न्यायसूत्र (टीका सहित) · अध्याय 6
इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां
द्वितीयाध्यायस्याद्यमाह्निकम् ।
चतुष्ट्वपरीक्षा ।
न्य्स्_2,2.1: न चतुष्ट्वम् ऐतिह्यार्थापत्तिसंभवाभावप्रामाण्यात् ॥
अयथार्थ इति भाष्यम् ।
प्रमाणानां निभागोद्देशो यः सो ऽयथार्थः ।
तदेतद्वार्त्तिककारो व्याचष्ठे प्रत्यक्षेति ।
( 274 । 3 ) एवं विभ्रान्तस्याक्षेप इति भाष्यमतेन सूत्रं व्याख्याय प्रकारान्तरेणापि व्याचष्टे ।
संशयव्युदासार्थं वा प्रकरणम् ।
सूत्रं तु संशयार्थम् ।
न चतुष्ट्वं निश्चेतुं शक्यं, कस्मात् ।
ऐतिह्यार्थापत्तिसंभवाभावप्रामाण्यात् ।
परैरभ्युपगतादस्माकं संशयादिति सूत्रार्थः ।
तात्पर्यान्तरमाह ।
विधीति ।
विभागोद्देशो ऽधिकनिषेधपर इति पूर्वपक्षे अयथार्थः प्रमाणोद्देश
इति पूर्वं व्याख्यातं, सम्प्रति तु प्रत्यक्षादिविधिपरो ऽसावारम्भः प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति ।
अधिकनिषेथस्त्वर्थलभ्य इति पक्षमभिप्रेत्योक्तमित्यपौनरुक्त्यम् ।
तात्पर्यान्तरमाह दोषवतामिति ।
तात्पर्यान्तरमाह प्रत्यक्षादिष्विति ।
अन्तर्भावपरात्प्रकरणादर्थाद्विभागोद्देशस्य यथार्थता सिध्यतीत्यर्थः ।
देशयति ।
सिद्धत्वादिति ।
न हि यावत्सूच्यते सूत्रकारेण तावदवश्वमुपपादनीयं भाष्नयकारादिभिरपि तदुपपादनसिद्धेरिति भावः ।
परिहरति नावधारपणप्रयोजनस्य प्रमाणान्तरनिरासस्येति ।
यत्सूचनमात्रादनुक्तमपि लभ्यते तत्सूत्रकारेण नोच्यते यच्च सूचितमपि तिरोहितमिव तत्सूत्रकारेणोद्धाटनीयमेव,
न हि तत्रास्ति निश्चयो ऽस्मदभिमतमेव वदन्ति भाष्यकारादयो नान्यदिति भावः ।
किमत्रार्थादापद्यत इति प्रश्नः ।
उत्तरं सत्सु भवतीति ।
( 275 । 1 ) प्रत्यनीकस्य ग्रहणादिति ।
अपां पातप्रत्यनीकस्योपातस्य ग्रहणात्तद्विरोधिनः पातविरोधिनो वाय्वभ्रसंयोगस्य ग्रहणं तदिदं किलाभावाख्यं प्रमाणं प्रमीयते मेघोदये ऽपि यतोयपाताभावेन वाय्वभ्रसंयोग
इति ।
सिद्धान्तमाह तान्येतानीति ।
ननु भविष्यत्यसौ विषय उक्तलक्षणानामगोचरः प्रमाणानाम् प्रवर्त्स्यन्ति च तत्र इतिह्यादीनि प्रमाणान्तराणीत्यत आह ।
विषयाभावाच्चेति ।
चोदयति अथ प्रयोजन भेदादिति ।
तदेतदतिप्रसङ्गापादनेन दूषयति ।
एवं तर्ह्यष्टत्वमिति ।
न तावत्सन्ति तादृशः प्रयोजनसामान्यविशेषाः यैः प्रयोजनवन्ति प्रमाणानि परस्परतो व्यावर्त्तयेयुः अपि तु भेदमात्राद्व्यावर्त्तयन्तीति वक्तव्यम् ।
तथा चातिप्रसङ्गेनाष्टत्वसंख्याव्यावृत्तिरित्यर्थः ।
अथन विषयसामान्येति ।
रूपत्वादिति विषयसामान्यं तस्य स्वस्वव्यक्तिष्वव्यतिरेक
एकत्वं तस्मादित्यर्थः ।
निराकरोतञ् नि युक्तस्तर्हीति ।
निरुपाधानस्वरूपमेकं व्यापकत्वान्वितत्वसंज्ञित्वोपधानास्त्रय
इति चत्वारो विषयसामान्यविशेषा इति चतुष्ट्वप्रतिषेधो न युक्तमित्यर्थः
न्य्स्_2,2.2: शब्द ऐतिह्यानर्थान्तरभावाद् अनुमाने ऽर्थापत्तिसंभवाभावानर्थान्तरभावाच्चाप्रतिषेधः ॥
यद्येतानीति ।
यद्यैतिह्यादीनि प्रमाणानि क्व प्रत्यक्षादौ किमैतिह्याद्यन्तर्भवतीति वक्तव्यम् ।
अप्रमाणस्य ।
प्रमाणान्तर्भावो न भवतीति प्रमाणानीत्युक्तम् ।
यत्खल्वनिर्द्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमैतिह्यं तस्य चेदाप्तः कर्त्ता नावधारितः ततस्तत्प्रमाणमेव न भवतीति यद्रीत्युक्तम् ।
अथाक्षरपरम्परेत्यवगतं तत्राप्तोपदेश
इति शब्दलक्षणान्नातिवर्त्तते तदिदमुक्तम् ।
समानलक्षणत्त्वादिति ।
पृच्छति कथमर्थापत्तिरिति ।
( 276 । 1 ) असत्सु मेघेषु वृष्टिर्न भवति सत्सुः
भवतीति सेयमर्थापत्तिः कथमनुमानेन संगृह्यते ।
उत्तरन्द्वयोरिति ।
अत्रोदाहरणमाह ।
यत्र यत्रेति ।
उदाहरणस्य साध्यविकलत्वमुदाहरति ।
एकं त्विति ।
यदि दिवैव न भुङ्क्त इति कालविशेषप्रतिषेधो निश्चीयते ततो रात्रौ भुङ्क्त इति कालान्तरविधानं गम्यते न तु कालविशेषनिश्चयो ऽपि तु दिवा भुङ्क्त एव नेति ।
भोजनादिक्रियायाः
या ऽन्यासनादिक्रया तन्निषेधनिषेधेन रात्रिभोजनाक्षेपादिति ।
दिवैव न भुङ्क्तैत्यस्यैकस्य प्राप्तौ भवेद्रात्रौ भुङ्क्ते इति क्रियान्तरनिषेधाः
निषेधस्य च प्राप्तौ न वक्तव्यं रात्रौ भुङ्क्तैत्यर्थः ।
तदेतद्दूषयति ।
एतत्तु न सम्यगिति ।
प्राप्तिपूर्विका हि प्रतिषेधा भवन्ति ।
न चेह भुञ्जानस्याभुञ्जानस्य वा क्रियान्तराभावः प्रसक्तो येनासौ प्रतिषध्यते भुङ्क्त एव नेति ।
न हि कश्चिद्भुङ्क्त एव न भुञ्जानो न वीक्षते ।
अन्ततो ऽस्त्यादेरपि क्रियायाः
भावात् ।
व्यापृतः कदा चिन्न व्यापारान्तरं कुर्यादपि किं पुनरव्यापृतः स हि व्यापारान्तराण्यव्यासक्तः करोत्येवेत्यर्थः ।
उपसंहरति तस्मादिति ।
कालप्रतिषेधो दिवैव भुङ्क्त इत्यस्य प्रतिषेध
इत्यर्थः ।
क्रियान्तरप्रतिषेधनिवृत्तेरसम्भवेन निराकृतत्वादप्राप्तत्वान्न प्रतिषेध इति भावः ।
क्रियान्तरप्रतिषेध इति ।
अन्तरशब्दो विशेषवचनः
तेन भोजनक्रियाया यदन्तरं विशेषः क्रियान्तररहितत्वं भुङ्क्त एवं तस्य प्रतिषेध इत्यर्थः ।
सामान्यतोदृष्टमिति ।
यत्र न कार्यकारणयोर्गम्यगमकभावः तत्सामान्यतोदृष्टमिति
न्य्स्_2,2.3: अर्थापत्तिरप्रमाणम् अनैकान्तिकत्वात् ॥
सत्यमेतानीति भाष्यम् ।
तस्यार्थः ।
सत्यमेतान्यैतिह्यादीनि प्रमाणानि न तु प्रमाणान्तरं नैव प्रमाणान्तरमनुमानादिभ्य
इत्युक्तम् ।
न तु प्रमाणत्वमेवामीषां न मृष्यामह इति भावः ।
वार्त्तिकम् अर्थापत्तिमात्रस्येति ।
( 277 । 2 ) दिव्या न भुङ्क्ते इत्यादेरर्थापत्तेरैकान्तिकत्वादिति
न्य्स्_2,2.4: अनर्थापत्तौ अर्थापत्त्यभिमानात् ॥
स्वमतेन दूषयित्वा सौत्रं दूषणमाह ।
यामपि भवानिति ।
न सत्सु मेघेषु वृष्टिर्भवत्येवेत्यर्थो येन व्यभिचारो देश्येतापि तु असत्सु न भवतीति ।
तथा च न व्यभिचार इत्यर्थः
न्य्स्_2,2.5: प्रतिषेधाप्रामाण्यं चानैकान्तिकत्वात् ॥
यदि तु यत्र विषयेर् ऽथापत्तिरैकान्तिकी ततो विषयान्तरं कल्पयित्वा ऽनैकान्तिकं देश्येत ततो यः प्रतिषेधविषयः प्रामाण्यमर्थापत्तेः
ततो विषयान्तरमर्थापत्तेः सत्त्वं प्रतिषेधविषयं कल्पयित्वा प्रतिषेधस्याप्रामाण्यं शक्नुमो वक्तुं तथा च प्रतिषेधाप्रामाण्यान्नार्थापत्तेरप्रामाण्यमित्याह ।
प्रति--त् ( सू. 5 ) ॥ एवं ह्येकान्तिकः प्रतिषेधः स्याद् यद्यर्थापत्तेः प्रामाण्यं सत्तां च प्रतिषेधति ।
न तु सत्त्वं प्रतिषेद्धुमर्हत्यनैकान्तिकत्वात् ।
न हि यदनैकान्तिकं तत् सर्वं नास्ति प्रमेयत्वादीनां नित्यत्वसाधने अनैकान्तिकानां सत्वात् ।
यस्मादर्थाषत्तेर्विशेष इति ।
( 278 । 1 ) अर्थाषत्तेर्विशेषः प्रामाण्यं न ह्यर्थापत्तिमात्रं सत्तेति
न्य्स्_2,2.6: तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् ॥
न चानैकान्तिकत्वं प्रमाणत्वप्रतिषेधे ऽस्तीति यदि मन्यते पूर्वपक्षी, एवं तर्हि---
तत्प्रामा--ण्यम् ( सू. 6 ) ॥ विप्रतिपत्तिरप्रतिपत्तिर्वा निग्रहस्थानमिति वदत इत्यर्थः ।
या ऽपि मीमांसाभाष्यकृतार् ऽथापत्तिरुदाहृता जीवतश्चैत्रस्य गेहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पनेति ।
तदप्यनुमानमेव यदा खलु सन्नेकत्र नास्ति तदा ऽन्यत्रास्ति यदा वा ऽव्यापक एकत्रास्ति तदा ऽन्यत्र नास्ति सो ऽयं स्वशरीर एव व्याप्तिग्रहः सुकरः ।
तथा च सतो गेहाभावदर्शनेन लिङ्गेन बहिर्भावदर्शनमनुमानम् ।
न च तस्य सत्वेन गेहाभावः शक्यो ऽपह्नोतुं येनासिद्धो गेहाभावोन वा सत्त्वमपन्हूयेत येन सत्त्वमेवानपपद्यमानं न स्वात्मानं बहिरवस्थापयेत् ।
तथा हि सत्त्वमात्रं वा विरुध्यते चैत्रस्य गेहाभावेन मेहसत्त्वं वा चैत्रस्य ।
न तावद्यत्र क्व चन सत्त्वस्यास्ति विरोधो गेहे असत्तया समानविषयत्वाभावात् ।
देशसामान्येन गृहविशेषाक्षेपो ऽपि पाक्षिक
इति समानविषयतया विरोध इति चेत् ।
न प्रमाणविनिश्चितस्य सांशयिकेन प्रतिक्षेपायोगात् ।
नापि प्रमाणविनिश्चितो ऽभाव एव पाक्षिकं तस्य गृहसत्वं प्रतिक्षिपन्सत्वमपि प्रतिक्षेप्तुं सांशयिकत्वं वा ऽपनेतुमर्हतीति युक्तम् ।
गृहावच्छिन्नाभावेन गृहसत्त्वं विरुद्धत्वात्प्रतिषिध्यते न तु सत्त्वमात्रं तत्र तस्यौदासीन्यात् ।
तस्माद्गृहाभावेन सिद्धेन सतो बहिर्भावो ऽनुमीयत इति युक्तम् ।
एतेन विरुद्धयोः प्रमाणयोरविरोधापादनं विषयव्यवस्थया अर्थापत्तिविषयः परास्तः ।
अवच्छिन्नानवच्छिन्नयोरविरोधात् ।
तस्माद्
नानुमानात् प्रमाणात्प्रमाणान्तरमर्थापत्तिरिति स्थितम्
न्य्स्_2,2.7: नाभावप्रामाण्यम् प्रमेयासिद्धेः ॥
नाभा--द्धेः
( सू. 6 ) ॥ नाभावज्ञानं प्रमाणं, कस्मात् प्रमेयस्याभावस्यासिद्धेः ।
नो खलु सर्वोपाख्यारहितं प्रमाणज्ञानविषयभावमनुभवति ।
केवलं काल्पनिको ऽयमभावव्यवहारो लौकिकानामिति पूर्वपक्षः
न्य्स्_2,2.8: लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः ॥
सिद्धान्तमाह ।
अभावस्य भूयसीति ।
सर्वजनीनाभावप्रत्ययव्यवहारौ न काल्पनिकौ भवितुमर्हतः ।
न च कल्पना ऽपि सर्वोपाख्यारहितं गोचरयितुमर्हतीत्युक्तं विपरीतख्यातिसाधनावसरे ।
क्षणभङ्गभङ्गावसरे च तस्योपाख्येयत्वमुपपादविष्यते ।
तस्मादस्य प्रामाण्याद्युक्तः प्रामाणान्तर्भावः ।
तदेतत्सर्वं वार्तिककारो व्याचष्टे ।
नाभावः प्रमाणमिति ।
यथोक्तं दूषयति ।
कश्चैवमाहेति ।
अभावो हि प्रमेयमुच्यते न तत्स्वरूपेण प्रमाणमपि तु तद्विषया प्रतिपत्तिः ।
सा च प्रत्यक्षफलमुपादानानदिबुद्धौ प्रमाणं यथा ऽग्रे तथा वक्ष्यते ।
वर्षाभावप्रत्ययस्तु वाय्वभ्रसंयोगे ऽनुमानमुक्तम् ।
प्रतिपद्य चानयतीति ।
( 279 । 4 ) लक्षणाभावेन विशेषणेनावच्छिन्नान्यानेतव्यत्वेन प्रतिपद्यानयति ।
एतदुक्तं भवति लक्षणाभावज्ञानं विशिष्टे वाससि प्रत्ययं जनयत्साधकतमत्वात्प्रमाणं भवति
न्य्स्_2,2.9: असत्यर्थे नाभाव इति चेन् नान्यलक्षणोपपत्तेः ॥
अस-त्तेः ( सू. 9 ) ॥
भावाधीननिरूपणत्वात्प्राप्तिपूर्वकत्वाच्च प्रध्वंस एवाभावः ।
तस्य भावपूर्वकत्वात् ।
नान्यो ऽस्त्य भाव इति मन्वानस्य पूर्वपक्षः ।
नापरिज्ञानादिति ।
प्रत्यक्षं हि प्रमाणं प्रमेयाभावं व्यवस्थापयति ।
तच्च प्रध्वंसवत्प्रागभवे ऽपि तुल्यम् ।
प्रतियन्ति हि लौकिका दध्नि क्षीराभावमिव क्षीरे दध्यभावम् ।
ननु सूत्रमन्येषु वासस्सु लक्षणाभावरूपाणामुपपत्तिं सद्भावमाह ।
न त्वभावोपलब्धिं ब्रूषे तत्कुतो न विरोध इत्यत आह ।
अत उक्तार्थं सूत्रमिति ।
व्यतिरेकमुखेन सूत्रस्योक्तो ऽथः ।
अत एवाह भाष्यकारः ।
नैवमलक्षितेष्विति ।
लक्षणादर्शनेन हि लक्षणाभावदर्शनमुपलक्षितम्
न्य्स्_2,2.10: तत्सिद्धेरलक्षितेष्वहेतुः ॥
यानि तानि लक्षितेष्विति ।
न कस्य चिल्लक्षितस्य न सन्ति यानि च सन्ति तेषामभावो व्याहतः ।
एतदुक्तं भवति यत्र लक्षणानि सन्ति तत्र तेषामभावो व्याहतः
यत्र च न सन्ति तत्राप्यभावो ऽनुपपन्नः ।
तस्य भावाधीननिरूपणस्य तदभावे ऽशक्यनिरूपणत्वादिति ।
परिहरति नापरिज्ञानादिति ।
भावज्ञानाधीननिरूपणो भवत्यभावो न तु भावाधीननिरूपणः प्रागभावो ऽपि च शक्यो भविष्यद्भावज्ञानेनान्यत्रावस्थितभावज्ञानेन वा निरूपयितुमिति न प्रागभावाभाव
इत्यर्थः
न्य्स्_2,2.11: न लक्षणावस्थितापेक्षासिद्धेः ॥
न्य्स्_2,2.12: प्रागुत्पत्तेरभावोपपत्तेश्च ॥
अभावद्वैतमिति ।
प्रकृतापेक्षं प्रकृतं प्रध्वंसमात्रवादिनं प्रति प्रागभावप्रतिपादनं परमार्थतस्तु प्रथममभावेद्वैतं तादात्म्याभावः संसर्गाभावश्चेति संसर्गाभावो ऽपि प्राक्प्रध्वंसात्यन्ताभावभेदेन त्रिविध
इति चतस्रो विधा अभावस्येति ।
असत्यर्थेनाभावः ।
तत्सिद्धेरलक्षितेष्वहेतुरिति चोभे अप्येते छलसूत्रे इति ।
( 280 । 3 ) यो यो ऽभावः स सर्वः सत्यर्थे भवति यथा प्रध्वंसः न च तथा लक्षणाभाव
इति सामान्यच्छलम्
तत्सिद्धेरिति तु वाक्छलं यानि लक्षणानि भवन्ति कथं तान्येव न भवन्तीति हि तस्यार्थः ॥ 11-12 ॥
न्य्स्_2,2.13: आदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच्च ॥
तदेवं शब्दपरीक्षां प्रस्तुत्य तस्य प्रामाण्यं परीक्ष्य विभागोद्देशः परीक्षितः संप्रति शब्दपरीक्षाशेषं वर्त्तयन्नाह ।
आप्तोपदेशः शब्द इति ।
संशयकारणं विप्रतिपत्तिं दर्शयन्
जरन्मीमाङ्कानां मतमाह ।
आकाशगुणः शब्द इति ।
अभिघातप्रेरितेन हि वायुना यावद्वेगमभिप्रतिष्ठमानेन कर्णशष्कुल्यवच्छिन्ननभोभागसमवेतः
नित्यः शब्दो व्यज्यत इति ।
तदेतद्वार्तिककारो व्याचष्टे ।
एके तावदिति ।
अविनश्यदाधारमपि संयोगाद्यनित्यमित्यत आह ।
एकद्रव्यमिति ।
तथा ऽपि पार्थिवाणुगतै रूपादिभिरनैकान्तिकमत
आह ।
आकाशगुणश्चेति ।
एकद्रव्यत्वे सत्याकाशगुणत्वादित्येतावताभिमतसिद्धेरविनश्यदाधारत्वं तत्प्रपञ्चार्थं वेदितव्यम् ।
संयोगविभागनादा इति ।
भेरीदण्डसंयोगप्रेरितो वायुः कर्णशष्कुलीमन्तमाकाशं प्राप्तः शब्दस्य व्यञ्जकः एवं वंशदलविभागप्रेरितो वायुः शब्दस्य व्यञ्जक इति द्रष्टव्यम् ।
संयोगविभागौ पारम्पर्येण, नादस्तु साक्षादिति ।
सांख्यीयमतमाह ।
गन्धादिसहवृत्तिरिति ।
पञ्चतन्मात्रोत्पन्नभूतसूक्ष्मसमुदायारब्धपृथिव्यादिविकारो गोघटादिवृत्तिः शब्दो योग्यदेशस्य आहङ्कारिकतया व्यापकं विषयदेशस्य श्रोत्रेन्द्रियं विकुर्वन्नवस्थित
एव गृह्यते ।
तदेतदाह ।
अपरे पुनरिति ।
भूतविशेषाभिघाता इति ।
भेरीदण्डाभिघाता इत्यर्थः ।
वैशेषिकमतमाह ।
आकाशगुण इति ।
बौद्धराद्धान्तमाह ।
महाभूतसंक्षोभज इति ( 281 । 2 ) नासम्बन्धादिति ।
यदा भावो ऽस्ति तदा प्राक्प्रध्वंसाभावान्नानित्यत्वम् ।
अनुत्पन्नविनष्टयोश्च प्रसङ्गादिति ।
न तावत्प्रक्प्रध्वंसाभावयोः सहभावो ऽस्ति तस्मात्प्रत्येकमेव तावदनित्यत्वं तथा चानुत्पन्ने वस्तुनि नष्टे वा ऽनित्यत्वप्रसङ्गः ।
न चेदं दृष्टमिष्टं वा भावधर्मत्वेनानित्यत्वस्य प्रतीतेरनित्यो घट इति ।
न केवलमनित्यत्वस्य भाव इति परमस्मिन्पक्षे न युज्यते षष्ट्यर्थश्च नास्ति ।
कस्माद् भावस्याभावो धर्मो न भवतीत्यत आह ।
न च धर्मकाल इति ।
चो हेत्वर्थे ।
शङ्कते ।
अथेति ।
भवन्नेव हि यस्मात्प्राग्
न भवति पश्चाच्च तस्मात्तस्याभाव इति षष्ठयुपपत्तिरित्यर्थः ।
उत्तरम् एवमपीति ।
सत्यं भवन्नेव न भवतीति, न त्वेनावता ऽस्याभावसंबन्धो भिन्नकालत्वात् ।
तस्मान्नास्मदुक्तं किं चित्प्रतिषिद्धमित्यर्थः ।
लोकविरोधमुद्भावयति घटस्य प्रागभाव इति ।
असंबन्धे षष्ठीप्रयोगो ऽयं भाक्तः भावाधीननिरूपणत्वं च भक्तिरित्यर्थः ।
अपि च वर्तमानवस्तु नित्यमित्युच्यते तस्य भावो नित्यता ।
भवतु किमेतावता ऽपीत्यत आह ।
वर्त्तमाने चेति ।
( 282 । 1 ) विनाशो ऽस्यावश्यन्तया भविष्यतीति अवश्यंभाविनो विनाशस्य सन्निधानेन सम्बन्धमुपचर्य मतुपः प्रयोग
इत्यर्थः ।
उपलब्धिलक्षणप्राप्तस्येति ।
( 283 । 7 ) न हि सतो विनाशो ऽस्ति येनासंबन्धो भावस्य देश्येत किं तु यथा सतव आविर्भावो जन्म
एवं सत एवात्यन्ततिरोभावो विनाश इति अनित्यतेति चाख्यायते तिरोभावस्य च सता सह समानकालतया सम्बन्ध उपपद्यत इति भावः ।
तिरोभावश्च घटादिना ऽपि संभवतीत्युपलब्धिलक्षणप्राप्तस्येत्युक्तम् ।
तदेतत्सांख्यीयं मतं दूषयति ।
एतत्तुशून्यमभिधानमिति ।
प्रधानविकारत्वाद्विश्वस्य विकारस्य च प्रकृतेरनन्यत्वात्प्राधनिकस्य कस्य (?) चिदुपलम्भान्नास्त्येव तद्वस्तु यदत्यन्तं नोपलभ्यत इति सांख्यसिद्धान्तस्तं बाधत
इत्यर्थः ।
अपि च यथा सतो न विनाशः एवमसतो ऽपि जन्म नास्ति तथा चानुपजातविशेषस्य वस्तुनस्तिरोभावो न युक्तः विशेषोपजनेन च कथं सत उत्पत्तिर्विशेषस्यैव प्रागसत्त्वात् सत्त्वे वा प्रागप्यनुपलब्धिप्रसङ्ग इति ।
ये पुनरिति ।
अनित्य एवानित्यता स्वार्थिकस्तल्प्रत्यय
इत्यर्थः ।
दूषयति ।
एतत्तु न युक्तम्1 पाणिनेरपि स्मृतिः प्रमाणाविरोधिनी तत्त्वव्यवस्थाहेतुर्न तद्विरोधिन्यपि, अस्ति च ठगादीनां स्वार्थिकत्वे प्रमाणविरोधः ।
तथा हि प्रकृतिप्रत्ययोः समभिव्याहारो न स्याद् न खल्वेकार्थयोः समभिव्याहारो दृष्टः न हि भरति वृक्षः शिंशपा इतिवद्वृक्षस्तरुरिति प्रयोगः ।
कथं तर्ह्येको द्वौ बहव इति चेत् ।
न ।
लिङ्गविशेषव्यक्त्यर्थत्वाद्विभक्तिप्रयोगस्य
एवं यावकादिष्वपि विरुद्धजात्यन्तरव्यवच्छेदः प्रत्ययार्थो वेदितव्यः ।
यथा च व्याचक्षते शब्दाः याव एव यावक इति ।
तदिदमुक्तम् ।
अनुपलभ्यमानभेदानामप्यनुमानतो भेद
इति ।
किमनुमानं ।
षष्ट्या भेदविषयत्वमिति त्वतलभिप्रापयं नित्यत्वानित्यत्वयोः प्रकृतत्वात् ।
तस्य भावस्त्वतलाविति त्वतलोः षष्टीसमर्थादुत्पत्तेः सर्वविषयं त्वनुमानमुक्तमिति ।
अवध्यपेक्षानपेक्षेति ।
( 284 । 3 ) सत्तैवोभयान्तावध्यपेक्षा भवत्यनित्यता सैव च तदनपेक्षा नित्यता अवधिश्चोपलक्षणं न विशेषणम् तच्च भिन्नकालमपि भवत्येव यथा मृतायां मातरि देवदत्तायां देवदत्तापुत्रो यज्ञदत्त इति भूतपूर्वगत्वा देवदत्ता स्वपुत्रमुपलक्षयति यदा च कार्यत्वं समवायस्तदोभयान्तावच्छिन्ना सत्ता नित्यता ।
यदा तु पूर्वान्तावच्छिन्ना सत्तैवोत्पत्तिस्तदा ऽपरान्तावच्छिन्ना सत्ता अनित्यतेति न ह्वेतुलक्षणव्याख्यानावसरोक्तेन विरोध इति ।
कार्यात्मलाभहेतुः समवाय
इति ।
कार्यस्यात्मलाभः स्वकारणसम्बन्धित्वं तस्य हेतुः समवायः ।
समवायो हि समवेतत्वं भवति समवायः कारणविशिष्टकार्यत्वमिति ।
निमित्तकारणभेदानुविधानमुत्पत्तिधर्मकत्वं गम्यगमकयोरभेदविवक्षया
न्य्स्_2,2.14: न घटाभावसामान्यनित्यत्वाद् नित्येष्वप्यनित्यवदुपचाराच्च ॥
न्य्स्_2,2.15: तत्त्वभाक्तयोर्नानात्वविभागादव्यभिचारः ॥
निमित्तकारणानि भेरीदण्डसंयोगादयः ।
तद्भेदात्खलु शब्दो भिन्नो भवति ।
शङ्कते संयोगविभागेति ।
( 285 । 2 ) यथा हि कारणभेदेन भेदो दृश्यते एवं व्यञ्जकभेदेनापि मणिकृपाणदर्पणादिव्यज्यमानस्य मुखस्य भेदो दृष्टः तस्मात् संशय इति ।
श्रोत्रं तावन्न शब्ददेशं गच्छत्यमूर्त्तत्वादिति ।
कर्णशष्कुल्यवच्छिन्नं हि नभः श्रोत्रं, न च कर्णशष्कुली मूर्त्ता ऽपि सती वक्तृवक्रमुपसर्पति प्रत्यक्षं हि कर्णशष्कुली श्रोत्रस्था गृह्यते तस्माद्गच्छदपि कर्णशष्कुल्यपधानविरहान्न नभोमात्रं श्रोत्रं तस्मान्मा कर्णशरूकुली यासीत् तदुपकृतं तु नभो गच्छतीति यो मन्यते तं प्रत्येतदुक्तमिति द्रष्टव्यम् ।
क्रियाकारणगुणसमवायादिति ।
नोदनाभिधातसमवायादित्यर्थः ।
नायं निरपेक्षार्थ इति।यद्यपिव समवायिकारणं पतने कत्त्रव्ये गुरुत्वमपेक्षते तथा ऽपि चरमभाविनिमित्तान्तरं नापेक्षत इति निरपेक्षशब्दास्यार्थः ।
यद्यपि प्रतिबन्धकापगमो भवति चरप्रभावी तथा ऽपि न निमित्तान्तरं प्रतिबन्धे हि सति गुरुत्वं न करोति कार्यमौत्सर्गिकं न पुनः प्रतिबन्धकापगमस्यापि तत्र निमित्तभावकल्पना युक्ता तदन्वयव्यतिरेकस्यान्यथासिद्धेरिति भावरूपं वा चरमभाविनिमित्तान्तरं नापेक्षत
इत्यनपेक्षार्थः ।
विषयाभावाच्चेति ।
( 286 । 3 ) क्रियोत्पादं प्रति योग्यता क्रियाविषयस्तामाश्रित्य क्रिया भवति सा मूर्तिः न चासावसर्वगतद्रव्यपरिमाणलक्षणात्माकाशादौ सर्वगते समस्ति तस्मान्नैते क्रियावन्त
इत्यर्थः ।
ततो ऽन्त्यस्यातिमान्द्यादिति ।
नान्त्यः शब्दान्तरमारभते न केवलमसौ स्वकारणं शब्दं नाशयति, किन्तु सो ऽपि स्वकारणेन शब्देन नाश्यते तदिदमनयोः कार्यकारणविरोधित्वम् ।
आद्यस्तु कार्येणैव नाश्यते मध्यानां त्वनियम
इति ।
जरन्मीमांसकमतमुत्थापयति एव एवेति चेदिति ।
एक एव तेषां शब्दो नभोगुणो नभो वितत्यावस्थितः परिमाणवदित्यर्थः ।
शब्दसंस्कारपक्षं कक्षीकृत्य दूषणमाह ।
न सर्वैरुपलब्धिप्रसङ्गादिति ।
न किम इति ( 287 । 2 ) प्रश्नस्येत्यर्थः ।
शब्दस्याकाशवृत्तित्वादिति ।
आकाशस्य सर्वगतत्वेन तत्र व्यक्तः सर्वत्रैव व्यक्त इति सर्वत्रैवोपलम्भस्तदवस्थ एवेत्यर्थः ।
अभ्युपेत्यैकदेशमाह ।
एकदेशाभिव्यक्तौ चार्थप्रत्ययो न स्यात् ।
वर्णसाध्यस्य कार्यस्यैकदेशेनाकरणात् ।
यथा नानावर्णे पदे एकवर्णाभिव्यक्तौ नार्थप्रत्यय
इति ।
स्यादेतद् एकदेश एव वर्णः तथा च वर्णसाध्यं कार्यमेकदेशः शक्तः कर्तुमित्यत आह ।
सर्व एव व्यापकाप भवन्तीति ।
एतस्मिन्पेक्षे वर्णैकदेशव्यक्तिरभ्युपगम्यते तस्माद्व्यापकाद्वर्णादव्यापक एकदेशो ऽन्यैत्यर्थः ।
नन्वस्त्वेकदेशत एवार्थप्रत्यय इत्यत आह ।
एतस्मिन् पक्षे वर्णैकदेशव्यक्तिरभ्युपगम्यते न च वर्णैकदेशः शक्यो निरूपयितुम् ।
अल्पीयसा हि प्रयत्नेन वर्णमुच्चरितं मतिर्न गृह्णाति गृह्णती वा वर्णमेव गृह्णाति न तु तदेकदेशं कदा चिदपीत्यर्थः ।
निरूपणमभ्युपेत्याह ।
न च निरूपितादिति ।
बहवस्तहिं वर्णा व्यज्यन्तां तन्निरूपणाच्चार्थो गम्यत इत्यत आह ।
एतेनेति ।
यस्तु मन्यते न वस्तुतो ऽस्त्येकदेशः शब्दस्य किं तु संस्कारस्याव्याप्यवृत्तित्वमेवैकदेशः ।
भवतः पक्षे शब्दस्याव्याप्यवृत्तित्वमेव नभस
एकदेश इति तं प्रति दोषान्तरमाह कोलाहलश्च स्यादिति ।
यद्युच्यते कश्चिदेव ध्वनिः कं चिदेव शब्दं व्यनक्ति ततश्च न कोलाहल इति तत्राह ।
नियमश्च न स्यादिति ।
( 288 । 5 ) समानदेशानामपि रूपरसादीनां व्यञ्जकनियम इत्यत उक्तं समानेन्द्रियग्राह्याणामिति ।
तथा पि भिन्नदेशानां समानेन्द्रियग्राह्याणामपि न सहसा सर्वेषां व्यक्तिरित्यत उक्तं समानदेशानामिति ।
शङ्कते यद्यस्य व्यञ्जकमिति ।
न हि व्यञ्जकानां व्यञ्जकत्वं व्यक्तेरन्यतः प्रतीयते सा च नियतेति व्यञ्जकानामपि नियमसिद्धिरित्यर्थः ।
परिहरति तन्नादृष्टत्वात् ।
अन्येषामेव भूतानां व्यञ्जकानां व्यङ्न्यानां चानियमोव दृष्ट इहापि नियमं विघटयति ।
कार्याणां तु समानदेशानामपि समानेन्द्रियग्राह्याणामपि रूपादीनां संख्यादीनां च दृष्टः कारणनियम इति शब्दानामपि नियतकारणतयोत्पत्तिनियम
उपपद्यत इति भावः ।
समस्तवस्त्वव्यवधानेन सामान्यानां सर्वसामान्यसंगतं समस्तं वस्त्विति मन्वानः शङ्कते ।
सामान्यवदिति ।
सर्वार्थाव्यवधाने ऽपि किं चिदेव वस्तु केन चिदेव सामान्येन संबद्धं न सर्वं सर्वेणेत्याशयवान्निराकरोति ।
नानभ्युपगमादिति ।
यद्यप्येकदेशस्थानां समानेन्द्रियग्राह्याणां सत्त्वनरत्वब्राह्मणत्वानां स्वरूपभेदसंस्थानयोनिव्यङ्न्यानां प्रतिनियतव्यञ्जकव्यङ्न्यत्वं तथा ऽपि समानदेशत्वाभावान्न व्यभिचारः ।
सत्त्वस्य पदार्थत्रयसमवायादधिकदेशतया नरत्वस्य ब्राह्मणवत् क्षत्रियादिषु सद्भावात्
ब्राह्मणत्वस्य क्षत्रियादिपरिहारात् कठ दिष्वेव भावाद् न्यूनाधिकदशतया न समानदेशत्वमिति ।
एतेन श्रोत्रसंस्कारे ऽप्यनिमो बोद्धव्यः
यथोन्मीलनसंस्कृतमिन्द्रियं समानदेशान्स्वग्राह्यान्सकृदेव दर्शयति न तु किं चिदेवेति सर्वमवदातम् ।
अपि च सर्वशब्दस्य ताल्वादिसंयोगव्यङ्न्यत्वे तदुपरमे विदूरे शब्देनोपलब्धव्यं न चोपलभ्यते ।
वायुसंतानव्यङ्न्यत्वे तु प्रागुक्तनियमाभाव एव दोष इति शङ्कोत्तराभ्यां दर्शयति ।
यदिचेति ।
अपि चायं नित्यः शब्दः प्रादेशिको वा स्याद्व्यापको वा उभयथा ऽपि दोष इति शङ्कोत्तराभ्यां दर्शयति ।
निमित्तसन्निधाने चेति ।
( 289 । 10 ) स्यादेतत् ।
मा भूद्रायुसंतानो व्यञ्जकः सन्ति खलु वायुगुणा नादास्ते ऽस्य शब्दस्य व्यङ्क्तापर इत्यत आह ।
नादोपलब्धौ चेति ।
न तावन्नादो नाम वायुगुणः कश्चिदुपलभ्यते,
अभ्युपेत्यापि ब्रूमः ।
नादोपलब्धावपि यत्र वायुस्तत्र तद्गुणो ऽङ्गीकर्तव्यः न च विप्रकृष्टेनपुरुषेण शब्देपलब्धौ तत्र वायुरस्ति तद्गुणो वा नादः वायुसन्तानगमनं चात्मिन् पक्षे नेष्यते यस्माद्विमकृष्टेन पुरुषेण शब्दोपलब्धेन व्यञ्जको नाद इति ।
स्यादेतत्
मा भूद्वायुसंतानो मा च भूत्तद्गुणो नादः शब्दस्य व्यञ्जको वायवीयास्तु संयोगविभागा व्यञ्जका भवन्तीत्यत आह ।
एतेनेति ।
यस्तु मन्यते प्रत्यभिज्ञैव भगवती शब्दस्येमसाधिनी तदानुगुण्याय व्यापिनः शब्दस्य गुणस्य द्रव्यस्य वा प्रयत्नप्रेरिता वायवो यावद्वेगं प्रतिष्ठमानाः श्रोत्रं श्रोत्रावच्छिन्नशब्दविशेषं वा संस्कुर्वन्तो व्यञ्जका इति कल्प्यते ।
न च समानदेशानां समानेन्द्रियग्राह्याणां नियतव्यञ्जकव्यङ्न्यत्वं न दृष्टमितीमं प्रसङ्गं प्रत्यभिज्ञा मृषति सो ऽयमनया बाधितविषयो विलीयत
इति तं प्रत्याह ।
कृतकवदुपचारात् ।
( 290 । 1 ) अत्र चोपचारेण प्रयोगेण तत्कारणं शब्दभेदप्रत्ययमुपलक्षयति ।
अस्ति हि शुकसारिकामनुष्यवक्रप्रभवेषु गकारादिषु स्फुटतरा रूपभेदप्रत्ययाः पुंसाम् ।
एवं स्त्रीपुंसप्रभवेषु स्त्रीपुंसभेदप्रभवेषु च ।
न चेयमौपाधिकी न तु स्वरूपत इति वाच्यम् ।
तथा ह्यौगाधिकत्वमानुभाविकं वास्याद् यथा कुङ्कुमारुणा तरुणीति ।
उपपत्तिगोचरो वा यथा कृपाणधारायां जले व प्रतिबिम्बहेतौ रोचिष्णुतायां दीर्घश्यामतायां मुखस्य न तावदानुभाविकं,
विदितोपाधेः खलुः तद्भवति यथा विदितकुङ्कुमस्य कुङ्कुमारुणेति ।
शुकादिभेदमविदुषो ऽपि च काण्डपटाद्यावृते शुकादौ शब्दभेदप्रत्ययो भवति यत एतदुन्नयति शुकोदीरिता मञ्जुतमा गाथेति ।
नाप्यौपाधिकत्वमुपपत्तिगोचरः
न हि शब्दस्वरूपसमवायिनो भेदस्यौपाधिकत्वे किचिदस्ति प्रमाणं मुखस्येव मणिदर्पणकृपाणगतस्य ।
न खलु विरुद्धपरमाणेषु दर्पणादिषु विरुद्धपरिमाणानां प्रतिबिम्बानामुत्पादः संभवति ।
शब्दानां तु संयोगविभागयोनीनां युक्तस्तद्भेदेन रूपभेदः ।
स्यादेतत् ।
तीव्रमन्दत्वादयो धर्माः परं भिद्यन्ते न तु तदाश्रयः शब्दः न ह्यन्यस्य भेनेनान्यो भेत्तुमर्हति अतिप्रसङ्गात् ।
न हि रूपरसादीनां युगपद्भाविनां वा क्रमभाविनां वा संयोगादीनां भेदे द्रव्यं भिद्यते ।
कथमेकस्यैव शब्दस्यापर्यायेण तीव्रमन्दत्वादिविरुद्धधर्मसंसर्ग इति चेत् ।
अत एवौपाधिको ऽस्तु मुखस्येवाभेदिनो ऽपर्यायेण कृपाणादिषु दीर्घपरिमण्डलत्वादिः ।
अत्रोच्यते, न वयं धर्मभेदमात्रेण धर्मिणो भेदमाचक्ष्महे किं तु धर्मभेदमात्रप्रथा उत धर्मिभेदो ऽपि प्रथत इति निरूप्यताम्, अस्ति हि गौर्गौरिति प्रथानुगमे ऽपि शुङ्ककपिलकपोतिकासु गोषु धर्मिभेदावगाहिनी प्रथा ।
अस्ति च धर्ममात्रभेदावगाहिनी प्रथा धर्मिणमभिन्नमाकलयन्ती यथा शालप्रान्थुः
वृथुलविशालवक्षाः प्रलम्बभुजो नीलोत्पलदलश्यामः सिंहास्यो नवाम्भोदध्वनिर्गम्भीरमधुरघोषश्चकोरेक्षणः क्षत्रिययुवेति ।
सेयं शुकशारिकामनुष्येषु युगपद्गकारानुच्चारयत्सु तीव्रमन्द्रानुनासिकादिगकारावगाहिनी प्रथा किमेकमेव क्षत्रिययुवानमिव गकारमनेकधर्मवन्तमालम्बते एको गकारो नानाधर्मेति किं वा यथेयं शुक्ला गौरियं कपिला गौरिति तथा तीव्रो ऽयं गकारो मन्दो ऽयं गकारो ऽनुनासिको ऽयमिति भवन्त एव विदांपव कुर्वन्तु ।
सेयं गोत्त्वमिव कपिलादियु गोविशेषेषु गत्वं तीव्रमन्दादिशब्दभेदेष्वालम्बमाना प्रत्यभिज्ञा च भेदप्रथा चोपपत्स्यते ।
अपि च युगपत्तीव्रमन्दत्वादिलक्षणविरुद्धधर्मसंसर्गादपि गकाराणां परस्परतस्तपनखद्योतवद्भेदमनुमिमीमहे ।
न चायं विरुद्धधर्मसंसर्गो न गकारादिनिवेशी किं त्वापाधिकः उपाधयश्च भिद्यन्त एव न गकार
इति सांप्रतम् ।
गकापरसमवायिनः प्रतीयमानस्यासति बाधके औपाधिकत्वकल्पनायोगात् ।
प्रत्यभिज्ञानस्य च गत्वसामान्यालम्बनत्वेनोपषत्तेः ।
अपि चौपाधिकत्वपक्षे ताल्वादिसंयोगधर्मो वा तदभिघातप्रेरितध्वनिधर्मो वा तीव्रानुनासिकत्वादिः शब्दे समारोष्यत इत्यास्थेयम् ।
न चारोष्यमजानतामारोपः संभवति ।
न च ध्वनीनां ताल्वादिसंयोगविभागानां वा धर्मः श्रोत्रेण शक्यो ग्रहीतुं तदन्यधर्मवत् ।
न चैते तदार्नी प्रमाणान्तरेणोपनीयन्ते स्मृता वा येनारोप्येरन् ।
न च ध्वनिभेदसंस्कारवशाच्छ्रोत्रस्यैतादृशः सामर्थ्यभेद आविर्भवति ।
येन आरोप्याग्रहे ऽपि भ्रमो भवति ।
न च मण्डूकवसाक्ताक्षाणामिवानवगतास्मृतोरमाणामपि प्रथमाक्षसन्निपाताद्वंशेषूरगारोप इति सांप्रतम् ।
सर्वासामेव भ्रान्तीनां प्रमाणगृहीतारोप्यारोपविषयग्रहणपुरःसरत्वनियमात् ।
तदनुसारेण मण्डूकवसाक्ताक्षाणामपि वंशेषूरगभ्रमो व्याख्येयः ।
वंशानां तावदस्ति भूयः सारूप्यमुरगेण तेन चैते तन्मात्रेण रूपेण शक्नुवन्ति गृहीताः स्मारयितुमुरगम् ।
एवमपि यदन्येषांभ्रमो न भवति तत्र सर्पाकारव्यावृत्तवंशग्रहो हेतुः मण्डूकवसाञ्जनं च वंशाकारपिधानमात्रहेतुः ।
न च प्रयमाक्षसन्निपातादेव भ्रम इति प्रामाणिकं क्षणभेदस्य दुर्जानत्वात् ।
च चागृहीतसर्पस्य भवतीति युक्तं शक्यं वक्तुम् ।
तस्मिन् जन्मनि जन्मान्तरेव वा सर्पग्रहसम्भवात् ।
ध्वनिधर्मस्त्वनुनासिकत्वादिरस्मिन्नेव जन्मनिजन्मान्तरे ऽप्यशक्यग्रह एव ।
तस्माद्वर्णसमवेतो ऽनुनासिकत्वादिः प्रतीयमानां वर्णधर्म एव नौपाधिकः तथा च युगपद्विरुद्धधर्मयोगात्परस्परमन्यत्वं गकारादीनामिति युक्तम् ।
तदनेनाभिसंधिनोक्तं कृतकवदुपचारादिति ।
तदेतद्वार्तिककारो व्याचष्टे ।
तीव्रं मन्दमिति कृतकमुपचर्यत
इति ।
शब्दविषयत्वेन विरुद्धधर्ममुपलक्षयति ।
अपरानपि शब्दानित्यत्वहेतूनाह ।
कृतकवदुपचारादित्यनेनेति ।
सामान्यवत इत्येतावतैव जातिनिराकरणे सिद्धे विशेषग्रहणं साधर्म्यं सामान्यमिति भ्रमनिराकरणार्थम् ।
तद्धि प्रमेयत्वसत्त्वादिकं गुण इव जात्यादावप्यस्तीति ।
विशेषपदेन तु जातिग्रहणान्निवर्त्तितं भवति ।
उपलभ्यस्येति तूपरिष्टात्स्फुटीभविष्यतीति ।
शङ्कते तीव्रशब्दस्येति ।
तीव्रत्वधर्मान्वयव्यतिरेकानुविधायिप्रवृत्तिस्तीव्रशबदो न शब्दं धर्मिणमभिधातुमर्हतीति यथोक्तमात्रस्याक्षेप
इत्यर्थः ।
निराकरोति ।
न शब्दशब्देन समानाधिकरणस्येति ।
एतच्च व्यक्त्याकृतिजातयः पदार्थ इत्यत्र प्रतिपादयिष्यते ।
शङ्कते व्यञ्जकस्येति ।
स्वकारणात्खलु व्यञ्जकाच्छब्दज्ञानमुत्पन्नं तीव्रं मन्दं चेति ।
तेन तीव्रज्ञानज्ञेयः शब्दो ऽपि तीव्र इव मन्दज्ञानज्ञेयः शब्दो मन्द इव भासते न त्वाजानतो ऽस्य तीव्रत्वं मन्दत्वं वा येन भिद्यत इत्यर्थः ।
निराकरोति नाभिश्रवेति ।
अन्यत्खल्वन्येन समानजातीयेनाभिभूयते न तु तदेव तेन, न हि मध्यन्द्रिनोल्काप्रकाशसंबन्धी पटः पटुना सावित्रेण प्रकाशेन प्रकाशमानमात्मानमात्मना ऽभिभवति ।
एवं गकारो ऽपि तीव्रध्वनिप्रकाश्यं गकारमात्मानमभिभवेत् ।
यदि त्वयं मन्दध्वनिप्रकाश्यो गकारस्तीव्रध्वनिप्रकाश्याद्गकारादन्यो भवति ।
ततो मध्यदिनोल्काप्रकाशः सवितृप्रकाशेन चाल्पत्वादभिभूयते इति युज्यते तदिदं शेषं भाष्यौक्तमिति ।
सत्यमन्यदन्येनाभिभूयते तथा ऽपि न गकारस्य नानात्वमपि तु तद्ग्रहणानां तेषां चाभिभाव्याभिभावकभावो न गकारस्येत्यनेनाभिप्रायेण शङ्कते ।
ग्रहणमिति ।
निराकरोति ।
न ग्रहणभेस्येति ।
अर्थभेदाधीननिरूपणो ग्रहणभेदो नार्थभेदमन्तरेण शक्यो निरूपयितुं, न च भेदेनानिरूपितःप शक्यो ऽभिभाव्याभिभावकभावेन प्रत्येतुमित्यर्थः ।
नित्यं ग्रहणभेदः स्यादिति ।
ग्रहणभेददर्शनाभ्युपगमे नियतमर्थभेदो ऽभ्युपगन्तव्यः ।
तथा च सर्वमेव भिद्यत इति नाभिन्नं किं चिद्भवेत् ।
भेदो ऽपि न स्यादभेदाश्रयत्वाद्भेदस्येत्यर्थः ।
अभिश्रवानुपपत्तिश्चेति ।
( 291 । 1 ) यस्मिन्नेव क्षणे पूर्वं ज्ञानमुत्तरेणोत्पद्याभिभवनीयं तदैव तेन विनाश्यते न चासतो ऽभिभव
इत्यर्थः ।
सांख्यमते ऽपि नाभिभव इत्याह ।
अभिभवेति ।
पराजितं सांख्यं दृष्ट्वा नास्माकमयमस्त्यनुयोग
इति मन्वानो मीमाङ्गकः पुनः शङ्कते ।
सर्वत्रेति ।
निराकरोति नेति ।
साङ्ख्यश्चोदयति ।
यदि संतानवृत्तिरिति ।
परिहरति ।
शब्दसंतानस्य निमित्तभेदाभिमुख्येनादौ प्राप्तेरिति ।
( 291 । 8 ) निमित्तभेदो भेरीशङ्खताल्वादिश्च तदाभिमुख्येन यः कर्णशष्कुल्यवरुद्धस्य नभसः श्रोत्रस्य भागः स्थितस्तस्मिन्नादौ च
उत्षन्नः शब्दस्तस्य प्राप्तेः पूर्वादिदिगवस्थितशङ्खादिजन्मा ऽयं शब्द इत्यनुमीयते ।
एतदुक्तं भवति विशिष्टदिग्देशावस्थितशङ्खादिप्रभवशब्दसंतानजन्यस्य तस् शब्दस्य को ऽपि धर्मभेदः श्रोत्रगोचरो यस्मात्तस्य विशिष्टदिग्देशावस्थितशङ्खादिप्रभवत्वमनुमीयते न चासौ सामान्यविशेषो ऽव्यपदेश्यत्वान्नास्ति ।
न हीक्षुक्षीरगुडादीनां मधुरत्वावान्तरसामान्यभेदः प्रत्यक्षवेदनीयाः शक्या अव्यपदेश्यतपया प्रत्याख्यातुम् ।
अनुभवश्च समानः ।
तस्मादानुमानिकः शब्दे दिग्देशप्रत्यय इति ।
यः शब्दसंतान इति ।
संतनोतीति संतानः आद्यः शब्दो यो जायते स संतानोतीति सम्बन्धः यस्मात्तनिमित्तादभिमुखे नेति योजना ।
आद्यशब्देति ।
तदभिमुखभागयुक्तः शब्द इति ।
तदेवं स्वमतमुत्क्वा परमतमाह ।
एके त्विति ।
परोक्षे वक्तरीति शेषः ।
यद्यपि जात्यन्धानामपि कथं चिदभिमुखपृष्ठपार्श्वतः शब्दविवेकः संभवति तथापि पूर्वापरदिग्विभागो नास्तीत्यत उक्तं जात्यन्धानामिति ॥ 13-14 ॥
न्य्स्_2,2.16: सन्तानानुमानविशेषणात् ॥
एतच्चाभावे नास्तीति ।
( 293 । 3 ) न सत्तांसबन्धो नोभयान्तावच्छिन्नत्वमित्यर्थः ॥ 15-16 ॥
न्य्स्_2,2.17: कारणद्रव्यस्य प्रदेशशब्देनाभिधानाद् नित्येष्वप्यव्यभिचार इति ॥
ननु यद्यन्यद्व्यापकत्वं नास्ति कथं तर्हि भवद्बिःकंषां चिद्व्यापकत्वमव्यापकत्वं च केषां चिदिष्यतैत्यत आह ।
वयं तु व्याप्तिमङ्गुलिरूपस्येति ( 296 । 6 ) ।
यत्र यत्राश्रयोपलब्धिस्तत्र तत्र यद्वस्तूपलब्धियोग्यं सदुपलभ्यते तद्व्यापकं तेन बलाकाव्यापकमपि शौक्ल्यं मन्दमन्दालोके बलाकायामुपलभ्यमानायामपि नोपलभ्यते योग्यताभावात् ।
ईदृशं संयोगादीनां व्यापकत्वमशक्यं गुणत्वेन साधयितुमनुपलब्धिविरोधादित्याह ।
न पुनः शब्दादय इति ।
उपलब्धियोग्या इति शेषः ।
सर्ववस्तुविषयं च स्वाभिमत्तं व्यापकत्वाव्यापकत्वं संक्षिप्याह ।
समुदितस्थानानामिति ।
समुदितस्थाना हि सत्तादयो गोत्वादयश्च व्यापका एकसमुदाथ्युपलम्भे ऽप्युपलब्धेः संयोगादयस्तु समुदितस्थाना अव्यापकाः
न ह्येते समुदायिन्येकस्मिन्निरूप्यन्ते, अपि तु समुदितेष्वेव एकाश्रयाणां रूपादीनां व्यापकानामव्यापकानां च शब्दबुद्ध्यादीनामाश्रयोपलब्धातुपलब्ध्यनुपलब्धी व्याप्त्यव्याप्ती इति योजना ।
एकसमुदायीत्यत्रैकग्रहणमशेषसमुदायिनिवृत्त्यर्थम् ।
न त्वेको विवक्षितस्तद्ग्रहणं वा तेन कतिपयावयवोपलब्धौ तदनुपलब्धौ चोपलभ्यमानो ऽवयवी व्यापकत्वेनोक्तो भवति ।
मूर्तिमत्त्वादिभ्य इत्यादिग्रहणेन स्पर्शवत्त्वाव्यापित्वादीनि गृह्यन्ते ।
कार्याकाशसंयोगो विप्रतिपत्तिविषय
इति ।
यदि कार्याकाशसंयोगमात्रं पक्षीक्रियते ततो विनश्यदाथारद्रव्यवर्तिनः संयोगस्येत्यस्त्यत
एव यावद्द्रव्यभावित्यमित्यपसिद्धान्तः स्यादित्यत उक्तं विप्रतिपत्तिविषय इति ।
तेनैवानैकान्तिकं स्यादत उक्तमविनश्यदाधारत्व
इति ।
तथा ऽपि पटस्य नीलीद्रव्यसंयोगेन यावद्द्रव्यभाविना ऽनैकान्तिकं स्यादित्यत
उक्तं क्रियावद्द्रव्यवृत्तित्वे इति ।
विवक्षितपरस्परविभागहेतुक्रियावत्त्वमिह ग्राह्यम् ।
क्व चित्पट्यते विप्रतिपत्तिविषया विभागिन आकाशादयः क्रियावद्द्रव्यसंयोगित्वात्परमाणुवदिति,
अत्र यद्याकाशादयो विभागिन इति साध्येत तत आत्मादिभिरपि विभागिनः स्युरित्यपसिद्धान्तः स्यादत उक्तं विप्रतिप्रत्तिविषया इति ।
ततो मूर्त्तेन विभागो न इन्यभिमतं लभ्यते ।
संयोगस्यचाव्याप्यवृत्तित्वपिति ।
प्रदेशवतोः खल्वामलकयोः संयोगो व्याप्यवृत्तिता संयोगस्याकाशादावपि प्रदेशवद्द्रव्यसामान्यं तेनाकाशादौ प्रदेशापचार इत्युक्तं, संप्रति सामान्यान्तरौपचारबीजमाह एकस्य चेति ।
( 297 । 4 ) यथा घट एको ऽनेकमूर्त्तिमद्द्रव्यसंयोगी प्रदेशवानेवमाकाशमित्यर्थः ।
कतमस्मिन्नर्थ इति प्रश्नः ।
तस्यार्थः। ... तत्त्वभाक्तयोर्नानात्वस्य विभागादव्यभिचारः ...
... संतानानुमानविशेषणात् ...
... कारणद्रव्यस्य प्रदेशशब्देनाभिधाना ...
दिति सूत्रैरेवानैकान्तिकत्वपरिहारादस्मिन्नर्थे सूत्रं न श्रूयते इत्ययुक्तमिति ।
उत्तरं निष्प्रदेशमाकाशमिति ।
न हि कारणद्रव्यस्य प्रदेशशब्देनाभिधानादिति सूत्रमाकाशादीनां निष्प्रदेशत्वं साक्षाद्
ब्रूतैत्यर्थः ।
एवं स्थिते भाष्यकारीयप्रश्ने वार्तिककारः स्वमुत्तरमाह ।
अर्थतो ऽधिगतेरिति ।
विषयान्तरं प्रश्नोत्तरयोराह शब्दसंतानेति ।
भाष्यकारीयमुत्तरमाह द्वौ पक्षौ न व्यवस्थापयतीति भाष्यस्यार्थः निष्प्रदेशत्वमात्मादीनां शब्दसंतानं च साक्षादाचक्षाणः सूत्रकारः पक्षं व्यवस्थापयेन्न तु तेनेदमभिहितमिति अनुमानतरोश्च पञ्चानां रूपाणां चतर्णां वा संपदः शाखा बहव इत्यर्थः
न्य्स्_2,2.18: प्रागुच्चारणादनुपलब्धेरावरणाद्यनुपलब्धेश्च ॥
सतो ऽनुपलब्धिकारणाभाव
इति ।
( 298 । 2 ) प्राक्प्रध्वंसाभाभ्यां व्यभिचारो या मूदिति सत इत्युक्तम्
न्य्स्_2,2.19: तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः ॥
अत्र जातिवादिनः सूत्रद्वयं ... तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः ...
आवरणानुपलब्धेस्तावदुपलब्धिर्न संभवति ।
अनुपलब्धिस्वरूपविरोधात् ।
तस्मापदावरणानुपलब्धिर्वक्तव्या तथा चावरणानुपलब्धेरभावे सत्यावरणोपलब्धिस्तया त्वावरणसद्भावः ।
ज्ञानस्य निरालम्बनत्वायोगात् ।
न्य्स्_2,2.20: अनुपलम्भादप्यनुपलब्धिसद्भाववद् नावरणानुपपत्तिरनुपलम्भात् ॥
यदि पूर्वोक्तदोषभयादनुपलभ्यमाना ऽप्यावरणानुपलब्धिरस्ति तथा सत्यनुपलब्धेरनैकान्तिकत्वान्नाबरणाभावो ऽनुपलम्भादिति ।
तदिह द्वाभ्यां सूत्राभ्यामनैकान्तिकत्वं देशितम् ।
अस्यावतारभाष्यम् एवं च सति तत्त्वमिति ।
तदेत द्वार्तिककारो व्याचष्टे एवं चेति ।
सूत्रयोस्तात्पर्यं प्रश्नपूर्वकमेकत्र दर्शयति को ऽस्य वाक्यस्येति ।
अत्र सिद्धान्ती किं मत्र ज्ञेयं प्रत्यात्मवेदनीयत्वादिति ।
सिद्धान्त्याह एवंसतीति ।
यद्यावरणानुपलब्धिपरुपलभ्यते मानसेन प्रत्यक्षेण तदा नानैकान्तिकत्वं न चावरणसद्भावः ।
उत्तरवाक्यमिति ।
जात्युत्तरवाक्यमित्यर्थः ।
नास्योत्थानमस्तीति ।
न सूत्रद्वयस्याप्युत्थानमस्तीत्यर्थः ।
ननु पूर्वेणैव सूत्रेणावरणोपपत्तौ दर्शितायां कृतमनुपलम्भादित्यनेन सूत्रेणेत्यत
अह ।
अभ्यनुज्ञावादेनेति ।
पूर्वसूत्रेणानुपलब्धेरनुपलम्भादभाव
उक्तः इह त्वनुपलम्भादपि यद्यनुपलब्धेर्नाभावादिति तदनेनाभ्यनुज्ञाया अनैकान्तिकत्वमुच्यत
इति नापार्थकमेतत्सूत्रमित्यर्थः ।
सूत्रगतो ऽपिरभ्युपगमांशमवद्योतयति ।
एतदेवाह भाष्यकारः ।
यद्यप्यनुजानाति भवानिति ।
तदनेन सूत्रद्वयेनानैकान्तिकत्वमुक्तमिति स्थितम् ॥ 19-20 ॥
न्य्स्_2,2.21: अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥
अस्योत्तरसूत्रम्---
अनु--तुः (सू. 21) ॥
जातिवाद्यनुपलब्धेरनुपलब्धिर्नास्ति विरोधादिति मन्यते तत्र विधिविषयप्रमाणगोचरता ऽनुपलब्धौ विरुध्येत ।
ननु निषेधगोचरप्रमाणविषयता ऽपि, ततश्चोपलब्धिं निषेधता प्रमाणेन मनसा ऽनुपलब्धिग्रहणं न विरोधमावहति तदयं सूत्रार्थः ।
अनुपलब्धेरावरणानुपलब्धेरनुपलम्भात्मकत्वादावरणोपलब्धिनिषेधात्मकत्वात् तदनुपलब्धेरनुपलम्भादित्ययमावरणोपपत्तौ न हेतुः ।
असिद्धत्वाद्
निषेधविषयेणानुपलब्धेरनुपलम्भादिति ।
तदेतद्भाष्यकारो व्याचष्टे ।
यदुपलभ्यत इति ।
यदुपलभ्यते विधिविषयेण प्रमाणेन तदस्ति यन्नोपलभ्यते यन्निषेधविषयेण प्रमाणेनोपलभ्यते तन्नास्तीति ।
तस्मादनुपलम्भात्मकं निषेधविषयप्रमाणागम्यमसदिति स्थितम् ।
उपलब्ध्यभावश्चानुपलब्धिः सेयमभावत्वान्नोपलभ्यते विधिविषयेण प्रमाणेन ।
शेषं सुगमम् ।
अस्य वार्तिककारः परमतात्पर्यमाह ।
अतथाजातीयेनेति ।
अनुत्तरं जात्युत्तरमित्यर्थः ।
यथाजातीयक
इति ।
उपलब्धस्य हि शब्दस्यासत्यनुपलब्धिकारणे प्रागूर्द्धं चोच्चारणादनुपलभ्यमानस्यानित्यस्य सधर्मा नान्य आत्मादिर्दृष्टो ऽनित्य इति ।
ननु प्रागूर्द्धं चोच्चारणान्मा भूच्छब्द इति एतावता ऽपि नित्यान्तरवैधर्म्येण कस्मान्न नित्यः शब्दः न ह्यात्माकाशादयो नित्याः सर्वथाप सर्वेषां सधर्माणः मा भूदेषामभेद
इत्यत आह ।
उक्तं चेति ।
अनित्यत्वसाधनमाह ।
अनित्य इति ।
प्रत्यक्षत्वादित्युच्यमाने गोत्वादिभिर्व्यभिचारः स्यादत उक्तं व्यापकद्रव्ये समवाये सतीति ।
तथा ऽप्यात्मसमवायिनैकत्वेन व्यभिचारः स्यादत उक्तम् ।
अव्यापकस्यासमवाये सतीति ।
तथा ऽप्या त्मसमवायित्वस्येति अमूर्त्तत्वादित्युच्यमाने घटादिभिः प्रदेशवद्भिः प्रथमे क्षणे व्यभिचारो ऽत उक्तं सर्वदेति ।
तथा ऽपि क्रियागुणादिभिर्व्यभिचारस्तेषामपि हि समवायिकारणं प्रदेश इत्यत उक्तम् ।
द्रव्यस्य सत इति
न्य्स्_2,2.22: अस्पर्शत्वात् ॥
न्य्स्_2,2.23: न कर्मानित्यत्वात् ॥
न्य्स्_2,2.24: नाणुनित्यत्वात्
24 ॥ तदेवं स्वपक्षसाधनमुत्क्वा विप्रतिपत्तिनिमित्तं परपक्षसाधनमुपन्यस्य निराकरोति ।
अथ शब्दस्येति ।
( 299 । 19 ) अस्पर्शेन कर्मणैवोभयतो व्यभिचारे लब्धे नित्येनाणुना व्यभिचारोद्भावनं कृतकत्वानित्यत्ववत्समव्याप्तिकत्वनिराकरणार्थं द्रष्टव्यम् ॥ 22-24 ॥
न्य्स्_2,2.25: संप्रदानात् ॥
न्य्स्_2,2.26: तदन्तरालानुपलब्धेरहेतुः ॥
न्य्स्_2,2.27: अध्यापनादप्रतिषेधः ॥
न्य्स्_2,2.28: उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः ॥
न्य्स्_2,2.29: अभ्यासात् ॥
न्य्स्_2,2.30: नान्यत्वेप्यभ्यासस्योपचारात् ॥
अयं तर्हि हेतुः सम्प्रदानादिति ।
संप्रदीयमानत्वादित्यर्थः ।
दातृप्रतिग्रहीत्रोरन्तराले शब्दो ऽस्ति अध्यापनाद गुरुणा शिष्यापय दीयमानत्वाद धनूर्वेदविदाचार्येण शिष्याय दीयमानेष्वादिवदिति ॥ 25-30 ॥
न्य्स्_2,2.31: अन्यदन्यस्माद् अनन्यत्वादनन्यदित्यन्यताभावः ॥
यद्यन्यन्नाम जगति भवेत् ततो न्यत्वे ऽप्यभ्यासस्योप चारादित्यनेनानैकान्तिकतवमुद्भाव्येत तदेव नास्तीति वाच्छलेन प्रत्यवतिष्टते ।
अन्य--वः (सू. 31) ॥
न्य्स्_2,2.32: तदभावे नास्त्यनन्यता तयोरितरेतरापेक्षसिद्धेः ॥
तस्य परिहारसूत्रम् ।
तद--द्धेः (सू. 32) ॥
तयोरन्यानन्ययोर्मध्ये ऽनन्यस्यान्यापेक्षसिद्धेरित्यर्थः ।
न चान्यस्वरूपात्तदनन्यदिति परस्मादप्यनन्यद्भवितुमर्हति ।
न हि नीलमात्मनो ऽनन्यदिति पीतादप्यनन्यदिति ।
अन्यदेव हि पीतान्नीलमिति परमार्थः ।
अयं तावत्प्रत्ययः पुरुषान्तरे निबर्त्तमानो दृष्ट इति ।
( 302 । 9 ) यदा खल्वेकस्य पुरुषस्य तत्प्रत्ययो भवति तदा ऽवश्यं न पुरुषान्तरस्य,
तस्मात्प्रत्ययाव्यावृत्तिरसिद्धैवेति ।
एवमेतदिति ।
सत्यं विशेषदर्शनं तत्प्रत्ययनिवृत्तिहेतुः तदभावे तु विशेषादर्शनस्य न शक्यं संशयहेतुत्वं निवारयितुमित्यर्थः ।
यत्पुनरेतद्गोशब्द
इति ।
गोशब्दो गोशब्द इत्येकाकारः प्रत्ययो नैकमन्तरेण भवितुमर्हति ।
अथ भ्रान्तः कस्मान्न भवतीत्यत आह ।
न च गोशब्दस्येति ।
भ्रान्तत्वे हि ततो गोशब्दादर्थप्रत्ययो भ्रान्तः यथा समारोपितधूमभावया मशकवर्त्या धूमध्वजानुमानम् ।
तस्मादभ्रान्तो गोशब्दैकत्वप्रत्ययः स्थायितामस्य सूचयतीत्यर्थः ।
दूषयति एतदपीति ।
युक्ता तु कारणसामान्यात्तत्प्रत्ययस्याव्यावृत्तिरिति गोशब्दबुद्धेः कारणमालम्बंन गोशब्दस्तस्य सामान्यं गत्वमोत्वं गोशब्दत्वमिति यावत् ।
तस्मात्तत्प्रत्ययस्य व्यावृत्तिर्युक्ता गोशब्दो गोशब्द इत्येवंरूपा ।
कथमिति प्रश्नः
गोबुद्धौ गोबुद्धिप्रत्ययो न व्यावर्त्तते जात्यभिप्रायमेकवचनं गोबुद्धाविति ।
यथा हि गोबुद्धिषुभिन्नास्वपि परस्परं गोबुद्धिर्गोबुद्धिरित्यनुगतावभासिनी प्रथा गोबुद्धित्वसामान्योपधाना स्वकारणभूता गोबुद्धीरालम्बते एवं गोशब्दो गोशब्द
इति षुद्धिरपि गोशब्दत्वोपधाना गोशब्दव्यक्तीर्न पुनर्गोशब्दव्यक्तिमेकामनेकदेशकालव्यापिनीम् ।
न चास्या गोशब्दबुद्धेरित्यत्रापि जातावेकवचनम् ।
गोशब्दो गोशब्द इति बुद्ध्यनुगतिः--सामान्यनिबन्धना अनुगतित्वे सति गोशब्दबुद्धिसम्बन्धित्वात् ।
गोशब्दबुद्धिर्गोशब्दबुद्धिरित्यनुगतबुद्धिवदिति ।
भिन्नमभेदेन विद्वान् यश्चानुपलब्धविशेष
एव निवर्त्तते तं प्रति तस्य वस्तुनः किं विशेषो ऽस्ति नास्तीति भवन्त एव प्रष्टव्याः ।
उभयत्र दोषमाह यद्यस्तीति ।
द्व्यात्मकमिति ।
भिन्नमभिन्नमित्यर्थः ।
अशेषपुरुषविषयतयेति ।
आधारतयेत्यर्थः
न्य्स्_2,2.33: विनाशकारणानुपलब्धेः ॥
न्य्स्_2,2.34: अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः ॥
कारणद्रव्यविभाग ।
इति ।
( 303 । 5 )
विभागेनासमवायिकापरणसंयोगविनाशो लक्षितः तत्कार्यत्वात् ॥ 33-34 ॥
न्य्स्_2,2.35: उपलभ्यमाने चानुपलब्धेरसत्त्वाद् अनपदेशः ॥
अनपदेशो ऽहेतुरित्यर्थः ।
उभयमितीति ।
यदा क्रमेलकंविषाणित्वादश्वत्वेन साधयति तदा ऽस्य न विषाणं नापि तत्सम्बन्धः
यथा विषाणित्वं क्रमेलके ऽसिद्धं तथा ऽनुमानेन विनाशकारणोपलब्धौ तदनुपलब्धिरसिद्धेति ।
अश्वविषाण संबन्धस्याभावादिति ।
अश्वत्वविषाणत्वयोर्यतः को ऽपि संबन्धो ऽश्वेषु सिद्धो नास्ति तस्माद्विरोधादनुमानमेतदशाभनमित्यर्थः ।
तस्माद्यथा विरुद्धाद्धेतोरनुमानमसदेवमसिद्धादपीत्यर्थः ।
शङ्कते कर्मत्ववदिति चेत् ।
निराकरोति ।
तच्च न आश्रयस्यानित्यत्वात् ।
कर्मत्वाश्रयः कर्म तस्यानित्यत्वादित्यर्थः ।
शब्दस्य नित्यस्याश्रवणमनुपपन्नम् अश्रवणकारणानुपपत्तेरिति ब्रूमः ।
तन्नाश्रयानित्यत्वादिति ग्रहणकवाक्यं विभजते ।
कर्मत्वस्य पुनरिति ।
प्रतिघातिद्रव्यसंयोगस्त्वन्त्यस्य शब्दस्य निरोधक इति भाष्यम् ।
तस्यार्थः ।
प्रतिघातिद्रव्यं कुड्यादि तत्संयोगो नभसः ।
एतदुक्तं भवति घनतरद्रव्यसंयुक्तं नभो न शब्दसमवायिकारणतां प्रतिपद्यते ततश्च सन्नप्यसमवायिकारणं शब्दो न शब्दान्तरमारभते तस्य व स्वकारणं तत्कारणस्य तस्माद्विनाशो भवतीति द्रष्टव्यम् ।
एवमन्यत्रापीदृश एव शब्दविनाशहेतुरूहनीय
इति ।
इतश्च शब्दो ऽनित्य इत्याह ।
घण्टायामश्रिहन्यमानायामिति ।
यदि घण्टास्थेन व्यञ्जकेनान्यवृत्तिना वा ऽवस्थितेन सन्तानवृत्तिना वा नित्यः शब्दो व्यज्येत ततस्तारतारतरतारतममन्दमन्दतरादिश्रुतिभेदो न स्यात् ।
नित्यस्य च शब्दस्य न स्वाभाविको भेदो नाप्यौपाधिक इत्युपपादितमधस्तात् ।
यदि तु तारतमादयस्तावन्त एव शब्दा नित्यास्ततस्तावन्त एव युगपदेव गम्येरन् विशेषाभावाद् एकोह्येषां व्यञ्जकः स्थिर इति ।
अथ सन्तानवृत्तिस्तथा ऽपि सर्व एव तत्सन्ततिपतिताः समर्था इत्याद्येनैव सर्वे व्यज्येरन् न तु समानदेशानां समानेन्द्रियग्राह्याणां व्यञ्जकनियमो युक्त इत्युपपादितमधस्तात् ।
कारणत्वे तु धण्टास्थस्य संतानवृत्तेर्युक्तं यत्तारतमादिभेदेन कारणभेदात्कार्यभेद इति ।
तात्पर्यार्थः ।
युगपदनेकशब्दोपलब्धिप्रसङ्ग इति ।
( 304 । 5 ) अनेकस्य तारतमादेः शब्दस्योपलब्धिप्रसङ्ग
इत्यर्थः ।
घण्टास्थं चाभिव्यक्तिकारणं कथमन्यत्र वत्त्रमानमिति ।
श्रोत्रे वर्तमानमित्यर्थः ।
द्वितीयं कल्पमाशङ्क्य दूषयति ।
अथान्यगतमिति ।
घण्टासबन्ध्येष शब्द इति हि तावल्लौकिकप्रत्ययः सो ऽयमन्यगते शब्दव्यञ्जके यथैकस्यां धण्टायां भवति तथा घण्टान्तरेष्वपि तत्प्रत्यासन्नेषु भवेदविशेषात् ।
तस्मादेकघण्टास्थत्वे नियमहेतुर्वक्तव्य
इति ।
असति शब्दभेदे श्रुतीनामिति ।
शब्दज्ञानानामित्यर्थः ।
नाद इति वायुधर्मो ऽभिधीयत इति शङ्क्तते व्यामोहप्रत्यय इति ।
यथा हि वस्तुतः स्वच्छधवले स्फटिकमणौ लाक्षारसावसेकतिरस्कृतधवलिम्नि लोहितः स्फटिक इति प्रत्ययः एवमभिव्यञ्जकवृत्तिस्तारत्वादिर्भ्रान्त्याः शब्दे प्रतीयते इत्यर्थः ।
निराकरोति ।
न विशेषहेत्वभावादिति ।
न हि समीचीनात्प्रत्ययात्तारो ऽयं शब्द इति प्रत्ययस्य कश्चिद्विशेषहेतुरस्ति बाधकप्रत्ययो येनैष मिथ्याप्रत्ययः स्यादित्यर्थः ।
न च निर्बीजा भ्रान्तिरपि संभवितुमर्हति दीर्घत्वादिभ्रमाणांप तु शब्दे ऽस्ति बीजमित्याह ।
यदि चायमिति ।
यानि खलु दीर्घाणि वंशप्रभृतीनि एषामवयवो वा ऽपचयः समानजातीयोपचय
इहाप्यविरतभृतौ शब्दसंताने विवृतकारणनिष्पन्ने समस्ति समानजातीयोपचय
इति तत्साधर्म्याद् दीर्घत्वभ्रम एव शब्दसंतान
एव तारो महानित्युच्यते तत्राप्यस्ति समानजातीयोपचयो ऽस्ति च स्फुटतरत्वं महानपि स्फुटतरो ऽयमपि तथेति महानित्युच्यते ।
शङ्कते तुल्यमिति चेत् ।
यथा ह्यनित्यवादे घण्टास्थमवस्थितं संतानवृत्ति न युगपत्तारमन्दानुत्पादयति र्कि तु क्रमणैव एवं नित्यानपि शब्दान् क्रमेण व्यङ्क्ष्यतीत्यर्थः ।
निराकरोति ।
न तन्निमित्तस्य कदा चिद्भावात् ।
न तावन्नित्यवादिभिस्तारत्वादिधर्मभेदेन शब्दभेदो ऽभ्युपेयते तथा चैकेनावस्थितेन घण्टास्थेन संतानवृत्तिना व्यज्यमान एकस्मिन् शब्दे नित्यं श्रुतिभेदः कादाचित्को नोपपद्यते ।
शब्दे त्वनित्ये ऽन्पयस्मिन्नन्यस्मिन् क्रियमाणे संतानवृत्तिना कारणेन तद्भेदात्कार्यत्वात्कादाचित्कत्वाच्च श्रुतिभेदोपपत्तिरिति वैषम्यमित्यर्थः ।
तच्च कारणमिति ।
( 305 । 8 )
निमित्तकारणमित्यर्थः ।
पाणिसंश्लेषमपेक्षमाणादिति ।
स्पर्शवद्वेगवद्द्रव्यसंयोगाद घण्टायां कर्म कर्मवद्घण्टाकाशसंयोगात्तादृशाच्छब्दश्चेत्येकः कालः तत्कर्म पाण्यभिधातमपेक्षमाणं विभागसमकालं संस्कारं घेगाख्यं करोति ।
सा घण्टा चलन्त्याध्यात्मिकं वायुमुपगृह्णाति घण्टातदवयवसंयुक्ता वायुपरमाणव
एवाध्यात्मिको वायुः तदुपग्रहो घण्टानयाः स्ववेगमपेक्षमाणाया वायुसंयोगाद्वायौ क्रियोत्पादकत्वं ततश्चानिलकर्मणो घण्टानिलसंयोगो वायुगतवेगापेक्षो घण्टायां कर्मारभते ।
तदिदमाह सा च वायुना ऽभिहता पुनः कर्म करोति ।
तदेवं वायुघण्टासंयोगो घण्टावेगापेक्षो घण्टाकाशसंयोगश्च शब्दमारभत इति द्रष्टव्यम् ।
ततश्च कर्मणा संस्कारः संस्कारेण पुनः कर्म शब्दश्चेत्यपि द्रष्टव्यम् ।
सुगममन्यत्
न्य्स्_2,2.36: पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः ॥
देशयति अथ घण्टास्थ
इति ।
न खलु कारणविनाशे कार्योच्छेदो, मा भूत्कुलालादिनिवृत्तावपि घटादिनिवृत्तिरित्यर्थः ।
परिहरति न ब्रूम
इति ।
यद्यपि निमित्तनिवृत्तावपि कार्यं निवर्त्तते यथा ऽपेक्षाबुद्धिनाशाद्
द्वित्वादि तथा ऽपि निमित्तनिवृत्तावपि तदनिवृत्तिमभ्युपगम्यैव परिहार इति मन्तव्यम्
न्य्स्_2,2.37: विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥
सिंहावलोकितन्यायेन पूर्वोक्तं हेतु दूषयति ।
विनाशेति ।
( 306 । 3 ) प्रत्यक्षेण शब्दविनाशकारणानुपलब्धेश्चावस्थाने शब्दस्य शब्दोपलब्धेरपि नित्यत्वप्रसङ्गः ।
न हि तस्या अपि विनाशकारणं प्रत्यक्षेणोपलभ्यत इति तदनेन विनाशकारणानुपलब्धिरित्यस्यानैकान्तिकत्वमुद्भावितम्
न्य्स्_2,2.38: अस्पर्शत्वादप्रतिषेधः ॥
संप्रति सांख्यः प्रत्यवतिष्ठते ।
कम्पसमानाश्रयस्येति ।
अनुवृत्तो नादः शब्दो ऽनुनाद इति ।
वैयधिकरण्ये हीति ।
द्रव्यप्रश्लेषासमानाधिकरणस्यैवव संस्कारस्योच्छेदः स्याद् न व्यधिकरणस्य शब्दस्य, व्यधिकरणस्य तूच्छेदाभ्युपगमे ऽतिप्रसङ्गः स्यात् तस्मात् कम्पसंतानसंस्कारसमानाश्रयः शब्दो ऽभ्युपगन्तव्यः ।
तदनेनाकाशाश्रयत्वं शब्दस्य प्रतिषिद्धं तदेतद्वार्त्तिककारो व्याचष्टे ।
व्यधिकरणत्वादयुक्तमिति ॥
अस्योत्तरसूत्रम् ।
अस्प--धः (सू. 38) ॥
प्राप्यकारित्वमिन्द्रियाणां व्यवस्थितं प्राक् ।
घण्टाद्याश्रयः शब्दो न श्रोत्रं प्राप्नोति ।
एवं हि प्राप्नुयाद् यदि घण्टा कर्णशष्कुलीमागच्छेत् कर्णशष्कुली वा घण्टां, न चैतदुभयमस्ति ।
न चाहङ्कारिकमिन्दियं व्यापीत्युक्तम् ।
तस्माच्छब्दाधारो निःस्पर्शो व्यापी वाकाशस्तदाधारः शब्दः श्रोत्रमायाति संतानवृत्त्येति युक्तं तथा च श्रवणमस्योपपन्नं नान्यथेति ।
तदेतद्वार्त्तिककृद्विभजते,
अस्पर्शेति ।
येन केन चिदिति ।
मन्दतरेण वा मन्दतमेनवा कारणशब्देनेत्यर्थः ।
अनेकः संस्कार इति तत्त्वं शब्दभेदादिति ।
एकस्य हि संस्कारस्य धर्मभेदकल्पनायां कल्पनागौरप्रसङ्गः संस्कारस्तावदेको धर्मो धर्मभेदाश्चेति ।
तदिह धर्मभेदस्थाने ऽस्तु संस्कारभेदः कृतमत्रैकेन धर्मिणा ।
न च संस्कारभेदेषु धर्मभेदाः कल्पनीयाः संस्कारभेदमात्रादेव कारणात्कार्यभेदोपपत्तौ तद्गतधर्मभेदकल्पनावैयर्थ्यादिति भावः।यस्य च वैशेषिकस्यैकः संस्कारस्तस्येषोः पातः प्राप्नोति संस्कारस्य हीषोर्मूर्तद्रव्यसंयोगो विनाशको ऽविनाशको वा, विनाशकश्चेद्
आद्येनैव मूर्त्तद्रव्यसंयोगेन तस्य विनाशादगत्वैव यावद्गन्तव्यमिषोः पातप्रसङ्गः ।
द्वितीये तु कल्पे कृतकस्यापि संस्कारस्य विनाशकारणाभावेनाविनाशान्न कदा चिदपि पातः स्यात् प्रयोगश्च इष्वादिवेगः क्षणिकः वेगत्वात् घटादिगतवेगवदिति
न्य्स्_2,2.39: विभक्त्यन्तरोपपत्तेश्च समासे ॥
विभ--से ( सू. 39 ) ॥
संख्यानां रूपरसगन्धस्पर्शशब्दसमुदायो वीणावेणुशङ्क्षादिद्रव्यं तत्र समासे समुदाये स्थित एव व्यज्यत इति दर्शनं तस्मिन्समुदाये सांख्याभिमते विभक्त्यन्तरोपत्तेश्च न व्यज्येत शब्दः यदि समुदाये व्यज्येत शब्दः विभक्तिश्च षड्जधैवतगान्धारादिभेदेन विभागान्तरं च षड्जजातीयस्यैव तारमन्द्रादिरूपं नोपपद्यते न हि तद्गतानां गन्धादीनामेकस्मिन्नेव द्रव्ये वीणादौ नानाजातीयानां च प्रतिक्षणं भेदो दृश्यते तस्माद्विभक्त्यन्तरोत्पत्तेर्न समासे व्यज्यते शब्दः अपि त्वाकाशगुणः क्रियत इति सांप्रतम् ।
सूत्रव्याख्ययैव भाष्यवार्त्तिके व्याख्याते
न्य्स्_2,2.40: विकारादेशोपदेशात् संशयः ॥
तदेवं रूपादिसन्निविष्टः शब्दो व्यज्यत इति सांख्यमते दूषिते स एव सांख्यो वर्णेषु प्रकृतिविकारभावश्रुतेर्मृत्सुवर्णादिवत्परिणामिनित्या वर्णा इति यदि प्रत्यवतिष्ठते तत्र परीक्षामारभतेदिविधश्चायं शब्द इति ।
विकारोपदेशो ऽपि न ध्वनिमात्रे शब्दे ऽस्तीति न तस्य परिणामिनित्यतामापादयितुमर्हति केवलं वर्णात्मन्यापादयेद् यद्यसंदेहः स्याद्, अस्ति तु तत्रापि संदेहः ।
तथा हि इको यणचि इत्यादिकं विकारोपदेशमाचक्षत एके ।
अन्ये त्वादशोपदेशं, तत्र व्याख्यातृविप्रतिपत्तेः संशयः ।
तन्नापरीक्ष्य शक्यमवधारयितुमित्यर्थः ।
तत्र परीक्षायामादेशोपदेशस्तत्त्वमित्यवधारयते ।
आदेशोपदेश इति ।
सुवर्णजातीयाः खल्ववयवा अन्यतमव्यूहपरित्यागेनान्यतमं व्यूहमापद्यमाना रुचक इति वा वर्द्धमान
इति वा परिणमन्ते, अस्ति हि तेषु सर्वेषु सुवर्णजातीयानामवयवानामनुगमः
न तु यकारे इकारस्य वा तदारम्भकस्य वा अवयवस्यानुगममीक्षामहे ।
तस्माद्विकाराभाबादादेशत्वमस्य निश्चिनुम इति ।
उपपत्त्यन्तरं चाविकारे दर्शयति ।
भिन्नकारणयोश्चेति ।
यदि हीकारविकारो यकारः स्याद् यकारप्रयोगायेकारमुपाददानास्तत्कारणं विवृतकरणं पूर्वमुपाददीरन् ।
तन्निरपेक्षास्तु यकारं प्रयोक्ष्यमाणा ईषत्स्पृष्टकरणमुपाददते तस्मान्नेकारविकारो यकार इत्युत्पश्यामः ।
उपपत्त्यन्तरमाह ।
अविकारे चेति ।
कारकज्ञापकयोर्हेत्वोरविशेषमाह ।
उभयत्रेति ।
उपपत्त्यन्तरमाह ।
प्रयुज्यमानेति ।
यथा हि क्षीरं कालविपाकापेक्षं दधि भवद्दृश्यते न तथेकारो यकारो भवन्नित्यर्थः ।
यदि न विकारः कथं तर्हि शब्दान्वाख्यानमिको यणर्चात्यत आह ।
अविकारे चेति ।
इकः प्रयोगप्रसङ्गेः संहितायां यणः प्रयोगमाह तत्सूत्रे न पुनरिग्विकारं यणमित्यर्थः ।
ननु मा भूद्विकारः परिणामोर् ऽथान्तरं तु भविष्यति ततो नित्यावर्णा भविष्यन्तीत्यत आह ।
एतावच्चैतदिति ।
परिणामो वेत्यापाततः कार्यकारणभावो वेति परमार्थः ।
न जातु क्षीरं तदवयवा वा दधिरूपेण परिणमन्ते न ह्यवयवा अवयविस्वभावाः
तस्मात्कार्यकारणभाव एव तात्त्विक इति ।
स च वर्णेषु नास्ति इगनपेक्षस्य यणो निष्पत्तेः ।
तस्मादिक्प्रयोगप्रसङ्गे संहितायां यणः प्रयोग इत्यन्वाख्यानार्थ इति ।
इतश्चायमादेशोपदेश
इत्याह ।
वर्णसमुदायेति ।
वर्णस्यैकस्य वास्तवत्वात् कदाचिद्विकार उपपद्यते बुद्धिः समाहारमात्रस्य तु तत्समुदायस्य न विकारसम्भवः ।
तस्मात्तत्राकामेनाप्यादेशोपदेशो वक्तव्यः ।
स वरं कॢप्तत्वादेकस्मिन्नप्यस्तु वर्ण इति इत्यर्थः
न्य्स्_2,2.41: प्रकृतिविवृद्वौ विकारवृद्धेः ॥
इतश्च न प्रकृतिविकारभावः ।
प्रकृतिविवृद्वाविति ।
महद्भिः खलु तूलपिण्डैरारब्धः स्थूलः पिण्डो ऽल्पैश्चारब्धो महानल्प इति दृष्टं तद्वदिहापि दीर्घेकारविकारस्य यकारस्येकारविकाराद्भवितव्यं विशेषेण, न चास्ति विशेषः तस्मान्न प्रकृतिविकारभाव
इत्यर्थः
न्य्स्_2,2.42: न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः ॥
अस्याक्षेपसूत्रम्---
न्यून--तुः ( सू. 41 ) ॥ अल्पेन हि न्यग्रोधवीजेनारब्धो न्यग्रोधतरुर्महान् ततो ऽतिमहता वा नारिकेलबीजेनारब्धो नारिकेलतरुरल्पः नारिकेलबीजैरेव परस्परापेक्षमाणसमैरारब्धः सम इति ।
अस्य प्रत्याचयानसूत्रम् ।
द्विविधस्यापि हेतोरिति ।
यदि च न्यूनसमाधिकोपलब्धेरिति साधनं तदा द्विविधस्य हेतोरभावाद्
दृष्टान्तमात्रस्य चासाधकत्वात् ।
प्रतिदृष्टान्तस्य च संभवादित्येतद् दूषणम्
न्य्स्_2,2.43: नातुल्यप्रकृतीनां विकारविकल्पात् ॥
यदि च न्यूनसमाधिकोपलब्धेरित्यनेनानैकान्तिकोद्भावनं प्रकृत्यनुविधानस्य क्रियते तदा दूषणपक्षे नातुल्यप्रकृतीनां विकारविकल्पादिति दूषणम् ।
अनैकान्तिकदोषस्यासम्बन्धत्वं नाम न्यूनसमाधिकत्वे तु प्रकृत्यनुविधानं विकापराणामप्रच्युतम् ।
तथा ह्यतुल्यायाः प्रकृतेरिवकारा विकल्प्यन्ते प्रकृतिभेदमनुविधीयन्ते, न जातु न्यग्रोधबीजाद्
नारिकेलपादपो भवति भवति च न्यग्रोधबीजान्न्यग्रोधपादप
इति ।
एतदुक्तं भवति प्रकृतिभेदानुविधानं विकारभेदानां ब्रूमोप न पूनस्तद्विवृद्धिह्रासाभ्यां तद्विवृद्धिह्रासौ येनानैकान्तिकत्वमुद्भाव्येत तस्मादनैकान्तिकोद्भावनमसंबद्धामित्यर्थः ।
न त्विवर्णमनुविधीयते यकार इति भाष्यम् ।
तस्यार्थो न त्विवर्णभेदमनुविधीयते इति ।
तस्मादनुदाहरणं न्यूनसमाधिकभावे द्रव्यविकार इति
न्य्स्_2,2.44: द्रव्यविकारे वैषम्यवद् वर्णविकारविकल्पः ॥
अस्याक्षेपसूत्रम्--- द्रव्यविकार इति ।
( 308 । 1 ) न प्रकृतिभेदमवश्यमनुविधीयन्ते विकाराः द्रव्यत्वेन तुल्यत्वे ऽपि प्रकृतीनां विकारवैषम्यं तथा च दीर्घह्रस्वाभ्यां वैषम्ये विकारवैषम्यं भविष्यति प्रकृतिसाम्यैव विकारवैषम्यम् इति भावः
न्य्स्_2,2.45: न विकारधर्मानुपपत्तेः ॥
तत्र प्रत्याख्यानसूत्रम् ।
न विकारधर्मेति ।
यद्यपि प्रकृतेर्द्रव्यत्वमभेदस्तथा ऽपि विकारभेदे प्रकृतिभेद एवोपयुज्यते न पुनः प्रकृतेरभेदः
तद्विकाराणां तु यदभिन्नं रूपं द्रव्यत्वं तत्र तस्योपयोग इति स्थिते परिहारो ऽन्वय
(स्याक्षेपसूत्रं द्रव्येविकार इति।) ग्रहणं परिहार उक्तः
न्य्स्_2,2.46: विकारप्राप्तानामपुनरापत्तेः ॥
इतश्च न सन्ति वर्णविकारा इत्याह ।
विकारेति ।
नो खलु क्षीरविकारो दधि पुनः क्षीरं दृष्टमित्यर्थः ।
अननुमानादिति प्रमाणाभावमुपलक्षयति
न्य्स्_2,2.47: सुवर्णादीनां पुनरापत्तेरहेतुः ॥
अस्याक्षेपः सुवर्णादीनामिति सूत्रम् ।
साधनपक्षे दूषणं व्यभिचारादिति
न्य्स्_2,2.48: न तद्विकाराणां सुवर्णभावाव्यतिरेकात् ॥
दूषणपक्षे दोषमाह ।
सुवर्णोदाहरणोपपत्तिश्चेति ।
तथा हि ।
ये सुवर्णजातीय अवयवा रुचकत्वमापन्नास्त एव पूर्वव्यूहपरित्यागेन वर्धमानतामापन्नाः पुना रुचकत्वमापद्यन्ते तदवयवानां तत्र प्रत्यभिज्ञायमानत्वात ।
न त्विहेकारो यकारानुगत इकारयकारानुगतो वा ऽन्यः कश्चिद्धर्मी दृश्यते य इत्त्वं परित्यज्य यत्त्वमापद्यते वर्णत्वं त्वनुगतमपि न धर्मि,
किं तु धर्म एव ।
न च निवर्तमान ईकारो यकारस्य धर्मो भवितुमर्हति धर्मधर्मिणोः समानकालत्वादित्यर्थः
न्य्स्_2,2.49: नित्यत्वे ऽविकारादनित्यत्वे चानवस्थानात् ॥
ननु दध्यत्रेति प्रयोगे कदेकारस्योत्पद्य निरोधः ।
तथा दधि अत्रेति प्रयोगे कदा यकारस्योत्पद्य निरोध इत्यत आह ।
तदेतदवगृह्य संधान इति ।
अवग्रहो ऽसंहिता दधि अत्रेत्युच्चार्य दध्यत्रेत्युच्चार्यते दध्यत्रेति वा संधाय दधि अत्रेत्यवगृह्यतैत्यर्थः ।
न्य्स्_2,2.50: नित्यानामतीन्द्रियत्वात्तद्धर्मविकल्पाच्च वर्णविकाराणामप्रतिषेधः ॥
जातिवादी प्रत्यवतिष्ठते ।
नित्यपक्षे तावदिति ।
यथा हि सत्यपि नित्यत्वे के चिदतीन्द्रियाः यथा परमाण्वाकाशादयः के चिदैन्द्रियकाः यथा गोत्वादयः एवं सत्यपि नित्यत्वे परमाण्वाकाशादयो न प्रकृतिविकारभूताः
वर्णास्तु प्रकृतिविकारभावमापत्स्यन्ते ।
नित्या अपत्यिर्थः ।
सेयं विकल्पसमा जातिरित्याह ।
विरोधादिति ।
न खल्वैन्द्रियकत्वानैन्द्रियकत्वाभ्यामस्मि कश्चिन्नित्यत्वस्य विरोधः ।
प्रकृतिविकारभावेन त्वस्ति, न हि संभवति कार्यं च नित्यं चेत्यर्थः ।
न्य्स्_2,2.51: अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपलब्धिः ॥
अनित्यपक्षे जातिवाद्याह ।
अनवस्थायित्वे चेति ।
यथा सत्यप्यनवस्थायित्वे वर्णा इन्द्रियेण सम्बध्य स्वविषयं ज्ञानं जनयन्ति एवं विकारमपि करिष्यन्तीत्यर्थः ।
सेयं साधर्म्यसमा जातिरित्याह ।
असंबन्धादिति ।
कतिपयक्षणावस्थानेन वर्णानां क्षणिकानामपि स्वविषयज्ञानहेतुभावो युज्यते अवगृह्य चिरं स्थित्वा यदा संधीयते संधाय वा चरिं स्थित्वा यदा विगृह्यते तदा वर्णानामनित्यानां न तावन्तं कालमवस्थानमस्तीति नोपलब्धिहेतुत्वेन विकारकृतत्वं वर्णानां तुल्यम् ।
तस्मादसंबन्धादसमर्था वर्णोपलब्धिर्वर्णविकारप्रतिपाद इत्यर्थः ।
माभूद्रर्णोपलब्धिर्वर्ंणविकारेण साक्षात्संबद्धा ओदशविरोधितया तु तन्निवृत्त्या पारिशेष्याद्विकारं साधयिष्यतीत्यत आह ।
न च वर्णोपलब्धिरिति
न्य्स्_2,2.52: विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे ऽविकारोपपत्तेश्चाप्रतिषेधः ॥
तदेवं जात्युत्तरमुत्थितमेव मारितं कृत्वा भाष्यकारो ऽत्रैवार्थे सूत्रं पठति ।
विकारधर्मित्व इति ।
वार्तिकम् उपलभ्यमानस्य चेकारस्य यत्वानुपपत्तेरिति ।
( 309 । 17 ) अवगृह्य चिरं स्थित्वा संधाय यदा यत्वं तदोपलभ्यमानतेकारस्य नास्तीत्यर्थः
न्य्स्_2,2.53: प्रकृत्यनियमाद् वर्णविकाराणाम् ॥
इतश्च वर्णविकारानुपपत्तिः ।
प्रकृत्यनियमादिति ।
क्षीरजातीयस्य दधिजातीयो विकारो न पुनः कदा चिदपि दधिजातीयस्य क्षीरजातीया विकारा उपलभ्यन्ते ।
इह तु यथेकारजातीयस्य यकारजातीयो विकारो दध्यत्रेति दृश्यते एवं यकारजातीयस्यापि विकार इकारजातीयो दृश्यते यथा व्यथेःसति प्रसारणे यकारस्येकार
इति ।
तस्मादनियमान्न प्रकृतिविकापरभाव
इत्यर्थः
न्य्स्_2,2.54: अनियमे नियमाद् नानियमः ॥
अत्र च्छलवादी प्रत्यवतिष्ठते ।
अनियमे नियमादिति
न्य्स्_2,2.55: नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः ॥
तदेतस्य वाक्छलत्वमापादयति ।
नियमानियमविरोधादिति ।
नियमानियमसामानाधिकरण्यं विरुध्यते न त्वाधाराधेयभाव इत्यर्थः
न्य्स्_2,2.56: गुणान्तरापत्त्युपमर्दह्रातवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्णविकाराः ॥
तदेवं प्रकृतिविकारभावं निराकृत्य विकारवचनव्यक्तिं शब्दानामादेशपक्षे समर्थयति ।
न चेयं वर्णविकारोपपत्तिरिति ।
एकस्याप्रयोगे अन्यस्य प्रयोगो विकार
इति सामान्यलक्षणम् ।
तस्य विशेषानाह ।
स भिद्यत इति ।
उपमर्द्दे नामेति ।
यथा ऽस्तेर्भूरिति ।
लेशः स्त इत्यत्रास्तेरकारलोपे सकारमात्रस्य लेशस्यैकदेशस्य व्यवस्थापनम् ।
श्लेषप
आगमः प्रकृतेः प्रत्ययस्य वा ।
अत्रापि केवलस्याप्रयोगे विशिष्टस्य प्रयोग इत्येतावता विकारसामान्यलक्षणं लक्षणीयम् ।
एतेन वार्त्तिकमपि व्याख्यातमेवेति
न्य्स्_2,2.57: ते विभक्त्यन्ताः पदम् ॥
तदेवमुक्तेन क्रमेण वर्णानामनित्यतां प्रतिपाद्य शब्दप्रामाण्योपयोगि पदं निरूपयति ।
ते वि--दम् ( सू. 57 ) ॥
एवं किल के चित्पश्यन्ति न वर्णाः प्रतिपादयन्त्यर्थान्
ते हि प्रत्येकं वा अन्वयधियमादधीरन् नागदन्ता इव शिक्यालम्बनं मिलिता वा ग्रावाण
इव पिठरधारणम् ।
तत्र न तावत्पूर्वः कल्पः ।
प्रत्येकमर्थप्रत्ययानुत्पादात् ।
वर्णान्तरोच्चारणानर्थक्याच्च ।
नापि संहताः एकवक्तृप्रयोगे क्रमनियमेन संघातानुपपत्तेः ।
अनेककर्तृकप्रयोगे ऽपि सत्यपि यौगपद्ये अर्थप्रत्ययानुत्पादनात् ।
नापि क्रमवत्पूर्ववर्णानुभवभावितसंस्कारसहितो ऽन्त्यवर्णप्रत्ययो ऽर्थप्रत्ययहेतुरिति सांप्रतम् ।
भावनापरनाम्नः संस्कारस्य स्वोत्पादकानुभवविषयस्मृतिजननादन्यत्र सामर्थ्यादर्शनात् ।
न हि गवानुभवजनितः संस्कारः करोति स्मृतिं तुरङ्गमे ।
अपि चेयमन्त्यवर्णश्रुतिः स्वार्थसंकेतस्मृत्यपेक्षा वार्थप्रत्ययमादधीत अनपेक्षा वा, तदपेक्षत्वे तत्काले अन्त्यवर्णश्रुतिरुपरता क्षणिकत्वेनेति कया सङ्केतस्मृतिरपेक्ष्यते अन्त्यवर्णश्रुतिसमये च संकेतस्मृतिरनागतेति किमन्त्यवर्णप्रत्ययो ऽपेक्षेत ।
संकेतस्मृत्यनपेक्षत्वे अगृहीतसंकेतस्यापि प्रथमश्राविणोर् ऽथप्रत्ययप्रसङ्गः ।
न हि चिरध्यस्तस्यानपेक्षितस्मृतेः संकेतग्रहस्यास्ति कश्चिदुपयोग इति ।
न च भावनाख्यसंस्कारसहितो ऽन्त्यवर्णः प्रत्यायको ऽर्थस्य ।
नाप्यन्य एव कश्चित्पूर्ववर्णानुभवजनितः संस्कारः प्रोक्षणादिभिरिव व्रीह्यादेरन्त्यवर्णप्रत्ययसहकारीति युक्तम् ।
अनेकादृष्टकल्पनाप्रसङ्गात् ।
स एव तावददृष्टचरः कल्पनीयस्तस्य चानेकत्वमिति सो ऽयं वर्णेभ्योर् ऽथप्रत्ययो भवन्ननुपपद्यमानस्तदतिरिक्तं स्फोटानुभवमायतते ।
अस्ति हि भिन्नष्वेपि वर्णेषु वाक्यमिदमेकं पदमिति चा सर्वजनीनो ऽनुभवः ।
न चासौ भिन्नवर्णालम्बनो भवितुमर्हति एकस्य नानात्वविरोधात् ।
तस्माद्वर्णातिरिक्तं पदं वाक्यं वाऽलम्बते ।
तच्चे प्रत्येकमेव ध्वनयो ऽभिव्यञ्जयन्ति केवलं पूर्वे ध्वनयः स्वरूपमाभासयन्ते चरमस्तु व्यक्तम् ।
न चेयमर्थे विधा संभविनी प्रत्यक्षज्ञाननियतत्वात्
व्यक्तव्यक्तावभासितायाः पदे प्रत्यक्षे उपपत्तिः
अर्थस्य तु पदगम्यस्याप्रत्यक्षस्य मानान्तरेण ग्रहणमस्तीति अग्रहणं वा न तु स्फुटास्फुटत्वाभ्यां योगः ।
अपि च यस्मिन्ननुवर्तमाने यद्व्यावर्तते तत्तस्माद्भिद्यते यथा सुवर्णाक्यवेष्वनुवर्तमानेषु कटकमुकुटादयः ।
अनुवर्तमानेषु तु वर्णेषु व्यावर्तन्ते पदभेदास्तस्मात्ते ऽपि वर्णेभ्यो भिन्ना इति तान्प्रत्याह ।
ते विभक्त्यन्ताः पदम् ।
त एव वर्णा एव पदं न तु तदतिरिक्तं स्फोटाख्यमित्यर्थः ।
इदमत्राकूतम् ।
न तावद्वर्णातिरिक्तः पदात्मा कश्चिदुपलभ्यते प्रत्यक्षेण, पदमिति तु व्यपदेशस्तानेव वर्णान् बहूनप्येकस्मृतिसमारोहितया वा एकार्थधीहेतुतया वा अभिन्नकारकावस्थावत्तया वालम्बते भाक्तः ।
न चैवमन्योन्यसंश्रयः
नर्त्ते पदावधारणापदर्थाधिगमो न चार्थाधिगमन्तरेण पदावधारणमिति ।
एकस्मृतिबुद्धिसमारोहिणां वर्णानामसत्यर्थवत्तया ऽवबोधे सुज्ञानत्वात् तन्मात्रस्य च स्वार्थेन संकेतग्रहस्यापि सुकरत्वात् तदुत्तरकालत्वाच्च पदमिति कारकशब्दप्रवृत्तेः ।
इतरथा सर्वेषु कारकशब्देषु दुर्वारमितरेतराश्रयत्वं कार्योपहितमर्यादत्वात्कारकाणां तदनुपातित्वाच्च तच्छब्दानां, तस्माद्व्यपदेशमात्रानुरोधेन नैकैकवर्णमात्रावभासिनीषु श्रोत्रजासु बुद्धिषु तदाहितवासनालब्धजन्मायां चानु भूतवर्णसंकलनात्मिकायां स्मतिबुद्धावप्रथमानो वर्णविभागोपमर्देन न शक्यः पदात्मा प्रत्यक्ष
इति वक्तुं, नापि निर्भागस्य स्फुटास्फुटत्वे वा भागविपर्यासोव वा युज्यते, नो खलु सर्वथा ऽदृश्यमानो नाम स्फुटः नापि समारोपविषयः ।
न हि सामान्यात्मना ऽप्यगृहीता शुक्ती रजतत्वसमारोपविषयः ।
न च निर्भागेपदात्मनि गृहीते किं चिदस्यागृहीतमवशिष्यते यदग्रहणादव्यक्तत्वं वा समारोपो वा भवेत् ।
न च तदेव तदैव तेन गृहीतमगृहीतं च संभवति ।
तस्मान्न प्रत्यक्षस्य तदाभासस्य वा गोचरः पदात्मा ।
नाप्यनुमानस्यार्थप्रत्ययलिङ्गजन्मनः परस्पराश्रयप्रसङ्गात् ।
न तावत्सत्तामात्रेण पदात्मार् ऽथप्रत्ययमाधत्ते मा धान्नित्यत्वेन नित्यमेनम् ।
तस्मात्स्वज्ञानेन ।
तच्च स्वज्ञानमर्थप्रत्ययात् तथा च सत्यर्थप्रत्यये पदप्रत्ययः पदप्रत्यये च सत्यर्थप्रत्यय इति व्यक्तमन्योन्याश्रयत्वम् ।
न चेयमर्थधीर्वर्णेभ्यो नोदेतुमर्हति ते हि पूर्वमनुभूताः प्रत्येकम् अनुभूतताक्रमोपसृष्टा एकबुद्धिसमारोहिणः शक्नुवन्त्यर्थधियमाधातुम् ।
न चाक्रमानुक्रमविपरीतक्रमाणामविशेषो वर्णानाम् ।
पूर्वानुभवसन्निवेशानुसारित्वात्स्मृतेः
तत्सन्निवेशस्य च विशेषाद्विशेषोपपत्तिः ।
अभेदे ऽपि च वर्णानां न हि हिनेत्यादौ पदभेद उपपत्स्यते विना ऽपि स्फोटकल्पनाम् ।
क्रमभेदानुविधायित्वात्पदभेदस्य, अर्थप्रत्ययकारकत्वं च न वर्णमात्राणामपि तु क्रमन्यूनातिरिक्तत्वाद्युपहितानाम् ।
तत्तदुपधानं न तुल्यत्वे ऽपि वर्णानामन्यदन्यदिति पदभेदसिद्धिः ।
तस्माद् दृष्टेभ्य एव वर्णेभ्यो दृष्टप्रकारानुपातिभ्योर् ऽथप्रत्ययोत्पत्तिरुपपद्यमाना नादृष्टं स्फोटात्मानं दृश्यमानवर्णभेदापह्नवेन कल्पयितुमर्हतीति सिद्धम् ।
ते विभक्त्यन्ताः पदमिति ।
यथादर्शनं विकृता इति भाष्यम् ।
गुणान्तरापत्त्यादिभिरादर्शरूपेण विकृताः यथादर्शनं यथाप्रमाणं न तु प्रकृतिविकारभावेन तस्नपवय प्रमाणबाधितत्वादित्यर्थः ।
वार्त्तिकम्
अर्थप्रत्ययस्तर्हि न प्राप्नोतीति ।
स्फोटवादिन
उक्तो ऽभिप्रायः ।
उत्तरम् ।
अन्त्यवर्णप्रत्ययादिति ।
वर्णेषु प्रत्ययो वर्णप्रत्ययः ।
अन्त्यश्चासौ वर्णप्रत्ययश्चेति अन्त्यवर्णप्रत्ययः सकलवर्णावगाहिनी स्मृतिः ।
सा च प्राचः प्रत्येकवर्णानुभवानपेक्ष्यान्त्या भवति ।
यद्येवमगृहीतसंकेतानामप्यसावस्तीति तेषामर्थप्रत्ययप्रसङ्गः स्यादित्यत आह ।
पूर्ववर्णप्रतिसन्धानप्रत्ययापेक्षादिति ।
संकेतग्रहणसमयः पूर्वः तद्भाविनो वर्णाः पूर्वे तेषां प्रतिसंधानं यावतां यज्जातीयानां गृहीतः संकेतस्तादृशास्तावन्तस्तज्जातीया एवैतैत्येवमाकारं तदेव प्रत्ययस्तदपेक्षात् ।
न चासावगृहीतसंकेतानामस्तीति सन्नप्यन्त्यवर्णप्रत्ययो नार्थस्य प्रत्यायक इत्यर्थः ।
अभिधेयस्य क्रियान्तरयोगाद्विशिष्यमाणरूपः शब्दो नाम,प अन्तरशब्दो विशेषवचनः क्रियाविशेषयोगाद्धेतोरित्यर्थः ।
एतदुक्तं भवति ।
यस्याभिधेयं क्रियाविशेषसबन्धेन विनान पर्यवस्यति तन्नाम आख्यातार्थस्तु यद्यपि क्व चित् क्रियया ऽपि सम्बध्यते यथा ऽभिक्रामं जुहोति भुक्त्वा व्रजतीत्यादिषु तथा ऽपि जुहोति व्रजतीत्यादयो न क्रियासम्बन्धमन्तरेण न पर्यवस्यन्ति अपि तु तत्समभव्याहृता अपि संबध्यन्ते ।
नामार्थस्तु न पूर्वापरीभूतप्रधानक्रियापदार्थमन्तरेण पर्यवस्यति ।
अत एवाहुः--यत्रान्यत् क्रियापदं न श्रूयते तत्रस्तिर्भवन्तीपरः प्रयोक्तव्यः
तथा च ब्राह्मणे ऽभिक्रामं भोक्तुं भक्तेत्यादयश्च समुच्चयाद्यपेक्षाः क्रियाविशेषमन्तरेणापर्यवस्यन्तो नामत्वेन संगृहीता भवन्ति ।
अस्योदाहरणमाह ।
यथा ब्राह्मण इति ।
अस्यार्थमाह क्रियाकारकसमुदायः कारकसंख्याविशिष्टः ।
अत्र हि क्रियाशब्देन ब्राह्मणस्य भावो ब्राह्मणत्वमभिधीयते भावशब्दस्य क्रियार्थत्वात् ।
भविता च ब्राह्मणः कारकम् ।
तयोर्ब्राह्मणत्वब्राह्मणयोः समुदायः स च कारकस्य भवितुर्ब्राह्मणस्यैकत्वसंख्यया विशिष्टो ब्राह्मण इत्येतस्मान्नामपदाद्गम्यत
इत्यर्थः ।
आख्यातलक्षणमाह ।
क्रियाकालयोगाभिधायि क्रियाप्रधानमाख्यातं क्रियायाः कालयोगः पूर्वापरीभावः ।
कालयोगाद्धि संभवति तदभिधायि ।
तदनेन पाक इत्यादेर्नामपदाद्
व्यवच्छिनति ।
एवमपि भुक्त्वा भोक्तुमित्यादावपि नाम्नि प्रसङ्गः ।
अस्ति हि तत्रापि कालावधिपूर्वापरीभूतकर्मक्षणप्रचयप्रत्ययो ऽन्यथा ओदनमिति कर्मसम्बन्धो न स्याद्
अत उक्तं क्रियाप्रधानमिति ।
स्वनिष्ठा ह्याख्यातात् क्रिया प्रतीयते नान्यतन्त्रा ।
भोक्तुमित्यादौ तु क्रियान्तरमन्तेण न पर्यवस्यन्तीति क्रिया गम्यते ।
व्रजतीत्यादौ तु न तथा तदिदं क्रियाप्राधान्यम् ।
तदनेन पचति पचेत पच्यते स्थीयतैत्यादि सर्वमाख्यातं संगृहीतं भवति ।
न क्व चिदपि नाम्नि प्रसङ्गः यदप्यस्त्यादि नामाख्यातप्रतिरूपकं तत्रापि सन्नित्यस्यार्थे सिद्धरूपे तद्वर्त्तते न पुनः पूर्वापरीभूतक्रियार्थत्वमिति द्रष्टव्यम् ।
यस्मान्नाम्ना सर्वं पदं व्याप्यत इति ।
( 311 । 6 ) बाहुल्यं व्याप्त्यर्थः ।
प्रायेण हि वाक्ये बहूनि नामपदानि आख्यातं पुनरेकमेवैकस्मिन् वाक्ये आख्यातभेदे वाक्यभेदादिति ।
अधिकरणमाक्षिपति न पदादर्थाधिगतिरिति ।
पदेन हि विशेषो वा ऽभिधीयते सामान्यं वा तत्र विशेषाभिधानं तावद् दूषयति ।
विशष इति ।
अनवस्थानमनवधारणमिति ।
सामान्याभिधानमास्थायाह न पदस्येति ।
दूषयति न सामान्यस्येति ।
व्यवहाराय हि वाक्यमुच्चारयन्ति वृद्धाः
न तु व्यसनितया ।
न चास्ति सामान्यसाध्यः कश्चिद्व्यवहारः किं तु सर्वो व्यवहारो विशेषसाध्यः ।
न चास्य पदं वाचकं तद्वाक्यमेव वाक्यार्थस्य वाचकमिति त पदार्थचिन्तावसर
इत्याक्षेपार्थः ।
समाधत्ते न सामान्यविषयत्वेसतीति ।
न तावत्पदातिरिक्तमस्ति वाक्यं नामेत्युक्तमधस्तात् ।
न च वर्णमालैव पदार्थप्रतिपादनावान्तरव्यापारानपेक्षा वाक्यार्थबोधिनीति युक्तम् ।
अनपेक्षिन्तसंकेतग्रहायास्तदवबोधनं प्रथमश्राविणो ऽविदितसंकेतस्य वाक्यार्थबोधप्रसङ्गः ।
यतः संकेतग्रहापेक्षत्वे वाक्यार्थेन सहानन्त्यव्यभिचाराभ्यां वाक्यसंकेतग्रहासंभव
इत्यकामेनापि पदानां स्वार्थे संकेतो ऽभ्युपगन्तव्यः ।
तस्मात्पदानां सामपान्यमर्थस्तत्प्रतिपादनावान्तरव्यापाराणां च यथा वाक्यार्थप्रतिपादकत्वं तथा ऽस्माभिस्तत्त्वबिन्दौ निपुणतरमुपपादितम् ।
सेयं पदात्सामान्यप्रतीतिर्गौरिति वा अश्व इति वा सर्वगबीषु सर्वाश्वेषु वोपसर्पन्ती शुक्ल इति कृष्ण इति वा विशेषश्रुत्यापव नियम्यतैत्यर्थः ।
पृच्छति कथं पुनरियमिति ।
तिष्ठति गच्छतीत्यादयो ऽपि न पदत्वेन विशेषे वर्त्तितुमर्हन्ति सम्बन्धग्रहणासम्भवात् ।
तस्मादेते ऽपि सामान्यवचना इति भावः ।
उत्तरं नैवेयमिति ।
तदेवं पदस्य सामान्यवाचकत्वनिश्चयादाकृतिव्यक्त्यो श्च पदात्प्रतीतेर्वादिनां विप्रतिपत्तेर्भवति संशयः ।
किं त्रितयमर्थ आहो अन्यतम इति ।
एथं तावत्सामान्यावगमाद्वाचकत्वं निश्चित्य चिन्तान्तरावतारो दर्शितः ।
संप्रति द्वितयावगमात्पदस्य वाचकत्वशङ्कैव नास्ति तस्माद्युक्तश्चिन्तान्तरावतार
इत्याह भवतु वेति ।
प्रतीतिवसिद्धमनुजानाति क्रिया च तत्साधनं चति ।
भविता गौरित्यर्थः
न्य्स्_2,2.58:: व्यक्त्याकृतिजातिसंनिधावुपचारात् संशयः ॥
किमन्यतमः पदार्थ
उतैतत्सर्वमिति भाष्यम् ।
तत्रान्यतमार्थमाह वार्त्तिककारः ।
किं व्यक्तिरिति ।
( 312 । 9)
न्य्स्_2,2.59: याशब्दसमूहत्यागपरिग्रहसंख्यावृद्ध्यपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद् व्यक्तिः ॥
अत्र याशब्दादिप्रयोगसामर्थ्याद्व्यक्तिरेव पदार्थ इत्येके मन्यन्ते ।
स्यादेतत् ।
व्यक्तिवदाकृतिरपि भिद्यतैत्याकृतेरप्यभिधायकं कस्मान्न भवतीत्यत
आह ।
आकृतेरपीति ।
गोत्वं च जातिरुपाधिर्मविष्यति तेन नातिप्रसङ्गः ।
न चोपाधेरभिधानम् ।
अनभिहितस्यापि तच्छब्देनोपहितावच्छेदकत्वदर्शनात् ।
यथा गार्गिकया श्लाघतैत्यत्र श्लाघोपाधिविहितो वुञ् न श्लाघामाहेति भावः ।
न्य्स्_2,2.60: न तदनवस्थानात् ॥
तमिमं व्यक्त्यभिधाननियमवादिनमपाकरोति ।
नानेनेति ।
न्य्स्_2,2.61: सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाकटान्नपुरुषेष्वतद्भावे ऽपि तदुपचारः ॥
नाप्रतीत उपाधिरुपहितावच्छेदाय प्रभवति ।
न च गार्गिकयेत्यत्रोपाधिर्वुञाभिहितो ऽपि न प्रतीयते श्लाघत इति पदान्तरेण तस्याभिधानात् ।
यत्र तु श्लाघत इति न प्रयुज्यते न तत्र वुञोभावाभिधायिनः साधुत्वमस्ति ।
सेयं व्यधिकरणे ऽनुपाधौ गतिः ।
समानाधिकरणे तु पश्वादावुपाधौ प्रत्ययान्तशब्दवाच्यत्वमेव ।
यथा दृतिहरिः श्वेति ।
अत्र हि दृतिहरिरित्येतावतैव पशौ लब्धे तद्विशेषनियमार्थ श्वेति प्रयुज्यते ।
न च प्रयोगादेवोपाधेर्गम्यमानत्वादनभिधानं सांप्रतम् ।
तदुपाध्यनभिधायिनस्तत्र प्रयोगनियमस्य पर्यनुयोज्यत्वात् ।
अननुयोज्यत्वे अनादेर्लोकप्रयोगस्य सर्वेषामेव शब्दानामनभिधायकत्वप्रसङ्गः ।
प्रयोगनियमादेव हि तेभ्यो ऽप्यर्थो ऽवगम्यते ।
अथाप्रतिपादकस्य प्रयोगनियमो नोपपद्यत इति यत्र प्रयोगस्तत्प्रतिपादकत्वमित्यभ्युपेयते तदुपाधावपि समानम् ।
तथा च स्मरति भगवान्कात्यायनः
तदन्तवाच्यः समानशब्दो ऽयमिति ।
समानशब्दः समानाधिकरणशब्दो य उपाधिरसौ प्रत्ययान्तशब्दवाच्य
इत्यर्थः ।
तस्माद्व्यक्तिनियमे अप्रतीता जातिरशक्ता ।
न च गोशब्दादन्यदस्याः प्रत्यायकमस्तीति सा ऽपि तेन प्रत्यायनीयेति सिद्धं न व्यक्तिमात्रं पदार्थ इति
कटार्थेषु वीरणेषु व्यूह्यमानेष्विति भाष्यम् ।
कटं करोतीति निर्वर्त्यस्य कटस्य कर्मत्वमनुपपन्नं कारकाधिकारीयत्वात् कर्मसंज्ञायाः,
क्रियानिमित्तस्य च कारकत्वात् ।
असिद्धस्य च क्रियायाः पूर्वं निमित्तभावायोगात् ।
तस्मात्तादर्थ्यनिमित्तादेव कटशब्दः कटार्थेषु वीरणेषु व्यूह्यमानेषु वर्तते ।
वीरणानां च वा रच्यमानानामस्ति कटक्रियापूर्वभावित्वेन निमित्तभाव इति
न्य्स्_2,2.62: आकृतिस् तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः ॥
यदि न जात्या विना व्यक्तिनियम इति जातिरभिधेया हन्त भोः सा ऽप्याकृत्या नियन्तव्पयेत्याकृतिरेवाभिधीयतामित्याह ।
यदि तर्हीति ।
( 314 । 9 ) एतदपि दूषयति ।
अत्रापि तदेवोपस्थितं न तदनवस्थानादिति ।
संस्थानेनापि व्यज्यमानां जातिरेकार्थसमवायाद्व्यज्यते च व्यवस्थाप्यते च ।
सा तु व्यक्तिसंस्थानाभ्यां व्यावर्तमानाभ्यामनुवर्तमाना ऽभिन्नबुद्ध्या ऽवसीयते ।
तादृशी च व्यक्तिसंस्थानाभिधानानपेक्षेणापि पदेन शक्या बोधयितुं, संस्थानं तु व्यक्तिवद्भिन्नमानन्त्यव्यभिचाराभ्यामशक्यसंकेतग्रहणं जात्यभिधानमपेक्ष्य न शक्यं पदेनबोधयितुमिति न संस्थानापरनामाकृतिः पदार्थ इत्यर्थः ।
नापि जातिद्वारेण व्यक्तिवदाकृतिः पदार्थो जात्या सहासम्बन्धादित्याह ।
यस्य च जात्या योग इति
न्य्स्_2,2.63: व्यक्त्याकृतियुक्ते ऽप्य् अप्रसंगात् प्रोक्षणादीनां मृद्गवके जातिः ॥
अस्तु तर्हि जातिरेव पदार्थः तत्र हि सुकरः संकेतग्रहः व्यभिचाराभावादिति ।
व्यक्त्याकृत्योस्तु व्यभिचारः जात्यभिधायिनो व्यक्तावाकृतौ चौपचारिकः प्रयोगो भविष्यतीत्यभिप्रायेणाह ।
अस्तु तर्हीति ।
शेषमस्यातिरोहितार्थम् ।
एकमनेकत्र वर्त्तत इति प्रतिजानानोपव नानुयोक्तव्यः ।
उभयेन व्याघातादिति ।
( 318 । 13 ) यद्येकमनेकत्र वर्तमानं प्रतिव्यक्ति सर्वात्मना वर्तत इति किं त्वनेकमनेकत्र वर्तत इति प्राप्तम् ।
एवं चानुयोगाधिकरणव्याघातः ।
अथैकमनेकत्र वर्तमानं प्रतिव्यक्त्येकदेशेन वर्त्तते तथा ऽपि नैकमनेकत्र वर्तते किं त्वनेकमनेकत्रेति एकदेशानामनेकत्वादिति ।
सो ऽयमुभयेन व्याघातः उक्तो ऽवयविवादे
न्य्स्_2,2.64: नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तेः ॥
न्य्स्_2,2.65: व्यक्त्याकृतिजातयस्तु पदार्थः ॥
तदेवमन्यतमाभिधाननियमं निराकृत्यानियमाभिधानं सिद्धान्तमाह ।
व्यक्त्यार्--थः ( सू. 65 ) ॥
इदमत्राकूतम् ।
गोशब्दोच्चारणानन्तरं विदितसंगतेरेकपदे व्यक्त्या कृतिजातिनिर्भासः प्रत्यय उदयमासादयति न पुनर्यथा गङ्गायां घोषः प्रतिवसतीत्यत्र गौर्वाहीकं इत्यत्र वा गङ्गात्वगोत्वावगमोत्तरकालं वाक्यार्थे तत्सम्बन्धानुपपत्तेस्तदविनाभावेन वा लक्ष्यमाणगुणयोगेन वा तीरं वाहीको वा ऽवगम्यते तथेहावगतिः ।
प्रयोगप्राचुर्यादत्यन्ताभ्यासेनातिशीघ्रतया सन्नपि प्रत्ययक्रमो न लक्ष्यते ।
शीघ्रतरबाणहेतुकशतपत्रशतव्यतिभेदवदिति चेत् ।
न असति बाधके बलवति प्रत्ययाभेदप्रथायामन्यथाकरणायोगात् ।
तथाच सति न क्व चिदप्यभेदो ऽवतिष्ठेत तथा च भेदो ऽपि न स्याद् अभेदश्रयत्वाद्भेदस्य ।
अपि च न रूपिशून्या रूपावगतिः रूपं च द्रव्यस्य जातिः तेन रूप्यमाणत्वाद् रूपि द्रव्यम् ।
न च येन यद्रूप्यते तदनवगमे तदवगमः ।
यथा नार्थमन्तरेण बुद्धेरुपलम्भनं,
तस्माज्जात्युपलम्भो द्रव्योपलम्भैकदेशो न द्रव्योपलम्भमन्तरेण केवलः सम्भवति ।
तस्मादेकीपलम्भगोचरत्वान्न जातिजातिमतोर्लक्ष्यलक्षणभावः स चोपलम्भः शब्दज्ञानानन्तरं जायमानः शाब्दः ।
न च वाच्यमेकोपलम्भगोचरत्वे ऽपि जातिव्यक्त्योर्जातिरेव वाच्या न व्यक्तिः
एकवाच्यत्वे ऽप्युभयोपलम्भोपपत्तावुभयवाच्यत्वकल्पनानुपपत्तेरिति ।
कार्यव्यङ्न्यं हिकारणानां सामर्थ्यं कार्य एव नाकार्ये ।
कार्यं चानुभवः स चैक
एवेति न सामर्थ्यभेदकल्पना ।
तद्द्वारेण तु कर्मण्यप्युच्यते पदमर्थे समर्थमिति कार्यं च द्वारमेकमिति विषयभेदे ऽपि सामर्थ्यमेकमेवेति ।
अपि चपुरुषसङ्केतापेक्षवृत्तीनां पदानां न किं चित्सामर्थ्यं नाम प्रमाणगोचरः यदेकमनेकं वा स्यात् ।
एतेन निरूढलक्षणायां शब्दस्य जात्यभिधानोपक्षीणस्य न व्यक्तिसामर्थ्यं कल्पनीयम् ।
अन्यत्राव्यापृतस्य तत्रार्थस्यैव सामर्थ्यमिति यदाहुस्तदपि निरस्तम् ।
स खल्वर्थः प्रतीतो वा व्यक्तिं गमयेद् अप्रतीतो वा ।
अप्रतीतस्य गमकत्वे सर्वदैव व्यक्त्यवगतिप्रसङ्गः कारणस्य नित्यत्वात् ।
प्रतीतस्य गमकत्वे दुरुत्तरमात्माश्रयत्वं न हि जातिप्रत्ययादन्यो व्यक्तिप्रत्यय इत्युक्तम् ।
तस्मात्साधु पारमर्षंसूत्रं व्यक्त्याकृतिजायस्तु पदार्थ इति ।
संप्रत्यन्यापोहपदार्थवादिनमुत्थापयति न व्यक्त्याकृतिजातयस्तु पदार्थ इति के चिदिति ।
( 321 । 3 ) अथ द्रव्यादिवृत्तित्वादिति ।
गवाश्वस्य तु नाश्रयाश्रयिभाव इति भावः ।
जातिमन्मात्राभिधायको ऽपि सच्छब्दो न भवति ।
कस्मात् अस्वतन्त्रत्वादिति ।
जातिमन्तो घटपटादयः, च चैते घटादिशब्दादिव निरपेक्षात्सच्छब्दात्प्रतीयन्ते किं तु सच्छब्दाद्
घटादिषु बुद्धिः परिप्लवते घटादिशब्दापेक्षस्तु सच्छब्दो घटादिनिश्चयहेतुः ।
तस्मात्
घटादिशब्दपरतन्त्रत्वान्न तद्वतो वाचक इत्यर्थः ।
अथ वेति ।
यद्यत्र प्ररतन्त्रं वर्तते तत्तस्य न वाचकं यथा गङ्गागवादिशब्दास्तीरवाहीकादेः ।
तथा च जातिशब्दा जातिमति ।
तस्मान्न जातिमद्वाचकाः ते हि जातिमपेक्ष्य जातिमति वर्तन्त इति तादृशं पारतन्त्र्यमित्यर्थः ।
अथ जात्यनपेक्षं कस्मान्न तद्वति वर्तततैत्यत
आह ।
उक्तं चात्रति ।
( 321 । 3 ) अस्तु तर्ह्यैपचारिक
एव तद्वति प्रत्यय इत्यत आह तद्वति चेति ।
यथाधिपत्यलक्षणो गुणः स्वामिनो जितकाशिनि भृत्ये ऽप्यस्तीति तत्र स्वामिशब्दः प्रर्वतते न तथा जातिगुणयोगो व्यक्तेरित्यर्थः ।
अपि च अन्यशब्दो ऽन्यत्र वर्तमानः प्रथमं तावदन्यधियमुत्पादयति अथान्यत्र वर्तते यथा गोशब्दो गवि बुद्धिमुत्पाद्य वाहीके वर्तते ।
न चेह जातिशब्दो जातौ तद्व्यतिक्रमेण प्रवृत्तः न चौपचारिकस्य वृत्तियौगपद्यमित्याह ।
क्रमवृत्त्यभावात् युगपदसंभवाच्च ।
गुणोपरागं दूषयति ।
अयथार्थज्ञानोत्पत्तिप्रसङ्गाच्च ।
गुणोपरागाद्यथा नीलः स्फटिक इति ज्ञानमेवं सर्वमेव शाब्दञ्ज्ञानं विना बाधकमयथार्थमेव स्यादित्यर्थः ।
एकस्वलक्षणाभिधानं दूषयति ।
असाधारणेति ।
अशक्यसमयत्वाच्चेत्यपि द्रष्टव्यम् ।
तदेवमन्यापोहवादिनमुत्थाप्य दूषयति ।
अत्रास्माभिरिति ।
व्यक्त्याकृतिजातयस्तिस्त्रो ऽस्माकं पदार्थः ।
गुणप्रधानभावस्तु क्व चिदेव कस्य चित् जातिमद्व्यक्त्यभिधाने द्विविधमप्यस्वातन्त्र्यं न संभवति शब्दानाम् ।
न तावद्व्यकिज्ञाने जनयितव्ये तदर्थं जातिज्ञानं पूर्वमपेक्षन्ते शब्दः इति संभवति ।
द्वयोरप्येकज्ञानवेद्यत्वनियमेन पौर्वापर्यायोगात् ।
नापि विशेषवाचकं पदं विना जातिशब्दानां बुद्धिपरिप्लवात्तद्विनिश्चयाय विशेषशब्दापेक्षया स्वातन्त्र्यम् ।
स्वविषये जातिशब्दाद्बुद्धेरपरिप्लवात् ।
जातिमद्व्यक्तिमात्रमस्य हि विषयो न चात्र बुद्धिपरिप्लवः ।
व्यक्तिनियमस्तु विषय इति न तत्र बुद्धिपरिप्लवो दुष्यति ।
दूराद्धि आरोहपरिणाहवदद्रव्यमात्रं गोचरः प्रत्यक्षस्य न तु स्थाणुः पुरुषो वा ।
न चात्र बुद्धिपरिप्लुतिः प्रत्यक्षक्षतिं कां चनावहति ।
न चास्मिन् पक्षे जातिशब्दो व्यक्त्याकृत्योः परशब्दो येनौपचारिकः स्यात् ।
न च सामानाधिकरण्यं न कल्पते जातिव्यक्तिपदयोरेकार्थाभिधायिनोर्वैयधिकरण्यायोगात् ।
तस्मात्सर्वमवदातम् ।
एवमनेकान्तवादे परोक्तदोषाप्रसङ्गमभिधाय दूषणवाक्यं परोक्तं दूषयन् दोषाभावमाह ।
न वेतै दोषा इति ।
सत्ताशब्द इति सत्तायाः शब्द
इति वा विग्रहः सत्तारूपः शब्द इति वानपव तत्र पूर्वस्मिन्कल्पे सत्ताया न वाचकः सत्ताशब्द
इति व्याघातः ।
उत्तरस्मिन्कल्पे न वाचकः सत्ताया इत्यनेन व्याघातः सत्ताया इत्यनेन शब्देन सत्तामभिधत्से अथ च तस्य वाचको न सत्ताशब्द
इति ब्रूषे ततो व्याघातः सत्ताशब्द इति चोपलक्षणार्थं सत्तानया न वाचक इति द्रष्टव्यम् ।
शङ्कते भवदभिप्रायेणेति ।
निराकरोति ।
नेति ।
यद्यस्मदभिप्रायार्थं प्रतिपद्यसे अर्थप्रतीत्यधीनो ऽभ्युपगम इति अभ्युपगमं ब्रूषे तत्तथा च न निषेद्धुमर्हसीति भावः ।
अथ निषेद्धुं प्रत्येमि न पुनरभ्युपैमीत्याशङ्क्याह यच्चेदमिति ।
( 322 । 4 ) दूषयति तदपि नेति ।
अतथाभूतस्यापुरुषभूतस्य स्थाणोस्तथाभाविभिः पुरुषैः सामान्यं सत्यध्यारोपितः पुरुषत्वादिधर्मो यस्य स तथेत्युक्तः तस्य प्रधानमर्थः पुरुषः तदकाराप प्रतीतिरित्यर्थः ।
सत्तायाः प्रधानसाधनवाचिनेति ।
प्रधानं साधनं व्यञ्जकतया भवितृद्रव्यं तद्वाची खलु सच्छब्दः मत्ताशब्दस्तु द्रव्योपसर्जनभाववाची न तस्य द्रव्यवाचिना सामानाधिकरण्यमित्यर्थः ।
सामानाधिकरण्यासिद्धिः सद्द्रव्यशब्दयोरिति ।
सिद्धिः प्रतीतिः सा भवन्मते न स्यादिति यदुक्तं कैश्चित्तदप्यनेन सामानाधिकरण्यव्यवस्थापनेन प्रत्युक्तम् ।
व्याख्यातोप निराकार्यत्वेन ।
स्वयं प्रकॢप्तां वाचोयुक्तिमिति ।
( 323 । 3 )
जातिशब्द इति सदादिशब्देषु स्वयं प्रकॢप्ता या वचनव्यक्तिस्तां प्रतिषेधति तत्र चास्माकं सिद्धसाधनमित्यर्थः ।
सच्छब्दो जातिशब्दस्तस्य भेदवाचकत्वं नास्य संमतमिति भन्वानो देशयति ।
यदि तर्हीति ।
सुगमः परिहारः ।
तथा ऽपि नान्वयी न व्यतिरेकी चेति ।
ये ये अनन्ता न ते जातिशब्दवाच्या इति न दृष्टान्तः ।
सर्वभेदपक्षीकरणात् ।
नापि यो जातिशब्दवाच्यो न तत्रानन्त्यं यथा गोत्वादिकमिति शक्यंप वक्तुं जातेरेव भवन्मते व्योमारविन्दायमानत्वादिति भावः ।
शङ्कते अथापीति ।
तथा सत्यन्वयी दृष्टान्तो लक्ष्यत इति भावः ।
निराकरोति ।
अयमपि नेति ।
विशेषणोपादानविरोधात् ।
न हि भेदमन्तरेण किं चिदस्ति वस्तुसद यतो विशेषणं व्यावर्त्तयोदिति भावः ।
हेतुभावानभ्युपगमादिति ।
( 324 । 5 ) न शब्दो ऽर्थप्रत्यायने लिङ्ग येन व्यभिचारेण दुष्यति ।
न च प्रत्यायकमात्रं व्यभिचारेण दुष्यति चक्षुरादीनामपि नीलादिव्यभिचारेण पीतादौ वर्त्तमानतया व्यभिचारिणामप्रत्यायकत्वप्रसङ्गात् ।
सङ्केतग्रहस्तु सत्यपि भेदानां व्यभिचारे चैकैकजातिक्रोडीकृतानां सुकर एवेति भावः ।
भेदवाचकत्वप्रतिषेधादिति ।
भेदवाचकत्वे निषिद्धे द्रव्यवाचकत्वं निषिद्धं भवति द्रव्यस्य भेदत्वात् ।
ततश्च द्रव्यशब्द इति व्याघात
इत्यर्थः ।
उक्तोत्तरमेतत् सच्छब्दद्रव्यशब्दयोरेकविषयत्वादिति ।
विशेषमात्रं विषयः सदादिशब्दस्य न पुनर्नियतो ऽयमेव नान्य इति भावः ॥
सत्ताशब्देन द्रव्यगुणकर्माणि नाक्षिप्यन्त
इति ।
सामानाधिकरण्ययोग्यतयेत्यर्थः ।
तदन्तरेण तदनुपपत्तेः ।
आक्षेपामात्रं तु शक्यं वक्तुमित्याह ।
शक्यं वक्तुमिति ।
पृष्ट्वासच्छब्दस्य गुणप्रधानभावेन त्रयोर् ऽथा इति सूत्रकारन्यायेनावधारयति ।
सदिति चायमिति ।
अर्थकृत इति ।
अर्थः कार्यं तत्कृतः ।
तदुक्तं भवति यस्य कार्येण सम्बन्धस्तत्प्रधानं यस्य कार्यसम्बन्धावच्छेदकत्वं तदङ्गमिति ।
एतेनेति ।
( 325 । 9 ) अर्थत्रयाभिधानेन ।
न हि स्वामिप्रत्ययो भवति भृत्ये ।
अपि तु तदर्थक्रियाकारितया स्वामिव्यपदेशमात्रमित्यर्थः ।
नात्र क्रमो न युगपत्प्रत्यय इति ।
( 326 । 3 ) भेदाधिष्ठाने क्रमयौगपद्ये नैकस्मिन् विशिष्टद्रव्यप्रत्यये सम्भवति इति ।
एतेनेति ।
शब्दस्य सत्ताविशिष्टद्रव्यबाचित्वाभिधानेनायथार्थज्ञानोत्पत्तिप्रसङ्गादिति प्रत्युक्तम् ।
परमार्थस्वच्छधवले हि स्फटिके नीलीद्रव्योपधानान्नीलाप्रत्ययो भवतु भ्रान्तः तस्य परमार्थतो नीलगुणासमवायात् ।
सत्तासमवायस्तु द्रव्यादीनां पारमार्थिक
इति न द्रव्यादिषु सदिति प्रत्ययस्य मिथ्यात्वमित्यर्थः ।
न हि कश्चिच्छब्द इति ।
स्वलक्षणानामशक्यसमयतया न कश्चिदपि शब्दो भवता तद्वाचकत्वेनाभ्युपेयतैत्यर्थः ।
न च जातिशब्दस्येति ।
जातेरभावादिति भावः ।
न जातिशब्दो भेदानां वाचकः कस्य तर्हीति पूर्वं भेदान्प्रधानीकृत्योक्तं सम्प्रति तु जातिशब्दानित्येतावता अपौरुक्त्यम् ।
नास्ति विवाद इति ।
( 327 । 20 ) अन्यापोहजात्योर्लक्षणाभेदे नास्ति विवाद इत्यर्थः ।
द्रव्यसच्छब्दयोस्तु सामानाधिकरण्यं न च श्रेदवाचकाः शब्दा इति व्याहतमिति ।
( 328 । 4 ) द्रव्यमिति हि विधिरूपमेवं सदित्यपि विधिरूपं तच्छब्दौ तयोर्वाचकौ तयोरन्यापोहार्थत्वं व्याहतं विधिशब्दौ चान्यापोहार्थाविति न सम्भवति ।
न च भेदानभिधायिनोः सामानाधिकरण्यमपि युज्यते ।
भिन्नाभ्यां हि निमित्ताभ्यामेकस्मिन्नर्थे भेदरूपे वर्तमानौ समानाधिकरणौ भवेतां भेदं चेन्नाभिधत्तो नैकत्र वर्तेयाताम् ।
अवर्त्तमानौ च भिन्नप्रवृत्तिनिमित्तपर्यवसितौ गौरश्व इतिवन्न समानाधिकरणौ भवितुमर्हतः ।
सो ऽयमपरो व्याघातः ।
भेदानभिधानं च सामानाधिकरण्यं चेति ।
तदनेन व्याघातद्वयमुक्तं तदेतद्व्याघातद्वयं निराचिकीर्षुराशङ्कते ।
उपचारतो न व्याघात इति चेत् ।
तदेतद्विभजते द्रव्यसच्छब्दाविति ।
तदनेन प्रथमो व्याघातः परिहृतः ।
द्वितीयं व्याघातं शङ्किता परिहरति ।
तावेताविति ।
ब्रूतः प्रतिपादयतो ऽध्यवस्यत
इति यावत् ।
एतदत्राकूतम् ।
विकल्पयोनयो हि शब्दास्तदेवाभिनिविशन्ते यद्विकल्पानां गोचरः ।
कार्यकारणयोः सामानाधिकरण्येन प्रतिपत्तेः ।
चतुष्टयी चेयं विकल्पानां सदसद्धर्मिसद्धर्मावगाहिनां जातिः ।
गौरीश्वरो नीलं नित्त्यमित्येवमादीनां न च विकल्पानां गोचरो यो विकल्पते देशकालावस्थाभेदेनैकत्वेनानुसंधीयते तदेवेदमिति ।
एव च स शब्दगोचरः तत्र शब्दानां शक्यसङ्केतत्वात् ।
न च स्वलक्षणानि त्रैलोक्यविलक्षणान्येवमिति न विकल्पविषयः ।
न च सामान्यं नाम किं चिदस्ति यद्विषयः स्यात् ।
अत एव न तद्वन्ति स्वलक्षणान्यपि तेषां सामान्यानामभावे तद्वत्तायाः स्वलक्षणेष्वभावात् ।
अपि चास्तु सामान्यं वस्तुसत् तथा ऽपि नित्यत्वादनुपकार्यतया स्वलक्षणाधारत्वानुपपत्तिः
आधारत्वमपि हि करणत्वमेव ।
पतनधर्माणो हि बदरादयः कुण्डादिभिरपतनधर्माणः क्रियन्त ।
न च नित्यं क्रियत इति नाधेयम् ।
तथा वृक्षत्वशिंशपात्वे स्वतन्त्रे एव सामान्ये स्वशब्दाभ्यामवगमिते न गौरश्वर इतिवत्सामानाधिकरण्यं भजेताम् ।
अपि च भवतु नित्यस्याप्युपकार्यत्वेनाधेयत्वं तथा ऽप्येतद्विकल्पनीयम् ।
किं येनैव स्वभावेन तत्स्वलक्षणं वृक्षत्वमुपकरोति तेनैव शिंशपात्वमपि अथ स्वभावान्तरेण ।
अथ हि स्वभावान्तरेणप स्वभावभेदादन्यत्स्वलक्षणं शिंशपात्वाधारो ऽन्यच्च वृक्षत्वाधार
इति पुनरपि गौरश्व इतिवत्सामानाधिकरण्याभाव
एव ।
अथैकेन स्वभावेन स्वलक्षणं सर्वसामान्योपकारि तथापिपव स्वभावाभेदे तदुपकाराधीनस्वभावानां सामान्यानां च मध्ये एकसामान्यवतः स्वलक्षणस्य एकेन शब्देन विकल्पेन वा ग्रहणे सर्वेषां तदेकोपकारनिबद्धस्वभावानां सामान्यानां ग्रहणात्सद् द्रव्यपार्थिववृक्षशिंशपाविकल्पानां शब्दानां च पर्यायत्वप्रसङ्गः ।
यथाह। ... एकोपकारके ग्राह्ये नोपकारास्ततो ऽपरे ।
दृष्ट तस्मिन्नदृष्टा ये तद्ग्रहे सकलग्रह ...
इति ।
तस्मान्न सामान्यवद्भेदगोचरा विकल्पाः ।
स्वलक्षणभेदगोचरत्वनिषेधेन ज्ञानग्राह्याकारगोचरत्वमप्यपास्तम् ।
स्वाकारमबाह्यं बाह्यमध्यवस्यन् विकल्पः स्वाकारबाह्यविषय
इति चेत् ।
यथाह ... स्वप्रतिभासे ऽनर्थे ऽर्थाध्यवसायेन प्रवृत्ति ... रिति ।
अथ को ऽयमध्यवसायः ।
किं ग्रहणमाहो स्वित्करणम् ।
उत योजना अथ समारोपः ।
तत्र स्वप्रतिभासमनर्थमर्थं कथं गृह्णीयात् कुर्याद्वा विकल्पः न हि पीतं नीलं शक्यं ग्रहीतुं कर्तुं वा शिल्पिशतेनापि ।
नाप्यगृहीतेन स्वलक्षणेन स्वाकारं योजयितुमर्हति विकल्पः ।
न च स्वलक्षणं विकल्पगोचर इति चोपपादितम् ।
न च स्वाकारमनर्थमर्थ आरोपयति ।
न तावदगृहीतः स्वकारः शक्य आरोपयितुमिति तद्ग्रहणमेषितव्यम् ।
तत्किं गृहीत्वा आरोपयति अथ यदैव गृह्णाति तदैवारोपयति ।
न तावत् पूर्वः पक्षः न हि विकल्पज्ञानं क्षणिकं क्रमवन्तौ ग्रहणसमारोपौ कर्तुमर्हति ।
उत्तरस्मिंस्तु पक्षे विकल्पस्वसम्वेदनप्रत्यक्षा द्विकल्पाकारादहङ्कारास्पदादनहङ्कारास्पदं समारोप्यमाणो विकल्पो नास्वगोचरो न शक्यो ऽभिन्नः प्रतिपत्तुं नापि बाह्यस्वलक्षणैकत्वेन शक्यः प्रतिपत्तुं विकल्पज्ञानेन स्वलक्षणस्य बाह्यस्वयाप्रतिभासनात् ।
तस्मादेष विकल्पविषयो न ज्ञानंन ज्ञानाकारो नापि बाह्य इत्यलीक
एवास्थेयः ।
यथाह भदन्तधर्मोत्तरः। ... बुद्ध्या कल्पिकया विविक्तमपरैर् यद्रूपमुल्लिख्यते बुद्धिर्नो न बहिरिति ... ।
तथापि विकल्पज्ञानाद्वाह्याभिमुखी प्रवृत्तिस्तदर्थिनां न स्यात् ।
तस्मादलीकबाह्यमेषां विषयः
बाह्यभेदाग्रहश्चास्य बाह्यत्वं न पुनर्बाह्याभेदग्रहः ।
विकल्पगोचरेव बाह्ये तदभेदग्रहस्याशक्त्वात् ।
तस्मान्निर्विकल्पकपृष्ठभाविनो विकल्पाः
तदुपनीतबाह्यस्वलक्षणभेदं स्वग्राह्यालीकस्यागृह्णन्तः
तदभिमुखं प्रवर्त्तयन्ति व्यवहर्तॄनर्थिनः पारर्ंयेण तत्सम्बन्धात् ।
प्राप्तेर्न्न विसम्वादयन्ति लोकम् ।
तेषां च विकल्पविषयाणां न तैरेव विकल्पैः परस्परतो भेदो गृह्यते नापि विकल्पान्तरैरिति भेदाग्रहादभेदमभिमन्यते पुरुषः तदभेदाच्चावमर्षाणाम् अभेदः
तदभेदाच्च तद्धेतूनामविकल्पधियामभेदः
तदभेदाच्च स्वलक्षणानामविकल्पधीविषयाणामप्यभेदः ।
यथाऽह। ... एकप्रत्यवमर्षस्य हेतुत्वाद्धीरभेदीनी ।
एकधीहेतुभावेन व्यक्तीनामप्यभिन्नतेति ...
॥ तत् सिद्धमलीकं बाह्यं विषयोविकल्पानां शब्दानां चेति ।
तच्चेदमन्यव्यावृत्तिरूपं भावाभावसाधारण्याच्चात्यन्तीवलक्षणानीं सालक्षण्यापादनाच्च ताद्रूप्यानुभवाच्च ।
तथा हि यद्भावाभावसाधारणं तदन्यव्यावृत्तिरूपमेव ।
यथाप ऽमूर्त्तत्वं तत् खलु विज्ञाने च शशविषाणे च साधारणम् ।
तथा च विवादाध्यासिता विकल्पविषयाः घटपटादय
इति स्वभावहेतुः ।
गौरस्ति गौर्नास्तीति हि भावाभावसाधारणो गावादिविकल्पविषयो विधिरूपस्वलक्षणवद्भावासाधारण्ये नास्तीत्यनेन न संबध्यते विरोधात् ।
अस्तीत्यनेनापि न संबध्यते पौनरुक्त्यात् ।
भावाभावसाधारणग्रहणञ्च नानिमित्तं नाप्यन्यनिमित्तं न हि विधिरूपविषयस्य तत्स्वरूपविषयस्य वा विधिधर्मापातिनस्तत्र निमित्तभावः संभवति ।
तस्मान्निमित्तवत्तया साधारणग्रहणं व्याप्तं विपक्षान्निमित्तवत्त्वस्य व्यापकस्यानुपलब्ध्या निवर्त्तमानमन्यव्यावृत्तिविषयत्वेन वयाप्यत इति प्रतिबन्धसिद्धिः ।
अपि चात्यन्तविलक्षणानां सालक्षण्यम् अन्यव्यावृत्तिकृतमेव ।
यथा गवाश्वमहिषमातङ्गानामत्यन्तविलक्षणानामपि सिंहव्यावृत्या सालक्षण्यम् ।
तथा च बाह्यस्य स्वलक्षणस्य विधिरूपस्य परमार्थसतो ऽपरमार्थसतात्यन्तविलक्षणेन सालक्षण्यमिति स्वभावहेतुः ।
बाह्यंहि विधिरूपमप्यगोव्यावृत्तम् ।
विकल्पविषयो ऽपि चेदगोव्यावृत्तस्ततः सालक्षण्यं नान्यथा तथा च सालक्षण्यमिति निमित्तवत्तया व्याप्तं तदनुपलब्ध्या विपक्षाद्व्यावर्त्तमानं स्वसाध्येन व्याप्यत इति प्रतिबन्धसिद्धिः ।
अपि चानुभूयत एव विकल्पविषयो व्यावृत्तिरूपः ।
तथा हि ।
तदप्रतिभासने गां बधानेति देशितो ऽश्वं बध्नीयाद् गोरश्वाद्प भेदेनाप्रतिभासनात् ।
प्रतिभासे वा कथं नागोव्यावृत्तिप्रतिभासः ।
तस्मादन्यापोहगोपचरौ शब्दविकल्पाविति ।
तदेतदुक्तम् वार्तिककृता ।
तावेतावसद्द्रव्यव्युदासरूपेण प्रवर्तमानावेकमर्थमधिकुरुत
इति ।
( 328 । 8 ) एकं स्वलक्षणमध्यवस्यतः अध्यवसायश्च स्वविषयस्य स्वलक्षणाद्भेदेनाग्रह इत्युक्तम् ।
अत्रोच्यते ।
जातिस्तावदुपपादितसद्भावा तत एव तद्वतीव्यक्तिरपि परमार्थसती ।
स्वाभाविकश्च सम्बन्धो व्यक्तेर्जात्या सह नोपकारमपेक्षते ।
अपि चानित्यस्याप्युपकार्यता क्षणभङ्गभङ्गौपपादयिष्यते ।
यथा चैकोपाधिग्रहे ऽपि नोपाध्यन्तरविशिष्टग्रहस्तथोपपादितं प्रत्यक्षलक्षणावसरे ।
न चात्यन्तासतः केन चिदसदूपस्य प्रथोपपद्यत- इति सारूप्यनिमित्तां भ्रान्तिमुपपादयता वार्तिककृतोक्तम् ।
उपपादितं चास्माभिः ।
तस्माज्जातिमत्यो व्यक्तयो विकल्पानां शब्दानां च गोचरः
तासां तद्वृत्तीनां रूपमतज्जातीयव्यावृत्तमित्यर्थः
अतस्तदवगतेर्न्न गां बधानेति चोदितो ऽश्वादीन् बध्नाति ।
न च शब्दार्थस्य जातेर्भावभावसाधारण्यं नोपपद्यते ।
सा हि स्वरूपतो नित्या ऽपि देशकालविकीर्णानन्तव्यक्त्याश्रयतया भावाभावसाधारणी भवत्यस्तिनास्तिसम्बन्धयोग्या ।
वर्तमानव्यक्तिसम्बन्धिता हि जातेरस्तिता अतीतानागतव्यक्तिसम्बन्धिता च नास्तितेति ।
संदिग्धव्यतिरेकित्वादनैकान्तिकं भावाभावसाधारण्यमन्यथासिद्धं चेति ।
जातिमती व्यक्तिर्विकल्पगोचरो नालीकमिति कस्य वस्तुना सह सादृश्यायान्यव्यावृत्ति--
रूपतास्थीयते ।
अपि चालीकस्य समस्तसामर्थ्यविरहिणो ऽत्यन्तविसदृशस्य समर्थेन स्वलक्षणेन विधिरूपेण किं सादृश्यम् ।
अन्यव्यावृत्तिरिति चेत् ।
नन्वन्यव्यावृत्तिर्भाविकी स्वलक्षणस्य स्वभावो वा अन्यो वा न तत्स्वभावो विधिरूपेण विरोधात् ।
अविरोधे वा विधिनिषेधयोरेकत्वाद्विधिरूपतानिषेधेनालीकस्य स्वलक्षणसारूप्यायान्यव्यावृत्तिरूपतोपपादनमनर्थकम् ।
विधिरूपेणानुच्छेन तुच्छस्य सारूप्यमनुपपन्नमिति चेत् ।
हन्त भोः स्वलक्षणस्यास्ति किं तुच्छमपि रूपं येनालीकस्य तुच्छस्य सारूप्यं स्यात् ।
तथा सत्ययमेकस्य स्वलक्षणस्य तुच्छातुच्छविरुद्धस्वभावद्वयसमावेशमभ्युपगच्छन्
श्लाघनीयप्रज्ञो देवानांप्रियः ।
न च स्वलक्षणोदन्यव्यावृत्तिरलीकमन्यव्यावृत्तं स्वलक्षणेन सरूपयति तथा सति हस्तिमशकावपि रासभः सरूपयेत् ।
धर्मो न च स्वलक्षणधर्मो व्यावृत्तिर्भवद्भिरभ्युपेयते ।
स्यादेतत् ।
अध्यवसीयमानमपि स्वलक्षणं न परमार्थसत्, अपि तु तदपि कल्पितं, तस्मात्तस्य विधिनिषेधरूपता न विरुध्यते, वस्तुनि हि विरुद्धधर्माध्यासो विरुध्यते नावस्तुनि तेनास्य विधिरूपपरित्यागेन निषेधरूपतामुपादायालीकस्य सारूप्यमुपपद्यते ।
यथाऽह--- ... यच्च गृह्यते यच्चध्यवमीयते ते द्वे अप्यन्यब्यावृत्ती न वस्तुन ...
इति ।
अथालीकस्य स्वलक्षणस्यालीकसादृश्ये किं सिध्यति ।
न तावत् तत्र प्रवृत्तिः असतः प्रवृत्तिविषयत्वायोगात् ।
सतस्तु प्रवृत्तिविकल्पस्य न सादृश्यमसता सादृश्ये वा वृथा अलीकस्वलक्षणाभ्युपगमः ।
अथ न वयमलीकं स्वलक्षणान्तरमातिष्ठामहे किं त्वलीकस्यैव दाहपाकादिकसामर्थयरोपम् ।
न तत्स्वलक्षणं तस्य सर्वतो व्यावृत्त्या अभिलापसंसर्गायोग्यत्वेन विकल्पज्ञानप्रतिभासाभावात् ।
अभिलापसंसर्गयोग्यस्य चान्वयिनो ऽस्वलक्षणत्वात् ।
तस्मात्स्वान्वयिनो ऽन्यव्यावृत्तिरूपस्यासमर्थस्यापि सामर्थ्यं समारोप्य तत्तदर्थिनो व्यवहर्त्तॄन् प्रवर्त्तन्ते लोकविकल्पाः पारम्पर्येण सम्बन्धात्समर्थं वस्तु प्रापयन्तो न विसंवादयन्ति लोकमिति युक्तमुत्पश्यामः ।
अथास्य अतदर्थक्रियासामर्थ्यारोपः किं दृष्टार्थक्रियास्वलक्षणसालक्षण्येनाहो स्विदनादिवासनावशात् ।
तत्र स्वलक्षणेन सर्वतो व्यावृत्तेन समर्थेन समस्तसामर्थ्यविरहिणो ऽन्वयिना न किञ्चिदस्ति सारूप्यम् ।
अन्यवृत्त्या तु सारूप्ये विधिरूपेणापि प्रसङ्गः ।
तस्यास्ततो भेदाभावादित्युक्तम् ।
अनादिवासनावशात्तु तदारोपे प्रथमदर्शने ऽपि नालिकेरद्वीपागतस्य वह्नौ दाहपाकादिसामर्थ्यज्ञानप्रसङ्गः ।
वह्निस्वलक्षणाद्दाहपाकादिकारिणो भेदाग्रहादलीकस्य तद्रूपसमारोप इति चेत् ।
किं स्वलक्षणे गृह्यमाणे अथागृह्यमाणे ।
न तावद्गृह्ममाणे तस्य विकल्पज्ञानगोचरत्वाभावादित्युक्तम् ।
तत्समयभावि त्वविकल्पकं तत्त्वं गृह्णदपि न विकल्पे स्वविषयं निवेशयति ।
तस्य ततो ऽन्यत्वेन तद्वार्त्तानभिज्ञत्वात् ।
एवं विकल्पज्ञानमपि समनन्तरोत्पन्ननिर्विकल्पकव्यापारपारम्पर्ये ऽपि न स्वलक्षणं गोचरयितुमर्हति ।
तस्याभिलापसंसर्गयोग्यप्रतिभासविषयत्वादित्युक्तम् ।
समनन्तरप्रत्ययादविकल्पादुत्पत्तेस्तद्व्यापारपारम्पर्यादतद्गोचरो ऽपि तद्गोचर इवाभासत इति चेत् ।
अनुभववासनाभावेषु भेवदपीयं गतिर्न तु परोक्षाभावावगाहिष्वविद्यावासनाप्रभवेषु संभवति ।
अपि चानुभववासनाप्रभवस्यापि तद्गोचरत्वाभिमानस्तस्मिन्नप्रथमाने तदुत्पत्तिमात्रान्न भवितुमर्हति ।
अगृह्यमाणे तु वह्निस्वलक्षणे ततो भेदाग्रहेण तद्रूपारोपे त्रैलोक्यरूपारोपप्रसङ्गो नियमहेतोरभावात् ।
न हि तदानीमगृह्यमाणतया त्रैलोक्याद्वह्निस्वलक्षणस्य कश्चिद्विशेषः
वह्निस्वलक्षणविषयनिर्विकल्पकप्रभवत्वेन तस्मिन्नियते अविद्यावासनाप्रभवेषु प्रधानेश्वरादिविकल्पेषु तदभाव इति नियमो न स्यात् ।
न चाग्रहेण तदारोपसंभव इत्युक्तम् ।
तस्मादलीकस्य बाह्यत्वं विकल्पगोचर इति रिक्तं वचः ।
अपि च ज्ञानाकारवत्स्वलक्षणवच्चालीकग्राह्यत्वमपि न विकल्पगोचरो भवितुमर्हति ।
एतद्धि कल्पनाधीनमुत्पन्नायां कल्पनायामुत्पन्नमिव विनष्टायां नष्टमिव विकल्पनाभेद भिन्नमिव न शक्यमेकत्वेन प्रतिकर्त्तुम् ।
भेदानवमर्षादिति चेत् ।
किमस्यानवमृष्टमपि तत्त्वम् ।
ओमिति चेत् ।
न तर्हिं कल्पितम् ।
ननु नास्य भेदो ऽपि स्वाभाविकः स्वाभाविको हि भेदाभेदाभ्यां युज्यते न त्वलीकम् ।
मा भूद्भेदो ऽस्य स्वाभाविकः कल्पनाधीनं तु तदलीकं तद्भेदाद्भिन्नं प्रतिपत्तव्यम् ।
अन्यथा तदधीनत्त्वापत्तेः ।
इदमेव हि तस्य विकल्पितस्य कल्पनाधीनत्वं यत्कल्पनाभेदाभेदानुविधानं नाम तदधीनत्वे तु कल्पितत्वानुपपत्तेरनलीकत्वप्रसङ्गात् ।
तन्मा नाम भूतामस्य स्वाभाविके नानात्वैकत्वे न तु भिन्नकल्पनानुपाति शक्यमेकत्वेन प्रतिपत्तुमिति भिन्नं प्रतिपत्तव्यम् ।
तत्सिद्धं विकल्पागोचरत्वमलीकबाह्यस्य
अभिलापसंसर्गायोग्यत्वात्सुखादिस्वलक्षणवदिति ।
अभिलापसंसर्गायोग्यं हि तत् तेनाशक्यसमयत्वात् सुखादिलक्षणवदिति ।
शक्यसमयतया खल्वभिलापसंसर्गयोग्यता व्याप्ता अन्यथा ऽतिप्रसङ्गात् ।
सालीकबाह्यतायाः प्रतिविकल्पं भिन्नाया व्यावर्त्तमाना ऽभिलापसंसर्गयोग्यत्वमपि व्यावर्त्तयतीति प्रतिबन्धसिद्धिः ।
अपि चेदमलीकमगोव्यावृत्तिरूपं वा तद्धर्मो वा ।
अगोव्यावृत्तिरूपं चेत् ।
न तदसिद्धं गवि शक्यं ग्रहीतुम् ।
अगौश्च गोनिषेधात्मेति गोसिद्धिमपेक्षत इति दुरुत्तरमितरेतराश्रयत्वं तद्धर्मत्वे वा गोत्वमेवास्तु भाविकं तद्धर्मो विधिरूपः कृतमलीकेनाविधिरूपेण ।
तद्धर्माणां तद्भाविकत्वसाधनं च निराकृतं तस्य च भावाभावसाधारण्यमुपपादितं तद्विस्तराद्विभ्यतो ऽपि बहुतरविस्तरे पतिताः स्म इत्यास्तामेतन्नास्तिकमानोपमर्द्दनमिति ।
उपचारतो न व्याघात इति चेदिति शङ्कायाः परिहारवार्त्तिकम् ।
मुख्यासंभवादिति ।
( 328 । 11 ) सर्वत्र मुख्यपूर्वक उपचारो वा समारोपो वा दृष्टः तव तु राद्धान्ते न विधिविषयः कश्चिदस्ति मुख्यः शब्दो वा विकल्पो वा सर्वस्य निवृत्तिगोचरत्वात् ।
न चाध्यवसेयो विधिः संभवतीत्युपपादितमधस्तादिति भावः ।
न चान्यापोहपक्ष उपचारो युक्तः उभयोः प्रधानशब्दत्वादिति ।
न हि सिंहत्त्वं नाम किं चिदस्ति सिंहव्यक्तिषु यन्मानणवके न स्यात् ।
अपि तु प्रसह्यकारित्वादिव्युदासो माणवके नास्तीति सिंहव्यक्तिष्विव माणवके ऽपि सिंहशब्दो मुख्य एव स्यादित्यर्थः ।
किं गौरगौरिति ।
( 329 । 5 ) अश्वादिरित्यर्थः ।
प्रैष्यप्रत्ययपूर्विका प्रैषस्य प्रैषविषये प्रवृत्तिः संप्रतिपत्तिः
अङ्गव्यतिरिक्तस्य चाङ्गिनः सेनावनबहुत्वसंख्यादीनां भवद्भिरभ्युपगमादित्यर्थः ।
क्रियारूपत्वाच्चापोहस्य विषयो वक्तव्य इति ।
कर्म विषयः क्रियायास्तद्वक्तव्यमित्यर्थः कथमन्यविषयादिति ।
कथमन्यविषयादपोहदगोविषयागवि प्रतिपत्तिरिति ।
अथागोरिति ।
( 330 । 2 ) अस्ति हि का चित् क्रिया या ऽन्यस्यान्यविषया ।
यथा विज्ञानमात्मनोर् ऽथः विषयं वेत्यर्थः ।
निराकरोति ।
केन गोरिति ।
क्रिया हि चेतनानां प्रयत्नपूर्वा भवति ।
अपोहलक्षणा च क्रिया निषेधरूपा निषेधश्च प्राप्तिपूवकः न हि गोरगोत्वं केन चित्प्रसञ्जितं यत्प्रेक्षावता व्यपोह्येतेत्यर्थः ।
कथं चागवीति ।
अगवीति पदेन यो ऽयं प्रतिषेधो नासौप गोप्रतिपत्तिमन्तरेण भवतीत्यर्थः ।
अध्यासानुपपत्तेरर्थप्रत्ययो न युक्त इति ।
अपोहरूपोर् ऽथप्रत्ययो न युक्त
इत्यर्थः ।
किमपोहो वाच्यो ऽथावाच्य इति ।
अपोहादिशब्देनेत्यर्थः ।
यदि वाच्य इति ।
स्वरूपेणैवापोहो वाच्यो न चापोहापोहेनेत्यर्थः ।
स्यादेतत् ।
यद्यन्यापोहेन शब्दो न वर्तते कथं तर्हि द्व्यादिविशेषेष्वनेकशब्द एकापोहेन वर्तते ।
न ह्यत्रानेकत्वं नाम गोत्वमिव किं चिदस्ति सामान्यमित्यत आह ।
अनेकमिति चास्य पदस्य द्वयादिविषयत्वात् ।
( 331 । 2 ) सामान्याधिगतावेकत्ववर्जितसंख्यात्वसामान्याधिगतौ विशेष आश्रयितव्यः संख्यात्वसामान्यमेवैकत्ववर्जितं तत्र द्व्यादिविशेषाधिगतिहेतुर्न पुनरन्यापोहमात्रमित्यर्थः ।
न ह्यसति सामान्यशब्दादेकत्ववर्जितसंख्यासामान्यवाचकादनेकशब्दाद्
विशेषाश्रयणे अन्यापोहमात्राद्विशेषाध्गितिरिति योजनीयम् ।
अब्राह्मणादिशब्दानामपीमेव गतिः ।
तत्रापि पुंस्त्वसामान्यमेव ब्राह्मणशब्दार्थ
इति ।
नीलोत्पलशब्दयोश्च प्रधानत्वादिति ।
अनीलानुत्पलव्युदासौ हि प्रधानौ नीलोत्पलशब्दावाहतुः
न ह्येतयोरस्ति विशेषणविशेष्यभावः परस्परासंबन्धादिति भावः ।
एतेन नीलोत्पलशब्दयोरस्मिन्सिद्धान्ते प्रधानार्थत्वेन व्युत्पादनेन राजपुरुषशब्दौ व्याख्यातौ प्रधानत्वेन अत्राप्यराजापुरुषव्यवच्छेदयोर्नावच्छेद्य वच्छेदकभावः नापि स्वस्वामिभाव इत्यर्थः ।
समानाधिकरणयोश्चेति ।
शब्दविकल्पयोः परमार्थसद्वस्तुसंस्पर्शासम्भवादित्यर्थः ।
न्य्स्_2,2.66: व्यक्तिर्गुणविशेषाश्रयो मूर्तिः ॥
यत्र हि व्यक्त्याकृतिजातीनां समावेशस्तत्र व्यक्तिनिर्द्धारणाभेदं लक्षणम् ।
तेनाकाशाद्यनवरोधे ऽपि न दोषस्तत्राकृतेरभावादिति भाष्यमतम् ।
यथाह भाष्यकारः न सर्वं द्रव्यं व्यक्तिरिति ।
यद्यपि गुरुत्वादयः सामान्यगुणास्तथापि गुणान्तरेभ्योव्यावर्त्तमाना गुणविशेषा इत्युच्यन्ते ।
अव्यापिन इति ।
सर्वगतस्य द्रवयस्य परिमाणं व्यवच्छिनत्ति ।
मूर्च्छिताः परस्परं संयुक्ता अवयवा यस्य तन्मूर्च्छितावयवम् ।
कथं पुनरित्यादिभाष्यमाक्षिपति वार्त्तिककारः ।
अधिगतत्वादिति ।
स्वरूपागवमपूवर्कत्वाद्वाक्यप्रतिपादनस्य स्वरूपावगमो ऽपि तन्नान्तरीयकत्वात्सिद्ध
इत्याक्षेपाभिप्रायः ।
निराकरोति ।
न निमित्तत्रैविध्ये सति तद्विशेषविषयज्ञानपनार्थत्वात् ।
प्रश्नस्य शब्दप्रवृत्तिनिमित्तानां त्रैविध्ये सति तद्विशेष
एव विषयः तज्ज्ञापनमर्थः प्रयोजनं यस्य स तथोक्तः।एतदुक्तं भवति सिद्धं कृत्वा भेदमभिधेयत्वं ब्रयाणां प्रतिपादितम् ।
संप्रति स एव भेदः प्रतिपाद्यत इति ।
सूत्रमिति ।
बहूनामर्थानां सूचनादिति भावः ।
अत्रभाष्यव्याख्यानमुपन्यस्यति ।
व्यज्यत इति ।
( 332 । 2 ) दूषयति एतत्तुनेति ।
व्यक्तिः पदार्थ इत्येतत् प्रकृतं तत्र यथावयविनो व्यक्तेः पदार्थत्वमेवम् आकाशादीनां चोत्क्षेपणादीनां च तत्तथा लक्षणं व्याख्येयं यथा सर्वं संगृह्यते अन्यथा सूत्रकारो ऽकुशनलः स्यात्प तदर्थमाह ।
वयं तु ब्रम इति ।
अत्रेदं व्याख्यानम् ।
व्यक्तिरिति लक्ष्यनिर्द्देशः शेषं लक्षणम् ।
गुणविशेषा इति द्वेधा समासः गुणश्च विशेषश्चेति प्रथमो विग्रहः तेनाकृतिर्निराकृता संगृही ताश्च रूपादयो भवन्ति ।
तथा ऽप्युत्क्षेपणादिव्यक्तेरसंग्रह
इति द्वितीयो विग्रहः ।
गुणेभ्यो विशेषा गुणविशेषाः गुणेभ्यो व्यावृत्ता उत्क्षेपणादय
इति यावत् ।
तथा ऽपि न द्रव्यं संगृह्यतैत्यत
आह ।
आश्रय इति ।
तच्छब्दाध्याहाराद् गुणविशेषाश्रयो द्रव्यमित्यर्थः ।
प्रतिपदमिति ।
गुण इति च विशेष इति चाऽश्रय इति चेति पदानि ।
अथ वा गुणविशेषाणामाश्रय इति चेति पदानि ।
अथ वा गुणविशेषाणामाश्रय इति गुणा रूपादयः विशेषाः कर्माणि गुणेभ्य इत्यर्थात् ।
तेषामाश्रयश्चेतिद्वन्द्व एव तेषामित्यर्थाद्गम्यते ।
तत्र मूर्च्छित इतिमूर्छनं संबन्ध इह चासौ समवाय इति
न्य्स्_2,2.67: आकृतिर्जातिलिङ्गाख्या ॥
जातिश्च जातिलिङ्गानि च जातिलिङ्गानि तान्याख्यायन्ते यया सा आकृतिः ।
शिरः पाण्यादिव्यूह
आकृतिर्जातिमनुष्यत्वादिकमाचष्टे ।
शिरोनासिकाललादीनां व्यूहो मनुष्यत्वजातिलिङ्गं शिर आचष्टे ।
शिरसा पादेन गामनुमिन्वन्तीति भाष्यम् ।
यद्यपि गोत्वं प्रत्यक्षमेव नाकृतिव्यङ्न्यं तथा ऽपि विप्रतिपद्यमानं प्रत्युच्यते अनुमिन्वन्तीति न पुनः सर्वा जातिराकृत्या लिङ्ग्यत इति ।
मृत्सुवर्णरजतादिका हि रूपविशेषव्यङ्ग्या जातिर्नाकृतिव्यङ्न्या ब्राह्मणत्वादिजातिस्तु योनिव्यङ्ग्या आज्यतैलादीनां जातिस्तु गन्धेन वा रसेन वा व्यज्यते ।
अत एव न सार्षपादीनां तैलत्वमस्ति तद्व्यञ्जकयोर्गन्धरसयोरभावात् ।
भाक्तस्तु तैलशब्दप्रयोगः क्षीरजातिरपि रसव्यङ्ग्यैव अत एवामिक्षायाः क्षीरत्वं न तु वाजिनस्य तव्यञ्जकस्य रसभेदस्य वाजिने ऽभावाद् आमिक्षायां च भावादिति
मूल पाठ: Nyāyasūtra with Vacaspatimiśra's Nyāyavārttikatātparyaṭīkā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0