न्यायसूत्र (टीका सहित) · अध्याय 2
न्य्स्_1,1.24: यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥
उद्देशक्रमप्राप्तस्य प्रयोजनस्य लक्षणम्---यम---नम्
अत्रार्थशब्दो गौणमुख्यप्रयोजनावरोधार्थः ।
तत्र मुख्यं सुखदुःखापितपरिहारौ, गौणं तु तत्साधनम् ।
अत्र भाष्यं---यमर्थम् इत्यादि ।
अत्राधिकृत्येत्यस्य व्याख्यानम्---व्यवसाय निनिश्चित्येत्यर्थः ।
समाधनौ च सुखदुःखाप्तिपरिहारावर्थः ।
न च सुखदुःखप्राप्तिपरिहारौ स्वरूपेण प्रवृत्ति निवृत्तिगोचराविति तदुपायप्रवृत्त्यैव चेतनप्रवृत्तिगोचराविति दर्शयति---तदाप्तिहानोपायमनुतिष्ठतीति ।
प्रवृत्तिहेतुत्वादिति ।
यद्यपि सुखदुःखाप्तिहाने तदुपायाश्च सन्ति, तथापि सामान्येन ज्ञायमानानीच्छाद्युपहारमुखेन प्रवृत्तिहेतवः ।
ननु सूत्रे ऽधिकृत्येत्यस्ति, भाष्ये च व्यवसायेति, तत् कुतो न विरोध इत्यत आह---व्यवसायो ऽर्थस्याधिकार इत्यादि ।
तदेतद् वार्त्तिककारो व्याचष्टे---यमर्थमधिकृत्येति, व्यवसायेति ।
पृच्छति---कस्येति सुखदःखाप्तिपरिहारयोर्व्यवसायस्तत्रैव प्रवर्तयेत् ।
न चानयोः प्रवृत्तियोग्यता ।
न चान्यनिश्चयो ऽन्यत्र प्रवर्तयति, अतिप्रसङ्गादिति भावः ।
उत्तरम्---सुखदुःखसाधनानामिति ।
ततश्च प्रतीतिप्रवृत्त्योः संप्रतिपत्तिरित्यर्थः ।
सर्वव्यापितामस्य दर्शयति---अनेन प्रयोजनेनेति ।
वितण्डाया अपि प्रयोजनमुक्तं प्रथमसूत्रे ।
चोद्यमानस्य प्रवर्त्तमानस्येत्यर्थः ।
शङ्कते---यदीति ।
लोक्यते ऽनेनेति लोकः प्रमाणम् ।
तदन्वितः तदुत्पन्नः ।
न च प्रमाणमीदृशम्, अनवस्थाप्रसङ्गादिति भावः ।
निरारकरोति---अतिदोषो ऽयमिति ।
यथा च प्रमाणस्य प्रमाणोपपन्नता न चानवस्था, तथा द्वितीये निवेदयिष्यते ।
न च प्रसिद्धतरतया न प्रयोजनं लक्षणीयम् इति युक्तम्, कथमस्य प्रयुक्तौ साधनत्वम्, क्व च प्रयोजयति, कथं च व्यापकमिति सर्वस्य परीक्षकप्रवेदनीयत्वात् ।
अथान्य इति ।
अप्रामाणिको लौकिक इति ।
यथा वटे वटे वैश्रवणः
इति ।
निराकरोति---तन्न बुध्यामह इति ।
प्रयोजनस्य प्रामाणिकत्वादित्यर्थः ।
यदप्युक्तं न्यायस्याङ्गं प्रयोजनं न भवति, तस्मात् न वक्तव्यमिति, तन्न युक्तम् ।
या खलु निष्प्रयोजनेति न ब्रूमः प्रयोजनं न्यायस्याङ्गमित्यपि, मुख्यं प्रयोजनमेव हि तन्न स्याद् यदृते पुरुषादन्यार्थमिति ।
प्रयोजनवांस्तु न्यायो निष्प्रयोजनां तद्गतां चिन्तामङ्गी करोति, फलवत्सन्निधावफलं तदङ्गमिति न्यायात् ।
तस्मादनङ्गमपि प्रयोजनं परीक्षाया मूलं स्वर्ग इव सेतिकर्तव्यताकस्य यागाद्यनुष्ठानस्येति सिद्धम्
न्य्स्_1,1.25: लौकिकपरीक्षदाणां यस्मिन्न् अर्थे बुद्धिसाम्यं स दृष्टान्तः ॥
क्रमप्राप्तं दृष्टान्तं लक्षयति---लौकि---न्तः
दृष्टान्त इति लक्ष्यनिर्देशः, शेषं लक्षणम् ।
साध्यसाधर्म्यात् तद्धर्मभावित्वेनार्यते तथा साध्यवैधर्म्यादतद्धर्मभावित्वेनार्यते यः सो ऽर्थस्तस्मिन् ।
तथा च नातिव्याप्तिः ।
उदाहरणसूत्राच्चेदृशविशेषप्रतिलम्भः ।
लोकसामान्यम् किं तदित्यत आह---नैसर्गिकमिति ।
शास्त्रपरिशीलनलब्धजन्मा बुद्ध्यतिशयो वैनयिकः ।
तद्रहिता लौकिकाः प्रतिपाद्या इति तावत् ।
तद्विपरीताः तदुभयंसपन्नाश्च परीक्षकाः प्रतिपादका इति यावत् कथाबहुत्वाच्च बहुवयनम् ।
तदनेन वादिप्रतिवादिनौ दर्शितौ, तयोर्बुद्धिसाम्यं व्याचष्टे---यथा यमर्थमिति ।
लक्षणप्रयोजनमाह---दृष्टान्तविरोधेनेति ।
दृष्टान्तस्य विरोधो विरुद्धत्वं साध्यविकलत्वादि ।
प्रतिपक्षा इति प्रतिपक्षासाधनानि ।
समाधिः अभूतदोशारोपस्य प्रतिषेधः ।
लक्षितश्च दृष्टान्त उदाहरणलक्षणाय कल्पते घटते इति भाष्यम् ।
अत्र वार्त्तिककारो लौकिकपरीक्षकस्वरूपमविवक्षितमिति मन्वान आह---बुद्धिसाम्येति ।
अविवक्षायाः प्रयोजनमन्वयव्यतिरेकाभ्यामाह---एवं चेति ।
परेषा दृष्टान्तलक्षणक्षेपमुपन्यस्य दूषयति---सो ऽयं दृष्टान्त इति ।
दृष्टान्तस्य प्रयोजनमाह---दृष्टान्तः सारूप्यव्युत्पत्त्यर्थः ।
यथा आक्षेप्त्रोक्तं तत्तदक्षरमनूद्य दूषयति---असिद्धसाधनार्थो वेति ।
न खल्वसिद्धः साध्येन साधनस्याविनाभावो दृष्टान्तेन साध्यते इत्यर्थः
न्य्स्_1,1.26: तन्त्राधिकरणाभ्युपगसंसस्थितिः सिद्धान्तः ॥
अत्र भाष्यकारः सिद्धान्तसामान्यलक्षणमपठित्वैव तात्पर्यं व्याचष्टे---अथ सिद्धान्तः इत्यादिना ।
तत्र इदमित्थंभूतमिति वार्त्तिककारो व्याचष्टे---इदमिति सामान्यत इति ।
भाष्ये च संस्थितिरित्थंभावव्यस्थेति सामान्योपक्रमस्य अभ्युपगमस्य प्रमाणतो विशेषपर्यन्ततापरिसमाप्तिः संस्थितिरित्यर्थः ।
अत्रैवार्थे सूत्रम् इत्याह वार्त्तिककारः---अस्यार्थस्येति ॥
तन्त्रा---न्तः
सूत्रार्थमाक्षिपति---किं पुनरिति ।
लक्षणार्थ चेति ।
सामान्यलक्षणार्थम्, न खलु सामान्यलक्षणमन्तरेण शक्यो विभाग इत्युक्तम्
न्य्स्_1,1.27: सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ॥
समाधत्ते---नानार्षमिति ।
लक्षणार्थत्वं सामान्यलक्षणार्थत्वम् ।
तन्त्र्यन्ते व्युत्पाद्यन्ते प्रमेयाण्यनेनेति तन्त्रं प्रमाणम् ।
तदेवाधिकरणम् आश्रयो ज्ञापकत्वेन येषामर्थानां ते तथोक्ताः ।
अशास्त्रितः अप्रमाणिक इत्यर्थः ।
आभिमानिकं च प्रामाणिकत्वम्, तेन सिद्धान्तभेदिनामर्थानां सर्वेषां न प्रामाणिकत्वप्रसङ्गः ।
तदेवं भाष्यकारेण व्याख्याय सामान्यलक्षणं पठितम् ।
एवं व्याख्यानपूर्वकमेव विभागसूत्रं पठति---तन्त्रार्थसंस्थितिरिति ।
तन्त्रग्रहनेन च सर्वतन्त्रप्रतितन्त्रयोरुपादानम् ।
उभयोरपि तन्त्रत्वात् ।
तदिदमुक्तम्---तन्त्रभेदात् त्विति ।
अनवधारितार्थपरिग्रह इति ।
साक्षाच्छास्त्रे नोपात्तो यथा मनस इन्द्रियभाव इति
न्य्स्_1,1.28: सर्वतन्त्राविरुद्धस्तन्त्रे ऽधिकृतो ऽर्थः सर्वतन्त्रसिद्धान्तः ॥
सर्व---न्तः
यद्यपि घ्राणादिषु भौतिकत्वाभौतिकत्वादयो विप्रतिपत्तयः, तथापि इन्द्रियत्वे नास्ति विप्रतिपत्तिरिति ।
तदेतद् वार्त्तिककारो व्याचष्टे---सर्वेषामिति ।
अत्र चोदयति---न दृष्टान्तादिति ।
परिहरति---भिद्यत इति ।
न चैवं सर्वतन्त्रसिद्धान्तः, तस्य सर्वैरेव निश्चितत्वादिति, अनुमानागमयोरिति ।
संबन्धग्रहणाश्रयावनुमानागमौ, यत्र च संबन्धग्रहः स दृष्टान्त इत्यर्थः
समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः
न्य्स्_1,1.29: समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥
समा---न्तः
समानशब्द एकपर्यायः ।
नैयायिकानां हि समानं तन्त्रं न्यायशास्त्रम्, परतन्त्रं च सांख्यादिशास्त्रम् ।
चेतना आत्मनः निरतिशया अपरिणामिनो न केनचिद् धर्मेणोपजनापायधर्मेण युज्यन्ते ।
प्राकृतेषु च देहादिषु तत्कारणेषु महदहङ्कारपञ्चतन्मात्रभूतसूक्ष्मेषु विशेषो ऽतिशय इत्यर्थः ।
तदेतत् सूत्रं वार्त्तिककृद् व्याचष्टे---सामान्येनेति ।
योगानाम् एव, सांख्यानाम् एवेति नियमः
न्य्स्_1,1.30: यत्सिद्धाव् अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः ॥
यत्---न्तः
यस्यार्थस्य साध्यस्य वा हेतोर्वा सिद्धौ इति विषयसप्तमी, न तु निमित्तसप्तमी, द्वयोर्ज्ञायमानयोर्निमित्तनैमित्तिकभावायोगात् ।
तेन यस्मिन्नर्थे ज्ञायमाने तदनुषङ्गिणो ऽर्थास्तदन्तर्भाविनो गम्यन्ते, सो ऽर्थः साक्षादधिक्रियमाणस्तदनुषङ्गिणां चाधारः तदाश्रयत्वात् तत्सिद्धेः, स पक्षो वा भवतु हेतुर्वा अनेन रूपेण अधिकरणसिद्धान्तः ।
पक्षस्तावद् यथा विवादाध्यासितमुपलब्धिमत्कारणमुत्पत्तिमत्त्वाद् तस्त्रादिवदिति ।
अत्र हि पृथिव्यादिगतेनोत्पत्तिमत्तेन उपलब्धिमत्पूर्वकत्वं तद्गतं साध्यमानं स्वसिद्ध्यन्तर्गतानुषङ्गिसर्वज्ञत्वाद्युपेतमेव सिध्यति, नान्यथेहोपलब्धिमत्पूर्वकत्वस्य सिद्धिरिति ।
भाष्ये हेतुप्रतिसन्धानं सिध्यत् अनुषङ्ग्यर्थान्तरान्वितं सिध्यतीत्पुदाह्लतम् ।
तदेतत्सर्वावरोधार्थं वार्त्तिककृद् आह---वाक्यार्थेति ।
हेतुरीदृशः पक्षश्च वाक्यार्थ इत्यर्थः ।
पूर्वो ऽर्थो यः साक्षाद्धिकृतः तस्य सिद्धावन्तर्गत इति भाष्यार्थः
न्य्स्_1,1.31: अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगसिद्धान्तः ॥
अथाभ्युपगमसिद्धान्तसूत्रम्---अप-न्तः
तद् वार्त्तिककारो व्याचष्टे---अपरीक्षितो ऽसूत्रित इति, सूत्रितस्य प्रायेण परीक्षासंबन्धात्, मनसो हीन्द्रित्वेनासूत्रितस्यापि इन्द्रियत्वाभ्युपगमः प्रमाणाधिकरणो यतः, तस्मादयमभ्युपगमसिद्धान्तः ।
सूत्रं चैवं चोजनीयम्, असूत्रिताभ्युपगमात् हेतोर्यतस्तद्विशेषपरीक्षणं क्रियते, तस्माद् विशेषपरीक्षणात् ज्ञायते असूत्रितमप्यभ्युपगतं सूत्रकारेण ।
सो ऽयमस्याभ्युपगमो ऽभ्युपगमसिद्धान्त इति ॥
एवं स्वमतेन सूत्रं व्याख्याय भाष्यकारव्याख्यानं दूषयति---शास्त्रानभ्युपगत इति ।
प्रमाणीकृतेन शास्त्रेणाननुज्ञातः प्रमाणानधीन इत्यर्थः ।
प्रमाणतान्त्राभ्युपगमसंस्थितिरिति हि सिद्धान्तसामान्यलक्षणम्, न च प्रमाणानधीनाभ्युपगमस्तदन्वेतीति नायमीदृशो ऽभ्युपगमसिद्धान्तो भवितुमर्हतीति हृदि निधायायुक्तापि दर्शिता ।
अज्ञं प्रत्यसदाचारत्वात् प्रमाणिकं च पुरुषं प्रत्यशक्यत्वात् बुद्धिमतो ऽवज्ञानस्यायुक्तत्वात् अशक्यत्वादित्यर्थः ।
सर्व एवायं पक्ष इति ।
सर्वतन्त्रप्रतितन्त्रसिद्धान्तौ तावत् साक्षादभ्युपगम्यमानौ स्वमुखेनैव पक्षतयाभिधीयेते ।
अधिकरणाभ्युपगमौ च साक्षात् अनभ्युपगम्यमानावप्यर्थादभ्युपगन्तव्याविति अर्थापत्त्या पक्षावित्यर्थः ।
ननु यद्युपपन्नः प्रमाणतया अभ्युपगमः सिद्धान्तः, तर्हि सिद्धान्तभेदिनामर्थानां प्रामाणिकत्वेन विरुद्धधर्मसमालिङ्गिता भावाः प्रसज्येरन्नित्यत आह---तत्प्रत्ययात् ।
तस्य प्रमाणोपपन्नकर्मत्वस्य प्रत्ययादभिमानादित्यर्थः ।
पक्ष इति ।
पचि व्यक्तीकरणे इत्यस्माद् व्युत्पन्नम् ।
कर्मतया व्यज्यमानतया वा उपादानं स्वार्थस्य पक्ष इति पदम् ।
उपादीयते ऽनेनेति व्युत्पत्त्या ।
क्रियासाधन इति प्रधानक्रियासाधने ।
क्रियाविशेषयुक्त इति अवान्तरव्यापारयुक्ते तेन हि प्रधानक्रियायां कारकाणां वैचित्र्यं भवतीति ।
यश्चासौ न्यायस्याभ्युपगम इति ।
यावदभ्युपगतं न्याय्यस्य साधनं न्याय इति, तावभ्युपगतं भवति प्रमेयसाधनं प्रमाणमिति ।
न च धर्मिणि अनभ्युपगते तदाश्रयो ऽभ्युपगतो भवति ।
तस्मादुभयथापि सर्वतन्त्रसिद्धान्तानपह्नव इत्यर्थः ।
अथ संग्रहः पक्षशब्देनेति, यथा दण्डिशब्देन दण्डसंबन्धोपहितसीमानः समानासमानजातीयाः सर्वे संगृह्यन्ते, तथा पक्षशब्देनापीत्यर्थः अयं तु कल्पः सर्वतन्त्रसिद्धान्ताव्यापकत्वकथनेनैवार्थादपाकृत इति न पृथक् निराकृतः ।
पक्षशब्दो हि व्यज्यमानत्वोपाधिनिबन्धनप्रवृत्तिः, न च व्यज्यमानत्वमस्ति निसर्गव्यक्ते सर्वतन्त्रसिद्धान्त इति भाव ।
वाक्यार्थप्रतिपत्ताविति ।
पीनो देवदत्तो दिवा न भुङ्क्ते इति वाक्यस्य दिवाभोजननिषेधो ऽर्थः ।
तस्मात् तद्विपरीतरात्रिभोजनविधिरर्थापत्तिर्लोकसिद्धा ।
सा च न यथा प्रमाणान्तरुलं तथा द्वितीये निवेदयिष्यते ।
तदनेन प्रबन्धेन भदन्तदिग्नागोदितानि दूषणानि निराकृतानि
न्य्स्_1,1.32: प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥
प्रति---वाः
वार्त्तिककारः सूत्रतात्पर्यमाह---अवयवानामिति ।
नन्ववयवसामान्यलक्षणम् अन्तरेणाशक्यो विभागोद्देशः, तद्विशेषलक्षणं च ।
न चेदं सामान्यलक्षणं विभागपरत्वादित्यत आह---सूत्रम्, विभागपरमप्येतदर्थादवयवसामान्य लक्षणं सूचयतीति सूत्रम् ।
अन्यपरादपि वाक्यात् प्रतीयमानो ऽर्थो ऽपेक्षित स्वीक्रियत एवेति शाब्दाः ।
तत्रावयवपदादेव सामान्यलक्षणमवगम्यते ।
अवयवत्वेनैकवाक्यता दर्शिता ।
सा च पदानां परस्परमसंप्रत्यायितापेक्षितसंबन्धयोग्यार्थप्रत्ययेन भवति ।
तस्मात् तथाविधार्थप्रत्यायनमेव प्रतिज्ञादीनामवयवसामान्यलक्षणं सिद्धमिति सूत्रमित्यनेन दर्शितं वार्त्तिककृता इति ।
विभागोद्देशतात्पर्यमाह---विभागेति ।
त्र्यवयवग्रहणम् उपलक्षणार्थम्, द्व्यवयवमित्यपि द्रष्टव्यम् ।
अत्र भाष्यं तत्राप्रतीयमान इति ।
सामान्येनावगतधर्मिणि विशेषणाग्निमत्त्वादिना सन्दिग्धे, अग्निमत्त्वादितत्त्वावधारणं प्रत्ययः ।
तस्यार्थः प्रयोजनं हानोपादानोपेक्षबुद्धयः ।
तस्य प्रवर्त्तिका उत्पादिका जिज्ञासा प्रत्ययसाधनानुसरणद्वारेण प्रत्यासत्तिः संशयतत्त्वज्ञानयोर्विशेषगता न तु स्वरूपगता, संशयानन्तरया जिज्ञासया संशयस्य व्यवधानात् ।
शक्यं प्रमेयम् ।
तस्मिन् प्राप्तिः शक्तता प्रमाणानां प्रमातुश्च ।
सा च स्वरूपसहकारिभ्यां द्वेधा ।
तामिमां भाष्यकारो ऽनया वचोभङ्ग्या दर्शयति---प्रकातः प्रमाणानीति ।
प्रतिज्ञादिवदिति ।
वैधर्म्यदृष्टान्ताः ।
प्रतिपक्षेपवर्णनमिति ।
यदि शब्दो नित्यः स्यात्, न स्यात् कृतक इति अनित्यत्वस्य नित्यत्वं प्रतिपक्षः ।
तस्मिन् हेत्वभावोपवर्णनं न चायमकृतक इति ।
तदुपवर्णनप्रतिषेधे सति तत्त्वज्ञानाभ्यनुज्ञानार्थम् ।
तत्त्वं ज्ञायते ऽनेनेति तत्त्वज्ञानं प्रमाणम् ।
तदभ्यनुज्ञानार्थं संशयव्युदासः तर्कापरनामा ।
व्युदस्यते हि तेन प्रमाणाभ्यनुज्ञानद्वारेण इतिकर्तव्यताभूतेन संशंय इति ।
तदेतद् भाष्यजातं प्रश्नपूर्वकं वार्त्तिककृद् व्याचष्टे---कथं पुनरिति ।
न पुनर्जिज्ञासादयः परप्रतिपादकाः शब्दादवगताः सन्तः ।
अथ मा भूवन् परप्रतिपादकाः, स्वप्रतिपादका एव कस्मात् न भवन्तीत्यत आह---निश्चितत्वाच्चेति ।
साधनादेव गम्यते प्राप्यते, प्राप्तं च ज्ञायत इत्यर्थः ।
शक्यप्राप्तिश्च प्राथते ज्ञायत इत्यर्थः ।
तत् किं सर्वथैवानङ्गं जिज्ञासादय इत्यत उक्तं भाष्यकता, प्रकरणे तु जिज्ञासादयः समर्था इति ।
तदनुभाष्य व्याचष्टे---प्रकरणे त्विति ।
प्रकरणं कथाप्रवृत्तिः ।
तदुत्थापका जिज्ञासादयो ऽवयवा अङ्गन् इत्यर्थः ।
ते च जिज्ञासादय उत्पन्नाः प्रकरणस्योत्थापकाः स्वरूपेण, न पुनः स्वज्ञानेन येन शब्दप्रतिपाद्याः सन्तः प्रकरणे ऽप्यङ्गं भवेयुः, यथा प्रतिज्ञादयः स्वज्ञानेन स्वार्थान् प्रतिपादयन्तः ।
तस्मात् सर्वथैव विज्ञासादिवाचकपदप्रयोगो ऽनर्थक इति भावः ।
अत एव आह---परप्रतिपादकत्वादिति ।
तुशब्दो जिज्ञासादिभ्यो व्यवच्छिनत्ति ।
त्र्यवयमपि इत्यपिना द्व्यवयवनिषेधं समुच्चिनोति ।
उपनयनिगमनयोः इत्यत्र प्रतिज्ञाया अपीति द्रष्टव्यम्
न्य्स्_1,1.33: साध्यनिर्देशः प्रतिज्ञा ॥
साध्य---ज्ञा
परिगृह्यते ऽनेनेति परिग्रहः ।
स च वचनं चेति परिग्रहवचनम् ।
उदाहरणम् अनित्यः शब्दः इति ।
तदाक्षिप्य वार्त्तिककारः समाधत्ते---सिद्धत्वादिति ।
अग्निमानेव नातद्वान् नास्याग्निनेदानीमयोगः ।
स च पर्वते ऽग्निमति साध्यमाने विशेषणविशेष्ययोः परस्परसंबन्धलक्षणो नियमो ऽर्थात् सिध्यति ।
न तु साक्षादयोगव्यवच्छेद एव साध्यः, लिङ्गस्यान्यापोहविषयत्वानभ्युपगमात् ।
तस्य निर्देश निर्दिश्यते ऽनेति प्रतिज्ञावाक्यमुच्यते ॥
अत्रान्ययोगव्यवच्छेदं वाक्यार्थं मन्वानो भदन्तः प्रतिज्ञालक्षणमतिव्याप्त्यव्याप्तिभ्याम् आक्षिपति---उभयेति ।
उभयोरवधारणयोः प्राप्तौ संशयेन किमिदमवधार्यते किं चेदमिति प्रसक्तावित्यर्थः ।
प्रतिज्ञावधृतेति ।
यत एवकरणं न ततो ऽन्यत्रावधारणम् इति हि शाब्दा इति भावः ।
व्यतिरेकित्वादिति व्यभिचारादित्यर्थः ।
समाधत्ते---सर्वस्मिन् वाक्ये इति ।
संसर्गो वाक्यार्थ इत्युत्सर्गः ।
क्वचित् पुनरन्ययोगव्यवच्छेदो ऽपीति ।
सामान्यश्रुतौ नियमः इति ।
यथेन्द्रियार्थसन्निकर्षोत्पन्नमित्युक्ते ज्ञानं सुखादि च सामन्येन प्राप्तम् ।
तत्र ज्ञानग्रहणं न विधायकम्, प्राप्तत्वात् ।
अतः सुखादिव्यवच्छेदफलं विज्ञायते ।
यदि त्वस्मद्दर्शनमतिक्रम्य सर्वत्रावधाणं करोति, ततो ऽस्य लोकविरोध इत्याह---सर्वत्र चेति ।
तत् क्रि लोके न क्पचिदवधारणम् इत्यत आह---यत्र चेति ।
चोदयति---ननु चेति ।
सिद्धप्रतिपक्षः साध्यशब्दस्यार्थ इत्यभिप्रायः ।
परिहरति---न सूत्रार्थेति ।
सर्वसन्देहेष्विदमुपतिष्ठते व्याख्यानतो ऽर्थप्रतिपत्तिरिति भावः ।
चोदकः स्वाभिप्रायमुद्घाटयति---अथ पुनरिति ।
असाध्यनिर्देशः सिद्धानिर्देशः ।
तस्य निवृत्तिः साध्यशब्दादवगम्यते, न तु प्रज्ञापनीयो ऽर्थ इत्यर्थः ।
परिहरति---असाध्यं चेति ।
भवेदेतद् यदि सिद्धमात्रमसाध्यं स्यात् ।
अपि त्वनुपपद्यमानं साधन सिद्धिर्यस्य तदप्यसाध्यम् ।
तथा चासिद्धस्य चाक्षुषत्वादेर्निवृत्तिरित्यर्थः ।
पुनश्चोदयति---अथ पुनरिति ।
न कृतकत्वादि सिद्धं नाप्यनुपपद्यमानसाधनम् ।
नापि कृतकत्वादि पराङ्गत्वेनोपात्तं येनाप्रज्ञापनीयं स्यादित्यर्थः ।
परिहरति---नैष दोष इति ।
प्रज्ञापनीयेन धर्मैण धर्मिणो विशिष्टस्य परिग्रहवचनम् इति सूत्रार्थः, न पुनर्धर्ममात्रपरिग्रहवचनमिति ।
अभ्युपगम्य व्यवच्छेदं शब्दार्थमेतदुक्तम्, परमार्थतस्त्वनियमः क्वचित् संसर्गः, क्वचिद् व्यवच्छेद इत्यत आह---यच्चेदमिति ।
इतो ऽपि नासिद्धयोर्हेतुदृष्टान्तयोः प्रसङ्ग इत्याह---साध्यनिर्देश इति च प्रतिज्ञायामिति ।
प्रमाणतन्त्र खल्वभ्युपगमः सिद्धान्तः ।
न च चाक्षुषत्वादिषु प्रमाणमूलता, तदभिमानो ऽपि बाधकादपाकृत इति ।
ननु यदि सर्वतन्त्रसिद्धान्तातिरिक्तानां सिद्धान्तान्तराणां साध्यत्वं तर्हि साध्येनैव चरितार्थत्वाद् अपार्थकं पृथगभिधानमेतेषामिति, अत उक्तम्---अवस्थायामिति ।
विमत्यवस्थायाम्, सर्वतन्त्रे तु विमतिरशक्येत्युक्तम् ।
परिहारान्तरमाह---जिज्ञासादीति ।
धिभागसूत्रेण प्रकरणोत्थानहेतवो वाक्यावयवतया निराकार्यत्वेन जिज्ञासादयो बुद्धिस्थीकृताः ।
तेन यत्र जिज्ञासादयः स साध्यः ।
न च चाक्षुषत्वादिषु प्रमाणबाधितेषु सन्ति त इत्यर्थः ।
परिहारान्तरमाह---अर्हत्यर्थ इति ॥
अपरमपि परिहारमाह---कर्मकरणयोर्वेति ।
एवं तावद् व्युत्पत्त्याद्यालोचनया साध्यशब्दस्य न हेतुदृष्टान्तयोः प्रसङ्गः इत्युक्तम् ।
संप्रति लोक एवातिस्फुटास्तिस्रोविधा अर्थानाम्, कृतमत्र सूक्ष्मानुसरणेनेत्याह---साध्यासिद्धसिद्धभेदादिति ।
अन्यतरासिद्धयोर्हेतुदृष्टान्तयोः प्रसङ्गो मा भूदिति कर्मतया ते उपादीयन्त इत्युक्तम् ।
उभयपक्षेति पक्षशब्दो वर्गवचनः ।
संप्रतिपन्नमुभयोर्वर्गयोरित्यर्थः ।
परिहारान्तरमाह अथ वेति ।
अवयवानामेतत् प्रकरणम् ।
तेषां च प्रधानैकार्थप्रत्यायनेनैकवाक्यताम् आपन्नानामवयवभावः ।
यत्प्रत्यायनोद्देशेन ते प्रवर्तन्ते तत्प्रधानम् ।
धर्मी च सिसाधयिषितधर्मविशिष्टः ।
तथा च न साक्षात् तत्प्रत्यायनाय ते विभवन्तीति तदर्थं साधने व्याप्रियन्ते ।
तेन सिषाधयिषितधर्मविशिष्टो धर्मी तेषां प्रधानं विषयश्च ।
प्रधानं च प्रथमं बुद्धौ विपरिवर्तते इति साध्यशब्देन स एवोच्यते, न तु हेतुदृष्टान्तावप्रधाने इत्यर्थः ॥
तदेवमदुष्टमस्मल्लक्षणमिति यदस्मल्लक्षणमनेन दोषेण भङ्क्त्वा भदन्तेन अन्यथा लक्षणं प्रणीतम्, तदेव दुष्टमित्याह---न चेदयमिति ।
ननु यत्र साध्यपदम् अस्ति भवतु तत्रेष्टग्रहणमनर्थकम्, न त्वस्मिस्तदस्तीति कथमिष्टग्रहणमनर्थकतमित्यत आह---कर्मग्रहणाच्चेति ।
मा भूत् साध्यपदम् ।
अस्ति तु पक्षपदम् ।
तदपि हि पच्यमानं व्यज्यमानं साध्यमेवाह---तच्च कर्म, कर्म चेप्सितमिति प्राप्तुमिष्टमित्यर्थः ।
चोदयति---अथाप्यनिष्टेति, नन्वनिष्टः पक्ष इति विप्रतिषिद्धमित्यत उक्तम्---अर्थतः किलेति ।
वस्तुव्यवस्थापनाय प्रवृत्तस्य तादृशं नेष्टमित्यर्थः ॥
बौद्धपक्षमुपन्यस्यन्नेव मध्ये तदभिमतं किञ्चिन्निराकरोति---अश्रावण इति ।
कृतव्याख्यानमेतत् प्रथमसूत्रे ।
अपि त्वनुमानः कारणतो विकारात् ॥
इत्येवमादेः ।
न हि व्यवङ्गयं व्य।जकं कारणमनुविधीयते ।
नो खलु महती प्रदीपे घटो महान् अल्पे वा अल्प इति ।
महति तु कारणे महान् शब्द इति ।
तस्मात् कारणतो विकारात् कार्यः शब्दः, यथा महद्भिः स्थूलपिण्डैरारब्धो ऽवयवी महानिति ।
तदनेन प्रत्ययभेदभेदित्वं हेतुरुपलक्षितो भवति, आदिशब्देन च सतः शब्दस्य
अभिव्यक्तौ दोषात् ॥
इत्येवमादयो ग्राह्याः ।
दोषश्च दर्भेध्यादिवदुपयुक्तानामृचां निरिष्टिकत्वेन पुनरनुपयोगः, कार्यत्वे पुनरन्यत्वेन न निरिष्टिकत्वामित्यर्थः ।
यद्यप्यागमो ऽपि शब्दानित्यत्वे ऽस्ति यथा सोमं राजानमसृजत ततस्त्रेयो वेदा असृज्यन्त ॥
इति ।
तथापि नासदासीन्नो सदासीदाम्नाय एव खल्वयमग्र आसीत् ॥
इति नित्यत्वे ऽप्यागमदर्शनात् अनिश्चयादनुमानस्यैवात्र प्रामाण्यम् ।
तथा चानुमानविरोध इति ।
प्रसिद्धिविरोधं तु न बुध्यमाहे प्रमाणविरोधाद् भेदेन ।
अबोधमाह---को ऽयं प्रसिद्धिविरोध इति ।
एकग्रन्थेनाह---प्रसिद्धिः प्रत्यक्षादीनामिति ।
अचन्द्रः शशीति ।
यदि चन्द्रे शशिशब्दवाच्यत्वं निषिध्यते, तदा लोकव्यवहारावगतान्वयव्यतिरेकप्रभवानुमानविरोधः ।
अथ विकल्पज्ञानगोचरत्वनिषेधः, ततो भवतां स्वसंवेदनप्रत्यक्षविरोधः ।
अस्माकं तु मानसप्रत्यक्षविरोध इति सर्वथा न प्रमाणादन्या प्रसिद्धिरिति ।
तदेवं बौद्धपक्षमुपन्यस्य तदुक्तान्युदाहरणानि दूषयित्वा बौद्धपक्षमुपसंहरति---एतदर्थेति ॥
तदेतद् दूषयति---एतच्चेति ।
वस्तु हि यादृशं स्वकारणादुत्पन्नं तादृशमेव तत् ।
न तस्यान्यथाभाव इति न तत्र दोषो निविशते ।
तद्विषयाणि पदान्यपि प्रत्येकम् अदुष्टान्येव ।
या पुनः षौरुषेयी दृष्टमन्यत्रार्थमन्यत्र समारोप्य भ्रान्त्या वा परविप्रलम्भाय वा प्रतिज्ञादिरूपेण वाक्यक्रिया, सा स्ववचनविरोधादिशालिनी दुष्टा ।
तद्द्वारेण पुरुषो निगृह्यते, नार्थो न पदानीति ।
स्वार्थापवादः स्ववचनविरोधः कर्तृदोषो भ्रमो वा विप्रलम्भो वा क्रियायामुपचर्यते ।
न च क्रियायां भ्रमो वा विप्रलम्भो वा, तयोरभिप्रायभेदतया पुरुषधर्मत्वात् क्रियाया वस्तुबाधनात् पुरुषाभिप्रायावगतिरिति क्रियाद्वारेणेत्युक्तम् ॥
चोदयति---अथ प्रतिज्ञाया इति ।
तदेतदतिप्रसङ्गेन दूषयति---नैतद् युक्तं हेत्वादीति ।
न पुनर्दूषणानि न्यूनतावयवात्तरदोषाक्षेपभावोद्भावनानीति ।
त्रैरूप्यसंपन्नो हेतुः पूर्णः ।
स त्रिषु रूपेष्वन्यतमेन रूपेण रहितो न्यूनो ऽसिद्धो वा विरुद्धो वा अनैकान्तिको वा भवतीति सो ऽयं न्यूनतादोषो हेतोः ।
अवयवदोषश्च प्रतिज्ञादोषः स्ववचनविरोधादिः ।
हेतुदोषो ऽसिद्धात्वादिः एवमुदाहरणरणदोषः साध्यविकलत्वादिः ।
उत्तरदोषो जातिः प्राप्त्यप्राप्तिसमादिः ।
तस्याक्षेप उपादानं स्वीकार इति यावत् ।
भावो ऽप्रतिभादिः ।
स हि वादिनो वा प्रतिवादिनो वाभिप्रायः ।
तस्योद्भावनानि दूषणनीति ।
न हि संभवे सत्युपचार इति ।
प्रतिज्ञागता हि दोषा यदि तद्गतत्वेन उद्भाव्यमाना न वादिनो निग्रहमापादयेयुः, ततस्तत्र निष्प्रयोजनत्वेनासंभवात् पक्ष एवोपचर्येरन्, पारयन्ति तु प्रतिज्ञागतानि दूषणानि निग्रहितुं वादिनमिति ।
सो ऽयं प्रतिज्ञादोषाणां प्रतिज्ञायां संभव इति ।
कस्मात् पुनर्मञ्चस्था इत्येवं न प्रयु।जते इत्यत उक्तम्---लौकिकप्रयुक्तवाक्यान्वाख्यानम् ।
न, अनादिर्लोकप्रयोगो नियोज्यः पर्यनुयोज्यो वेत्यर्थः ॥
स्यादेतत् ।
इष्टग्रहणमनक्षरारूढमप्यभिप्रायव्याप्तं साध्यं तथा स्यादित्येवमर्थं यथा परार्थाश्चक्षुरादय इति ।
अत्र हि पारार्थ्यमात्रमक्षरारूढम् ।
न च तन्मात्रमस्य साध्यम्, अपि त्वात्मपारार्थ्यम् ।
तच्च नोच्चारयति मा भूदनन्वयो हेतुः संघातत्वादिति ।
तस्मात् तदवरोधायेष्टग्रहणमित्याह---अथेष्टग्रहणेनेति ।
परिहरति---अयमप्यर्थः साधनादेवगम्यते ।
प्रतिज्ञाप्रयोगादेव गम्यते ।
अयमभिसन्धिः ।
वचनलिङ्गाः हि वक्त्रभिप्राया भवन्ति ।
यत्परं च वचनं स वचनार्थः ।
तात्पर्यं चास्य क्वचिद् वाच्ये क्वचिल्लक्ष्य इति सर्व एवासौ वचनार्थः ।
यस्तु नैवंविधः कथमसौ वचनार्थः? कथमसौ वाद्यभिप्रायव्याप्त इत्यवगन्तव्यम्? न च क्वचिदपि पक्षः प्रतिज्ञापदवाच्यः, तस्य वाक्यार्थत्वेन लक्ष्यत्वाद् एवेति ।
अनिष्टनिवृत्तिरिष्टेति ।
तत्साधनमन्विष्यमाणमपि तदानीमिष्टमेव ।
तत्र प्रयत्नानुपपत्तेरिच्छापूर्वकत्वात् तस्येति ।
अथ संशयो विचारणेति ।
ततश्च संशयविषय इष्यमाणो जिज्ञास्यमानश्च साध्य एव भवति, न साधनादिरित्यर्थः ॥
स्थानान्तरीयं च भदन्तस्य लक्षणम्,
साध्यत्वेनेप्सितः पक्षो विरुद्धार्थानिराकृतः ॥
इति दूषयति---एवेनेति ।
अत्रापि हि साध्यपदादूर्ध्वं वृथाक्षरचतुष्टयमिति ।
तथा पक्षो यः साधयितुमिष्टः
इत्यत्रापि वसुबन्धुलक्षणे विरुद्धार्थानिराकृतग्रहणं न कर्तव्यम् ।
एतदुक्तं भवति---न केवलमस्माक्रमेतद् विरुद्धार्थानिराकृतपदमनर्थकं प्रतिभाति, समानतीर्थानामपि तथा विभाति, यतस्तैर्नोपात्तमिति ।
अत एवं वक्तव्यं पक्षो यः साधयितुमिष्ट इति ।
यद्यप्यत्रापि प्रयोज्यप्रयोजकव्यापारयोः साधयितुमिति समानम्, तथापि तुमुना य एव साधयिता वादी स एवैषितेत्युक्तं भवति ।
न पुनर्वादिनो नियोक्ता साधयिता वादी चैषितेति ।
एषितृत्वं च वादिनो ध्रुवं कृत्वैतदुच्यते, यदा पनुरेषितृत्वमपि प्रयोजके संचार्यते, तदा स्वयङ्ग्रहणेनाप्यप्रतीकार इत्यभिप्रायः तत्त्वभाक्तयोश्चेति ।
सिद्धः साध्यस्य प्रयोजकः कर्ता ।
स हि सिध्यन्तं साध्यं वादी तस्मिन्नियं साधना समवेता ।
यस्तु तस्यापि प्रयोजकस्तृतीयस्थानपतितो न तस्मिन् साधना समवैतीति ।
यः कारयति स करोत्येवेति कथञ्चिदस्य भक्त्या कर्तृत्वम्, तच्चायुक्तं सति मुख्ये कर्तरीत्यभिप्रायः ।
आ।जसत्वं मुख्यत्वम् ।
पूवाभिप्रायस्थितमर्थमुद्घाटयति---तुमुनश्चेति ।
अत्रोक्तं भाष्यकारीयाभ्युपगमसिद्धान्तनिराकरणावसरे ऽप्रमाणकमर्थमिति ।
यस्तावत् शास्त्राविरुद्धो ऽर्थः प्रमाणसिद्धः स शास्त्रीय एव शास्त्राभ्युपेतप्रमाणसिद्धत्वात्, तं व्युत्पादयन् न शास्त्रं बाधते ।
यस्तु प्रमाणीकृतवैशषिकतन्त्रः शब्दनित्यत्वं साधयति सो ऽनवधेयवचनः न हेत्वभिधानं यावत् परिषत्प्रतिवादिभ्यां नीयते, अपि तु प्रतिज्ञोच्चारणानन्तरमेव निगृह्यते ।
यस्तु वैशेषिकतन्त्राध्ययनमात्राद् वैशेषिकत्वमात्मनो दर्शयित्वा शब्दनित्यतां प्रतिजानीते नासौ प्रमाणीकृतवैशेषिकतन्त्र इति न निगृह्यते इति ।
यश्चाप्रमाणको ऽभ्युपगम इति ।
अभ्युपगम्यत इत्यभ्युपगमः ।
तदभिधानं प्रतिज्ञेति वक्तव्यमिति ।
साध्यग्रहणात् तद्ग्रहणस्य लाघवादित्यर्थः ।
यस्तु तत्रभवता नैयायिकेन इति पुकृतमुपसंहरति---तस्मादपेतेति
न्य्स्_1,1.34: उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ॥
अवान्तरसंगति प्रदर्शयन् प्रतिज्ञावचनस्य साधनाङ्गत्वमपि दर्शयति---हेतोरवसरप्राप्तस्येति ।
प्रतिज्ञानन्तरं हेतुवचनस्यावसरः ।
तथा हि परप्रत्यायनाय वचनम् उच्चारयन्ति प्रेक्षावन्तः ।
तदेव च परे बोधयितव्या यद् बुभुत्सन्ते ।
तथा सत्यनेनापेक्षिताभिधायिना परो बोधितो भवति ।
नो खल्वाम्रान् पृष्टः कोविदारानाचक्षाणः प्रष्टुरवधेयवचनो भवति ।
अनवधेयवचनश्च कथं प्रतिपादको नाम? यथा च माठर समिधमाहरेति गुरुणा प्रेषित एषोहमाहरामीत्यनुक्त्वा तदर्थं तदर्यं यदायं दात्राय गृहं प्रविशति, तदास्मै कुप्यति गुरः आः शिष्यापसद छान्दसवचर माठर मामवधीरयसीति ब्रुवाणः ।
एवमनित्यं शब्दं बुभुत्समानायानित्यः शब्द इत्यनुक्त्वा यदेव किश्चिदुच्यते कृतकत्वादिति वा, यत् कृतकं तदनित्यमिति वा, कृतकश्च शब्द इति वा तत् सर्वमस्यानपेक्षितम् आपाततो ऽसंबद्धाभिधानबुद्ध्या, तथा चानवहितो न बोद्धुमर्हतीति ।
यत् कृतकं तत् सर्वमनित्यं यथा घटः, कृतकश्च शब्दः इति वचनमर्थसामर्थ्येनैवापेक्षितशब्दानित्यत्वनिश्चायकमित्यवधानमत्रेति चेत्---न, परस्पराश्रयत्वप्रसङ्गात् ।
अवधाने हि सति अतो ऽर्थे निश्चयः ।
तस्माच्चावधानमिति ।
न च परिषत्प्रतिवादिनौ प्रमाणीकृतवादिनौ यदेतद् वचनं संबन्धाय प्रतीक्षेते, तथा च सति न हेत्वाद्यप्यपेक्षेताम्, तद्वचनादेव तदर्थनिश्चयात् ।
अनित्यः शब्द इति त्वपेक्षित उक्ते कुत इत्यपेक्षायां कृतकत्वादिति हेतुरुप तिष्ठते ।
सो ऽयं पञ्चावयवप्रयोगे च तल्लक्षणे च प्रतिज्ञानन्तरकाल एवावसरो हेतोः ।
तदेवं हेतोरवसरप्राप्तस्य सामान्यलक्षणापदेशद्वारेण तद्विशेषलक्षणसूत्रम्---
उदा-तुः
श्रुत्यर्थाभ्यामुभयलक्षणसूचनात् सूत्रम ।
अत्र हेतुरिति लक्ष्यनिर्देशः ।
स च विभागोद्देशे वाक्यावयव इति वचनरूपः ।
तस्य सामान्यलक्षणं साध्यसाधनमिति साध्यते ऽनेनेति व्युत्पत्त्या यद्यपि पारार्थ्यापन्नं कृतकत्वादिकमर्थम् आह, तथापि तस्य वचनात्मकहेतुसामानधिकरण्यानुपपत्तेर्विषयि कृतकत्वादित्यादिकं वचनमुपलक्षयति ।
यदि च वचनं हेतुरित्युच्येत तत्साध्येन समभिव्याहृतं प्रतिज्ञा स्यात् ।
अथ वचनमित्येतावदुच्येत, तदातिव्याप्तिः स्यात् ।
उपचारे तु न क्वचित् प्रसङ्गः ।
उपनयादपि साधनं न पराङ्गतया गम्यते, किं तु प्रातिपदिकार्थप्रधानतया स्वनिष्ठमिति न तत्रापि प्रसङ्गः ।
हेत्वाभासाश्च न साधनमिति साधनपदेनैव निराकृताः ।
न्यायवाक्यावयवत्वादेव च न शब्दे प्रसङ्गः ।
तदेवं समानासमानजातीयव्यवच्छेदकत्वं सिद्धं सामान्यलक्षणस्य ।
इदं चार्थम् ।
श्रौतं तु विशेषलक्षणम् ।
हेतुरिति यद्यपि सामान्यपदम्, तथापि प्रकरणादन्वयव्यतिरेकिहेतुविशेषपरं द्रष्टव्यम् ।
तेन हेतुरिति लक्ष्यनिर्देशः ।
परिशिष्टं तु लक्षणम् ॥
तदेतद् भाष्यकृदृ व्याचष्टे---उदाहरणेनेति ।
साधर्म्यपदव्याख्यानं सामान्यादिति ।
साध्यसाधनपदव्याख्यानं साध्यस्य धर्मस्येति ।
साध्यस्येति धर्मिमात्रे बुद्धिर्मा भूदित्यत उक्तं धर्मस्येति ।
धर्मसहितस्य धर्मिण इत्यर्थः ।
एतदेव स्फुटयति---साध्ये प्रतिसन्धायेति ।
उदाहरणसाधर्म्यात् साध्यस्येत्यनेनान्वयपक्षधर्मत्वे अन्वयव्यतिरेकपक्षधर्मत्वानि च दर्शितानि ।
साध्यसाधनमित्यत्र च साध्यग्रहणेनाबाधितविषयत्वासत्प्रतिपक्षत्वे सूचिते, तद्विपरीतस्य साधनानर्हत्वादिति ॥
तदेतद् वार्त्तिककारो व्याचष्टे---उदाहरणेनेति ।
यो धर्मो धूमादि---साध्ये भवति स तथाभूत एवोदाहरणे ऽपीति ।
उदाह्नियत इत्युदाहरणं दृष्टान्तधर्मी तस्मिन् न पुनः स एव ।
कुतः? अन्यधर्मस्येति ।
यदि तर्हि नान्यस्य धर्मो ऽन्यत्र वर्तते, कथं तर्हि समानता? सा हि तत्त्वान्यत्वविरोधिनीत्यत आह---किं तु तत्तुल्यः स एवेत्युच्यते, यथा तानेव शलीन् उपयुङ्क्ते तानेव तित्तिरीनीति तदनेन सामान्याद् इति भाष्यं व्याख्यातम् ॥
उदाहरणग्रहणप्रयोजनमाह---यदि पुनरिति ।
साधर्म्यमात्रत्वं हि विरुद्धे चासाधारणे सव्यभिचारे चास्तीति तेषामपि वचनं हेतुः स्यात् ।
तेषामपि यथास्वं साधारणत्वादित्यनिष्टमित्यर्थः ।
ननु तथापि सव्यभिचारे ऽप्युदारणसाधर्म्यमिति कथं निवर्त्यते इत्यत आह---उदाहरणेति ।
विशिष्टविधानस्य शेषनिषेधो ऽर्थसिद्ध इत्यर्थः ।
पक्षान्तरमाह---अवधारणेन वेति ।
साधर्म्यादित्यतो विशेषेण सर्वसाधर्म्यप्राप्तौ उदाहरणसाधर्म्यमपि प्राप्तमेवेति विधानानर्थक्यं परिसंख्यायकं सदवधारणार्थमेव भवति ।
तदवद्योतनाय च एवकारः साधर्म्यमेव इत्यत्र साध्यपदं योजनीयम् ।
तेन साध्यैकदेशासिद्धिमपाकरिष्यति ।
पृच्छति---कस्य पुनरिति ।
उत्तरम्---कस्यान्यस्येति ।
अत्रैव हेतुद्वययाह---प्रकृतत्वात् प्रत्यासत्तेश्च ।
साध्यं खल्वत्र प्रकृतं प्रधानम्, तदुद्देशेन अवयवानां प्रवृत्तेः ।
साध्यसाधनमिति च पदेन सन्निधापितमिति तदेव द्वितीयम् अवधारणं स्फुटीकरोति---अत्रापि चेति ।
साध्ये प्रतिसन्धाय इति भाष्यार्थमाह---साध्योदाहरणाभ्यामिति ।
द्वाविति ।
सपक्षव्यापकाव्यापकावित्यर्थः ।
अनैकान्तिकस्य चेति ।
साधारणस्य असाधारणस्य चेत्यर्थः ।
एवं भाव्यमानेनेति ।
परिभाव्यमानेन ।
नातिप्रसक्तस्येति, परिसख्यायकं हेत्वाभासलक्षणं न विधायकमित्यर्थः ॥
एतत् किल हेतुलक्षण भदन्तो दूषयांबभूव साधनं यदि सार्ध्म्यं न वाक्यांशः,
न ह्यर्थः पञ्चावयववाक्यस्यावयवः ।
यदि साधनसाधर्म्ययोरत्यन्ताभेदो यदि वा सामान्यविशेषभावेन कथञ्चिद् भेदः उभयथापि न पञ्चमी, साधनसामानाधिकरण्येन प्रथमाप्रसङ्गात् ।
अत्यन्ताभेदे चैकतरपदाप्रयोगात् ।
वाक्यं चेत् ततः पञ्चम्युपपद्यते ।
साधनं हि वाक्यरूपु साधर्म्यादर्थादुत्थितं यतः ।
तद्विशेष्यं स्यात्
न हि वाक्यमेवार्थादुत्थितम्, अपि तु विवक्षाद्यपीति ।
न विशेष्यम्, कुतः?
साधनत्वादसंभवः ॥
अर्थसमुत्थानामपि ज्ञानविवक्षादीनामप्रसङ्गः, असाधनत्वादिति ।
न तत्रापि द्विधा दोषात् साक्षाद् वा साधनं पारम्पर्येण वा? यदि पारम्पर्येण, वक्तृज्ञानं तर्हि साक्षात् साधर्म्यसमुत्थं पारम्पर्येण च श्रोतुः साध्यविज्ञानसाधनं हेतुः स्यात् ।
अथ साक्षात् साधनम्, तर्हि श्रोतृज्ञानं पारम्पर्येण साधर्म्यसमुत्थं साक्षात् साधनं हेतुः स्यात् ।
प्रकृते त्वन्यसंभवनः ।
यदि तु पञ्चावयववाक्यस्य प्रकृतत्वात् ज्ञानादिव्यवच्छेदः, तथाप्यन्यसंभवः, उपनयस्यापि साधर्म्यसमुत्थात्वात् ।
स्वलक्षणेन बाधा चेन्न विकल्पादिसंभवात् ॥
तस्मात् षष्ठ्यस्तु तत्रापि विशेषणमनर्थकम् ।
साधर्म्यस्य हेतुरित्येतावन्मात्रं वक्तव्यमिति ॥
तदेदत् दिग्नागदूषणमुपन्यस्यति---उदाहरणसाधर्म्याच्चेति ।
यद्यर्थात्मकं साधर्म्यमेव साधनमुच्यते तदैतद् दूषणमित्यर्थः ।
यदि पुनरर्थात्मकस्य साधर्म्यस्यार्थात्मकमेव साधनं सामान्यमुच्यते, तत्राह---अथ पुनरिति ।
तदिदमुक्तं भदन्तेन---न पञ्चमी ॥
अन्ये त्वेतदन्यथा व्याचक्षत इत्याह---अन्ये त्विति ।
विशेषातिरिक्तं न सामान्यं नाम किञ्चिदस्ति, तस्य कल्पनामात्रत्वाद् भेदस्य च वस्त्वधिष्ठानत्वादित्यभिप्रायः ।
दोषान्तरमाह---साध्यसाधनेति ।
यदा हि साध्यसाधनं नामोदाहरणसाधर्म्यादतिरिक्तं नास्ति किं तु शब्दमात्रमवशिष्यते, तदोदाहरणसाधर्म्यनेनाभिधेयत्वेन विशेषणीयम् ।
तथा च साध्यनिर्देशः प्रतिज्ञा इत्यनेन विरोधः ।
अनेन ह्यवयवः शब्दात्मकः प्रतिज्ञा लक्ष्यते ।
हेत्वादिसमुदायापेक्षया चावयवो भवति ।
न चाभिधानाभिधेयात्मकः समुदायो दृष्ट इति ।
तस्मात् समुदायाभावात्
नोभयेषामवयवत्वम् ।
तदिदमुक्तम्---न वाक्यांश इति ।
तदेतल्लक्षणं व्याचक्षाणैरस्माभिः परिहृतमिति न परिहारान्तरं प्रयोजयतीत्याह---तत्र त्विति ।
उक्तं यथा हेतुपदसन्निधौ साधनपदं हेतुपदे प्रवर्तते, न चोपनयप्रसङ्गः, तस्य प्रातिपदिकार्थमात्रप्रधानत्वेन हेतुभावाप्रकाशकत्वादिति ॥
अत्र चोदयति---साधर्म्यस्येति ।
साधर्म्यस्य लिङ्स्य कृतकत्वादिहेतुपदवाच्यस्य व्यभिचारित्वादियोगादुदाहरणविशेषणयोगो न पुनः साध्यसाधनपदवाच्यस्य कृतकत्वादित्यादेर्हेतुवचनस्येत्यर्थः ।
तदुक्तं भदन्तेन---तत्रापि विशेषणमनर्थकं वचने अपीत्यर्थः ।
तदेतद् दूषयति---वचस इति ।
वचनमपि दर्शनभेदेन उभयथापि भवति, यथा मीमांसकानां नित्यं वचनम्, वैशैषिकाणामनित्यमिति ।
केषाञ्चिदमूर्तः शब्दः, केषाञ्चित् मूर्त इति ।
यथाहुः
वायुरापद्यते शब्दताम्
इति ।
तथा प्रातिस्विकमपि भेदं सर्वेषामेव शब्दानामितिकरणो दर्शयतीत्याह---दृष्टश्चेति ।
स्वचरितविरोधमाह---स्वयमिति ।
अनूभ्युपगतेति ।
अनभ्युपगतो ऽर्थान्तरं विपक्षो यस्य हेतोरनित्यत्वे साध्ये कृतकत्वादेः स तथोक्तः ।
यदभ्युपगतं भदन्तेन तस्मात् षष्ट्यस्त्विति तद् दूषयति---यदपीति ।
विवक्षातः कारकशब्दप्रयोगादिति ।
कारकत्वेन संबन्धित्वं लक्षणीयम्, क्रियाकारकभावगर्भत्वात् संबन्धित्वस्य ।
न तु षष्ठी वा हेतुपञ्चमी वा कारकविभक्तिरिति ।
अत्र भाष्यकारेण शुद्धं हेतुवचनमुदाहृतम्---उत्पत्तिधर्मकत्वादिति तस्य चोदाहरणसाधर्म्यसमुत्थत्वज्ञापनायोदाहरणमपि दर्शितम् उत्पत्तिधर्मकमनित्यं दृष्टमिति ॥
तत्र भाष्यकारेण शुद्धं हेतुवचनमुदाहृतम् ।
तत्प्रतिज्ञापदेन पूरयित्वा बार्त्तिककृद् आह---उदाहरणमिति ।
अत्र पृच्छति---किं पुनरिति ।
सतो विनाशो वा अनित्यत्वम्, तद्योगो वा? तच्चेभयमयुक्तम्, न हि सदसतोः कश्चिदस्ति संबन्धः, असमानकालत्वात् ।
ततश्चानित्यः शब्द इति समानाधिकरण्यं न स्यात् ।
अपि च शब्दस्य भूत्वा यदभवनम्, न तदेव पिठरस्य ।
न ह्यभवनत्वं नामास्ति सामान्यम्, येन दृष्टान्तो न साध्यविकलः स्यात् ।
न च सामान्यातिरिक्तं सादृश्यं वस्त्वन्तरं दृष्टमिष्टं वा ।
तस्मात् मृष्टाशेयमनित्यत्वं साध्यमिति भावः ।
गूढधिय उत्तरम्---यस्यानित्यत्वमस्ति तदनित्यम् ।
स्वाभिप्रायेण पृच्छति---अथेति ।
उत्तरवाद्यभिप्रायमुद्घाटयति---उभयान्तेति ।
अपरान्तेति वक्तव्ये उभयान्तग्रहणेन पूर्वान्तनिवेशनं हेतोरुत्पत्तिमत्त्वस्यात्यन्तिङ्कीं प्रत्यासत्तिमविनाभावोपयोगिनीं दर्शयितुमिति ।
अवच्छेदकत्वं चोपलक्षणत्वम्, न तु विशेषणत्वम् ।
तच्चापरान्तस्य भिन्नकालस्य संबद्धस्यापि विरोधितया बुद्धिस्थस्य संभवति ।
तथा च यैवापरान्तावच्छिन्नस्य सत्ता पिठरस्य सैवापरान्तावच्छिन्नस्य शब्दस्यापि ।
एवं सत्तासमवायो ऽपि तद्विधयोः पिठरशब्दयोः समानः ।
विरोघिभावः पश्चाद्भावश्चाभावमात्रात् प्रध्वंसस्य विशेषः ।
पृच्छति---अथोत्पत्तीति ।
न तावदुत्पन्नस्योत्पत्तिर्धमः, तदाप्युत्पद्यत इति प्रत्पयप्रसङ्गात् ।
नाप्यनुत्पन्नस्य असतो धर्मित्वायोगादिति भावः ।
गूढधिय उत्तरम---उत्पत्तिरिति ।
उक्ताभिप्रायवान् पुनः पृच्छति---का पुनरियमिति ।
उत्तरम्---असद्विशेषणस्य सतो ऽत्यन्तमभावभावप्रतिषेधः असदिति प्रागभावमाह, विशेषणत्वं च प्रागभावस्य उपलक्षणत्वम् ।
तच्च भिन्नकालस्यापि बुद्धिसथतामात्रेणोक्तम् ।
तेनासद्विशेषणस्य सत इत्येतावतैव पूर्वान्तपरिच्छिन्नस्य सत्तासंबन्धः सत्ता वा तद्विशेषणोत्पत्तिर्दर्शिता ।
पश्चेदृशस्तस्य गगनवत् नात्यन्तं संभवः, नापि गगनकुसुमवदत्यन्ताभाव इति स्वरूपमुक्तमुत्पत्तिमुपर्लक्षयितुम् ।
उपलक्षणोपलक्ष्ययोश्चाभेदविवक्षया सामानाधिकरण्यम् ।
न चैवं लब्धोत्पत्तिनि वस्तुनि उत्पद्यत इति प्रत्ययप्रसङ्गः ।
लभ्यमानोत्पत्तिनि तदवयवेषु तदुत्पादनानुकूलव्यापारावेशलब्धपूर्वापरीभावेषु तत्प्रयोगसय लोके दर्शनात् ।
तस्मात् पूर्वान्तावच्छिन्नवस्तुसत्तया तत्संबन्धेन वा तस्यैव वस्तुनो ऽपरान्तावच्छिन्ना सत्ता वा तत्संबन्धो वा ज्ञाप्यते इति सर्वं रमणीयम् ॥
ननु भाष्यकृद् अभूत्वा भवतीत्यस्य वाक्यास्यार्थमुत्पत्तिं वक्ष्यति, त्वं पुनरसद्विशेषणस्य सतो ऽत्यन्तमभावभावप्रतिषेध इत्यस्य वाक्यस्यार्थमुत्पत्तिम् ।
अतः कुतो न विरोध इत्यत आह---वाक्यार्थेति ।
य
एवार्थो भाष्यकारेण उत्पत्तिशब्दार्थतयाभ्यनुज्ञातो ऽङ्गीकृतः, स एवास्माभिरपि ।
नात्यन्तमभावभावप्रतिषेध उत्पत्तिः, अपि स्वसद्विशेषणस्य सतः सत्ता वा तत्संबन्धो वेत्युक्तमित्यर्थः
न्य्स्_1,1.35: तथा वैधर्म्यात् ॥
सूत्रान्तरमवतारयति---किमेतावदिति ।
तथा---त्
अत्र यदि वेधर्म्यादित्युच्यते ततः सकलकेसरादिमत्पदार्थपक्षीकरणेनाश्वत्वं यदा विषाणित्वेन साध्यते तस्यास्ति पक्षवैधर्म्यमिति हेतुः स्यादित्यत आह---उदाहरणेन वैधर्म्यमिति ।
विपक्षेणेत्यर्थः ।
तथापि यदा शरीरमात्रं पक्षीकृत्य सात्मकत्वं साध्यते प्रामादिमत्त्वेन, तदास्ति तस्योदाहरणेन वैधर्म्यमिति सो ऽपि हेतुः स्यादित्यत आह---एवेति ।
न चैतावता सपक्षे सत्त्वप्रसङ्गः, सपक्षस्याभावात् ।
अवधारणस्य च व्याप्त्या पक्षसत्त्वेनोपपत्तेरिति ।
तथापि अन्वयव्यतिरेकिणो हेतारनैकान्तिकस्य विपेक्षैकदेशव्यापिनः संग्रहः स्यात् ।
यथा अनित्यः शब्दः, उत्पत्तिधर्मकत्वाद् अनित्यो मूर्तत्वादित्यत आह---वैधर्म्यमेव चोदाहरणेनेति विपक्षोदाहरणेनेत्यर्थः ।
भाष्यकारीयमुदाहरणं निगदेनोपन्यस्यति---अनित्यः शब्दः ।
इति ।
नित्यमनुत्पत्तिधर्मकं दृष्टमिति योजना ।
तदेतद् दूषयति---एतच्चेति ।
मा भूत् प्रयोगमात्रभेदाद् भेदः, उदाहरणभेदाद् भेदो भविष्यतीत्यत आह---उदाहरणमात्रभेदाच्चेति ॥
तदेतद् भाष्यकारीयमुदाहरणं दूषयित्वा स्वकीयमुदाहरणमाह---उदाहरणं त्विति ।
प्राणादिना च स्वकारणं प्रयत्नेच्छाद्युपलक्षयति---यदुभयपक्षसंप्रतिपन्नं निरात्मकं घटादि तत्सर्वमप्राणादिमद् दृष्टम् इति व्यत्यासेन योजना ।
प्राणादिकारणेच्छादिकारणरहितं यदित्यर्थः ।
तत्मात् नेदमिति ।
नेच्छादिसमवायिकारणरहितम् ।
यश्चासौ इच्छादिसमवायिकारणं पृथिव्यादिविलक्षणो द्रव्याणां नवमः, स आत्मेत्युच्यते इत्यर्थः ।
अन्वयिव्यतिरेकिणस्तद्विवेकस्य च तन्त्रान्तरप्रसिद्धेन नाम्ना तन्त्रान्तरप्रसिद्धतां दर्शयति---सो ऽयमवीत इति ।
विविधेन प्रकारेण इतः प्राप्तो वीतः, पक्षव्यापकत्वे सति सपक्षव्याप्त्या अव्याप्त्या च, तस्मादन्यो ऽवीत इति ॥
गूढाभिसन्धिः पृच्छति---कथं पुनरिति ।
गूढाभिसन्धेरुत्तरम्---अथ यो ऽभ्यनुज्ञात इति ।
यथा वीतस्यार्थपरिच्छेदकत्वं तथैवावीतस्येत्यर्थः ।
प्रष्टा स्वाभिप्रायम् उद्घाटयति---अन्वयादिति ।
गृहीताविनाभावो हि हेतुः साध्येन तस्य परिच्छेदकः, स च दृष्टान्तधर्मिणि हेतुसाध्यधर्मयोर्दर्शने सत्यविनाभावो दृष्टो भवति ।
न च सात्मकत्वं क्वचिद् दृष्टम्, तत् कथं तेनाविनाभावदर्शनं प्राणादिमत्त्वस्य, दर्शने वा नावीतः किं तु वीत एवेत्यर्थः ।
उत्तरवादी प्रष्टारं पृच्छति---अथ प्रमेयत्वमिति ।
प्रष्टा आह---व्यभिचारादिति ।
उत्तरवाद्याह---न तर्ह्यन्वय इति ।
स एवैकग्रन्थेनाह---यदि चेति ।
तदेवमुत्तरवादिना स्वाभिप्राय उद्घाटितः ।
पृच्छति---कथम् ।
अव्यभिचारित्वं व्यतिरेकिण इति ।
अव्यभिचारमाह---यावदिति ।
अत्रापि यावन्निरात्मकं तत् सर्वम् अप्राणादिमद् दृष्टमिति व्यत्यासेन योजना, साध्यविपर्ययस्य व्याप्तत्वात् ।
व्यापकनिवृत्तौ च व्याप्यं निवर्तते, यथा वृक्षत्वनिवृत्तौ शिंशपात्वम् आरादुपलभ्यमानादेकशिलामयादचलप्रदेशादित्यर्थः ।
यदि पुनरेवमुच्यते निवर्ततामप्रामाणादिमत्त्वं जीवच्छरीरात् प्राणादिमत्त्वस्य प्रमाणत उपलब्धेर्मा निवर्तिष्ट नैरात्म्यम्, तस्माद्
व्यभिचारादहेतुरिति शङ्कते---अथ पुनरिति ।
निरारोति---न युक्तमेवमिति ।
किं जीवच्छरीरे साध्ये नैरात्म्यनिश्चयाद् व्यभिचार उत तत्सन्देहात्? यदि निश्चयात्, कृत व्यभिचारेण, बाधितविषयत्वेनैव हेतोरपाकरणात् ।
अथ सन्देहात्, तथा सत्यन्वयिनो ऽप्यहेतुत्वे सर्वानुमानोच्छेदप्रसङ्ग इत्यर्थः ॥
शङ्कते---सर्वात्मकत्वप्रसङ्ग इति चेत्? निराकरोति---न, विकल्पानुपपत्तेः ।
शङ्कावाक्यं विभजते---यदीति ।
न तावदयुमात्मा नाम प्रमाणेन क्वचिदुपलब्धः, यस्य प्रतिषेधो नैरात्म्यमवगम्येत, तदुपलम्भे वा कृतमनया कुसृष्ट्या ।
तस्मात् कल्पयित्वात्मानमप्रामाणिकं तत्प्रतिषेधस्य घटादावप्राणादिमत्त्वेन व्याप्तिं गृहीत्वा जीवच्छरीरे व्यापकस्याप्राणादिमत्त्वस्य निवृत्त्या नैरात्म्यस्य व्याप्यस्य निवृत्तेरात्मा अवगन्तव्यः ।
एवं च सति कल्पनाकोषस्यापरिमेयत्वात् यद् यदेव कल्प्यते तत्तदभावस्यधटादौ सुलभत्वाद् अप्राणादिमत्त्वेन व्याप्तेर्जीच्छरीरे ऽप्राणादिमुत्त्वस्य व्यापकस्य निवृत्तेरात्मसद्भाववत् सकलकाल्पनिकडित्थादिमत्त्वप्रसङ्ग इत्यर्थः ॥
निराकरणवाक्यं विभजते---तच्च नैवम् ।
कस्मातृ---विकल्पानुपपत्तेः ।
विकल्पयति---किमिति ।
अयमर्थः ।
प्राणादयो हिच्छाद्यन्वयव्यतिरेकानुविधायिभावाभावतया इच्छादिकार्याः, अक्षणिकत्वे च व्यवस्थिते कार्यं समवायिकारणापेक्षमितीच्छादीनां समवायिकारणेन भवितव्यम्, कार्यत्वाद् घटादिवत्, शरीरेन्द्रियादीनां च समवायिकारणत्वनिषेधे सति यद् इच्छादीनां समवायिकारणं परिशिष्यते, तद् द्रव्यमात्मेति च क्षेत्रज्ञ इति च जीव इति चाख्यायते ।
तदस्य विशेषतो ऽनवगतस्यापीच्छादिसमवायिकारणतया सामान्यरूपेणावधारितस्य शक्यः प्राणादिरहितेषु घटादिष्वभावः प्रतिपत्तुम् ।
निरात्मकशब्देनापि चायमेवार्थ उच्यते ।
अनेन प्राणादिलक्षणकार्याभावेन घटादौ नैरात्म्यलक्षणकारणाभावस्य व्याप्तिरवधारिता ।
सो ऽयं जीवच्छरीरे कार्यस्याभावो व्यापको निवर्तमानः स्वव्याप्यं तत्कारणाभावमादाय निवर्तते इति सिद्धं जीवच्छरीरे प्राणकारणम्, स चात्मेति ।
यदि च डित्थादयो ऽपि तादृशाः, तदा आत्मनो नामान्तराणि नार्थान्तराणि ।
नामानि च लोकतन्त्राणि, न त्विच्छातन्त्राणीति ।
अवधारितं कार्यं प्राणाद्युपलक्षितमिच्छादि यस्य सो ऽवधारितकार्यः, स एव स्वभावो यस्य स तथोक्तः ।
एतदुक्तं भवति ।
सामान्यतस्तावदिच्छादीना कार्यत्वेनान्वयव्यतिरेकिणा हेतुना समवायिकारणवत्त्वमुनमितम् ।
उभयसिद्धश्च घटादाविच्छादिकारणाभावः ।
ये ऽपि हि नैरात्म्यवादिनो बुद्धिं वा भूतपतिणामभेदं वा इच्छादिकारणमाचक्षते, ते ऽपि घटादौ न तदातिष्ठन्ते ।
तस्मादुभयसिद्धनैरात्म्या घटादयः ।
तेषु चेच्छादिकार्याभावेन नैरात्म्यं व्याप्तम् ।
सो ऽयं जीवच्छरीरे कार्याभावो व्यावर्तमानः कारणाभावं व्यावर्तयति ।
न च कार्येणैव कारणमनुमीयतां जीवच्छरीरे, किं व्यतिरेकिणा,
ऋजुमार्गेण सिध्यन्तं को नु वक्रेण साधयेत्
इति वाच्यम्, कारणमात्रस्य ततः सिद्धेरित्युक्तम् ।
परिशेषाद् विशेषसिद्धिरिति चेत्? स एव व्यतिरेकीत्युक्तम् ॥
यदि हि पृथिव्यादिसमवायिकारणा इच्छादयो भवेयुः, घटादिष्वपि प्रसज्येरन् ।
तस्माद् घटादिष्विच्छादिकार्यनिवृत्त्या द्रव्याष्टकातिरिक्तकारणनिवृत्तिर्व्याप्ता दृष्टेतीच्छादयः शरीरे दृश्यमाना व्यापिकां स्वनिवृत्तिं निवर्तयन्तो व्याप्यद्रव्याष्टकातिरिक्तकारणाभावनिवृत्तिमुखेन नवमं द्रव्यं साधयन्ति ।
न चैषां बुद्धिरेव समवायिकारणम्, द्रव्यस्यैव समवायिकारणत्वनियमाद् बुद्धेश्चाद्रव्यत्वात् ।
यथा च भूतानां परिणतिभेदो न कारणं तथा हि तृतीये उपपादयिष्यते ।
व्यतिरेकमुखेनापि प्रामादेः सात्मकत्वेनान्वयसिद्धौ न केवलव्यतिरेकीति चेत्? न स्वाभावविकं साध्येन प्रतिबन्धमन्वयव्यतिरेकिणि व्यासेधामः, किं तु सपक्षाभावेन विधिमुखेनास्य प्रतिबन्धं निराकुर्मः ।
एतावतैव चान्वयिनो भिद्यते ।
न च पक्ष एव सपक्षः, जिज्ञासितविशेषस्य ज्ञातविशेषादन्यत्वात् ।
शरीरादिषु च सत्सु नैरात्म्यनिषेध एवात्मसद्भावः, असन्निषेधस्य सद्भावलक्षणत्वात् ।
सपक्षाभावस्तु नैरात्म्येनाप्यव्यपदेश्य इति कथं नैरात्म्यनिषेधेन व्यपदिश्यताम्? असतो ऽधिकरणत्वायोगादित्युक्तम् ॥
एतेन परैः यदुक्तम्,
सपक्षाव्यतिरेकी चेद् भवेद्धेतुरतो ऽन्वयी ।
नान्वयव्यतिरेकी चेदनैरात्म्यं न सात्मकम् ॥
इति, तदनेन निराकृतम् ।
एतच्चास्माभिरन्वयिहेतुसमर्थनेन स्फुटीकृतम् ।
तस्मात् सर्वमवदातम् ॥
विपक्षव्यतिरेकमात्रेण व्यतिरेकिणो गमकत्वं मत्वा चोदयति---यदि तर्हीति ।
परिहरति---न, हेत्वर्थापरिज्ञानादिति ।
न वैधर्म्यमात्रेण गमकत्वम्, अपि त्वव्यभिचारिणा ।
स चात्राव्यभिचारो नास्तीत्यर्थः ।
ननु मा भूद् गन्धवत्त्वं हेतुर्व्यतिरेक व्यभिचाराद् अनित्यादिवन्नित्यादप्यस्य व्यतिरेकात्, तस्य तु पक्ष एव केवलं न तु सपक्षविपक्षौ, न तसय व्यतिरेकव्यभिचारो ऽस्तीति स कस्मात् न हेतुरिति चोदयति---यः पुनरिति ।
परिहरति---सत्यमिति।व्यतिरेकधर्मो ऽव्यभिचारो नासति व्यतिरेके संभवति, असतो ऽधिकरणत्वायोगादित्युक्तत्वादिति ।
प्रत्युदाहरणान्तरं दर्शयति---एतेनेति ।
एतेन विपक्षाभावात् ततो व्यावृत्त्यभावेनेत्यर्थः ।
चोदयति---यः पक्षैकदेश इति ।
यदि हि पक्षैकदेशवृत्तिरपि विपक्षाभावात् न व्यतिरेकी हेतुः, तर्हि तस्य पक्षैकदेशवृत्तेरपि सतो विपक्षनिवृत्तिरस्ति स हेतुः प्रसज्येत ।
अस्ति खल्वस्योदाहरणवैधर्म्यमेवेति व्यतिरेकिहेतुलक्षणमित्यभिप्रायः ।
परिहरति---अयमपि न हेतुः, कस्मात्? सूत्रार्थेनापोदितत्वात् ।
तं सूत्रपाठपूर्वकं दर्शयति---सूत्रार्थ इति ।
अत्र च येन पक्षैकदेशवृत्तेर्व्यतिरेक्याभासस्य निराकरणं तदवधारणं प्रथमं दर्शितम् ।
उदाहरणेनैव वैधर्म्यं नानुदाहरणेन पक्षेणापि ।
अस्य तु पक्षेणापीति व्यतिरेक्यपि न हेतुः, न पुनर्वैधर्म्यमेवेति सूत्रार्थः ।
तथा सति सव्यभिचारमात्रस्य निवृत्तिः स्यात्, न तु पक्षैकदेशवृत्तेरित्यर्थः ॥
संप्रति वासुबन्धवं हेतुलक्षणं दूषयितुमुपन्यस्यति---हेतुर्विपक्षाद्विशेष इत्यन्ये ।
एतद् व्याचष्टे---अन्ये त्विति ।
साधर्म्यमात्रनिराकरण इति ।
यस्य कस्यचित् साधर्म्यस्य निराकरणे ।
विपक्षसाधर्म्यनिराकरणे तावदिष्टस्य संग्रहः ।
यदा तु सपक्षादिसाधर्म्यनिराकरणम्, तदा अनिष्टस्य विरुद्धादेः संग्रहः ।
उपलक्षणं चैतत् ।
इष्टानिष्टसंग्रह इति, इष्टपरित्याग इत्यपि द्रष्टव्यम् ।
स चानेकभेद इति ।
सपक्षादपि विशेषे सति विपक्षाद् विशेषः, पक्षादपि विशेषे सति विपक्षाद् विशेषः, विपक्षमात्राद् वा विशेषः इति प्रकाराः ।
तत्र पूर्वयोः प्रकारयोर्यथाक्रममसाधारणस्य चासिद्धस्य च हेतुत्वप्रसङ्ग इति ।
तन्निवृत्त्यर्थ विपक्षादेव इत्यवधार्यते ।
द्वितीयमवधारणमवतारयितुमाह---अवधारणे चेति ।
विपक्षादेवेत्यनेनावधारणेन विशेषो ऽवधारितः, न विपक्षः ।
स चायं विशेषे चाविशेषे च प्रसृत इति विपक्षेकदेशवृत्तेरपि पक्षसपक्षसाधारणस्य हेतुत्वप्रसङ्गः ।
तन्निवृत्त्यर्थं द्वितीयमवधारणं विशेष एवेति ।
उपसंहरति---तदेवमिति ॥
तदेवदव्यापकत्वेन दूषयति---सत्यमेक इति ।
अत्र चोदयति---विपक्षैकदेशवृत्तिप्रतिषेधादिति ।
विशेष एवेत्यवधारणेन विपक्षैकदेशवृत्तिः गौरयं विषाणित्वादिति हेतुत्वेन प्रतिषिद्धः ।
तस्मादेतस्मिन्नवधारणे सत्येव विपक्षादेवेत्यवधारणीयम् ।
तथा च विपक्षादेव यो विशेष एव स हेतुः ।
सपक्षात्तु यो विशेष एव स न हेतुरित्युक्तं भवति ।
यथा च अश्वो ऽयं विषाणित्वात् इति सपक्षाद् विशेष एवेति हेतुत्वेन प्रतिषिद्धो भवति ।
यस्तु सपक्षैकदेशवृत्तिः प्रयत्ननान्तरीयकत्वादिः स सपक्षाद् विशेष एव न भवति, अपि तु सामान्यमपीति ।
न तस्याहेतुत्वमवधारितमिति हेतुरेवासावित्यर्थः ।
परिहरति---यद्येवमिति ।
यदि सपक्षादपि यो विशेषः स सपक्षैकदेशवृत्तिः प्रयत्नानन्तरीयकत्वादिर्हेतुः, एवं सति विपक्षादेवेति अवधारणं बाधितं भवति ।
शङ्कते---अथेति ।
न विपक्षादेवेत्येतन्मात्रमवधार्यते येन सपक्षैकदेशवृत्तिः प्रयत्नान्तरीयकत्वादिनर्न हेतुः स्यात्, अपि तु यो विशेष एव स हेतुरिति प्राप्ते विपक्षादेवेति नियम्यते, तेन सावधारणस्य विशेषस्य विपक्षवृत्तेर्हेतुत्वं प्रतिषिद्धं भवति यथा अश्वो ऽयं विषाणीत्वादिति ।
यः पुनर्विशेषश्चाविशेषश्च सपक्षे हेतुः, तस्य हेतुत्वे ऽपि न विपक्षादेवेति बाधितं भवति ।
यद्यपि चैवं सत्यपि सपक्षैकदेशवृत्तेर्हेतुत्वं न श्रुतम्, तथापि विपक्षादेवेत्यनेनावधारणेनानिषिद्धमित्यनुमतमेव ।
तेन चाश्रुतेनार्थेनार्थवती अवधारणे इत्यर्थः ॥
निराकरोति---एवं चेति ।
यथा तत्तुल्यैकदेशवृत्तेरविहितमपि हेतुत्वमनिषेधानुमतम्, एवं पक्षैकदेशवृत्तेरपीति सो ऽपि हेतुः स्यादित्यर्थः ।
पुनः प्रत्यवतिष्ठते---नैष दोष इति ।
पक्षधर्मत्वे सति विशेष एव विपक्षादेवेति नियमे कुतः पक्षैकदेशवृत्तेः प्राप्तिः, अपक्षधर्मत्वात् तस्येत्यर्थः ।
परिहरति---यो धर्मः पक्षस्येत्यनेनेति ।
पर आह---न कर्तव्यत इति ।
दूषयितुमवधारणं विकल्पयति---किं पुनरिति ।
प्रथमं कल्पं गृह्णाति---अस्तु तावदिति ।
एतमपि दूषयितु विकल्पयति---किं पुनरस्येति ।
सामर्थ्य प्रयोजनाभिसंबन्धः संभवज्ञापनपक्षे ऽज्ञापननिवृत्तिः प्रयोजनम्, असंभवनिवृत्तिपक्षे तु अत्यन्तायोगव्यावृत्तिः फलम् ।
यथा नीलं सरोजं भवत्येवेति ।
विकल्प्य दूषयति---उभयथापीति ।
युक्त्यन्तरमाह---न चेति ।
अत्यन्तायोगो निषिद्धो भवति, न त्वयोग इत्यर्थः ।
शङ्कते---अथेति ।
विशेषणसंगतो ह्येवकारो ऽयोगं व्यवच्छिनत्ति ।
यथा चैत्रो धनुर्धर एवेति ।
हेतुर्विशेषणं चेत् अपक्षधर्म एवेति ।
तस्मात् सिद्धं पक्षैकदेशे वृत्तेर्निराकरणमित्यर्थः ।
निराकरोति---सत्यमिति ।
शेषमनुमानसूत्रे व्याख्यातप्रायमिति नेह व्याख्यातम् ॥
हेतुर्विपक्षाद् विशेष इति च यदा सौत्रान्तिकपक्षमिति ।
यदा त्वनित्यत्वहेतौ लक्ष्ये लक्षणं विचार्यते इति विपक्षशब्दार्थो वाच्यः ।
ननु च नित्यो विपक्ष इत्यत आह---न ह्यसतीति ।
न हि निरुपाख्यमाख्यायत इत्यर्थः ।
न चास्यापादानत्वं नाप्यधिकरणत्वं येन पञ्चमी वा सप्तमी वा प्रयुज्येतेति आह---न चासतीति ।
न चासतो विपक्षाद् व्यावृत्त्यभावेन विशेषो ऽपीत्याह---विपक्षासंभवे चेति ।
पक्षस्यैवेति ।
अत्र चैवकारास्त्रय पदान्तरानपेक्षत्वं सूचयन्ति ।
पक्षस्यैव धर्म इति हेतुलक्षणे असाधारण एव हेतुः स्यात् ।
समान एव सिद्ध इति तु हेतुलक्षणे अश्वस्य विषाणित्वे साध्ये गोत्वादिर्हेतुः स्यात् ।
तस्मात् त्रयः पक्षाः हेयाः ।
तथा च पक्षस्य धर्मः समाने च सिद्धः इत्यत्र सव्यभिचारो हेतुः स्यात् ।
पक्षस्य धर्मो विपक्षे च नास्तीत्यत्रासाधारणो हेतुः स्यात् ।
समाने च सिद्धो विपक्षे च नास्तीत्यत्र अनित्यः परमाणुः कृतकत्वादिति हेतुः स्यादिति त्रयः ।
सप्तममभिमतं पक्षमाह---पक्षस्येति ।
शेषं सुबोधम् ॥
अत्र दिग्नागेन सपक्षे सन्नसन् द्वेधा पक्षधर्मः पुनस्त्रिधा ।
प्रत्येकमसपक्षे च सदसद्द्विविधत्वतः ॥
इति नव पक्षधर्मान् हेतुतदाभासान् दर्शयित्वा तत्र यः सन् सजातीये द्वेधा चासंस्तदत्यये ।
स हेतुर्विपरीतो ऽस्माद् विरुद्धो ऽन्यत्वनिश्चितः ॥
इत्यनेन हेतुतदाभासविवेको दर्शितः ।
तस्यार्थः ।
यः पक्षधर्मः स सपक्षे सन् असन् द्वेधा इति त्रिविधः, स पुनरसपक्षे सदसद्द्विविधत्वतः प्रत्येकं त्रिधा भवतीति ।
पक्षधर्मः सपक्षे सन् विपक्षे सदसद्द्विविधत्वतस्त्रिधा ।
पक्षधर्मः सपक्षे ऽसन् विपक्षे सदसद्द्विविधत्वतस्त्रिधा, पक्षधर्मः सपक्षे द्वेधा विपक्षे सदसद्द्विधत्वतस्त्रिधेति ।
अत्रोदाहरणम्,
प्रमेयकृतकानित्यकृतश्रावणयत्नजाः ।
अनित्ययत्नजास्पर्शा नित्यत्वादिषु ते नव ॥
नित्यत्वादिषु साध्येषु प्रमेयत्वादयो नव हेतुतदाभासाः ।
तेषां यथासंख्यं नित्यत्वादीनि साध्यान्युदाहरन्ति,
नित्यानित्यप्रयत्नोत्थमध्यमत्रिकशाश्वताः ।
अयत्नानित्यनित्याश्च प्रमेयत्वादिसाधनाः ॥
तदेतेषु हेतुतदाभासेषु हेतुर्निर्धारितो येन तदुपन्यस्य वार्त्तिककारो व्याचष्टे---तत्र य इति ।
तदेतद्दूषयति---यथाश्रुतीति ।
तत्र यः सन् सजातीये द्वेधा चासंस्तदत्यये इत्येतावन्मात्रात् न लभ्यते इत्यर्थः ।
चोदयति---ननु चोक्तमिति उक्तं दिग्नागेन,
साध्यधर्मो यतो हेतुस्तदाभासाश्च भूयसा ।
इति ।
तदेतत् परिहरति---उक्तमेतदिति ।
न पुनः पक्षधर्म एवेत्यर्थः, अवधारणम् अबुद्ध्वा शङ्कते---अथापीति ।
अवधारणार्थालाभेनोत्तरमाह---सत्यमर्थादिति ।
ननु अपक्षधर्मत्वनिवृत्त्यैव पक्षव्यापकत्वं गम्यते, न ह्यव्यापको भवत्यपक्षधर्मत्वनिवृत्तिमानित्यत आह---अपक्षधर्मनिवृत्तिमात्रत्वेन चेति ।
अत्यन्तनिवृत्तिनिषेधेन वृत्तिमात्रं स्यात् नैकान्तिकी वृत्तिरित्यर्थः ।
चोदयति---न प्राप्त इति ।
परिहरति---नावधारणस्येति ।
हेतुहेत्वाभासावेव पक्षधर्मौ नान्य इति नियमज्ञापनार्थमवधारणमिष्टं भवद्भिरित्यर्थः ॥
शङ्कते---अथोभयेति ।
निराकरोति---तथापि सन् सजातीय इति ।
तदेतत् पूर्वमेव व्याख्यातप्रायम् ।
द्वेधा चेति सर्वथा न वक्तव्यमीति ।
सन् सजातीय इत्यस्योपादाने ऽनुपादाने चेत्यर्थः, ।
सन् सजातीय इति नोपादातव्यमिति यदुक्तम्, तत्र शङ्कते---अथ मन्येतेति ।
निराकरोति---अवधारणेति ।
यद्यवधारणं युज्येत अवधारणार्थो युक्त आरम्भः स्यात्, तदेव त्वयुक्तमित्यर्थः ।
आद्ये पद इति ।
पक्षस्य धर्म एव इत्येतस्मिन् पद इत्यर्थः ।
अन्यपदे इति ।
अन्ये पदे ययोः पक्षधर्मत्वविपक्षासत्त्वयोस्ते तथोक्ते ।
तत्र द्वेविध्यं निराक्रियत इति ।
सन् सजातीयेति सर्वथेति ।
सजातीये द्वेधा चेति पदोपादाने चानुपादाने चेत्यर्थः ।
सजातीय एव द्विधेत्यनेनैवेति हेतुतदाभासयोरौत्सर्गिके पक्षधर्मत्वे स्थित इत्यर्थः ।
शङ्कते---अथ मा भूदिति सजातीय एव द्विधेति नावधारणमित्यर्थः ।
निराकरोति---तथापीति ।
सन् सजातीये द्विधेति मध्यमपदे इत्यर्थः ।
तदेवं सजातीये एव द्विधेत्यवधारणं दूषितम् ।
संप्रति द्वितीयमवधारणं शङ्कते---अथ पुनरिति ।
निराकरोति---तथापीति ।
तथापि पक्षैकदेशवृत्तिरपि हेतुः प्रसक्तः ।
यदि च तदत्यय एवेति नावधार्येत ततो ऽनैकान्तिको ऽपि हेतुः स्यादिति दोषः ॥
दिग्नागस्यैव प्रदेशान्तरहेतुलक्षणम्---ग्राह्यधर्मः पक्षधर्मः ।
तदंशेन तस्यैव पक्षस्यांशेन साध्यधर्मसामान्येन, व्याप्तो हेतुरिति ।
तदेतद्धेतुलक्षणमुपन्यस्यास्मिन् पूर्वोक्तं दोषमतिदिशति---एतेनेति ।
अतिदेशमेव स्फुटयति---अव्यापकादिरिति ।
यथाश्रुतलक्षणे पक्षाव्यापकस्य हेतुत्वम्, तदंशेन व्याप्त इत्यस्य विवरणालोचनेन सपक्षे सत्त्वं विपक्षाच्च व्यावृत्तिरित्यर्थः ।
तथा च पूर्वोक्तदोषानुषाङ्ग इत्यर्थः ।
सिंहावलोकितन्यायेन दूषयति---असंस्तदत्यय इतीति ॥
अन्येषां हेतुलक्षणं दूषयितुमुपन्यस्यति-तादृगिति ।
तदेतद्व्याचष्टे-तादृशेति ।
किलकारो ऽरुचौ ।
पक्षधर्म इति च हेतोरभिधानम् ।
तेन त्रिलक्षणप्रविभावितात्मा हेतुरित्यर्थः ।
दूषयति---तत् तावदिति ।
श्रावणत्वाद्यपीति ।
तदुक्तो ऽसाधारण इत्यर्थः ।
यस्तु तादृशविनाभावीति विपक्षे सत्ताप्रतिषेधात् सपक्षे सत्त्वं गम्यते एव, विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वादिति मन्येत, तं प्रत्याह---भवतु तावदिति ।
एकदेशाभ्यनुज्ञाने ऽपि विशेषनिषेधस्योपपत्तेर्न समस्ताशेषाभ्यनुज्ञाने प्रमाणमस्तीत्यभिप्रायः ।
चोदयति---ननूपदर्शनग्रहणादिति ।
परिहरति---न तल्लभ्यत इति ।
न हि चाक्षुषत्वमिति ।
वौद्धानां रूपत्वादिजातेर्नित्याया अभावाद् न चाक्षुषत्वमनित्यत्वेन विना भवतीत्यर्थः ।
यस्तु मन्येत विशेषनिषधस्य शेषमात्रभ्यनुज्ञाहेतुत्वेनागृह्यमाणविशेषत्वात् पक्षसत्ताभ्यनुज्ञानम्, तथा चोपदर्शनपदेन पक्षे हेतोः सत्तोपदर्शनं भवतीति तं प्रत्युपेत्याह---उपेत्य वेति ।
सुबोधम् ॥
तदेवं लक्षणं दूषयित्वा तदुदाहरणं दूषयति---यत्त्विदमिति ।
एतस्मिन् हेतुलक्षणे इत्यर्थः ।
प्रयत्ननान्तरीयकत्वं प्रयत्नकारणकत्वं तत् साक्षात् पारम्पर्येण वा? तत्र प्रथमे कल्पे दूषणमाह---प्रयत्नानन्तरीयकत्वस्येति ।
द्वितीयकल्पमाशङ्क्य दूषयति---अथेति ।
प्रयत्नग्रहणमपार्थकमित्यर्थः ।
भावप्रत्ययवाच्यं विकल्प्य दूषयति---यच्चेदमिति ।
एवमप्युपलब्धेरेवेति ।
न हि बोद्धराद्धान्ते किश्चिदुपलभ्यमानं नित्यमस्ति, येनोपलब्धिर्विशेष्येत इत्यभिप्रायः ।
प्रयत्नानन्तरमन्यथा चेति ।
यत् तावदुपलब्धिकर्म तत्सर्वं प्रयत्नादेव पुरुषव्यापादादेवोपलभ्यते नान्यथेत्यर्थः ।
शङ्कते---अथेति ।
अस्माकं नैयायिकानामिति भावः ।
उत्तरम्---त्वयैवेति ।
अस्मद्दर्शनं चेदास्थाय त्वया बौद्धेनोच्यते, तत् प्रयत्नग्रहणेनाप्यनैकान्तिकत्वं तदवस्थमेवेत्यर्थः ।
अव्यापकं चेति ।
न हि दवदहनाभिघातप्रस्फुटद्वेणुदलविभागजन्मा ठात्कारो ऽस्मदादिप्रयत्नकार्य इत्यर्थः ।
शङ्कते---अथेति ।
वर्णात्मकमित्यर्थः निराकरोति---तत्रापीति ।
पारम्पर्येणापि प्रथम एव वर्णः प्रयत्नानन्तरीयकः, न द्वितीयादयः ।
अतिपारम्पर्याश्रयणे त्वतिप्रसङ्गः, प्रायेण तस्य तत्र तत्र सुलभत्वादिति भावः ।
शङ्कते---अथ य इति ।
विशेषः प्रयत्नानन्तरीयकत्वं धर्मिविशेषणम्, प्रयत्नानन्तरीयकत्वं सामान्यं च हेतुरित्यर्थः ।
निराकरोति---तथाप्यन्य इति ।
न हि भवतामस्माकमिव विशेषातिरिक्तमस्ति सामान्यं वस्तु सद् यो हेतुः स्यात् ।
न च कल्पनारोपितं हेतुः सम्यग्ज्ञानस्य भवितुमर्हति, न चात्यन्तासतः कल्पनापि संभवतीति भावः ॥
तदेवमुदाहरणं दूषयित्वा प्रसङ्गेन परेषामुदाहरणविचारं दूषयति---यदप्युक्तमिति ।
तत् खल्वसत् सर्वसामर्थ्यरहितं तदाश्रितानाश्रितभावाभावधर्मवन्न भवतीत्यर्थः ।
नित्यं तु किश्चिद् भवतीति ।
तस्य धर्मयोगः संभवत्येव, न त्वस्याप्यप्रयत्नानन्तरीयकत्वं त्वप्रत्ययाभिधेयं हि जन्म, तत् प्रयत्नेनद प्रयत्नादन्येन वा विशेषणीयम्, यस्य तु जन्मैव नास्ति तस्य तद्विशेषणं दूरोत्सारितमित्यर्थः ।
एतेनाभाव इति ।
नैयायिकाभिमतो ऽप्यभावो व्याख्यातः ।
तस्यापि हि प्रागसतः सवकारणेन समवाय इति जन्म नास्तीति न तद्विशेषणयोग इत्यर्थः ।
प्रकृतमुपसंहरति---तदेवमिति
न्य्स्_1,1.36: साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्तः उदाहरणम् ॥
हेतावुक्ते नाव्याप्तो ऽसौ साध्यधर्मेण हेतुभावे व्यवतिष्ठते, न च व्याप्तिप्रदर्शनमुदाहरणमन्तरेणेति हेतुलक्षणानन्तरं क्रमप्राप्तमुदाहरणलक्षणमाह---साध्य---रणम्
सूत्रमित्युदाहरणसामान्यलक्षणमप्यनेन सूचितमिति दर्शितम् ।
अस्य तात्पर्यमाह---अस्येति, दृष्टान्तो ऽर्थरूपो नोदाहरणस्य वचनात्मकस्य स्वरूपतो लक्षणं संभवति ।
तस्मात् स्वाभिधायकवचनोपलक्षकत्वेन लक्षणत्वं सामानाधिकरण्यं च भजत इत्यभिसन्धिनोक्तम्---उदाहरणोपलक्षणमिति ।
अनेन च समानजातीयेभ्यः प्रतिज्ञादिभ्यः असमानजातीयेभ्यश्च प्रमाणादिभ्य उदाहरणं व्यवच्छिन्नं भवति ।
साध्येन साधर्म्यम् इत्यादि भाष्यम् ।
तस्यार्थः, साध्येन धर्मिणा शब्देन, साधर्म्यं दृष्टान्तस्य स्थाल्यादेः, कृतकत्वं हेतुः ।
कद्ध्यनित्यत्वेन साध्ये च शब्दे दृष्टान्ते च स्थाल्पादौ समानम् ।
तस्मात् कारणत् प्रयोजकात्, तद्धर्मभावी तस्यैव साध्यस्य शब्दस्य यो धर्मो धर्मान्तरम्, येन विशिष्टः शब्दः सिषाधयिषितो ऽनित्यत्वेन, तदनित्यत्वं तद्धर्मः ।
स एव भावस्तद्भावः ।
सो ऽस्यास्तीति तद्धर्मभावी, स्थाल्यादिरनित्यत्वधर्मवानिति यावत् ।
तेन तादृशा दृष्टान्तेनोपलक्षितं तद्विषयं वचनमुदाहरणमिति ॥
तत्र वार्त्तिककारः सूत्रपदं व्याचक्षाण एव फलतो भाष्यं व्याचष्टे---साध्येति ।
उदाहरणसाधर्म्यादित्यस्य व्याख्यानं साध्यसाधर्म्यादित्यत्रापि योजयति---अत्रापीति ।
साध्यशब्देनैव कृतकत्वं साधर्म्यं दृष्टान्तस्य, नासाध्येन विपक्षेणाकाशादिना नित्येन, ततो हि कृतकत्वं व्यावृत्तमिति ।
तथा च सव्यभिचारो व्यवच्छिन्नो भवति ।
साधर्म्यमेवेति भागासिद्धो व्यवच्छिन्नः ।
यस्मात् साध्यसाधर्म्यात् सद्धर्मभावी भवति, सो ऽयं दृष्टान्त उदाहरणमिति,
यावद् वाक्यं न समाप्यते, तावदर्धोक्त एव पृच्छति---किं कुतश्चिदिति ।
अवधारणद्वययोगिनः साध्यसाधर्म्याद् दृष्टान्तो ऽवश्यमेव तद्धर्मभावी भवतीति गतार्थं तद्धर्मभावीत्येतदिति भावः ।
उत्तरम्---न भवत्यपीति ।
यथा नित्ये शब्दे साध्ये अमूर्तत्वादेः साध्येन शब्देन कर्मणः साधर्म्यात् कर्म न तद्धर्मभावि भवति, नित्यं न भवतीत्यर्थः ।
साध्येनैवेत्यवधारणेनैव एतदुदाहरणं प्रत्युक्तमिति ।
शिष्योपाध्यायश्यश्यामत्वमैत्रतनयत्वादयो ऽत्रौपाधिकसंबन्धा उदाहार्याः ।
हेतुलक्षणे तु सामान्यलक्षणापेक्षं विशेषलक्षणमिति नातिव्याप्तिः ।
अत्र च साध्यसाधर्म्यग्रहणेन साधनविकलमनुदाहरणं भवतीत्युक्तं भवति ।
यथा नित्यः शब्दः अमूर्तत्वात् परमाणुवदिति ।
तद्धर्मभावीत्यनेन च साध्यविकलं परास्तम् ।
यथा नित्यः शब्दो मूर्तत्वात् कर्मवदिति ।
एतेनोभयविकलमपि पराकृतम् ।
यथा नित्यः शब्दः अमूर्तत्वाद् घटवदिति ।
पञ्चम्युपादानेन च साध्यसाधर्म्यप्रयुक्तं तद्धर्मभावित्वं यत्र वचने प्रदर्श्यते तदेवोदाहरणं नान्यदिति दर्शितं भवति ।
प्रयोजकत्वं च साध्यसाधर्म्यस्य हेतोः स्वाभाविकः संबन्धो व्याप्यत्वमिति यावत् ।
प्रयोज्यत्वं च साध्यसाधर्म्यस्य व्यापकत्वमेव ।
तेनाप्रदर्शितान्वयविपरीतप्रदर्शितान्वययोरनुदाहरणत्वमुक्तं भवतीति ।
तद्यथा अनित्यः शब्दः उत्पत्तिमत्त्वात्, पटवदिति ।
यो यो ऽनित्यः स सर्व उत्पत्तिमान् यथा घट इति ।
समाख्यानिर्वचनसामर्थ्यात् सामान्यलक्षणमप्यनेन सूचितमित्याशयवता भाष्यकृता समाख्याया निरुक्तिः कृता ।
तां वार्त्तिककारो दर्शयति---उदाह्रियते ऽनेनेति ॥
चोदयति---ननु चेति ।
परिहरति---नैष दोष इति ।
वचनस्य विशेषणत्वेनोपलक्षणत्वेनेत्यर्थः ।
अभिधीयमान इति च अभिधानोपलक्षणपरम्, नाभिधेयपरम्, असामानाधिकरण्यदोषस्य तावदवस्थ्यात् ।
तद्धर्मभावीति सूत्रावयवव्याख्यानपरं भाष्यम्---तस्य धर्म इत्यादि ।
अत्र चोत्तरमिति गुढाभिप्रायम् ।
तदेतद् भाष्यम् अनुभाष्य व्याचष्टे---तस्य धर्म इति ।
तस्य धर्मस्तद्धर्म इति हि धर्मस्य संबन्धित्वेन पृथग्वचनम् ।
न च धर्म एव धर्मस्य, नापि धर्मान्तरं धर्मस्य, किं तु धर्मिण इत्यर्थः ।
अनेन भाष्यकारीयामनुपपत्तिमुक्त्वा वार्त्तिककारः स्वकीयामप्याह---धर्मे च साध्य इति ।
अनेन हेतूदाहरणोपनयलक्षणैर्व्याघात उक्तः ।
भाष्यम्---साध्यसाधर्म्यादुत्पत्तिधर्मकत्वादिति, तद् व्याचष्टे---तस्य धर्मिण इति ।
तद्धर्मभावी भवतीति, तदनुपपन्नम्, न हि कृतकत्वात् स्थाल्यादेरनित्यत्वं भवति, जायते बीजादिवाङ्कुर इत्यत उक्तम्---भवति विद्यते
न्य्स्_1,1.37: तद्विपर्ययात् वा विपरीतम् ॥
वैधर्म्योदाहरणस्य लक्षणम्---तद्वि---तम्
अनुवृत्तेन पूरयित्वा सव्याख्यानं सूत्रं पठति---साध्यवैधर्म्यादतद्धर्मभावी च दृष्टान्त उदाहरणमिति ।
सात्मकतया साध्येन जीवच्छरीरेण वैधम्याद् घटादेर्दृष्टान्तस्य सात्मकत्वसाधर्म्यविरहादिति यावत् ।
यस्य साध्यस्य जीवच्छरीरस्य धर्मः प्राणादिमत्त्वं तद्धर्मः ।
स एव भावस्तद्धर्मभावः ।
सो ऽस्यास्तीति तद्धर्मभावी ।
न तद्धर्मभावी अतद्धर्मभावी, प्राणादिरहितो घटादिरिति यावत् ।
एतदुक्तं भवति, यत्र घटादौ साध्यधर्माभावप्रयुक्तः साधनधर्माभावः, स घटादिर्वैधर्म्यदृष्टान्तः ।
तद्विषयः शब्द उदाहरणमिति ।
सूत्रस्थश्च वाशब्दः समुच्चेये वेदितव्यः, व्यतिरेकविषयत्वाद् वैधर्म्योदाहरणस्येति ।
अत्र भाष्यकारेण अन्वयव्यतिरेकी पूर्वसत्रोदाहृतो ऽत्राप्युदाहृतः ।
साधनधर्माभावप्रयुक्तत्वं च साध्यधर्माभावस्योक्तम्, तच्चायुक्तम् ।
अन्वयव्यतिरेकिणिहेतौ सत्यपि वैधर्म्ये साधर्म्योदाहरणमेवोचितम्, तत्र तत्पूर्वकत्वाद् वैधर्म्यप्रतीतेः ऋजुमार्गेण सिध्यतो ऽर्थस्य वक्रेण साधनायोगात् ।
व्याप्यव्यापकभावश्च यादृशो भावयोः, तदभावयोस्तद्विपरीतो बोध्यव्यः ।
अन्यथा सपक्षैकदेशवर्ती न हेतुः स्यादिति मन्यमानो वार्तिककार आह---उदाहरणमवीतहेताविति ।
तच्चास्माभिः सूत्रं योजयद्भिः उक्तमिति ॥
अत्र आचार्यदेशीयाणाम् अनार्षसूत्रपाठदूषणं नास्माकमार्षसूत्रपाठे ऽस्तिति प्रतिपिपादयिषुराचार्यदेशीयानां पाठमभिप्रायं चाह---अन्ये त्विति ।
आर्षे हि पाठे सामानाधिकरण्याद् दृष्टान्तस्यार्थरूपस्य, शब्दरूपेणोदाहरणेनैक्यं स्यात् ।
यदा तु दृष्टान्तस्योदाहरणमिति पाठः, तदा नायं दोषः ।
दूषणं चापरेषाम्, यथा न दृष्टान्तस्य उदाहरणेन सामानाधिकरण्यम्, एवं तद्धर्मभावित्वस्यार्थरूपस्य, स्वविषयवचनोपलक्षणत्वेन तु सामानाधिकरण्यं दृष्टान्ते ऽपि तुल्यम् ।
तस्मादार्षमेवास्त्विति ।
आर्षे ऽपि पाठे परोक्तं दूषणमुपन्यस्यति---एतस्मिन्नपीति ।
उपहासे किलकारः ।
ण्यन्ताद् भवतेस्ताच्छील्ये णिनिना भावीति व्युत्पन्नम् ।
तथा च तद्धर्मकारित्वमर्थः ।
न च ज्ञापनादन्या क्रिया संभवतीति गमकत्वम् ।
तच्च सर्वेषामवयवानामभिन्नमिति साधारणत्वात् न वक्तव्यमित्यर्थः ।
तदेतदभ्युपगमेनैव परिहरति---नायमिति ॥
अन्ये तु तद्धर्मभावीत्येतद् विकल्प्य दूषयन्तीत्याह---अन्ये त्विति ।
तत्र प्रथमकल्पे दूषणमाहुः---तद् यदीति ।
नायं सूत्रार्थः सर्वावयवसाधारण्यादिति ।
तस्मात् न किञ्चिदेतत् तद्धर्मं भावयितुं शीलमस्येति ।
द्वितीयकल्पे दूषणमाहुः---दण्डिन्यायस्तु इति ।
संभवे व्यभिचारे च स्याद् विशेषणमर्थवत्,
न संभवमात्रे इत्यर्थः ।
तदिदं परेषां दूषणं दण्डिन्यायमालम्ब्य परिहरति---न वक्तव्यमिति ।
संभवव्यभिचाराभ्यां समर्थं विशेषणमित्यर्थः ।
न बहुव्रीहाविति ।
अन्यपदार्थविवक्षयैवेनिराश्रीयते ।
सा च बहुव्रीहिणै लभ्यत इति कृतमत्रेनिनेत्यर्थः ।
सुहृद्भावेन चेद्, अत एवाह---अथावश्यमिति प्रयोजनान्तरं भावीग्रहणस्यान्वाचिनोति---सन्तीति ॥
अत्र च वसुबन्धुना प्रतिज्ञादयस्त्रयो ऽवयवा दुर्विहिता अक्षपादलक्षणेनेत्युक्तम्, तद् दूषयति---तदेतस्मिन्निति ॥
तदेवमुदाहरणलक्षणमुपपाद्य परेषां लक्षणं दूषयितुमुपन्यस्य व्याचष्टे---यथा सिद्ध इति ।
यथा च स एव साध्यो विशिष्टः प्रत्ययभेदभेदित्वेनेति, प्रत्ययः कारणम्, तदेतत् साध्यसाधनवत्त्वं दृष्टान्तस्य बौद्धराद्धान्ते ऽव्यापकम्, स्थाल्यादौ दृष्टान्ते कृतकत्वानित्यत्वरूपसाध्यसाधनवत्त्ववैकल्यात् ।
प्रागभावो हि स्थाल्याः कृतकत्वं प्रध्वंसाभावश्चानित्यता राद्धान्ते बौद्धानाम् ।
न चैवमुभयं स्थाल्यामस्ति, तस्याः स्वाभावविरोधित्वादिति दूषयति---अत्र विस्फूर्जतापीति ।
एतेनेति, अव्यापकत्वेन निदर्श्यते ऽस्मिन्ननेन वेति निदर्शनम् ॥
साध्येनानुगमो हेतोः साध्याभावे च नास्तिता ।
इति च प्रत्युक्तम् कृतकत्वानित्यत्वयोः स्थाल्यामसंभवदर्शनादव्यापकत्वेन ।
अस्मद्राद्धान्ते तु यथा तयोः स्थाल्यादौ संभवः तथोक्तं हेतुलक्षणसूत्र इति ।
भाष्ये पण्डितरूपवेदनीयमिति प्रशस्तपण्डितवेदनीयमित्यर्थः
न्य्स्_1,1.38: उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ॥
स्वप्रतिपत्तौ व्याप्तिस्मरणानन्तरं तथा चायं न तथेति वा परामर्शज्ञानोत्पादादुदाहरणवचनस्य च व्याप्तिप्रतिपादकत्वात् परामर्शज्ञाने हेतोरुपनयस्योदाहरणपूर्वकत्वनियमात् ।
उदाहरणानन्तरमुपनयं लक्षयति---उदा---यः
अपेक्षापदं भाष्यकृद् व्याचष्टे---उदाहरणतन्त्र इति ।
उदाहरणवशः ।
वश्यत इति वशः, वशिन उदाहरणस्य वश्य इत्यर्थः ।
एतदेव कर्मणो भावं निष्कृष्य विवृणोत्ति---वशः, सामर्थ्यम् ।
वश्येन उदाहरणस्य फलेन उपनयेनाभिसंबन्ध इत्यर्थः ।
तथात्वातथात्वयोर्विषयं विभजते---साध्यसाधर्म्ययुक्त इति ।
ननु हेतोरुपसंहार अपनयो न साध्यस्य ।
तथा चानुपपन्नः साध्यस्योपसंहार इत्यत उक्तम्---साध्यस्य शब्दस्योत्पत्तिधर्मकत्वमिति ।
उदाहरणसिद्धव्याप्तिकहेतुमत्तया साध्यमुपसंह्रियते न स्वरूपेणेत्यर्थः ।
अत्राप्युदाहरणापेक्ष उपसंहार उपनय इति सामान्यलक्षणम् ।
तथा न तथेति सामान्यलक्षणापेक्षे विशेषलक्षणे इति बोध्यव्यम् ॥
अत्र केचित् आहुः हेतुवचनादेव सोदाहरणात् साध्यसिद्धेरसाधनाङ्गमुपनय इति ।
तन्निराकर्तुमाह वार्त्तिककारः---यथा तथेति प्रतिबिम्बनार्थम् ।
तदेतत् प्रश्नपूर्वकं विभजते---किं पुनरिति ।
तदनेन व्युत्पन्नाव्युत्पन्नतया परेषामनियतप्रतिपत्तिसाधनत्वात् स्वप्रतिपत्त्यनुसारेण परे बोधयितव्याः ।
व्याप्तिस्मरणानन्तरोत्पन्नलिङ्गपरामर्शपूर्वकश्च स्वयमनुमेयार्थप्रत्यय इति तथैव परे बोध्यन्ते ।
तथा च परामर्शज्ञानहेतोरुपनयस्य सिद्धमर्थवत्त्वम् ।
न च यथा लिङ्गपरामर्शज्ञानान्वयव्यतिरेकानुविधानम् अनुमेयज्ञानस्य, तथा दधिभक्षणाद्यनुविधानमपि, येनतिप्रसङ्गश्चोद्येतेति ।
प्रयोजनान्तरम् उपनयस्याह---साध्ये वा संभव इति ।
चोदयति---ननु चेति ।
यद्यपि साधनतया कृतकत्वमुक्तम्, प्रतिज्ञानन्तरं प्रतिपत्त्र साधनस्यैवापेक्षितत्वत्, तथापि तन्नासिद्धं तत्र साधनत्वेन व्यवतिष्ठत इति स्वसिद्धिमाक्षिपति सामर्थ्यादिति भाव ।
परिहरति---नोक्त इति ।
यत्परः शब्दः स शब्दार्थ इति शाब्दाः ।
साधनत्वपरश्च कृतकत्वादिति सामर्थ्यात् ।
आक्षेपे तूदाहरणमपि न प्रयोक्तव्यम् ।
अस्यापि साधनसामर्थ्यादाक्षेपात् अव्याप्तस्य साधनत्वायोगात् तद्विधस्यापि प्रमेयत्वादेः शब्दनित्यत्वादौ साधनत्वभ्रमेण प्रयोगो ऽसिद्धेपि तुल्य इति व्याप्तिप्रदर्शनार्थोदाहरणप्रयोगवद्धेतोः सिद्धत्वप्रतिपादनाय उपनयस्यपि प्रयोग इति रमणीयम्
न्य्स्_1,1.39: हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥
निगमनलक्षणावतारपरं भाष्यं द्विविधस्य पुनरिति ।
साधर्म्येण वैधर्म्येण द्विविधानामपि हेतूदाहरणोपनयानां समानं निगमनलक्षणमित्यर्थः ।
हेत्व---नम्
तस्मादिति ।
हेत्वपदेशात् तद्धेतुकम् अनित्यः शब्द इति प्रतिज्ञाया पुनर्वचनम् ।
यद्यपि च सिद्धनिर्देशो निगमनम्, साध्यनिर्देशश्च प्रतिज्ञा, तथापि यस्यैव प्रतिज्ञायां साध्यत्वमासीत्, तस्यैव निगमने सिद्धत्वमित्यवस्थावन्तमेकमाश्रित्य समानविषयतया निगमनं प्रतिज्ञेत्युपचर्यते ।
तथा च पुनर्वचनमप्युपपन्नम् ।
तदेतद् भाष्यकारो व्याचष्टे---साधर्म्योक्त इति ।
व्युत्पादयति---निगम्यन्ते इति ।
साधर्म्यवैधर्म्ययोः प्रतिज्ञातः प्रभृति निगमनान्तं प्रयोगमाह---तत्रेति ।
अत्र प्रथमसूत्रवदेव यथास्वमवयवेषु प्रमाणानां परमन्यायं स्तोतुं संभवमाह---अवयवसमुदाये चेति ।
आप्तोपदेशस्येति ।
सेदव सोम्येदमग्र आसीत् ।
इत्यादेराप्तोपदेशस्य प्रत्यक्षानुमानाभ्यां प्रतिसन्धानात् ।
ननु कस्मात् प्रतिज्ञैवाप्तोपदेशो न भवति, कृतमस्या आगमान्तरविषयत्वेनेत्यत आह---अनृषेश्चेति ।
अनुमानं हेतुः ।
स्यादेतत् ।
द्वितीयं लिङ्गदर्शनं हेतुः ।
न च तदनुमानम् ।
तृतीयस्योपनयविषयस्य लिङ्गदर्शनस्य तथाभावादित्यत आह---उदाहरण इति ।
उदाहरणे दृष्टान्तधर्मिणि ।
साध्यसाधनयोः प्रतिबन्धं संदृश्य सम्यग् दृष्ट्वा लिङ्गस्य प्रतीतेः ॥
एतदुक्तं भवति---यद्यपि त्रयाणामपि लिङ्गदर्शनानां सस्मृतीनामनुमानत्वम्, तथापि तदेकदेशे मध्यमे ऽपि लिङ्गदर्शने समुदायोपचारादनुमानव्यपदेश इति ।
प्रत्यक्षविषयम् उदाहरणम् ।
कस्मात्? दृष्टेन उदाहरणे प्रतिबन्धेन अदृष्टस्य साध्यधर्मिण्यनुमेयस्य सिद्धेः ।
यदि पुनर्न मूलं प्रत्यक्षमास्थीयेत, अव्यवस्थया नादृष्टं सिध्येदिति भावः ।
निगमप्रयोजनं प्रतिपादयति---सर्वेषामिति ।
प्रतिज्ञादीनामुपनयान्तानामेको ऽर्थः स्वभावप्रतिबद्धं लिङ्गं वा अनुमेयं वा, तस्य प्रतिपत्तिः, तस्यां सामर्थ्यप्रदर्शनं निगमनमिति ।
तदनेनैकार्थत्वं दर्शितम् ।
द्विविधं च प्रयोजनम् ।
तत्रावान्तरं स्वभावप्रतिबद्धलिङ्प्रतीतिः ।
परमं च साध्यप्रतीतिरिति ॥
संप्रति विभागे साकाङ्क्षत्वं दर्शयति---इतरेतराभिसंबन्ध इति ।
अभिसंबन्धेन फलेनाकाङ्क्षामुपलक्षयति---असत्यामिति ।
प्रधानं हि प्रतिज्ञापदम् ।
तदुत्तरकालं हि साधनाकाङ्क्षायां प्रतिज्ञामाश्रित्य हेतुपदं प्रवर्तते ।
न पुनः प्रथममेव हेत्वेपेक्षेति हेतुलक्षणे ऽस्माभिरुपपादितमिति ।
हेतुपदविरहे आकाङ्क्षां दर्शयति---असति हेताविति ।
उदाहरणाभावे ऽपेक्षामाह---असत्युदाहरण इति ।
उपनयाभावे ऽप्यपेक्षामाह---उपनयं चान्तरेणेति ।
निगमनाभावे ऽप्यपेक्षामाह---निगमनाभावे चेति ।
अवयवानां प्रातिस्विकं प्रयोजनमुक्तमपि शिष्यहिततया भाष्यकारः प्रतिपादयति---अथेति ।
पञ्चावयवप्रतिपादनप्रयत्नस्य प्रयोजनं दर्शयति---न चैतस्यामिति ।
कथं पुनः प्रक्रमत इत्याह---अव्यवस्थाप्येति ।
व्यवस्थापिते तु न जातेरवसर इत्याह---व्यवस्थिते हीति ॥
अत्र केचित् आहुः निगमनमसाधनाङ्गम् ।
कथम्? प्रतिज्ञया गतार्थत्वादिति ।
तन्मतम् अपाकर्तुं वार्त्तिककारः सप्रयोजनं निगमनं दर्शयति---प्रतिज्ञाविषयस्यार्थस्येति ।
चतुर्भिः खल्ववयवैर्हेतोस्त्रीणि रूपाणि द्वे वा प्रतिपादिते, न त्वबाधितविषयत्वासत्प्रतिपक्षितत्वे ।
पञ्चसं वा चतुर्षु वा रूपेषु हेतोरविनाभावः परिसमाप्यते ।
तस्मादबाधितविषयत्वासत्प्रतिपक्षितत्वरूपद्वयसंसूचनाय निगमनम् ।
तदिदमुक्तम्---विपरीतप्रसङ्गप्रतिषेधार्थमिति ।
बाधने प्रतिपक्षे वा साध्यविपरीतप्रसङ्गः स्यादिति ।
सो ऽयं प्रतिज्ञाविषयार्थस्य अशेषप्रमाणमूलावयवोपपत्तौ सत्यां प्रतिज्ञेयस्यार्थस्य सिद्धतया पुनर्वचनेन निगमनेन प्रतिषिध्यते ।
न च प्रतिज्ञावचनादेव तत्सिद्धिः, तस्य साध्यपरत्वात् ।
न चान्यपरादप्याक्षेपात् सिद्धिः हेत्वादिपदाप्रयोगवैयर्थ्यप्रसङ्गात्, प्रतिज्ञात एव सर्वाक्षेपसंभवात् ।
तस्माद् रूपद्वयप्रतिपादनार्थं निगमनम् ।
यथा च त्रैरूप्यातिरिक्तमेतद्रूपद्वयं तथोपपादितम् अस्माभिः प्रथमसूत्रे ।
हेत्वाभासेषु च शेषं दर्शयिष्यत इति ।
एतस्मिन् सूत्रार्थे परस्य प्रतिज्ञायां निगमनं गतार्थं मन्यमानस्य अवकाशो नास्तीति ॥
यस्तु मन्येत न हेतोरविनाभावसिद्धिमन्तरेण सिद्धनिर्देशो निगमनं भवति, न च पाञ्चरूप्यं विना अविनाभावसिद्धिः ।
निगमनात्तु तत्सिद्धौ न सिद्धनिर्देशो निगमनम्, अपि तु तदपि साध्यनिर्देश एवेति, तं प्रत्युपेत्य तद्दोषनिराचिकीर्षया परेषां वाक्यमुपक्षिप्यते ।
परेषां वाक्यं पठति---उपनयनिगमने त्विति ।
दूषयति---इदं तावदिति ।
यथाश्रुति हि निगमनोपनययोरभेदं साधयति, अर्थगतं चाविशेषं हेतुमाह---तच्चैतदालोकतमसोरैक्यं काकस्य कार्ष्यादिवदापतितम् ।
शङ्कते---अथ हेतूपनयाविति ।
उपलक्षण चैतत्, प्रतिज्ञानिगमने इत्यपि द्रष्टव्यम् ।
अर्थाविशेषादिति चाविशिष्टार्थत्वादित्युन्नेतव्यम् ।
तथा च संबन्ध इति शङ्कितुरभिप्रायः ।
अत्रापि दोषमाह---स विपक्षेति ।
पुनः शङ्कते---अथैकप्रयोजनत्वेनेति ।
निराकरोति---तथापीति ।
सिध्यत्येकप्रयोजनत्वे साध्ये हेतोरविरोधः, हेतुस्तु न प्रतिज्ञार्थादतितिच्यते इत्यर्थः ।
तद् वर्णितमिति ।
अन्यश्च हेत्वर्थो ऽन्यश्चोपनयार्थ इत्येतद् वर्णितमित्यर्थः ।
एतेनोपनयनिगमनप्रयोजनाभिधानेन ये त्र्यवयवं वाक्यमाहुः, तन्मतमपि परास्तमित्याह---पक्षधर्मत्वेति ॥
यच्च परैः उपनये दूषणं विकल्प्याभ्यधायि तत् तावदुपन्यस्यति---यदपि यथा तथेति ।
सर्वसामान्ययोगे हि तदेव स्यात्, न तु तथेति ।
अन्यथा शब्दस्य कृतकत्वादिति ।
न हि यथा घटः कृतकः, तथा शब्दो ऽपि कृतकः, घटशब्दयोरभेदप्रसङ्गादित्यर्थः ।
तस्मात् सामान्यप्रतिषेधे विशेषप्रतिषेधे च कृतकत्वं सामान्यं परिशिष्यते ।
तस्य च यथातथाभावयोरभावात् कृतकत्वादित्येव स्यात् ।
तथा च न हेतोर्व्यतिरेक उपनयः स्यादित्याह---परिशेषादिति ।
तदेतत् परेषां दूषणं निराकरोति---तदप्ययुक्तमिति ।
यथा तथेति वाक्यमुपमानैकदेशमुपमानमुपचारात् ।
उपमानमर्थो यस्य सो ऽयमुपमानार्थ उपनयः ।
तस्य भावस्तत्त्वं तस्मात् ।
तच्चोपमानं न सर्वथा साध्यसाधनभावमाश्रित्य प्रवर्तते ।
साध्ये शब्दे साधनस्य कृतकत्वस्य स्थालीगतस्य यः सर्वथाभावः स्थालीत्वाद्येकार्थसमवायः तमाश्रित्य न प्रवर्तते ।
तथा च शब्दस्थाल्योः अभेदप्रसङ्गाद् यथा तथेत्येव न स्यात् ।
तस्मात् स्थालीस्थप्रकारान्तरव्युदासेन कृतकत्वसामान्यमात्रसाधारण्येन यथा तथेत्युपमानोपपत्तिरित्यर्थः ।
नन्वेवमपि कृतकत्वसामान्यमात्रं शब्दे स्यात्, न तु यथा तथाभावः, तथा च न हेतोरतिरेक इत्युक्तमित्यत आह---कृतकत्वसामान्यं त्विति ।
न हि जातु शावलेयसन्निधौ गोत्वसामान्यमात्रं भवति, अपि तु विशेषसहितम् ।
तथा च यथातथाभाव उपपन्न इत्यर्थः ॥
एतेन यत् परैरुपनयस्य दृष्टान्तादभिन्नत्वं वर्णितम्, तदपि परास्तमित्याह---गतार्थत्वादिति ।
अनेनोपमानसमानत्ववर्णनेन ।
एतदेव विभजते---यदप्युक्तमिति ।
व्याप्तिप्रदर्शनविषयो दृष्टान्तः दृष्टाव्याप्तिकस्य हेतोः साध्यधर्मिण्युपसंहार उपनय इति महान् भेद इत्यर्थः ।
एतेन निगमनं प्रतिज्ञायाः समानाभिधेयत्वे ऽपि प्रतिज्ञार्थत्वेन प्रत्युक्तम्, प्रतिज्ञायाः साध्यपरत्वात् निगमनस्य च विपरीतशङ्कानिवृत्तिपरत्वादिति ।
प्रयोजनभेदसामान्यमात्रविवक्षया एतेनेत्युक्तम् ।
अत्र भाष्यकारेण एकस्मिन्नन्वयव्यतिरेकिण्येव वीतावीतवाक्ये पञ्चावयवे उदाहृते ।
तत्र कदाचिद् भ्रान्तिः स्यादेकोदाहरणतया द्वे अपि वाक्ये परस्परापेक्षे एवेति, तन्निराकरणायाह---ते एते इति ।
न पुनरन्वयि व्यतिरेकि चेत्येकं वाक्यमित्यर्थः
न्य्स्_1,1.40: अविज्ञाततत्त्वे ऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ॥
अत्र भाष्यं तर्कलक्षणावतारपरम्---अत ऊर्ध्वमिति ।
उद्देशक्रमानुसारेण ।
अवितर्कः ।
तर्कप्रवृत्तिक्रममाह---अविज्ञायमानतत्त्वे ऽर्थे इति यद्यपि संशयस्य पश्चादेव जिज्ञासा भवति, तथापि जिज्ञासायाः परस्तादपि संशयो भवति ।
स चात्र विवक्षितः, तर्कप्रवृत्त्यङ्गत्वात् ।
तर्केण हि प्रसङ्गापरनाम्ना द्वयोः पक्षयोरेकतरनिषेधेनैकतरः प्रमाणविषयतया अभ्यनुज्ञातव्य इति विषयप्रत्यासत्त्या तर्कप्रवृत्तिं प्रत्यङ्गता संशयस्येति ।
कारणोपपत्त्येति व्याचष्टे---संभवत्यस्मिन् कारणं प्रमाणमिति ।
अत्र च कारणमित्यस्य व्याख्यानं प्रमाणमिति ।
उपपत्तिव्याख्यानं संभवतीति ।
अनुज्ञाव्याख्यानम् ।
---एववमेतत्, नेतरदिति ।
एतदुक्तं भवति, यस्मिन् विषये प्रमाणं प्रवर्तितुमुद्यतं तद्विपर्ययाशङ्कायां न तावत् प्रमाणं प्रवर्तते, न यावदनिष्ट्यापत्त्या विपर्ययाशङ्का अपनीयते ।
तदपनय एव च स्वविषये प्रमाणसंभव इति चोपपत्तिरिति व्याख्यायते ।
तया प्रमाणस्योपपत्त्या इतिकर्तव्यतया प्रमाणविषयमभ्यनुजानत्या विशोधिते विषये प्रमाणामप्रत्यूहं प्रवर्तते ।
न चोपपत्तिरेवास्तु निश्चयहेतुः कृतं प्रमाणेनेति वक्तव्यम् ।
उपपत्तेः स्वतन्त्राया आश्रयासिद्धतया स्वतो निश्चयायोगात् ।
तदुपपादितं प्रथमसूत्रे इति ॥
उदाहरणमाह---निदर्शनमिति ।
स्वकृतस्य कर्मण इत्यादिना पूर्वस्य कारणमित्यन्तेन संसारो दर्शितः ।
उत्तरेत्यादिना उपवर्ग इत्यन्तेनापवर्गः ।
तेन संसारापवर्गाविच्छन्तौ वादिप्रतिवादिनौ प्रति आत्मनित्यत्वविषयं प्रमाणं प्रवर्तमानमनेन तर्केणानुगृह्यत इति प्रमाणविषयविपर्ययाननुज्ञैव च प्रमाणविषयाभ्यनुज्ञा, अनिष्टप्रसक्त्या विपर्ययस्यैव साक्षात् निवर्तनात् ।
अत एवान्ते भाष्यकार उपसंजहार---यत्र कारणम् अनुपपद्यमानं पश्यति, तत् नानुजानातीति ॥
ननु यदि तर्क एवमेतत्, नेतरदित्येवमाकारः, कथं पुनरयं तत्त्वज्ञानार्थो न तु तत्त्वज्ञानमेवेतेति देशयति---कथं पुनरिति ।
परिहरति---अनवधारणादिति ।
पर्यायैर्निश्चयादत्यन्तभेद उक्तः ।
भावितात् चिन्तितात्, अत एव प्रसन्नात् निर्मलान्दिति ।
प्रमाणसामर्थ्यादिति तर्कत्त्य स्वातन्त्र्यमपाकरोति ।
स्यादेतत्---यदि न तर्कस्तत्त्वनिश्चयसाधनमपि तु प्रमाणमेव, हन्त भोः किमर्थं तर्हि वादे प्रमाणतर्कसाधनेत्युक्तमित्यत आह---सो ऽयं तर्क इति ।
व्यक्त्यभिप्रायेण प्रमाणानीति ।
प्रमाणविषयविपर्यंयाशङ्काविघटितानि प्रमाणानि प्रतिसंदधान इत्यर्थः ॥
वार्त्तिककारः ।
सूत्रतात्पर्यमाह---अस्येति ।
समानजातीयात् संशयादेरसमानजातीयात् चेच्छादेर्व्यवच्छिद्यते ।
यद्यपि संशयजिज्ञासे अप्यविज्ञाततत्त्वे ऽर्थे प्रवर्तेते, तथापि न कारणोपपत्तित इति तयोर्व्यवच्छेद इति ।
तत्त्वं व्याचष्टे---यथेति ।
समानासमानजातीयव्यवच्छिन्नमविपरीतं रूपं तत्त्वमित्यर्थः ।
चोदयति---कुतः पुनरिति ।
न हि सामान्यज्ञानविधायकं पदमत्रास्तीत्यर्थः ।
परिहरति---अविज्ञातेति ।
विशेषनिषेधः शेषाभ्यनुज्ञाहेतुरित्यर्थः ।
विमृशति---अविज्ञाततत्त्व इति समासो ऽयमिति ।
अवधारयति---षष्ठीविग्रहेणेति ।
युक्तम् उपपन्नम् ।
तृतीयाविग्रहेण त्वुनपपन्नमित्यर्थः ।
संशयवाद्याह---विशेषहेत्वभावादिति ।
युक्तमिति प्रतिज्ञामात्रेणोच्यते, न त्वत्र हेतुः अभिधीयत इति भावः ।
युक्तत्वे हेतुमाह---युक्तमर्थग्रहणसामर्थ्यादिति ।
अन्यश्चोदयति---अर्थग्रहणमन्तरेणापीति ।
ज्ञेयेन हि ज्ञानं निरूप्यते न ज्ञात्रा, तस्य साधारण्यादिति सामर्थ्यमित्यर्थः ।
निगूढाभिसन्धिः परिहरति---एवमपीति ।
तस्याभिसन्धिभेदमुररीकृत्य चोदयति---मा भूत् समास इति ।
उत्तरवाद्याह---भवत्येवमिति ।
नाद्यापि अनेन स्वाभिप्रायो दर्शित इति मत्त्वा पुनश्चोदयति---अनुक्ते ऽपीति ।
उक्तपरिहारपूर्वं स्वाभिप्रायमुद्घाटयति---अत्रोक्तमिति समस्तानभिधानप्रसङ्गाच्चेति स्वाभिप्रायोद्घाटनम् ।
एतदुक्तं भवति, सामर्थ्यप्राप्तस्यानभिधाने ऽतिप्रसङ्ग इति न सामर्थ्यमाश्रित्य लक्षणे संशयो निराकरणीय इति तन्निराकरणार्थमर्थग्रहणं कर्तव्यमिति ॥
अत्र चोदयति---अविज्ञाततत्व इति न वक्तव्यमिति ।
न हि तत्त्वे ज्ञाते तत्त्वज्ञानार्थिता भवति ।
तस्माद् गम्यते अविज्ञाततत्त्व इति भावः ।
गुढाभिसन्धिरुक्तं परिहारं स्मारयति---अत्र तावदुक्तमिति ।
अविदिताभिप्रायश्चोदक आह---मा भूदिति ।
अस्तूहस्तर्क इत्येतावदेवेत्यर्थः ।
उत्तरवादी स्वाभिप्रायमुद्घाटयति-न बुद्धिर्धेति ।
यद्यपि नास्माकं राद्धान्ते शुश्रूषादयो बुद्धिधर्मा बुद्धितत्त्वस्यैवाभावात्, तथाप्यात्मगुणा अपि सांख्याभिप्रायेण बुद्धिगुणा उक्ताः ।
एतदुक्तं भवति, यद्यूहस्तर्क इत्येतावदुच्येत, यदि वा तत्त्वज्ञानार्थमूहस्तर्क इत्येतावन्मात्रम्, ततो विज्ञाते ऽपि तत्त्वे य ऊहः पूर्वानुभूतपरिच्छेदात्मा जायते पुनस्तत्त्वज्ञानार्थं सो ऽपि तर्कः स्यात् ।
तस्मात् अविज्ञाततत्त्व इति वक्तव्यमित्यर्थः ।
यद्यपि कारणोपपत्तित इत्येतस्मादयमर्थो ऽपि गम्यत एव, तथापि कारणोपपत्तेरेवैवंरूपत्वं नाविज्ञाततत्त्वग्रहणमन्तरेण भवति ।
तथा हि अधिगतपरिच्छेदात्माप्यूहः कारणस्योपपत्त्या संभवेन जायते, कारणसंभवे कार्यस्य अभावात् ।
न त्वसावविज्ञाततत्त्व इति ततो व्यवच्छेदः ।
तथा च सति प्रमाणमपि तर्कः स्यात् ।
अत उक्तं कारणोपपत्तित इति ।
उक्ते सति प्रयोजनानुसरणम्, न त्विह लाघवादरः सूत्रकारस्येति मन्तव्यम् ॥
चोदयति---षष्ठ्यभिधानमिति ।
परिहरति---न विभक्तिव्यत्ययादिति ।
यथान्यत्र कणभुजः सूत्रे ।
विप्रतिपन्नः पृच्छति---कस्मात्? प्रष्टैवैकग्रन्थेनाह---यदि व्यत्ययेनेति ।
परिहरति---न न युक्त इति ।
सामान्येनाधिगतस्य विशेषेण ज्ञापनार्थम् ।
नित्यत्वादयो विशेषाः समवायिनो वह्न्यादयश्च धूमादिसंयोगिन इति ।
शेषं सुगमम् ॥
देशयति---ऊहः संशयनिर्णयाभ्यामिति ।
केचित् सिद्धान्तैकदेशिनः अनुमानं तर्क इत्याहुः ।
अन्ये त्वनुमानमेव युक्त्यपेक्षं विपर्यये ऽनिष्टप्रसङ्गापेक्षं तर्क इति वर्णयन्ति ।
तत्र प्रथमं चोदकं प्रत्याह---यत् तावदिति ।
आक्षिप्त आक्षिप्तहृदयः, न तु तर्कप्रत्ययस्वरूपं चेतयत इत्यर्थः ।
विशेषदर्शनादिति विशेषदर्शनात् निश्चयः प्रमाणेन भवति न तर्केण, तदनुज्ञानमात्रत्वात् तर्कस्येत्यर्थः ।
चोदकं निराकृत्य सिद्धान्तैकदेशिनं निराकरोति---एतेनेति ।
यदि संशयात् प्रच्युतो निर्णयं चाप्राप्तः, तर्हि तस्य स्वरूपं वक्तव्यमिति पृच्छति---किं पुनरिति ।
उत्तरम्---भवेदिति, प्रमाणविषयाभ्यनुज्ञेत्यर्थः ।
द्वितीयमेकदेशिनं निराकरोति---यैरपीति ।
युक्तिरिह प्रमाणोपपत्तिः ।
तज्जन्मा च प्रत्ययस्तर्क एव ।
स चानुमानमिति त्वयोच्यते ।
अस्माभिस्तु तर्क इति संज्ञाभेदमात्रमित्यर्थः ।
शङ्कते---अथेति ।
निराकरोति---अनुमानमिति ।
प्रसङ्गोपपत्त्यतिरिक्ताया युक्तेरनिरूपणाद् अपेक्षार्थो वक्तव्यः ।
न ह्यपेक्षणीयमन्तरेणापेक्षा शक्या निरूपयितुमिति भावः ।
ननु यदेव किश्चित् स्वविषयाधिगमे अनुमानमपेक्षते सैवापेक्षणीया युक्तिरनुमानस्य भविष्यतीत्यत आह---स्वविषयधिगमे चेति ॥
शङ्कते---अथेति ।
निराकरोति---एवमपीति ।
यद्युत्पत्तौ प्रत्यक्षागमापेक्षम् अनुमानम्, न वक्तव्यं युक्त्यपेक्षमिति, सर्वस्यानुमानस्य तथाभावेनाव्यभिचारेण विशेषणायोगादिति भावः ।
पुनः शङ्कते---अथानुमानस्येति ।
निराकरोति---तत्रापीति ।
एवमपि तर्को नार्थान्तरं स्थात् ।
अनुमानभेदस्य चेदृशस्य प्रमाण एवान्तर्भाव इति भावः ।
उक्तमर्थ प्रमाणयति---भवेदिति ।
भवेदितिप्रत्ययो ऽवधारणप्रत्ययश्चेत्यर्थः ।
चोदयति---अनुमानमिति ।
विपर्ययो ऽनिष्टप्रसङ्गो व्यतिरेकि लिङ्गम् ।
तच्चागृहीतसंबन्धे लिङ्गिति न प्रवर्तत इति लिङ्गलिङ्गिसंबन्धस्मृत्यपेक्षत्वादप्राणादिमत्त्वप्रसङ्गादितिवदनुमानमेवेत्यर्थः ।
परिहरति न तर्केति ।
युक्तं व्यतिरेकिणि जीवच्छरीरे धर्मिणि प्राणादिमत्त्वस्य साधनधर्मस्य दर्शनात्, न तु यद्युत्पत्तिमान् आत्मा अभविष्यत्, न संसारापवर्गावुपपत्स्येतामित्यत्रात्मनि धर्मिणि साधनधर्म उत्पत्तिरस्ति यद्दर्शनतः संस्कारोद्बोधे सति लिङ्गलिङ्गिसंबन्धस्मृतिर्भवेदित्यर्थः ।
न केवलं प्रसङ्गसाधनं साध्यधर्मिण्यसिद्धम्, अपि त्वन्यगतमेव प्रसङ्गहेतुः ।
न त्वनुमानमन्यगताद् धर्मात् प्रवर्तते, तस्मादनुमानादस्य स्फुटो भेद इत्याह---अनुमानं चेति ।
भाष्यव्याख्यानं सो ऽयमिति
न्य्स्_1,1.41: विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारण निर्णयः ॥
नैतन्निर्णयमात्रस्य लक्षणम्, अपि तु परीक्षाप्रयोजनस्य ।
स च निर्णयभेदो विमर्शानन्तरोत्पन्नतर्कसहायप्रमाणनिबन्धनस्तर्कविषय एवेति निर्णयभेदलक्षणमिति नाव्यापकं तत्र तल्लक्षणमिति दर्शयितुं भाष्यकारो निर्णयलक्षणमवतारयति---एतस्मिश्च तर्कविषये ॥
विमृ---यः
अत्र पक्षप्रतिपक्षयोः कर्मतया न निर्णयसाधनत्वमित्यनुपपत्त्या साधनोपालम्भौ वादसूत्रगतौ लक्षणीयविति तावेव तावद् भाष्यकृद् विभजते---स्थापना साधनम्, प्रतिषेधः साधनस्य उपालम्भः ।
लक्षणानिबन्धनं संबन्धमाह---तौ साधनोपालम्भाविति ।
यद्यप्युपालम्भो न प्रतिपक्षाश्रितः, तथापि तदुद्देशेन प्रवृत्तस्तदाश्रित इत्युच्यते ।
मुख्यपदोपादानोल्लङ्घनेन लाक्षणिकपदोपादानलभ्यं प्रयोजनमाह---व्यतिषक्ताविति ।
अर्थग्रहणसामर्थ्यलभ्यमेकतरनिर्णयावसानत्वम् आह---अनुबन्धेन प्रवर्तमानाविति ।
एतच्च वार्त्तिके स्फुटीभविष्यति ।
तमेव साधनोपालम्भयोः परस्परानुबन्धं दर्शयति---तयोरन्यतरस्येति ।
यस्य साधनस्य वा उपालम्भस्य वावस्थानम्, तस्य साधनस्य वा उपालम्भस्य वा यो ऽर्थः पक्षः प्रतिपक्षो वा तस्यावधारणमित्यर्थः ॥
अत्र पक्षप्रतिपक्षप्रयोगाद् वादे संशयो ऽस्तीति वादभ्रान्त्या चोदयति---नेदमिति ।
एक इति वादी ।
प्रतिज्ञातमर्थं हेतुतः स्थापयति ।
द्वितीयस्य प्रतिवादिनः प्रतिषिद्धं प्रतिषेधं वाद्युक्तस्य हेतोर्दूषणमिति यावत् ।
उद्धरति दूषणाभासीकरोति ।
द्वितीयेन तु प्रतिवादिना वाद्युक्तस्य हेतोः स्थापनाहेतुत्वं प्रतिषिध्यते ।
तस्यैव वादिनः प्रतिवाद्युक्तदूषणप्रतिषेधहेतुश्च प्रतिवादिनैवोद्ध्रियते ।
स वादिनो वा प्रतिवादिनो वा हेतुर्वोपालम्भो वा निवर्तते ।
तस्मिन् निवृत्ते यो ऽवतिष्ठते एकः, तेनार्थनिर्णयः, न द्वाभ्याम् ।
तस्मादयुक्तं पक्षप्रतिपक्षाभ्यामिति ।
न तावत् संशयविषये निर्णये वादिप्रतिवादिनौ स्तः, तयोर्निश्चितयोरेव प्रवृत्तेः ॥
अभ्युपेत्य तु परिहरति---उभाभ्यामिति ।
वादिनः साधनस्य संभवः प्रतिवादिन उपालम्भस्य असंभवः ।
एवं प्रतिवादिनः साधनस्य संभवो वादिन उपालम्भस्यासंभव इति ।
विमृश्येति विमर्श कृत्वेति ।
अनुपादेयो ऽपि विमर्शः कार्यत्वात् कृतिव्याप्य उक्तः ।
विमृश्येतिपदोपादानस्य प्रयोजनमाह---सो ऽयमिति ।
अवद्योत्य नियमेन विषययीकृत्येत्यर्थः ।
एकधर्मिस्थयोरित्यस्य व्यतिरेकमाह---यथा क्रियावदिति ।
विरुद्धयोरित्यस्य कालभेदेन व्यतिरेकमाह---एकधर्मिस्थयोश्चेति ।
न निर्णयमात्रस्येदं लक्षणमपि तु परीक्षाविषयस्येत्याह---न चायं निर्णय इति ।
अर्थावधारणं निर्णय इत्येतावन्मात्रं लक्षणमिन्द्रियार्थसन्निकर्षोत्पन्नप्रत्यक्षे भवतीति योजना ।
हृदि व्यवस्थितमभ्युपगममुद्घाटयति---शास्त्रे वादे चेति ।
न हि ज्योतिष्टोमादीनां स्वर्गादिसंबन्धनिर्णये आगमेन कर्तव्ये विमर्शो ऽस्ति, नापि वादजल्पवितण्डासु विमर्शः, निश्चितयोरेव वादिप्रतिवादिनोस्तत्र प्रवृत्तेरित्यर्थः ॥
वार्त्तिकम्---संबन्धो ऽर्थश्च पूर्ववत् ।
संबन्ध उद्देशक्रमेण तर्कानन्तर्यलक्षणः ।
अर्थश्च प्रयोजनम् ।
समानासमानजातीयव्यवृत्तिरित्यर्थः ।
शेषं भाष्यव्याख्यानेन गतम् ।
ननु भवतु पक्षशब्दलक्षितस्य साधनस्य निर्णयं प्रति करणत्वम्, प्रतिपक्षलक्षितस्य तु तद्दूषणस्य न साक्षात्साधकत्वमित्यत आह---प्रतिपक्षाच्चेति हेतुत्वं पारम्पर्येणेत्यर्थः ।
पक्षप्रतिपक्षाभ्यामिति ।
साधनदूषणाभ्यामित्यर्थः ॥
लक्षणमाचिक्षिप्सुर्विकल्पयति---क्व पुनरयमिति ।
अत्र पक्षप्रतिपक्षाभ्यामेवेति प्रथमः कल्पः, तदा हि यत एवकारः ततो ऽन्यत्रावधारणमिति निर्णये नियमो भवेत् ।
निर्णय एवेति द्वितीयः कल्पः, तदा हि पक्षप्रतिपक्षाभ्यामित्यत्र नियमः ।
विमृश्यैवेति च तृतीयः, तदापि निर्णये नियमः ।
तत्र प्रथमं कल्पमाक्षिपति---यदि विमृश्येति ।
तस्मिन् विकल्पे निर्णयः पक्षप्रतिपक्षविमर्शातिलङ्घनेनान्यत्र न प्रवर्तत इति प्रत्यक्षं प्रमाणं निर्णयफलं न स्यात् ।
न हि तत्र पक्षप्रतिपक्षौ, नापि विमर्श इति प्रत्यक्षलक्षणं बाध्यते इत्यर्थः ।
तृतीयकल्पमाक्षिपति---एतेनेति ।
व्याघातेनेत्यर्थः ।
द्वितीये कल्पे दूषणमाह---अथ पक्षेति ।
तदा निर्णयस्यानियमात् पक्षप्रतिपक्षौ च तदभावश्चेति तदुभयम्, तदाश्रयः निर्णयः प्राप्तोति ।
तथा चाव्यापकं लक्षणम् इत्यर्थः ।
प्रथमं कल्पमालम्ब्य समाधत्ते---तर्कविषय इति ।
न निर्णयमात्रस्येदं लक्षणम्, अपि तु निर्णयविशेषस्येत्यर्थः ।
न निर्णय इति न निर्णयमात्र इत्यर्थः ।
अथ निर्णयस्य किमिति निर्णयमात्रस्येत्यर्थः ।
एकशश्च प्रमाणैरिति प्रत्यक्षादिभिः ।
संहत्य च प्रमाणैरिति साधनदूषणसमाधानैरित्यर्थः ।
पक्षप्रतिपक्षाभ्यामेव वादे निर्णयो न तु विमर्शः ।
शास्त्रे तु निर्णय एव न तु तत्र शास्त्रातिरिक्तं साधनान्तरमाश्रीयत इत्यर्थः ॥
पक्षप्रतिपक्षाभ्यामिति ।
लक्षणायां हि येन यत् लक्ष्यते तदवच्छेदकतया तदपि बुद्धौ सन्निधीयते ।
ततश्च तेन नियमो भवति लक्ष्यमाणस्य, यथा गङ्गायां धोष इति ।
गङ्गासंबन्ध्येव तीरं घोषेणान्वीयते, न त्वकूपारतीरमपीति ।
चोदयति---अर्थेति ।
परिहरति---न नेति ।
अर्थग्रहणे क्रियमाणे काल्पनिकत्वं प्रतिषिध्यते, न चाकल्पितं विरुद्धधर्मवदित्येकतरनिर्णयः ।
नेदं पक्षप्रतिपक्षाभ्यामित्यादि चोद्यभाष्यं व्याचष्टेपक्षप्रतिपक्षाभ्यामिति ।
उभाभ्यामित्यादि परिहारभाष्यं व्याचष्टे---उभाभ्यामेवेत्याहेति ।
पृच्छति--एतस्मिन्निति, प्रथमं साधनम्, द्वितीयं दूषणम्, तृतीयं समाधानम् ।
उत्तरम्---सर्वत्र ।
कदाचित् प्रथमे कदाचिद् द्वितीये कदाचित् तृतीये इत्यर्थः ।
अवश्यं तु तृतीय इत्याह---अथ वेति ।
उभयत्र कल्पे प्रश्नः---कथमिति ।
उत्तरम्---एकस्तावदिति ।
तं निवर्त्यं वादिनः साधनं दूषणेन निवर्त्य प्रतिवादी स्वपक्षे साधनं ब्रवीति ।
प्रथम इति वादी ॥
निर्णयो ऽनुमानमेवेति केचित् ।
तथा हि तृतीयलिङ्गदर्शनं प्रत्यक्षफलं निर्णयः ।
तदेव चानुमानमतो निर्णयो नानुमानादतिरिच्यते इत्यर्थः ।
परिहरति---न लिङ्गलिङ्गिति ।
यदि निर्णयमात्रमनुमानमुच्येत, तदा न तस्य सर्वस्य लिङ्गलिङ्गिसंबन्धस्मृत्यपेक्षत्वमिति ।
यदि तु लिङ्गपरामर्शो निर्णयः, तस्य चास्ति लिङ्गलिङ्गिसंबन्धापेक्षेति तत्राह--प्रमाणफलत्वात् ।
सामान्यव्याप्तो विशेषः सामान्यनिवृत्त्या निवर्तते, शिंशपात्वमिव वृक्षत्वनिवृत्त्या ।
न च फले प्रमितिरूपे निर्णये प्रमाकरणत्वं फलत्वे नास्तीति नानुमानत्वं तद्विशेष
इत्यर्थः ।
इतश्चानुमानात् निर्णयो भिद्यते इत्याह--निर्णयः स्वविषय एवेति न हि निर्णयो निर्णयत्वेन प्रतिपत्त्यनुबन्धिभूताद् विषयादन्यत्र, अनुमानं तु तत्र चान्यत्र च ।
यदानुमेयो ऽग्निरेव हेयत्वादिभिः परिच्छिद्यते ऽग्निज्ञानेनानुमानेन, यदा तु धूमज्ञानेनाग्निरनुमीयते तदान्यत्र चेति गमयितव्यम् ।
शेषमतिरोहितम्
मूल पाठ: Nyāyasūtra with Vacaspatimiśra's Nyāyavārttikatātparyaṭīkā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0