भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र (टीका सहित) · अध्याय 4

4.2

अत्रापि समानजातीयाभ्यां वादवितण्डाभ्यामसमानजातीयेभ्यः प्रमाणादिभ्यो व्यवच्छेदो जल्पस्य सूत्रार्थः ।
यथोक्तोपपन्नपदार्थं व्याचष्टे---समस्तमिति ।
चोदयति---यथोक्तोपपन्न इति न युक्तमिति ।
निग्रहस्थाननियमस्य प्रमाणतर्कसाधनोपालम्भाभिप्रायनियमस्य च जल्पे ऽभावात्, भावे वा वादजल्पयोरभेदप्रसङ्गात्,
वादलक्षणस्य च जल्पव्यापकत्वेन व्यभिचारप्रसङ्गाद्
यथोक्तोपपन्न इत्येतदनुपपन्नमित्यर्थः ।
परिहरति---नैष दोष इति ।
उक्तमात्रमिह संभवात् योग्यतासंभवाद्
गृह्यते, न त्वनुक्तो ऽर्थलभ्यो नियमः ।
न ह्यसौ सूत्रपदश्रवणमात्रात् प्रतीयते, अपि तु तदर्थे प्रतीते तस्यान्यतः सिद्धौ सत्यां गम्यत इति प्रमाणतर्कसाधनोपालम्भ इत्येतदतिदिश्यत
इति उक्तमात्रोपलक्षणपरम् ।
तेन प्रमाणतर्कसाधनोपालम्भ पञ्चावयवोपपन्नः सिद्धान्ताविरुद्धः पक्षप्रतिपक्षपरिग्रह इत्येतस्य वादपदवर्जं समस्तस्य लक्षणस्यातिदेशः ।
नियमस्त्वार्थो न संबध्यत इति सिद्धम् ।
लक्षणमात्रस्येति उक्तमात्रस्य, नार्थस्य नापि लक्ष्यपदस्येत्यर्थः ।
अत्रैव दृष्टान्तमाह---यथान्यत्र वैशेशिकतन्त्रे ।
न नियमार्थे पदे इत्युपलक्षणम्, न प्रमाणतर्कसाधनोपालम्भपदलभ्यो ऽभिप्रायनियम
इत्यपि द्रष्टव्यम् ॥
पक्षान्तरमाह---अथ वेति ।
यथा गोभिर्युक्तो रथो गोरथ इति युक्तपदलोप
इति ।
न हि नियमार्थयोरिति एतदप्युपलक्षण पूर्ववदेव ।
इह वादलक्षणं पठता भाष्यकारेण नियमो ऽप्यतिदिष्ट इति मन्वानश्चोदयति---भाष्यम्
इदानीमिति ।
परिहरति---न सेत्रेति ।
जल्पलक्षणानुकूलो यः पाठक्रमः, ततो ऽर्थस्वरूपमात्रं प्रतीयते न त्वार्थो ऽर्थ इत्यर्थः ।
यदुपपन्नम् उक्तमात्रमित्यर्थः ।
अत्र भाष्यकारेण छलादीनां निषेधार्थतया साधनाङ्गभावमाक्षिप्य परपक्षविघातेन स्वपक्षरक्षणादङ्गभाव
इति दर्शितम् ।
तदेतद् वार्त्तिककार आक्षिपति---छलजातिनिग्रहस्थानैरिति ।
तत् किं निग्रहस्थानान्यप्ययुक्तानि, च चैतच्छक्यमित्यत आह---छलं तावदिति ।
छलजात्योराक्षेप्तव्ययोः संपातायातानि निग्रहस्थानानीत्यभिप्रायः ।
भाष्योक्तं समाधिमाशङ्कते---अङ्गभाव
इति चेत् इति ।
निराकरोति---एतदपीति ।
न हि सहस्रेणाप्यन्धैः पाटच्चरेभ्यो गृहं रक्ष्यत इत्यर्थः ॥
एवमाक्षिप्ते पार्श्वस्थः पृच्छति---किमर्थ तर्हीति ।
सिद्धान्तिन उत्तरं साधनेति ।
वादे तावद् यद्यपि न साधनविधातसमर्थानि,
तथापि तेषां तत्त्वम् अविद्वान् एभिरहं साधनं विहनिष्यामीत्यनया बुद्ध्या उपहृतः व्यामोहितः प्रवर्तते ।
तस्माद् वादे भ्रमेणोपादानमेतेषामित्यर्थः ।
यत्र त्वेषां तत्त्वं विद्वान् प्रवर्तते, न स वादः,
किं तु जल्पो
वितण्डा वेत्याह---यत्र चैतानीति ।
ननु जल्पवितण्डयोः प्रयोगात् साधनमङ्गं वा स्यादत
आह---न पुनरिति ।
ननु यदि न साधनमङ्गं वा, कस्मात् तर्हि जल्पवितण्डयोरेषां प्रयोग
इत्यत आह---साधुसाधनोपादाने चेति ।
साधुसाधनोपादाने च वादिना कृते परेण प्रतिवादिना जिगीषुणाकुलितबुद्धिर्द्राक् पारमार्थिकमुत्तरमप्रतिपद्यमानश्च्छलादीनि प्रयुङ्क्ते ।
किमर्थमित्यत
आह---कदाचिदिति ।
यथाकथञ्चित् प्रयोगेण ।
तदनेन प्रकारेण तत्त्वसंरक्षणार्थत्वात्
नासदाचारः ।
न च शास्त्रक्राराणां छलादिव्युत्पादनमसदृशम्,
न च खटचपेटाद्यभिधानप्रसङ्गः, वाग्युद्धे तेषामप्रसङ्गादिति ।
न बाधेति ।
नैकेनापरं तदैवापोद्यत इत्यर्थः ।
रोषं सुगमम्

4.3

न्य्स्_1,2.3: स प्रतिपक्षस्थापनाहीनः वितण्डा ॥
उद्देशक्रमानुरोधेन जल्पानन्तरं वितण्डालक्षणमाह---स---ण्डा

4.3

पूर्ववादिपक्षापेक्षया प्रतिवादिन आत्मीय एव पक्षः प्रतिपक्षः ।
तस्य स्थापना साधनम् ।
तया हीनः ।
तदनेन जल्पाद्
व्यवच्छिनत्ति ।
तदेतदाह भाष्यकारः---स जल्प
इति ।
तयोरेकतरं प्रतिवादी आत्मीयं पक्षं न स्थायपतीति ।
परपक्षप्रतिषेधेनेति ।
तत्स्थापनाप्रतिषेधेनेत्यर्थः ।
स्यादेतत् ।
यथा प्रतिवादिनः पक्षो वादिपक्षापेक्षया
प्रतिपक्षः, एवं वादिपक्षो ऽपि प्रतिवादिपक्षापेक्षया प्रतिपक्ष
इत्युभयपक्षस्थापनाहीना वितण्डेति स्यात्,
इत आह---वार्त्तिककारः---प्रतिपक्षस्थापनाहीन
इति, द्वितीयपक्षस्थापनाहीन इति ।
प्रथमपक्षवादिनो हि स्थापनाया अभावे किं वैतण्डिक
आहन्ति? न च पक्षः शक्य आहन्तुम् ।
तस्मात् प्रथमपक्षवादिनो ऽस्ति स्थापनेति द्वितीय एव पक्षः स्थापनाहीन इति समार्थ्याद् युक्तमिति ।
अत्र चोद्यभाष्यम्
अस्तु तर्हिति ।
स्थापनाया अभावे स्थाप्यः पक्षो ऽपि नास्ति ।
न ह्यन्यथा पक्षस्य पक्षत्वमिति भावः ।
परिहरति---यद् वै खलु तदिति ।
वैतण्डिको ऽपि हि वादी पारिशेष्यात् मत्पक्षः सेत्स्यतीति बुद्ध्या स्वपक्षमस्थापयन् परपक्षस्थापनामाहन्ति ।
तस्मात् परपक्षप्रतिषेधलक्षणं वाक्यम् अस्य पक्षः परपक्षनिषेधेन पारिशेष्यात् पक्षसिद्धिहेतुत्वादुपचारतः ।
तस्मादस्ति वैतण्डिकस्य पक्षः ।
न तु परपक्षप्रतिषेधादन्या स्थापना ।
तेनास्य पक्षो ऽस्ति,
नास्ति च पक्षस्थापना ।
तदिदमुक्तम्---न कञ्चिदर्यं प्रतिज्ञाय स्थापयतीति ।
पक्षत्वं तु योग्यतामात्रेण,
न तु स्थाप्यमानतयेति ॥
अस्तु तर्हिति भाष्यार्थमाह--वार्त्तिककारः अपरे त्विति ।
तस्मात् प्रतिपक्षहीनो वितण्डेति वक्तव्यमित्यर्थः ।
परिहरति---अयुक्तं चैतदिति ।
न तावदस्थाप्यमानस्यापि स्थापनार्हतालक्षणा पक्षता न युज्यते,
तस्मात् न वैतण्डिको दूषणादन्यत् किञ्चिदभ्युपगच्छतीति ।
अनभ्युपगमात् पक्षो ऽस्य नास्तीति वक्तव्यम् ।
तथा च चतुर्वर्गाभ्युपगमे विरोधो ऽनभ्युपगमे वा नायं लौकिको न परीक्षक इति प्रसङ्ग इति भावः ।
प्रतिपादयितुरयथार्थावबोधं प्रतिपत्तारं चात्मानमित्यर्थः ।
यस्तु मन्यते चतुर्वर्गाभ्युपगमे ऽपि दूषणमात्रं वितण्डेत्येव वक्तव्यं लाघवायेति,
तन्मतमुपन्यस्यातिप्रसङ्गापादनेन दूषयति---दूषणमात्रेति ।
समाख्यानिर्वचनसामर्थ्यादेव गम्यत इत्यर्थः ।
उपसंहरति---तस्मादिति ।
तदनेनार्थतो यद् वै खल्वित्यादि भाष्यं व्याख्यातम्

4.4

न्य्स्_1,2.4: सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ॥
उद्देशक्रमानुरोधेन वितण्डानन्तरं हेत्वाभासेसु लक्षयितव्येषु अर्थाक्षिप्तसामान्यलक्षणमेषां विभागोद्देशपरं सूत्रम्---सव्य--साः

4.4

तद्व्याख्यानपरं भाष्यं समाख्यानिरुक्तिवशेन सामान्यलक्षणं प्रतिपादयन् वार्त्तिकारः पठति---हेतुलक्षणाभावादिति ।
पृच्छति---किं पुनरिति ।
न ह्यन्यस्यान्यत्वमात्रेण सादृश्यम्, मा भूत् सर्वस्य सर्वेण सादृश्यमिति भावः ।
उत्तरम्---प्रतिज्ञेति ।
प्रयोगगतं सामान्यमुक्त्वा प्रयोज्यगतमाह---अन्यतमेति ।
अबाधितविषयतासत्प्रतिपक्षत्वे सती अप्यविवक्षित्वा त्रैलक्षण्यद्वैलक्षण्याभिधानं द्रष्टव्यम् ।
शेषमतिरोहितम् ॥
षट्संप्तं शतं गणयति---तत्र साध्यव्यापकेति ।
एतस्यां त्रिषोडश्यां साध्यव्यापकसाध्यैकदेशवृत्तिधर्मभेदात्
षोडशीद्वयं विशेषणविशेष्यासिद्धिभेदात्
चतुःषष्टिः ।
एवं समर्थासमर्थविशेषणविशेष्यभोदात्
चतुःषष्टि ।
तदेतत्
चतुःषष्टिद्वितयमष्टाविंशं शतं पूर्वया त्रिषोडश्या सह षट्सप्तं शतम् ।
साध्यव्यापकानां धर्मविशेषाणामुदाहरणान्याह---तत्रेति ।
विपक्षव्याप्त्यव्याप्तिभ्यां प्रथमद्वितीयौ साधारणौ, तृतीयो ऽन्वयव्यतिरेकी साध्यतज्जातीयव्यापको हेतुरेव ।
विपक्षव्याप्त्यव्याप्तिभ्यां चतुर्थपञ्चमौ विरुद्धौ हेत्वाभासौ ।
यत्र विपक्षे न वृत्तिस्तं दर्शयति---द्व्यणुकवदिति ।
षष्ठो ऽविद्यमानसपक्षविपक्षो ऽसाधारणः, अत
एवाह---घटादिवदिति ।
सप्तमाष्टमौ विपक्षव्याप्त्यव्याप्तिभ्यां साधारणौ ।
नवमस्तु सपक्षैकदेशवृत्तिरन्वयव्यतिरेकी हेतुरेव ।
दशमैकादशौ सपक्षव्याप्त्यव्याप्तिभ्यामन्वयिनौ हेतू ।
द्वादशस्तु अविद्यमानविपक्षः असाधारणः ।
त्रयोदशचतुर्दशौ त्वविद्यमानसपक्षो विपक्षव्याप्त्यव्याप्तिभ्यां विरुद्धौ ।
पञ्चदशो ऽपि व्यतिरेकी हेतुरेव ।
षोडशस्तु अविद्यमानसपक्षविपक्षो ऽसाधारणः ॥
यदि बाह्यकरणप्रत्यक्षे वाङ्मनसे इति साध्येत तदा नानित्यत्वं सपक्षव्यापकं स्यात्, सामान्ये
बाह्यकरणप्रत्यक्षे ऽभावात् ।
अतः साध्यधर्मं विशिनष्टि---सामान्यविशेषवदिति ।
अनित्ये रूपविज्ञाने अमूर्तत्वादिति ।
रूपविज्ञानस्कन्धातिरिक्तानां वेदनासंज्ञासंस्कारस्कन्धानामनित्यतया सपक्षाणां व्यापकममूर्तत्वमिति ।
तज्जातीयैकदेशवृत्तित्वममूर्तत्वस्य दर्शयितुं यत्र न वर्तते तत्पुरःसरमुदाहरणं रूपादिवदिति ॥
अनित्यः शब्दो ऽश्रावणत्वात्
इति नित्ये शब्दत्वे न वर्तते ।
अर्थः शब्द
इति, शब्दो धर्मी ।
अर्थ इति साध्यो धर्मः,
द्रव्यगुणकर्मणामन्यतम इत्यर्थः ।
यद्यश्रोत्रग्राह्यत्वादित्युच्येत,
ततः सामान्यादिष्वनर्थेषु विपक्षेष्वपि वर्तेत ।
अत उक्तम्---अश्रोत्रग्राह्यसामान्यवत्त्वादिति ।
अश्रोत्रग्राह्यं च तत् सामान्यवच्चेति विग्रहः ।
ननु चाक्षुषत्वं विपक्षवृत्ति
समवायस्यानाश्रितस्य चाक्षुषत्वादित्यत उक्तम्---औलूक्यपक्षे इति ।
सिद्धान्तभेद इति, सोत्रान्तिकानाम् इत्यर्थः ।
असमर्थविशेष्यस्योदाहरणम्---कृतकत्वे सति प्रमेयत्वादिति ।
असमर्थविशेषणस्योदाहरणम्---प्रमेयत्वे सति कृतकत्वादिति ।
निरपेक्षं खलु कृतकत्वमनित्यत्वे साध्ये समर्थम्, प्रमेयत्वं त्वन्यापेक्षम् असमर्थमित्यर्थः ।
तदेवं त्रिषोडश्या प्रकृत्याष्टचत्वारिंशदृ भवन्ति हेतुहेत्वाभासाः ।
व्यापकाव्यापकभेदेन तु द्विषोडशी यदा विशेषणविशेष्यासिद्ध्या चोभयसंप्रतिपन्नया असमर्थविशेषणविशेष्यतया सन्दिग्धविशेषणविशेष्यतया चोभयसंप्रतिपन्नया विक्रियते तदा चतुःषष्ठित्रयेण द्वानवतं शतं भवति ।
वाद्यसिद्धप्रतिवाद्यसिद्धतया उभयान्यतरसन्दिग्धतया च चतुःषष्ठिद्वयेनाष्टाविशकं शतमपरम् ।
तदिदम् अन्यतरासिद्धा इत्यनेन वार्त्तिककृता सूचितम्, द्वाभ्यामूना त्रिंशद् द्वात्रिंशदिति कथञ्चिद् व्युत्पत्त्या ।
ते पुनर्व्यापकाव्यापका व्यधिकरणविशेषणविशेष्यव्यधिकरणसन्दिग्दधविशेषणविशेष्यव्यधिकरणासमर्थविशे षणविशेष्यभेदेन चतुःषष्टित्रयेण द्वानवतं शतमपरम् ॥
एवमप्रसिद्धाश्रयविशेषणविशेष्या उभयान्यतरपक्षाप्रसिद्ध्या अष्टाविंशकं शतम् ।
अत्रापि द्वात्रिंशकमिति पूर्ववद् व्याख्येयम् ।
अन्यतरमात्रमत्र विवक्षितं न तु वादिप्रतिवादिभेदः ।
ते पुनरप्रसिद्धाश्रयाः पूर्ववद्भेदेन व्यधिकरणविशेषणविशेष्यसन्दिग्धविशेषणविशेष्यसमर्थविशेषणविशेष्यभेदेन चतुःषष्टित्रये सति द्वानवतं शतम् ।
तदेवमनन्तराभ्यां द्वानवतशताभ्यां शतत्रयं चतुरशीतं यत् तदेवाष्टाविंशकशताभ्यां द्वानवतेन च शतेन संपिण्डितं द्वात्रिंशदुत्तराष्टशती विकारभूता भवति ।
अष्टाचत्वारिशत् प्रकृतयः पश्चात् निवेशनीया इति ।
उभयाप्रसिद्धाश्रयविशेष्यम्
उदाहरति---यथा अग्निमान् देशो धूमवत्त्वात् ।
उक्तं हि प्राग् यथा न देशो ऽग्निमत्तया साध्यो ऽपि तु धूमविशेष एवेति ।
अन्यतरासिद्धाश्रयोदाहरणमाह---अस्ति चात्मा इच्छादिगुणत्वादिति ।
आश्रयासिद्धविशेषणादयो ऽप्युहनीयाः ।
असमर्थाव्यापकासिद्धविशेषणानामुदाहरणम् ।
असमर्थाश्च ते ऽव्यापकाश्च, व्यधिकरणतया असिद्धाश्चेति विग्रदः ।
अनित्यः शब्दः प्रयत्नानन्तरीयकत्वे सति कृतकत्वादिति कृतकत्वस्यैव विशेष्यस्य सामर्थ्यादसमर्थमनित्यत्वे प्रयत्नानन्तरीयकत्वम्,
अव्यापकं च स्तनयित्नुशब्दानामव्यापकत्वात् ।
व्यधिकरणतया असिद्धं च कोष्ठवायुताल्वादिक्रियायां एव प्रयत्नानन्तरीयकत्वम्,
न त्वाद्यस्यापि शब्दस्य, प्रागेव तु श्रोत्रसमवायिन
इति ।
कृतकत्वे सति प्रयत्नानन्तरीयकत्वादिति चासमर्थाव्यापकासिद्धविशेष्याणामुदाहरणं द्रष्टव्नयम् ॥
वैभवेन त्वसिद्धतावर्जमुदाहरति---अव्यापकासमर्थविशेष्याणामुदाहरणम्---अनित्यः शब्दः प्रत्ययभेदभेदित्वेनोपलभ्यमानत्वात् ।
उपलभ्यमानत्वं हि नित्ये ऽप्यस्तीति व्यभिचारादसमर्थम् ।
कारणभेदभेदित्वमेव तु विशेषणं समर्थमव्यभिचारादिति ।
केवलव्यधिकरणविशेष्याणामुदाहरणम्
अस्ति प्रधानं भेदानां गोघटादीनां सुखदुःखमोहात्मकत्वेनान्वयदर्शनादिति ।
अन्वयदर्शनं हि भेदाधिकरणतया न प्रधानधिकरणमिति,
व्यधिकरणमिति व्यधिकरणं विशेष्यम् ।
केवलव्यधिकरणविशेषणानामुदाहरम्---रूपरसगन्धस्पर्शशब्दाः
चन्दनशब्दादत्यन्तं विभिन्नार्थाः समुदायसमुदाय्यसंभवे सति रूपादीनामर्थानां रूपादिशब्दानां च तेन चन्दनशब्देन व्यपदिश्यमानत्वात् ।
चन्दनस्य रूपादय इति समुदायसमुदाय्यसंभवो रूपादिषु व्यपदेशश्च रूपादिशब्देष्विति व्यधिकरणं विशेषणमित्यर्थः ।
तदनेन प्रपञ्चेन द्वात्रिंशदुत्तराष्टशती दर्शिता ॥
संप्रति द्वानवतशतयुग्मान्तरं दर्शयितुमुदाहरणमाह---अन्यथासिद्धोदाहरणं नित्यः शब्दो ऽभ्यासात् ।
सेयं क्रियाभ्यावृत्तिर्यथा शब्दानित्यत्वे ऽप्युपपद्यते तथा द्वितीये दर्शयिष्यते ।
सिंहावलोकितन्यायेन व्यधिकरणविशेष्यं सन्दिग्धविशेषणमुदाहरति---सन्दिग्धाप्रतिद्धेति ।
विशेषणशब्दः तन्त्रेण विशेषणे विशेष्ये च कर्मकरणसाधनतया प्रयुक्तो वर्तते ।

तेन सन्दिग्धं विशेषणम् अप्रसिद्धं व्यधिकरणतया विशेष्यं येषां तेषामुदाहरणमित्यर्थः ।
यथा सन्दिह्यमाने धूमादिभावे ऽग्निमान् देशो धूमवत्त्वे सति प्रकाशकत्वात्, धूमवत्त्वं विशेषणं सन्दिग्दधम् ।
प्रकाशकत्वं च विशेष्यं व्यधिकरणम् ।
तत् खलु वह्नेर्धर्मो न देशस्येति ।
अप्रसिद्धविशेषणसन्दिग्धविशेष्याणामुदाहरणं दर्शयति---विपर्ययेणेति ।
अप्रसिद्धेत्यपि द्रष्टव्यम् ।
अग्निमान् देशः प्रकाशकत्वे सति धूमवत्त्वादिति ॥
संप्रति द्वानवतशतयुग्मान्तरं दर्शयितुं भूमिरचनां करोति---एवमिति ।
ये ये सन्दिग्धासिद्धा व्यापकाव्यापकभेदेन द्वात्रिंशत् त
एवोभयान्यतरासिद्ध्या चतुःषष्टिर्भवन्ति ततः किमित्यत आह--ते चतुःषष्टितामापन्नाः पूर्ववद्भेदेन व्यधिकरणविशेषणविशेष्यसन्दिग्धविशेषणविशेष्यासमर्थविशेषणविशेष्यभेदेन तावच्चतुःषष्टित्रयमित्येकं द्वानवतं शतम् ।
अपरे चाश्रयासिद्धव्यधिकरणविशेषणविशेष्यसन्दिग्धविशेषणविशेष्यासमर्थविशेषणविशेष्यभेदेन द्वानवतं शतम् ।
तदिदं
चतुरशीतं शतत्रयं सन्दिग्धासिद्धमाश्रित्य ।
अपरमपि द्वानवतशतयुग्मान्तरमन्यथासिद्धमाश्रित्याह---एवमन्यथासिद्धभेदो द्रष्टव्यः ॥
अन्यथासिद्धभेदो ऽपि हि व्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदात्
चतुःषष्टित्रयमिति ।
पुनश्च स
एवान्यथासिद्ध
आश्रयासिद्धव्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदात्
चतुःषष्टित्रयमिति द्वानवतशतयुग्मेव शतत्रयं चतुरशीतम् ।
अपरमपि द्वानवतशतयुग्मकमाह--एवं विरुद्धविशेषणा विरुद्धविशेष्याश्चेति ।
विरुद्धविशेषणविशेष्या अपि हि व्यधिकरणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदाच्चाश्रयासिद्धव्यधि-
करणविशेषणविशेष्यसन्दिग्धासमर्थविशेषणविशेष्यभेदाच्च शतत्रयं चतुरशीतम् ।
तदेवमेभिस्त्रिभिश्चतुरशीतैः शतत्रयैर्द्विपञ्चाशच्छतोत्तरं सहस्रमेकम्, द्वात्रिंशदुत्तरया अष्टशत्या सहस्रमेकं चतुरशीतिसहिता च नवशती ।
तदेवं प्रकृतिभूताष्टा चत्वारिंशत्प्रक्षेपेण संपिण्डितं द्वात्रिंशे द्वे सहस्रे भवत इति ॥
तन्न असत्वादिति ।
पञ्चानां चतुर्णां वा रूपाणां संपत्तिरव्यभिचारः ।
स चैकस्मिन् विषये विरुद्धयोर्न संभवति,
अन्ततो ऽसत्प्रतिपक्षस्यैव रूपस्याभावादित्यर्थः ।
पञ्चानां हेतूनामिति ।
सपक्षव्याप्त्यव्याप्तिभ्यामन्वयी द्वेधा,
व्यतिरेक्येकः, अन्वयव्यतिरेक्यपि सपक्षव्याप्त्पव्याप्तिभ्यां द्वेधेति पञ्च हेतवः ।
पञ्चानां हेतूनां सरूपासरूपप्रतिबन्धात् पञ्च पञ्चका भवन्ति ।
सरूपः अन्वयिनो ऽन्वयी,
व्यतिरेकिणो व्यतिरेकी, अन्वयव्यतिरेकिणो ऽन्वयव्यतिरेकी ।
असरूपश्चान्वय्यादेर्व्यतिरेक्यादिः, तेन प्रतिबन्धः, एतदुक्तं भवति, अन्वय्यादावेकैकस्मिन् सरूपासरूपाः पञ्च हेतवः प्रतिबन्धका इति पञ्चभिः पञ्चकैः पञ्चविंशतिर्विरुद्धाव्यभिचारिण
इति ।
चोदयति---लक्षणत एवेति ।
परिहरति---नानर्थकमिति ।
यत्परो हि शब्दस्तत्रासौ प्रमाणम्, समानासमानजातीयव्यवच्छेदकं च लक्षणसूत्रमिति तत्रैव प्रमाणम् न त्वियत्तायामतत्परत्वात् ।
न चासावार्थी सतो ऽप्यनुपयोगादलक्ष्यमाणत्वोपपत्तेः प्रमेयान्तरवदिति

4.5

न्य्स्_1,2.5: अनैकान्तिकः सव्यभिचारः ॥
तदेवमर्थाक्षिप्तसामान्यलक्षणं विभागं दर्शयित्वा विशेषलक्षणमवतारयति भाष्यकारः, तेषां हेत्वाभासानां मध्ये अनै---रः

4.5

अत्र चानैकान्तिकसव्यभिचारशब्दौ पर्यायौ पुरुषभेदापेक्षया लक्ष्यलक्षणत्वेनावस्थितौ ।
यस्यानैकान्तिकपदार्थो ऽप्रसिद्धः प्रसिद्धश्च सव्यभिचारपदार्थः, तं प्रत्यनैकान्तिक इति लक्ष्यतिर्देशः, सव्यभिचार इति लक्षणम् ।
यस्य तु सव्यभिचारपदार्थो ऽप्रसिद्धः प्रसिद्धश्चानैकान्तिकपदार्थस्तं प्रति सव्यभिचार इति लक्ष्यनिर्देशः, अनैकान्तिक
इति लक्षणम् ।
तत्र सव्यभिचार इति लक्षणपदं कक्षीकृत्याह भाष्यकारः व्यभिचार
एकत्राव्यवस्थितिः ।
एतदुक्तं भवति ।
सव्यभिचारपदं निर्वचनसामर्थ्यात् लक्षणपदमिति ।
अनैकान्तिकपदलक्षणपक्षे भाष्यकारोक्तम् अनित्यत्वमप्येको ऽन्त इत्यादि ।
तद् वार्त्तिककारः पर्युदासाभिप्रायेण व्याचष्टे---एकस्मिन्नन्ते नियत ऐकान्तिक इति ।
न हेतुरैकान्तिको येन तदन्यत्वेन हेत्वाभासमात्रसंग्रहादेकजातीयत्वेन हेत्वाभासानां विभागसूत्रविरोधः स्यात्,
किं त्वेकस्मिन्नन्ते यो नियतः स ऐकान्तिकः,
तद्विपर्ययादनैकान्तिको ऽनियतो ऽनित्यत्वे च नित्यत्वे चान्वयेन च व्यतिरेकेण चोभयपक्षगामीति यावत् ।
न चैवंभूता विरुद्धादयो हेत्वाभासा इत्यभिप्रायः ।
तदेवम् अनैकान्तिकः सव्यभिचारः इति स्थिते पृच्छति---कः पुनरिति ।
उत्तरम्---साध्यतज्जातीयेति ।
अवगत एष व्यभिचार इति, अनैकान्तिकपदवाच्यतास्य कथमित्यत आह--अन्यत्र सर्वो ऽयमिति ।
प्रमेयपदार्थस्य तु सर्वव्यापिनो नान्तो व्यतिरेको ऽस्तीत्यत
उक्तम्--अन्यत्र प्रमेयादिति ॥
अत्र बौद्धैः यद् विकल्प्य दूषणमुक्तम्, तदुपन्यस्यति--अनैकान्तिक
इति ।
किं पुनरयमिति ।
ऐकान्तिको हेतुः ।
ततो ऽन्यः सर्व एव हेत्वाभास इत्यर्थः ।
द्वितीयं कल्पं दूषयति---अथ प्रसज्येति ।
तथापि हेतोरभावो ऽनैकान्तिकः ।
न चासौ सव्यभिचारः ।
भावधर्मौ हि व्यभिचाराव्यभिचारौ नाभावे सर्वोपाख्याविरहिणि युज्येते इत्यर्थः ।
तदेतत् शाक्यदूषणं निराकरोति---नायं पर्युदासपक्ष इति ।
पर्युदासपक्षस्तावदस्माकमभिमत उपपन्नतरश्च,
केवलमयं प्रसज्यप्रतिषेधवल्लभस्तमास्थाय सर्वं दूषयतीति तमेवाङ्गीकृत्य सर्वत्र ब्रूम
इत्याशयवतः समाधानम् ।
न पुनरब्राह्मणादावपि वार्तिककारस्य प्रसज्यप्रतिषेधो ऽभिमतः, किं तु पर्युदास
एवेति ।
अभ्युपेत्य तु तत्रापि प्रसज्यप्रतिषेधाभिधानम् ।
न हि प्रसज्यप्रतिषेधो ऽपि तुच्छः, अपि तु कस्यचिद् वस्तुनो ऽभावेन विशिष्टं किञ्चिदेव वस्त्वित्यर्थः ॥
अत्र भाष्यम्---निदर्शनं नित्यः शब्दो ऽस्पर्शत्वात् इति ।
वैधर्म्ये दृष्टान्तम् आह---स्पर्शवानिति ।
अनित्यः
कुम्भः स्पर्शवान् दृष्ट इति योजना ।
वैधर्म्ये व्याप्यव्यापकभावस्य वैपरीत्यादिति वैधर्म्यव्यभिचारमाह---दृष्टान्ते स्पर्शवत्त्वमनित्यत्वं च धर्मौ न साध्यसाधनभूतौ गृह्येते ।
न हि यदनित्यं तत् सर्वं स्पर्शवद् बुद्ध्यादिभिर्व्यभिचारात् ।
साधर्म्ये ऽपि चैभिरेव व्यभिचारो वक्ष्यत
इतीह नोक्तः ।
ननु मा भून्नित्यत्वं साध्यम्,
अस्पर्शत्वमेवास्तु नित्यत्वस्य साध्यमित्यत
आह---स्पर्शवांश्चाणुर्नित्यश्चेति ।
तथापि यदस्पर्शवन्न भवति तन्नित्यमपि न भवतीति वैधर्म्यं व्यभिचरति, स्पर्शवतो ऽप्यणोर्नित्यत्वादित्यर्थः ।
साधर्म्यव्यभिचारमाह---आत्मादौ चेति ॥
अत्र वार्त्तिककारो ऽस्पर्शवत्त्वस्य हेतोः प्रश्नपूर्वकं स्वरूपं निष्कर्षति---किं पुनस्तत् अस्पर्शत्वं शब्दाद्
भिन्नत्वमित्यर्थः ।
सत्ताविशेषणो वा समवायः,
समवायविशेषणा वा सत्ता, अन्वयव्यतिरेकाभ्यामित्यर्थः ।
वाक्यार्थे च पदप्रयोगो ऽस्पर्श इति श्रोत्रियपदवदित्याह---वाक्यार्थेति ।
अनैकान्तिक
इति लक्षणमिति पक्षे चोदयति---अतिदेशेति ।
यदि हि क्वचित् शास्त्रप्रदेशे अनैकान्तिकः कथितः, तद्देशातिलङ्घनेन अत्रातिदिश्यमानो विदितरूप इह सव्यभिचारं लक्षयेत्,
न त्वस्य शास्त्रप्रदेशे क्वचिदपि कीर्तनमस्तीत्यर्थः ।
परिहरति---नेदमिति ।
लोकप्रसिद्धत्वेनोक्तप्रायमित्यर्थः ।
अन्वयेनैवोभयान्तसन्नियतो ऽनैकान्तिक
इति मन्वानः शङ्ते---अव्यापकत्वादिति ।
परिहरति---नेति ।
व्यावृत्तीति ।
क्वचिदन्वयस्योभयान्तसंनियतता,
क्वचिद् व्यतिरेकस्येत्यर्थः ।
एकेषां मतमुपन्यस्यति---अपरे त्विति ।
दूषयति---तैस्त्विति ।
नोदाहरणे व्यभिचाराल्लक्षणव्यभिचारो भवत्यन्यत्वात् ।
नो खलूदाहरणमाद्रियन्ते परीक्षकाः किं तु लक्षणमित्यर्थः

4.6

न्य्स्_1,2.6: सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः ॥
सिद्धा---द्धः

4.6

पृच्छति---को ऽस्य सूत्रस्येति ।
न खलु हेतुरचेतनः सिद्धान्तमभ्युपगच्छति, यश्चाभ्युपगच्छति चेतनो नासावन्यतमेन हेतुलक्षणेन युज्यते इति न हेत्वाभासः ।
न च पक्षः सिद्धान्त इति तद्विरोधी न विरुद्धः स्यादिति भावः ।
उत्तरम्---अभ्युपगतार्थविरोधी विरुद्धः हेतुद्वारेण पुरुषस्याभ्युपगमो हेतावुपचरितः ।
अभ्युपगमविषयमात्रविवक्षया च सिद्धान्तशब्दः प्रयुक्तो न पुनः सिद्धान्त
एवेह विवक्षितः ।
तेन पेक्षो ऽभ्युपगमविषय इति तद्विरोधी हेत्वाभासः संगृहीतो भवति विशेषविरुद्धस्य च न हेत्वाभासतेत्युक्तं भवति ।
न हि विशेषो ऽभ्युपगमस्य विषयः, न खल्वयं प्रतिज्ञापदगोचरः, किं तु प्रतिज्ञार्थस्य सिद्ध्यनुषङ्गीति नाभ्युपगमगोचर
इति भावः ।
ईदृशस्य सूत्रव्याख्यानस्य फलमाह---एवं चेति ।
ईदृशं व्याख्यानमन्तरेणानुक्तस्य विरुद्धस्येत्यर्थः ।
अभ्युपगतेन वा बाध्यत
इति, स्वरूपेण हेतुत्वेन वेत्यर्थः ।
तदनेन तं विरुणद्धीत्यादि भाष्यं व्याख्यातम् ।
चोदयति---नन्वेवमिति ।
यदि हेतुत्वबाधाद्
विरुद्ध इत्युक्तः, हन्त, सव्यभिचारादयो ऽपि विरुद्धाः ।
तेषामपि हि हेतुत्वं बाधितम् ।
अबाधे वा न हेत्वाभासा इति भावः ।
परिहरति---सत्यमेक एवेति ।
ईदृशाविरुद्धत्वेन तुल्यत्वे ऽप्यवान्तरभेदविवक्षया पञ्चत्वम् ।
यथा प्रमाणादीनां प्रमेयत्वेन तुल्यत्वे ऽपि प्रमाणप्रमेयादीनामवान्तरभेदविवक्षया षोडशत्वम्, यथा वा तृणविशेष
एवासाधारणतया तृणोलप इत्याख्यायते,
एवं विरुद्धविशेष
एवासावनैकान्तिकादिर्विरुद्धानैकान्तिकादिपदवाच्य
इत्यर्थः ॥
अत्रोदाहरणभाष्यम्---यथा सो ऽयं विकार इति ।
महदहङ्कारपञ्चतन्मात्रैकादेशेन्द्रियभूतसूक्ष्ममहाभूतानि विकारः ।
तस्य व्यक्तिः धर्मलक्षणावस्थापरिणामः,
तस्मादपाय इति ।
अत्र हेतुः
नित्यत्वप्रतिषेधादिति ।
तस्य व्याख्यानम्---न नित्यो विकार उपपद्यत इति ।
अपेतो ऽपि विकारो ऽस्ति विनाशप्रतिषेधात् ।
सो ऽयं नित्यत्वप्रतिषेधादिति हेतुर्व्यक्तेरपेतो ऽपि विकारो ऽस्तीत्यनेन स्वसिद्धान्तेन विरुध्यते ।
एतदेव प्रश्नपूर्वकं विभजते---कथमित्यादिना ।
विरोधस्य द्व्याश्रयत्वात् सिद्धान्तेन विरुध्यते इत्यभिसंघाय सिद्धान्तं व्याहन्तीत्युक्तमित्यर्थः ।
तदेतद् भाष्यं व्याचष्टे---उदाहरणमिति ।
ननु नित्यत्वप्रतिषेधादिति हेतुर्विनाशप्रतिषेधेन सिद्धान्तेन विरुद्ध इति ब्रुवाणः शास्त्रविरोधमापादयति ।
तथा च कालात्ययापदिष्टो हेत्वाभासो न विरुद्ध इत्यत आह---एते ते वाक्ये परस्परार्थबाधिते इति ।
दृढतरप्रमाणबाधितो हि हेतुः कालात्ययापदिष्टो भवति, यथा ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् क्षीरवदित्ययं हेतुः
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
यथैबैका तथा सर्वा न पेया ब्रह्मवादिभिः ॥
इत्यादिभिरागमैरतिदृढैर्बाधितः कालात्ययापदिष्टतया हेत्वाभासो भवति ।
प्रकृते तु वाक्ये परस्परविरुद्धार्थतया न प्रतिष्ठां लभेते, न पुनरन्यतरदन्यतरेण शक्यं बाधितुं द्वयोस्तुल्यबलत्वात् तस्मात् नायं कालात्ययापदिष्ट इत्यर्थः ॥
व्याख्यानान्तरमाह---प्रतिज्ञाहेत्वोर्वा विरोध इति ।
सो ऽयं विकारो व्यक्तेरपैतीति प्रतिज्ञा नित्यत्वप्रतिषेधादिति हेतुना विरुध्यते ।
व्यक्तिमात्रादपैति, न तु विनश्यतीति हि प्रतिज्ञार्थः अपेतो ऽप्यस्ति विनाशप्रतिषेधादित्यनेन व्याख्यातः ।
तथा च व्यक्तेरपैतीत्येनन विकारस्य नित्यत्वं प्रतिज्ञातं नित्यत्वप्रतिषेधादित्यनेन हेतुना विरुद्धं भवति ।
खसिद्धान्तेनेति स्वपक्षेणेत्यर्थः ।
अत्र चार्थे सुगमं भाष्यम् ।
अत्र वार्त्तिककार-
चोदयति---ननु प्रतिज्ञाविरोध इति ।
प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोध
इत्यर्थः ।
परिहरति---नैष दोष इति ।
प्रतिज्ञाश्रितत्वं विरोधस्य विवक्षित्वा निग्रहस्थानेषु प्रतिज्ञाविरोधस्योपादानम्,
हेत्वाश्रितत्वं तु तस्यैव विरोधस्य विवक्षित्वा हेत्वाभासे ऽन्तर्भाव इति ।
यदा
प्रतिज्ञया हेतुविरोध इति हेतोरप्यन्यतरासिद्धतया प्रतिज्ञाया तुल्यबलत्वाभिप्रायम् ।
यदा तु हेतुरुभयसिद्धो भवति, तदा हेतोर्वा प्रतिज्ञाविरोधकत्वमिति ।
उपसंहरति---अत इति ।
हेतोर्विरोधोदाहरणम् ।
विरोधकत्वं विरोधः ।
शब्दस्योत्पत्तिधर्मकत्वं प्रमाणविनिश्चितं नित्यत्वप्रतिज्ञां बाधत
इत्यर्थः ।
प्रसङ्गात्
हेत्वाभासातिरिक्तस्य प्रतिज्ञापदयोर्विरोधस्य निग्रहस्थानस्योदाहरणमाह---प्रतिज्ञाविरोधस्येति ।
तृतीये ऽध्याये चैष विरोध
उपपादयिष्यते ।
हेतोरन्यतरासिद्धतया समानबलयोः प्रतिज्ञाहेत्वोर्विरोधोदारणं गुणेति ।
हेतुविरोधोदाहरणं नास्त्येको भाव
इति ।
उत्पत्तिमत्त्वं ह्यन्यतरासिद्धमपि शक्यसाधनमिति प्रतिज्ञार्थं व्याहन्ति, समूहे भावशब्दप्रयोगादिति तु उभयसिद्धमेव प्रतिज्ञार्थं व्याहन्तीत्येतावता भेद इत्यर्थः

4.7

न्य्स्_1,2.7: यस्मात् प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ॥
यस्मा---मः

4.7

प्रकरणशब्दार्थमाह भाष्यकारः विमर्शाधिष्ठानाविति ।
विमर्शः संशयः ।
तस्य विषयौ ।
अनवसितौ अनिर्णीतौ, तादृशयोरेव पक्षप्रतिपक्षशब्दवाच्यत्वात्,
प्रक्रियते साध्यत्वेनाधिक्रियत इत्यनया व्युत्पत्या प्रकरणम् ।
चिन्तापरं व्याचष्टे---तस्य प्रकरणस्य चिन्ता विमर्शात् प्रभृति प्राग् निर्णयात् समीक्षणम् आलोचनं जिज्ञासा ।
सा खलु तत्त्वानुपलब्ध्या कृता ।
नो खल्वयं नित्यधर्मान् नित्यत्वाविनाभाविनो ऽनित्यधर्मान् वा अनित्यत्वाविनाभाविन उपलभमानस्तत्र सन्दिग्धे तद् वा जिज्ञासते ।
सैव नित्यधर्मानुपलब्धिरनित्यधर्मानुपलब्धिर्वा विचित्राभिसन्धितया वादिना निर्णयायापदिश्यमाना प्रकरणसमो हेत्वाभासः ।
कुतः? उभयपक्षसाभ्यात् यथा नित्यत्वपक्षे ऽनित्यधर्मानुपलब्धिरेवमनित्यत्वपक्षे ऽपि नित्यधर्मानुपलब्धिः ।
सेयं तत्त्वानुपलब्धिमात्रविवक्षयोभयपक्षसमा,
प्रकरणसमा तु यथाप्रकरणमनिश्चायकम्
एवमियमपीत्यर्थः ।
व्युत्पत्तिनिमित्तमात्रं चैतत् प्रकरणसमपदस्य, प्रवृत्तिनिमित्तं तु सत्प्रतिपक्षत्वम्, अन्यथानैकान्तिकस्यापि प्रकरणसमत्वप्रसङ्गादिति ।
प्रज्ञापनं प्रज्ञाप्यते अनेनेति व्युत्पत्त्या निदर्शनमुक्तम् ॥
अनैकान्तिकत्वशङ्का सत्प्रतिपक्षस्यास्य व्यवच्छिनत्ति---यत्र समान इति, संशयेन समः अनिश्चायकत्वादिति ।
एतदुक्तं भवति,
न हि नित्यधर्मानुपलब्धिरुभयसिद्धे नित्ये ऽस्ति येन सव्यभिचारो भवेत्,
नाप्यनित्यधर्मानुपलब्धिरुभयसंमते ऽनित्ये ऽस्ति येन सव्यभिचारो भवेत् ।
अपि तु परस्परमनयोः सत्प्रतिपक्षतयैव
हेत्वाभासत्वमिति ।
यस्मात् प्रकरणचिन्तेत्युक्तं सूत्रकृता,
तत्र यस्मादर्थं प्रश्तपूर्वकं दर्शयति वार्त्तिककारः---कस्मादिति ।
कारणत्वं तत्त्वानुपलब्धेर्व्यतिरेकेण देशयति---यस्मादिति ।
अत एवेति तत्त्वानुपलब्धेरित्यर्थः ।
चोदयति---नन्वयमिति ।
पक्षप्रतिपक्षौ हि प्रकरणम् ।
तौ च साध्यौ ।
ताभ्यां च समः साध्यसमः ।
तथा च साध्यसमात् हेत्वाभासात् न पृथग्
निर्देश्यः प्रकरणसम इत्यर्थः ।
परिहरति---नाविशिष्ट इति ।
यद्यपि प्रकरणसमशब्दो व्युत्पत्त्या साध्याविशिष्टेन समानार्थः,
तथापि प्रवृत्तिनिमित्तमस्य सत्प्रतिपक्षत्वम् ।
न च तत्त्वानुपलब्धिः स्वयमसिद्धा, सा ह्युपलम्भनाभावेन सुलभेति भाव ॥
परमतमनुभाष्यातिप्रसङ्गापादनेन दूषयति---ये तु संशयहेतुत्वादिति ।
चोदयति---समूह इति ।
यस्मिन् सति भवत्येव तत् कारणम्, समूहे सति च भवत्येव नैकैकस्मिन्, तत्त्मात् नैकैकं कारणमिति भावः ।
परिहरति---समूहः कारणमितीति ।
न ह्यकारणानां समूहः कारणं भवितुमर्हति, अतिप्रसङ्गात् ।
न च समूहिवैलक्षण्यमन्तरेणाजानतः समूहस्य वैलक्षण्यम् ।
तस्मात् समूहिन एवान्योन्यसमवधानवन्तः कारणम् ।
तथा च प्रत्यक्षस्योपपन्नं संशयकारणत्वम् ।
न च यस्मिन् सति भवत्येव तत् कारणम्, अपि तु यस्मिन् सत्येव न त्वसतीति लक्षणभङ्गभङ्गे वक्ष्याम इति ॥
ननूभयधर्मानुपलब्धिरुभयपक्षसाधारणीति सव्यभिचार एवेत्यत आह---उभयधर्मानुपलब्धाविति ।
नोभयधर्मानुपलब्धिरत्र हेतुः, अपि तु एकधर्मानुपलब्धिः ।
न चासौ साधारणी,
किं तु तत्प्रतिपक्षेत्यर्थः ।
उभयविशेषानुपलब्धेः प्रकरणसमत्वेन अभिधानाशक्यत्वात् प्रकरणसमस्योदाहरणान्तरं दूषयति---शरीरादन्यत्वं त्विति ।
परेषां किलोदाहरणं नित्य
आत्मा शरीरादन्यत्वाद्
आकाशवदिति ।
तत्र शरीरादन्यत्वम् उपलभमानो यदा तत्त्वं नित्यत्वमात्मनः प्रत्येति, न हि तदा जिज्ञासितुं नित्यत्वं प्रवर्तते ।
यदा तु तत्त्वं नित्यत्त्वं नोपलभते शरीरादन्यत्वमुपलभमानो ऽपि तदा प्रवर्तते ।
तस्मादन्वयव्यतिरेकाभ्यां तत्त्वानुपलब्धिरेव प्रकरणचिन्ताप्रवर्तिका न शरीरादन्यत्वम् ।
तस्मात् नैतत् प्रकरणसमस्योदाहरणम् ।
अपि तु तत्त्वानुपलब्धिरेव ।
इतश्चैतन्न प्रकरणसमस्योदाहरणमित्याह---शरीरादन्यत्वं चानैकान्तिकम् ।
उपसंहरति---अतश्च न सूत्रार्थः
न सूत्रविषयः ।
एवमन्यान्यपि सत्प्रतिपक्षोदाहरणान्यूहनीयानि

4.7

न्य्स्_1,2.8: साध्याविशिष्टः साध्यत्वात् साध्यसमः ॥
साध्या---मः

4.8

अत्र साध्यसम
इति लक्ष्यनिर्देशः ।
साध्याविशिष्ट इति लक्षणम् ।
तदनेन स्वरूपासिद्धैकदेशासिद्धाश्रयासिद्धान्यथासिद्धानां संग्रहः, तेषामसिद्धत्वेन साध्याविशिष्टत्वात् ।
अत्र चासिद्धः साध्यसम इति वक्तव्ये साध्याविशिष्टग्रहणमन्यतरासिद्धस्यापि सिद्धेः प्रागहेतुत्वज्ञापनार्थम् ।
अन्यथात्यन्तासिद्ध
एव साध्यसमो नान्यतरासिद्धः तस्य कदाचित् सिद्धेरिति भ्रान्तिः स्यात् ।
साध्याविशिष्टेन तु सो ऽपि संगृहीत इति ।
नन्वेवं साध्याविशिष्टत्वेनान्यतरासिद्ध
एव स्यात् नेतरे, नेषामसिद्धत्वेन साध्याविशेषाभावादित्यत
उक्तं सूत्रकृता साध्यत्वादिति ।
यदि हि साध्यं नासिद्धं भवेत् साध्यत्वादेव च्यवेत, न खलु सिद्धं साध्यते ।
तस्मात् साध्यत्वादसिद्धता ।
सा च कस्यचित् सर्वदा, कादाचित्की कश्चिदिति सर्वेषामविशिष्टत्वमिति नाव्याप्तिः ।
नापि साध्यत्वस्यातिप्रसक्त्यातिव्याप्तिः
हेत्वाभाससामान्यलक्षणापेक्षत्वात् तद्विशेषलक्षणस्येति सूत्रार्थः ।
साध्नीयत्वादिति भाष्यगतं न साध्यत्वादित्यस्य व्याख्यानम्,
अपि तु गतिमत्त्वस्यासिद्धत्वपरम् ॥
अत्र वार्त्तिककारः सूत्रार्थं व्याचष्टे---साध्येनाविशिष्टो य इति ।
साध्येन व्यभिचारो मा भूदित्यत
आह---साधनधर्म इति हेत्वाभाससामान्यलक्षणयोगे सति एतल्लक्षणमिति न व्यभिचार इति भावः ।
अत्र भाष्यकारेण स्वरूपासिद्धाश्रयासिद्धान्यथासिद्धानां साधारणमुदाहरणमुक्तम्---द्रव्यं छाया गतिमत्त्वादिति ।
तद्विभजते वार्त्तिककारः
द्रव्यं छायेति ।
अत्र स्वरूपासिद्धतां तावदाह---यथैवेति ।
आश्रयासिद्धतामवतारयितुं गतिमत्तं छायायाः पञ्चावयवेन वाक्येन साध्यति---गतिमत्त्वमिति ।
आश्रयासिद्धतामाह---नाश्रयासिद्धत्वादिति ।
सत्या एव छायाया देशान्तरे दर्शनाद् यो ऽस्या गतिमत्त्वमनुभिनोति तं प्रत्याश्रयासिद्धं देशान्तरे दर्शनम्,
तदाश्रयस्यासिद्धत्वात् ।
तदिदमुक्तम्---सति द्रव्याभाव इति, सति सत्त्व इत्यर्थः, न तावत् छाया सामान्यविशेषसमवायान्तर्भूता तस्या नित्यताभावात् ।
नापि कर्म, संयोगविभागासमवायिकारणत्वाभावात् ।
न गुणो द्रव्यासमवायात् ।
न मनोदिक्कालगुणः,
तद्गुणानामप्रत्यक्षत्वात् ।
नाप्यात्मगुणो बाह्येन्द्रियप्रत्यक्षत्वात् ।
नापि नभोनभस्वतोः,
तद्गुणानामचाक्षुषत्वात् ।
नापि तेजसः,
तद्विरोधित्वात् तत्सहचरितगुणान्तरानुपलब्धेश्च ।
अत एव न पृथिवीपाथसोरपि ।
अपि च तद्गुणश्चाक्षुषो नालोकमन्तरेण शक्यग्रहः ।
छाया तु तमन्तरेण गृह्यते,
तस्मिंस्तु सति न गृह्यते इति दुर्घटम् ।
नापि द्रव्यम्, तद्धि पृथिव्यादीनाममन्यतमद् भवेद् अन्यद्
वा दशमम् ।
न
तावदन्यतमम्,
तद्गुणानामनुपलब्दधेः, नाप्यन्यद् रूपवदिति युज्यते, तस्याद्रव्यस्य प्रत्यक्षत्वानुपपत्तेः,
अस्पर्शवत्वादनाम्भकत्वेनानेकद्रव्यत्वाभावात् ।
तस्माद् भाभाव एव छाया न तु सतीति सिद्धम् ॥
यस्तु मन्यते मा भूत्
छाया सती, भवतु भाभावः तथापि नाश्रयासिद्धता देशान्तरदर्शनस्य भाभावाश्रयत्वादेवेति तं प्रत्यभ्युपेत्यान्यथासिद्धतया साध्यसमत्वमापादयति---अभ्युपेत्येति ।
स्वाभाविको हि संबन्धो हेतोः साध्येन सहानुमानाङ्गं नौपाधिक इति विवेचितमनुमानलक्षणे ।
तदयमन्यथासिद्ध औपाधिकसंबन्धो भवति हेत्वाभासः ।
सेयं हेतोरसिद्धिर्द्विधा स्वरूपतो हेतुत्वेन च ।
स्वरूपतो ऽपि द्वेधा, स्वत आश्रयासिद्ध्या च ।
न चैतावता सव्यभिचारादीनामपि हेतुत्वासिद्धेरसिद्ध एवान्तर्भावः सव्यभिचारत्वादिविशेषणेन तेषामतो भेदात् ।
अन्यथासिद्धस्य तु तद्विशेषणत्वायोगिनो हेतुत्वासिद्धिमात्रेण साध्यसमे ऽन्तर्भाव
इति सर्वमवदातम् ।
संकलयति---सो ऽयमिति ।
त एते ऽसिद्धभेदा उदाहरणभेदेष्वपि द्रष्टव्याः, यथा नित्यः शब्दः
चाक्षुषत्वादिति स्वयमसिद्धः ।
तनुभुवनादीनां न कर्ता ईश्वरो ऽशरीरत्वादित्याश्रयासिद्धः ।
स श्यामो मैत्रतनयत्वात् परिदृश्यमानमैत्रतनयस्तोमवदित्यन्यथासिद्धः,
अन्नपानपरिणतिभेदनिबन्धनत्वात् रूपभेदस्यान्यथासिद्धत्वमिति ।
अयमप्यसिद्धत्वात् इति भाष्ये अपिशब्देन
आश्रयस्य छायाया अपि सत्त्वेनासिद्धिः सूचिता ॥
अत्र भदन्तेन इदं साध्यसमलक्षणमुदाहरणान्तरं कल्पयित्वा दूषितम् ।
इदं किलास्योदाहरणम्,
नित्यः
शब्दो ऽस्पर्शत्वाद् बुद्धिवदिति ।
तदेतत् त्रिधाप्यसिद्धं न भवतीति दूषयित्वा भदन्तेन शङ्कितम्, अथ साध्येनाविशिष्टो दृष्टान्तो यस्मिन् स साध्याविशिष्टो हेत्वाभास इति बुद्धेर्दृष्टान्तस्य नित्यत्वेनासिद्धत्वात्
इत्याशङ्क्य बहुव्रीह्यभावेन दूषितम् ।
तदेतत् सर्वमनभ्युपगमेन वार्त्तिककारो दूषयति---नित्यः शब्द इति ।
यद्येतत् नोदाहरणं किमुदाहरणं को वा सूत्रार्थ इत्यत आह---यथा त्वस्माभिरिति ।
अयं भदन्तोक्तो दोष इत्यर्थः ।
कस्मादित्यत आह---भदन्तेन सूत्रार्थो न विज्ञातः, न हि सव्यभिचारो ऽनेन लक्ष्यते येन सव्यभिचारमस्पर्शवत्त्वमस्योदाहरणं स्यात्, किं तु साध्यसमः ।
नापि व्यधिकरणबहुव्रीहिदूषणेनाक्षरार्थो ज्ञातः ।
नापि बुद्धिवदिति दृष्टान्ताभासमेव हेत्वाभासं कुर्वता हेत्वाभासदृष्टान्ताभासौ ज्ञातौ भदन्तेनेत्यर्थः

4.9

न्य्स्_1,2.9: कालात्ययापदिष्टः कालातीतः ॥
काला---तः

4.9

अत्र कालातीत इति लक्ष्यनिर्देशः,
कालात्ययापदिष्ट इति लक्षणम् ।
हेतोरपदेशस्य हि साध्यसन्देहविशिष्टः कालः ।
यथाहुः---
नानुपलब्धे न निर्णीते न्यायः प्रवर्तते,
अपि तु सन्दिग्धे इति ।
परे ऽप्याहुः
सन्दिग्धे हेतुवचनात्
इति ।
यत्र च प्रत्क्षानुमानागमविरोधः,
अनुष्णो ऽग्निर्द्रव्यत्वादिति च अश्रावणः शब्दो गुणत्वादिति च, शुचि नरशिरःकपालं प्राण्यङ्गत्वादिति च, स सर्वः प्रमाणतो विपरीतनिर्णयेन सन्देहविशिष्टं कालमतिपततीति सो ऽयं कालस्यात्ययेनापदिश्यमानः कालातीत
इति ।
तथा चोदाहृतं
यत्तु प्रत्यक्षागमविरुद्धं न्यायाभासः सः ।
इत्यत्र वार्त्तिककृता बाधाविनाभावयोः सहासंभव इति चात्र बौद्धानामाक्षेपो ऽस्माभिः समाहितः ।
एवं व्यवस्थिते भाष्यकारः सूत्रं स्वपरमतश्लिष्टं व्याचष्टे---कालात्ययेन संशयकालात्ययेन युक्तो यस्य हेतोरपदिश्यमानस्याथैङ्कदेशः ।
धर्मविशिष्टो हि धर्मी हेतोरपदिश्यमानस्यार्थः ।
सर् ह्यति हेतुना, तस्यैकदेशः साध्यधर्मः ।
स हि धर्मिणि बलबला प्रमाणेन तद्विपरोतधर्मनिर्णयं कुर्वता संशयकालमतिपातितः ।
स तादृशो हेतुः कालात्ययापदिष्टः कालातीत
इति स्वमतेनास्यार्थः ।
अत्र च पूर्वमेवोदाहृतमिति पौनरुक्त्यात्
नोदाहृतम् ।
परमते च कालात्ययेन युक्तो यस्य हेतोरर्थरूप एकदेशो हेतुविशेषणमिति यावत्, स कालात्ययापदिष्ट
इति योजना ।
परमतेनैव निदर्शनमाह---निदर्शनमिति ।
नित्यत्वं चात्रावस्थानमात्रमभिमतमिति,
न
घटादिभिरालोकसंयोगव्यङ्ग्यैर्व्यभिचारः ।
तदेतत् पञ्चावयवं वाक्यमुपन्यस्य संयोगव्यङ्ग्यत्वस्य हेतोरेकदेशस्य विशेषणस्य संयोगस्य व्यक्तिकालात्ययेन हेत्वाभासतामाह---अयमहेतुरिति ।
स पुनरयमसिद्धविशेषणतया हेत्वाभासः साध्यसम एवेति न पृग्वाच्य
इति स्थूलतया एष दोषो भाष्यकारेण नोद्भावितः ॥
यत् पुनः भदन्तेन कालातीतसय व्याख्यानं कृतं प्रतिज्ञानन्तरं हि हेतोः कालः ।
तमतीत्य हेतुः पश्चादपदिश्यमानः कालातीतो भवति ।
तद् यथा, अनित्यः शब्दः
घटादिवदित्युक्ते कस्मादित्यनुयुक्तो हेतुं ब्रूते कृतकत्वादिति स कालातीत
इति ।
तच्चैवं तेन दूषितम्---किं निराकाङ्क्षे वादिनि एष प्रतिवादिनः प्रश्नः,
आहो साकाङ्क्षे? यदि निराकाङ्क्षे तदा न्यूनमेवास्य निग्रहस्थानम्, न हेत्वाभासस्तस्याप्रयोगात् ।
प्रयुक्तो हि हेतुस्तदाभासो वा स्यात्
नाप्रयुक्तः ।
अथ साकाङ्क्ष एव वादिनि प्रतिवादिनः प्रश्नः, तथापि पश्चादप्यसौ हेतुः प्रयुक्तो हेतुरेव, न ह्यसौ तदा न स्वसाध्याविनाभूतः,
अपक्षधर्मो वेति ।
तस्मात् न कालतीतो नामास्ति हेत्वाभास
इति ।
तदेतद् भदन्तदूषणम्
एतद्व्याख्यानानभ्युपगमेन परिहरति---अवयवविपर्यासवचनं त्विति ।
अनभ्युपगमहेतु पृच्छति---कस्मादिति ।
उत्तरम्---यस्येति ।
अर्थेन सामर्थ्येन संबन्धो ऽर्थसंबन्धः ।
अपि च पौनरुक्त्यादपि नाभ्युपगम्यत
इत्याह---अवयवेति ॥
यस्यापदिश्यमानस्य इत्यादि पुनरुच्यत
इत्यन्तं वार्त्तिकं भाष्यव्याख्यानेनैव व्याख्यातम् ।
शङ्कते---समीकृते ऽभिधानादिति ।
अयमर्थः
नैतदप्राप्तकालेन निग्रहसथानेन पुनरुक्तम्,
अपि तु हेत्वाभास एव ।
स ह्यवयवविपर्यास उच्यते यत्रैकग्रन्थेनैव वादी प्रतिज्ञोदाहरणादि प्रयुज्य पश्चात्
हेतुं प्रयुङ्क्ते, एष तु प्रतिज्ञोदाहरणे प्रयुज्य विरतः प्रतिवादिनानुयुक्तः पश्चात्
हेतुं प्रयुङ्क्ते ।
तस्मात्
न्यूनतादूषणेन पक्षे समीकृते
पक्षमात्रतां नीते सिद्धावस्थातः प्रच्याविते पश्चादभिधानात् हेतारेष कालातीतो हेत्वाभासः, न पुनरप्राप्तकालम् ।
निग्रहस्थानमिति चेदिति ।
निराकरोति---केनेति ।
यदि हेत्वभिधानेन न्यूनतया समीकृतः पक्षः किमत्रहेतोरसामर्थ्यम्? न ह्यन्यदोषेणान्यो युज्यत इत्यर्थः ।
शङ्किता ब्रूते---एतदस्येति ।
निराकरोति---नैतदिति ।
न्यूनतया निगृहीतो यदि पश्चादभिधानेन निग्रहीतव्यः ततो वाद्येव निगृह्यतां न त्वयं पश्चादभिहित इति समर्थः शक्यो हेतुर्निग्रहीतुमिति नायं समीकृताभिहितत्वेनापि हेत्वाभास
इत्यर्थः ।
उभयनिराकरणमुपसंहरति---तस्मादिति

4.10

न्य्स्_1,2.10: वचनविधातो ऽर्थविकल्पोपत्या छलम् ॥
उद्देशक्रमानुरोधेन लक्षणक्रमस्य हेत्वाभासानन्तरं छलस्योद्देशात् छललक्षणस्यापि हेत्वाभासलक्षणानन्तर्यमाह भाष्यकारः---अथ छलम् ॥
वच---लम्

4.10

यथा वक्तुरभिमतो ऽर्थः
ततो विरुद्धः अर्थः तस्य कल्पः कल्पना, सैवोपपत्तिः
तया ।
अथ लक्षणान्तर इव छलस्य सामान्यलक्षणे कस्मादुदाहरणं न दीयत इत्यत आह---न सामान्यलक्षणे इति ।
सामान्यविशेषवत् सर्वमुदाहरणम्, निर्विशेषस्य सामान्यस्यासत्त्वेन केवलस्य सामान्यस्योदाहरणमशक्यमित्यर्थः ।
विभागे त्विति ।
विभज्यत इति विभागो विशेषलक्षणम्, तस्मिन् उदाहरणानि

4.11

न्य्स्_1,2.11: तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च ॥
छलसामान्यलक्षणमभिधाय तद्विशेषलक्षणान्यभिधातुं प्रथमं तावत्
न्यूनाधिकसंख्याव्यवच्छेदार्थं विभाग लक्षणसूत्रमवत्तारयति---विभागश्चेति ।
विभज्यते ऽनेति विभागः सूत्रमुच्यते ।
तत् त्रि---च

4.12

न्य्स्_1,2.12: अविशेषाभिहिते ऽर्थे वक्तुरभिप्रायादर्थानतरकल्पना वाक्छलम् ॥
तत्र च विशेषलक्षणमवतारयति ।
तेषां छलानां मध्ये वाक्छलं लक्ष्यते---अवि---लम्

4.12

नवः कम्बलो ऽस्येति एकत्र विग्रहः,
नव कम्बला अस्येति अपरत्र इति विग्रहे विशेषः ।
वाक्छलमिति शब्दार्थं व्युत्पादयति---वाचि निमित्ते छलं वाक्छलमिति ।
नवकम्बल इत्युभयत्रापि समानायां वाचि निमित्तभूतायामित्यर्थः ।
तदेतच्छलं पराजयावस्थायां जल्पे प्रयोक्तव्यमित्युक्तम् ।
परवाक्ये पर्यनुयोगो ऽस्येति चोक्तम् ।
तदत्र यथा पर्यनुयोगः, तथा दर्शयति शिष्यहिततया भाष्यकारः---अस्य प्रत्यवस्थानमिति ।
उभयार्थप्रतिभाने संभवत्पदार्थपरित्यागेनासंभवत्पदार्थकल्पनम्
अयुक्तमित्यर्थः ॥
अथ प्रयोक्तापि कथं साधारणेन शब्देनार्थविशेषं बोधयति? अबोधयंश्च कथं प्रतिपादको नाम इत्यत आह---प्रसिद्धश्चेति ।
संबन्धस्वरूपमाह---अभिधानामिधेययोर्यो नियमः, अयमेव शब्दो ऽस्यैवार्थस्येति ।
तत्र यः पुरुषस्य नियोगः अस्मादयमेव बोद्धव्य
इत्येवमाकारः, किमतो यद्येवमित्यत
आह---प्रयुक्तपूर्वाश्चेति ।
तथापि किमित्यत आह---प्रयोगश्चेति ।
तामिमां भूमिरचनां प्रकृते योजयति---तत्रैवमर्थगत्यर्थ इति ।
एतदुक्तं भवति, न सङ्केतकरणावस्थायां वृद्धव्यवहारे वा कश्चित् शब्दः कञ्चिदर्थ शृङ्गग्राहिकया बोधयति, अपि तु
सामान्यद्वारेणार्थप्रकरणादिसहकारी विशेषे वर्तते ।
तस्मात् नैष प्रतिपादयितुरपराधो यदेष विशेषशब्दैर्विशेषं न प्रतिपादयति,
किं तु सङ्केतस्यापराधो यो विशेषमपहाय सामान्ये शब्दानां वर्तते ।
तस्माद् यथासङ्केतं बोधयन् नापराध्यः प्रयोक्तेति सिद्धम् ।
सामर्थ्यमेव दर्शयति---यत्रार्थे क्रिया चोदनेति ॥
स्यादेतत् ।
अविशेषाभिहिते ऽर्थे इति न युक्तम् न हि नवकम्बल इति पदं प्रकरणादिनिरपेक्षं कञ्चिदर्थमविशेषेणाभिधत्ते गवादिशब्दवत् ।
न हि संख्याविशेषे च नवीनत्वे चास्ति कश्चित् सामान्यविशेषो बाहुलेयादिष्विव गोत्वं यमभिदधीतेत्यत
आह वार्त्तिककारः---सामान्यश्रुतीति ।
अभिहितिः अभिहितम् ऊच्चारणमिति
यावत् ।
समानः शब्दो नार्थे सामान्यमित्यर्थः ।
अश्व इति नामपदमश्वत्वस्य वाचकम्, आख्यातपदं यदा कस्यचिदभिमुखं प्रयुज्यते अश्व इति,
तदा वृद्धिं गतो ऽसीति प्रतीयते ।
चोदयति---अविशेषेति ।
समानो हि शब्दो ऽभिधेये संशयमाधत्ते न त्वर्थमभिधत्त इत्यर्थः ।
परिहरति---न प्रकरणादीन् इति ।
श्वेतो धावतीति इतः सारमेयो द्रुततरं याति,
श्वित्री प्रक्षालयतीत्यर्थसन्देह इत्यर्थः ।
अर्थ
इत्यस्य प्रयोजनमाह---अर्थग्रहणमिति ।
अविशेषश्रुतौ शब्दे सति अर्थे अर्थान्तरकल्पना,
न शब्द इत्यर्थः ।
अस्य
प्रत्यवस्थानमित्यादि भाष्यं व्याचष्टे---तस्येति ।
सुगमम्

4.13

न्य्स्_1,2.13: सम्भवतो ऽर्थस्यातिसामान्ययोगाद् असम्भूतार्थकल्पना सामान्यच्छलम् ॥
संभव---लम्

4.13

संभवतो ऽर्थस्य ब्राह्मणविशेषस्य विद्याचरणसंपद्विषयत्वेन विद्याचरणसंपदमत्येति यत् सामान्यं ब्राह्मणत्वं व्रात्ये ब्राह्मणे, तस्य ब्राह्मणत्वस्यातिसामान्यस्य योगादसंभूतार्थकल्पनया यः प्रतिषेधः
तत् सामान्यच्छलम् ।
अहो न खल्वयं ब्राह्मणो विद्याचरणसंपन्न इति हि स्तुत्यर्थं वाक्यमभ्यनुजानतोक्तं संभवति ब्राह्मणे विद्याचरणसंपदिति तदेतदपि वाक्यं स्तुत्यर्थमेव, न त्वस्य ब्राह्मणत्वात् हेतोर्विद्याचरणसंपद्
विवक्षितेति ।
तत्र परो हेत्वर्थमस्या विवक्षितमारोप्य वचनं विहन्तीति तदिदं सामान्यच्छलम् ।
विषयानुवाद
इति ।
संपद्विषयस्य ब्राह्मणत्वस्यानुवाद
इत्यर्थः ।
कस्य? अविवक्षितहेतुकस्य पुंसः ।
तदेतद् वार्त्तिककारो व्याचष्टे---सामान्यस्येति ।
विवक्षितार्थमधिगतं सामान्यमित्यर्थः ।
शेषं सुबोधम्

4.14

न्य्स्_1,2.14: धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥
धर्म---लम्

4.14

शब्दस्य धर्मः प्रयोगः
तस्य विकल्पो द्वैविध्यम् ।
द्विविधः प्रयोगः,
प्रधानो भाक्तश्च ।
तत्रापि प्रधान औत्सर्गिकः, तस्य तु कुतश्चिदपवादाद्
भाक्तो भवति ।
तदेतदाह भाष्यकारः---अभिधानस्य शब्दस्य यथार्थं प्रयोगो धर्मः औत्सर्गिकः ।
तत् किमयमेव? नेत्याह---विकल्पो द्वेविध्यम् ।
को ऽसौ द्वितीय इत्यत आह---उत्सर्गस्य तु कुतश्चिदपवादाद् अन्यत्र दृष्टस्यान्यत्र प्रयोगः ।
तदेवं व्यवस्थितेन धर्मविकल्पेन निर्देशे वाक्ये, निर्दिश्यते ऽनेनेति व्युत्पत्त्या ।
तत्र भाक्तविवक्षायां मञ्चाः क्रोशन्तीति, अत्रार्थसद्भावेन प्रतिषेधः ।
तमेवार्थसद्भावमाह---मञ्चस्थाः पुरुषाः क्रोशन्ति, न तु मञ्चाः क्रोशन्तीति ।
वार्त्तिकमते त्वर्थसद्भावस्यैव प्रतिषेध इति व्याख्येयम् ।
ननु यद्यन्यत्र दृष्टस्यान्यत्र प्रयोगः, हन्त सर्वं सर्वत्र प्रयुज्येतेत्यत आह---उपचारो नीतार्थः प्रापितार्थः ।
सहचरणादिना निमित्तेनेति, अन्यत्र दृष्टस्याप्यन्यत्र प्रयोगः संबन्धादेव भवतीति ।
नातिप्रसङ्ग इत्यर्थः ।
न छन्दतः न छद्मनेत्यर्थः ।
ननु यदि भाक्ततयाप्युपपत्तिः,
न किञ्चित्
जल्पाकभाषितं दुष्टं स्यात् ।
सर्वस्यैव यथाकथञ्चिद्
भाक्तत्वेनोपपत्तेरित्यत आह---प्रधानभूतस्येति ।
भाक्तस्येत्येतावति वक्तव्ये प्रधानग्रहणं सिद्धतया दृष्टान्तलाभाय ।
लोकसिद्ध
एवोपचारः कर्तव्यो नापूर्वो विना प्रयोजनम्,
लोकसिद्धश्चायमुपचारो मञ्चाः क्रोशन्तीत्यर्थः ॥
सूत्रत्र्याख्यानपरं वार्त्तिकं धर्मविकल्पनिर्देशशब्देन सूत्रस्थेन ।
अभिधानं प्रयोगः शब्दस्य धर्मो भवन् द्विधाभिधीयते द्वैविध्यमाह---प्रधानमिति सो ऽयम्
अभिधानाभिधेयव्यवहार इति, अभिधानं शब्दः ।
अभिधेयो गम्यः ।
स च क्वचिद् वाच्यः,
क्वचिद् भाक्त इत्यर्थः

4.15

न्य्स्_1,2.15: वाक्छलम् एवोपचारच्छलं तद् अविशेषात् ॥
परीक्षापर्वणः सन्निधानात् तदर्थं लक्षणपर्वण्यपि योग्यायै सूत्रकारः छन्नलक्षणं परीक्षते---वाक्छ--त्

4.15

स्थान्यर्थो गुणशब्दो यो वस्तुतः स एव प्रधानशब्दः स्थानार्थ इति कल्पयित्वेति योजना ।
यथा हि वाक्छवले नवीनार्थो नवशब्दः संख्या भेदे कल्पितः, तथेहापीति पूर्वः पक्षः

4.16

न्य्स्_1,2.16: न तदर्थान्तरभावात् ॥
सिद्धान्तसूत्रम्---न त--त्

4.16

तस्य उपचारच्छले अर्थसद्भावप्रतिषेधस्य अर्थान्तरकल्पनातो वाक्छलादित्यर्थः ।
सूत्र तात्पर्यमाह---वार्त्तिककारः---अविशेषादित्यस्येति ।
विधेयं वस्तु, मञ्चाः क्रोशन्तीत्यत्र क्रोशनं विधीयते, मञ्चा इति त्वनूद्यते ।
अत एव
गुणे त्वन्यार्थकल्पना
इति मञ्चा इत्येतदप्रधानमनूद्यतया भाक्तम् ।
न तु क्रोशन्तीति
न विधौ परः शब्दार्थः
इति न्यायात् ।
तदिह विधीयमानं क्रोशनमेव वस्तु प्रतिषिध्यते, नैव मञ्चाः क्रोशन्तीति छलवाक्येन ।
नवकम्बलो देवदत्त इति वाक्ये तु देवदत्तमनूद्य नवत्वविशिष्टः कम्बलो विधीयते ।
तत्र न विधेयस्य वस्तुनः कम्बलस्य सद्भावः प्रतिषिध्यते, किं तु तदेकदेशस्यानेकताया इति महान् भेद इति सिद्धान्तः

4.17

न्य्स्_1,2.17: अविशेषे वा किञ्चित्साधर्म्यात् एकच्छलप्रसङ्गः ॥
अवि---ङ्गः

4.17

किञ्चित्साधर्म्यात् त्रित्वाभावे द्वित्वस्याप्यभ्युपगतस्याभाव प्रसङ्गः ।
ओमिति ब्रूवतो वस्तुत्वेन समस्तभेदोच्छेदप्रसङ्गः ।
भाष्यवार्त्तिके अतिरोहितार्थे

4.18

न्य्स्_1,2.18: साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥
उद्देशक्रमानुरोधेन जातिलक्षणक्रममाह भाष्यकारः---अतः छललक्षणाद्--ऊर्ध्वम् ।
साध--तिः

4.18

प्रतीपमवस्थानं प्रत्यवस्थानम्, तथा सति छलस्य सम्यग्दूषणस्य च जातित्वप्रसङ्गः ।
अत उक्तम्---साधर्म्यवैधर्म्याभ्यामिति ।
न च च्छले साधर्म्यवैधर्म्ये स्तः ।
न च सम्यग्दूषणं साधर्म्यवैधर्म्यमात्रात्, अपि तु प्रयोगादिति ।
प्रयुक्ते हेतौ तदाभासे वा यः प्रसङ्गो जायते स जातिरिति ।
जल्पे हि वेदप्रामाण्यं विद्वांसं प्रति कुहेतुना यदा नास्तिकैरधिक्षिप्यते, सदुत्तरं चास्य यदा सहसा न प्रतिभाति तदेश्वराणां जनाधाराणां मा भूद् वेदाप्रामाण्यबुद्धिरिति जात्यापि प्रत्यवस्थेयम् ।
अन्यथेश्वरचरितानुवर्त्तिनीनां प्रजानां विप्लवो भवेदिति ।
क्वचित् पुनरबुद्धिपूर्वमेव हेतौ हेत्वाभासे वा जातिप्रयोगः संभवति ।
जायमानो ऽर्थः इति जातिपदव्युत्पत्तिनिमिततं दर्शितम् ।
तदेतद् वार्त्तिककारो व्याचष्टे---साधर्म्येणेति ।
यथा पक्षे सति प्रतिपक्षः,
एवं स्थापनायां सत्यां प्रत्यवस्थानमिति ।
सूत्रार्थस्तु यथाश्रुति, न पुनरुदाहरणसाधर्म्येण यथाभाष्यं बोध्यव्यः ।
यद्येवम्, भाष्यं तर्हि कथमित्यत
आह---उदाहरणार्थमिति ।
एवं वैधर्म्येण वेत्येतदपि ।
यथाश्रुति न पुनर्यथाभाष्यम्
उदाहरणार्थं तदित्यर्थः ।
अस्य व्याख्यानस्य गुणाभिधानेन प्रश्नपूर्वकं प्रपञ्चमाह---किमर्थमिदमिति

4.19

न्य्स्_1,2.19: विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् ॥
विप्र---नम्

4.19

सूक्ष्मविषया प्रतिपत्तिर्विपरीता ।
स्थूलविषया च कुत्सिता, कथमसौ निग्रहस्थानमित्यत आह---विप्रतिपद्यमान इति ।
अप्रतिपत्तिमाह---आरम्भविषय इति लाघवाय विप्रतिपत्त्यप्रतिपत्ती इति वक्तव्ये कस्मादसमासकरणमित्यत आह---असमासाच्चेति ।
विप्रतिपत्यप्रतिपत्तिभ्यामान्यदपि हेतूदाहरणाधिकं नाम जल्पे निग्रहस्थानमस्ति, तदपि ग्रन्थाधिक्येनावरुध्यत इत्यर्थः ।
आरम्भविषये ऽनारम्भ इत्यादि भाष्यम्, तद्
व्याचष्टे---स्वपरार्थोत्तरासंवित्तिरिति ।
द्वेधा खल्वारम्भविषये ऽनारम्भो भवति,
दूष्यं वा परोक्तं साधनं विप्रतिषेधहेतुं वा न प्रतिपद्यते ।
सेयं परार्थोत्तरासंप्रतिपत्तिः उत्तरग्रहणं साधनमप्युपलक्षयति ।
स्वार्थोत्तराप्रतिपत्तिसतु साधनप्रतिषेधहेतू परकीयौ प्रतिपद्य तत् प्रतिषेद्धुं स्वकीयमुत्तरं न प्रतिपद्यत
इत्यर्थः ।
चोदयति---स्वयं प्रयुक्ते वस्तुतः समर्थे साधने कथम्
अप्रतिपत्तिर्विप्रतिपत्तिर्वेति द्रष्टव्यम् ।
परिहरति---तदापीति ।
समर्थसाधनज्ञानं साधनप्रतिपत्तिर्न साधनमात्रज्ञानमित्यर्थः

4.20

न्य्स्_1,2.20: तद्विकल्पाञ्जातिनिग्रहस्थानबहुत्वम् ॥
सूत्रान्तरमवतारयितुं भाष्यकार
आह---किं पुनरिति ।
यद्यपि साधर्म्यवैधर्म्याभ्यां दृष्टान्तस्यापि भेदः, तथापि लक्षणाभेदाभिप्रायेणाभेद
उक्तः ।
तद्वि---त्वम्

4.20

नाना कल्प इति स्वरूपतः,
विविध इति प्रकारतः ।
यथालक्षणमिति यथास्वरूपमित्यर्थः ॥
अध्यायार्थं संक्षिप्याह वार्त्तिककारः---तन्त्रप्रतिज्ञेति ।
तन्त्रस्य शास्त्रस्य प्रतिज्ञा प्रमाणादितत्त्वज्ञानान्निःश्रेयसाधिगम
इति सूत्रम् ।
शास्त्रेमेव हि तत्त्वज्ञानमिति ।
संसारः
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानामिति ।
तन्निवृत्तिश्च संविदा उत्तरोत्तरापाये तदनन्तराभावाद् अपवर्ग इति ।
तस्मात्
यः प्रमाणादिसूत्रेणोद्देशः, तत्परिकरो द्वितीयं सूत्रम्, द्वाभ्यामुद्देशः ।
शेषं सुबोधमिति

मूल पाठ: Nyāyasūtra with Vacaspatimiśra's Nyāyavārttikatātparyaṭīkā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc