भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र (टीका सहित) · अध्याय 7

7.1

न्य्स्_2,2.68: समानप्रसवात्मिका जातिः ॥
प्रसूत इति प्रसवः समानबुद्धेर्भिन्नेषु पसोत्री या जातिः सा ऽवश्यं समानप्रत्ययं प्रसूते न पुनर्या समानप्रत्ययं प्रसूते सा जातिः ।
पाचकादिषु व्यभिचारादिति ।
व्यक्त्याकृतिभ्यां भेदकत्वमात्रेण चैतल्लक्षणं न तु सर्वथा वेदितव्यम् ।
यस्तु वैयात्यात्प्रत्यक्षे ऽपि विप्रतिपद्यते तं प्रत्यनुमानान्याह ।
गवादिष्वनुवृत्तप्रत्यय
इति ।
( 333 । 18 ) व्यपदेश इति सम्बन्धिना सम्बन्धान्तरस्य विशेषणं पुरुषो व्यपदिश्यते राज्ञ इत्यनेनेति ।
गोर्गोत्वानुवृत्तिप्रत्यया इति ।
पूर्वमनुवृत्तप्रत्ययमात्रंपक्षीकृतम्
इह तु गोर्गोत्वानुवृत्तिप्रत्यय इत्यपौनरुक्त्यम् ।
कीर्तित इति ।
यथा लिङ्गं विवक्षितमन्तरत्वात् ।
अन्यत्र यथालिङ्गं प्रत्यय इति ।
नपुंसकमनपुंसकेनेति नपुंसकत्वं नाशङ्कनीयमिति ।
इति मिश्रश्रीवाचस्पतिविरचितायां न्याय-वार्त्तिकतात्पर्यटीकायां द्वितीयाध्याय-स्य द्वितीयमाह्निकम् ।
द्वितीयो ऽध्यायः समाप्तः ॥
तृतीयाध्यायस्य प्रथममाह्निकं
न्य्स्_3,1.1: दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥
अत्र भाष्यं परीक्षितानि प्रमाणानि प्रमेयमिदार्नी परीक्ष्य इति ।
वृत्तानुकीर्तनं प्रमेयपरीक्षां वर्तिष्यमाणां प्रति वृत्तायाः प्रमाणपरीक्षायाहेतुभावं दर्शयितुम् ।
प्रमाणेन हि प्रमेयं पीक्ष्यते नान्येन ।
न च तदपरीक्षितं प्रमेयपरीक्षायै प्रभवति ।
तस्मात्प्रमाणपरीक्षा हेतुः हेतुमती प्रमेयपरीक्षेति ।
द्वादशविधं प्रमेयं तत्कस्मात्प्रथमत
आत्मैव परीक्ष्यते न प्रमेयान्तरमित्यत आह ।
तच्चात्मादीत्यात्मा विचार्यत इति ।
(335।5) आत्मैव हि प्रमेयेषु प्रथममुद्दिष्टो लक्षितश्चेति तदनुरोधादात्मैव प्रथमं परीक्ष्यते न प्रमेयान्तराणीति ।
अत्र च यद्यपि स्वरूपेणात्मन्येव परीक्षां प्रतिजानीते तथा ऽपि लक्षणपरीक्षाद्वारेण लक्ष्यपरीक्षणाल्
लक्षणपरीक्षैव द्रष्टव्या ।
यथा चेयमात्मलक्षंणपरीक्षा तथोपरिष्टाद्दर्शयिष्यते ।
तदेतद्वार्त्तिककारो व्याचष्टे ।
आनन्तर्यादिति ।
किं पुनः प्रयोजनं प्रमेयपरीक्षायाः न हि निष्प्रयोजनं परीक्षन्ते प्रेक्षावन्त इत्यत आह ।
यद्विषयो ऽहङ्कार
इति ।
अहङ्कार इत्यात्मादिविषयं मिथ्याज्ञानं निदिंशति ।
शरीराद्यभेदेनात्मदर्शनं खलु संसार प्रवर्तयतीत्युक्तं द्वितीयसूत्रे ।
अनेन प्रमेयपरीक्षायाः प्रयोजनवत्त्वं दर्शितम् ।
अत्र भाष्यकारेण विचारपूर्वरूपः संशयो दर्शितः ।
किं देहेन्द्रियमनोबुद्धिसंघामात्रमात्मेति ।
संशयकारणं चोक्तं व्यपदेशस्येति ।
यद्यपि वृक्षप्रासादयोरवयविसमुदाययोरन्ययोरेवावयवेन समुदायिना च व्यपदेशस्तथाप्यवयव्यभावं समुदायं च समुदाय्यनतिरिक्तं मन्वानस्य परस्योदाहरणं द्रष्टव्यम् ।
तदेतद्वार्तिककार
आक्षेप्तुं पृच्छति ।
किं पुनरस्येति ।
उत्तरंव किं शरीरेति ।
आक्षियति नेति ।
समानधर्मणो धर्मिणो दर्शनात्संशयो न पुनरदर्शनादित्यर्थः ।
समाधत्तेः ।
नेच्छादिसूत्रेति ।
इच्छादयो हि कार्यत्वाल्लिङ्गमात्मन इति दर्शितम् ।
तान्येव तु लिङ्गानि दर्शयत्येषितारं परीक्षन्ते ।
किं देहेन्द्रियव्यतिरिक्त एषितैभ्यः सिध्यति आहो स्विदभिन्न इति युक्तो विचारः ।
अपि चायमात्मशब्दाभिधेयो धर्मी सर्वतन्त्रसिद्धः केवलमस्य शरीरेणं सह भेदाभेदे वादिनां विवाद इत्याह ।
अविप्रतिपत्तेश्चेति ।
(336।1) ननु चात्मासत्त्वे परैः प्रमाणान्यजातत्वादीन्युपन्यस्तानि तत्र कथं न तत्सत्त्वे विप्रतिपत्तिरत आह ।
असत्त्वप्रतिपादकप्रमाणाभावाच्चेति ।
वाद्येवासौ न भवति यो धर्मिणि विप्रतिपद्यते न हि धर्मिणि विप्रतिपद्यमानस्यास्ति किं चित्प्रमाणं सर्वस्य तस्याश्रयासिद्धेरप्रमाणत्वात् ।
अभावस्य च भावाधीननिरूपणस्यात्यन्तासद्भावानिरूपणात् ।
तस्माद्धर्म्यभाववादी न लौकिको न परीक्षक
इत्युन्मत्तवदुपेक्षणीयः ।
धर्म्यसिद्धिवादिनां प्रमाणमुपन्यस्यति ।
न नास्तीति ।
निराकरोति ।
तत्र नास्त्यात्मेति ।
यत्पुनरपरे समादधुः
अनादिवासनोद्भूतविकल्परिनिष्ठितः ।
शब्दार्थस्त्रिविधो धर्मी भावाभावोभयाश्रयः
॥ भावाश्रयो यथा नीलमिति अभावाश्रयो यथा शशविषाणमिति उभयाश्रयो यथा ऽमूर्तमिति ।
अमूर्तं हि भवति विज्ञानं भवति च शशविषाणम् ।
तस्मिन्बाह्यानुपादाने साध्ये ऽस्यानुपलम्भनम् ।
तथा हेतुर्न तस्यैवाभावः शब्दप्रयोगत इति ।
सो ऽयमात्मविकल्पो बाह्योपादानो न भवतीति ।
यथा नीलविकल्पो बाह्यनीलोपादानः नैवमात्मविकल्पो बाह्योपादानं
इत्यर्थः ।
तत्रैवं भवान्प्रष्टव्यो जायते ।
किमात्मविकल्पस्य बाह्योपादानत्वमात्रं प्रतिषिध्यते किं बाह्यात्मोपादानत्वम् ।
पूर्वस्मिन् सिद्धासाधनं मा भूदात्मविकल्पो बाह्यनीलाद्युपादानः किं नः छिन्नम् ।
उत्तरस्मिंस्तु कल्पे क्वायं बाह्यात्मा सिद्धः यदुपादानत्वं विकल्पस्य प्रतिषिध्यते ।
सिद्धश्चेत् क्वापि नास्यात्यन्ताय प्रतिषेधः ।
असिद्धश्चेत् कथमप्रतीतस्य निषेधः ।
प्रतीतो विकल्पे बाह्ये निषिध्यते चैत्र इव गेहे चत्वरतले निषिध्यत इति चेत् ।
एवमपि यत्र प्रतीतस्तत्र न निषिध्यते यथा भवद्भिरेवोक्तं न तस्यैवाभावः शब्दप्रयोगत इति ।
बाह्यश्चात्मा विकल्पेन नोपदर्शित इति प्रसक्त्यभावान्न शक्यो निषेद्धुम् ।
अप्रदर्शितोप्यध्यवसित इति प्रसक्त एवेति चेत् ।
ननु विकल्पस्य को ऽयमध्यवसायो नाम ।
ग्रहणादतिरिक्तः ग्राह्यस्य स्वाकारस्य वालीकस्य वा बाह्याध्यारोप इति चेत् ।
न बाह्याविषया विकल्पा बाह्यमारोपयन्तीति चित्रम् ।
न हि आरोपविषयरोप्ये अजानन् आरोपयितुर्महतीत्यसकृदावेदितम् ।
अपि च अलीकं प्रतीयमानं यथा न निषेद्धुं शक्यं प्रतीयमानत्वादेवमस्य बाह्यत्वमपि ।
मिथ्यात्वात्प्रतिषिध्यत इति चेत् तत्किमलीकमपि सत्यं यत्तदुल्लङ्घ्य बाह्यत्वं प्रतिषेद्धुमध्यवसितो ऽसि बाह्यभेदग्रहम्तदध्यवसायो न प्रसञ्जक
इति न निषेधगोचरः ।
न च ज्ञानकार आत्मा परमार्थसन् बाह्यत्वेनारोप्यमाणः प्रतिषिध्यत
इति सांप्रतम् ।
विज्ञानमये हि सर्वथा बाह्यस्याग्रह तत्समारोपसंभवात् ।
अत्यन्तासतश्च बाह्यस्य विज्ञानात्मनो ग्रहे तथाविधेनासता विज्ञानानात्मना विज्ञानग्रह्येण किमपराद्धं येन तद्ग्राह्यो न स्यादिति विज्ञाननयो दत्तजलाञ्जलिः प्रसज्येत ।
न चायमात्मा पूर्वापरकालावस्थायी क्षणिकविकल्पाकारो भवितुमर्हति येन तदाकारो बाह्यत्वेन प्रतिषिध्यते ।
तस्मादन्यत्र दृष्टमन्यत्र समारोप्य प्रतिषिध्यत इति युक्तम् ।
स च समारोपः क्व चित्स्वकारणप्रभवः क्व चित्प्रतिषिध्यते यथेन्द्रियादिदोषादुत्पन्नरजतज्ञानस्य शुक्तिकायां नेदं रजतमिति ।
क्वचित्पुनराहार्यो यथा नेह चैत्र इति ।
तस्मादात्मनो देशकालान्तरे वस्तुनि विकल्पनं विज्ञाने चासंभवादत्यन्तासत्तो समारोपः तदभावादात्मन्येव नास्ति अस्ति चेत्कथमत्यन्ताय निषेधः ।
तस्मादात्मा नास्तीति पदयोर्व्याघातः ।

यद्यप्यात्मा नास्तीति पदानि तथा ऽपि नास्तीत्यैकपद्यं विवक्षित्वा पदे इति द्विवचनोपपत्तिः ।
पद्यते गम्यते ऽनेनार्थ
इति विवक्षित्वा पदसमुदायो ऽपि पदमुच्यते ।
यद्यपि घटादीनां देशान्तरादौ निषेधस्तथा ऽपि आत्मनो ऽत्यन्ताय भविष्यति न हि प्रतिषेधान्तरधर्ममवश्यं प्रतिषेधान्तरमनुबध्नातीत्यत आह ।
सर्वश्चायमिति ।
उपपादितमेतदधस्ताद् यथा चाननुभूतमशक्यमारोपयितुमिति न क्व चिदात्मन्यन्याधारत्वमुक्तं पिण्डाद्याधारा इति ।
पृच्छति ।
किमयमिति ।
(337।2) यन्न क्व चिदस्ति तदत्यन्तमसद् तथा चायं तस्मादत्यन्तमसन्निति भावः ।
उत्तरं न नास्तीति ।
न तावन्न क्व चिदस्तीति वाक्यमात्मानं स्वरूपेण निषेधति देशरूपविशेषप्रतिषेधात् ।
शङ्किता आह ।
केयं वाचोयुक्तिरिति ।
उत्तरवाद्याह ।
एषा वाचोयुक्तिरिति ।
एषा वक्ष्यमाणार्था ।
तदर्थमाह ।
यद्यथाभूतमिति ।
न हि पदार्थानां सत्ता देशबलेन व्याप्ता येन देशवत्त्वं निवर्त्तमानं तां निवर्त्तयेदिति भावः ।
न च कालविशेषप्रतिषेधो ऽपीति ।
कालान्तरप्रतियोगी एकैकः कालः कालविशेषः तत्प्रतिषेधो ऽप्यात्मन्ययुक्तः
न हि यथा घटादिष्ववच्छेदार्थः कालः तथा नित्य आत्मनि ।
प्रध्वंसाभाववान् घटः खल्वासन्नि तथात्वा प्रागभाववान् घटो भविष्यति न तथा आत्मा ।
अतीतप्रागभावो ऽनागतप्रध्वंसः
घटो वर्तमानो न च तथा आत्मा तस्मान्नास्यावच्छेदार्थेन त्रैकाल्यमुपावर्तते ।
अतीतानागतव्यपवृक्तवर्त्तमानक्रियाव्यङ्न्यः कालो ऽस्ति सदा नित्यानां यतो ऽस्त्यात्मा विद्यते व्योमेति तस्मादवच्छेदकत्रैकाल्याप्राप्तेः
न त्रैकाल्यप्रतिषेधः ।
अतीतानागतव्यप्रवृक्तक्रियाव्यङ्न्यस्य च वर्तमानस्याशक्यनिषेधत्वाद् नात्मनि कालप्रतिषेध इति स्थितम् ।
आत्मप्रतिषेधं चेति आत्मेति हि पदं लोकसिद्धं पद्यते ह्यनेन कश्चिदर्थः येन न कश्चिदर्थः पद्यते तदपार्थकं भवितुमर्हति ।
किमसतः सता साधर्म्यमिति ।
तर्हि भवतां सिद्धान्ते सर्वोपाख्यारहितमसंत्प्रमेयमपीति भावः ।
अथ शरीरादेरात्मत्वं कल्पितं निषिध्यते शरीरादयो नात्मान इति तत्राह ।
आत्मसामान्यं चेति ।
अथ शरीरादीति ।
अहङ्कारस्तावत्परमार्थतः शरीरादिविषयः स्थूलो ऽहं गोरो ऽहमिति प्रत्ययात ।
तमिममात्मेति कल्पयित्वा विपर्यस्यति तदनुरूपं व्यपदिशति व्यवहरति च ।
सो ऽयं विपर्ययः प्रतिषिध्यते नास्त्यात्मेति ।
निराकरोति ।
एवं शरीरादीति ।
( 338 । 1 ) न ह्यहङ्कारसमारोपविषयसत्त्वमनभ्युपगच्छतः समारोप उपपद्यते तस्मात्तत्प्रतिषेधतो व्याघात
इत्यर्थः ।
चतुर्णामुपादानरूपत्वात् तमस
इति ।
रूपरसगन्धस्पर्शाश्चत्वारो घटादिरूपेण परिणतास्तेषामुपादानरूपं न भ इति उपादीयतैत्युपादानम् ।
उपादेयरूपत्वादिति क्व चित्पाठःसतु सुसमः ।
सो ऽयं वात्सीपुत्राणां वैभाषिकाणां सिद्धान्तः तेन विरोध इत्यर्थः ।
सुगममन्यत् ।
अथायं भावप्रतिषेध इति ।
(339।16) न जन्मात्रप्रतिषेधो ऽपि तु आत्मानो भावः सत्ता प्रतिषिध्यत इत्यर्थः ।
स्वतन्त्रस्य धर्मस्य समवायादन्यस्यादर्शनादिति ।
निकायो देवमनुष्यतिर्यगादीनामनौत्तराधर्येणावस्थितः संघातः तद्विशिष्टाभिरित्यर्थः ।
कार्यं कारणं वेति ।
( 340 । 14 ) यदि विषाणमवयवस्तदा कारणं यदि तु केशनखादितुल्यत्वेनानारम्भकत्वान्नावयवस्तदा कार्यं तस्मात्तत्प्रभवतीति ।
उक्तमप्यर्थं पुनर्विकल्पयन् पर्यनुयोगार्थमाह ।
इदं शशविषाणं नास्तीति ब्रुवाण इति ।
सामान्यप्रतिषेधो विषाणसम्बन्धमात्रप्रतिषेध इति ।
विशेषप्रतिषेधः कार्यकारणभावलक्षणसम्बन्धप्रतिषेध इति ।
विषयस्वभावभेदानुविधायीति ।
अहमिति विज्ञानं मानसं विषथस्यात्मनो यः स्वभावभेदः कर्तृत्वभोक्तृलक्षणो जाने ऽहं भुञ्जैत्यादिस्तदनुविधायि ।
एतदुक्तं भवति न केवलमात्मस्वरूपमात्मज्ञानस्य विषयस्तथा सति परसमवेतक्रिया फलशालित्वाभावेनात्मनः कर्मत्वाभावेनाकर्मतया तद्व्याप्यज्ञानस्यापि निवृत्तिप्रसङ्गात् ।
यदा तु धर्मवदात्मविषयं ज्ञानं भवति तदा धर्माणां परसमवेतकियाफलशालितया तद्व्याप्तस्य ज्ञानस्यापि निवृत्तिरिति ।
जानातिश्चात्मधर्मकर्मा आत्मानमपि गोचरयतीति सूक्तं विषयस्वभावभेदानुविधायीति ।
अहङ्कारालम्बनेति ।
( 341 । 16) आलम्ब्यते अनेनेत्यालब्नं ज्ञानमहङ्कारेण च विषयिणा विषयमुपलयति ।
देशयति ।
ननु भवत्यहं गौर इति ।
परिहरति न भवतीति ब्रूम इति ।
न व्यपदेशमात्रं देहाद्यव्यतिरिक्तात्मसद्भावसाधनमस्माभिरुक्तं येनानैकान्तिकं भवेत् ।
अपि त्वनुभवः ।
स च न शरीरादिष्विदमो विषयेष्वस्ति ।
अपि त्संभिन्नेदंविषयो ऽहंप्रत्ययः शरीरादयस्तु मतुब्लोपादभेदोपचाराद्वा ऽहमा विषयीक्रियन्ते ।
ममात्मेति तु व्यपदेशमात्रं न पुनः शरीरादिष्विव मकारस्तत्र मुख्यो भेदेनाप्रतिभासनात् ।
राहोः शिर इतिवत्तु ममकार आत्मनि द्रष्टव्यः ।
अत एवाह ।
ममप्रत्ययेति ।
(342।2) न पुनर्ममकारमात्रं तस्मात्सर्वं रमणीयम् ।
विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिर्बाधितेति यांवत् ।
कः साधनार्थ इति ।
कः साधनशब्दस्यार्थः ।
अथानुपलब्धिरपि नास्तीति ।
भावरूपो धर्मो ऽसति विरुध्यते नासद्रूप उभयोः समानशीलत्वादित्यर्थः ।
निराकरोति ।
कः साधनार्थो ऽनुपलब्धेरिति ।
असत्यास्तुच्छाया अनुपलब्धेः कः साधनत्वरूपो ऽर्थ इत्यर्थः ।
शङ्कते ।
अथ कल्पितस्येति ।
(343) नापलब्धिस्तुच्छा किं तु तत्त्वान्तरं सत् सा तु कल्पिताश्रयतया नाश्रयासिद्धेत्यर्थः ।
एतद्विकल्प्य निराकरोति ।
कथं कल्पितस्येति ।
न हि तात्त्विक्यनुपलब्धिः परमार्थसदाश्रया कल्पितसत्त्वस्य धर्मिणो धर्मो भवितुमर्हतीत्यर्थः ।
द्वितीयं कल्पमाशङ्कते ।
अथासत्त्वेनेति ।
निराकरोति ।
सिध्यत्यनुपलब्धिरिति ।
असत्त्वेन कल्पितस्पय पारमार्थिकं सत्त्वमनुमन्तव्यम् ।
असत्यसत्त्वकल्पनाया अयोगात् तथा च भावाश्रयानुपलब्धिस्तात्विकी सिध्यत्येव ।
यदर्थं त्वसौ तदेव पारमार्थिकमसत्त्वमात्मनो न सिध्यति असत्त्वस्य काल्पनिकत्वाभ्युपगमाद्भवद्भिरित्यर्थः ।
अपि चायमसत्वेन सन्तमात्मानं कल्पयित्वा ऽत्यन्तासत्वमनुपलब्धेरस्य साधयितुमध्यवसितः ।
तच्चास्य सधर्मेणानुपलब्ध्या न सिध्यति ।
न जातु स्थाणुधर्मेण कल्पितेन पुरुषे स्थाणुत्त्वं पारमार्थिकं शक्यं साधयितुमित्याह ।
किमर्थं चायमात्मेति ।
रूपादिशब्देभ्यो ऽन्यत्वे सतीति ।
यदि हि पदत्वादित्युच्यते रूपादिशब्दैरनैकान्तिकं स्यादत उक्तम् ।
रूपादिशब्देभ्यो ऽन्यत्वे सतीति ।
यद्येकपदत्वादित्युच्येत रूपादिशब्दैरनैकान्तिकं स्यादत उक्तं रूपादिशब्देभ्यो ऽन्यत्वेसतीति ।
तथा ऽपि रूपविज्ञानवेदनासंज्ञासंस्कारा इत्ययं शब्दो रूपादिवाचको यः शब्दो रूपं वेदना संज्ञा विज्ञानमित्यादिस्ततो ऽन्यो ऽसमस्तादन्यः समस्त इति तेनानैकान्तिकत्वमत

उक्तमेकेति ।
तेन रूपादिवाचकैकपदव्यतिरिक्तं यदेकपदं तद्रूपादिव्यतिरिक्तस्य वाचकं यथा घटादिपदं तथा चात्मपदं तस्मात्तदपि तथेति ।
एतेनेति ।
आत्मशब्दसाध्यत्वेनैवासंभिन्नेदंप्रत्ययो ऽहंप्रत्ययो व्याख्यातः ।
शङ्कते असिद्ध इति ।
घट इति रूपादय एवैकोदकाहरणावच्छिन्ना उच्यन्ते ।
न तु रूपाद्यतिरिक्तो घटो नाम कश्चिदस्तीत्यर्थः ।
निराकरोति ।
अत्रोक्तमिति ।
उपादेयरूपत्वात्तमस
इति ।
यथा दाय इति देयमुच्यते एवमुपादायेत्यनेनोपादेयमिति ।
सविषयत्वं सद्विषयत्वं सिद्धान्तिनोक्तमिति मन्वानश्चोदयति तमः शब्दस्य सविषयत्व
इति ।
यद्यप्यभावविषयत्वे ऽपि न निर्विषयत्वं तथा ऽपि देशकाभिमानमनुविदधानः परिहरति न सूत्रार्थे पुनर्दृष्टान्तो नास्तीति ।
(344।10) पूर्वमात्मानुपकारकत्वे साध्ये दृष्टान्ताभाव उक्तः पुनरिहोच्यैत्यर्थः ।
देशयति ।
अथात्मशब्द इति ।
यो योवर्णात्मकः ससर्वो ऽनित्यविषयो यथा घटादिशब्दः
तथा चानित्यत्वे सति तद्विज्ञानमेव स्यान्नात्मेति फलत आत्मप्रतिषेध इत्यर्थः ।
एतदपि दूषयति ।
तथापीति ।
नित्यशब्दस्तावन्नित्यमाचष्टे अन्यथा न तत्प्रतिषेध इत्यर्थः ।
शङ्कते अथेति ।
सिद्धसाधननिवृत्त्यर्थं शरीरादिव्यतिरिक्तविषय इति ।
निराकरोति तथापीति ।
रूपादिस्कन्धपञ्चकातिरिक्तं नास्तीति भवतां राद्धान्तस्तदतिरिक्ताभ्युपगमेन विरुध्यतैत्यर्थः ।
यदि विवक्षितार्थव्यतिरेकेणेति ।
(345।8) वादिनो हि शरीरेन्द्रियबुद्धिवेदनासंघातस्पय पारार्थ्यं विवक्षितं परार्थाश्चक्षुरादय
इति ब्रुवतोपव न संघातपरार्थत्वं तच्चेह पक्षधर्मताबलात्सिध्यदस्याभिप्रायेण व्याप्यते न तु साक्षाद्विवक्षितं तद्वदिहाभिप्रायव्याप्तं विवक्षितमारोप्य यद्यन्वयविरोधौ देश्येते ततः सर्वानुमानोच्छेदः एतच्चेश्वरसिद्धौ निपुणतरमुपपादयिष्यते ।
अथानुमानेन बाध्यत--इति ।
संघातत्वानुमानमेवाभिप्रेतविपरीतसंघातपरार्थत्वपक्षो व्यवस्थालक्षणानिष्टप्रसङ्गरूपतर्कसहायमस्य बाधकं प्राणादिसत्त्वानुमानं चेति ।
एकदेशेन च एकदेशान्तराणामिति ब्रुवतो वार्तिककारस्य गृहप्रप्रासादायतो नावयविनो विजातीयानामनारम्भकत्वादित्यभिमतम् ।
अकार्यकारणभूतानां चेति ।
(347।19) यथा हि कालाक्षीं गामीक्षितवतः स्वस्तिमत्यां गवि भवति प्रतिसंधानं न चैतयोरस्ति कार्यकारणभाव
इत्यर्थः ।
स्वं चैतन्यं त्वात्मनः स्वातन्त्र्ये सत्त्यव्यवस्थानाच् चक्षुरादिवदिति हेतुः प्रमाणसंशयविपर्ययस्मृतिषु यो ऽनुस्यूत
एक उपलभ्यते स चेतनः स्वातन्त्र्ये सत्यव्यवस्थानात् ।
यस्त्वचेतनो नासौ स्वातन्त्र्ये सत्यवस्थितो यथा चक्षुरादिरिति व्यतिरकी हेतुः ।
यद्यव्यवस्थानादित्येतावन्मात्रमुच्येत ततो मनसानैकान्तिकं स्यादत उक्तं स्वातन्त्र्ये सतीति ।
अथ वा कृतमव्यवस्थानेन स्वातन्त्र्यमेव केवलमस्तु चैतन्यसाधनमित्याह ।
नाचेतन
आत्मेति ।
प्रमाणंसशयविपर्ययस्मृतिष्वनुस्यूतमनुभूतम्
उपलक्षयति ।
निराकृतमप्यर्थं प्रकारान्तरेण पुनरुपन्यस्य निराकरोति ।
पृथिव्यादिनित्यत्वसाधन इति ।
भाष्यं भिन्ननिमित्ताविति ।
भिन्नमिन्द्रियं निमित्तं ययोः, अनन्तकर्तृकौ--आत्मैककर्तृकौ,
समानविषयौ--द्रव्यमेकं विषय इत्यर्थः

7.2

न्य्स्_3,1.2: न विषयव्यवस्थानात् ॥
पूर्वपक्षसूत्रम्--- न वि--त् (सू. 2) ॥ यद्भावाभावानुविधायिनौ ज्ञानभावाभावौ तच्चेतनम् ।
इन्द्रियभावाभावानुविधायिनौ ताविति तदेव चेतनमिति भावः ।
सिद्धान्तभाष्यं संदिग्धत्वादहेतुः अनन्यथासिद्धावन्वयव्यतिरेकौ कारणत्वामात्रे प्रमाणं न तु कर्ता न चेतनश्चेतनं करणमित्यत्रेत्यर्थः

7.3

न्य्स्_3,1.3: तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेधः ॥
विषयव्यवस्थानं च विरुद्धमिन्द्रियादीनामचैतन्यस्य साधनादित्याह ।
यच्चोक्तमिति ।
तद्व्य--धः (सू.3) ॥
सर्वज्ञ इत्यस्य विवरणं सर्वविषयग्राही सर्वेषामिन्द्रियाणां च ये विषयास्तद्ग्राही इन्द्रियान्तराणि प्रमाणान्तराणि च पुनर्व्यवस्थितविषयाणि तेनार्वागपि सर्वज्ञ इति सिद्धम् ।
तत्रेदमभिज्ञानमिति ।
असाधारणं चिन्हमभिज्ञानमुच्यते तच्चाप्रत्याख्येयमनुभवसिद्धत्वात् ।
चेतनवृत्तमभिज्ञानमप्रत्याख्येयमुदाह्रियत
इति योजना ।
अनियतपर्यायमनियतक्रममित्यर्थः ।
अनेकविषयमर्थजातमिति ।
अनेकपदार्थो विषयो यस्यार्थजातस्य तत्तथोक्तम् ।
क्व चित्पाठो ऽनेकविषयमर्थजातमिति स सुगम
एव ।
आकृतिमात्रं त्विति ।
सामान्यमात्रमित्यर्थः ।
तदेतच्चेतनवृत्तं देहादिभ्यो व्यावर्तमानं तदतिरिक्तं चेतनं साधयतीति स्थितं नेच्छाद्याधारत्वं देहादीनामिति

7.4

न्य्स्_3,1.4: शरीरदाहे पातकाभावात् ॥
सूत्रान्तरमवतारयति भाष्यकारः इतश्च देहादिव्यतिरिक्त आत्मा न देहादिसंघातमात्रमिति ।
शरीर--वात् (सू. 4) ॥
प्राणातिपाते पातकाभावप्रसङ्गादिति ।
अयं यद्यपि भूतचैतनिकानां नानिष्टप्रसङ्गस्तथा ऽपि शाक्यान्प्रति द्रष्टव्यः ते हि प्राणातिपातकृतं पातकमिच्छन्ति ।
एवं च न बुद्धिरात्मेति वक्तव्ये देहादिग्रहणं विचित्राभिसंधित्वात्पुंसां,
यदि कश्चिद्भूतचैतनिकः प्राणातिपातकृतं पातकं नेच्छेत्तं प्रति दूषणं भवत्वेवमर्थमिति मन्तव्यम् ।
वार्तिकम् ।
अकृतकृताभ्यागमनाशदोष
इति ।
(350।17) येनाकृतं कर्म प्राणातिपातः तस्य पातकाभ्यागमो येन च कृतं तस्य नाश
इत्यर्थः ।
शास्त्रचोदितं फलमनुष्ठातरीत्ययमुत्सर्गो यत्र पुनः शात्रमन्यस्य फलमाह यथा श्राद्धे वैश्वानरीयेष्ट्यादौ तत्र भवतु पुत्रकृतस्य श्राद्धस्य पितृगामि फलं पितृकृताया वा जातेष्टेः पुत्रगामि फलमिति ।
भावना स्मृतिहेतुः संस्कारः ।
यत्कायेति ।
(351।2) येन कायेनोपलक्षितः कश्चिच्चित्सन्तानः कायान्तरवर्त्यपि फलं भुङ्क्तित्यर्थः ।
एकनिमित्तानां प्रत्ययानां प्रतिसंधानादिति ।
उक्तमेतद् यथा नर्तकीभ्रूलताभङ्गे एकस्मिन् बहूनां प्रतिसंधानमिति ।
सर्वावस्थोपलब्धेरिति ।
(352।7) सर्वावस्थासु बीजावयवानामुपलब्धेः परमाण्ववस्थत्वे त्वनुपलम्भः स्यात् ।
तस्मान्न बीजावयवाः पच्यमाना अङ्कुरोत्पत्तौ परमाण्ववस्था भवन्ति ।
अपि त्ववयविन एव पच्यन्तैत्यर्थः ।
परमाण्ववस्था बीजावयवा न बीजत्वादिजातिविशेषवन्तमारब्धुमर्हन्तीत्युक्तं सिद्धान्तिनेति मत्वा दर्शयति ।
यदि तर्हीति ।
परिहरति नानेनैवोक्तोत्तरत्वादिति ।
प्रतिसंधानाय बीजत्वजातीयानवयवान् लक्षितुमस्माभिर्बीजावयवानां परमाण्वन्तो विभागो निषिद्धः कल्पादौ त्वारम्भे परमाणूनां न प्रतिसंधानमस्ति न हि पूर्वसर्गे ये बीजमारेभिरेव सांप्रतमपि त एवारभन्ते नान्य इति प्रतिसन्धाननियमः
अपि त्वन्येभ्यो ऽपि भवन्तीति भावः ।
पैलुकण्ठःशङ्कते ।
आमध्यात्पाकानुपपत्तिरिति चेत् ।
परिहरति नाप्रतिबन्धादिति ।
सान्तराण्येवावयविद्रव्याणीत्यर्थः ।
अथायमवयवानुप्रवेशो द्रव्यस्य विनाशकः कस्मान्न भवतीत्यत आह ।
यदि चायमवयवानुप्रवेश
इति ।
( 353 । 6 ) भाजनगतानामपां भाजनविनाशे ऽवस्थानमेव न स्यात् ।
सान्तरत्वे तु तावत्य
एवापो भाजने स्पन्दन्ते यावतीभिर्बहिः शीतस्पर्शोपलब्धिर्भवति मात्रया च तत्र कालपरिपाकवशादनवस्थानमपि विनाशे तु सहसानवस्थानमपां भाजनगतानां भवेदित्यर्थः ।
व्यवहिते द्रव्ये स्फटिकभाजने न तुल्योपलब्धिरिति शङ्कते ।
सुखी स्यामिति तत्क्रियेति चेत् ।
यद्यपि विशरारवः स्कन्धास्तथा ऽप्यनाद्यविद्यावासनावशो ऽयमेकमहङ्कारास्पदं सत्त्वं मित्यभिमन्यमानः सुखी भवेयं दुःखी मा भूवमिति तृष्णक् प्रवर्त्ततैत्यर्थः ।
निराकरोति तन्नाननुभूतत्वादिति ।
यथा च क्षणिकानां विज्ञानानां परस्परवार्त्तानाभिज्ञतया न प्रतिसंधानक्षमत्वं तथोपपादितमस्माभिरात्मलक्षणावसर इति ।
नानागतानामनुत्पत्तेः सत्त्वादिति (354।17) न च ब्रह्मचर्यादिपरिपाकसहितेन ज्ञानक्षणेनासमर्थो ज्ञानक्षणो जन्यते स च न ज्ञानान्तरं प्रसूतैत्यनागतानुत्पत्तिरसमर्थस्य च क्षणस्य स्वभावतो विनाश इति युक्तम् ।
असमर्थक्षणोत्पादस्यैव सहकारिसापेक्षत्वानपेक्षत्वानुपपत्तेः ।
यथा चैतत्तथा क्षणभङ्गभङ्गावसरे उपपादयिश्यते

7.5

न्य्स्_3,1.5: तदभावः सात्मकप्रदाहेपि तन्नित्यत्वात् ॥
वैनाशिको नैयायिकपक्षवत्सांख्यपक्षे ऽपि हिंसातत्फलानुपपत्तिमापादयितुं हिंसां तत्फलसंभवं पूर्वपक्षयति ।
इयं तु हिंसेति (355।7) व्यक्तेरिति ।
सदेव कार्यं कारणेन व्यज्यते न त्वसत् क्रियतैत्यर्थः ।
परिहरति नेति ।
त्रिविधो ऽप्ययं धर्मलक्षणावस्थापरिणामो नित्यात् धर्मिणो न भिद्यते इति परिणामानित्यत्वं धर्मिनित्यत्वेन विरुध्यते ।
अविरोधाय वा धर्मिणो ऽनित्यत्वाभ्युपगमे वैनाशिकपक्षोक्तदोषप्रसङ्ग
इत्यर्थः ।
गुण इति ।
ऋजुत्ववक्रत्वे खलु गुणौ प्रचयसंयोगविभागविशेषौ सत्येव द्रव्यारम्भकसंयोगे उदयव्ययवन्तावनुभूयेते इति तदेतद्
नैयायिकपक्षदूषणं सांख्यपक्षे ऽप्थापाद्य नैयायिकं पृच्छति अथात्मनो नित्यस्येति ।
(356।10) नैयायिक
आह ।
सुख दुःखे इति ।
नित्यादात्मनो व्यतिरिक्ताभ्यां पुण्यपापाभ्यामात्मधर्माभ्यामनित्याभ्यामात्मधर्मावेव सुखदुःखे जन्येते इत्यर्थः ।
एतदुक्तं भवति ।
नित्यस्यानित्यधर्माधानमेवोपकारो न तु नित्यस्वरूपकरणं येन तदनित्यं स्यात् ।
धर्मश्च धर्मिणो भिन्नो न तु धर्मिस्वभावः ।
यथा च भेदाविशेषे सत्यपि वह्निधूमयोरेव कार्यकारणभावो न वह्निक्रमेलकयोर्वस्तुस्वभावनियमात् ।
एवं भेदाविशेषे ऽपि आत्मनः पुण्यपापयोरेव धर्मधर्मिभावो नात्माकाशयोः पुण्याकाशयोर्वेति लेशमात्रमन्नोक्तं विस्तरस्तु क्षणभङ्भङ्गे भविष्यतीति ।
नानेकान्तादिति ।
वाद्यभिमतपरमाणुनित्यत्वग्राहिप्रमाणदार्ढ्येनानैकान्तिकत्वमुक्तं न तु बौद्धराद्धान्ते नित्यः परमाणुरिति ।
अत एवापरितोषेणान्यथासिद्धिमाह ।
चर्मणश्चानित्यत्वमिति ।
तद्वतां चोपलादीनामवस्थानादिति ।
नासति विनाशप्रत्यये विनाशे ऽस्ति किं चित्प्रमाणम् ।
उपलादिषु चावयवविभागविनाशाभ्यां प्राग् न विनाशो ऽनुभूयते क्षणभङ्गभङ्गश्च निषेत्स्यत इति भावः ।
आरब्धकार्याणां द्रव्यान्तरानारम्भिका इति ।
(357।15) अवयव्यारम्भकात्संयोगाद्भेद
उक्तः ।
विक्रियायां च दृष्टान्ताभाव इति ।
धर्मोत्पादमन्तरेणाविनश्यतो धर्मोत्पादमन्तरेणाविनश्यतो धर्मिस्वरूपस्य विक्रियायामित्यर्थः ।
शङ्कते यद्येवमिति ।
यद्येवंभूतोप विकारः यादृशो घटादीनां श्यामतानिवृत्तौ लोहितोत्पादे विकारस्तादृशो नात्मन इति यदि शङ्कतैत्यर्थः ।
निराकरोति ।
आत्मन्यपीति ।
न बाह्येन्द्रियग्राह्य एव विकारो ऽपि तु धर्मान्तरोत्पादमात्रं तच्चात्मन्यप्यस्तीति

7.6

न्य्स्_3,1.6: न कार्याश्रयकर्तृवधात् ॥
वैकल्यं वा प्रमापणं वेति ।
( 358 । 8 ) यथा शरीरमुपध्नन् हिनस्त्येवं चक्षुराद्युत्याटयन् हिनस्त्येवेति ।
पृच्छति कुत एतदिति ।
स्वरूपतो हिंसासम्भवे भाक्ती हिंसा न युक्तेति वैनाशिकस्नयाभिसन्धिः ।
उत्तरं हिंसाफलोपभोगस्येति ।
वैनाशिकस्यापि विशरारूणां भावानां न स्वरूपहिंसा कारणजन्येति विलक्षणोत्पादो हिंसेति वक्तव्यं तत्र कारणव्यापारसम्भवात् तथा च तत्रापि हिंसाभाक्तीति भाक्तत्वस्योभयत्राप्यविशेषाद्
यस्मिन्पक्षे कृतहानमकृताभ्यागमदोषो नास्ति स पक्षो ऽभ्युपेतव्यः ।
स च नित्यत्त्वपक्षः
तस्मात्पारिशेष्यात्तत्सिद्धिरिति ।
ज्ञानचिकीर्षाप्रयत्नानां समवायः कर्तृत्वमिति ।
( 359 । 3 ) उपायतद्व्यपापाराणामनभिज्ञो हि चिकीर्षन्नपि न कर्ता एवमभिज्ञो ऽप्पयचिकीर्षन्
तथा चिकीर्षन्नप्यलसतया अप्रयतमानो न कर्त्तेति ।
सुखदुःखसंवित्समवाय इति ।
स्वसुखदुःखेति द्रष्टव्यम् ।
अस्ति हि परकीयसुखदुःखसाक्षात्कारो योगिनां न चैते भोगिनः

7.7

न्य्स्_3,1.7: सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ॥
इतश्च देहादिव्यतिरिक्त आत्मा कुतः ।
सव्य--त् (सू. 7) ॥
तत्र मानसमनुव्यवसायलक्षणं प्रत्यभिज्ञानं भाष्यकारो दर्शयति ।
तमेवैतर्हीति ।
व्यवसायं बाह्येन्र्दियजं प्रत्यभिज्ञानमाह ।
स एवायमर्थ इति ।
अस्यैवपव चानुव्यवसायः पूर्वः

7.9

न्य्स्_3,1.8: नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ॥
तदेतच्चक्षुरैक्येनाक्षिपति ।
नैक--त् (सू. 8) ॥
न्य्स्_3,1.9: एकविनाशे द्वितीयाविनाशाद् नैकत्वम् ॥
समाधत्ते ।
एक--त्वम् (सू. 9) ॥
विनाशाविनाशलक्षणविरुद्धधर्माध्यासान्नानात्वमित्यर्थः

7.11

न्य्स्_3,1.10: अवयवनाशे ऽप्य् अवयव्युपलब्धेरहेतुः ॥
आक्षेप्ताह ।
अव तुः (सू. 10) ॥
न्य्स्_3,1.11: दृष्टान्तविरोधादप्रतिषेधः ॥
समाधाता आह ।
दृष्टा--धः (सू. 11) ॥
तृतीयं व्याख्यानमाह ।
अथ वा एकविनाशस्यानियमादिति ।
एकत्वे चक्षुषो विनाशनियमो न स्यात् ।
सव्यस्यैव चक्षुषो न दक्षिणस्येति ।
एकत्वात्सव्यविनाशे दक्षिणस्यापि नाशप्रसङ्गात् ।
दृश्यते चायं नियमः ।
तस्माद्
द्वावर्थौ पृथगावरणौ पृथगुपधातौ चेति ।
अपि च यदि चक्षुरेकं सव्येन नासावंशेनावपीडितं ततोङ्गुल्या ऽवपीडितं यथैकं भिन्नभिवावभासयति ।
अवपीडनेनिवर्तमाने भिन्नावभासौ तावर्थौ संदधातीति ।
तथा नासावंशावपीडितं भिन्नमिव दर्शयेत् तन्निवृत्तौ सन्दध्यादिवेत्याह ।
अवपीडवनाच्चैकस्य चक्षुष इति ।
रश्मिभेदाद्विषयसन्निकर्षस्य भेद इत्यर्थः ।
अङ्गुल्यवपीडितेन चक्षुषां दृष्टान्तेन विरोधादित्यर्थः ।
एकविनाशेनेतरविनाशो वा दृष्टान्तः ।
तेन विरोधादिति।व स खलु दृश्यमानश्चैकान्तावधारणादतश्चेति दृष्टान्त
इति सूत्रार्थः ।
तदेतत्प्रकरणं वार्त्तिककारो दूषयति ।
सिद्धत्वादनारम्भ इति ।
युक्तो ऽन्यः समुच्चयः शास्त्रे ।
अयमभिसन्धिः ।
काणस्तथा न पश्यति पिहितैकलोचनो वा यथा ऽविकलेन्द्रियः ।
तत्र यदि सव्यदक्षिणाधिष्ठानभेदभिन्नं चक्षुर्न्न चैतद् द्वयमणुना मनसा युगपदधिष्ठातुं शक्यमित्यन्यतरदधिष्ठेयम् ।
तथा च सर्व
एवैकैकेन पक्षुषा पश्यतीति पिहितैकलोचनेनातुल्योपलम्भः
अविकलाक्षस्य स्यात् ।
न चैवमस्ति एकत्वे तु तदुभाभ्यामधिष्ठानाभ्यां विनिर्यत्क्व चिदपि मनसा ऽधिष्ठितमेवेत्यविकलाक्षस्य न विकलाक्षवदुपलम्भप्रसङ्गः ।
तस्मादेकमनेकाधिष्ठानं चक्षुरिति ।
प्रकरणविरोधश्चेन्द्रियपञ्चत्वादिति (360) ।
न चैतदेकस्मिन् शरीरे जात्यभिप्रायं प्राणादीनां व्यक्तीनां चतसृणां व्यक्त्यन्तरेण समभिव्याहारोपपत्तेर्न तु जात्या न हि भवति ब्राह्मणयुधिष्ठिरावागताविति किं तु ब्राह्मणराजन्याविति वा वशिष्ठयुधिष्ठिरावितिवा ।
विनष्टे ऽप्येकस्मिन्नधिष्ठाने यो ऽविनष्टो ऽवशिष्यते तेन प्रत्ययमात्रं कारणस्येव भवति ।
न च नासावंशावपीडितेन सर्वेषां सर्वदा सर्वत्र द्विचन्द्रवद्विभ्रमप्रसङ्गः ।
आगन्तुकामवपीडनं भ्रमहेतुर्नौत्पत्तिकमिति कार्यदर्शनात्कल्प्यते

7.12

न्य्स्_3,1.12: इन्द्रियान्तरविकारात् ॥
तदेवं प्रतिसन्धानद्वारेणात्मनि प्रत्यक्षं प्रमाणयित्वा अनुमानमिदानीं प्रमाणयति ।
अनुमीयते चायमिति ।
( 361 । 15 ) विप्रतिपन्नं हि प्रति यतिसन्धानमुक्तं परमार्थतस्तु अनुभवानुसारसार्गो ऽयमिति मन्तव्यम् ॥
इन्द्रि--त् (सू. 12) ॥
कस्य चिदम्लचिरबिल्वादेरनुभूतस्य तेन सहचरितं रूपं वा गन्धं वा ऽनुभवति ।
अथ तत्सहचरितं रसमनुस्मरति स्मृत्वा चेच्छति इच्छातो रसनेन्द्रियविकारो दन्तोदकसंप्लवलक्षणः प्रवर्तते तद्दर्शनाच्चास्येच्छानुमीयते इच्छया च स्मृतिः सेयं स्मृतिरसत्यात्मनि सर्वेन्द्रियविषयवेदिनि न भवितुमर्हतीति

7.13

न्य्स्_3,1.13: न स्मृतेः स्मर्तव्यविषयत्वात् ॥
अस्याक्षेपसूत्रम् ।
न स्मृ--त् (सू. 13) ॥ स्मृतिरात्मानं कारणत्वेनावगमपेत्
विषयत्वेच वा ।
न तावत्कारणत्वेन तस्याः संस्कारकारणत्वात् ।
न विषयत्वेन स्मर्तव्यविषयत्वात् ।
स्मृताच्च तस्मादिन्द्रियान्तरविकारोत्पत्तिरित्यर्थः

7.17

न्य्स्_3,1.14: तदात्मगुणसद्भावादप्रतिषेधः ॥
समाधत्तेः
तदा--धः (सू. 14) ॥
असत्यात्मनि स्मृत्यनुत्पत्तिन्दर्शयित्वा स्मर्तव्यार्थविषयैव स्मृतिर्नात्मविषयेति पूर्वपक्षिणो ऽवथारणं खण्डयति ।
अपरिसंख्यानाच्चस्मृतिविषयस्येति (सू. 15) ॥
मानसानुव्यवसायजनितसंस्कारकारणासु चतसृष्वपि स्मृतिषु नार्थमात्रं विषयो ऽपि तु ज्ञानज्ञातृज्ञेयानि सर्व एव विषयाः चतुर्षु वाक्येषु एकत्र ज्ञानं क्रिया कारकान्निष्कृष्टा यथा अमुष्मिन् मम ज्ञानमभूदिति अगृह्यमाणो ऽप्यर्थः स्मृतिसन्निधापनादमुष्मिन्नित्युच्यते कारकादनिष्कृष्टाप्येकत्र पूर्वापरीभूतभावनाप्रधाना ज्ञानक्रियागम्यते अज्ञासिषमहममुमर्थमिति ।
अन्यत्र तु ज्ञानभावने कारकादनिष्कृष्टे कतृप्रधाने यथा ज्ञातवानहममुमर्थमिति ।
अन्यत्र ज्ञानभावने कारकादनिष्कृष्टेकर्मप्रधाने यथा ऽसावर्थो मया ज्ञात इति ।
समानार्थमिति ।
ज्ञानज्ञेयज्ञातृप्रकाशनं समानमित्यर्थः ।
एवं तावदगृह्यमाणेर् ऽथे स्मृतिः प्रदर्शिता ।
अत प्रत्यक्षेर् ऽथे स्मृतिः प्रदर्श्यते ।
अथ प्रत्यक्षेर् ऽथ इति ।
स्मृतिरिति प्रत्यभिज्ञानमाह स्मृतिच्छायावाहित्वात् ।
अद्राक्षमिति ।
पूर्वार्थमर्थदर्शनं परामृषपि तेनार्थदर्शनानुभवः कल्प्यतामनुभवकल्पना तु कुतस्त्येत्यत आह ।
न खल्वसविदिते स्वे दर्शने इति ।
अपि त्वर्थदर्शनं तद्दर्शनं च संविदिते एवेत्यर्थः ।
कुत एतदित्यत आह ।
एतदद्राक्षमिति ।
यस्मादनुभवपुरस्क्षरं यदत्राद्राक्षमिति भवति नूनं तत्रानुभवप्रथा ऽप्यभूदिति कल्पनीयमित्यर्थः ।
इतो ऽपि न शरीरगुणः स्मृतिः बाल्ये अनुभूतस्य वार्धके स्मरणात् ।
अन्यद्धि बालशरीरमन्यच्च वृद्धशरीरमिति ।
आस्तां तावत्प्रत्यभिज्ञातं,
सादृश्यमपि दुर्विज्ञानम् ।
न च परमाणूनां चैतन्यं, ते हि प्रत्येकं वा चेतयेरन् मिलिता वा ।
पूर्वस्मिन् कल्पे अनेकचैतन्ये एकस्मिन् शरीरे नैकमित्यनियमो भवेत् ।
न हि नानाचेतनानामैकमत्यनियमो दृष्टः
मिलितानां तु चैतन्ये परमाणूनामावापोद्वापभेदेन मेलकस्पय नानात्वात्स एवान्योपलब्धस्यान्येन स्मृत्यभावप्रसङ्गः ।
तस्मान्न शरीराधारा चेतनेति ।
परेषां कारिकां दूषयति वार्तिककारः ।
एतेन न तच्चक्षुषि नोरूप इति प्रत्युक्तम् ।
( 263 । 6 ) आत्मनः पारिशेष्यात्सिद्धेः स्मृत्याधारत्वव्युत्पादनेनेत्यर्थः ।
यत्राधिकरणे तज्ज्ञानं निष्ठितं भवेन्न तदधिकरणमस्ति न च नास्तीति व्याहतम् ।
स्यादेतद् नायं विशेषप्रतिषेधो न चक्षुषि विज्ञानं न रूप इति, किं तु ये चक्षुराद्याश्रयं विज्ञानं मन्यन्ते तन्मतं प्रतिषिध्यते ।
आधारवत्तं तु न प्रतिषिद्धमप्रसक्तत्वादित्यत आह ।
कस्य वेति ।
अपि चैषा कारिका आत्माभावविवक्षया प्रयुक्ता आत्मसत्त्वमेव प्रतिपादयन्तो विवक्षितविरुद्धेत्याह ।
अयं च विज्ञानस्येति ।
तदेवं भाष्यमतेनेन्द्रियान्तरविकारादिति सूत्रं व्याख्याय वार्तिककारः स्वमतेन व्याचष्टे ।
अथ वैकस्येति ।
उक्तमेव प्रतिसंधानं पुननिन्द्रियान्तरविकारद्वारेण दर्शयति सूत्रं यथा च प्रतिसंधानं देहेन्द्रियादिव्यतिरिक्तमात्मानं प्रतिपादयति तथा ऽध स्तादेव विवृतमित्याह ।
उक्तन्यायमिति ॥ 12-15 ॥
न्य्स्_3,1.15: नात्मप्रतिपत्तिहेतूनां मनसि संभवात् ॥
न्य्स्_3,1.16: ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् ॥
मतिः स्मृत्यनुमानादिज्ञानम् ।
यद्यपि चेदं प्रातिस्विकसंस्कारादिकारणकं तथाप्यवश्यमेतेनेन्द्रियजेन भवितव्यं ज्ञानत्वाद्रूपादिज्ञानवदिति, तच्चेन्द्रियमसति चक्षुरादौ भावान्मतेश्चक्षुराद्यतिरिक्तं मन
इत्युच्यते ।
ननु भवतु करणान्तरं मनः तत्तु कथमिन्द्रियान्तरसहकारि कथं चाणुपरिमाणमित्यत
आह ।
तच्च ज्ञानायौगपद्यलिङ्गमिति ॥ 15-16 ॥
न्य्स्_3,1.17: नियमश्च निरनुमानः ॥
वार्तिकं यदि सर्वं विज्ञानं समाधनमुच्यते मनस्यपीति ।
( 364 । 17 ) न च तत्र मन एव करणमात्मनि वृत्तिविरोधादिति तदन्यस्य करणत्वे तज्ज्ञानायापीन्द्रियान्तरमुपासनीयमित्यनवस्था,
अनिन्द्रियजत्वे तु मतावपि संस्काराद्येव कारणमस्तीति कृतं मनसेति भावः ।
परिहरति -- ओमितीति ।
यथा कारणसत्तया कार्यं जनितं कारणं ज्ञायते एवं मनःसत्तया मनोलिङ्गज्ञानं जनितं मनो ज्ञापयति ।
तच्च लिङ्गजं मनोज्ञानं मनःसत्ताहेतुकम् ।
न च स्वात्मनि वृतिविरोधः
न हि मनःसत्तायां मनःकरणं मनोज्ञाने वा मनोज्ञानं करणं येन स्वात्मनि वृत्तिविरोधः स्यात् ।
केवलं वा मनः स्वज्ञाने करणं येनैकत्र कर्मकरणत्वे स्याताम् ।
अपि तु मनोज्ञाने लिङ्गज्ञानसहितं मनः करणं तत्स्वरूपं तु लिङ्गज्ञानसाहित्यादिति न स्वात्मनि वृत्तिविरोधः ।
नाप्येकस्यव केवलस्य कर्मकरणभाव
इति भावः ।
स्यादेतद् लिङ्गज्ञानसहितस्य मनसः करणत्वे मा भूदेकस्यैव कर्मकरणभावः स्वरूपेण कर्मत्वाद लिङ्गज्ञानसाहित्येन च करणत्वात् ।
यदा तु योगिना प्रत्यक्षेण मनो गृह्यते तदा कथमेकस्य कर्मकरणभाव
इत्यत आह ।
यस्य तु मनः प्रत्यक्षमिति

7.18

न्य्स्_3,1.18: पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसंप्रतिपत्तेः ॥
शास्त्रार्थभूताभ्युदयनिःश्रेयसोपयोगिनं परलोकं परिचिक्षिषुः परीक्षाहेतु भूतं संशयमाह ।
किं पुनरयमिति ।
( 365 । 8) अत्र वार्त्तिककारः संशयं दूषयन् प्रकरणान्तरारम्भमाक्षिपति ।
एतस्मिन्नर्थ इति ।
देहेन्द्रियबुद्धिवेदनाभ्यो व्यतिरिक्तत्वामात्मनो दर्शयता बाल्यकौमारयौवनवार्द्धकभेदे ऽपि चैकात्मप्रतिसंधानमर्थादुपपादयता शरीरनाशादूर्ध्वमात्मसद्भावो दर्शितः ।
तावता च नः प्रयोजनं तत्किमवशिष्यते यत्र संशयोयत्कृते च प्रकरणोत्थानमित्यर्थः ।
समाधते ।
नानारभ्यमिति ।
सिद्धे ऽपि देहादिव्यतिरेके बाल्यादिषु चानुगमे किमयमात्मा आ शरीरोत्पत्तेरा च प्रायणाद्यावद्देहसंतानभावी आहो खिदुपरते ऽपि देहादिसंताने ऽनुवर्तत
एवेत्येष विमर्षो ऽद्यापि न निराकृत इति तन्निरासायेदं प्रकरणमारभ्यत इत्यर्थः ।
भाष्यं देहभेदादिति ।
ल्यब्लोपे पञ्चमी ।
बाल्यकौमारयौवनवार्धकदेहभेदमभिसमीक्ष्नय प्रतिसंधानादस्यावस्थानं सिद्धमित्यर्थः ।
वार्त्तिकम् ।
अभिप्रेतविषयप्रार्थनप्राप्ताविति ।
अभिप्रेतविषयप्राप्ताविति वक्तव्ये प्रार्थनाग्रहणम् इष्यमाणतमत्वं सूचयति ।
नेष्यमाणप्राप्तौ इर्षो ऽपि त्विष्यमाणतमप्राप्तौ तेनाभिप्रेतविषयस्य प्रार्थनायां सत्यां प्राप्तावित्यर्थः ।
हानानशक्यतेति ।
(366।1) विषयेण विषयिणीं बुद्धिमुपलक्षयति ।
अनिष्टो विषयो मरणादिस्तस्य साधनमहिव्नयाघ्रादिस्तस्योपनिपातः सन्निधानं तस्मिन्सति व्याघ्रादिजिहासोरशक्यहानमेतदिति बुद्धिर्भयं सा हि कस्यापि जनयति ।
इष्टविषयवियोगे सति तत्प्राप्त्यशक्यप्रार्थनो शोकः ।
तस्यैव पुरुषस्य यः प्राप्त्यशक्यः तत्र प्रार्थना शोकः
य इष्टो विषयः प्राप्तुमशक्यस्तत्र प्रार्थना इदं मे उपपद्यतां भवत्विति इत्थंभूता चेयं प्रार्थपना न स्वरूपेण शोक इत्यत आह ।
इष्टविषयवियोगे सतीति ।
अनर्हणेनेति यावत् ।
तदयमर्थः ।
इष्टवियोगे तत्प्राप्त्यशक्यताज्ञानं शोक इति ।
अनर्हणेन प्राप्त्यशक्यताज्ञानं शोचतः सूचयति ।
प्रत्यक्षबुद्धिनिरोध इति ।
प्रत्यक्षग्रहणेन ग्रहणमात्रमुपलक्षयति ।
तदनुगृहीतः स्मृत्यनुगृहीतः ।
तदनुसंधानविषय इति ।
अनुसंधीयतैत्यनुसंधानं स्मृते यदनुसंधेयं तद्विषय इत्यर्थः ।
तथा ऽपि स्मृतिप्रत्यभिज्ञयोरविशेष
इत्यत आह ।
वर्तमानस्य विषयस्य दृश्यस्य तद्भावविषय इति ।
दृष्टो हि निरालम्बनो बालः स्खलन्मातुरङ्कात्पतनस्यानिष्टसाधनत्वमनुस्मृत्येदं च पतनमिति परामृष्य तस्यानिष्टसाधनत्वमनुप्राय रुदन्मातुर्मङ्गल्यभुरः- सूत्रं विक्षिप्य हस्तौ वेपमान उपाददानः तस्यानया चेष्टवया भयशोकावनुमीयेते इत्यर्थः

7.19

न्य्स्_3,1.19: पद्मादिषु प्रबोधसंमीलनविकारवत्तद्विकारः ॥
दृष्टेन विशेषितत्वादिति ।
( 367 । 14 ) दृष्टशब्देन विशेषितो व्यवस्थापितः कार्यकारणभावो न शक्यो व्युदसितुमित्यर्थः ।
अथात्मन उत्पत्तिनिरोधानुमानमिति ।
यद्विकारि तदुत्पत्तिनिरोधधर्मकं दृष्टं यथा पद्मं तथा चात्मा तस्मादनित्य इत्यर्थः ।
यदि धर्मोपजननमात्रं विकारः स आकाशादिष्वपीत्यनेकान्तः धर्म्मधर्मिणोश्च भेदान्न धर्मोपजननापायौ धर्मिणि युज्येते इति नानित्यत्वानुमानं विकारात् ।
अस्माकं स्वात्मनित्यत्वे ऽनुमानमस्तीत्याशयेन नित्यत्वानुमान माह ।
तन्न युक्तमिति ।
सर्वदामूर्तत्वादिति ।
घटादयो ऽप्येकस्मिन् क्षणेभवन्त्यमूर्ताः परिमाणविशेषो हि मूर्त्तिः न च द्रव्यसमानकालोत्पत्तिर्गुणानामिति तन्निवृत्त्यर्थ सर्वदेत्युक्तम्

7.20

न्य्स्_3,1.20: नोष्णशीतवर्षकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् ॥
पञ्चात्मकानां पद्मादीनांव विकाराः पञ्चात्मकविकारा इति

7.21

न्य्स्_3,1.21: प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् ॥
सामान्यतो ऽधिगतस्य विशेषज्ञापनार्थमिति ।
हर्षादिना सामान्यत इच्छामात्रमवगतं तद्विशेषस्तु स्तन्याभिलाषो रागश्चात्रोक्त
इत्यर्थः

7.22

न्य्स्_3,1.22: अयसो ऽयस्कान्ताभिगमनवत्तदुपसर्पणम् ॥
अय--णम् (सू. 22) ॥ न पूर्वाभ्यस्तनुबन्ध एव प्रवृत्तिकारणम् ।
अयसो ऽयस्कान्तोपसपणे तदभावात् ।
यदि च बालकस्य पूर्वाभ्यस्तस्मृत्यनुबन्धो भवेज्जात्यन्धबधिरादयस्तज्जन्मानुभूतान् गन्धस्पर्शान् जात्यन्तरानुभूतान् रूपस्पर्शादीनपि व्याचक्षीरन्नित्यभिप्रायः ।
विकल्प्य दूषयति ।
किमिदमिति ।
( 369 । 2 ) यौवनाद्यवस्थायां चेतनस्य प्रवृत्तिः क्षीरादौ पूर्वाभ्यस्तस्मृत्यनुबन्धहेतुका प्रतीतेति बाल्यावस्थायामपि चेतनस्य तद्धेतुकैव भवितुमर्हति तेन हेतुना चेतनप्रवृत्तेः स्वाभाविकसम्बन्धावगमाद् वह्निनेव धूमस्य ।
एवं व्यवस्थिते यत्र स्मृतेः कार्यं दृश्यते तन्मात्रविषयैव बालस्पय स्मृतिव्यमिति नान्यत्र ।
न च य एक स्मरति तेनापरमपि स्मर्तव्यमिति कश्चिन्नियमहेतुरस्ति येन जात्यन्धबधिरादयो रूपादिभेदान् व्याचक्षीरन् अदृष्टपरिपाकोद्बोधितस्य संस्कारस्य तन्नियमेन नियमोपपत्तेः ।
अद्यत्वऽपि चानुभूतेषु कस्य चिदेव स्मरत्यात्मा न सर्वस्येति

7.23

न्य्स्_3,1.23: नान्यत्र प्रवृत्त्यभावात् ॥
भाष्य न च स्तन्याभिलाषलिङ्गमन्यदिति ।
स्तन्याभिलाषो लिङ्गमस्य निमित्तान्तरस्य तत्तथोक्तम् ।
अन्यत्र लोष्टादौ लोष्टादेरिति यावत् ।
षष्ठीसप्तम्योरभेदार्थत्वात् ।
एतदुक्तं भवति लोष्टादेरन्यस्यायस्कान्तप्रवृत्त्यभावाद
अयसश्च सनिमित्तमुपसर्पणमिति पूर्वं व्याख्यातम् ।
संप्रति त्वन्यथा व्याचष्टे अयसः खल्वपीति ।
निपातसमुदायः कल्पान्तरं द्योतयति

7.25

न्य्स्_3,1.24: वीतरागजन्मादर्शनात् ॥
पूर्वानुभूतविषयानुचिन्तनमिति ।
एकविषयः स्मृतिप्रवाहो विजातीयप्रत्ययासंभिन्नश्चिन्तनं,
तच्चानुभवश्च पश्चाद्भवतीत्यनुचिन्तनं,
न च तत्स्मृतिमन्तरेण भवति, न हि तत्र प्रवाहः प्रवाहिणं विनास्ति तदेवानुचिन्तनं पूर्वानुभूतविषयप्रार्थनार्थः सङ्कल्पः प्रार्थना सङ्कल्पः स च पूर्वानुभूतविषय
इत्यर्थः ।
अथास्मिन्नेवजन्मनि इन्द्रियजो विषयानुभवो ऽन्वयव्यतिरेकावधारितेष्टोपायतासहाकरी कस्माद् रागहेतुर्न भवतीत्यत आह वार्तिक्वकारः ।
न विषयावगमासमर्थेष्विति ।
तदनेन पूर्वानुभवश्च विषयाणामन्यस्मिन् जन्मनीति भाष्यं व्याख्यातम्

7.24

अत्रायमुदितानुवाद इति भाष्यम् ।
तस्यार्थः उदितमिदं चोद्यम् अयस्कान्तदृष्टान्तेन चोद्येन, तथापि तस्यानुवादो निदर्शनार्थः ।
पूर्वमयस्कान्तो निदर्शनमिदानीं तु घटादीनामुत्पद्यमानानां रूपादयो निदर्शनमिति तदर्थमित्यर्थः ।
चोद्यस्योदितानुवादत्वात्परिहारो ऽप्युदितानुवाद
एवेति ।
तन्मयत्वाद्राग इति ।
( 370 । 3 ) अभ्युपेत्यादृष्टकारणत्वं रागादीनां परिहृतं परमार्थतस्तु तन्मयत्वाद्राग
इत्यर्थः ।
स्यादेतद् यदि पूर्वाभ्यस्तस्मृत्यनुबन्धाद्रागादीनामुत्पादो हन्त मनुष्यजन्मानन्तरं प्राप्तकरभभावस्य मनुष्यजन्मोचितानां भावानामानन्तर्यात्तदनुरूपा एव रागादयो भवेयुर्न करभभावानुरूपाः करभजातेरस्य विजातीयजन्मसहस्रव्यवहितत्वादत
आह ।
जातिविशेषाच्चेति ।
कर्मणः संस्कारोद्बोधकत्वात्करभजात्यर्थेन कर्मणा जन्मसहस्रव्यवहितापि करभभावनोद्बोध्यते नानन्तरापि मनुष्यभावना प्रायणाभिभूतेतिभावः

7.25

न्य्स्_3,1.25: सगुणद्रव्योत्पत्तिवत्त्दुत्पत्तिः ? ॥
ननु सगुणद्रव्योत्पत्तिवदिति साधनपक्षे मा भूदनैकान्तिकापादनपक्षे तु को दोष इत्यत आह वार्तिककारः ।
अनैकान्तिकपक्षे सूत्रं न कस्मात् नोक्तोत्तरत्वात् ।
उक्तोत्तरमेतद्यत
इति

7.26

न्य्स्_3,1.26: न संकल्पनिमित्तत्वाद्रागादीनाम् ॥
॥ अपि च मनुष्यत्वेन तुल्यत्वे ऽपि प्रज्ञामेधाप्रकर्षनिकर्षभेददर्शनात् प्राग्भवीयाभ्यासकल्पना अद्यत्वे ऽपि हि शास्त्राभ्यासस्तद्गोचरप्रज्ञामभिवर्धयन्नन्वयव्यतिरेकाभ्यामनुभूयते सो ऽयमिह जन्मन्यकृतशास्त्राभ्यासस्य तद्विषयः प्रज्ञामेधातिशयः प्राग्भवीयाभ्यासातिशयं स्वकारणमवगमयति, जनस्य तिर्यगादिजातिशतव्यवधानपरिम्लानप्राग्भवीयसंस्कारस्य प्रज्ञामेधानिकर्ष इति कल्पनीयं तस्मान्नित्यस्यात्मनः कर्माविद्यानिबन्धनो ऽनादिरेषो ऽ नेकविधशरीरपरिग्रहपरित्यागप्रवाहो ऽपवर्गान्त
इति सिद्धम्

7.28

न्य्स्_3,1.27: पार्थिवं गुणान्तरोपलब्धेः ॥
आत्मानन्तरमुद्दिष्टं शरीरं परीचिक्षिषमाणो ऽवान्तरसङ्गतिमाह भाष्यकारः अनादिश्चेतनस्य शरीरयोग
इत्युक्तम् ।
परीक्षोपयोगिनिर्वेदसाधनत्वमाह ।
स्वकृतकर्मेति ।
परीक्षापूर्वरूपं संशयमाह ।
किं घ्राणादिवदिति ।
एकद्वित्रिचतुःपञ्चप्रकृतिकतामास्थिषत शरीरस्य वादिनः सो ऽयं संख्याविकल्पः ।
अत्र वार्तिककारः स्वातन्त्रयेण शरीरपरीक्षायां सङ्गतिमाह ।
आत्मानन्तरमिति ।
भाष्यमतेन सङ्गतिमाह ।
अथ वेति ।
अवान्तरसङ्गतेस्तात्पर्यमाह तस्मिन् परीक्ष्यमाण इति ।
मानुषं शरीरं पार्थिवं गन्धवत्त्वात् पार्थिवपरमाणुवदिति ।
न कारणं कार्यस्यात्मा तत्कथमेकात्मकमित्यत
आह ।
एकात्मकमित्येकस्वभावं स्वो भावो भवितॄणां जातिः एकजातीयसमवायिकारणत्वे हि तत्त्देकजातीयं स्याद् नान्यथेत्यर्थः ।
परोक्तान् हेतूनन्यथासिद्धयिष्यप्रथमं तावत्सुहृद्भावेनाह नत्विदमबादिभिरिति ।
( 371 । 3 )
न्य्स्_3,1.28: पार्थिवाप्यतैजसं तद्गुणोपलब्धेः
न्य्स्_3,1.29: निःश्वासोच्छ्वासोपलब्धेश् चातुर्भौतिकम्
न्य्स्_3,1.30: गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम्
परोक्तसाधनमन्यथासिद्धमुक्त्वा बाधकमुक्तं भाष्यकृता तदनुभाष्य वार्तिककारो व्याचष्टे ।
तदिदमनेकप्रकृतीति ।
पृथिव्युदकाभ्यामारभ्यमाणमगन्धं कारणगन्धस्यैकस्यानारम्भकत्वात् ।
अयमभिसन्धिः पृथिव्याप्यपरमाणू तावन्नैकं द्व्यणुकमारब्धुमर्हतः
तयो रूपरसस्पर्शवत्त्वेन तदारम्भसम्भवे ऽपि गन्धवत्त्वाभावप्रसङ्गात् ।
एवं पार्थिवाणुसमवेतस्य गन्धस्यैकत्वेनानारम्भकत्वात् ।
नापि पार्थिवरमाणुद्वयमेकश्चपाथसीयः परमाणुरित्यणूनामारम्भकत्वे गन्धवत्त्वोपपत्तिरिति साम्प्रतम् ।
परमाणूनां बहूनामनारम्भकत्वात् ।
तथा हि त्रयः परमाणवो न कार्यद्रव्यमारभन्ते परमाणुत्वे सति बहुत्वसंख्यायुक्तत्वाद्
घटोपगृहीतपरमाणुप्रचयवत् ।
आरम्भकत्वे तेषां घटोपगृहीतानां कपालशर्कराचूर्णक्रमो घटनाशे नोपलभ्येत द्व्यणुके च विजातीयानारम्भकत्वे सिद्धे तेनैव दृष्टान्तेनान्यत्रापि विजातीयेनारम्भो निषेध्यः ।
एतेन पार्थिवावयवानां महतां पाथसीयैरवयवैः शरीरारम्भः प्रत्युक्तः
विजतीयानामनारम्भकत्वस्य दृष्टान्तधर्मिणि विनिश्चयादिति ।
तदनेन वार्तिककृता षड्विंशतिकल्पा निराकृता इति ।
यदि पुनरेकैकं कारणं स्यात् ततः किं भवेदित्यत आह ।
एककारणत्वे त्विति ।
( 372 । 6 ) नित्यं निरपेक्षमेकं कारणमिति सततोत्पत्तिः कार्यस्य भवेत् ।
कारणविनाशात्तद्विभागाद्वा द्रव्यं विनश्यति न चैकस्य कारणस्य नित्यस्य विनाशो ऽस्ति ।
न च बिभागः तस्य सद्वितीयवस्त्वाश्रयत्वात् ।
एकस्य च द्वितीयाभावात् ।
विनाशकारणाभापवात्कृतकनित्यत्वप्रसङ्गरूपमसहायमेकमवयविनि न रूपमारभत इति नीरूपो ऽवयवी तथा च रूपसंस्काराभावेनावयवी नोपलभ्येतेत्यर्थः

7.31

न्य्स्_3,1.31: श्रुतिप्रामाण्याच्च ॥
स्पृतिरुत्पत्तिरित्यर्थः ।
न्यायसिद्धमर्थं श्रुतिरूपोद्बलयति न पुनरस्य प्रापिका सांख्यराद्धान्ताबलम्बनेनाप्यस्याः कथं चिदुपपत्तेः

7.32

न्य्स्_3,1.32: कृष्णसारे सत्युपलम्भाद् व्यतिरिच्य चोपलम्भात्संशयः ॥
उद्देशक्रमानुरोधाच्छरीरानन्तरमिन्द्रियाणां परीक्षां प्रतिजानीते भाष्यकारः ।
अथेदानीमिन्द्रियाणि प्रमेयक्रमणेति ।
तत्र परीक्षापूर्वरूपं संशयमाह ।
किमाव्यक्तिकानि आहो स्विद्भौतिकानीति ।
उपलक्षणं चैतत् ।
यदापि भौतिकानि तदापि किं कृष्णसारं यदेतदुपलभ्यते तदेवेन्द्रियम्
आहो तदधिष्ठानं तैजसमित्यपि संशयो द्रष्टव्यः ।
विप्रतिपत्तेः संशयः ।
तत्र पूर्वः सांख्यनैयायिकयोर्विप्रतिपत्तेः ।
उत्तरस्तु सौगतनैयायिकयोरिति ।
आव्यक्तिकत्वमाहङ्कारिकत्वं द्रष्टव्यम् ।
अहङ्काराद्धि बुद्धिविकाराद्वैकारिकापदेकादशेन्द्रियाणि जायन्त इति सांख्याः ।
आव्यक्तिकत्वं त्वव्यक्तस्य मूलकारणत्वादुक्तम् ।
विप्रतिपत्तिबीजं पृच्छति ।
कुतः संशय इति विप्रतिपत्तिमाह कारणे कार्योपचारात् ।
उत्तरं कृष्णसारे सतीति ।
कृष्णसारे सत्युपलम्भात् कृष्णसारमेव चक्षुरिति बौद्धाः ।
व्यतिरिच्य चोपलम्भात् तदतिरिक्तं तच्चाहङ्कारिकम् ।
अहङ्कारस्यप विभुत्वेनाप्रतिधातात् ।
भौतिकत्वे काचाभ्रपटलादिभिर्भौतिकैः प्रतिघातप्रसङ्गादिति सांख्याः

7.33

न प्रदीपादिभिरनेकान्तादिति ।
वर्तिदेशस्येन पिण्डितेन तेजसा प्रदीपेनानेकान्तात् ।
प्रभा हि विसारिणी तमर्वं प्राप्य प्रकाशयतिं न तु प्रदीप इत्यर्थः ।
विषयीभावादिति चेदिति ।
उत्पादविशेष एव स तादृक् चक्षुरर्थक्षणयोर्यतो ऽप्राप्तयोरपि विषयविषयिभावाद्वेद्यवेदकत्वं,
न चायं व्यवहितविप्रकृष्टयोरिति न तयोर्वेद्यवेदक भाव इत्यर्थः ।
निराकरोति नोक्तोत्तरत्वात् ।
स एवार्थो विप्रकष्टो न विषयः सन्निकृष्टश्च विषय इत्येकस्य विषयीभावस्तदभावश्चायुक्तः क्षणभङ्गश्च निषेत्स्यत इति भावः
न्य्स्_3,1.33: महदणुग्रहणात् ॥
तत्र सांख्यमुत्थाप्य बौद्धपक्षं दूषयति ।
अभौतिकानीति ।
कृष्णसाराधिकग्रहणे विवक्षितेर् ऽथग्रहणं संपातायातं न तु तदत्र विवक्षितम् असाधकत्वादिति ।
धाना अङ्कुरः ॥
अभौतिकत्वं तु व्पयापकत्वादिति ।
( 374 । 2 ) तद्यथा विज्ञानाद्यभौतिकं महच्चाणु च गृह्णातीत्यर्थः ।
एकदेशिमतेन दूषणमाह ।
न भौमिकेषु प्रदीपादिष्विति ।
ननु बुद्धिर्यदि महदण्वोः प्रकाशनं तत् किमिदानीं सर्वस्यैवाप्रकाशनमित्यत आह ।
अवधापरितस्यत्वर्थस्येति ।
नच हानोपादानोपेक्षाबुद्धयो ऽण्व्यो महत्यो वेति भावः ।
पूर्वपक्ष्याह नेन्द्रिये ऽपि समानत्वादिति ।
तदेवमेकदेशिनो ऽसाधारणत्वापादने पूर्वपक्षिणापव दूषिते सिद्धान्त्याह ।
अभूतात्मकं व्यापकं चेति ।
सांख्यः शङ्कते ।
वृत्तिरिति ।
इन्द्रयाणां वृत्तयो ज्ञानहेतवः प्रतिषिध्यन्तैत्यर्थः ।
युगपदनेकग्रहणप्रसङ्गाच्चेति ।
यद्यपि सांख्यीयराद्धान्ते दीर्घां शष्कुलीं भक्षयतो गुगपदनेकज्ञानोत्पत्तिरभिमता तथा पि क्वचित् क्रमो ऽपि दृश्यते स न स्याद्
वृत्तिमतो ऽवस्थाने तदभिन्ना वृत्तिरप्यवतिष्ठत इति तन्मात्राधीनोत्पत्तीनां विज्ञानानां क्रमो न स्यादिति भावः ।
उभयं नेष्यत इति ।
( 376 । 4 ) वृत्तिभ्यो ऽनन्यत्वं वृत्तिमतो नेष्यते नापि वृत्तीनामनन्यत्वं वृत्तिमत इत्यर्थः

7.34

न्य्स्_3,1.34: रश्म्यर्थसंनिकर्षविशेषात् तद्ग्रहणम् ॥
नैयायिकः सांख्यं दूषयति ॥ रश्म्य...णम् (सू. 34) ॥
आहङ्कारिकत्वे चक्षुर्न प्रतिहन्यते यदि तत् काचाभ्रपटलान्तरितप्रकाशवत् कुड्यान्तरितमपि प्रकाशयेत् ।
न चैवमस्ति,
तस्मात्कृष्णसाराधिष्ठानं तेज एव भौतिकं प्राप्य गृह्णाति कुड्यान्तरितं त्वर्थमप्राप्तं न गृह्णाति ।
काचाभ्रपटलान्तरिते तु वक्ष्यति ।
भूयो ऽवयवसन्निकर्षानुग्रह
इति ।
इन्द्रियावयवानामर्थावयवैः इन्द्रियावयवानामर्थेन
अर्थावयवानामिन्द्रियेण इन्द्रियस्यार्थेनेति

7.35

न्य्स्_3,1.35: तदनुपलब्धेरहेतुः ॥
तदनुपलब्धेरिति ।
नोपलब्धिलक्षणप्राप्तमनुपलभ्यमानं शक्यमनुमातुं नरविषाणादीनामप्यनुमानप्रसङ्गादित्यर्थः

7.36

न्य्स्_3,1.36: नानुमीयमानस्य प्रत्यक्षतो ऽनुपलब्धिरभावहेतुः ॥
परिहारः नानुमीयमानस्येति ।
सत्यमनुपलब्धिनलक्षणप्राप्तमनुपलभ्यमानं न शक्यमनुमातुं न तु महत्त्वाद्येवोपलक्षणप्राप्तेरपि तु रूपविशेषो ऽपि ।
न चासौ विशेष उद्भवसमाख्यातः कृष्णसाराधिष्ठानस्पय चक्षुषो ऽस्तीत्यर्थः

7.37

न्य्स्_3,1.37: द्रव्यगुणधर्मभेदाच्चोपलब्धिनिमयः ॥
यत्रोपलब्धिस्तत्रैतदिति सूत्रार्थः ।
ततो महत्त्वादिषु मध्ये यत्किं चिदेकं वक्तव्यं सूत्रकारेण यत्रोपलब्धिस्तत्रैतदित्यकस्मादेव सिद्धेरनेकोपादानवैयर्थ्यं तस्मात्सम्भावनायोग्यताभिधानपदं सूत्रम् ॥
ननु यथाश्रुतं महत्त्वाद्युपलब्धिकारणमस्ति चाक्षुषस्य रश्मेरिति कस्मादयं नोपलभ्यत इत्यत आह ।
द्रव्यगुणधर्मेति

7.41

न्य्स्_3,1.38: कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ॥
अनेकरश्मिसन्निधाने स्पर्शस्योद्भूतौ सत्यां द्रव्यं दह्येत रूपोद्भूतौ सत्यां व्यवहितत्वादादौ निपतितेन चक्षुरन्तरेण द्रव्यस्यानुपलब्ध्या भवितव्यम् ।
शङ्कते अथानेकेति ।
( 379 । 9 ) नानानयनावयवैरेको ऽसौ नयनावयव्यारभ्यतैत्यर्थः ।
निराकरोति एवं सतीति ।
नानानयनावयवैरारब्ध एको ऽसौ नयनावयवी समग्रासमग्रचक्षुःपुरुषसाधारण
इत्युपलब्धिस्तुल्या स्यादित्यर्थः ॥
न्य्स्_3,1.39: मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ॥
न्य्स्_3,1.40: न रात्रावप्यनुपलब्धेः ॥
न हि यद्यस्याभिभावकं तत्तस्य व्यञ्जकमिति ।
( 380 । 17 ) रात्रौ यद् लोष्टतेजसो ऽभिभावकं दिवा कथं तदेवास्य व्यञ्जकं येन तदभावाद्रात्रौ लोष्टतेजो नोपलभ्येत इत्यर्थः ।
अपिशब्दाद्गम्यत
इति ।
न रात्रावपीति सूत्रगतादित्यर्थः ॥ 39-40 ॥
न्य्स्_3,1.41: बाह्यप्रकाशानुग्रहाद्र विषयोपलब्धेरनभिव्यक्तितो ऽनुपलब्धिः ॥
सो ऽयं चक्षुषो रश्मिः किमभावान्नोपलभ्यते किं वा ऽनुद्भूतेरत्राह भाष्यकारः उपपन्नरूपा चेयमनभिव्यक्तितो ऽ
नुपलब्धिरिति योजना ।
अनभिव्यक्तितो ऽनुद्भूतेरित्यर्थः ।
अत्र हेतुर्बाह्यप्रकाशानुग्रहाद्विषयोपलब्धेः
विषयश्च स्वंरूपमात्मनो ऽन्यच्च ।
एतदुक्तं भवति यदुपलब्धौ बाह्यप्रकाशमनुग्राहकमपेक्षते तस्यानुद्भूतेरेवानुपलब्धिर्न त्वभिभूतेः
यथा हेमन्ते विषक्तावयवस्याप्यस्य द्रव्यस्य ।
आप्यं हि द्रव्यं विषक्तावयवं स्वविषयोपलब्धौ बाह्यप्रकाशानुग्रहमपेक्षमाणं दृष्टं चक्षुरपि च विषयोपलब्धौ बाह्यप्रकाशमपेक्षते निरालोकेतस्याप्रवृत्तेः ।
तस्माद्विषयोपलब्धौ बाह्यप्रकाशापेक्षत्वात्तदनुद्भूत्या न प्रतीयते न पुनरभिभूत्येति सिद्धं प्रकृतम् ।
तदेतद्वार्तिककारो व्याचष्टे ।
तस्य विद्यमानस्येति

7.42

न्य्स्_3,1.42: अभिव्यक्तौ चाभिभवात् ॥
कस्मात्पुनर्नायनस्येति ।
अस्योत्तरम् ।
अभिभवनीयस्य रूपमाह ।
यदुद्भूतरूपमिति ।
( 381 । 7 ) तद्वैधर्म्यमनुद्भूतरूपस्याह ।
अनुद्भूतरूपश्चेति ।
अनुद्भूतरूपस्याभिभवाभावे निदर्शनमाह ।
यदनुद्भूतरूपमिति ।
बाह्यप्रकाशानुग्रहापेक्षस्य चाभिभवाभावे निदर्शनमाह ।
यच्च बाह्यप्रकाशानुग्रहापेक्षमिति ।
कृष्णसारं रश्मिमदित्युच्यमाने प्रसन्नान्धस्यापि कृष्णसारं रश्मिमत्साध्येत तथा चापसिद्धान्त
इत्यत आह ।
विप्रतिपत्तिविषय इति ।
तेन विप्रतिपतिविषयः कृष्णसारं रूपं च रश्मिमदिति साध्यनिर्द्देशः ।
उपलब्धौ निमित्तत्त्वादित्युच्यमाने गन्धादिभिरनैकान्तिकं स्यादत उक्तं रूपोलब्धाविति ।
रूपसाक्षात्कार इत्यर्थः ।
तथापि सन्निकर्षादिभिरनैकान्तिकमत
उक्तं द्रव्यत्वे सतीति ।
तथापि मनसानैकान्तिकमत
उक्तं नियतस्पय साधनाङ्गस्येति ।
असाधारणस्य साधनाङ्गत्वे सतीति ।
मनसस्तु साधारणस्य साधनाङ्गस्य रूपोपलब्धौ निमित्तत्वम् ।
साधनं समुदायस्तदङ्गमवयवः ।
अथ वेति ।
द्रव्यत्वे सति नियतत्वे चार्थप्रकाशकत्वादित्युच्यमाने घ्राणादिभिरनैकान्तिकं स्यादत उक्तं स्फटिकादिव्यवहितेति

7.43

न्य्स्_3,1.43: नक्तञ्चरनयनरश्मिदर्शनाच्च ॥
मानुषं चक्षूरश्मिमदिति ।
रूपाद्युपलब्धिनिमित्तत्वादिति सावधारणं रूपादीनामेवेति ।
तेन न मनसा ऽनैकान्तः ।
तथापि सन्निकर्षेणानैकान्त इत्यत उक्तमप्राप्तिस्वभावत्व
इति ।
इतश्च भौतिकानीन्द्रियाणि चक्षूरसनत्वग्घ्राणानीत्यर्थः ।
तथापि श्रोत्रस्य रूपं न ज्ञायते कीदृशं तदित्यत
आह ।
भूतं श्रोत्रम् ।
( 382 । 3 ) अर्थप्रकाशकत्वादित्युच्यमाने मनसानैकान्तिकमत आह प्राप्तेति ।
न हि रूपादिभिः सहास्ति मनसः प्राप्तिस्तथापि मनस्येवायैकान्तः
आन्तरं हि दुःखादि मनः प्राप्य प्रकाशयत्यत
आह बाह्येति ।
तथापि सन्निकर्षादृष्टादिभिरनैकान्तो ऽत
आह ।
द्रव्यत्वे सतीति ।
शङ्काभाष्यं जातिभेदवदन्द्रियभेद
इति चेत् ।
निराकरोति धर्मभेदमात्रं चानुपपन्नम् ।
वृषदंशनयनस्य रश्मिमत्वं मानुषनयनस्य तु न तत्त्वमिति यो ऽयं धर्मभेदः स एव मात्रं तच्चानुपपन्नम् ।
चो ऽवधारणे भिन्नक्रमः ।
अनुपपन्नमेवेति योजना ।
कुतो ऽनुपपन्नमित्यत्र हेतुमाह आवरणस्येति ।
तथा हि धूमवत्वं पर्वते रसवत्यां चान्यत् तथाऽप्येष विशेषो ऽस्याग्निमत्त्वानग्नित्वे प्रत्यप्रयोजकः ।
एवं बिडालत्वमनुष्यत्वे अप्रयोजके इत्यर्थः

7.47

न्य्स्_3,1.44: अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ॥
न्य्स्_3,1.45: कुड्यान्तरितानुपलब्धेरप्रतिषेधः ॥
न्य्स्_3,1.46: अप्रतीघातात् संनिकर्षोपपत्तिः ॥
सो ऽप्रतिहन्यमान
इति ।
स रश्मिरप्रतिहन्यमानः काचेन काचं व्यतिभिद्यार्थेन सम्बध्यते काचान्तर्गतेन ॥ 44-46 ॥
न्य्स्_3,1.47: आदित्यरश्मेः स्फटिकान्तरितेपि दाह्ये ऽविघातात् ॥
वार्तिकम् अव्यूह्यमानावयवद्रव्यानुप्रवेश
इति ।
( 383। 10 ) यस्य द्रव्यस्य भर्जनकपालादेरवयवा न व्यूह्यन्ते पूर्वोत्पन्नद्रव्यारम्भकसंयोगनाशेन द्रव्यान्तरजनकसंयोगोत्पादनं व्यूहनं तन्न क्रियन्ते तस्य द्रव्यस्य भर्जनकपालादेरव्यूह्यमानस्यावयवव्यूहनमवयविनो ऽपीति अव्यूह्यमानस्येत्युक्तम् ।
तस्य भर्जनकपालादेरन्तरावयवैर्यो ऽभिसम्बन्धो वह्नेः सो ऽप्रतिघातः ।
एतदुक्तं भवति सान्तरत्वादवयविद्रव्याणां तदविनाशेनाग्नेर्यो ऽनुप्रवेशः सो ऽप्रतिघात
इति ।
प्रवेशे ऽप्रतिघातमुक्त्वा निःसरणै ऽप्यविघातमाह ।
अन्तर्व्यवस्थितस्य वा द्रव्यस्य मधूदकादेर्बहिरवस्थितहस्तादिप्राप्तिः
तस्य कीदृशस्य बहिरित्यत आह ।
अव्यूह्यमानावयवस्य शलाकादेस्तस्य बहिरिति

7.52

न्य्स्_3,1.48: नेतरेतरधर्मप्रसङ्गात् ॥
न्य्स्_3,1.49: आदर्शोदकायोः प्रसादस्वाभाव्याद् रूपोपलब्धिवत्तदुपलब्धिः ॥
द्रव्यान्तरासंपृक्तद्रव्यसमवायः स्वच्छतेत्यर्थः ।
प्रसङ्गात्प्रतिबिम्बभ्रमोत्पादक्रममाह ।
आदर्शादिष्विति ।
( 384 । 10 ) यदभिमुखमग्रमिति ।
द्रष्टुः पुरुषस्याभिमुखं नयनरश्मेः परावृत्तस्याग्रं तदभिमुखं मुखादि पश्यति ।
सारूप्यनिबन्धनत्वाद्विभ्रमाणां सारूप्यमिहाप्याह ।
यथा ऽग्रतो ऽवस्थितस्य पुरुषस्य मुखं लोचनरोचिरप्रश्मिसम्बन्धभिमुखमेवमेतदिति ।
नन्वादर्शप्रतिहतश्चेद् नयनरश्मिः परावृत्तः कथं पश्चादभिमुखविभ्रमहेतुः हन्त भोः पातमात्रादादर्शज्ञानेन भवितव्यं पश्चात्प्रतिम्बिविभ्रमेण,
न चैवमस्ति यौगपद्यप्रतिभासादित्यत आह ।
आदर्शेति ।
कुतस्तर्हि मणिकृपाणादेर्दर्पणतलेषु नानानिर्भासः प्रतिबिम्बावभास इत्यत आह
आदर्शरूपानुग्रहादिति ॥ 48-49 ॥
न्य्स्_3,1.50: दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिः ॥
न्य्स्_3,1.51: स्थानान्यत्वे नानात्वाद् अवयविनानास्थानत्वाच्च संशयः ॥
संप्रति तेषामेवेन्द्रियाणामेकानेकत्वे परीचिक्षिषुः संदिग्धे ।
अथापि खल्वेकमिति ।
प्रश्नपूर्वकं सूत्रमवतारयति ।
कुतः संशयः
॥ स्थाना--यः (सू. 51) ॥
तत्र के चिदिदं सूत्रं भाष्यमतानपेक्षं यथाश्रुति व्याचक्षते ।
तद्दूषणपुरःसरं भाष्यव्याख्यानं गृहीतु यथाश्रुति व्याख्यानं परेषां सूत्रपाठपूर्वकमुपन्यस्यति ।
एके त्विति ।
( 385 । 13 ) अनुपपन्नरूपश्चायमिति ।
अत्र हि यथाश्रुति स्थानान्यत्व इति नियित्तसप्तम्या नानात्वस्य बीजं स्थानान्यत्त्वमुक्तं न त्वेकत्वस्येति ।
एकत्वस्य तु बीजं नानास्थानत्वं यथोक्तम् ।
अवयविनानास्थानत्वादिति ।
अवयवीत्येकत्वमुपलक्षयति ।
स्थानान्यत्वं च स्थानस्यान्यत्वमुच्यते ।
नानास्थानत्वं च नानास्थानानि यस्येत्यन्यपदार्थः स्थानान्यत्वादन्यः
न तु धर्मद्वयं साक्षात्संशयकारणमित्येकतरस्यैकानेकसाधारण्यं वाच्यम् ।
तत्र यदि तावदेवं क्रियते संशयः स्थानान्यत्वे नानात्वैकत्वदर्शनादिति ।
यदा सूत्रार्थालोचनेनैकत्वे स्थानान्यत्वस्यादर्शनान्न समानधर्मः सूत्रं खल्वेकत्वे नानास्थानत्वमाह न स्थानान्यत्वम् ।
अनेकत्वमात्रे हि तदुक्तं सूत्रकारेण स्थानान्यत्वे नानात्वादिति ।
अथ नानास्थानत्वे सत्येकत्वानेकत्वदर्शनात्संशय
इति एतद् दूषयति ।
तदा द्रव्यं नानास्थानमनेकं न किं चिद् दृष्टं सूत्रम् ।
अवयविनानास्थानत्वादिति सूत्रं नानास्थानत्वेनैकत्वमाह न तु नानात्वमपि यत्पुनर्घटाद्यनेकं न तन्नानास्थानमुक्तं सूत्रकृता ।
अपि तु स्थानान्यत्वं सूत्रकृतोक्तं स्थानान्यत्वे नानात्वादित्यनेन दूषणभुपंसहरति ।
सो यं संशय उभयथा ऽनुपपन्न इन्द्रियेषु यथाश्रुतसूत्रपरिग्रहेण
उभयथा स्थानान्यत्वेन नानास्थानत्वेन चेत्यर्थः ।
तदेवं परव्याख्यानं दषयित्वा भाष्यकारीयस्य व्याख्यानस्य युक्तत्वमाह स्थानेषु तु युक्तः ।
स्थानेष्वितिनिमित्तसप्तमी नानास्थानत्वनिमित्त
इन्द्रियेष्वेकत्वानेकत्वसंशयो युक्तः नानास्थानं खल्वेकमवयविद्रव्यं दृष्टमनेकं च भिन्नभाजनगतं फलमिति ।
इन्द्रियविषयं नानास्थानत्वनिमित्तकं संशयमाह ।
किं नानास्थानानीन्द्रियाणि उत नानास्थानमेकमिन्द्रियमिति ।
तदिदमुक्तं भाष्यकारेण बहूनि द्रव्याणि नानास्थानानि दृश्यन्ते नानास्थानश्च सन्नेको ऽवयवी च ।
तेनेन्द्रियेषु भिन्नस्थानेषु संशय इति ।
सूत्रे ऽपि स्थानान्यत्वे इत्यनेन नानास्थानत्वमेवोपलक्षणीयमित्यविरोधः ।
यथाश्रुतस्तु न सूत्रार्थ इत्याह ।
इन्द्रियेषु तु न स्थाननानात्वात्सम्भवति ।
न च नानास्थानत्वादिति ।
( 386 । 1 ) किं त्विन्द्रियविषयो नानास्थानत्वादेव संशयो भाष्यकारीयः साधीयानित्यर्थः ।
तदेवं परोक्तं संशयबीजं दूषयित्वा भाष्यकारीयं संशयबीजं दर्शयित्वा वार्त्तिककारः स्वातन्त्र्येण संशयबीजमाह ।
शरीरव्यतिरेकित्वात्सत्त्वाच्च संशय इति ॥ 50-51 ॥
न्य्स्_3,1.52: त्वगव्यतिरेकात् ॥
पूर्वपक्षं गृह्णाति ।
त्वग--त् (सू. 52) ॥
कः पुनरव्यतिरेक इति ।
घटादिप्राप्तं चक्षस्त्वचो व्यतिरिच्यत एवेति भावः ।
उत्तरम् ।
सर्वाधिष्ठानसम्बन्ध इति ।
सौत्रस्याव्यतिरेकशब्दस्य व्याख्यानान्तरमाह ।
सति भावो वेति ।
तदनेन यस्यां च सत्यामिति भाष्यं व्याख्यातम् ।
चो विकल्पार्थः ।
सिद्धान्तभाष्यं नेन्द्रियेति ।
लोकविरोध इति ।
लोक्यते ज्ञायते ऽनेनेति लोकः प्रमाणं तद्विरोध
इत्यर्थः ।
अनेकेन चानिन्द्रियेणेति ।
शरीरं पार्थिवं भूतान्तरसम्पृक्तं च तदिन्द्रियाधिष्ठानानि शरीरावयवभूतानि पृथिव्यादिना व्याप्तानीत्यनेकान्तः ।
न व्याघातादिति ।
परदोषोद्भावनपंर न पुनरत्वगवयवत्वमिन्द्रियान्तराणामभिमतमिति

7.53

न्य्स्_3,1.53: न युगपदार्थानुपलब्धेः ॥
एवं भाष्यकारीयसिद्धान्तमुतत्वा सौत्रसिद्धान्तमाह ।
सूत्रेण चाभिसम्बन्धः सिद्धान्तस्य ॥ ( 387 । 8 ) न यु--ब्धेः (सू. 53) ॥
नैतदस्त्येकमिन्द्रियमिति ।
कस्याद् ? युगपदर्थानुपलब्धेरिति ।
तदेतत्सूत्रं भाष्यदृष्ट्या व्याचष्टे वार्त्तिककारः ।
यस्यैकमिन्द्रियमिति ।
तद्वेतद्व्याख्यानं दूषयति ।
नैकेन्द्रियग्राह्याणामिति ।
भाष्यव्याख्यानं दूषयित्वा सूत्रमन्यथा व्याख्यातुं भूमिरचनां करोति ।
एवं ब्रुवाण
एकेन्द्रियवादीति ॥ ( 388 । 5 ) सामि--अर्धम् ।
एकमपीन्द्रियमर्धं प्राप्य गृह्णाति अप्राप्तं चार्धमेकदेश इति यावत् ।
करणधर्ममतिक्रामन्तं प्रति युगपदुपलब्धिप्रसङ्गो दूषणमित्यर्थः

7.54

न्य्स्_3,1.54: विप्रतिषेधाच्च न त्वगेका ॥
एकत्वप्रतिषेधादेव पारिशेष्यान्नानात्वं सेत्स्यतीत्यत आह नासाधना क्रियेति ।
( 389 । 7 ) एकत्वं च कथमिति ।
न शक्यः पक्षो दूषयितुमित्युक्तम् ।
पृच्छति ।
कथं तर्हीति ।
उत्तरम् ।
प्रतिषेधाच्चानन्तरमिति ।
यद्यप्यनन्तरशब्दप्रयोगे पञ्चमी न स्मर्यते तथा ऽप्यन्यशब्दस्याध्याहारेण पञ्चमी व्याख्येया ।
अनन्तरं प्रतिषेधादन्यः स्थापनाहेतुरिति योजना ।
अथ वेति ।
व्यतिरेकी हेतुर्द्वयोर्विरुद्धयोरेकतरनिषेधेनैकत(नीं)रं व्यवस्थापयति ।
यथा नैरात्म्यनिषेधेन जीवच्छरीरस्पय सात्मकत्वमिति

7.55

न्य्स्_3,1.55: इन्द्रियार्थपञ्चत्वात् ॥
सूत्रमाक्षिपति ।
इदं तु सूत्रमिति ।
एष न्यायो मया वाचो भङ्ग्या सूत्रित
इत्यर्थः

7.56

न्य्स्_3,1.56: न तदर्थबहुत्वात् ॥
पूर्वपक्षिणः सूत्रम् ।
न त--त् (सू. 56) ॥
पूर्वपक्षमाक्षिपति न विरोधादिति ।
पूर्वपक्षिणः समाधानं नासाधनादिति

7.60

न्य्स्_3,1.57: गन्धत्वाद्यव्यतिरेकाद् गन्धादीनामप्रतिषेधः ॥
सिद्धान्तः--- गन्ध--धः (सू. 57)
न्य्स्_3,1.58: विषयत्वाव्यतिरेकादेकत्वम् ॥
न्य्स्_3,1.59: न बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ॥
यस्याधिष्ठानं भिन्नमिति ।
( 391 । 10 ) भिन्नं नियतम् ।
एतदुक्तं भवति रूपव्यञ्जकस्य कृष्णसारमेवाधिष्टानं न कर्णशष्कुल्यादि एवमन्यत्रापि द्रष्टव्यम् ।
यस्य पुनः सिद्धान्तिनो ऽधिष्ठानाभेदस्तथा च तदधिष्ठानस्येन्द्रियस्यापि भेदः तस्यैकाधिष्ठानविनाशेन तद्गतस्येन्द्रियस्य विनाशे ऽप्यधिष्ठानान्तराश्रितस्येन्द्रियान्तरस्यावस्थानमिति नैकाधिष्ठाननाशे सर्वाधिष्ठाननाशात्सर्वेन्द्रियनाशलक्षणः
तथैकाधिष्ठानावस्थाने सर्वेन्द्रियावस्थानलक्षणो दोष इति ।
इष्टानिष्टोपेक्षणीय इति ।
उपेक्षणीयस्यापि पुरुषार्थत्वं भवति केन चित्प्रकारेण, यदि हि तत्र पुरुषः प्रवर्तते ततो निष्फले कर्मणि प्रवृत्तः पुरुषस्तप्येत ।
दुःखं कर्मेत्यनु भवो लोकस्य, उपेक्षणीयत्वे तु तन्न तस्य भवति ॥ 58-59 ॥
न्य्स्_3,1.60: भूतगुणविशेषोपलब्धेस्तादात्म्यम् ॥
तत्र पार्थिवं घ्राणं रूपरसगन्धस्पर्शेषु नियमेन गन्धस्य व्यञ्जकत्वाद् बाह्यपार्थिववदिति ।
यथा हि मृगमदगन्धव्यञ्जकाः कुक्कुटोच्चारादयः पार्थिवा इत्यर्थः ।
न चातपेनानेकान्तः ।
न ह्यतपो गन्धव्यञ्जको ऽपि तु जलाभिभूतो गन्धो द्रव्याणांव नोपलभ्यते केवलं जलमातयो ऽपनयति न तु गन्धं द्रव्यस्याभिव्यनक्ति तस्मान्नानेकान्तः ।
एवं रसनमिन्द्रियमाप्यं गन्धादिषु मध्ये नियमेन रसस्य व्यञ्जकत्वाद्
दन्तान्तरस्यन्दमानोदकविन्दुवत् ।
न खलु विशुष्यदास्यो मोदकादिरसमनुभवति ।
एवं तैजसं चक्षुः गन्धादिषु मध्ये नियमेन रूपस्य व्यञ्जकत्वात् प्रदीपादिवत् ।
एवं वायवीयं त्वगिन्द्रियं गन्धादिषु मध्ये स्पर्शस्यव व्यञ्जकत्वात् स्वेदोदबिन्दुशतिस्पर्शव्यञ्जकव्यजनपचनवत् ।
नियमग्रहणं मनोनिवृत्त्यर्थम् ।
मध्य इति चावधारणसिद्ध्यर्थम् ।
अन्यथा घ्राणादीनां गन्धत्वादिव्यञ्जकत्वेनावधारणं न स्यात् ।
तदेतदाह ।
एवं शेषेष्विति ।
( 392 । 19 ) एवं चेन्द्रियपञ्चत्वेन हस्तपायूपस्थवाचामिन्द्रियत्वनिषेधो ऽपि सूचित इन्द्रियलक्षणविरहात् ।
यच्छरीरसंयुक्तं संस्कार(क)दोषव्यतिरिक्तं साक्षात्प्रतीतिसाधनं तदिन्द्रियमिति हीन्द्रियलक्षणं, न चैतदस्ति हस्तादिषु ।
तज् ज्ञानेन्द्रियाणां लक्षणमिमानि कर्मेन्द्रियाणीति चेत् ।
हन्तैनषामिन्द्रियत्वलक्षणान्तरं वक्तव्यम् ।
शरीराश्रितमसाधारणकार्यकारीन्द्रियमिति लक्षणमिति चेत् ।
वक्तव्यमेषामसाधारणं कार्यम् ।
उक्तं वचनादानविहरणोत्सर्गानन्दाः पञ्चानामिति ।
नन्वादानविहरणोत्सर्गास्तावद्वक्रहस्तादिभिरपि शक्याः कर्तुम् ।
अपि चास्ति कण्ठहृदयामाशयपक्वाशयादीनां गिरणादितत्तदसाध रणं कार्यमिति तान्यपीन्द्रियाणि प्रसज्येरन्निति तस्माद्यत्किञ्चिदेतदपीति

7.63

न्य्स्_3,1.61: गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ॥
न्य्स्_3,1.62: अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ॥
क्रमप्राप्तमर्थलक्षणं परीचिक्षिषमाणोर् ऽथलक्षणं स्मारयति ।
गन्धादयः पृथिव्यादिगुणा इत्युद्दिष्टमिति ।
लक्षितमिति वक्तव्ये संमुग्धाभिधानं सामान्यादुद्दिष्टमित्युक्तम् ।
तत्र परीक्षामुखं संशयमाह ।
उद्देशश्च नियोगेति ।
नियोगादीनां रूपमाह ।
तत्र नियोग इति ।
तदेवं विमृष्य नियोगसमुच्चयौ परित्यज्य विकल्पमालम्बते सूत्राभ्यामतो विशेषणार्थमिति ।
( 393 । 2 ) गन्ध---व्याः (सू. 61) अप्त---रः (62) ।
विशेषणार्थमिति ।
सूत्रयोस्तात्पर्यमुक्तं तदेवं स्फुटयति ।
नियमार्थे इति ।
उत्तरेष्वबादिष्वेकैकशो ऽपकर्षो गन्धादीनां स्पर्शपर्यन्तानाम् ।
तथा हि चतुर्षु गन्धापकर्षोपस्वपकृष्टस्य गन्धस्य पुनरुद्भवो नास्तीति अद्भ्य उत्तरे तेजसि रसस्यापकर्षः ।
एवमपकृष्टयोश्च गन्थरसयोः पुनरुद्भावो नास्तीति तेजौत्तरे वायौ रूपापकर्ष इति ।
एवमपकृष्टानां गन्धरसरूपाणां पुनरुद्भवो नास्तीति वायोरुत्तरस्मिन्नाकाशे स्पर्शस्यापकर्षः ।
तदिदमुक्त मेकैकश इति ।
अव्युत्पन्नो ऽयसुत्तरशब्दो ऽनन्तरवचनः तेन बहूनां निर्द्धारणे ऽप्युपवन्नार्थ इति ।
भवतु वा तरब्निर्देशः तथा ऽपि न दोष इत्याह ।
भवत्विति ।
क्व चित्पाठस्तन्त्रं वेति यथाभाष्यम्
स्फुटार्थ एव ॥ 61-62 ॥
न्य्स्_3,1.63: न सर्वगुणानुपलब्धेः ॥
पूर्वपक्षी नियोगपक्षमुत्थापयति ।
न स--ब्धेः (सू. 63) ॥
पृथिव्यादिप्रकृतीनां घ्राणादीनां गन्धादिप्रतिव्यक्तिनियम एवमुपपद्यते यदि गन्धमात्रगुणा पृधिवी रसमात्रगुणा आप
इत्यादि न त्वन्यथा ।
अन्यथा तु पार्थिवेन घ्राणेन गन्धवद्रसरूपस्पर्शा अपि व्यज्येरन् अविशेषादित्यर्थः

7.66

न्य्स्_3,1.64: एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तराणां तदनुपलब्धिः ॥
न्य्स्_3,1.65: विष्टं ह्यपरं परेण ॥
विष्टं ण (सू. 65) ॥
संसर्गस्य द्व्याश्रयत्वे ऽपि न द्वये सजानत्वं यथा ऽग्निधूमयोः संबन्धो न्यथाऽग्नेः स हि व्यापको धूमे धूमध्वजस्य भाव एव नाभावः ।
धूमस्तु व्याप्यः तस्पय वान्हावेव भावो नान्यत्रेति ।
एवमपरं पृथिव्यादि परेणाबादिना विष्टं व्याप्तं नाबादिमन्तरेणास्ति पृथिवी ।
तेन पृथिव्यामबादिगुणानां रसादीनां नियमेनोपलम्भो न त्वबादिषु पृथिवीगुणानाम्,
एवमप्स्वनलादिगुणो व्याख्यातः ।
विष्टत्त्वं संयोगविशेषो व्याप्तिस्त्यिर्थः ।
भाष्यं तच्चैतद्भूतसृष्टाविति ।
भूतसृष्टिप्रतिपादकेषु पुराणेषु नैतर्हीति ।
नेदानीमननुभवादित्यर्थः
॥ 64-65 ॥
न्य्स्_3,1.66: न पार्थिवाप्ययोः प्रत्यक्षत्वात् ॥
सिद्धान्ती विकल्पवाद्येतद्
दूषयति ।
नपा--त् (सू. 66) ॥
त्रिविधं हि द्रव्यं चाक्षुषमिष्यते प्रार्थिवमाप्यं तैजसं च ।
तत्र रूपवत्त्वेन तैजसमेव चाक्षुषं स्याद्
नेतरद् रूपवत्त्वात् ।
न च रूपिद्रव्यसंतर्माच्चाक्षुषत्वंप्ररूपथोच्चपि पार्थिवाप्ययोरिति वाच्यम् ।
नभोनभस्वतोरपि चाक्षुरत्वप्रसङ्गात् ।
अस्ति हि रूपवता तेजसा तयोः इति ।
अथ वा पार्थिवाप्यसंबन्धिनो रसभेदस्य रूपभेदस्य चैकानेकविधत्वेन प्रत्यक्षत्वादित्याह भाष्यकारः ।
रसयोर्वेत्यादि नोपपद्यत इत्यन्तेन ।
पुनरस्यैव व्याख्यानान्तरमाह ।
स्पर्शयोरिति ।
पार्थिवाप्ययोरित्यस्योदाहरणमात्रार्थत्वात् ।
पार्थिवतैजसयोरित्वपि व्याख्यानमुक्तम् ।
व्याख्यानान्तरमाह ।
अथ वेति ।
कार्यस्य व्यवस्थितगुणस्य दर्शनात् कारणमपि व्यवस्थितगुणमनुमपिते ।
न च सर्वत्र संसर्गो येनान्यस्य गुणो ऽन्यत्रोपलभ्यते विवेकस्यासंसर्गस्य दर्शनात् ।
व्याख्यानान्तरमाह ।
दृष्टश्चति ।
चो विकल्पार्थः ।
नियोगस्तु निरनुमानं इत्याह ।
निरनुमानं तु विष्टं ह्यपरंपरेणेत्येतदिति ।
नियमो गन्ध
एव पृथिव्नयामित्येवमादिः ।
तस्य कारणं प्रमाणं नास्ति तद्बाधकस्यैव प्रमाणस्योक्तत्वात् ।
तस्माद्भूतसृष्टिः कथं चिदुपचारतो व्याख्येयेति ।
विष्टत्वं संयोगः स च द्वयोःच समान इति ।
अन्यगुणो यदन्यत्रोपलभ्यते तत्किं संयोगादोहो स्विद्व्याप्तेः, यदि व्याप्तेः नायोगोलके वह्निसंपृक्ते वह्निगुणा गृह्येरन् ।
तयोर्व्याप्यव्यापकभावाभावात् ।
धूमे च गगनतलावलम्बिनि भूमिष्ठेन वह्निना व्याप्तेरग्नेर्गुणागृह्येरन् तयोर्व्याप्यव्यापकभावात् ।
तस्मादन्यसंयोगो हेतुः स चोभयोरविशिष्ट
इति तेजसा संयुक्तस्य वायोरपि रूपवत्त्वेन चाक्षुषत्वप्रसङ्ग इति

7.67

न्य्स्_3,1.67: पूर्वपूर्वगुणोत्कर्षात् तत्तत्प्रधानम् ॥
पूर्व--नम् (सू. 67) ॥
प्रधानतापदार्थं व्याचष्टे भाष्यकारः विषयग्राहकत्वं गन्धादिर्विषयः ।
तदेव विषयग्राहकत्वं कुतस्तत्राह ।
गुणोत्कर्षात्तदभिव्यक्तिसामर्थ्यात् ।
विषयग्राहकत्वं चेत्प्राधान्यं तत्सर्वेषामेवेन्द्रियाणां विषयग्राहकत्वादित्याशयवान् वार्त्तिककरो भाष्यकारीय व्याख्यानममृष्यमाणः पृच्छति ।
का प्रधानता ( 395 । 8 ) ।
स्वमतेनोत्तरमाह ।
चतुर्गुणत्वादिरिति ।
एतदुक्तं भवति यस्माच्चतुर्गुणत्वेन पार्थिवं घ्राणं रसनादिभ्य आप्यादिभ्यः प्रधानं तस्मादस्यागन्धवत्त्वं नास्ति येन गन्धं न गृह्णीयात् ।
न न्वेवं रसवत्त्वान्दिकमप्यस्ति घ्राणस्यति रसादिकमपि गृह्णीयादत उक्तं गुणोत्कर्षादिति ।
सर्वेषां समवायाविशेषे ऽपि गन्धस्यैव घ्राणौत्कर्ष इति गन्धमेव गृह्णाति तेनागन्धवत्त्वनिषेधपरं प्रधान्याभिधानं न पुनर्गन्धग्रहणे गन्धवत्त्वं प्रयोजकमपि तु गन्धस्योत्कर्ष इति सिद्धम् ।
तत्रोत्कर्षपदार्थं पृच्छति वार्त्तिकारः को गुणोत्कर्षः ।
उत्तरं स्वगुणाभिव्यक्तिसामर्थ्यं स्वो गुणो घ्राणस्य मन्धः तज्जातीयश्चन्दनादिसमवेतो ऽपि गन्धः स्व इत्युच्यते ।
न पुनः स्वगुणमेवाभिव्यनक्ति घ्राणं घ्राणसमवेतस्य हि गन्धस्यादृष्टवशात्तादृशो निर्माणभेदो येन सजातीयं चन्दनादिसमवेतं गन्धमभिव्यनक्ति यथा मृगमदादिगन्धं पार्थिवद्रव्यान्तरसमवेतो गन्ध इति ।
अत एवाह येन गुणेन यद् द्रव्यमुत्कृष्यते स तज्जातीयाभिव्यञ्जकत्वादुत्कृष्टो भवति ।
तस्मिन् द्रव्यैति शेषः ।
यः पुनर्गन्धगुणत्वादिति ।
गन्धमात्रगुणत्वोदेव घ्राणं गन्धस्य व्यज्जकं न तु मन्धस्योत्कर्षादित्यर्थः ।
तस्य वादिनः सर्वेषामेव पार्थिवानां गुणानामुपलब्धिप्रसङ्गः
घ्राणग्राह्यत्वप्रसङ्ग इत्यर्थः

7.68

न्य्स्_3,1.68: तव्द्यवस्थानं तु भूयस्त्वात् ॥
ननु भवतो ऽपि कुतो व्यवस्थितिरिति सूत्रमवतारयितुं पृच्छति ।
कस्मात्पुनरिति ।
तद्व्य--त् ( सू. 68 ) ॥
अर्थनिर्वृत्तीति ।
अर्थः पुरुषार्थः ।
प्रविभक्तस्येति ।
इतरेभ्यो विशिष्टस्य ।
संस्कारकारित इति ।
अदृष्टकारित इति

7.70

न्य्स्_3,1.69: सगुणानामिन्द्रियभावात् ॥
शङ्कते ।
यदि पुनरिन्द्रियस्य गन्ध इति ( 396 । 6 ) निराकरोति ।
तेनैव तस्येति ।
न्य्स्_3,1.70: तेनैव तस्याग्रहणाच्च ॥
तदेतद्ग्रहणकवाक्यं सोपस्कारं व्याचष्टे ।
यदीनिद्रयं स्वगन्धं गृह्णीयात्ते तव दर्शनेनासाविन्द्रियगन्धः, अथेन्द्रियगन्धस्ततो नेन्द्रियग्राह्यः स्यात् ।
कस्मान्नेन्द्रियग्राह्य इन्द्रियगन्ध
इत्यत आह ।
गन्धं च गृह्णदिति ।
चो हेत्वर्थे ।
न चात्मसाधनं करणमस्तीति मनस्तु लिङ्गवदात्मनि करणं न केवलमित्युक्तम् ।
तुल्यत्वमापादयितुं सिद्धान्ती पूर्वपक्षिणमनुयुङ्क्ते कस्मात्पुनरिदं न चोद्यत इति ।
पूर्वपक्ष्याह न चोद्यत इति ।
सिद्धान्तवाद्याह तुल्ये घ्राणेन स्वस्य गन्धस्याग्रहणमिति ।
तुल्यतामेवापादयति एतदप्यदेशनीयमिति

7.75

न्य्स्_3,1.71: न शब्दगुणोपलब्धेः ॥
न्य्स्_3,1.72: तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् ॥
( 397 । 11 ) शब्दगुणत्वमेव दिक्कालयोरिति चेद नाम्नि विवादः दिक्कालयोर्हि शब्दगुणत्वे सत्यसाधारणयोगित्वेन न परापरव्यतिकरकारणत्वं पृथिव्यादिवद्भवितुमर्हतीति ।
तथा च शब्दगुणं परापरप्रत्ययकारणं चाकाशमेवेति नाम्नि विवादः ।
दिक्कालौ तु परापरव्यतिकरकारणे कल्पनीयौ तेन व्यतिरिक्तावित्यर्थः ।
अपि चाकाशमिच्छत
आकाशप्रत्याख्यानं च सामर्थ्यानुपलब्धेरिति ।
रूपादिसाक्षात्कारे हि इन्द्रियाणामिन्द्रियत्वमेव स्वरूपसामर्थ्यं तच्चक्षुरादिद्रव्यस्य दृष्टं न गुणादीनामित्यर्थः

मूल पाठ: Nyāyasūtra with Vacaspatimiśra's Nyāyavārttikatātparyaṭīkā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc