.11: नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा ॥
सिद्धान्तसूत्रम् ।
निय--ज्ञा (सू. 11) ॥
तदेतद्व्याचष्टे ।
तदिदमुपचयापचयेति ।
न हि धूमदर्शनानुमितो वह्निः क्वचित्प्रवर्त्ततैत्यदृश्यमाने ऽपि धूमे पर्वतत्वमात्रेण पर्वतान्तरे ऽपि वह्निमनुमिन्वते ऽनुमातार इत्यर्थः ।
शङ्कते यत्रोपलब्धिरिति ।
क्षणिकत्वं पूर्वापरभागविकलकालकलामात्राबस्थायित्वम् ।
न च तादृशं क्षणिकत्वं नैयायिकांनां क्वचिदपि संमतमिति न सिद्धसाधनमित्यर्थः ।
निराकरोति ।
सत्यमिति ।
कस्मात्पुनरस्मदभिमतैव क्षणिकता न सिध्यत्युपचयापचयप्रबन्धदर्शनादित्यत
आह ।
उपचयापचयप्रबन्धदर्शनं चान्यथा भवदिति ।
चो हेत्वर्थः ।
शङ्कते तुल्यमिति ।
( 408 । 5 )
निराकरोति नासाधनादिति ।
एकान्तनिश्चयं विना न साधनं, दूषणं तु सन्देहापादनेनापीति,
सो ऽयं साधनदूषणयोर्विशेष इत्यर्थः

8.12

न्य्स्_3,2.12: नोत्पत्तिविनाशकारणोपलब्धेः ॥
उत्तरसूत्रमवतारयति ।
अथावश्र्यं साधनं वक्तव्यमिति ।
नोत्प--ब्धेः
( सू. 12 ) ॥
उत्पत्तिविनाशकारणं ज्ञापकमवयवोपचयापचयौ न क्षणिकपक्षे युज्येते ।
निरन्वयोत्पादविनाशयोरुपचयापचयप्रतययाभावादिति ।
उपचयापचयात्पत्तिविनाशकारणोपलब्धेरिति ।
उपचयापचयौ च तावुत्पत्तिविनाशकारणे चेति कर्मधारयः ।
उत्पत्तिविनाशकारणोपलब्धेरित्यस्य व्याख्यानान्तरमाह ।
अथवा कारणमिति ।
( 409 । 1 ) समवायिकारणं हि कार्यात्पूर्वं च कार्यकाले चेति लोकसिद्धं तच्चैतत्क्षणिकत्वे ऽनुपपन्नमित्यर्थः ।
एककालानुभाविनी अनुभवः प्राप्तिः एककालप्राप्ते इत्यर्थः ।
भिन्नलोकमर्यादः शङ्कते आधाराधेयभावस्येति।निराकरोति नानेकान्तात् ।
भवतामपि राद्धान्ते रूपं सप्रतिधं कार्यमाधारवच्च ।
यदि तु रूपमप्यनाधारं मनुषे ततस्ते स्वसिद्धान्तव्याकोप इत्याह ।
स्पर्शस्तदाश्रय इति च व्याघात इति ।
सर्व तदेककालानुभावि सिद्धं भवतीति ।
शङ्कते सिद्धः कार्यकारणभावः क्षणिकेष्वपीति ।
कार्यस्यानाधारत्वप्रसङ्गेन,
न हि क्षणिकत्वे कार्यकारणभावो न सिध्यति ।
सतु सिद्धः क्षणिकत्वपक्षे ऽपीति कारणविनाशसमकालत्वेन कार्योत्पादस्य कार्यकारणयोः समानकालत्वादित्यर्थः ।
निराकरोति ।
न हेत्वर्थापरिज्ञानादिति ।
एतावता प्रयासेन त्वया कार्यकारणभावः क्षणिकानां समर्थ्यते न चायमक्षणिकत्वे हेतुरपि त्वाधाराधेयभावः स चाशक्यसाधनः को नु खल्वयं कारणविनाशः कारणाभावो वा विनाशकारणसान्निध्यं वा ।
पूर्वस्मिन्पक्षे कार्यकारणयोः कुतः समानकालता ।
उत्तरस्मिन्नप्युत्पन्नस्य पश्चाद्विनाशकारणमान्निध्ये ऽपि कुतः सतः क्षणिकता ।
न चोत्पद्यमानताविनश्यत्तयोस्तुल्यकालत्वमनुभवविरोधात् ।
कार्यस्य च तदैवोत्पद्यमानत्वे कार्यकारणभावाभावः सव्यदक्षिणशृङ्गवदिति भावः ।
अपि च दृष्टान्तो ऽपि साध्यविकल इत्याह ।
तुलाधारस्येति ।
( 410 । 1 ) ये अवयवकर्मणी लासोल्लासौ न तयोःप कार्यकारणभावः ।
यत्त्ववयविकर्मन तत्र यौगपद्यं नापि कार्यकारणभाव एकत्वादित्यर्थः ।
गुरुत्वाप्रयत्नसंयोगा उन्नतेरिति ।
विधारकः प्रयत्नस्तुलाधारस्य तदपेक्षः संयोगः सयुक्तंसंयोगो गुरुत्वं च तत्संयुक्तावयवान्तरवर्तिकारणमुन्नतेस्तुलावयवस्य
अनवतेरपि द्रव्यं गुरुत्ववत्सुवर्णादि परिमयिमाणं तत्संयोगानुगृहीतो रज्जुतुलासंयोगः कारणम्

8.15

न्य्स्_3,2.13: क्षीरविनाशे कारणानुपलब्धिवद् दध्युत्पत्तिवच्च तदुपपत्तिः ॥
न्य्स्_3,2.14: लिङ्गतो ग्रहणाद् नानुपलब्धिः ॥
चोदयति न नास्ति शीतोष्णस्पर्श भेदस्येति ।
( 411 । 5 ) परिहरति स तु निमित्तान्तरादिति ।
पुनश्चोदयति ।
अप्तेजोवयवानुप्रवेशो न युक्त इति ।
स्वगता महाभूतविशेषास्तदवयवाः पृथिव्यादयः
ते हि परस्परतो विशिष्यन्त इति विशेषाः ।
परिहरति ।
न युक्तमिति ।
यदि प्रतिक्षणमन्यत्वमात्रेण विशेषस्ततः काष्ठक्षणानामपि भूम्यश्मलोहवद्विशेषोपलम्भः स्यात् ।
यथा हि काष्ठक्षणादकस्माल्लोहक्षणा भिद्यन्ते एवं काष्ठक्षणान्तराण्यपीति ।
तस्मात्पार्थिवत्वे ऽपि स्वतो विशेषावास्थेयौ यतो भूम्यश्मादिभ्यो व्यावर्त्तन्ते न व्यावर्त्तन्ते च काष्ठक्षणान्तरेभ्यः काष्ठक्षणः तस्मादेव विशेषादक्षणिकत्वे ऽपि काष्ठभूम्यश्मलोहानामुपपन्नौत्तरेत्तरो विशेष इति वृथा क्षणिकत्वकल्पनेति ।
असाधनं भूस्वभावः ।
क्षणिकत्वसिद्धावित्यर्थः ।
दूषणान्तरमाह ।
विरुद्धश्चायं हेतुः ।
उत्तरोत्तरविशेषदर्शनादिति ।
भवतां किल भूतानामन्योन्यव्यावर्त्तकं लक्षणे खरस्नेहौष्ण्येरणात्मकानि भूतानीति ।
खरा पृथिवी स्नेह उदकम् उष्णं तेजः ईरणं समीरणो गतिमानिति यावत् ।
तथोत्पादे तु काष्टभूम्यश्मलोहानामङ्गीक्रिषमाणे एकमेव खरोष्न्ने खरोष्णेरणात्मकं स्यादिति संकीर्णत्वा द्भूतलक्षणव्याघात इति ।
कठिनमिति खरां पृथिवीमुपलक्षयति ।
अस्मत्पक्षे तु न व्याघात इत्याह यस्य पुनरिति ।
न केवलं पृथिव्यादिलक्षणेन विरुध्यते अपि तु शीतोष्णस्पर्शभेदेन नानात्वस्य साधनेन पूर्वोक्तनापीत्याह ।
विरुद्धश्चायमिति ।
( 413 । 1 ) पृच्छति कथम् ।
उत्तरम् ।
एकस्य विशेषाभ्युपगमात् ।
येनैव विशेषेण पूर्वस्मान्नानात्वमभ्युपगतं शीतोष्णादिना भेदेन, तेनैव सम्प्रत्येकत्वादित्यर्थः ।
सिद्धान्तमभ्युपेत्येति ।
पूर्वेण हेतुना यो ऽभ्युपगतो ऽर्थः
तद्विरोधितया विरुद्धैत्यर्थः ।
शङ्कते अथ मन्यसे न विशेषमात्रमिति ।
मा भूद्रूपं सप्रतिघमुपादानमिति रूपस्यैकस्य नानात्वमिति भावः ।
निराकरोति नाभिप्रायेति ।
यस्त्ववयवानुप्रवेशे देशयेदुष्णजले वह्निस्पर्शवद्रूपग्रहे ऽपि स्यादयोगोलकैवेति तंप्रत्येकदेशिमतेन परिहारमाह ।
जले ऽग्निरूपग्रहणप्रसङ्स्त्विति ।
तद्दूषयति ।
तन्नेति ।
युक्तं मध्यन्दिने सवितृप्रकाशेनोल्वणेन मन्द उल्काप्रकाशो ऽभिभूयते सजातीयत्वे सत्युल्बणत्वात् ।
तोयरूपं तु नोल्बणं न च सजातीयमभावस्वरत्वात् ।
तेजस्तु भास्वरं तस्मान्नाभिभव इत्यर्थः ।
परमार्थपरिहारमाह ।
अपि तु तेजसश्चातुर्विध्यात् ।
किं चिदुद्भूतरूपस्पर्शं तेजो भवति, यथा सवितृ प्रकाशः शरदि दिवा, किञ्चिदनुद्भूतरूपस्पर्शं यथा चाक्षुषं तेजः किं चिदुद्भूतरूपमनुद्भूतस्पर्शं च यथा प्रदीपप्रभायां तेजः किं चिदनुद्भूतरूपमनुद्भूतस्पर्शं यथा चोयगतं तेजः यथा वा निशीथे निदाघसमये तेजो यतो मेदस्विनः स्विद्यन्तीति ।
प्रतिज्ञार्थं यथासम्भवं विकल्प्य दूषयति ।
या चेयं प्रतिज्ञेति ।
अथ वर्त्तमानं स्फटिकमभ्युपगम्य यदतीतं स्फटिकान्तरं तत्पक्षीकृत्य वर्तमानात्तदन्यदिति साध्यते ।
निराकरोति ।
एवं सतीति ।
( 413 । 5 ) यदि लिङ्गं स्वसत्ताज्ञानाभ्यां नमकं तदा सत्यपि ज्ञाने अतीतधर्मस्य सत्ता नास्तीति न गमकमिति भावः ।
यदि पुनः स्वज्ञानमात्रेण गमकं लिङ्गमुच्येत तदा दूषणान्तरमाह ।
वर्त्तमानाच्चेति ।
तद्विरोध्याश्रयविनाशानुविधानेन विनश्यतीति ।
विरोधीति गुणाभिप्रायम् ।
गुणो हि विरोधिपना गुणान्तरेण नाश्यते ।
आश्रयनाशेचेति सर्वसाधारणम् ।
आश्रयग्रहणं चोपलक्षणं तेनासमवायिकारणनिमित्तकारणविनाशेनापि यथासम्भवमुन्नेतव्यमिति ।
शङ्कते विनश्यदवस्थेति ।
मा भूत्प्रदीपो दृष्टान्तो विनश्यदवस्थे तु द्रव्ये कर्मोत्पन्नमुत्पत्त्यनन्तरमेवापवृज्यते अत ईदृशं कर्म दृष्टान्तो भविष्वतीत्यर्थः ।
निराकरोति न कर्मण इति ।
कर्मापलापनिबन्धनो ह्ययं क्षणिकबादस्तदभ्युपगमे न भवितुमर्हति ।
स्थिराद् द्रव्यादागन्तुककर्मसहितादेव कार्योत्पादोपपत्तेरिति ।
निराकरणान्तरमाह
अनभ्युपगमाच्चेति ।
तादृशस्यापि कर्मणः क्षणिकत्वस्यास्माभिः,
तथा हि द्रव्यस्य विनश्यत्ता कर्मोत्पाद इत्येकः कालः।अय द्रव्यस्य विनाशः न च कारणोत्पादसमये कार्योत्पाद इति द्रव्यविनाशानन्तरं कर्मनाश
इति सिद्धं क्षणद्वयावस्थानं कर्मण इति ।
शङ्कते ।
विनाशहेत्वभावादिति चेत् ।
अयमभिसंधिः स्वकारणादयं भावो विनश्वरो जायते ऽविनश्वरो वा ? विनश्वरश्चेद् विनाशं प्रति न हेतुमपेक्षेत न हि नीलं स्वकारणादुत्पन्नं नीलत्वे हेतुमपेक्षते तस्यैव ताद्रूप्यत् ।
अविनश्वरश्चेत्तथा ऽपि नास्य हेतुशतैरपि शक्यो विनाशः कर्तुम् ।
न हि नीलमुत्पन्ने पीतं शिल्पिशतेनापि शक्यं कर्तुम् ।
अपि चायं विनाशो भावस्पय कारणैराथीयमानो भावाद्भिन्नो ऽभिन्नो वा जायते ।
अभिन्नत्वे भाव एवासाविति विनष्टो भावः प्राग्वदुपलब्ध्यर्थक्रिये कुर्यात् ।
न च भावाभावयोः कारणभेदे सति सम्भवत्यभेदः ।
तन्तुसंयोगभेदेभ्यो हि पो जायते तन्तुविभागाद्वा तन्तुविनाशाद्वा पटाभाव इति कारणभेदः ।
भावाद्भिन्नत्वे तु जायतामभावो भावस्य किमायातं न हि क्रमेलकोत्पादने पीलवो निवर्तन्ते ।
अभावेन भावस्तिरोधीयत इतिचेत् ।
न तिरोधानस्यापि भावादभेदे पूर्ववदुपलब्ध्यादिप्रसङ्गः ।
भेदे ऽपि तिरोधानस्यान्यस्योत्पादे अन्यस्य न किं चिदुत्पन्नं विनष्टं चेति भावतादवस्थ्यात्पूर्ववदुपलब्ध्यादिप्रसङ्गः ।
अपि च यद्येषां ध्रुवभावि न तत्र तेषां हेत्वन्तरापेक्षा यथा कृपाणस्यायोमयत्वे ।
ध्रुवभावी च कृतकानां भावानांव विनाश इति विरुद्धव्याप्तोपलब्धिः ।
ध्रुवभाविता हि प्रतिषिध्यमानहेत्वन्तरापेक्षत्वविरुद्धतन्निरपेक्षत्वव्याप्तोपलब्धा सेह प्रतीयमाना निरपेक्षत्वमुपस्थापयन्ती हेत्वन्तरापेक्षतां प्रतिक्षिपति ।
ये हि हेत्वन्तरापेक्षो न ते ध्रुवभाविनो यथा वाससि रागादयः कुसुम्भादिसंयोगसापेक्षा नावश्यं भाविन इति ।
तस्मादभावस्य सर्वोपाख्यारहितस्य कल्पितस्य क्रियानुपपन्नेति अभावं करोतीति करोति क्रियाया अभावेन सम्बन्धानुपपत्तेर्नञासम्बन्धो भावनं करोतीति ।
यथाह ... न तस्य किं चिद्भवति न भवत्येव केवल ... मिति ।
तस्माद्विनाशकारणाभावादुत्पन्नमात्र एवभावो विनश्यतीतिसिद्धः क्षणभङ्ग इति ।
तदेतन्निराकरोति ।
न विकल्पानुपपत्तेः ।
अयमभिसन्धिः यत्तावद्विकल्पितं स्वहेतुभ्यो भावा विनश्वरा अविनश्वरा वा जायन्त इति ।
तत्र ब्रूमः किं पुनरिदं विनश्वरत्वं भावानामभिमतमायुष्मतः किं विनाशस्वभावत्वम् आहो विनाशार्हत्वं नित्येभ्यो व्यावृत्तंरूपम् ।
न तावत्पूर्वः कल्पः परस्परपरिहारवतोर्भावतन्नाशयोस्तादात्म्यानुपपत्तेः ।

तादात्म्ये च विनाशवद्भावो ऽपि द्वितीयादिक्षणेषु वर्तेतेति साधु क्षणिकत्वं समर्थितमत्रभवता भावानां नित्यत्वमुपपादयता ।
भावसमये वा विनाशो ऽपि भावात्मा ऽस्तीत्यत्यन्ताभावो भावस्य भवेदिति सुष्ठवदातं तत्त्वं भावानाम् ।
न च भाव एकक्षणस्थितिधर्मा नाशो द्वितीयादिक्षणेष्विति साम्प्रतम् ।
प्रथमद्वितीयलक्षणावच्छेदलक्षणविरुद्धधर्मसंसर्गेण भेदात् ।
द्वितीयं तु कल्पमनुमन्यामहे ।
नन्वेवं विनाशार्हाश्चेद्भावाः स्वकारणादुत्पन्नाः
हन्तोदयानन्तरमेवापवृज्येरन् नापवृज्यन्ते विनाशार्हा अपि पटादयस्तन्तुविनाशाद्वा तन्तुविभागाद्वा स्वकारणाधीनजन्मनो विनङ्क्ष्यन्ति ।
न हि तण्डुपलाः पचेलिमा इति विनैव दहनसलिलसंयोगप्रचयभेदं विक्लिद्यन्ति ।
काष्ठानि वा भिदेलिमानीति कुठाराभिघातमन्तरेण दलन्ति ।
यो मन्यते त एव तण्डुलाः पचेलिमाः ये समर्थदहनोदकपिठरस हभुवः तदनन्तरं हि पुलाकाः प्रादुर्भवन्ति,
यदनन्तरं हि न प्रादुर्भवन्ति न ते पचेलिमा इति ।
तस्योत्तरमक्षणिकार्थक्रियामुपपादयन्तो वक्ष्यामः ।
तस्माद्विनश्वराणामुत्पत्तेः स्वकारणान्न विनाशकारणापेक्षा भावानामिति युक्तम् ।
केवलं भावादन्यस्याकारणत्त्वं ब्रुवाणः पर्यनुयोज्यो भवान् ।
किमकारणत्वान्नाशस्य नास्तित्वं रोचयते किं वा नित्यतां तत्रोक्तं साक्षाद्दूषणं वार्त्तिककृता भवतां शाक्यानां पक्षे अकारणं द्विधा नित्यं व्योम शशविषाणादि वा तुच्छम् ।
अस्माकं तु नित्मयेव भवदभिमतस्य तस्य तुच्छस्याभावस्यानङ्गीकारादस्मदभिमतस्य भवद्भिरनङ्गीकृतत्वेन नास्तीत्यध्यारोप्य राशिरेक उक्तः ।
उत्पन्नस्य विनाश इति सर्वजनीनं तद्विपरीतं भवत्पक्षे प्राप्नोति ।
नन्वस्तु भावाभावयोः सहावस्थानं को दोष इत्यत आह ।
ततश्च भावानामिति ।
( 414 । 5 ) शङ्कते अथाविनाशित्वादिति ।
प्रयोजनक्षतिरियं यदकारणत्वे विनाशस्यैष दोष इति ।
न तु दोषभयेन स्फुटतरप्रमाणबाधितं कारणत्वं विनाशस्य शक्यमङ्गीकर्तुमिति भावः ।
गूढाभिसंधिः सिद्धान्ती पृच्छति विनाशो न विनश्यतीति कुत एतत् ।
चोदक
आह विनष्टानामिति ।
सिद्धान्ती बौद्धमतमालम्ब्याह ।
न हि विनाशाभाव इति ।
यस्य पटाभाव एव तुच्छस्तस्य तदभावे का कथा तस्य तुच्छादपि तुच्छतरत्वादिति भावः ।
स्वमतमास्थायाह ।
अपि च विनाशः कारणवांश्चेति ।
शेषं सुबोधम् ।
यदप्यकारणत्वे कारणमुक्तं भावाद्भिन्नश्चेदभावो जन्येता भावतादवस्थ्यमिति ।
तत्रोच्यते ।
नाभावस्योत्पादे भावस्यापरा निवृत्तिः किं त्वभावोत्पाद एव तन्निवृत्तिः कथमन्यस्योत्पादे ऽन्यस्य निवृत्तिः अत्र स्वभावभेदैरुत्तरं वाच्यं ये परस्परपरिहारावस्थितयः ते स्वहेतुभ्यो जायन्ते ।
न हि स्वतो ऽन्यस्याङ्कुरस्पय वह्निर्न कारणमित्यन्यत्वाविशेषाद्भस्मनो ऽपि न कारणमिति ।
स्वभावभेदेन तु कार्यकारणभावनियमसमर्थनं परस्परपरिहारस्थितिनियमे ऽपि तुल्यम् ।
यथा चोत्पादस्य पुरस्तादखिलसामर्थ्यरहितस्याङ्कुरप्रागभावस्योपकारं किं चिदकुर्वन्तो ऽपि बीजादयो ऽङ्कुरमारभन्ते तदुत्पादस्यैव तत्प्रागभावनिवृत्तिरूपत्वात् ।
एवं तदभावहेतवो ऽपि भावरूपे अकिञ्चित्करा अपि तदभावमादधति न चेद्भावरूपे किं चित्कृतं तदभावहेतुभिरथ भावः प्रागिव स्वाभावसमये कस्मान्न स्वरूपोपलम्भार्थक्रिये करोति ।
अथोत्पादात्प्रागिवोत्पन्नो ऽऽप्यङ्कुरः कस्मादुपलम्भार्थक्रिये करोति ।
उत्पत्तेः प्रागङ्कुरो नासीत्तेन नाकार्षीदुत्पन्नस्त्वस्ति तस्मात्करोतीतिचेत् ।
हन्त भावो ऽपि यदासीत्तदा ऽकार्षीत्तदानीं तु विनष्ट इति नास्ति तेन न करोति ।
यथा च भावोत्पाद एव तत्प्रागभावस्य नास्तिता एवमभावोत्पाद एव भावस्य नास्तिता ।
उपजनापायधर्मतया भावाभेदो विनाशस्य ततो न सदसद्रूपतया द्वैराश्यं विश्वस्येति चेत् को ऽयमुपजनो यदि स्वकारणसमवायः सत्तासमवायो वा सो ऽभावे नास्ति ।
अथ स्वरूपप्रतिलम्भः
तथा ऽपि तावन्मात्रस्य साम्ये ऽपि अवान्तरभेदेन द्वैराश्योपपत्तिः ।
तस्माद्यथा सत्त्वस्य साम्ये ऽपि द्रव्यगुणकर्माणि तेन तत्त्वेनान्योन्यं भिद्यन्ते एवं प्रमेयत्वाभिधेयत्वकारणवत्त्वेनाविशेषे ऽपि तद्भिः सहासतां सत्तातद्विरहरूपभेदाद्भेद
इति सिद्धम् ।
या ऽपि ध्रुवभाविता विनाशस्य ।
तत्र ब्रूमः ध्रुवभावित्वेन विनाशस्य हेत्वन्तरानपेक्षत्वं ब्रुवाणो नाहेतुकत्वं वक्तुमर्हति ।
हेत्वन्तरनिराकरणे हेतुमात्रानिराकरणात् ।
विशेषनिषेधस्य शेषाभ्यनुज्ञाफलकत्वात् ।
अपि च ध्रुवभावित्वमसिद्धमनैकान्तिकं वा ।
इदं भावान् पृष्टो व्याचष्टां किं घटसन्तानात्सभागात् कपालसंततिर्ध्रुवभाविनी न वा ।
न चेद्
न्न विनाशो ऽपि घटस्य ध्रुवभावी न खलु विसभागक्षणोत्पादमन्तरेण घटविनाशमीक्षामहे मांसचक्षुषः तथा चासिद्धा ध्रुवभाविता विनाशस्य ।
अथ ध्रुवभाविनी तस्यामेव तर्हि विसभागसंततौ ध्रुवभाविन्यां मुद्गरादिहेत्वपेक्षेत्यनैकान्तिकं ध्रुवभावित्वं नानपेक्षत्वव्याप्तमिति न हेत्वन्तरापेक्षित्वं निषेद्धुमर्हतीति ।
तदेतद्यश्चाकारणविनाशेदोषः स चापरिहार्य इत्यनेन वार्त्तिकेन सूचितम्।एवं तावदन्यत्वे साध्ये दोष उक्त इति ।
( 415 । 11 )
यद्यपि क्षणिकत्वमपि पूर्वमुक्तं दूषितं च तथा ऽपि क्षणिकाभिधानं तवान्यपरमन्यत्वमेव तु तत्र प्रधानम् ।
इदानीं तु क्षणिकत्वमेव प्रधानतया साध्यमित्येतावता प्रकरणभेद
इति ।
विशेषणं सिद्धान्तविरोधीति ।
यद्यनाशुविनाशिनो ऽपि के चन भावा भवेयुः ततो विशेषणमाशुविनाशिन
इति कल्पेत तथा च सिद्धान्तविरोध इत्यर्थः ।
मत्वर्थीय इति ।
( 416 । 2 ) क्षणिक इति ।
अत इनिठनाविति मत्वर्थीयष्ठन् ।
अनन्तरेण विनाशेन विशिष्यमाण
इत्युपलक्ष्यमाणः ।
सर्वान्तकालमिति ।
पूर्वापरभागविकलकालकलैका ज्योतिर्विद्यासिद्धा सर्वान्त्य कालमिति संज्ञामात्रं न तु वास्तवं वास्तवी च क्षणिकता ऽभिमतेति ।
पक्षवचनं दूषयित्वा हेतुं दूषयति ये ऽपीति ।
अत्रादिग्रेहणेन सत्त्वकृतकत्वादयः संगृहीता वेदितव्याः ।
तत्र यत्सत्तत्सर्वं क्षणिकं यथा घटः संश्च विवादाध्यासितः शब्दादिरिति स्वभावहेतुः सत्तामात्रानुबन्धित्वात्क्षणिकत्वस्य ।
कथं पुनः सत्तामात्रानुबन्धसिद्धिः क्षणिकतायाः, ।
उच्यते सत्त्वं नामार्थक्रियाकारित्वं भावानां नान्यत् ।
न ह्यस्ति सम्भवः संश्च भावो न चार्थक्रियां करोतीति ।
तथा हि स सर्वज्ञस्य विज्ञानस्यालम्बनप्रत्ययो भवेन्न वा ।
न चेद् नास्ति सर्वज्ञो वा न सर्वज्ञः तस्यैवाज्ञानाद् ।
आलम्बनप्रत्ययश्चेत् कथं नार्थक्रियां करोतीति ।
न च सत्तासामान्यं नामास्ति किं चन ।
नापि तत्समवायो यतः सन्नित्युच्यते ।
तत्सद्भावे वा न भावतां सामान्यविशेषसमवायाःप सन्तो भवेयुः
तेषां सामान्याधारत्वानभ्युपगमात् ।

प्रमाणग्राह्यता ऽपि प्रमाणविषयता प्रमाणं प्रत्यालम्बनप्रत्ययत्वमेव तच्चार्थक्रियाकारित्वान्नान्यदिति सिद्धमर्थक्रियाकारित्वमेव सत्त्वमिति ।
तच्च क्रमाक्रमाभ्यां व्याप्तं तृतीयप्रकारविरहात् ।
तथा हि भावानां तासु तास्वर्थक्रियासु क्रमाक्रमौ परस्परपरिहारवन्तौ चकास्तः
तथा च क्रमाक्रमात्मकं प्रकारान्तरमपि यदीदृशाभ्यामेवानुभूतावसिताभ्यां क्रमाक्रमाभ्यां करम्बितमङ्गीक्रियते ततो दृश्यमानयोरपि क्रमाक्रमयोः परस्परसङ्करप्रसङ्गः ।
करम्बितावेन हि क्रमाक्रमाविमावपीति दृश्यमानः क्रमो ऽक्रमात्मकः अक्रमश्च क्रमात्मकः प्रतिभासेत ।
न च तथा प्रतिभासते ।
एतेन प्रत्यक्षमेव परस्परपरिहारवन्तौ क्रमाक्रमौ परिच्छिन्दत्सर्वत्रैवानयोः संकरं प्रतिक्षिपति ।
यदि क्व चिदप्यनयोस्तादाम्यं भवेदिहापि तावेव क्रमाक्रमाव् इति संकीर्णौ गृह्येयाताम् ।
तस्मादनयोरिह संकरानुपलम्भ
एव देशान्तरे कालान्तरे च संकरं निषेधति ।
तादात्म्यनिषेधे च दृश्यत्वविशेषणादनुपलब्धेः
दृश्यमानस्तम्भतादात्म्येन स्वयमदृश्यानां पिशाचादीनां दृश्यानां च प्लवङ्गादीनामविशेषेणा प्रतिषेधात् ।
यथाह विशेषणं चावाच्यमिति ।
अनेवंभूतक्रमयौगपद्यव्यतिरेकवती प्रकारान्तरे क्रमयौगपद्ये एव न भवतः न हि शब्दाभेदेन वस्तुनो ऽप्यभेदः ।
मा भूद्गोशब्दसामानाधिकरण्येन वागादीनामपि विषाणित्वप्रसङ्गः ।
स्यादेतत् ।
मा भूतां क्रमयौगपद्ये अस्त्वन्य एव क्रमाक्रमाभिधानः क्रमयौगपद्याभ्यामन्यः प्रकारो यमास्थाय भावाः स्थिरा अप्यर्थक्रियायायामुपयोक्ष्यन्ते ।
न त्वेषां प्रकारान्तरवदर्थक्रिया ऽपि पिशाचायमानैव ।
तथा चेत् किं नः छिन्नं दृश्यमानास्त्वनुभूतावसिताःपरस्परव्यावृत्तक्रमयौगपद्यरूपप्रकारद्वयसमालिङ्गितरूपा अर्थक्रिया न प्रकारान्तराद्भवितुमीशते ।
न च प्रकापरान्तरमपि ।
तथा हि यत्र यत्प्रकारप्रतिषेधेन यदितरप्रकारव्यवस्थानियमस्तत्र न प्रकारान्तरसम्भवः
यथा नीलप्रकारप्रतिषेधेनानीलप्रकारव्यवस्थायां पीते अस्ति चतयोरन्यतरप्रकारनिषेधे ऽन्यतरव्यवस्थानियमो निषिध्यमानप्रकाराविषयीकृते सर्वत्र कार्यकारणे इति विरुद्धोपलब्धिः ।
निषिध्यमानप्रकारान्तरसम्भवविरुद्धो हि द्वयोरन्यतरनिषधेनान्यतरव्यवस्थानियम
इति प्रकारान्तरासम्भवाद्भावानामर्थक्रिया क्रमाक्रमाभ्यां व्याप्ता तौ च स्थिरान्निवर्त्तमानावर्थक्रियामपि व्यावर्तयतः वृक्षतेव निवर्तमाना शिंशपात्वमाराद्दृश्यमानादेकशिलामयाद्भूभृत्कटकादिति प्रतिबन्धसिद्धिः ।
तथा हि न तावतावदक्षणिकः क्रमेणार्थाक्रियां कर्त्तुमर्हति ।
स्वेन हि रूपेण भावा अर्थक्रियायामुपयुज्यमाना दृश्यन्ते ।
यद्वस्तु यत्कार्यान्वयव्यतिरिकानुविहितभावाभावं तद्वस्तु तत्कार्यप्रसवसमर्थं रूपं च तस्य कार्येणानुकृतान्वयव्यतिरेकमिति रूपमेव समर्थं, तच्च द्वितीयादिक्षणेष्विव प्रथमे ऽपि क्षणे सदिति द्वितीयादिक्षणजन्यकार्यकलापं प्रथम एव क्षणे निष्पादयेत्, समर्थस्य क्षेपायोगादिति नाक्षणिकस्य क्रमवद्व्यापारता प्रसज्यते ।
स्यादेतत् समर्थो ऽपि क्रमवत्सहकारियोगात् क्रमेण करोतीति ।
तदवुक्तम् ।
विकल्पासहत्वात् ।
किमस्य सहकारिणः कं चिदुपकारमादधति न वा, आदधाना वा भावाद्भिन्नमभिन्नं वा ।
तत्र भिन्नोपकाराधाने भावे सत्यनुत्पत्तरुपकारे च सत्युत्पत्तेः एवं कार्यस्योपकार एव जनको न जनको भावः ।
न चोपकारसहकारी भाव
एव कार्यस्य जनको नोपकारमात्रमिति वाच्यम् ।
उपकारस्योपकारान्तरजनने अनवस्थानात् ।
अजनने तु सहकारिभावाभावात् ।
अभिन्नोपकाराधाने च भाव एव जनयेत् स च प्रागप्यासीदिति सहकारिवैयर्थ्यम् ।
अनुपकारकत्वे वा सहकारिणो न भावेनापेक्ष्येरन्नित्युत्पन्नमात्र
एव भावः कार्यमुत्पादयेत् ।
यदि मन्यते अनुपकारका अपि भवन्ति सहकारिणो यतस्तैः सह भावः कार्यं करोति ।
न चभावेन नापेक्ष्यन्ते तैर्विना कार्यस्यानुत्पत्तेरिति ।
ननु स्वरूपेण चेत्कार्यजनको भावः न कस्मान्नेमानन्तरेण जनयति तेभ्यः प्रागपि स्वरूपसद्भावात् ।
सहकारिरूपेण वा जनकत्वे सहकारिण एव जनका न जनको भावः ।
न चोभयभावाभावानुविधानादर्थक्रियाभावाभावयोरेकस्माच्च व्यभिचारादुभयाधीनतेति सांप्रतम् ।
भावे सत्यनुत्पादात्कार्यस्य व्यभिचारेण चरमभाविनिमित्तसहकारिसमवधाने सति भावादेव सहकारिसमवधानस्यैव चरमभाविनो व्यभिचारेण कारणत्वावधारणात् ।
एतेनैतन्निरस्तं यदाहुरेके ... स्वहेतोर्विलम्बकारी भावो जात इति नोत्पन्नमात्रः करोतीति ... ।
सा हि बिलम्बकारिता अस्य स्वभावः सहकारिसमवधानकाले ऽप्यस्ति न वा, अस्ति चेत्तदापि न कुर्यात् ।
नास्ति चेत् कथं स्वभावनाशे भावो न नष्टः ।
अथास्य विलम्बकारिता न स्वभावः कथमुत्पन्नमात्रो न कार्यं कुर्यादिति ।
तस्मान्न क्रमेणार्थक्रिया भावनां, नापि यौगपद्येन,
तस्माद्यावत्कार्य तेनाक्षणिकेन प्रथमे क्षणे सम्पादितं ताबत्सर्वं द्वितीयादिक्षणेषु सम्पादयेत् ।
तावत्कार्यसम्पादनस्वरूपस्य द्वितीयादिष्वपि क्षणेषु भावात् ।
न च सम्पादितं शक्यसम्पादनमिति यद द्वितीयादिक्षणेषु सम्पादयति तत्प्रथमक्षणे सम्पादितादन्यदिति क्रमा एवावर्त्तन्त इति तत्र चोक्तो दोषः ।
युगपत्कृतकृत्यस्य वा द्वितीयादिषु कर्त्तव्याभावान्नार्थक्रियासामर्थ्यमस्तीत्यसत्त्वेन क्षणिकत्वापत्तिः ।
तस्मादक्षणिके सत्त्वव्यापकयोः क्रमाक्रमयोरनुपलम्भाद्व्यापकानुपलब्ध्या निवर्त्तमानं सत्त्वमक्षणिकात् क्षणिकत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः ।
नीलमेव नानुभूतावसितं समारोपिताक्षणिकभावमक्षणिकं तादृशनीलस्वरूपोपलम्भ एव तत्राक्षणिके क्रमयौगपद्यानुपलम्भः यथा भूतलस्वरूपोलम्भ
एव समारोपितदृश्यत्त्वस्य घटस्यानुपलम्भः
भूतलं च तथोत्पन्नं घटाभावो न त्वभावो नाम कश्चिद्विग्रहवानस्ति यः प्रतिपत्तिगोचरः स्यात् ।
अपि व्यवहर्त्तव्यः परम् ।
स्यादेतत् ।
क्षणिकोभावो ऽर्थक्रियाजनकस्वभावो न वा, न चेदसन्नेव, तज्जनकस्वभावश्चेत्किमस्य सहकारिभिः ।
उत्पन्नमात्रमेव बीजमङ्कुरं जनयेत् ।
ननूत्पन्नो बीजक्षणः समर्थो जनयत्येवाङ्कुरं कुतः समर्थस्योत्पत्तिः समर्थस्योत्पत्तिः पूर्वस्माद्बीजक्षणात् ।
तर्हि तत्सन्तानवर्तिनां सर्वेषां बीजत्वाविशेषादङ्कुरजननसामर्थ्यमिति कुसुमानन्तरलब्धजन्ममात्रमेव बीजमङ्कुरं जनयेत् ।
मैवम् ।
पूर्वपूर्वक्षितिबीजपवनादिक्षणसमवधानोत्पन्नातिशयवदुत्तरक्षणपरम्परालब्धजन्मा ऽन्त्योबीजक्षणः समर्थः समर्थक्षित्यादिलक्षणसहभूरनपेक्ष
एवाङ्कुरञ्जनयति ।
न चास्य क्षित्यादिसहभुवस्तदनपेक्षस्यापि तैर्विना करणे तदेकसामग्र्यधीनस्य तदभावे ऽभावात् ।
न वा सहकारिता क्षित्यादीनां तैरेव सहाङ्कुरजननात् ।

तेषामपि कार्यात्पूर्वभावस्य नियमतो ऽविशेषात् ।
तन्मात्रत्वादेव च कारणतायाः ।
न वानपेक्षाणानमपि प्रत्येकं कार्यान्तरारम्भणं तन्मात्रस्य तेभ्य उपलब्धेस्तत्रैव सामर्थ्यनियमात् ।
न च कृतकरणतयेतरेषामक्रिया सहक्रियायां कृतमित्यसम्भवात् ।
न च स्वकारणलब्धसन्निधयो भावाः प्रेक्षावन्तः शक्यमिदमस्मास्वेकेनापि कर्तुं कृतं नः सर्वेषां सन्निधानेनेत्यालोच्य निवर्तितुमीशते ।
न चस्वकारणभेदमात्रं कार्यभेदहेतुः अपि तु सामग्रीभेदः तस्मिन्सति कार्यभेदोपलब्धेः
अभिन्नाभेदसामग्रीति न कार्यभेदप्रसङ्गः ।
परस्परसमवधानं चोपसर्पणप्रत्ययेभ्यः क्षित्यादीनामिति ।
न च क्षणिकस्यार्थक्रियाविरोधादसाधारणता हेतोः ।
न च साध्यधर्मिणि दृश्यमाने शब्दादौ व्याप्तिसाधनादेव साध्यसिद्धेरसाधनाङ्गं हेतुवचनम् ।
न खलु सर्वोपसंहारवती व्याप्तिर्दृश्यमात्रविषया भवितुमर्हति ।
शक्यं हि शङ्कितुं परेणादृश्यमामनानां सत्त्वमक्षणिकाद् न व्यावर्त्तितं त्वयेति सत्त्वमनैकान्तिकं क्षणिकत्वसाधन इति ।
तस्माद्यद्दृश्यमदृश्यं वा तत्सर्वं क्षणिकमिति दर्शनीया व्याप्तिः ।
नन्वेवमपि शब्दादेर्विवादास्पदी भूतस्य व्याप्तिदर्शनबलादेव सिद्धा क्षणिकतेति तदवस्थमेवासाधनाङ्गत्वं हेतुवचनस्य ।
मैवम् ।
असत्यपि शशविषाणादौ यत्सद्दृश्यमदृश्यं वा तत्सर्वं क्षणिकमिति यथा सर्वोपसंहारवती व्याप्तिः न च शशविषाणादयो ऽपि भवन्ति क्षणिकाः एवं सत्यपि विवादास्पदी भूते शब्दादौ व्याप्तिसिद्धवपि न सिध्यति क्षणिकता,
तेनावश्यं दर्शयितव्यमेतेषां क्षणिकत्वसाधनाय सत्त्वमिति नासाधनाङ्गता हेतुवचनस्येति ।
अत्रोच्यते ।
न सत्त्वं क्षणभङ्गसिद्धावङ्गमसाधारणत्वात् संदिग्धव्यतिरेकित्वाद्वा ।
तथा हि क्रमाक्रमाभ्यां व्याप्तं सत्त्वं तदनुपलम्भेनाक्षणिकाद्व्यावर्त्तत एवं तदेव सापेक्षत्वानपेक्षत्वाभ्यां व्याप्तं तदनुपलम्भेन क्षणिकादपि व्यावर्त्तते तस्माद्गन्धवत्त्ववदसाधारणं सदसाधनाङ्गम् ।
तथा ह्यन्तक्षणप्राप्तानि क्षितिपवनपाथस्तेजोबीजानि समर्थानि प्राग्भावनियतानि नियतचरमोत्पादानामवनिजलानलाङ्कुराणां कारणं भवद्भिरभ्युपेयन्ते तान्यमूनि परस्परानपेक्षाणि वा जनयेयुः सापेक्षाणि वा ।
ननु निरपेक्षाण्येवान्त्यक्षणप्राप्तानि क्षित्यादीन्युत्तरस्मिन्पुञ्जे जनयितव्यैत्युक्तम् ।
तत्किमनभ्युपगतविकल्पेन सापेक्षाणि ।
निरपेक्षाणि चेति ।
तत्किमिदानीं समर्थबीजक्षणजनको ऽपि बीजक्षणो ऽनपेक्ष
एव ।
ओंमिति चेत् ।
नेन्वेवं सर्व एव बीजक्षणा निरपेक्षाः स्वकार्योपजन इति कृतं सहकारिभिः ।
ननूक्तं नैते प्रेक्षावन्तः किं तु स्वप्रत्ययाधीननियतसंनिधयो न व्यवधेरीशत इति ।
तत्किमयं कृषीवलो ऽपि न प्रेक्षावान् ?, प्रेक्षावान् यतः प्रयत्नेन कुसूलादवतार्य बीजमावपति भूमौ परिकर्षितायां,
क्षित्यादिसहभुव एव बीजक्षणस्यातिशयोत्पादपरम्पराया अङ्कुरप्रसवसामर्थ्यात् कुशूलस्थात्तु सहस्रेणापि वर्षैरङ्कुरानुत्पादे तत्रावपतीति ।
चेत् ।
अथ किमयं न स्वसंतानमात्रप्रभवः समर्थो बीजक्षणः तथा चेत्कथं संतानान्तरं नापेक्षेत स्वकार्ये ।
नन्वपेक्षत एव किं तु तु स्वोत्पादे न पुनः स्वकार्ये, तत्र तस्यानपेक्षत्वमुपेयते न तु स्वोत्पादे ।
ननूत्पत्तावप्यस्य जागर्ति स्वसंतानवर्त्ती पूर्व एव निरपेक्षः क्षण एवं तस्य पूर्वः पूर्वः क्षणः स्वसंततिपतित एवानपेक्षो जागर्त्युपजनन इति कुशूलनिहितबीज एव स्यात्प कृती कृषीवलः कृतमस्य कृषिकर्मणा दुःखबहुलेन ।
तस्मात्परस्परापेक्षाणामेवान्त्यक्षणप्राप्तानां कार्यजनकत्वमकामेनाप्युपेयम् ।
अपि चान्त्यक्षणप्राप्तं बीजमनपेक्ष्य अङ्कुरावनिपवनपाथस्तेजांसि जनयेत्किं येनैव रूपेणाङ्कुरं जनयति तनैव तदितराण्यपि किं वा रूपान्तरेण ।
न तावत्तेनैव क्षित्यादीनामङ्कुरस्वाभाव्यापत्तेः ।
न खलु भवतां कारणाभेदे भेदवत्कार्य भवितुमर्हति ।
कार्यभेदस्याकस्मिकत्वप्रसङ्गात् ।
यथोक्तं भवद्भिरेव अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्चेति ।
नापि सामग्रीभेदः तस्या अप्यभेदात् ।
अन्यथा सहभावनियमाभावात् ।
स्वकारणादासादितः कश्चिदेव स्वभावभेद एकस्तादृशो यस्मान्नानाकार्याणि जायन्ते तस्मान्नाकस्मिकत्वं कार्यनानात्वस्य नाप्यतिप्रसङ्गः तादृशस्य तस्यासार्वात्रिकत्वात् ।
न च कार्यकारणयोरभेदो येन कारणभेदाभेदावनुपतेतां कार्यभेदाभेदौ ।
तस्माद्यथा केभ्यः कश्चिदेव बहुभ्यः कार्यमेकं जायते तथैकस्मादेव कुतश्चिद्बहूनि जनयिष्यन्ते कार्याणीति चेत् ।
मुधैव तर्हि नानादेशवृत्तिरेको ऽवयविसामान्यसंयोगादिरर्थस्तपस्वी भवतायासितः न हि नानात्वे ऽपि देशानां तदाश्रितः सामान्यादिरर्थो नाना भवितुमर्हति ।
तस्य तेभ्यो ऽभिन्नत्वात् ।
रूपान्तरेण बीजमङ्कुरादितरेषां क्षित्यादीनां जनकम् तथा हि बीजमङ्कुरस्योपादानं तत्सारभागविक्रियया ऽङ्कुरस्योत्पत्तेः क्षित्यादिषु तु जनयितव्येषु सहकारि पूर्वे तु क्षित्यादयः क्षित्यादीनां यथास्वमुपादानानि तद्विक्रियया तदुत्पत्तिरिति चेत् ।
अथ सहकारितोपादानते किमेकं तत्त्वं नाना वा ।
एकं चेत् कथं रूपान्तरेण जनकं नानात्वे तयोर्बीजाद्भेदो ऽभेदो वा भेदे कथं बीजस्य जनकत्वं ताभ्यामेवाङ्कुरादीनामुत्पत्तेः ।
अभेदे वा कथं न भेदो बीजस्य भिन्नतादात्म्यात् ।
तयोर्वैकरूपत्वमेव तादात्म्यात् ।
तस्मादङ्कुराद्भिन्ने क्षित्यादौ जनयितव्ये तदुपादानं पूर्वमेव क्षित्यादिसमसमयभावि बीजेनापेक्ष्यते ।
एवं बीजमपि समसमयभाव्येव सहकारिकारणं क्षित्यादिभिरपेक्ष्यते नान्यथा कार्यभेदसिद्धिरित्यनिच्छता ऽप्यभ्युपेयम् ।
न चानुपकारकमपेक्षागोचर
इति भवद्भिरेवोपपादितम् ।
न च क्षणिकस्योपकारकतवसंभवो ऽन्यत्र जननात् तस्याभेद्यत्वात् ।
न च समसमयभाविनोर्जन्यजनकत्वमस्ति सव्येतरविषाणयोरिव ।
तस्मात्स्वसंतानमात्रादेव कार्योत्पादप्रसङ्गात्कार्यभेदानुपपत्तेश्चानुपकारिण्यपेक्षाविरहाच्च क्षणिकस्यापि सापेक्षस्यानपेक्षस्य वा नार्थक्रिया संभविनीत्यसाधारणसत्त्वं न क्षणभङ्गसिद्धावङ्गम् ।
अथ मा भूदसाधारणता सत्त्वस्येत्यनुपकारकेष्वपि कार्यकरणायापेक्षाभ्युपेय ते तेषामपि कार्येणानुकृतान्वयव्यतिरेकत्वात् ।
न त्वनेन क्रमेणाक्षणिको ऽपि भावो ऽनुपकारकानपि सहकारिणः क्रमवतः क्रमवतैव कार्येणानुकृतान्वयव्यतिरेकानपेक्षिष्यते ।
करिष्यते क्रमवत्सहकारिवशः क्रमेण कार्याणि ।
समर्थस्याप्यपेक्षणीयासन्निधेः कार्यक्षेपौपपत्स्यते ।
न चैतावता सहकारिसमवधानादेवोत्पत्तिमतः कार्यसिद्धिः कृतमेषां रूपेणेति वाच्यम् ।
तत्सहितादेव तत उत्पत्तिदर्शनात् ।
रूपे सत्यप्यनुत्पादात् ।
समवधाने (हेतु) सत्युत्पादादेव कार्यस्वसमवधानमेव हेतुर्न पुना रूपमपीति चेत् तत्किमिदानीं रासभादितुल्यताबीजरूपस्य ।
ओंमिति चेत् ।

अथ कस्माद्गर्दभादीनन्तरेणेव बीजरूपं विनापि नाङ्कुरो जायते ।
तत्समवधानस्य तत्कारणत्वादिति चेत् ।
तत्समबधाने कारणे कथं तन्निवेशि रूपमपि न कारणम् ।
न चावर्जनीयतया तन्निवेशः ।
समवधानमात्रस्य बीजरूपमन्तरेणापि तत्र तत्र भावात् ।
विशेषस्तु समवधाने रूपमेव बीजादीनाम् ।
तस्माद्य थोभयाधीननिरूपणा व्याप्तिरयोगव्यवच्छेदेन व्यापके निरूप्यते व्याप्ये भाव एव व्यापकस्य नाभाव इति व्याप्ये पुनरन्ययोगव्यवच्छेदेन व्यापक
एव भावो व्याप्यस्य नान्यत्रेति एवं कार्यकारणभावो ऽप्युभयाधीननिरूपणो ऽपि कारणे अयोगव्यवच्छेदेन निरूप्यते ।
कार्योत्पादस्य पुरस्ताद्भाव
एव कारणस्य नाभाव इति ।
कार्ये पुनरयोगव्यवच्छेदेन ।
कारण एव सति भावो नान्यस्मिन्निति अनुभवानुसारान्निश्चीयते ।
तथैव हि लौकिकपरीक्षकाणां संप्रतिपत्तेः ।
न च कारणतैव सत्ता किं तु स्वरूपं नीलादेरनुभूतावसितं तद्धि तेनैव रूपेण स्वाभावव्यवच्छिन्नं तासु तास्वर्थक्रियासूपयुज्यते न पुनरर्थक्रियाकारितैवव त्वरूपं मा भूदनेकार्थक्रियाकारिणो ऽपर्यायेण रूपभेदः ।
तस्माद्यद्यस्ति सर्वज्ञस्ततः स्वरूपेणैव सन्भावः तज्ज्ञानस्यालम्बनप्रत्ययो भविष्यति ।
अथ तु नास्ति तथापि तद्रूपो जनित्वा आपाततो ऽकिञ्चित्करो ऽपि पश्चात्कुतश्चिन्निमित्तादासाद्य सहकारिप्रत्ययान् तासु तास्वर्थक्रियासूपयोक्ष्यते ।
तत्सिद्धमेतत् क्षणिकस्यापि क्रमाक्रमाभ्यां यथायोगमर्थक्रियोपपत्तेर्व्यापकानुपलब्धेरसिद्धेः संदिग्धव्यतिरेकमनैकान्तिकं सत्त्वं शाक्यानां क्षणिकत्वे साध्ये भावानाम् ।
अस्माकं त्वन्यथासिद्धमसिद्धप्रभेद
एवेति ।
न च जनकत्वाजनकत्वलक्षणविरुद्धधर्मसंसर्गो नानात्वे हेतुर्भवितुमर्हति ।
जनकत्वं नाम न वस्तुस्वभावो ऽपि तु तद्धर्मः ।
धर्मश्च धर्मिणो वस्तुतो भिद्यते ।
न चान्यस्य भेदो ऽन्यस्य भेदायालमतिप्रसङ्गात् ।
अन्यत्त्वाविशेषे कथं तस्यैव धर्म इति चेत् ।
अत्र वस्तुस्वभावैरेवोत्तरं वाच्यम् ।
यथा ऽन्यत्वाविंशेषे ऽपि कार्यं धूमो हुतभुज एव न बीजस्येत्युक्तम् ।
न च कृतकत्वमपि क्षणिकत्त्वे हेतुरन्यथासिद्धेः ।
सहेतुके विनाशे तदुपपत्तेश्च ।
न चोत्पत्तिविनाशयोस्तादात्म्यं भावस्यात्यन्ताभावप्रसङ्गादित्युक्तम् ।
तदिदमुक्तं वार्तिककृतता ते ऽप्यसिद्धा अन्यथासिद्धा विरुद्धा वा भवन्तीत्यहेतव इति ।
( 416 । 15 )
अन्त्यक्षणविशेषदर्शनं पूर्वक्षणधर्मत्वेनासिद्धत्वादसिद्धम् ।
सत्त्वकृतकत्वे अन्यथासिद्धे ।
विरुद्धत्वं च सर्वस्यैव हेतोः क्षणिकत्वे साध्ये ।
तथा हि सत्त्वं कृतकत्त्वं वा त्रैपलोक्यव्यावृत्ततया ऽननुगतं देशतः कालतो वा न साधनं तस्याशक्याविनाभावज्ञानतया लिङ्गभावाभावात् ।
अन्वयमुखेन व्यतिरेकमुखेन वा ऽविनाभावग्रहस्यैकस्मिन् क्षणे ऽशक्यत्वात् ।
तस्माद्देशकालानुगतं सत्त्वं कृतकत्वमन्यद्वाहेतूकर्तव्यम् ।
तच्च विधिरूपं वा भवत्वन्यव्यावृत्तिरूपं वा नानाकालमेकमक्षणिकं क्षणिकत्वेन साध्येन विरुध्यतैत्युक्तं विरुद्धा वेति ।
अन्ते विशेषदर्शनादित्यस्य तु विरुद्धत्वमनन्तरं वक्ष्यति ।
उपेत्य विशेषवत्त्वे सिद्धत्वमनैकान्तिकत्वमाहप उपेत्य वेतञ्
हेतोरिसिद्धत्वविरुद्धत्वे दर्शयितुमाह ।
अन्ते विशेषेति ।
दर्शनादर्शनलणस्य हेतोरन्यथासिद्धतेत्याह ।
यो ऽप्ययं हेतुरिति ।
भावाभावयोस्तद्वत्त्वादिति ( 417 । 7 ) संयोगाभावाभावयोरिहबुद्धेर्भाववत्त्वादित्यर्थः ।
प्रदीपस्य देशान्तरे उत्पाद इत्येतदपि न बुध्यामह इति ।
क्षणिकस्य प्रदीपस्य यदि संतानमात्रप्रभवत्वं निबद्धं देशान्तरे कार्योत्पादकत्वं ततः सर्व एव प्रदीपक्षणा देशान्तरे प्रदीपमुत्पादयेयुः ।
न के चन प्रधनोदर एवेति ।
अथोः पसर्पणप्रत्ययवशात्प्रघनोदरादन्यत्रापि कार्यमुत्पादयन्ति ।
नूनपसर्पणप्रत्ययः प्रदीपे कं चिदुपकारमाधत्ते न वा, न तावदाधत्ते क्षणस्याभेद्यत्वेनोपकृतानुपकृतत्वासम्भवात् ।
अनाधाने च सहकारिभावाभावात् ।
अनुपकारकस्पय सहकारित्वे ऽतिप्रसङ्गादिति भवतामेव गिरः ।
न च विशिष्टप्रदीपक्षणजननमेवोपकारः सहकारिणां तस्य पूर्वस्मादेवोपादानादुपपत्तेः सहकार्यनपेक्षणात् ।
न खलु तस्येव तत्कारणस्याप्युपकारकाः सहकारिणो भवितुमर्हन्ति ।
एवं पूर्वेषामपि प्रदीपक्षणानां पूर्वपूर्वप्रदीपमात्रसामर्थ्यभुवा न सहकारिणा किञ्चिदाधीयत इति सर्व एवैकस्मिन् प्रधानं कार्यं कुर्युः देशान्तरे वा ।
यदि पुनरनुपकारिणो ऽपि कार्यानुविहितभावाभावतया क्षणिकेन प्रदीपेन कार्यक्रियां प्रत्यपेक्ष्यन्ते तदक्षणिकपक्षे ऽपि तुल्यमिति संक्षेपः ।
विपञ्चितं चैतदस्माभिर्ब्रह्यतत्त्वसमीक्षान्यायकणिकाभ्यामित्युपरम्यते ।
न किलाकाशे पततो लोष्टादेरिति ।
लोष्टश्येनादेस्तुल्यगुरुत्ववतां द्रव्याणामेकस्य गुरुत्वप्रयत्नक्षेपाः कारणम् ।
तथा हि सौधस्योपरिस्थेन पुरुषेण भूमौ चरन्तं पारावतमुद्दिश्य यदा ऽधः श्येनः क्षिप्यते तदा श्येनस्य पारावतजिधृक्षाजनितः प्रयत्नो गुरुत्वं च क्षेपश्चाशुतरपतनहेतवः ।
अक्षिप्तस्य तु गुरुत्वप्रयत्नावाशुपतनहेतू अप्रयतमानस्य गुरुत्वमात्रं पतनहेतुरिति ।
औलूक्यमते ऽपि न दोष इत्यत आह ।
एकश्च संस्कार इति ।
( 418 । 7 ) अयुगपत्कालाः प्रत्यया एकविषया इत्युच्यमाने घटपटादिप्रत्ययाः प्रदीपादिप्रत्ययाश्च क्रमवन्त एकविषयाः प्रसज्येरन्नित्यत
आह ।
विप्रतिपन्ना इति ।
समानशब्दवाच्यत्वादित्यनेकान्तः
भवन्ति हि समानशब्दवाच्याः प्रत्ययाः अक्षो ऽक्ष इति, न च समानविषयाः देवनादीनां तद्विपयाणां भेदादत आह ।
तत्प्रत्ययसामानाधिकरण्ये सतीति ।
तथा ऽपि प्रदीपप्रत्ययैरेवानेकान्त
इत्यत आह ।
अव्युत्थायीति ।
व्युत्थातुं भ्रमितुं शीलप्रस्येति व्युत्थायि भ्रान्तमिति यावत् ।
अभ्रान्तत्वं चास्य क्षणिकत्वसाधननिराकरणेन द्रष्टव्यम् ।
अव्युत्थायितत्प्रत्ययसामानाधिकरण्येनैव सिद्धे समानशब्दवाच्यत्वं प्रपञ्चः ॥ 13-14 ॥
न्य्स्_3,2.15: न पयसः परिणामगुणान्तरप्रादुर्भावात् ॥
भाष्यं गुणान्तरप्रादुर्भाव
इति ।
द्रव्यं तावत्सदेव गुणो ऽपि सन् केवलमनुद्भूत
आसीत् ।
एकश्चोद्भूतो गुणः तत्र य उद्भूतस्तिरोभवति पूर्वगुणस्यनिवृत्तौ तिरोभूतौ गुणान्तरमुत्पद्यतेतद्भवतीत्यर्थः

8.16

न्य्स्_3,2.16: व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् ॥
अत्र तु प्रतिषेध इति ।
क्षीरावयवा एव हि क्षीरविनाशे सत्युत्पन्नपाकजा विलक्षणं द्रव्यमुत्पादयन्ति ।
यदि तु सर्वं कार्यं सदेव कारणव्यापारात्प्रागपि व्यर्थः कारणव्यापारः अभिव्यक्तेरपि कार्यायाः सत्त्वात् ।
असत्त्वे वा यथा सैव न सती क्रियते एवं कार्यान्तराण्यपीति ।
विपञ्चितं चैतदस्माभिर्न्यायकणिकायाम्

8.17

न्य्स्_3,2.17: क्वचिद्विनाशकारणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः ॥
अभ्यनुज्ञाय च निष्कारणमिति ।
विनाशोत्पादवत्त्वात्समानधर्मात्संशयः
दधिक्षीरयोर्विनाशोत्पादावकारणौ दृष्टौ कुम्भस्य चोत्पादविनाशौ सकारणकौ, तदिह स्फटिके विनाशोत्पादौ सकारणौ निष्कारणौ वेति संदेहः ।
तद्यदि सकारणावेवेति प्रमाणतो निश्चीयते ततो विनाशकारणानुपलब्धेः स्फटिकस्य कुम्भवद्विनाशो नास्तीति निश्चीयते ।
तदिदमुक्तं भाष्यकारेण ।
न पुनर्यथा विनाशकारणाप्रावादिति ।
निरधिष्ठानं चेति ।
धर्मिणमाश्रित्य तत्समानधर्मा दृटान्तो भवति स्फटिकोत्पादविनाशौ च धर्मिणौ तत्समानधर्मतया क्षीरदधिविनाशोत्पादयोर्दृष्टान्तत्वेन भवितव्यम् ।
न पुनः स्फटिकोत्पादविनाशौ धर्मिणौ गृह्येते ।
तस्मान्न तत्समानधर्मतया दृष्टान्तौ भवत इति ।
यदि तु द्रव्यसमवायादित्युच्येत ततस्तोयादिपरमाणुविसमवेतै रूपादिभिरनेकान्तः स्यादित्यत आह ।
व्यापकेति ।
( 420 । 17 ) तथाप्यात्मत्वसामान्येनानेकान्तो ऽत आह ।
गुणत्वे सतीति ।
तथा ऽप्यात्मपरिमाणेनानेकान्तो ऽत आह ।
प्रत्यक्षतयेति ।
अस्मदादीनामिति शेषः ।
गुणत्वादिविशेषणयोगात्प्राग्व्यापकग्रहणस्योपयोगः ।
अस्मदादिप्रत्यक्षत्वादित्युच्यमाने सामान्यसमवायाभ्यामनेकान्तः स्यादत आह जातिमत्त्वे सतीति ।
आश्रितत्वादित्यत्रापिजातिमत्वे सति प्रत्यक्षत्त्वे चेत्यनुषञ्जनीयम् ।
अनित्या बुद्धिः प्रत्यक्षत्वादित्युर्च्यमाने मनसा व्यभिचारो ऽत आह ।
अयोगीति ।
तथा ऽप्यात्मना व्यभिचारो ऽत
उक्तं करणभावे सतीति ।
हानादिबुद्धिः करणं भवति ।
शब्दश्च प्रत्यये करणम् ।
अत्रा पि जातिमत्त्वे सतीत्यनुषञ्जनीयं तेन न गन्धत्वादिभिरनेकान्तः

8.18

न्य्स्_3,2.18: नेन्द्रियार्थयोस् तद्विनाशेपि ज्ञानावस्थानात् ॥
चिन्तान्तरमवतारयति ।
इदं तु चिन्त्यत इति ।
नन्वात्मपरीक्षायामात्मगुणत्वं बुद्धेर्व्यवस्थापितं तत्कस्मात्पुनः परीक्ष्यत
इत्यत आह भाष्यकारः ।
प्रसिद्धो ऽपीति ।
यद्यप्ययमर्थः परीक्षितस्तथा ऽप्यवान्तरविशेषपरिज्ञानार्थं पुनः परीक्ष्यत इत्यर्थः ।
चोदयति वार्ततिककारः ।
न गुणेति ।
परिहरति ।
अनित्वत्वे सतीति ।
विमृष्य सिद्धान्ती(य)पक्षं गृह्णाति सन्निकर्षोत्पत्तरिति ।
चोदयति अद्राक्षमित्येतन्नेति ।
( 421 । 3 ) परिहरति स्मृतावपीति

8.19

न्य्स्_3,2.19: युगपज्ज्ञेयानुपलब्धेश्च न मनसः ॥
देशयति अस्तु तर्हीति ।
परिहरति युगपदिति ।
यत्करणत्वेनानुमितं तत्करणत्वमपोद्य न कर्तृ भवितुमर्हतीत्यर्थः ।
युगपज् ज्ञेयानुपलब्ध्या यत्समधिगतमिति भाष्यमाक्षिपति ।
विशेषणोपादानादिति ।
समाधत्ते न सर्वस्येति ।
पुनराक्षिपति ।
एवमपीति ।
विशिष्टस्य करणस्य ज्ञानगुणत्वनिषेधः करणान्तरस्य ज्ञानगुणत्वमापादयति न चात्मा करणमित्यर्थः ।
समाधत्ते अनयस्योपपत्तेरिति ।
एतदेव विवृणोक्ति ।
अनवस्थितत्वादिति ।
प्रमातैव कदा चित्प्रमाणं कदा चित्प्रमेयमित्यर्थः ।
पुरुषान्तरेण पुरुषान्तरं परिच्छिनत्तीति ।
यादृशो ऽयं पुरुषस्तादृशो ऽवमपीति पुरुषान्तरेण प्रसिद्धेन पुरुषान्तरपरिच्छेद इति ।
पृच्छति ।
यदि न करणस्य कस्पय तर्हीति ।
उत्तरं ज्ञस्य वशित्वात् ।
कर्तुः स्वातन्त्र्यादित्यर्थः ।
कर्तृकरणादिसमवधाने हि चैतन्यं कर्तर्येव दृष्टं न करणादौ ।
यथा मृद्दण्डचक्रसलिलसूत्रकुलालसमवधाने कर्तुरेव कुलालस्य न तु मृदादीनामिति ।
वशी ज्ञाता वश्यं करणमिति भाष्यं तदनुपन्नं ज्ञातुरपि क्व चिद्वश्यत्वदर्शनात् ।
यथा देवदत्तं कटं कारयति यज्ञदत्त इत्यत आह ।
न चायं ज्ञातरीति ।
यदि तु कश्चिज् ज्ञानगुणं मन
इच्छेत्तं प्रति भाष्यं ज्ञानगुणत्वे चेति तद्व्याचष्टे ।
ज्ञानगुणत्वेवेति ।
( 422 । 3 ) घ्राणादिसाधनस्येति भाष्य व्याचष्टे ।
यथा च ज्ञातुरिति ।
तथा च मन्तुर्मतिसाधनं यत्तन्मनः करणम् ।
अथ तदपि कस्माच्चेतनं न भवतीत्यत आह ।
उभयोरिति ।
विभु चान्तःकरणं ज्ञानमन्तःकरणान्तररहितमितिशेषः

8.21

न्य्स्_3,2.20: तदात्मगुणत्वेपि तुल्यम् ॥
अथ मनो ऽन्तःकरणमपश्यंश्चोदयति ।
तदात्मगुणत्वे
न्य्स्_3,2.21: इन्द्रियैर् मनसः संनिकर्षाभावात् तदनुत्पत्तिः ॥
परिहरति न प्रसङ्ग इति ।
विकरणधर्मेति भाष्यंऽपीति ।
विशिष्टं करणं धर्मो यस्य स विकरणधर्मा अस्मदादिकरणविलक्षणकरणः
येन व्यवहितविप्रकृष्टसूक्ष्मादिदर्शी भवतीत्यर्थः

8.22

न्य्स्_3,2.22: नोत्पत्तिकारणानपदेशात् ॥
यदि पुनरित्यादि भाष्यं पूरयित्वा व्याचष्टे ।
यदि पुनरिति ।
नोत्पत्तीति ।
नात्र प्रमाणमपदिश्यते ।
प्रत्युत बाधकं प्रमाणमस्तीत्यर्थः ।
व्याख्यानान्तरमाह ।
अयुगपदुत्पत्तौ वेति ।
व्याख्यानान्तरमाह ।
अयुगपदुत्पत्तौ वेति ।
व्याख्यानान्तरमाह ।
विदेहेति ।
शरीरवृत्तित्वे हि मनसः सर्वं ज्ञानं शरीरायतनस्यात्मनो भवेत् ।
यदा तु मन एव नास्ति तदेन्द्रियार्थसन्निकर्षस्यात्मनश्च शरीराद्बहिरपि भावाद्विदेहप्रत्ययोत्पादप्रसङ्ग
इति ।
अन्तःकरणप्रत्याख्याने चेति ।
यद्यपि सर्वाण्यपि ज्ञानानि न युगपदुपजायन्ते तथापि स्मृतीनामवश्यं युगपदुत्पादप्रसङ्ग इति पूर्वस्मादस्य विशेषः ।
व्याख्यानान्तरमाह ।
यदा चेन्द्रियमात्मा चार्थेन युगपत्संबद्धाविति ।
असतीन्द्रियमनःसन्निकर्षे व्यभिचारिणां कारणत्वकल्पनायां विनिगमनाहेतोरभावादिति भावः

8.23

न्य्स्_3,2.23: विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥
विना--ङ्गः--(सू. 23) ॥
अत्र पूर्वपक्षसूत्रे चकारः पूर्वपूर्वपक्षसूत्रापेक्षयेत्याह ।
तदात्मगुणत्व इति ।
अतः( 423 । 6 ) परस्य निगद
एव व्याख्यानम्

8.24

न्य्स्_3,2.24: अनित्यत्वग्रहाद् बुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दवत् ॥
यदनन्तरमपवृज्यते पुरुषः सा ऽन्त्या बुद्धिः ।
स्थितिहेत्वभावाद्विनश्यतीति ।
स्थितिहेतू ( 424 । 6 ) धर्माधर्मौ तयोरभावादिति ।
अथ तयोरभावः कस्मादित्यत आह ।
कालात् ।
अन्त्यसुखदुःखोपभोगाकलं प्राप्येत्यर्थः ।
अथ वा स्वजनितात्संस्कारादेवान्त्याया बुद्धेर्विनाश
इत्याह ।
संस्काराद्वा ।
संस्कारस्य तु स्थितिहेत्वदृष्टाभावाद्विनाशो भवतीति भावः ।
पृच्छति ।
कथं कालात् ।
उत्तरं यावन्त्यस्य जन्मन इति चरमस्य देहस्येत्यर्थः

8.25

न्य्स्_3,2.25: ज्ञानसमवेतात्मप्रदेशसंनिकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः ॥
देशयति यदि कारणस्येति ।
अत्र तावदेकः परिहार इति ।
एकः प्रधानः परिहारः परिहारान्तरं त्वेकदेशिमतेनाप्रधानमित्यर्थः ।
अपि च न स्मृतयो युग पदुत्पद्यन्ते परिच्छेदकत्वाद्
गन्धरसरूपस्पर्शशब्दज्ञानबदित्याह परिच्छेदत्वाच्चेति ।
एकदेशिपरिहारमाह अपरे त्विति

8.26

न्य्स्_3,2.26: नान्तःशरीर वृत्तित्वान्मनसः ॥
दूषयति एतत्तु न सम्यगिति ।
न हि मनः क्व चिदाश्रितमिति (425।2)न क्व चित्समवेतं संयोगमात्रं त्वतिप्रसक्तमित्यर्थः ।
नापि वृत्तिः स्वकार्यसामर्थ्यमिति ।
शरीर एव मनः स्वकार्यं करोति नान्यत्रेति शरीराश्रितं मन इत्युच्यत इत्येतदपि नास्ति ।
इन्द्रियार्थसन्निकर्षस्य मनःकार्यस्य शरीराद्बहिर्भावादि त्यर्थः ।
तमिममाक्षेपं समाधत्ते ।
अत्र ब्रूम इति ।
येनात्मना यच्छरीरं कर्मोपार्जितं तत्संयुक्तस्य मनसो वैशेषिकज्ञानादिलक्षणकारित्वे न तदसंयुक्तस्येति शरीराश्रितत्वे मनसो नान्यदित्यर्थः

8.30

न्य्स्_3,2.27: साध्यत्वादहेतुः ॥
चोद्यम् ।
साध्य--तुः ( सू. 27 ) ॥
न्य्स्_3,2.28: स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः ॥
परिहारः ।
स्मर--धः
( सू. 28 ) ॥
न्य्स्_3,2.29: न तद् आशुगतित्वान्मनसः ॥
पुनश्चोद्यम् ।
न त--सः ( सू. 29 ) ॥
न्य्स्_3,2.30: न स्मरणकालानियमात् ॥
परिहारः ।
न स्मर-त् ( सू. 30 ) ॥
भाष्यं निन्ताप्रबन्धः स्मृतिप्रबन्धः ।
कस्य चिदेवार्थस्य लिङ्गभूतस्य चिह्नभूतस्या साधारणस्येति यावत् ।
चिन्तनं स्मरणम् ।
आराधितम् सिद्धं चिह्नवतः स्मृतिहेतुर्भवतीति ।
इतश्च शरीरसंयोगापेक्षमेव मनः स्मृतिर्हेतुर्नेतरथेत्याह ।
शरीरसंयोगानपेक्ष
इति

8.33

न्य्स्_3,2.31: आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः ॥
आत्म--षः ( सू. 31 )
न्य्स्_3,2.32: व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ॥
न्य्स्_3,2.33: प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावादयुगपत्स्मरणम् ॥
दूषयति ।
व्यास--नम्
( सू. 32 ) ॥
प्रातिभवदिति स्मृत्युत्पादस्व पुरस्तात्प्रणिधानादीनां स्मृतिकारणानामसंवदनादात्ममनः संयोगात्संस्कारापेक्षात् स्मृतीनां युगपदुत्पादप्रसङ्गः ॥ 32-33 ॥
प्रातिभवदित्याक्षेपः ।
समाधानमाह ।
सतः स्मृतिहेतोरिति ।
( 426 । 21 ) अदृश्यमानमपि करणं तत्क्रमश्च कार्योत्पादक्रमेणानुमीयते इति प्रातिभमपि पुरुषकर्मविशेषापेक्षादात्ममनःसन्निकर्षादुपजायमानं नाकारणं न चाक्रमवदिति प्रधानभूतामुपपत्तिमवतारयितुं पृच्छति भाष्यकारः ।
प्रातिभमिदानीमिति ।
अत्रोत्तरमाविलं दत्वा शङ्कते ।
हेत्वभावादयुक्तमिति चेत् ।
उत्तरसारमाह ।
न करणस्येति ।
यद्यवि क्व चिद् व्रश्चनस्य युगपद्दारुद्वयसंयोगे युगपच्छिदाद्वयं भवति तथा ऽपि व्रश्चनावयवभेदात्करणभेद
उन्नेयः ।
अथ वा करणान्तराणि युगपत्कार्याणि कुर्वन्तु प्रत्ययकरणन्तु क्रमेणैव प्रत्ययान्करोतीत्यत्र न व्यभिचारः तदुक्तं प्रत्ययपर्याय इति ।
तस्मात्करणमेकं न क्व चिदपि युगपत्कार्यायालमिति ।
कर्त्ता पुनरेको ऽपि करणभेदे युगपद्बहूनि कार्याणि करोतीत्याह ।
न ज्ञातुर्विकरणधर्मणो देहनानात्वे प्रत्यययौगपद्यादिति ।
विविधं करणं धर्मो यस्य स तथोक्तः तद्व्याचष्टे वार्त्तिककारः
न चायं नियम इति ।
( 427 । 5 ) योगी खलु ऋद्धौ प्रादुर्भूतायां सेन्द्रियाणि शरीराणि तेषु तेषु लोकेषु निर्माय मुक्तात्मनामादाय मनांसि मोक्षाय त्वरमाणो युगपत्कर्मोपार्जितान्
सुखदुःखभेदान्न द्विषन्न रक्तो भुङ्क्ते तदस्यैकस्यापि करणभेदाद्युगपज् ज्ञानानि भवन्तीति ।
अयं च द्वितीयः प्रतिषेधः ज्ञानसंस्कृतात्मप्रदेशभेदस्यायुगपज्ज्ञानोत्पादकस्य ।
अवस्थितेति ।
यत्रात्मप्रदेशो ऽस्य ज्ञानानि नानाविषयाणि जातानि तत्संस्काराश्च तत्रैवावस्थितशरीरस्य ।
तदनेन शरीरान्तर्गतस्य मनसस्तत्र प्रदेशे संयोग उपपादितः ।
तदिदमाह वार्त्तिककारः ।
यदि च ज्ञानसमवेतात्मप्रदेशेन सन्निकर्षादिति ।
अतश्चाव्यापकत्वादपरिहारः ।
आचार्यदेशीयानां तु स्मृतियौगपद्यप्रसङ्गमाह ।
अवस्थितसंस्काराः समानदेशा इत्ययुक्तम् ।
कुतः आत्मप्रेदशानामद्रव्यान्तरत्वात्सर्वसंस्काराणां समानदेशत्वे प्रत्ययौगपद्यप्रसङ्गो ऽपरिहार्यः ।
न ह्यात्मनो घटस्येव प्रदेशास्ततो ऽन्ये सम्भवन्ति किं नामात्मैव स चैक एवेति सर्व एवात्मवर्त्तिनः समानदेशा इत्यर्थः ।
तदिदमुक्तं भाष्यकारेण
आत्मप्रदेशानामद्रव्यान्तरत्वादेकार्थसमवायस्याविशेषे सति स्मृतियौगपद्यस्पय प्रतिषेधानुपपत्तेरिति ।
शब्दसंताने त्विति शङ्कानिराकरणभाष्यं तुशब्दः शङ्कां निराकरोति ।
तदेतद्भाष्यं वार्तिककारो व्याचष्टे ।
संस्कारप्रत्यासत्त्येति ।
पृच्छति ।
का प्रत्यासत्तिरिति ।
उत्तरं न ब्रूम
इति ।
निष्प्रदेशत्वे ऽप्यात्मनः संस्कारस्याप्यवृत्तित्वमुपपादितं तेन शब्दवत्सहकारिकारणस्य सन्निधानासन्निधाने कल्पेते एवेत्यर्थः

8.34

न्य्स्_3,2.34: ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः ॥
संप्रति बुद्धिरेव किमिच्छादिसमानाधिकरणा न वेति विचार्यते ।
तत्र साख्यदर्शनवैनाशिकानां विप्रतिपत्तेः संशयः ।
तद्विप्रतिपत्तिमाह ।
पुरुषधर्मो ज्ञानमन्तःकरणस्यत्विति ।
पुरुषचैतन्यमेकमेव कूटस्थनित्यं सत्तत्तदर्थाकारपरिणतबुद्धितत्त्वप्रतिबिम्बविभ्रमवशाद्भिन्नमिवोपजनापायधर्मकं विज्ञानमिति च वृत्तिरिति चाख्यायते ।
इच्छाद्वेषादयस्तु वस्तुत उपजनापायधर्माणो ऽन्तःकरणस्येति दर्शनं तत्प्रतिषिध्यते ।
ज्ञस्ये--त्योः
( सू. 34 ) ॥
प्रतिवृत्त्यञ्चतीति स चात्मा चेति प्रत्यगात्मा तस्मिन् ।
एतदुक्तं भवति ।
ज्ञानसामानाधिकरण्येनोपलब्धेरन्यदीयानामिच्छादीनामन्यस्याप्रत्यक्षीकरणात्तत्करणे वा मैत्रगतानामपि चैत्रेण ग्रहणप्रसङ्गाद
अन्तःकरणवृत्तीनां च गुणान्तराणां नित्याप्रत्यक्षत्वादात्माश्रिता एवेच्छादयो नान्तः-- करणाश्रया इति

8.35

न्य्स्_3,2.35: तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ॥
अत्रान्तरे लब्धावकाशो भूतचैतनिकः प्रत्यवतिष्ठते ।
तल्लि--धः ( सू. 35) ॥
( 428 । 4 ) यदि यस्यारम्भनिवृत्ती तस्येच्छाद्वेषौ यस्य चैतौ तस्य चैतन्यं हन्तायातमनेन क्रमेण भूतचैतन्यमस्मदभिमतं भूतेष्वेव कायाकारपरिणतेषु आरम्भनिवृत्तिदर्शनादित्यर्थः

8.36

न्य्स्_3,2.36: परश्वादिष्वारम्भनिवृत्तिदर्शनात् ॥
परश्वादिष्वित्यस्य तात्पर्यमाह वार्तिककारः ।
परश्वादिष्विति ।
( 428 । 9 ) भूतचैतनिकस्तल्लिङ्गत्वादिति हेतुं स्वपक्षसिध्द्यर्थमन्यथा व्याचष्टे ।
अयं तर्हीति ।
शरीरेष्ववयवव्यूहभेददर्शनाच्च लोष्टादिषु ( अ ) शरीरारम्भकानामणूनां प्रवृत्तिभेदो ऽनुमीयतेततश्चेच्छाद्वेषौ ताभ्यां चैतन्यमिति ।
त्रसं जङ्गमं विशरारु अस्थिरं कृमिप्रभृतीनां शरीरं, स्थावरं स्थिरं शरीरं देवमनुष्यादीनां, तद्धि चिरतरं वा व्रि (ध्रि) यते ।
तदेतद् दूषयति ।
कुम्भादिमृदवयवानामिति ।
कुम्भाद्यारम्भिकाणां मृदां व्यूहभेदादारम्भदर्शनाददर्शनाच्च सिकतानामारम्भनिवृत्योरनैकान्तत्वम्

8.37

न्य्स्_3,2.37: नियमानियमौ तु तद्विशेषकौ ॥
तदेवं भूतचैतन्यसाधनं दूषयित्वा तेभ्यो ऽन्यस्य चैतन्ये साधनमाह ।
नियमानियमौ तु तद्वि शेषकौ (सू. 39) ॥
तयोरिच्छाद्वेषयोर्नियमानियमौ विशेषकौ ।
अयमेव चेच्छाद्वेषयोर्विशेषो यद्भूताश्रयत्वमनयोर्व्यावर्त्य तदितराश्रयत्वव्यवस्थितिः ।
तत्रानियमं तावदाह ।
ज्ञस्येच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती--स्पन्दास्पन्दौ,
न स्वाश्रये--नेच्छाद्वेषयोराश्रये, किन्तर्हि प्रयोज्ये परश्वादावाश्रये, तत्र प्रयुज्यमानेष्वेव भूतेषु प्रवृत्तिनिवृत्ती स्यातां न सर्वेषु प्रयोजकेष्वपि शररादिष्विति ।
सेयमनियमोपपत्तिः ।
सार्वत्रिकत्वमनियम
इति ।
एतदुक्तं भवति न शरीरमिच्छाज्ञानद्वेषाधारः
इच्छादिजनितस्पन्दाधारत्वात् परश्वादिवदिति ।
तदेवमनियमे भेदकं व्याख्याय नियमं व्याचष्टे ।
यस्य तु चार्वाकस्य दर्शने ज्ञत्वाद्भूतानामिच्छाद्वेषनिमित्ते आरम्भनिवृत्ती स्वाश्रये शरीरादौ, तस्य चार्वाकस्य ।
यथा भूतानां गुरुत्वादिगुणान्तरनिमित्ता प्रवृत्तिः पतनादिलक्षणा,तस्यैव गुरुत्वादेर्गुणान्तरस्य प्रतिबन्ध आधारद्रव्यसंयोगेन तस्मान्निवृत्तिरपतनादिका,
सा भूतमात्रे भवन्ती नियमेन व्याप्ता, न तु शरीरोपगृहीतेष्वेव भूतेषु, एवं भूतमात्रे ज्ञानेच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती स्वाश्रये स्याताम् ।
एतदुक्तं भवति ये ये पृथिव्यादिधर्मास्ते ते यावत्पृथिव्यादिभाविनो दृष्टाः यथा गुरुत्वादयः ज्ञानेच्छादयो ऽपि चेत्पृथिव्यादिधर्मास्तैरप्यवश्यं यावत्पृथिव्नयादिभाविभिर्भवितव्यं न तु घटादौ दृश्यन्ते तस्मान्न पृथिव्यादिधर्मा ज्ञानादय इति ।
अत्र च भाष्यकृता सार्वत्रिकत्वप्रसङ्गविवक्षया नियमशब्दः प्रयुक्तः असार्वत्रिकत्वविवक्षया त्वनियमशब्दः ।
वार्त्तिककृता तु प्रयोज्य एवेत्यवधारणं विवक्षित्वा प्रादेशिके नियमशब्दः प्रयुक्तः ।
सार्वत्रिके तृक्तनियमरूपावधारणाभावादनियमशब्द
इति विवक्षाभेदाश्रयादविरोध इति ।
यस्तु नियमं मदशक्त्या व्यभिचारयेद् यथा किल किण्वादयः परिणामविशेषवन्तो मदिराभावमापन्ना मदयन्ति एवं कायाकारेण परिणतानि पृथिव्यादीनि चेतयन्ते नान्यथा तेन घटादिष्वप्रसङ्ग
इति, तं प्रत्याह एकशरीरे चेति ।
यथा मदिरावयवेषु प्रत्येकमेव मदशक्तिरस्ति न पुनः समुदायमात्रसमवायिनी एवं शरीरावयवेष्वपि प्रत्येकमेव चैतन्येन भवितव्यम् ।
न च वैयात्यात् कायसमुदायाश्रयमेव चैतन्यं नावयवाश्रपयमिति शक्यमास्थातुं त्रिचतुरावयवच्छेदे ऽपि चैतन्योपलम्भात् ।
तस्मादवयवानां प्रत्येकं चैत्न्ये शरीर
एकस्मिन्बहवश्चेतनाः स्युः ।
भवतु किं नो बाध्यत इति चेन्न ।
विरुद्धाभिप्रायत्वेन स्वतन्त्राणां न किञ्चिदपि कार्यं जायेत ।
न च बहूनामेकाभिप्रायनियमो दृष्टः काकतालीयन्यायेन स्यादेकाभिप्रायत्वं न पुनरस्य नियमो दृष्टचर इति प्रसिद्धत्वाद्
दूषणमेतदुपेक्ष्य प्रत्ययव्यवस्थानुमानं न भवेदिति दूषणमुक्तम् ।
एकस्मिन् शरीरे प्रत्ययानां परस्परप्रतिसन्धानं पश्यामो न शरीरान्तर इति व्यवस्था ।
सेयं यद्येकस्मिन्
शरीरे एक एव चेतनो न चासौ शरीरान्तरे ततो भवेन्नान्यथेत्यर्थः ।
क्वचित्पाठः प्रत्ययव्यवस्थानानुमानं स्यादिति स सुगम एव ।
नियमानियमाविति यदुक्तं तत्रानुमानमेव सूचयति भाष्यकारः ।
दृष्टश्चान्यगुणनिमित्तः प्रवृत्तिविशेष इति ।
हिताहितप्राप्तिपरिहारहेतुःपरिस्पन्दः प्रवृत्तिविशेषः ।
सो ऽयं प्रयोगः त्रसस्थावरशरीरेषु प्रवृत्तिः स्वाश्रयव्यतिरिक्ताश्रयगुणनिमित्ता प्रवृत्तिविशेषत्वात्, परश्वादिगतप्रवृत्तिविशेषवदिति ।
न केवलं शरीरस्य प्रवृत्तिविशेषो ऽन्यगुणनिमित्तः
भूतानामपि तदारम्भकाणां प्रवृत्तिविशेषो ऽन्यगुणनिबन्धन एवेत्याह ।
तदवयवव्यूहलिङ्ग
इति ।
नेन्द्रियार्थयोर्विनाशे ऽपि ज्ञानावस्थानादिति च समान इति ।
यथा हीन्द्रियार्थयोर्विनाशे ऽपि ज्ञानावस्थानान्नेन्द्रिनयार्थयोर्गुणो ज्ञानमेवं बाल्यकौमारयौवनवार्द्धकावस्थासु शरीरविनाशे ऽपि ज्ञानावस्थानान्न शरीरगुणोज्ञानमित्यर्थः ।
अपि च ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योरित्यत्रारम्भनिवृत्तिशब्देन न प्रवृत्तिनिवृत्तितमात्रमभिमतमस्माकमपि तु हिताहितप्राप्तिपरिहारार्थः स्पन्दविशेषः ।
तमिमं प्रवृत्तिविशेषमविज्ञाय त्वया प्रवृत्तिसामान्येन प्रत्यवस्थितमित्यप्रतिपत्तिस्ते निग्रहस्थानमित्याह भाष्यकारः ।
क्रियामात्रमिति ।
तद्वार्तिककारो व्याचष्टे ।
अन्यथा ऽभिधानाच्चायुक्तमिति शेषः ।
स्यादेतत् ।
यथोक्तहेतुत्वादित्यादयो वक्ष्यमाणसूत्रगता हेतवो भूतेन्द्रियचैतन्यप्रतिषेधे ऽपि समाना इति कस्मान्मनोमात्रे चैतन्यं प्रतिषिध्यते न भूतेन्द्रियम नसमित्यत आह ।
भूतेन्द्रियमनसामिति ( 429 । 3 )

8.38

न्य्स्_3,2.38: यथोक्तहेतुत्वात् पारतन्त्र्यादकृताभ्यागमाच्च न मनसः ॥
यथो--सः (सू. 38) ॥
यथोक्तहेतुत्वादिति व्याचष्टे ।
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गमित्यत आत्मलक्षणात्प्रभृति तल्लक्षणपरीक्षापर्यवसानं यावदुक्तं तत्संगृह्यते ।
अत्र च हेतुशब्देनेच्छादिसूत्रं सुसंगृहीतं भावप्रत्ययेन हेतुत्वविषया परीक्षोपलक्षिता ।
वार्त्तिकं यथोक्तहेतुत्वादिति ।
दर्शनस्पर्शनाभ्यामेकार्थग्रहणादित्येवमादीनां हेतूनामुक्तहेतुत्वं तस्मादिति योजना ।
तदनेन भाष्यगतप्रभृतिपदार्थो विवृतः ।
तन्वेते यथोक्ता हेतवः परैः प्रतिषिद्धा इत्यत आह ।
अप्रतिषेधात् ।
वाङ्न्यात्रेण प्रतिषिद्धा न वस्तुत इत्यर्थः ।
धारणप्रेरणव्यूहनक्रियासु यथायोगं शरीरेन्द्रियाणि परतन्त्राणि भौतिकत्वाद् घटादिवदिति, मनश्च परतन्त्रं करणत्वाद्वास्यादिवदिति कस्यचित्प्रयत्नवशात्प्रवर्तन्ते चैतन्ये पुनः स्वतन्त्राणि स्युः ।
तथा च पारतन्त्र्यप्रसाधकानुमानविरोध
इत्यर्थः ।
यस्तु कश्चिदभ्युपेतवेदप्रामाण्यः पुरुषमचेतनं फलभागिनमभ्युपगम्य शरीरादीनां चैतन्यं रोचयते तं प्रति तेषामचैतन्ये हेतुमाह ।
अकृताभ्यागमाच्च ।
उपदेशफलं हि कर्तरि, कर्त्रपेक्षितोपायताभिधानलक्षणत्वादुपदेशस्य ।
यथाऽह स्मात्र भगवाञ् जैमिनिः, शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वादिति ।
उपपादितं चैतदस्मार्भिविधिर्विधायक इत्यत्रान्तरे ।
स्वर्गकामो यजेतेति च कर्त्रभिप्रायफलावगमाद्
अत्रैवात्मनेपदस्मरणात् य एव कर्मणः कर्ता स एव तत्फलस्य भोक्तेति सर्वैरास्तिकपथानुसारिभिरभ्युपेयम् ।
शरीरादीनां चैतन्ये चेतनस्य स्वातन्त्र्यात्त
एव कर्मणः कर्तारः, न चैतेषां भस्मसाद्भूतानामामुष्मिकफलशालितासम्भव
इत्यात्मनो ऽचेतनस्य तद्भागिताभ्युपगन्तव्या,
तथा च तैः शरीरादिभिः कर्म कृतं पुरुषेण भुज्यत इति शास्त्रप्रतिक्षिप्ताकृताभ्यागमकृतनाशदोषप्रसङ्गः ।
अचैतन्ये तु शरीरादीनां देहाद्यतिरिक्तस्य च पुरुषस्य चैतन्ये पुरुषः स्वातन्त्र्यात्कर्ता तत्प्रयोज्यतया शरीरादीनि तत्साधनानीति तत्साधनस्य स्वकृतकर्मफलोपभोग इति न शास्त्रव्याकोपः नापि प्रेक्षावत्प्रवृत्तिविरोध
इति भावः

8.39

न्य्स्_3,2.39: परिशेषाद् यथोक्तहेतूपपत्तेश्च ॥
अथायं सिद्धोपसंग्रहः उपसंहार इत्यर्थः ।
उपपत्तिपदार्थव्याख्यानमप्रतिषेधादिति ।
भाष्यं कायस्यभेदाद्विनाशादिति ।
अप्रतिसंहितमिति ।
पूर्वेद्युरर्द्धकृतानामपरेद्युः परिसमापना दृष्टा मयारब्धं मयैव परिसमापनीयमिति प्रतिसन्धाय, अप्रतिसन्धाने तु न परिसमापयेयुः परिसमापने वा चैत्रारब्धमपि मैत्रः परिसमापयेद्
यतः स्वयमारब्धात् परारब्धमव्यावृत्तमविशिष्टं स्वस्यापि परत्वादपरिनिष्ठं च कर्मजातं स्यात् ।
तथा हि वैश्यस्तोमे वैश्य एवाधिकारी न ब्राह्मणराजन्यौ एवं राजसूये राजैव न ब्राह्मणवैश्यौ एवं सोमसाधनके यागे ब्राह्मण एवाधिकृतो न राजन्यवैश्यौ शूद्रकश्चानधिकृत
एवेति परिनिष्ठा सा बुद्धिसंततिमात्रे न स्यात्, कुतः सल्लक्षणानां सर्वेषामेव त्रैलोक्यवैलक्षण्येन भेदात् अन्यापोहसामान्यस्य च व्यावर्तितत्वादित्यर्थः ।
अप्रतिसंहितत्वे हेतुमाह ।
स्मरणाभावादिति

8.40

न्य्स्_3,2.40: स्मरणं त्वात्मनो ज्ञस्वाभाव्यात् ॥
त्रिकालव्यापिनी ज्ञानशक्तिरेव ज्ञस्वाभाव्यं तच्चाकाशादिभ्यो व्यावृत्तं त्रिकालव्यापि स्वरूपमेवात्मनः

8.41

न्य्स्_3,2.41: प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयोर्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ॥
स्मृतिहेतूनामयौगपद्यादित्येतत्सिंहावलोकितन्यायेन पृच्छत्यनन्तरसूत्रमवतारयितुं स्मृतिहेतूनामिति ।
तात्पर्याभिधानपुरः सरं सूत्रमवतारयति ।
स्मृतिकारणानामिति ( 430 । 1 ) ।
प्रणि--भ्यः (सूत्र. 41) ॥
भाष्यं सुस्मूर्षया मनसो धारणमिति ।
तेषु तेषु विषयेषु प्रसक्तस्थ मनसस्ततो निवारणमित्यथः ।
सुस्मूर्षितलिङ्गानुचिन्तनं वा साक्षाद्वा धारणं तल्लिङ्गे वा प्रयत्न
इत्यर्थः ।
निबन्धः खल्विति ।
यथा अत्रैव प्रमाणदयो ऽर्था एकग्रन्थोपात्ता अन्योन्यस्मृतिहेतवः ।
आनुपूर्व्या वा ।
यथा प्रमाणपदार्थं स्मृत्वा प्रमेयं स्मरति ।
इतरथा वा ।
यथा निग्रहस्थानानां प्रमाणानां स्मृत्वा प्रमेयं स्मरति ।
निबन्धस्य व्याख्यानान्तरमाह ।
धारणेति ।
धारणाशाखं जैगीषव्यादिप्रोक्तं तत्कृता ज्ञातेष्वेव वस्तुषु नाडीचक्रहृत्पुण्डरीककण्ठकूपनासाग्रता लुललाटब्रह्मरन्ध्रादिषु स्मर्तव्यानां बीज
(रूप) संस्थानास्त्राभरणभृतां च देवतानामुपविक्षेपः समारोपः तथा तत्र देवताः समारोपितास्तास्तत्तदवयवग्रहणात् स्मर्यन्त इत्यर्थः ।
अभ्यासजनितः संस्कार आत्मगुणो ऽत्राभ्यासशब्देनोच्यते ।
तेन आदरप्रत्ययावपि संगृहीतौ भवतः ।
तयोरप्यभ्यासवत्संस्काराधानद्वारेणैव स्मृतिहेतुत्वात् ।
अपि च स्मृतिकारणानां नासमावेशो विवक्षितः नेन संस्कारेण स्मृतिहेतूनां सर्वेषामेव प्रणिधानादीनां समावेश एव ।
निबन्धादिभिस्तु यथायोगं समावेशासमावेशावूहनीयाविति ।
अयत्रत
उपलब्धं लिङ्गं पुनरिति ।
संयोगिन उदाहरणं धूमो ऽग्नेरिति ।
समवायिन उदाहरणं कुड्यादिव्यवहिताया गोरव्यवहितप्रत्यक्षं विषाणं गवा सहास्ति विषाणस्य समवाये इति समवायि विषाणमुक्तम् ।
न तु तद्गवि समवायि गोरेव स्वावयवे विषाणादौ समवायात् ।
एकार्थसमवायीत्यस्य एकार्थस्य समवाय
एकार्थसमवायः स यस्यास्ति स एकार्थसमवायीत्यर्थः ।
तदेतदुदाहरणं यथा पाणिः पादस्येति ।
एकस्य खल्वत्रावयविनः समवायः पादे च पाणौ च तौ पाणिपादावेकार्थसमवायवन्तौ तत्रैकेनैकार्थसमवायवता प्रत्यक्षेणाप्रत्यक्ष एकः स्मर्यत इति ।
यदा त्वेकस्मिन्नेर्थे समवाय इत्यर्थस्तदा रूपं स्पर्शस्येत्युदाहरणम् ।
खाभाविकाविनाभावयुक्तं लिङ्गं साङ्केतिकं तु चिह्नमिति विशेषः ।
ग्रामणीर्नायकः ।
यद्यपि सर्वत्र प्रणिधानादौ सम्बन्धः संप्लवते तथा ऽपि प्रणिधानादिपरिहाण्या सम्बन्धान्तरे गोबलीवर्दन्यायेन सम्बन्धशब्दो वर्तते ।
न च सम्बन्धशब्देन सर्वसंग्रहादनर्थकमितरपदोपादानमिति वाच्यम् ।
उक्तमत्र भाष्यकृता ऽन्यत्र वाक्यलाघवं नाद्रियाते सूत्रकार इति ।
शिष्यधीप्रसादश्चैवं भवति विशिष्याभिधानादिति ।
आनन्तर्यादिति ।
ब्राह्मे हि मुहूर्ते प्रबोधानन्तरमुत्थानं ततो मूत्रं ततः शौचं ततो सुखप्रक्षालनदन्तधावनादीनि इति ।
वियोगादिति शोकमुपलक्षयति ।
ततो ऽपि शोकविषयस्य स्मरति ।
एककार्यादिति ।
यथा सप्तदशावराणामृद्धिकामानामेकं सत्रं कार्यम् ।
तत्रैकं यजमानं दृष्ट्वा यजमानान्तरं स्मरति ।
अतिशायात् यथा ब्रह्मचारी उपनयनविद्याविनयातिशयोत्पादकमाचार्यं स्मरति ।
प्राप्तेस्तु यथा प्रार्थको (?) यतो ऽनेन मिष्टमन्नं प्राप्तं प्राप्तव्यं वा तमभीक्ष्णं स्मरति ।
इच्छा स्नेहः ।
स तु भ्रात्रादिषु द्वेषः प्रतिकूले दारादौ, ताभ्यामपि च तद्विषयं स्मरति ।
क्रियया कार्येणेत्यर्थः ।
धर्माद्पव देवाभ्यासजनितेन धर्मेण जातिं स्मरति पूर्विकाम् ।
एवं जातमात्रस्य सुखादिसाधनस्मरणं धर्माधर्माभ्यां द्रष्टव्यम् ।
ननून्मादादयो ऽपि स्मृतिहेतवो लोकसिद्धास्तत्किं ते ऽपि नोक्ता इत्यत आह ।
निदर्शनमात्रं चेदं स्मृतिहेतूनामिति

8.42

न्य्स्_3,2.42: कर्मानवस्थायिग्रहणात् ॥
तदेवं सिंहावलोकितं समर्थ्य प्रकृताथामेव बुद्धौ विचारमारभते ।
अनित्यायां च बुद्धाविति ( 430 । 9 ) द्रव्याश्रितत्वादित्युच्यमाने ऽपि चक्षुरादिगतै रूपादिभिर्व्यभिचारो ऽत आह ।
व्यापकद्रव्याश्रितत्वादिति ।
तथाप्यात्मत्वादिभिरनेकान्तो ऽत आह जातिमत्त्वेसतीति ।
तथापि विभुत्वेन परिमाणेना नेकान्तो ऽत आह ।
अस्मदादिप्रत्यक्षत्वे सतीति ।
कर्मादिसन्तानविषया बुद्धय आशुतरविनाशिन्यः ।
अत्र यदि प्रकाशकत्वादित्युच्येत तत आत्मना ऽनेकान्तो ऽत आह ।
करणत्वे सतीति ।
तथापि मनः श्रोत्रादिभिरनेकान्तो ऽत आह प्रत्यर्थेति ।
एका बुद्धिरेकविषया न विषयान्तरविषया एवमन्या अपि बुद्धयः स्वविषयमात्रे पर्ववसिताः न मनःश्रोत्रादि तथा नानाविषयत्वात्तस्येति ।
ननु प्रत्यर्थनियतत्त्वमव्यापकं युगपदनेकार्थसन्निकर्षे सति नानाविषया ऽप्येका बुद्धिरुपजायते ऽत आह ।
प्रतिक्षण कर्मणो ऽर्थस्यापूर्वस्योत्पत्तौ सत्यां तत्कार्याता बुद्धेरयुगपदुत्पत्तौ कारणक्रमानुविधानात्कार्यक्रमस्य प्रत्यक्षबुद्धेर्विषयकारणत्वात् ।
एकैकश्चासौ विषयः क्रमोत्पादवान्कारणमिति क्रमवतीनां बुद्धीनां सर्वासामेव सिद्धं प्रत्यर्थैकानियतत्वम् ।
नियमश्च तज्जातीयकर्मान्तरापेखया न तु द्रव्यापेक्षया, तेन कर्मबुद्धेर्द्रव्यादिविषयत्वे ऽपि प्रत्यर्थनियमाविरोधः ।
प्रत्यर्थनियतत्वविशेषणयोगाच्च प्रागात्मना ऽनैकान्तिकत्वाशङ्कायां करणत्वं विशेषणमिति ।
प्रयोगान्तरमाह ।
अथ वेति ।
सुखत्वादिभिरनैकान्तिकत्वं मा भूतद उक्तं गुणत्वेसतीति ( 431 । 1) ।
रूपादिभिर्व्यभिचारनिवृत्त्यर्थमुक्तमबाह्येति ।
अवस्थितग्रहणे ऽपि प्रत्यक्षनिवृत्तेर्ध्वंसिनीति ।
यद्यपि शक्यं वक्तुं स्पर्शादिबुद्धिरेकैव तावन्तं कालमवस्थिता व्यवधानादिनार् ऽथसन्निकर्षविनाशाद्विनङ्क्ष्यति,
निमित्तकारणविनाशो ऽपि कार्यविनाशहेतुर्दृष्टो ऽपेक्षाबुद्धिविनाशाद् द्वित्वविनाशवदिति तथा ऽपि क्षणिकत्वे हेत्वन्तरादेव सिद्धे बुद्धीनामभ्युच्चयमात्रतयैतद्
द्रष्टव्यम् ।
तथा हि क्षणविध्वंसिवस्तुविषयबुद्धिक्षणिकत्वसमर्थनेनैव स्थायिवस्तुविषयबुद्धिक्षणिकत्वसमर्थनमपि सूचितम् ।
स्थिरगोचरा बुद्धयः क्षणिकाः
बुद्धित्वात्कर्मादिबुद्धिवदिति ।
बुद्धिरेव स्मर्त्री ग्रहीत्री चेत्यात्मभावं बुद्धावारोप्य शङ्क्तते ।
स्मृतेरवतिष्ठत इति चेदिति ।
निराकरोति ।
नात एवेति ।
न हि बुद्धिः स्मर्त्री येन तदभावे स्मृतिर्नोत्पद्येत, अपि त्वात्मा,
स च नित्यः, बुद्धिसद्भावस्तु स्मृतिविरोधीत्यर्थः ।
अथ यदि बुद्धिर्नास्ति कुतस्तर्हि स्मृतिरुत्पद्यते न ह्यकारणं कार्यं भवति ।
न चात्ममात्रं कारणं मा भूदात्मनो नित्यत्वेन स्मृत्युत्पादो ऽपि नित्यः तस्मात्स्मृत्युत्पादो ऽपि लिङ्गं बुद्ध्यवस्थान इत्यत आह ।
अन्यतश्च तद्भावादिति ।
स्यादेतत्।बुद्धिजः संस्कारश्चेत्स्मृतिहेतुरथ यावत्संस्कारं स्मृतिः स्यादत आह ।
तत ।
प्रणिधानादीति ।
न संस्कारो ऽस्तीत्येतावता स्मृतिरपि तु तत्प्रबोधात् ।
प्रबोधश्च कादाचित्कः कादाचित्कत्वात् प्रणिधानादेरित्यर्थः

8.43

न्य्स्_3,2.43: अव्यक्तग्रहणमनवस्थायित्वाद् विद्युत्संपाते रूपाव्यक्तग्रहणवत् ॥
बुद्धिस्थैर्यवाद्याह ।
यद्यनवस्थायिनीति

8.44

न्य्स्_3,2.44: हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा ॥
दूषयति ।
न विरोधादिति ।
( 432 । 5 ) बुद्धिमात्रस्य स्थायित्वं प्रतिज्ञाय विद्युत्संपातजाताया घटादिबुद्धेरनवस्थायित्वाभिधानं विरुद्धमित्यर्थः ।
अव्यक्तग्रहणस्यान्यथासिद्धत्वं चाह ।
अव्यक्तग्रहणस्येति ।
धर्मिग्रहणहेतोर्भेदात् ।
अव्यक्तश्च यो धर्मिग्रहणे हेतुः सामान्यमात्रवन्तं धर्मिणं गृह्णाति तद्वशादव्यक्तग्रहणं यस्तु सामान्यविशेषवन्तं तद्वशाद्व्यक्तग्रहणमित्यर्थः ।
धर्मिणं त्वनाश्रित्य स्वे विषये ग्रहणानां तदसम्भवात् व्यक्तत्वादित्यर्थः ।
धर्मिणमनाश्रित्येत्यविद्वान्
शङ्कते ।
लोकविरोध इति चेदिति ।
धर्मिग्रहणमाश्रित्य निराकरोति ।
नान्यथेति ।
दोषान्तरमाह ।
अनैकान्तिकत्वाच्चेति ।
वार्त्तिकव्याख्यानेनैव भाष्यव्याख्या

8.47

न्य्स्_3,2.45: न प्रदीपार्चिःसंतत्यभिव्यक्तग्रहणवत् तद्ग्रहणम् ॥
न्य्स्_3,2.46: द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ॥
शरीरेति(433।9) ।
पूर्वं हि भूतेन्द्रियमनसां चैतन्यं साक्षान्निराकृतमुपक्षेपात्तु शरीरस्य,
संप्रति तु शरीरस्यैव साक्षाच्चैतन्यं निरस्यत इति तात्पर्यभेदादपुनरुक्तम् ।
वस्तुतस्तु पौनरुक्त्यपरिहारं भाष्यकारः प्रकारान्तरेण प्रकरणान्ते वक्ष्यति ।
तद्गुणत्वं तत्रोपलब्ध्या सिध्यति ।
अबाधितयेति शेषः ॥ 44-45 ॥
न्य्स्_3,2.47: यावच्छरीरभावित्वाद्रूपादीनाम् ॥
न कारणानुच्छेदात्--चेतनायाः,
शरीरमस्याः कारणं तच्चानुच्छिन्नं, संस्कारस्य तु कारणस्योच्छेद इति द्रष्टव्यम्

8.48

न्य्स्_3,2.48: न पाकजगुणान्तरोत्पत्तेः ॥
तच्च न, पाकजगुणान्तरोत्पत्तेरिति ।
नात्यन्तिकः परमाणौ वा पिठरे वा रूपाभाव
इत्यर्थः

8.49

न्य्स्_3,2.49: प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः ॥
तदेवमात्यन्तिकानात्यन्तिकत्वं वैधर्म्यमुत्क्वा सप्रतिद्वन्द्वित्वासप्रतिद्वन्द्वित्वं वैधर्म्यान्तरमाह इतश्च ।
प्रतिद्वन्द्विसिद्धेः पाकजानाम्(435।8) तद्व्यभिचारोद्भावनेन चैतन्यस्य यावच्छरीरभावित्वाप्रतिषेधः

8.50

न्य्स्_3,2.50: शरीरव्यापित्वात् ॥
प्रत्ययव्यवस्थाप्रसङ्गात् ।
(436।3) यथा देवदत्तस्य ज्ञानं न यज्ञदत्तः प्रतिसंधत्ते किं तु देवदत्त एवेति व्यवस्था एवमेकस्मिन्
शरीरे अवयवान्तरज्ञानमवयविनो वा ज्ञानं न प्रतिसंधत्ते इत्यर्थः

8.51

न्य्स्_3,2.51: न केशनखादिष्वनुपलब्धेः ॥
दृष्टान्तसूत्रमिति ।
न करचरणादयश्चेतनाः शरीरावयवत्वात् केशनखादिवादिति दृष्टान्तार्थं सूत्रमित्यर्थः

8.52

न्य्स्_3,2.52: त्वक्पर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः ॥
त्वक्पर्यन्तत्वादिति ।
शरीरावयवत्वं केशनखादीनां हेतुरसिद्धः इन्द्रियाश्रयत्वं शरीरलक्षणं, तद्यत्र शरीरं समवेतं तेनेन्द्रियाश्रयेणावश्यं भवितव्यम् ।
त्वक्पर्यन्तश्चावयवसमूहस्तथा,
न तु केशनखादयस्तादृशा इति न शरीरावयवा इत्यर्थः

8.55

न्य्स्_3,2.53: शरीरगुणवैधर्म्यात् ॥
न्य्स्_3,2.54: न रूपादीनामितरेतरवैधर्म्यात् ॥
न्य्स्_3,2.55: ऐन्र्दियकत्वाद् रूपादीनामप्रतिषेधः ॥
रूपादीनां त्वितरेतरवैधर्म्यमननुसंहितं च--शरीरगुणत्वेनानन्वितमित्यर्थः ।
न हि येषां चाक्षुषत्वरासनत्वादिरूपवैधर्म्ययोगस्ते न शरीरगुणा इति दृष्टम् ।
अव्यावृत्तं च शरीरगुणानां तादृशवैधर्म्यदर्शनात् ।
तस्मादशरीरगुणत्वान्वयव्यतिरेकाभावाद्वैधर्म्यमात्रमेतत् ।
बाह्यकरणप्रत्यक्षाप्रत्यक्षशरीरगुणवैधर्म्यं मानसप्रत्यक्षत्वमन्वयव्यतिरेकि तु चेतनायाः शरीरगुणत्वसाधनं न भवति ।
अपि तु तदन्यगुणत्वसाधनमित्यर्थः ।
विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाहेतुत्वादिति ।
ये हेतव इति(437।2)बहुवचनं हेत्वेकदेशविवक्षया ।
न शरीरगुणश्चेतना अयावद्द्रव्यभावित्वादित्युच्यमाने संस्कारेणानेकान्त इत्यत उक्तं निमित्तान्तराभाव
इति ।
तथा ऽपि पाकजेन गुणेनानेकान्त इत्यतौक्तं विरोधिगुणादर्शने चेति ।
शरीरव्यापित्वादिति ।
न साधनमिति ।
प्रसङ्गो हि न साधनं हेतोभावात् ।
यथाहुरस्ति प्रसङ्गो न प्रसङ्गसाधनमिति ।
बाह्यकरणाप्रत्यक्षत्वादिति ।
न च गुरुत्वादिभिरनेकान्तः ।
तेषां खल्वप्रत्यक्षत्वमेव ।
न तु बाह्यकरणप्रत्यक्षत्वमिति भावः

8.56

न्य्स्_3,2.56: ज्ञानायौगपद्यादेकं मनः ॥
मनःस्वरूपपरीक्षायां भाष्यवार्त्तिके निगदेनैव व्याख्याते

8.57

न्य्स्_3,2.57: न युगपदनेकक्रियोपलब्धेः ॥
संस्थापनं स्थानम्

8.62

न्य्स्_3,2.58: अलातचक्रदर्शनवत् तदुपलब्धिराशुसंचारात् ॥
न्य्स्_3,2.59: यथोक्तहेतुत्वाच्चाणु ॥
न्य्स्_3,2.60: पूर्वकृतफलानुबन्धात्तदुत्पत्तिः ॥
मनसि विचार्यमाणे कः सम्बन्धः शरीरोत्पत्तिनिमित्तविचारस्येत्यत
आह ।
मनसः खल्विति ।
(438।10)मन एवाधिकरणविचारेणापि परीक्ष्यत इति नासम्बन्धः शरीरोत्पत्तिनिमित्तविचारस्य ।
परित ईक्षा परीक्षा सा च स्वरूपतश्च सम्बन्धितश्च, शरीरं च मनःसम्बन्धि तदधिकरणत्वान्मनसः
तस्मान्मनस एव परीक्षा या शरीरस्येत्यर्थः ।
उत्पत्तिसमकालमिति ।
(439।1) सममिव समम् ।
उत्पत्त्यनन्तरमित्यर्थः ।
क एवमाह न ददातीति ।
यदि समग्रं भवति तत उत्पत्त्यनन्तरं दास्यत्येवत्यर्थः ।
विपच्यमानः कर्माशय इति ।
स्वफलं भोजयन्नित्यर्थः ।
यानि वा प्राण्यन्तराणि तस्य कर्मणः समानोपभोगानीति ।
तद्यथा किंनरत्वनिर्वर्त्तनीयं कर्म स्त्रीपुंसभोग्यं स्त्रीपुंसयोरन्यतरकर्मप्रतिबन्धे फलं न ददातीति ।
यानि प्राण्यन्तराणि स्नेहविषया भ्रात्रादयस्तस्य कर्मणो भागीनीति ।
कर्मफलानामन्नाद्याश्वग्रामादीनां भागित्वात्कर्मभागीनीत्युच्यन्ते तेषां प्राणिपनां कर्मभिरभाग्यादिशब्दवाच्यैः प्रतिबन्धादिति ।
तस्य वा कर्मणः सहकारिधर्माधर्मलक्षणं निमित्तं नास्तीति ।
अयमर्थः ।
दृष्टानां सेवादिकर्मणां व्यभिचाराद्ग्रामादिलाभे ऽदृष्टं कारणं कल्पनीयम् ।
यथाहुः। ... तच्चैव तत्र कारणं शब्दश्चेति ...
दृष्टं सेवादिच कारणम् ।
शब्दश्चेति विषयिणा तद्विषयमदृष्टमुपलक्षयति ।
ते च ग्रामादयस्तस्माददृष्टादुपजायमाना अन्तरा विघ्ननाशाय देवतानमस्कारादिजनितमपि धर्ममपेक्षन्ते, तस्मात् प्रारभवीयेन धर्मेण स्वफलनिर्वर्त्तनाय धर्मान्तरं सहकार्यपेक्ष्यते,
सहकारिणां च वैचित्र्यात्प्रतिबन्धापगमहेतोरपि सहकारित्वाविरोधः ।
तेन कर्मणः सहकारिनिमित्ताभावात्प्रतिबद्धमदृष्टं फलं न जनयतीत्यर्थः ।
तस्य वा कर्मणः सहकारिणः कारणस्य गरीयसा कर्मान्तरेण प्रतिबन्धात्फलस्यानारम्भः ।
एवं स्वकर्मणां सहकारिनिमित्ताभावप्रतिबन्धावुत्क्वा समानोपभोगसत्त्वान्तरकर्मणामपि सहकारिनिमित्ताभावप्रतिबन्धौ दर्शयति ।
सत्त्वान्तरकर्मणां चेति ।
रूपादिमत्त्वादित्युच्यमानेपरमाणुभिरनेकान्तः स्यादत आह ।
बाह्यकरणग्राह्यत्वे सतीति ।
इन्द्रियग्राह्यत्वे सतीत्येतावतैव सिद्धे इन्द्रियग्राह्यराशेर्बाह्यकरणग्राह्यं राश्यन्तरमित्येतावन्मात्रविवक्षया बाह्यकरणग्राह्यत्वे सतीत्युक्तम् ॥ 58-60 ॥
न्य्स्_3,2.61: भूतेभ्यो मूर्त्युपादानवत् तदुपादानम् ॥
न्य्स्_3,2.62: न साध्यसमत्वात् ॥
सिकतादिदृष्टान्तस्य साध्यसमतयैव पुरुषार्थक्रियापसामर्थ्यादित्यस्य हेतोरनैकान्तिकत्वोद्भावनमपि प्रत्युक्तम् ।
सिकतादीनामपि कथं चित्पुरुषार्थहेतुत्वात्तत्सर्गः पुरुषगुणपूर्वक
इत्युक्तम्

8.63

न्य्स्_3,2.63: नोत्पत्तिनिमित्तत्वान्मातापित्रोः ॥
मा भूद्वा पुरुषगुणपूर्वकत्वं सिकतादिसर्गस्य, तथा ऽपि शरीरस्योत्पत्त्यादि परिभावयन्तः सिकतादिभ्यो वैषम्यं वीक्षमाणास्तद्विलक्षण्कारकणत्वमेव प्रतिषद्यामहे तथा च सिध्यति पुरुषगुणनिमित्ततेत्याह ।
विषमश्चायमुपन्यास इति ।
(440।16) ननु मातापितरौ न साक्षात् शरीरोत्पत्तौ कारणमित्यत आह मातापितृशब्देन लोहितरेतसी इति ।
अनुभवनीये इति भव्यगेयादिपाठत्कर्तरि कृत्यः

8.64

न्य्स्_3,2.64: तथाहारस्य ॥
इतो ऽपि वैषम्यमित्याह ।
तथाहारस्य (सू. 64) ॥
पूर्वसूत्रप्रतीकेन पूरयति ।
उत्पत्तिनिमित्तत्वादिति प्रकृतम् ।
कललरकण्डमांसपेश्यादयो लोहितरेतसोः शरीरारम्भकयोः परिणामभेदाः

8.65

न्य्स्_3,2.65: प्राप्तौ चानियमात् ॥
प्राप्तौ--त् (सू. 65) ॥
दम्पत्योः संयोगः प्राप्तिः तस्यामनियमः शरीरोत्पादस्य,
तस्माद् दृष्टस्य व्यभिचारादस्ति तददृष्टं यतः शरीरसर्ग इत्यर्थः

8.66

न्य्स्_3,2.66: शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म ॥
पार्श्वस्थः शङ्कते ।
सर्वात्मभिरिति ।
ननु यदीयेनादृष्टेन यच्छरीरमुपात्तं तत्तस्यैव भोगायतनं नानियम इत्यत आह ।
न च पुरुषगत इति ।
आत्ममनःसन्निकर्षजौ हि धर्माधर्मौ, सन्निकर्षश्च मनसः सर्वात्मभिः साधारण इति सर्वेषामेव धर्माधर्मौ,
न पुनः कस्पय चिदेवासाधारणावित्यर्थः ।
अस्योत्तरं शरीरेति ।
उक्तेनैवाभिप्रायेण शङ्कते तत्स्थता एकपुरुषस्थता कुत इति चेत् ।
उत्तरमान् स्वसंयोगेति ।
पुनः पृच्छति संयोगे कृतो नियम इति ।
(442।1) यथैवैकेनात्मना मनःसंयुक्तमेवमात्मान्तरैरपि ।
एवं यथैकेन मनसा संयुक्तं एवमनोन्तरैपीति नात्ममनःसन्निकर्षे ऽस्ति विशेष इत्यर्थः ।
उत्तरं न मनोनियमहेतुत्वादिति ।
अदृष्ट (नियम) निबन्धनो हि मनोनियमः
मनोनियमनिबन्धनश्चादृष्टनियमः ।
अनादित्वाच्च बीजाङ्कुरवदन्योन्याश्रयो न क्षतिमावहतीत्यर्थः

8.67

न्य्स्_3,2.67: एतेन नियमः प्रत्युक्तः ॥
तदेवमात्मगुणनिबन्धने शरीरसर्गे व्यावस्था दर्शिता ।
ये तु मेनिरे न कर्मनिबन्धनः शरीरसर्गो ऽपि तु प्रकृत्यादिनिबन्धनः ।
प्रकृतयो हि स्वयमेव धर्माधर्मरूपनिमित्तानपेक्षाः सत्त्वरज स्तमस्तया प्रवृत्तिशीलाः स्व स्व विकारमारभन्ते, प्रतिबन्धापगममात्रे तु धर्माधर्मावपेक्षन्ते तद्यथा कृषविलः केदारादां पूर्णात्केदारान्तरमपूर्णमापिप्लावयिषुरषां सेतुमात्रं केदारमाप्लावयन्ति ।
एवमाप्लावयन्ति प्रकृतयो ऽपि विकारानिति ।
यथाहुः ऽनिमित्तमप्रयोजकं प्रकृतीनामावरणभेदस्तु ततः क्षेत्रिकवदिति ।
तान् प्रतयाह ।
एतेनानियमः प्रत्युक्तः (सू. 67) ।
एतेन कर्मसापेक्षाणां भूतानां शरीरसर्गे अनियमाभिधानेन तन्निरपेक्षाणां व्यतिरेकमुखेनानियमः प्रत्युक्तः ।
नियमो व्याप्तिः साधारणविग्रहवत्त्वं सर्वात्मनाम् ।
अनियमस्त्वव्याप्तिः कस्य चिदात्मन किं चिच्छरीरं कस्यचित् किंचिदिति ।
प्रकृतिनिबन्धने हि शरीरसर्गे तस्या एकत्वात् सर्वात्मसाधारण्याच्च न शरीराणामस्त्यसाधारण्ये हेतुः ।
भूतग्रहणं तु प्रकृत्युपलक्षणार्थं न केवलमकर्मनिमित्ते शरीरसर्गे साधारणविग्रहवत्त्वं दोषः
अपि तु मोक्षो ऽपि न स्यादिति दर्शयितुं स्वपक्षे मोक्षमुपपादयति ।
उपपन्नश्चेति ।
सांख्यपक्षे तु न मोक्षः स्यादिति दर्शयति ।
कर्मनिरपेक्षेष्विति

8.68

न्य्स्_3,2.68: तददृष्टकारितमितिचेत् पुनस्तत्प्रसङ्गोपवर्गे ॥
शङ्कते ।
तददृष्टकारितमिति चेदिति उपभोग्वशब्दाद्यदर्शनं प्रकृतिपुरुषभेदादर्शनं वा ऽदृष्टमुच्यते ।
तत्कारितमित्यर्थः ।
निराकरोति एतस्मिन्निति ।
(443।4) यथा प्रागदर्शनमेवं निरोधसमाधेः पश्चादप्यदर्शनमित्यप्रवृक्तो ऽपि पुनः संसरेदित्यर्थः ।
शङ्कामुत्थाप्य दूषयति ।
चरितार्थचेति ।
ननु न शब्दाद्युपभोगं पुरुषार्थं ब्रूमो येन चरितार्थता स्यात् ।
अपि तु पुरुषभेददर्शनं तच्चाद्यापि न भवतीत्यारभते शरीरमिति देशयति ।
पुरुषार्थेन च हेतुनेति ।
चो ऽवधारणे पुरुषार्थेनैवेत्यर्थः ।
परिहरति ।
तस्य--चाकरणादिति ।
चस्त्वर्थे ।
देश्यनिवृत्तौ ।
यदर्थं शरीराण्यारभते तन्न कृतमन्यत्तु कृतमितिकिं केन संगतमित्यर्थः ।
शङ्कते दिदृक्षाविशेष इति ।
दर्शनं हि नञा पर्युदस्तमतस्तन्मूलां दिदृक्षां ब्रूते सा चापवर्गे नास्ति तस्मान्नापवृक्तः संसरतीत्यर्थः ।
निराकरोति न प्रागिति ।
एतदुक्तं भवति ।
दिदृक्षा हि बुद्ध्याश्रया नासत्यां बुद्धावस्ति प्रकृतिपरिणामश्च बुद्धिस्तथा च सत्यां दिदृक्षायां बुद्धिः बुद्धौ सत्यां दिदृक्षेति परस्पराश्रयप्रसङ्गः ।
न चानादिता परिहारः, सृष्ट्यादौ द्वयोरभावात् ।
अस्माकं तु प्रलयसमये धर्माधर्मसंस्कृतो ऽस्त्यात्मा मनश्चेति विशेषः ।
सत्कार्यमादाय शङ्कते ।
सर्वशक्तिमत्त्वादिति ।
निराकरोति ।
नापवर्गाभावप्रसङ्गादिति ।
(444।3) श्लिष्टं विभजते दिदृक्षावन्नानात्वदर्शनमप्यस्तीति ।
न तदर्थं प्रकृते प्रवृत्तिः तथा च न संसारस्तप्रध्वंसश्चापवर्गाभावान्नास्तीत्यपवर्गाभाव
इत्यर्थः ।
एतदेव स्फुटयति ।
विद्यमाने च नानात्वदर्शने तदर्थं प्रधानस्य प्रयुक्तिरयुक्ता ततः संसाराभावात्तत्प्रध्वंसो ऽपवर्गो न स्यादिति भावः ।
तमेवापवर्गाभावं तद्विरोधिसंसारसत्त्वे दर्शयति ।
यदा च नानात्वदर्शनमिति ।
निदानानुच्छेदे निदानिनो नोच्छेद इत्यर्थः ।
पुनर्विकल्पं दर्शयति ।
अज्ञानमदर्शनमिति चेति ।
विवेकज्ञानाभावस्य तुल्यत्वादित्यर्थः ।
शेषमतिरोहितार्थमिति ।
अपरे त्वार्हता अदृष्टं परमाणुगुणं वर्णयन्ति ।
पार्थिवानामणूनां मनसश्च स्वगुणप्रयुक्तं तच्छरीरमाविशति ।
तच्च स्वकादेवादृष्टात्पुद्गलस्य सुखदुःखोपभोगं साधयति ।
न तु पुद्गलस्पय धर्मो ऽदृष्टमिति ।
सांख्यवत्तेषामपि पुनस्तत्प्रसङ्गो ऽपवर्गे ।
एतदुपपादयति ।
परमाणुगुणस्येति

8.69

न्य्स्_3,2.69: मनःकर्मनिमित्तत्वाच्च संयोगानुच्छेदः ॥
अपि चास्मिन् दर्शने प्रायणं न स्यादित्याह ।
मनः कर्मनिमित्तत्त्वादिति

8.69

अस्मद्दर्शने तूपपद्यते प्रायणमित्याह ।
वर्तमानशरीरारम्भककर्माशयक्षये तु भविष्यद्देहान्तरारम्भककर्माशयान्तरादपसर्पणं मनस इति युक्तं प्रायणम् ।
उभयहेतुरिति ।
उपसर्पणापसर्पणहेतुरित्यर्थः

8.70

न्य्स्_3,2.70: नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ॥
ननु भवतु संयोगानुच्छेदः किं नोबाध्यतैत्यत आह ।
शरीरस्य नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ।
संयोगाव्युच्छेदादित्यर्थः ।
ननु सदकारणं नित्यमिति कथं सकारण शरीरे नित्यं भवेदित्यत आह ।
नित्यत्वप्रसङ्ग
इति प्रायणानुपत्तिं ब्रूमः ।
विनाशानुपपत्तिरित्यर्थः ।
यादृच्छिके अकारणके ।
प्रायणभेदो न स्यात् ।
दृष्टश्च प्रायणभेदः कश्चिद्गर्भस्य एव प्रैति कश्चिज्जातमात्रः कश्चित्कुमारक इत्यादिरिति अकारणस्य नित्यं सत्त्वमसत्त्वं वा स्यात् ।
गगनवत्तत्कुसुमवदित्यर्थः

8.71

न्य्स्_3,2.71: अणुश्यामतानित्यत्ववदेतत् स्यात् ॥
अकारणत्वादित्यस्य हेतोरनैकान्तिकत्वेन प्रत्यवतिष्ठते ।
अणुश्यामतावदिति

8.72

न्य्स्_3,2.72: नाकृताभ्यागमप्रसङ्गात् ॥
निराकरोति ।
एतच्च नेति (446।2) ।
प्रमाणेनाविषयीकृतमकृतम् प्रत्युत प्रत्यक्षागमविरुद्धमिति यावत् ।
तस्याभ्यागप्रो ऽभ्युपगमस्तत्प्रसङ्गादित्यर्थः ।
न च परमाणुश्यामताप्यकारणा पार्थिवरूपत्वात्
लोहितादिरूपवदित्यनुमानेन तस्यापि पाकजत्वाभ्युपगमादिति भावः।यथा श्रुति वा सूत्रार्थः ।
अकृतस्य कर्मणः फलोपभोगप्रसङ्गादिति ।
यथा खलु परमाणुगुण एव नित्यः शरीराद्यारम्भकस्तथा ऽसौ नित्यत्वान्न केन चित् क्रियते ।
तस्याकृतस्यैव फलं पुरुषैरुपभुज्यते ततश्चायमास्तिकानां विहितनिषिद्धप्रवृत्तिनिवृत्तिनिचयो ऽनर्थकः शास्त्रप्रणयनं चाप्यनर्थकं भवेदिति भावः ।
एतच्चातिविस्तृतं भाष्ये ।
तस्यार्थो निगदव्याख्यातः

मूल पाठ: Nyāyasūtra with Vacaspatimiśra's Nyāyavārttikatātparyaṭīkā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc