भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र (टीका सहित) · अध्याय 3

3.1

॥ इति वाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां प्रथमाध्यायस्य प्रथमाह्निकम् ॥
न्य्स्_1,2.1: प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥
नितान्तदक्षिणश्लक्ष्णधियो गृह्णन्त्वमत्सराः ।
वाचस्पतिगिरामर्थतत्त्वानि विबुधा इव ॥
उद्देशक्रमप्राप्तं वादलक्षणपरं सूत्रम् अवतारयितुं भाष्यम्---तिस्रः कथा भवन्तीति ।
तदयुक्तम्, बृहत्कथादीनां तिसृषु कथासु अनन्तर्थावात् ।
न च सामान्यलक्षणाभिधानमन्तरेण विशेषलक्षणावसरो ऽस्ति, वादादयश्च कथाविशेषा इत्यत आह वार्त्तिककारः---तिस्रः कथा भवन्तीति ।
नायं कथामात्रनियमो येन बृहत्कथादीनाम्
अकथात्वं स्यात्, अपि तु यन्नानाप्रवक्तृके विचारे वसति तद् विचारवस्तु ।
विचारविषया वाक्यसंदृब्धिः कथेति यावत् ।
तस्याः कथाया एष नियमः तिस्र एवेति ।
तथा च नानाप्रवक्तृकविचारविषया वाक्यसंदृब्धिः कथेति सामान्यलक्षणं पक्षप्रतिपक्षपरिग्रह
इति सूत्रावयवेन सूचितमित्येतदप्यर्थादुक्तं भवतीति द्रष्टव्यम् ।
यद् वस्तु विचार्यते इत्यर्थाभिधानमात्रम्, न तु विचारवस्त्वित्यस्य विवरणम् ।
वादादिष्वधिकारिणः पुरुषानाह---तत्र गुर्वादिभिरिति ।
वादलक्षणस्यानन्तर्ये हेतुमाह---तत्र यथोद्देशमिति ॥
सूत्रमिति ।
सामान्यलक्षणमप्यनेन सूच्यत इत्युक्तं भवति ।
एकाधिकरणस्थसवित्यादि भाष्यं प्रश्नपूर्वकं व्याचष्टे---काविति ।
वस्तुधर्माविति विभजते---वस्तुधर्मावितीति ।
धर्मशब्दो विशेषे ।
तदनवसायाद् वस्तुनः सामान्यतो ऽवसाय उक्तो भवति ।
तदिदमाह---वस्तुनः सामान्येनेति ।
अविरुद्धावप्येवं न विचारं प्रयोजयत इत्यर्थः ।
प्रमाणतर्कसाधनोलम्भपदस्य तात्पर्यमाह---अस्येति ।
अनेन तस्य विशेषणम्
इत्यादि भाष्यं व्याख्यातम् ।
यद्यपि वितण्डायामपि पक्षप्रतिपक्षपरिग्रहो ऽस्ति, तथापि प्रतिपक्षसाधनं नास्ति तस्याः स्थापनाहीनत्वात् ।
यद्यपि च जल्पे ऽपि पक्षप्रतिपक्षसाधनमस्ति, तथापि न प्रमाणमूलैरवयवैस्तर्केण च साधनोपालम्भाविति जल्पवितण्डभ्यां प्रमाणतर्कसाधनोपालम्भग्रहणेन व्यवच्छेदः ।
यथा चैतत् तथोपरिष्टादुपपादयिष्यते ॥
आक्षिपति---कथं पुनस्तर्केणेति ।
समाधत्ते---न ब्रूम इति ।
तर्कस्येतिकर्त्तव्यतारूपस्य प्रमाणानुग्राहकतया प्रमाणमूला अवयवास्तर्कमूला अपि भवन्ति ।
तथा च तर्कस्यापि साधनोपालम्भहेतुभावः सिद्धो भवतीत्यर्थः ।
विकल्प्याक्षिपति---साधनम्
उपालम्भश्चास्मिन्निति ।
परं प्रति हि सिद्धयुपालब्धी विवक्षिते ।
न च ते प्रमाणतर्काभ्याम्, तयोः स्वप्रतिपत्तिहेतुत्वात् ।
अवयवार्थस्य अवयवशब्दार्थस्येत्यर्थः ।
उभयथाभिमतत्वे ऽपि
करणसाधनपक्षं कक्षीकृत्य तावत् समाधत्ते---न, अन्यार्थत्वादिति ।
अन्यप्रयोजनत्वादित्यर्थः ।
यदा तु भावसाधनौ तदा पृच्छति---अथैताविति ।
विप्रतिपन्नस्य प्रश्नः ।
न प्रतिपक्षविषय उपालम्भो नापि तत्साधनविषयः, तयोर्वस्तुनोः स्वकारणादुत्पन्नयोः सदा तद्रूपत्वेन पुरुषधर्मोपालम्भानास्पदत्वादित्याक्षेपार्थः ।
समाधत्ते---एवमेतदिति ।
धर्मी धर्मविशिष्टः पक्षः प्रतिपक्षो वा कर्म, तस्य विषयः ।
तस्य धर्मिणो वास्तवं तादृशत्वमतादृशत्वं वा करणस्य तु कर्मैव विषयः ।
तत्र च कर्मकरणे समर्थे एव, नासमर्थे ।
अन्यविषये तु पुरुषस्ते नियु।जानो ऽसमर्थीकरोतीति ।
सो ऽयं पुरुषस्यापराधो न कर्मकरणयोः ।
यथा आकाशे निशातमसिं व्यापारयतः पुरुषस्यापराधो नाकाशस्य शब्दे समर्थस्य, असेर्वा निशातस्य दारुणि समर्थस्य ।
तस्मादौपचारिकः साधनस्योपालम्भो न मुख्यः ।
मुख्यस्तु पुरुषस्यैव ।
वचनद्वारेण तूद्भाव्यते पुरुषस्येति ।
वचन उपचर्यते न तु पक्षे पक्षद्वारेणानुद्भावनादिति सिद्धम् ।
यथायमर्थः सूत्रपदेभ्यो लभ्यते तथा प्रश्नपूर्वकं दर्शयति---कथं पुनरिति ॥
यदुक्तं प्रमाणतर्कसाधनोपालम्भग्रहणं वादस्य जल्पवितण्डाभ्यां विशेषणार्थमिति,
तत्र प्रकारं पृच्छति---अथेति ।
प्रष्टैवाह--नन्विदमपीति ।
उत्तरम्---न समानमिति ।
नियममाह--प्रमाणतर्कसाधनोपालम्भ
एव वादः ।
एवकारेण
छलादिसाधनोपालम्भत्वं वादस्य व्यवच्छिद्यते, तथा च जल्पवितण्डाभ्यां व्यवच्छेदः ।
एतदुक्तं भवति, तर्कानुगृहीतप्रमाणमूला अवयवाः परमार्थतो भवन्तु मा भूवन्,
वादिप्रतिवादिनोस्त्वभिप्रायो भवतु प्रमाणमूला अवयवा इति ।
एतावतैव प्रमाणतर्कसाधनोपालम्भता वादस्य वीतरागकथात्वेन तत्त्वनिर्णयावसानत्वात् ।
जल्पवितण्डयोस्त्वप्रमाणमूलत्वं विदुषापि प्रतिवादिना छलादिभिः प्रत्यवस्थेयम्, एकान्तपराजयाद्
वरं संशयो ऽस्त्वितीच्छता विजिगीषुणा ।
यथा चास्य शास्त्रे व्युत्पादनं नासदृशं यथा चैष सतामाचारः, तथा जल्पलक्षणे वक्ष्यामः ॥
जल्पे निग्रहत्थानविनियोगाद्
इत्यादि भाष्यम् ।
तदनुपपन्नम् ।
उपालम्भग्रहणादेव वादे ऽपि निग्रहस्थानस्य लब्धत्वादित्यत आह वार्त्तिककारः---छलजातीति ।
असत्युपालम्भग्रहण
इत्यभिप्रायः ।
चोदयति---समस्तेति ।
यद्युपालम्भग्रहणस्य निग्रहस्थानविधानं प्रयोजनम्, हन्त भो न जल्पाद् वादस्य विशेषः, कृतं चोत्तराभ्यां पदाभ्यामित्यर्थः ।
परिहरति---नोत्तरयोरिति ।
नियमः परिसंख्या ।
तदनेन कस्यचिदभ्यनुज्ञानार्थमिति भाष्यं
व्याख्यातम् ।
सिद्धान्ताविरुद्ध
इत्यत्र भाष्यव्याख्यानमुपन्यस्य दूषयति---सिद्धान्ताविरुद्ध
इत्यनेन किलेति ।
भाष्यमते दूषिते पृष्ट्वा स्वमतेन व्याचष्टे---अथ किमिदं पदमिति ।
पृच्छति---कस्मात् पुनरिति ।
उत्तरम्---गुर्वादिभिरिति ।
न खल्वप्रतिभाद्युद्भावना तत्वप्रतिपत्तावप---युज्यते,
अधिकं तु न यद्यपि तत्त्वप्रतिपत्तिं साक्षाद्
व्याहन्ति, तथापि तत्प्रयोजनानुसरणे परः प्रतिपत्ता समाकुलितबुद्धिर्न तत्त्वं प्रतिपत्तुमर्हतीत्यधिकस्यापि तत्त्वप्रतिपत्तिविधातहेतुत्वमिति ।
तत्त्वबुभुत्सुरिति जिगीषुतां निराकरोति, न हि गुर्वादिषु जिगीषासंभवः, त्रिविधं फलमिति ।
अनधिगततत्त्वावबोधः संशयनिवृत्तिरध्यवसिताभ्यनुज्ञानमिति फलानि त्रीणि ।
प्रतिद्वन्द्विनि तु न वादः, अपि तु जल्पवितण्डे ।
चोदयति---प्रमाणतर्केति ।
पारमार्थिकात् तर्कसहितात् प्रमाणादेकस्मिन् विषये साधनोपालम्भयोः संभवे विरुद्धधर्मसमालिङ्गितमेकदा वस्तु प्रसज्यत
इत्यर्थः ।
परिहरति---नैष दोष इति ।
वादे ऽभिप्रायो नियम्यते वादिप्रतिवादिनोः प्रामाणिकधिया साधनोपालम्भौ ताभ्यां प्रयोक्तव्यौ, नाप्रामाणिकधिया जल्पवितण्डयोरिव ।
न पुनर्वस्तु नियम्यत
इति ।
तथा च वादे अबुद्धिपूर्वं छलादिप्रयोगे तदुद्भावनमपि संभवति, तावदेवचोद्भाव्यं यावत्यनुद्भाविते तत्त्वप्रतिपत्तिव्याघातः,
यस्मिस्त्वनुद्भाविते ऽपि न तत्त्वप्रतिपत्तेर्व्याघातः,

तत्प्रयुक्तमपि नोद्भावनीयम् ।
एतच्च पञ्चमे ऽध्याये निपुणतरमुपपादयिष्यते ॥
साधनोक्तं प्रकारं दूषणे ऽप्यतिदिशति---दूषणमप्येवम् ।
पूर्वस्मिन् प्रयोजने स्थिते भाष्यकारः प्रयोजनान्तरमन्वाचिनोति---अवयवेष्विति ।
न हि पञ्चावयवोपपन्नत्वं प्रमाणं च तदनुग्राहकं च तर्कमन्तरेण भवतीति पञ्चावयवोपपन्नत्वादेव प्रमाणतर्कप्रतिलम्भे साधनोपालम्भयोर्व्यतिषङ्गज्ञापनायावश्यं साधनोपालम्भग्रहणं तावत् कर्तव्यम्,
अन्यथैकः स्वस्थानस्थित एव शब्दस्यानित्यत्वं प्रति पञ्चावयवोपपन्नं वाक्यं प्रयुङ्क्ते,
अपरो ऽपि तादृशः शब्दनित्यता प्रति तादृशमेव वाक्यं प्रयुङ्क्ते इति सो ऽपि वादः प्रसज्येत ।
साधनोपालम्भविशेषणाय च प्रमाणतर्कग्रहणं कृतमिति भावः ।
प्रयोजनान्तरम्
अन्वाचिनोति---अन्तरेणापि चेति वादः पञ्चावयवोपपन्न
इत्येकः कल्पः ।
प्रमाणतर्कसाधनोपालम्भ
इति च द्वितीय इत्यर्थः ।
प्रयोजनान्तरमन्वाचिनोति---छलजातीति ।
विनिग्रहो जल्पो मा विज्ञायि ।
वादगतनिग्रहस्थानरहितो मा विज्ञायित्यर्थः ।
तद्विज्ञाने कीदृशो ऽर्थो भवतीत्यत आह---छलजातिनिगहस्थानेति ।
वादगतो निग्रहो न जल्पे, जल्पगतश्च निग्रहो न वाद इति स मा विज्ञायति ।
इष्यते हि वादगतो ऽपि निग्रहो जल्पे ।
सो ऽयमिष्टो ऽर्थो ग्रन्थाधिक्यात् प्रमाणतर्कग्रहणात् लभ्यत
इत्यर्थः ॥
तदेवं स्वाभिमतं वादलक्षणं व्याख्याय वासुबन्धवं लक्षण दूषयितुमुपन्यस्यति---अपरे त्विति स्वपक्षस्य सिद्धिः परपक्षस्य चासिद्धिः,
तदर्थं वचनं वाद इत्यर्थः ।
दूषयति---अत्र चेति ।
प्रथमं हेतुं विभजते---एताविति ।
पूर्वः पक्षो ऽयुक्तः, पक्ष उत्तरस्तु युक्त इत्यर्थः ।
एकस्य वा शब्दस्य धर्मिनो ऽनेकनित्यानित्यविशेषणाभिसंबन्धिनः पुरुषाभिसन्धिभेदात् अनेकशब्दाभिधानम्,
स्वपरशब्दाभिधानमित्यर्थः ।
एतदेव चिन्त्यते किं तत्स्वीकरणमिति ।
न
तावद् भूमिधनादिष्विव स्वोचितासु अर्थक्रियासु यथेष्टविनियोगयोग्यत्वं स्वत्वमर्जनापादितमनित्यत्वादिना प्रतिज्ञाते शब्दादौ संभवतीत्यर्थः ।
चोदयति---ममेति प्रत्ययोत्पत्तिकारणत्त्वं स्वत्वम्, अकारणत्वम्
अस्वत्वमिति ।
दूषयति---निर्दिष्ट इति ।
यथेष्टविनियोगयोग्यत्वमेव ममेति प्रत्ययकारणत्वम्, नान्यत् ।
न चैतन्नित्यत्वादिना प्रतिज्ञाते शब्दे ऽस्ति शास्त्रकारस्येत्यर्थः ।
अपि चोपकारकत्वेन व्याप्तं सत्वं गोघटादिषु तथा दर्शनात्, पक्षात् निवर्तमानमुपकारकत्वं स्वत्वमपि स्वव्पाप्यं निवर्तयति वृक्षत्वमिव शिंशपात्वमित्याह---यच्च यस्येति ।
द्वितीयं कल्पम् आशङ्कते--साधनीयेति ।
निराकरोति---अहो शब्दार्थेति ।
विशेष्यपदात् अनतिरिक्तार्थं विशेषणपदमित्यर्थः ।
अपि चेदं विशेषणपदं विशेष्यं सामान्यतः प्रसृतं विशेषे ऽवस्थापयति न वा? अवस्थापयतीति चेत्? न साधनीयमात्रार्थता स्वपक्षशब्दस्य, न चेद् विशेषणं व्यर्थमित्याह---व्यवच्छेदार्थं चेदमिति ।
ननु च विशेष्यशब्दो विशेषणयोगात्
विशेषे वर्तमानो ऽपि सामान्यशब्द एव,
ततश्च शक्नोति समानमर्थं वक्तुमिति चोदयति---सामान्यशब्दा अपीति ।
परिहरति---न ते सामान्यशब्दा इति ।
अपि च साधनीयः पक्ष इति ।
वरुद्धोपदर्शनेन स्फुटा प्रतीतिर्भवतीति अयुक्तप्रतिपादनार्थं युक्तस्याप्युपन्यास इति ।
यदि न पक्षेण दूषणं संबध्यते कस्तर्हि तस्य विषय इति शङ्कते---अथ दूषणस्येति ।
उत्तरम्---कस्यचिदिति ।
उत्तरदोषः
जात्युद्भावनम् ।
आक्षिप्यन्त इत्याक्षेपाः ।
के ते भावाः? अप्रतिभाविक्षेपादयः ।
नैते स्वपरपक्षाभ्यां संबध्यन्ते नापि स्थापनयेति ।
चोदयति---सत्यमिति ।
परिहरति---उपयरितेति ।
नर्ते प्रयोजनादिष्टं मुख्यशब्दार्थलङ्घनम्
इति हि गाथा भवतामित्यर्थः ।
अपि चोपचारश्चेत् ।
लक्षणे ततो वरमेवं क्रियतां लक्षणं लाघवायेत्याह---यदि चेति ।
शङ्कते---अथेति ।
निराकरोति---स्वरूपत
इति ।
मुख्यत इत्यर्थः ।
चोदयति---स्थापनयापीति ।
परिहरति---न दोषेति ।
ननु न दूषणमात्रं संबध्यते, असिद्ध्यर्थमिति च दूषणमात्राभिधानम्,
तत् कुतो विशेषप्रतिलम्भ इत्यत आह---सामान्याभिधाने ऽपीति ।
तृतीयं कल्पं दूषयितुमुपन्यस्यति---स्वपरशब्दाविति ।
एतदपि ।
सूत्रान्तरविरोधेन दूषयति---न युक्त मेतदपीति ।
ते साधनदूषणैः स्वपरशब्दाः संबध्यन्ते
इति सूत्रे हि नियमेव स्वपक्षे साधनं परपक्षे दूषणमुक्तम्, तथा चोत्तरपक्षे दूषणीय
एवेति उत्तरपक्षवादिनापि दूषणीयः ।
एवं पूर्वपक्षो ऽति साधनीय एवेति, उत्तरपक्षवादिनो ऽपि साधनीयो न दूषणीयः स्यादित्यर्थः ।
अपि चायुक्तस्य पूर्वपक्षस्य साधणं युक्तस्य चोत्तरपक्षस्य दूषणमिति विपरीतप्रसङ्ग
इत्याह---स्वपक्षश्चोत्तरपक्षवादिनः पूर्वपक्षात्
अयुक्तपक्षात् अन्यः युक्त इत्यर्थः ।
न पदार्थः
नावयवार्थः ।
एतेन सूत्रान्तरनियमाभिधानव्याघातेनेत्यर्थः ।
व्याख्याता निराकार्यत्वेन ।
षष्ठं कल्पं दूषयितुमुपन्यस्यति---एक एवायमिति ।
दूषयति---युक्तमेतत् एकस्यानेकं विशेषणम् ॥
द्वितीयं हेतुमुपन्यस्तं व्याखातुं स्मारयति---समासेति ।
न केवलं विशेष्यात् पृथक् स्वार्थो विशेषणं नावधार्यते, अपि त्वन्यस्मादपि न भिद्यते इत्याशयवानाह---भेदाच्चेति ।
चोदयति---असत्यपि भेद इति ।
न केवलं पत्युर्विशेष्यात् सेना न भिद्यते ऽपि तु ततो ऽन्येभ्यो ऽपि हास्तिकाश्वीयरथपदातिभ्य इति ।
एवं पानकमपि
न केवलं तदङ्गेभ्यो जीरकादिभ्यः, अपि त्वन्येभ्यो ऽपि फलसलिलादिभ्य इति ।
परिहरति---तच्च नेति ।
उक्तं निस्मृत्य शङ्कती---अथ मन्यसे स्वार्थ इति ।
उक्तस्मारणेन निराकरोति---तन्नेति ।
एतेनैव च कर्मधारयबहुव्रीही
अपीत्याह---एतेनेति ।
अपि च स्वः पक्षो यस्य साधयितुः स तथोक्तः ।
तथा च साधयितृविषयं स्मादित्याह---साधयितृविषयं चेति ॥
ननु मा भूद्
यथेष्टविनियोगयोग्यार्थता स्वशब्दस्य,
साधनीयार्थता तु भविष्यति, यथा च समासोपपत्तिरिति चोदयति---ननु चेति ।
षष्ठीसमासपक्षोक्तं दोषं स्मारयति---न संभवतीति ।
अपि च पक्षात् स्वपक्षभेदे सूत्रान्तरव्याघातो ऽभेदे वा एतस्य व्याघात
इत्याह---विरोधाच्चेति ॥
अपि च वाक्यसमासयोः समासो ज्यायान् लाघवादित्याह---आस्तां तावदिति ।
न ह्यं समर्थः समास इति ।
सिद्ध्यसिद्ध्यर्थमित्ययं समासः स्वपरपक्षयोः प्रत्येकं न संबन्धार्थ इत्यर्थात् कस्यचित् सिद्धिः कस्यचिदसिद्धिरित्यर्थः ।
परिहरति---यद्यसामर्थ्यात् न समासः सिद्ध्यसिद्ध्यर्थमिति ।
समासे ऽपि तर्हिति ।
स्वपक्षपरपक्षसिद्ध्यसिद्ध्ययर्थमिति समासे ऽपीत्यर्थः ॥
एकवचनबहुवचनप्रसङ्गो ऽपि नास्त्यसामर्थ्यादिति चोद्यसमाधानाभ्यां दर्शयति--- एकवचनेति ।

अनित्यत्वे ऽपि समासविधेः समास एव विग्रहात् ज्यायानिति चोद्यसमाधानाभ्यां दर्शयति---अनित्य इति ।
भवतु गोरवमेवमपि को दोष इत्यत
आह---अर्थङ्गत्यर्थं चेति ।
लघुनोपायेनाशुसिद्धौ गुर्वभिधानमनर्थकम् ।
यथाहुः,
अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ॥
इति अतर्थकप्रयोगश्चानपेक्षितः शिष्यैरिति तेषामशासनात् न शास्त्रं स्यात्, तदिदम् उक्तम्---शास्त्रत्वेनेति ॥
सिद्ध्यसिद्ध्यर्थमित्येतदपि दूषयति--सिद्ध्यसिद्ध्यर्थमित्येतदपि न युक्तमिति ।
तन्न तावदिति---तदिति तयोर्मध्य इत्यर्थः ।
अधिकारणप्रत्यायनमिति प्राश्निकप्रत्यायनमित्यर्थः ।
कुतो व्याहतमित्यत आह---ये चैते इति ।
चो यस्मादर्थे,
अधिकरणे वर्तते पक्षस्येति व्याहतमित्यर्थः ।
चोदयति---नायमिति ।
सिद्धिर्ज्ञानं तस्य पक्षो विषयः, आश्रयास्तु प्राश्निका इत्यर्थः ।
विकल्प्य दूषयति---न युक्तमेतदिति ।
न तावत् ज्ञानं पक्षविषयं प्राश्निकाधिकरणं चेति बौद्धराद्धान्ते संभवति,
ज्ञानस्यानाधारत्वात्
विषयिविषयभावस्य चातात्त्विकत्वात् ।
तस्मादन्या सिद्धिः ।
तत्रेदमुपतिष्ठते---किं तर्हीति ।
सिद्धियोगात् सिद्धः पक्षो भवति ।
प्रमाणयोगस्य सिद्धिः ।
सैवार्थस्य तथाता ।
तस्यास्तु प्राश्निकानां प्रतीतिर्भवति ।
तस्मात् न प्राश्निकप्रतीतिः पक्षस्यासिद्धिरिति विरोधः ।
यस्मात् सो ऽर्थस्तथा भवति तस्मात् तथाभावादधिकरणप्रत्यायनं भवतीति द्वितीयं कल्पमाशङ्कते---अथासिद्ध इति ।
यावत् पक्षविषयं साधनं न प्रयुज्यते तावद्यद्यधिकरणप्रत्यायनं ततः साधनप्रयोगात् प्रागधिकरणप्रत्यायनमस्तीति वादवैयर्थं साधनदूषणप्रयोगो ऽनर्थकः ।
दूषणान्तरमाह---पक्षस्येति ।
न प्रयोजनमन्तरेणेदानीन्तनानामस्मदादीनां मुख्यार्थशब्दस्यातिक्रमो ऽवाचकपदप्रयोगेण लभ्यते इत्यर्थः ।
यथाहुः,
अस्मादायत्ते शब्दप्रयोग किमित्यवायकं प्रयोक्ष्यामहे इति ॥
स्यादेतत् ।
मञ्चस्थाः क्रोशन्तीति वक्तव्ये विनापि प्रयोजनं मञ्चाः क्रोशन्तीत्युपचारो दृष्ट इत्यत
आह---अपि तु प्रमाणासंभवेनेति ।
प्रमाणासंभवेनापि त्विति योजना ।
नन्विहापि विनापि प्रयोजनं प्रमाणासंभवमात्रेणोपचारो मञ्चाः क्रोशन्तीतिवद्भविष्यतीत्यत आद---लोकप्रयुक्तेति लोकप्रयुक्तशब्दार्थवत् ।
उपचारो ऽपि लौकिको न प्रयोजनाभावेन शक्यो ऽपवदितुं न लोकः पर्यनुयोज्यो यतः ।
इदानीन्तनस्तु अस्मदादिप्रयोगः प्रयोजनाभावे न शक्यः पर्यनुयोक्तुमित्याशयेनाह---न चेदं लौकिकमिति ॥
अपरे त्विति ।
न दूषणविषयत्वमसिद्धिर्येन न पक्षेण संबध्येत,
अपि त्वज्ञानम् ।
तच्च पक्षविषयमेवेति न मुख्यार्थलङ्घनमित्यर्थः ।
अत्रापि पूर्वोक्तं प्रसङ्गमाह--तद् यदीति ।
तस्मात् पक्षस्येतीच्छता सिद्ध्यसिद्धिज्ञानाज्ञाने पक्षधर्मावेवाभ्युपगन्तव्ये ।
यतः तयोः पक्षधर्मत्वात् एतद्भवति सिद्धः पक्षो ऽसिद्धश्चेति ।
अस्तु तर्ह्येवमित्यत
आह---एवं सतीति ।
नैव द्रष्ट्राधारता ज्ञानस्य विषयता च बौद्धराद्धान्ते संभवतीति भावः ।
शङ्कते अथ मा भूदिति ।
अस्ति खल्वालयज्ञानं यदुपाश्रित्य षडपि प्रवृत्तिज्ञानानि जायन्ते ।
तस्मादालयप्रत्ययो द्रष्टा ।
तत्स्थे एव सिद्ध्यसिद्धी ।
न पक्षस्य तद्विषयत्वात् तस्यापीति चेत्, कः पुनरयं विषयभावः?
तत्कारणत्वमिति चेत्? चक्षुरादीनामपि ज्ञानकारणानां विषयत्वप्रसङ्गः ।
असतश्चाकारणस्य
अविषयत्वप्रसङ्गः ।
ज्ञानप्रकाश्यत्वं विषयत्वमिति चेत्---न, ज्ञानेनार्थे प्रकाशाजननात् तस्मात् ज्ञानस्य तदसमवायिनः
तदविषयस्य च द्रष्टृस्थतैवेति सिद्धम् ।
निराकरोति---तथापीति ।
पुनः शङ्कते---अथ तथातथाने इति प्रमाणयोग इत्यर्थः ।
निराकरोति---तथापीति ।
तत्त्वं जिज्ञासुः पृच्छति---के पुनरेते इति ।
सुहृद्भावेनोत्तरमाह---वस्तुधर्माविति ।
यद्यपि प्रमाणयोगायोगौ प्रमेयस्य च प्रमातुश्च,
साधनासंबन्धे कर्तृत्वानुपपत्तेः, तथापि प्रमेयस्य प्राधान्यात् तत्रैवाभिधानप्रत्ययाविति प्रमेयधर्मावुच्येते व्यक्त्यव्यक्ती, न तु प्रमातृधर्माविति ।
सिद्ध्यसिद्ध्यर्थमिति अर्थशब्दानुपपत्तिः ।
कस्मात्? विकल्पानुपपत्तेः ।
विकल्पमाह---अर्थशब्दः खल्विति ।
इह सूत्रे धननिमित्तादिवचनतार्थशब्दस्य न संभवतीति त्रयमवशिष्यत इति त्रेधा प्रवर्तत इत्युक्तम् ।
साधनं साधनाभासो दूषणं दूषणाभास इति चतुर्विधं वाक्यम् ।
प्रथमकल्पमपाकरोति---तन्न तावदिति ।
तदिति तेषु मध्य इत्यर्थः ॥
ग्रन्थान्तरे युक्तायुक्तत्वेन विशेषणात् चतुर्विधवाक्यसंग्रहार्थो ह्युद्देशे अर्थशब्दो व्याख्यातः ।
न च युक्तायुक्तत्वविशेषणे चतुर्विधवाक्यसंग्रहो भवति साधनाभाससंबन्धिनः पक्षस्य युक्तत्वाभावात् दूषणाभासंबन्धिनश्च प्रतिपक्षस्यायुक्तत्वाभावादित्यर्थः ।
अथ न साधनादियोगो ऽपि तु साध्यधर्म एव साधनानपेक्षो युक्तायुक्तत्वमिति शङ्कते---अथ पुनरिति ।
निराकरोति---तथापीति ।
कुतो व्याघात
इत्यत आह---न हीति ।
यदि प्रत्यायनं सिद्धिः प्रतीतिः, तथापि सा प्रत्याय्या न संभवति ।
अथ करणम्? तथापि कर्म करणं न संभवतीति व्याघात इत्यर्थः ।
द्वितीयं कल्पमाशङ्क्य निराकरोति---अथ प्रयोजन इति ।
प्रयोजनं कार्यम् ।
तन्न कारणाभासाद्
भवितुमर्हति ।
न हि वह्निरिति गृहीतः खद्योतो दहति पचति वेत्यर्थः ।
तृतीयं कल्पमाशङ्क्य निराकरोति---अथाभिधेय
इति ।
ग्रन्थकारः सूत्रकारः ।
एवं त्विति ।
एवं सति सिद्धिशब्दो ऽसिद्धिशब्दश्च वादः स्यात् ।
ननु धननिमित्तादयः अप्यर्थशब्दवाच्याः सन्ति,
ते कस्मादिह न गृह्यन्ते इत्यत
आह---तत्र सूत्रे ।
न चान्यो ऽर्थशब्दस्य विषयः संभवति, न हि सिद्धिर्धनं वा स्वपरपक्षयोः साधनं वा निवृत्तिर्वा संभवतीत्यर्थः ।
अपि च वचनविशेषणपक्षे स्वशात्रव्याघात
इत्याह---सिद्ध्यसिद्ध्यर्थं वचनं वाद
इति ब्रुवाणेनेति ।
नैयायिकहेतुदूषणं पूर्वमिदं सूत्रम्
उत्तरम् ।
उपसंहरति---तदेवमिति ।
तन्त्रं शास्त्रम् ।
लोकं च बाधन्त इति ।
अवाचकपदप्रयोगात् साधनदूषणाभासवादिनश्च वादित्वेन लोकसिद्धस्यावादित्वापादनात् सिद्ध्यसिद्धिशब्दयोश्च वादत्वापादनार्थत्वादित्यर्थः ॥
सूत्रं दूषयित्वा वृत्तिं दूषयति---यथा चेति ।
स्वस्य पक्षस्येति ।
स्वस्यात्मीयस्य पक्षस्य ।
न हि
पक्षव्यतिरेकेणं पक्षाधारं साध्यं ज्ञानमन्यद् वा सिद्धिशब्दाभिधेयं संभवति, ज्ञानस्य पुरुषाधारतया अनाधारतया वा पक्षाधारत्वानुपपत्तेः, पक्षस्य तु भवेत् केनचित् संबन्धेन यादृशतादृशेनेत्यर्थः ।
ते साधनदूषणैः इत्यत्र पृथगुक्ते साधनदूषणे ।
युक्तायुक्तत्वाभ्यां ते युक्तायुक्तत्वे ।
साधनदूषणैरिति ।
न हि कर्म करणं भवतीत्यर्थः ।

अपि च युक्तायुक्तार्थाभ्यामभेदे साधनदूषणपदमनर्थकं ते इत्यनेनैव युक्तायुक्तत्वावमर्षिणा गतार्थत्वादित्याह---युक्तायुक्तत्वशब्दाभ्यां चेति ।
अथ न पर्यायता, अपि तु सामान्यविशेषभावः
युक्तायुक्तत्वे सामान्यम्, साधनदूषणे च विशेष इति शङ्कते---अथ मन्यसे इति ।
निराकरोति---न प्रथमेति ।
उभयव्यभिचारे विशेषणाविशेष्यभावे कामचारादुत्पलैरित्युक्तम् ।
द्वितीयं कल्पमाशङ्क्य दूषयति---योग इति चेदिति ।
न खलु योगो नाम बौद्धानां साध्यसाधनवृत्तिर्दूष्यदूषणवृत्तिर्वा कश्चिदस्तीत्यर्थः ।
अपि च सांवृतो ऽपि योगः साध्यसाधनज्ञानाधीननिरूपणतया नानिरूपिते साध्ये निरूपितो भवति, निरूपणं च निर्णय इति योगनिरूपणात् प्राक् साध्यनिर्णयात् कृतं योगनिरूपणेन साध्यनिर्णयार्थेनेति ।
युक्तायुक्तत्वेन करणेनाधिकरणप्रत्यायनमिति व्याघात
इत्याह---साधनेनेति ।
भवति ज्ञायते ।
तृतीयं कल्पमाशङ्क्य निराकरोति---अथ पदार्थस्येति ।
युक्तायुक्तत्वेनाधिकरणप्रत्यायनमिति युक्तायुक्तत्वयोः करणत्वं दर्शितम् तत् तथात्वातथात्वपक्षे न संभवति,
कर्मत्वात् ।
तदिदमुक्तम्---ते व्यवच्छेद्ये परिच्छेद्ये,
न तु व्यवच्छेदस्य परिच्छेदस्य साधने इति ॥
अधिकरणप्रत्यायनमिति दूषयति---अधिकरणेति ।
शास्त्रसंबन्धः प्रयोजनेनेति ।
चोदयति---प्राश्निकप्रत्यायनादिति ।
कश्चित्
चोदकं पृच्छति---किं कारणम्?
तत्प्रत्यायनादिति ।
चोदकस्योत्तरम्---प्रतिवादि किलेति ।
सिद्धान्त्याह---सन्तमप्यर्थं न प्रतिपद्यत
इति ।
न खल्वाध्यात्मिकशक्तिसंपन्नः समाहितः समग्रे साधनप्रयोगे सति सन्तमर्थं न प्रतिपद्यत इति संभवतीत्यर्थः ।
तथाविधेनापि चेत् प्रतिपत्त्रा सो ऽर्थो ऽन्यथा प्रतिपन्नः, कथमसौ तथा सिन्नत्यभिधीयते इत्याह---कथं चेति ।
शङ्कते---अथ जिगीषुतया प्रतिपद्यमानो ऽपीति ।
कामकारो ऽनुज्ञा ।
निराकरोति---तथापीति ।
न प्रतिपद्यते प्रतिपद्यमान
इति व्याहतम् ।
न चायमुनज्ञानिषेधो न प्रतिपद्यते इति वादे वीतरागकथात्वेन जिगीषाया अभावादिति भावः ।
यच्च प्राश्निकप्रत्यायनादिति ।
अन्यदीयेन करणेनान्यः प्रतिपद्यत इति सुभाषितम् ।
अन्यविषयस्येति अन्याश्रितस्येत्यर्थः ।
न चायं नियम इति ।
न वादे प्राश्निकानामुपादानम्,
दैवागतानां तु न वर्जनमित्यर्थः ।
वादस्य जल्पवितण्डाभ्यामभेदम् अभिप्रेत्य चोदयति---यदा तु नायमिति ।
आशयस्थितमर्थमनभ्युपगच्छन् परिहरति---सत्यमिति ।
स्वाभिप्रायं दर्शयति--न त्रैविध्येति ।
दूषयति--न भवद्भिरेव प्रतिषेधादिति ।
त्रैविध्यानभ्युपगमादिति दूषयति--यदपीति ॥
यच्चोक्तं वृत्तौ पक्षसिद्धिविषयम्, एतदपि दूषयितुमुपन्यस्यति--यच्चोक्तमिति ।
न कामतः विना प्रयोजनमिति ।
विनापि प्रयोजनं प्रमाणासंभवेनापीति योजना ।
सूत्रोक्तं दूषणं वृत्तौ आह---तदर्थं वचनं सिद्ध्यसिद्ध्यर्थमित्यर्थः ।
अधिकरणं दूषयति---अधिकरणमिति ।
न हि वादे प्राश्निकाधारमिति ।
प्राश्निका एव तावद् वादे न सन्ति, अभ्युपेत्य
उक्तमिति ।
शङ्कते--प्रत्यायनाधारत्वादिति ।
सिद्धिः प्रत्यायनं तदाधाराः प्राश्निका इत्यर्थः ।
निराकरोति--नेति ।
शङ्कते--तस्मिन्निति ।
दैवमिलिते प्राश्निके सतीत्यर्थः ।
निराकरोति---नेति ।
न हि दैवमिलितं कारणम्, मा भूद् गर्दभो ऽपि धूमस्य कारणमिति भावः ।
चोदयति, यदि प्राश्निका न सन्ति तद्वाद इति ।
तयोर्वादिप्रतिवादिनोर्वादस्य परीक्षा का कस्य च तयोर्वादस्य क्व च, असौ परीक्षा प्राश्निकाभावे हि वादतत्परीक्षातदधिकरणानामज्ञानमित्यर्थः ।
परिहरति---साधनेति ।
वीतरागौ हि वादिप्रतिवादिनावेव वादस्वरूपज्ञानं च तत्परीक्षां च कर्तुं शक्नुतः,
तत् किमत्र प्राश्निकैः? साधनप्रयोगः पक्षविषयः, दूषणप्रयोगः स्थापनाविषयः इति वादस्वरूपम् ।
साधनदूषणतदाभासानां परितो ज्ञानं परीक्षा ।
तदर्थं परीक्षार्थं तस्मिन् वादे ऽधिकारो वीतरागयोरेव वादिप्रतिवादिनोः ।
तदिदं क्वेति विप्रश्नस्योत्तरम् ।
तस्मात् सप्तम्यर्थो ऽधिकरणार्थः पराभिमतः प्राश्निक इति यावत् ।
स नास्ति वादिप्रतिवादिनोरेव वीतरागयोः कथासमाप्तेरित्यर्थः ॥
यदपि वृत्तौ चोदितं यदि सिद्ध्यसिद्ध्यर्थं वचनं वादः, ततः प्राश्निकप्रतिवादिनोः प्रियाप्रियवचसि रथ्यावादे प्रसङ्ग इति तदप्यतिनिर्बीजमित्याह---यदपीति ।
न हि प्रियाप्रियवचसः साक्षात् पारम्पर्येण वा सिद्ध्यसिद्ध्यर्थता, नापि साधनदूषणयुक्तायुक्तत्वविशेषणसंबन्धः
तस्मादेवंवादी नोत्तरार्हः ।
न ह्युन्मत्ताय
कश्चिदनुन्मत्त
उत्तरमाह, ब्रुवाणो वा सो ऽप्युन्मत्तः स्यात् ।
तदिदमुक्तम्---दत्तः स्वहस्त इति ।
पूर्वं सिद्ध्यसिद्ध्यर्थमिति, अपरं युक्तायुक्तत्वमिति,
उभयोरप्यनेन चोद्येनासंबन्धात् ।
यदि त्ववश्यम् उत्तरं वाच्यम्, ततो वरमेवं वक्तव्यमित्याह---यदि त्विति ।
सेयं सूक्ष्मेक्षिका परैरिह कृतेति तदनुबन्धेन वार्त्तिककृतापि कृतेति

3.2

न्य्स्_1,2.2: यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः ॥
उद्देशक्रमानुरोधेन वादलक्षणानन्तरं जल्पं लक्षयति---यथो---ल्पः

मूल पाठ: Nyāyasūtra with Vacaspatimiśra's Nyāyavārttikatātparyaṭīkā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc