न्यायसूत्र (टीका सहित) · अध्याय 1
वाचस्पतिमिश्रविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां
प्रथमाध्यायस्य प्रथमाह्निकम्
न्यायवार्त्तिकतात्पर्यटीका
विश्वव्यापी विश्वशक्तिः पिनाकी विश्वेशानो विश्वकृद् विश्वमूर्त्तिः ।
विश्वज्ञाता विश्वसंहारकारी विश्वाराध्यो राधयत्वीहितं नः ॥
नामामि धर्मविज्ञानवैराग्यैश्वर्यशालिने ।
निधये वाग्विशुद्धीनामक्षपादाय तायिने ॥
ग्रन्थव्याख्याच्छलेनैव निरस्ताखिलदूषणा ।
न्यायवार्त्तिकतात्पर्यटीकास्माभिर्विधास्यते ॥
इच्छामि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमग्नानाम् ।
उद्द्योतकरगवीनामतिजरतीनां समुद्धरणात् ॥
न्य्स्_1,1.1: प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छुलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः॥
अथ भगवताक्षपादेन निःश्रेयसहेतौ शास्त्रे प्रणीते, व्युत्पादिते च भगवता पक्षिलस्वामिना, किमपरमवशिष्यते यदर्थं वार्त्तिकारम्भ इति शङ्कां निराचिकीर्षुः सूत्राकारोक्ताशास्त्रप्रयोजनानुवादपूर्वकं वार्त्तिकारम्भप्रयोजनं दर्शयति-यदक्षपाद इति ॥
यद्यपि भाष्यकृता कृतव्युत्पादनमेतत्, तथापि दिग्नागप्रभृतिभिरर्वाचीनैः कृहेतुसन्तमससमुत्थापनेनाच्छदितं शास्त्रं न तत्त्वनिर्णयाय पर्याप्तमिति उद्द्योतकरेण स्वनिबन्धोद्द्योतेन तदपनीयत इति प्रयोजनवानारम्भ इति ।
सूत्रोक्तप्रयोजनानुवादश्च प्रयोजनवच्छास्त्रव्युत्पादनेन स्वनिबन्धस्य प्रयोजनवत्तां प्रेक्षावत्प्रवृत्त्यङ्गं दर्शयितुम्, व्युत्पादनमात्रस्य च काकदन्तपरीक्षाग्रन्थसाधारण्येन प्रेक्षावत्प्रवृत्त्यनङ्गत्वात् ।
अत्र चैकविशतिप्रभेदभिन्नस्य दुःखस्यात्यन्तिकी निवृत्तिः शमः, तस्मै ।
कस्य? जगतः ।
परमकारूणिको हि भगवान् मुनिः जगदेव दुःखपङ्कमग्नामुद्दिधीर्षुः शास्त्रं प्रणीतवान् ।
तत्र यदि कश्चिन्न प्रवर्तेत, किमायातं शास्त्रस्य? न चानधिकृतपुरुषव्युत्पादनेनास्य तपोनिधेः कश्चिदस्ति दोषः ।
तथा च विश्वामित्रास्त्रिशङ्कुं याजयामास, विशष्ठश्चधमयोनिजामक्षमालामुपयेमे ।
तपःप्रभाव एव हि ताद्दशस्तेषां यत एवंविधाः पाप्मानो विलीयन्त इति ।
न चास्मदादीनां मन्दतपसामयं प्रसङ्गः ।
न हि गजानामुदर्यं तेजो वटकाष्ठमशितं पचतीत्यस्मदादीनामप्युदर्येण तेजसा तथा भवितव्यम् ।
कुतार्किकैर्दिग्नागप्रभुतिभिराहितमज्ञानं कुतार्किकाज्ञानमिति ॥
अविगीतशिष्टाचारपरम्परप्राप्तः परमशिष्टेन वार्त्तिककारेण कृतो ऽपीष्टदेवतानमस्कारो न शास्त्रे निवेशितः ।
न खल्वन्यदपि मङ्गल्यं शास्त्रे निवेशितम्, प्रसिद्धतरतया तु मङ्गल्यान्तरवच्छिष्या अवगभिष्यन्तीति सर्वमवदातम् ॥
तत्र संक्षेपतः प्रथमसूत्रमनूद्य तस्य तात्पर्यमाह--प्रमाणादिपदार्थतत्त्वज्ञानान्निः- श्रेयसाधिगम इत्येतच्छास्त्रस्यादिसूत्रम् ।
तस्य शास्त्रस्य अभिसंबन्धवाक्यम् ।
आदिग्रहणेन क्रमप्राप्तस्यैव प्रथमं व्याख्यानं युक्तम् न द्वितीयादेरिति दर्शितम् ।
अभिमतः संबन्धो ऽभिसंबन्धः, शास्त्रनिःश्रेयसयोर्हेतुहेतुमद्भावः ।
तस्य इदं सूत्रावाक्यमाभिसंबन्धवाक्यम् ।
प्रमाणादिपदार्थतत्वज्ञानादित्यत्र हि ज्ञायते ऽनेनेति ज्ञानमिति व्युत्पत्या तत्वज्ञानं शास्त्रमुच्यते ।
पञ्चम्या च तस्य हेतुत्वम् ।
न हि विषघ्नमन्त्रवत् स्वरूपमात्रेण तदविवक्षितार्थं निःश्रेयसहेतुरिति पदार्थतत्वावगमकरणतया शास्त्रमपदिशति, न तु स्वरूपेण ।
तेन शास्त्रस्य निःश्रेयसे कर्तव्ये प्रमाणादितत्वावगमो ऽवान्तरव्यापार इतयुक्तं भवति ।
तथा च प्रमाणादिपदार्थतत्वं प्रतिपद्यम्, प्रतिपादकं च शास्त्रमिति शास्त्रप्रमाणादिपदार्थतत्वयोर्ज्ञाप्यज्ञापकभावश्च प्रमाणादिपदार्थतत्वज्ञाननिःश्रेयसयोः कार्यकारणभावलक्षणश्च संबन्धः सूचितो भवति ।
तदिदमभिघेयसंबन्धप्रयोजनप्रतिपादनार्थत्वं प्रथमसूत्रस्य ।
पत्पदार्थतत्त्वज्ञानस्य च यथा निःश्रेयसाधिगमं प्रत्युपयोगः तथाग्रे निवेदयिष्यते ।
विनिश्चिताप्तभावश्च मुनेराप्तत्वेन तद्वाक्यात् प्रयोजनादि विनिश्चित्यप्रवर्त्स्यन्ति ।
आप्तत्वाविनिश्चये त्वर्थसंशयात् ।
न खलु कृष्यादावपि विरिश्चितसस्याद्यधिगमानां प्रवृत्तिः, अन्तरावग्रहादिप्रतिबन्धेन फलानुत्पादस्यापि न्यायप्राप्तत्वेन तदभिधानमनर्थकमिति साम्प्रतम्, विशेषस्मृत्यनपेक्षस्य संशयस्यानुत्पादात् ।
वाक्यात् तु विशेषस्मृतिरिति नानर्थक्यम् ॥
तदेवं प्रथमसूत्रतात्पर्यमुक्त्वा भाष्यस्यादिवाक्यतात्पर्यमाह-प्रमाणतो ऽर्थप्रतिपत्तावित्येवमादि तस्यानुसन्धानवाक्यम् ।
तस्य शास्त्रस्य निःश्रेयसाधिगमेन सह सूत्रेण घटितस्य ।
कुतश्चिन्निमित्ताद् विघटनशङ्कायाम् अनु सूत्रघटनायाः पश्चात् सन्धसनं घटनम् अनुसन्धानम्, तस्य वाक्यमनुसन्धानवाक्यमिति ॥
एवं किलात्र शङ्क्यते -- यदशक्यानुष्ठानोपायोपदेशकं तदनर्थकम्, यथा ज्वहरतक्षकचूडारन्तालङ्कारोपदेशकं वचनम् ।
तादृशं चेद शास्त्रमिति ।
तथा हि प्रमेयादीनां तावत्पदार्थानां तत्त्वज्ञानं प्रमाणतत्त्वज्ञानाधीनम् ।
न हि प्रमाणं तत्त्वेनानवधारितं बोधकत्वमात्रण स्वगोचरावधारणायालं तावन्मात्रस्य तदाभाससाधारण्यात्, अपि तु बोध कत्वैकार्थ समवेतेनाव्यभिचारित्वेन ।
तदेव हि प्रमाण्यम् ।
तच्चाशक्यावधारणम् ।
तदनवधारणाच्च प्रमेयादयो दुरवधारणाः ।
तथा हि विज्ञानस्च तावत्प्रामाण्यं स्वतो वा निश्चीयते, परतो वा? न तावत् पूर्वः कल्पः ।
न खलु विज्ञानमानात्मसंवेदनमात्मानमपि गृह्णीयात्, प्रागव तत्प्रामाणण्यम् ।
नापि विज्ञानान्तरम्, तद्विज्ञानमित्यव गृह्णीयात्, न पुनरस्याव्यभिचारित्वेम् ।
ज्ञानत्वमात्रं च तदाभाससाधारणमिति न स्वतः प्रामाण्यावधारणम् ।
एतेन स्वसंवेदननये ऽपि अव्यभिचारग्रहणं प्रत्युक्तम् ।
नापि परतः ।
परं हि तद्गोचरं वा ज्ञानमभ्युपेयेत, अर्थक्रियानिर्भासं वा ज्ञानम्, तद्गोचरनान्तरीयकार्थान्तरदर्शनं वा ।
तच्च सर्वं स्वतो ऽनवधारितप्रामाण्यमाकुलं सत् कथं पूर्वं प्रवर्तकं ज्ञानमनाकुलयेत्? स्वतो वास्य प्रामाण्ये किमपराद्धं प्रवताकज्ञानेन येन तस्मिन्नपि तन्न स्यात् ।
न च प्रामाण्यं ज्ञायते स्वतः इत्यावेदितम् ।
यदा च संवेदनप्रामाण्यमक्तेन क्रमेण दुरधिगमं तदा कैव कथेन्द्रियादीनामव्यभिचारिसंवेदनकार्यव्यङ्ग्यप्रमाणभावानाम्?
तदेव दृष्टार्थाः प्रमाणभृतां व्यवहारा भवन्तु सन्देहादपि यथातथा, अदृष्टार्थास्तु बहुवित्तव्यायायाससाध्या वैदिका व्यवहारा दत्तजला।जलयः प्रसक्ताः ।
तस्मात् प्रमाणादिपदार्थतत्त्वज्ञापनद्वारेण न शास्त्रं निःश्रेयसेन संबध्यत इति ।
सेयमाशङ्का प्रामाण्यज्ञानोपायकथनेनादिवाक्येन भाष्यकृता निराकृता ।
तथा हि प्रमाणमर्थवदिति नित्ययोगे मतुप् ।
नित्यता चाव्यभिचारिता ।
तेनार्थाव्यभिचारीत्यर्थः ।
इयमेव चार्थाव्यभिचारिता प्रमाणस्य यद्देशकालनरावस्थान्तराविसंवादो ऽर्थस्वरूपप्रकारयोस्तदुपदर्शितयोः ।
अत्र हेतुः प्रवृत्तिसामर्थ्यात् समर्थप्रवृत्तिजनकत्वात् ।
यदि पुनरेतदर्थवन्नाभविष्यत्, न समर्थप्रवृत्तिमकरिश्यत्, यथा प्रमाणाभास इति व्यतिरेकी हेतुः ।
अन्वयव्यतिरेकी वा ।
अनुमानस्य स्वतः प्रमाणतया अन्वयस्यापि संभवात् ।
प्रवृत्तिजनकत्वं तु प्रमाणस्य न साक्षात्, किं त्वर्थप्रतिपत्तिजननद्वारेणेत्याह-- प्रमाणतो ऽर्थग्रतिपत्ताविति ।
सर्वस्य चास्योपपत्तिं वार्त्तिकव्याख्यानावसरे निवेदयिष्यामः ॥
स्यादेतत् ।
भवन्तु प्रमाणादयः पदार्थाः शक्यज्ञानाः, शास्त्रेण तु ते नाभिधीयन्त इति न निःश्रेयसेन संगतिः शास्त्रस्येत्वत आह--शास्त्रस्य पुरुषश्रेयो ऽभिधायकत्वात् ।
यद्यपि श्रेयो दुःखनिवृत्तिमात्यन्तिकीं वक्ष्यति, तथापि सोपायैव सा अत्र श्रेयःशब्देन विवक्षिता, तन्मात्रस्य शास्त्राविषयत्वात् ।
तदयमर्थः ।
शास्त्रं तावदेतत् पुरुषश्रेयः सहोपायेनाभिधत्त इत्यनुभवसिद्ध सदशक्यानुष्ठानतयापवदितव्यम् ।
सा चेदशक्यानुष्ठानतापनीता प्रमाणत इत्यादिना संहितं निःश्रेयसेन सह शास्त्रमिति ।
शास्त्रस्येत्यादि ग्रहणकवाक्यं विवृणोति--शास्त्रं पुनरित्यादिना उपभोगात् प्रक्षयेणेत्यन्तेन ।
प्रमाणादिवाचकपदग्रहणेन तल्लक्षणानि च तत्परीक्षाश्वोपलक्षयति ।
तथा च पञ्चाध्यायी शास्त्रमित्यङ्क्तमित्यविरोधः ।
पञ्चाध्याचीत्यनेन व्यूहः समूहिनामुचितानुपूर्वी ।
उपलक्षकपदस्वरूपमाह-- पदं पुनरित ।
एमस्मृतिसमारूढा वर्णा एकार्थप्रतिपादनावच्छिन्नाः समूहः ।
एवं स्वार्थस्मृत्यवान्तरव्यापाराणां सूत्रपदानां नानापदार्थविशिष्टैकपदार्थरूपवाक्यार्थप्रत्यायनकार्यावच्छिन्नानां समूहो वेदितव्यः ।
एवं च क्वचित् केनचिदर्थेनैकेन सूत्रवाक्यानामेकवाक्यत्वं समूहः प्रकरणम् ।
प्रकरणानामपि कयाचित् स्वार्थसंगत्या समूह आह्निकम् ।
एवं तत्र तत्र वेदितव्यम् ।
एताश्च प्रकरणाह्निकाध्यायार्थसंगतीस्तत्र तत्र लेशतो दर्शयिष्यामः ॥
तदेवं शास्त्रस्वरूपं दर्ंशयित्वा नान्तरेण तदर्थकथनं पुरुषश्रेयो ऽभिधायकत्वमस्रू सिध्यितीति तदर्थं कथयति-- तत्पदार्था इति ।
ननु प्रमाणादीनां प्रतिनरमानन्त्येन दुर्ज्ञानत्वमिति तदवस्थमेवानर्थक्यं शास्त्रस्य प्रसक्तमित्यत आह -- षोडशात्मानः ।
आत्मा स्वभावः प्रमाणादीनां प्रमाणत्वादिसामान्यविशेष इति यावत् ।
एतदुक्तं भवति ।
आन्तर्गणिकभेदादानन्त्ये ऽपि स्वसामान्यविशेषैः संगृहीता न दुर्ज्ञाना इति यतो ऽस्य पदार्थाः प्रमाणादयः, तत् तस्मात् शास्त्रं पुरुषश्रेयो ऽभिधत्ते ॥
स्यादेतत् ।
प्रमाणादयः पदार्थाः प्रामाणिका अप्रामाणिका वा? अप्रामाणिकत्वे कल्पनामात्रनिर्मिताः कथं निःश्रेयसाय कल्पन्ते? न य षोडशात्मानः कल्पनाः कोशस्यानन्तप्रसरत्वात् ।
प्रामाणिकत्वे वा प्रमाणादेव तत्सिद्धेः शास्त्रस्य वैयर्थ्यमित्यत आह--प्रत्यक्षेति ।
प्रत्यक्षानुमानाधिगतग्रहणेनाप्रामाणिकत्वं निषिद्धम् ।
अत एव वस्तुतत्त्वमिति ।
प्रमाणादयः पदार्था नोपमानविषया इति नोपमानमुपन्यस्तम् ।
यद्यपि प्रमेयमात्माद्यपवर्गान्तलक्षणमागमिकं तथाप्यागमस्याप्तप्रणेतृकतया तत्रापि मूलभूतमनुमानं प्रत्यक्षं वास्तीति प्रत्यक्षानुमाने एव दर्शिते ।
ननूक्तं प्रामाणिकत्वे शास्त्रवैयर्थ्यमित्यत आह-- तस्य विषय इति ।
व्यवहरमाणा अपि प्रमाणैर्लौकिका वैनयिकबुद्धिविरहिणो नैतान् पदार्थान् विविञ्चते ।
अविविक्ताश्चेते न निःश्रेयसाय कल्पन्त इति अनधिगतेत्यङ्क्तम् ।
आध्यात्मिकी शक्तिः शुश्रूषादिः ।
पुरुषत्युक्तम् ।
तत्र विवक्षितं पुरुषविशेषं ग्रहीतुं संभविनः पुरुषप्रकारान् दर्शयति--पुरुषः पुनरिति ।
हेयं दर्शयति--तत्रेति ।
उपादेयानाह-- इतर इति ।
अपेक्षा जिज्ञासा ।
सा सन्दिग्धस्य तावदस्ति विषयस्य ।
विप्रतिपन्नस्य तु साक्षिणां पुरतो जल्पवितण्डाभ्यां विष्यमाणस्य विगलिते ऽहङ्कारे सन्दिग्धस्य स।जातजिज्ञासस्य सापेक्षस्य सतः ।
अप्रतिपन्नस्यापि केनचित् प्रकारेण सन्देहमापाद्य सापेक्षीकृतस्य प्रतिपाद्यता ।
तदिदमुक्तक्--इतरे सापेक्षाः सन्तः प्रतिपाद्या इति ।
असन्दिग्धो ऽपि तत्त्वप्रतिपादनाय कारूणिकेन सन्दिगधः कृत्वा प्रतिपाद्यत इति ।
तत् किं सापेक्षमाधिकृत्य शास्त्रं प्रवृत्तम्? तथा च प्रमातणां न प्रमाणान्तरे प्रवृत्तिः स्यादित्यत आह-- ते यदेति ।
कञ्चिद् विषयं जिज्ञासवो येदन्द्रियाद्यपेक्षन्ते, तदा प्रत्यक्षेण प्रतिपाद्याः ।
एवमुत्तरमपि योज्यम् ।
अयमभिसन्धिः, न दृष्टप्रयोजनोपयोगिवस्तुविज्ञासा इहापेक्षाभिमता, किं तु निःश्रेयसोपयोगिपदार्थजिज्ञासा ।
सा चास्मिन्नेव शास्त्रे प्रवृत्तिहेतुः नान्यत्र ।
तदिदमुक्तम्-- यदा पुनरिति ।
परमपुरुषार्थयसधनं तु जिज्ञासव इति शेषः ।
इहाभिमतं श्रेयो निर्धारयितुं श्रेयोमात्रप्रमारान् आह--श्रेयः पुनः सुखमहितनिवृत्तिश्च ।
तत्राप्यवान्तरप्रकारानाह--तच्छ्रेयः सुखन्दुःखनिवृत्तिश्च भिद्यमानं द्विधा व्यवतिष्ठते ।
तदाह-- दृष्टादृष्टभेदेन ।
न व्यासज्य किं तु प्रत्येकमित्याह-- दृष्टं सुख स्त्रक्चन्दनवनितादिभोगजन्म ।
अदृष्टं सुखं स्वर्गादि ।
एवं च दुःखनिवृत्तिरपि श्रेयो दृष्टामदृष्टं चेति योजनीयं चकारलोपात् ।
अहितनिवृत्तेः श्रेयस आत्यन्तिकानात्यन्तिकत्वेन दृष्टादृष्टस्य भेदमाह--अहितनिवृत्तिरपीति ।
अभिमतं श्रेयो निर्धारयति--आत्यन्तिकीति ।
पुनरिति निर्धारणमवद्योतयति ।
आत्यन्तिकत्वं निर्वृत्तेर्निवृत्तस्य पुनरनुत्पादः ।
स च कार्यकारणतदनुषङ्गिनिवृत्त्या लक्ष्यते ।
न ह्यकारणं कार्यं जायते ।
तदिदमुक्तम्-- एकविंशतिप्रभदभिन्दुःखहान्येति ।
गौणमुख्यभेदेन चैकविंशतेः शरीरदीनां दुःखत्वप्रकारानाह--एवविंशतीति ।
षष्ठमिन्द्रियं मनः ।
तस्य विषय इच्छाद्वेषप्रयत्नाः ।
यद्यपि विषयः शरीरमपि तथाप्यन्यथास्य दुःखहेतुभाव इत्याह शरीरमिति शरीरावच्छिन्न आत्मप्रदेशो दुःखायतनमिति शरीरं दुःखायतनमुक्तम् ।
इन्द्रियविषयबुद्धदीनां दुःखत्वोपचारे कारणमाह--इन्द्रियाणीति ।
तत्रेन्द्रियाणि तावद् गन्धादिविषयबोधनात्, विषया बोध्यत्वात् ।
बुद्धयस्तु साक्षाद् दुःखसाधनानीति दुःखत्वेनोपचर्यन्ते ।
संखस्य दुःखत्वोपचारबीजमाह--सुखमिति ।
साधनपारतन्त्यं क्षयित्वं काम इति दुःखहेतवः सकलसुखानसङ्गिनः, तस्मात् सुखमपि दुःखानुषङ्गि ।
उक्तप्रकारदुःखहानसाधनमाह--तस्य हानिरिति ।
संशयादितत्त्वज्ञानपरिशोधितपरमन्यायमार्गः खलु हेयोपादेयभूतद्वादशविधप्रमेयतत्त्वपरिभावनभवा प्रसंख्यानेन निर्मृष्टनिखिलप्रवृत्तिहेतुदोषानुषङ्गो ऽप्रवर्तमानो न शरीरेन्द्रियादिहेतुमपूर्वधर्माधर्मप्रचयमातनोति ।
अनादि भवपरम्परोपत्तं च धर्माधर्मप्रचयमनन्तमप्यनियतविपाकसमयमपि प्रसंख्यानपरिपाकप्रभावात् परितस्तत्तदुपभोगभागिनः कायान् निर्माय तत्त्त्फलोपभागात् प्रक्षिणोति ।
अचिन्त्यसामर्थ्यातिशयो हि समाधिः ।
यथाहुरत्रभवन्तः,
को हि योगप्रभावादृते अगस्त्य इच समुद्रं पिबति, स इव च दण्डकारण्यं सृजति?
# योगभाष्ये # 8.10
इति ।
सेयमात्यन्तिकी दुःखनिवृत्तिः श्रेयः ।
तदिदमुक्तम्--शास्त्रस्य पुरुषश्रेयो ऽभिधायकत्वादिति ॥
स्यादेतत् ।
केवलस्य दुःखस्यात्यन्तिकी निवृत्तिः श्रेयः पुयषप्रवृत्त्यङ्गम् ।
इयं तु दुःखवत् सुखस्याप्यात्यन्तिकी निवृत्तिरिति कथं श्रेयः, कथं च प्रेक्षावत्प्रवृत्त्यङ्गमित्यत आह--पुरुषा रागादिमन्त इति ।
यद्यपि रागादिमता पुथग्जनानामेतन्न प्रवृत्त्यङ्गम्, ते हि मधुविषसंपृक्तमप्यन्नं मधुरतया आपातरमणीयं विषविङ्गत्तु मारयतु मा व मीमरदुपयु।ज्महे तावदापातसुखम्, को हि हस्तगतं पादगतं करोतीति विचिन्त्योपभु।जते ।
विवेकिनस्तु आयतिमालोचयन्तः स्वर्गमपि कुपितफणिफणामण्डलच्छायप्रतिम इत्यपजहति ।
तेन मा भूदेतद् रागादिमतां प्रवृत्त्यङ्गम्, विवेकिनां तु भविष्यति ।
अविवेकिनामपि चाप्रतिपन्नविप्रतिपन्नानां विवेकाधानोपयः पूर्वमावेदितः ।
शास्त्रप्रवृत्त्यङ्गमात्रमेव चेह विवेको वैराग्यमभिमतमिति ।
प्रवृत्तेर्द्वैविध्यम् ऐकरूप्यं द्वैरूप्यं च ।
पुरुषभेदो रागवैराग्याभ्याम्, प्राप्तव्यस्य सर्वस्य सुखस्य दुःखसंभेदेनानिष्टपक्षनिक्षेपादनिष्टप्रतिषेधार्थैव प्रवृत्तिर्विवेकिनामेकरूपैव ।
अविवेकिनां तु प्रवृत्तिर्द्विरूपेत्युक्तम् ॥
तदनेन प्रपञ्चेन प्रमाणतो ऽर्थप्रतिपत्तवित्यादिवाक्यस्य तात्पर्यमभिधाय तदवयवं प्रवृत्तिसामर्थ्यादिति विवरीतुं भूमिमारचयति--प्रवृत्तेरपीति ।
दृष्टं प्रवृत्तिसामर्थ्यं हेतुरिति रागादिमत्प्रवृत्तिसामर्थ्यमुपन्यस्तम्, न तु वीतरागानाम्।न हि तत्प्रवृत्तेर्निः- श्रेयसाध्गिमलक्षणफलसंबन्धो दृष्टो निःश्रेयसस्यालौकिकत्वात् ।
प्रमाणस्यार्थवदनर्थकत्वाद् इत्ययुक्तम्, प्रमाणमनर्थकमिति हि विप्रतिषिद्धमित्यत आह-- प्रमाणं तावदिति ।
न ह्यप्रमाणमप्रमाणमिति गृहीतं प्रवृत्त्यै कल्पते ।
किं तर्हि? प्रमाणमिति ।
न चाप्रमाणे प्रमाणाभिमानो विना प्रमाणादिसाधर्म्यादिति तत्साधर्म्यं पृच्छति--किं पुनरिति ।
उत्तरम्--सामान्यपरिच्छेदकत्वम् ।
तद्विवृणेति--प्रमाणेनापीति ।
रजतविज्ञानमपि पुरोवर्ति शुक्लभास्वरं सद्द्रव्यं परिच्छिनत्ति, शुक्तिकाज्ञानमपि ।
केवलमेकस्मिन्नव विषये रजतसमारोपापवादाभ्यां बुद्धचोर्वाधकभाव इति भावः ।
तदेवमुभयतः प्रवृत्तिः समर्थात् प्रमाणादेव, नाप्रमाणादर्थव्यभिचारिण इत्याह--सो ऽयं प्रमातेति ।
ततश्च सिद्धः समर्थायाः प्रवृत्तेरनर्थवद्वचतिरेक इत्यभिसन्धिः ।
तथा च समर्था प्रवृत्तिरनर्थवद्वचतिरेकसंपन्नप्रमाणस्यार्थवत्त्वे हेतुरित्याह--तस्याः समर्थायाः प्रवृत्तेर्हेतोः पुनः प्रमाणस्यार्थवत्त्वमर्थाव्यभिचारित्वम् ।
असमर्था त्वनन्तरापि न संबध्यते योगयताविरहात् ॥
संप्रत्यादिवाक्यमाक्षेप्तुमनुवदति-- प्रमाणत इति ।
आक्षिपति--परस्परेति ।
समाधत्ते--नेति ।
आक्षेपवाक्यं विभजते--यदि प्रमाणत इति ।
न तावदर्थप्रतिपत्तिः प्रवृत्तिहेतुरपि तु तद्विनिश्चयः ।
न च तन्मात्रम्, अपि तु तदर्थजातीयस्य श्रेयोहेतुतामसकृदुपलभ्य संप्रत्युपलभ्यमानस्यार्थस्य तज्जातीयतया श्रेयोहेतुभावानुमानसहितो विनिश्चयः प्रवृत्तिहेतुः ।
सेयं श्रेयःसाधनतानुमानसहिता प्रमाणतो ऽर्थप्रतिपत्तिर्विनिश्चतिः समर्थप्रवृत्तिनिमित्तमुक्ता ।
न चार्थविनश्चयः प्रामाण्यावधारणमन्तरेण, प्रामाण्यावधारणं च श्रेयोहेतुतानुमाननिमित्तव्याप्तिग्रहणं च न समर्थां प्रवृत्तिं विना, न च समर्था प्रवृत्तिस्ताभ्यां विवनेति परस्पराश्रयता ।
तदिदमुक्तम्, चदि पूर्वं प्रमाणतो ऽर्थप्रतिपत्तिः र्विनिश्चितिरपेक्षितोपयतानुमानसहिता प्रवृत्तिसमार्थ्यमन्तरेण किमिति प्रतिपद्यते निश्चिनोति अपेक्षितोपाय एवेति च तोयमेवेति चेति? समाधानं विभजते--तच्च नैवमिति ।
यत् तावदुक्तम्, प्रमाणस्य दुरवधारणत्वादर्थविनिश्चयाभावान्न प्रवृत्तिसामर्थ्यमिति, तत्र ब्रूमः--सत्यम्, न स्वतः प्रामाण्यं शक्यावधारणम् ।
परतस्तु दृष्टार्थेष्वनभ्यासदशापन्नेषु प्रवृत्तिसामथ्यदिव तद् गम्यते ।
अर्थप्रतीत्यधीना तु प्रवृत्तिर्नार्थावधारणाधीना, अर्थसन्देहादपि प्रेक्षावतां प्रवृत्तेः ।
नो खलूपायताविनश्चयेनापि प्रवर्तमाना न अनागतफले सन्दिहते ।
तदमी संदिहाना अपि प्रवर्तमानाः प्रवृत्तिसमार्थ्यात् प्रमाणस्य तत्त्वं विनिश्चत्य तज्जातीयस्यान्यस्याभ्यासदशपन्नस्य प्रवृत्तिसमार्थ्यात् प्रागेव तज्जातीयत्वेन लिङ्गेन प्रामाझयावधारणात् अर्थविनिश्चयेन प्रवर्तन्ते ।
एवं च दृष्टार्थमन्त्रायुर्वेदप्रामाण्यं प्रवृत्तिसामर्थ्येनावधार्य तज्जातीयस्याप्तोक्तस्यादृष्टार्थस्य वेदस्य विनापि प्रवृत्तिसामर्थ्यं प्रामाण्यावधारणमाप्तोक्तत्वेन निवेदयिष्यते ।
न च फलज्ञानं परीक्ष्यते प्रेक्षावद्धिः, तस्य यादृशतादृशस्यापीष्टत्वादिष्टलक्षणत्वाच्च फलस्य तत्साधनत्वं ते परीक्षन्ते ।
तथा हि तोयज्ञानम्, पिपासोस्तत्र प्रवृत्तिः, प्रवृत्तस्य तदाप्तिः, आप्तस्य पानम्, पानेन चोदन्योपशान्तिरित्येतावतैव प्रमाता कृती भवति, न पुनरुदन्योपशममपि परीक्षते, तस्य यादृशतादृशस्यापीष्टत्वादिति केचित् ।
वयं तु ब्रूमः, फलज्ञानमप्यभ्यासदशापन्नतया तज्जातीयत्वेन लिङ्गेनावधृताव्यभिचारमेव ।
एवं तत्पूर्वं तत्पूर्वतरं तत्पूर्वतममिति ।
न च संप्रतितनस्य फलज्ञानस्य प्रामाण्यावधारणायेदानीमेव पूर्वस्य फलज्ञानस्य तज्जातीयत्वेन प्रमाण्यावधारणे सत्यनवस्थेति ।
वाच्यम् ।
पूर्वतरसाधर्म्येण पूर्वमेव पूर्वस्यावधृतप्रामाण्यत्वात् ।
एवं पूर्वतमसाधर्म्येण पूर्वतरस्य ।
एवं तत्पूर्वसाधर्म्येण पूर्वतमस्येत्यनादितयैवात्र परिहारः ।
एतेषु च मध्ये यत्फलज्ञानं स्वप्नाद्युपभोगतुल्यतया शङ्कितव्यभिचारं तदनभ्यासदशापन्नम् ।
अतः प्रवृत्तिसामर्थ्यं तत्र प्रामाण्यावधारणाय विनिवशनीयमित्यर्थप्रतिपत्तिप्रवृत्तिसामर्थ्ययोरनादित्वमुक्तम् ।
अनुमानस्य तु प्रवृत्तिसामर्थ्यलिङ्गजन्मनो ऽन्यस्य वा निरस्तसमस्तव्यभिचारशङ्कस्य स्वत एव प्रामाण्यमनुमेयाव्यभिचारिलिङ्गसमुत्थत्वात् ।
न हि लिङ्गाकार ज्ञानं लिङ्गं विना, न च लिङ्गं लिङ्गिनं विनेति स्वत एव गृहीताव्यभिचालिङ्गसमुत्थं निष्कम्पमुपपद्यते ज्ञानम् ।
प्रत्यक्षज्ञानं त्वर्थादुत्पद्यमानमपि न गृहीताव्यभिचारात्, अपि तु सत्तामात्रेणावस्थितात् ।
न च कारणान्तराण्यपीन्द्रियादीनि अस्यार्थेन गृहीताव्यभिचाराणि न चार्थेनाव्यभिचाराणि ।
शाब्दं तु ज्ञानु नार्थादुत्पद्यते,
तदभावे ऽपि सति शब्दे भावात् ।
नापि लिङ्गस्येव शब्दस्यार्थाव्यभिचारः, किं तु सङ्केतग्रहणमात्रात् पदार्थप्रत्यायनेन वाक्यार्थमधिगमयति शब्दः ।
तस्मात् प्रत्यक्षशाब्दविज्ञानयोर्न स्वतो ऽव्यभिचारग्रह इति ।
प्रवृत्तिसामर्थ्यं तज्जातीयत्वं वा लिङ्गमर्थाव्यभिचारायानुसरणीयम्, ज्ञानगततज्जातीयत्वलिङ्गग्राहिणश्च ज्ञानस्य मानसप्रत्यक्षस्य तादृशस्यादृष्टव्यभिचारतया परितो निरस्तसमस्तविभ्रमाशङ्कस्य स्वतः प्रामाण्यमिति नानवस्था ।
ऐतेनोपमानं व्याख्यातम् ।
संवेदनस्य चार्थावरुभिचारिताकथनेन तत्कारणानामिन्द्रियादीनामपि प्रमाणत्वमक्तं वेदितव्यम् ।
न ह्यव्यभिचारिविज्ञानजनकत्वादन्यदेषां प्रामाण्यम् ।
न चार्थव्यभिचारिणामिन्द्रियादीनां कथमर्थाव्यभिचारिविज्ञानजनकत्वमिति सांप्रतम्, कारणस्वभानियोगपर्यनुयोगयोरशक्यत्वात् ।
तस्मादर्थसन्देहादनभ्यासदशापन्नात् प्रमाणता ऽर्थप्रतिपत्तौ प्रवृत्तिसमार्थ्यसंभवात् प्रवृत्तिसमार्थ्यज्ञानस्य चाभ्यासदशापन्नस्य तज्जातीयत्वेन प्रामाण्यानुमानादनभ्यासदशापन्नस्य तु प्रवृत्तिसामर्थ्यान्तरज्ञानेन प्रामाण्यानुमानादनादित्वान्नार्थप्रतिप्रवृत्तिसामर्थ्ययोः परस्पराश्रयत्वमस्तीति ।
अर्थस्यापेक्षितोपायतानुमानप्रवृत्तिसामर्थ्ययोः परस्परापेक्षत्वमवशिष्यते ।
तत्राप्यनादितापरिहारः ।
उत्पन्नमात्रकस्य हि बालकस्य स्तनं दृष्ट्वा प्राग्भवीयस्तज्जातीयापेक्षितानुभवजनितः संस्कार आविरस्ति ।
ततश्च स्मरणम् ।
ततो ऽपेक्षितोपायतानुमानम् ।
ततः प्रवृत्तिः ।
ततस्तस्याः सामर्थ्यम् ।
एवं पूर्वस्मिन् पूर्वस्मिन् जन्मनीत्यनादितया न बीजाङ्कुरवत् परस्परापेक्षितेति ।
अर्थप्रतिपत्तिरिति ।
अर्थप्रतिपत्तिश्वार्थस्यापेक्षितोपायताप्रतिपत्तिश्चेत्यर्थः ।
तस्मात् सर्वमवदातम् ॥
तदनेनोक्तेन क्रमेण प्रमाणतो ऽर्थप्रतिपतावित्यस्य शास्त्रानुसन्धानवाक्यत्व तात्पर्यं च समाहितम् ।
इदानीमस्यैव तात्पर्यान्तरमाह--प्रमाणप्रवृत्योर्वेति ।
तत्रेदममाशाङ्क्यते मुनिर्हि प्रत्यक्षसंशयादिव्युत्पादनद्वारेण साक्षाच्चानेन शास्त्रेणान्वीक्षिक्पा हेयोपादेयभावावस्थितद्वादशविधप्रमेयव्युत्पादकं न्यायमनुमानपरनामानं निःश्रेयससिद्धये व्युत्पादयांबभूव ।
न च न्यायतः प्रमाणात् प्रमेयतत्त्वनिश्चयमात्रान्निःश्रेयसाधिगमः ।
अपि त्वाद्यन्तवर्ज्जं दशानां प्रमेयाणां दुःखसंज्ञाभावनम्, आत्मनश्च याथात्म्यभावनमित्यादिभ्यः प्रवृत्तिभ्य आत्मतत्त्वसाक्षात्कारवैराग्यपरिपाकक्रमेणापूर्वयोर्धर्माधर्मयोरनुत्पादेनोत्पन्नयोश्वोपभोगात् ।
प्रक्षयेणेति ।
तथा च निःश्रेयसं प्रत्यन्तरङ्गत्वात् प्रमाणान्न्यायात् प्रवृत्तिरेव बलीयसी, न न्यायः ।
तस्मात् प्रवृत्तिरेव व्युत्पादनीया न प्रमाणं निःश्रेयसहेतुरपि प्रवृत्तेरन्तरङ्गत्वात् ।
तत्रेदभुपतिष्ठते प्रमाणतो ऽर्थप्रतिपत्तौ सत्या प्रवृत्तेः समार्थ्यं फलेनाभिसंबन्धो, न तु प्रमाणतो ऽसत्यार्थप्रतिपत्तौ ।
तस्मादर्थवत् प्रयोजनवत् प्रमाणमपि प्रवृत्तिवदेव ।
एतदुक्तं भवति, यथान्तरङ्गतया प्रवृत्तिर्बलीयसी एवं मूलकारणतया प्रमाणमपि ।
न ह्यप्रमाणात् प्रवृत्तिः फलेनाभिसंबध्यते ।
तस्मात् तुल्यमुभयमपि ।
तथापि प्रमाणव्युत्पादनेन प्रवृत्तिरपि व्युत्पादिता भवतीति प्रमाणस्य व्युत्पादनमकारि शास्त्रेण, न तु प्रवृत्तेः ।
सामान्याभिधानं च परमन्यायपरम्, तस्यैव प्रकृतत्वादिति ।
प्रामाण्यज्ञानोपायप्रतिपादनपरतयानुसन्धानवक्यत्वमस्य पूर्वमुक्तम् ।
संप्रति परपर्यनुयोगमुखेनास्यानुसन्धानवाक्यत्वु प्रतिपादयति-- लोकवृत्तेति ।
यथा हि प्रमाणप्रतिपत्त्युपायं प्रत्याचक्षाणक एवं प्रष्टाव्यो जायते, किं भवान् प्रमाणेन प्रमाणज्ञानोपायं प्रत्याचष्टे, अप्रमाणेन वेति? यदि ब्रूयात् प्रमाणेनेति, स प्रतिवक्तव्यः, प्रमाणज्ञानोपायमविद्वान् कथं भवानेवमाहेति? अप्रमाणेनेति चेदनुज्ञया वर्तितव्यम् ।
अथ प्रमाणेनागृहीतप्रामाण्येनेति, वा।मनसयोर्विसंवादः ।
तस्मादनिच्छतापि त्वया लोकवृत्तमनुसरणीयम् ।
अन्यथा नासि लौकिको न परीक्षक इत्युन्मत्तवदुपेक्षणीयः स्या इति ।
तदिदं लोकवृत्तमाक्षेप्तारं बोधयितुमनेन भाष्येणानूद्यते प्रमाणतो ऽर्थप्रतिपतौ प्रवृत्तिसामर्थ्यावत् प्रमाण यतो ऽतः सर्वः प्रमाता प्रमाणेनावगतार्थवत्त्वेनार्थमवधार्य प्रवर्तमानः फलमुपलभत इति लोकवृत्तम् ।
तत् प्रमाणत इत्यादिना वाक्येन कारणप्रदर्शनद्वारेणानूद्यते ॥
अस्यैव भाष्यस्य तात्पर्यान्तरं वक्तु भूमिमारचयति--हेयहानेति ।
अर्थो ऽर्थशब्दः प्रमाणतो ऽर्थप्रतिपत्तावित्यत्र स्थितः पदं वायकं येषां तानि तथा ।
एतद्वात्तिकग्रन्थस्यैतादृशंव्याख्यानम्, भाष्यगतस्य त्वन्यथा भविष्यति ।
उपायः शास्त्रमिति ।
शास्त्रशब्दस्तदर्थपरः, अर्थस्यापि शब्दवच्छास्त्रशरीरत्वात् ।
अत्र च हेयहानाधिगन्तव्यपदैः प्रमाणप्रमेययोरूपादानाद् गोबलीवर्दन्यायेन संशयादिषु निग्रहस्थानान्तेषु शास्त्रपदं प्रवर्तते ।
तेनोपायपदेन संशयादयो निग्रहस्थानान्तो एवोक्ता इति ।
ग्रहणकवाक्यं विवृणेति--हेयमिति ।
तात्पर्यमाह--एतस्मिंश्चेति ।
चेन प्रमाणप्रमाप्रमातृप्रमेयरूपं चतुर्वर्गान्तरमपि सूचयति ।
तत्र हेयादिचतुर्वर्गे चार्यमाणतयार्थपदसूचिते प्रमाणादिचतुर्वर्गे च प्रमाणस्य प्राधान्यप्रदर्शनार्थमिदं भाष्यम् ।
यद्यपि चतुर्वर्गद्वयतत्त्वावगमो निःश्रेयसाधिगमहेतुः, तथापि प्रमाणमेव प्रधानम्, तन्मूलत्वादितरसिद्धेः ।
तदिदमुक्तम्, अर्थवदिति ।
अतिशायने मतुप् ।
प्रमात्राद्यपेक्षया हेयाद्येपक्षया चातिशयेन प्रयोजनवत् प्रमाणम् ।
कस्मात्? प्रमाणतो ऽर्थप्रतिपत्तौ सत्यां प्रवृत्तस्य प्रमातुस्तदितरप्रतिलम्भात् ।
प्रमायाश्च तत्कार्यत्वात् ।
तदिदमुक्तम्--प्रवृत्तिसामर्थ्यादिति ।
तदेतस्मात् प्राधान्याद् विवक्षाभेदेन त्रिवर्गद्वयात् प्रागुद्देशः प्रमाणस्येति ।
एतेन यदाहुरेके यदि प्राधान्यात् प्राथम्यं तत् प्रमेयस्यैव, अथोषायत्वात् तत् संशयादीनाम्,
तेषां प्रमाणोपायत्वात्, कस्माच्च प्रमात्रादिभ्यः प्राथम्यं प्रमाणस्येति? तन्निरस्तं भवति, प्रमाणोपायानामपि संशयादीनां प्रमाणाधीनत्वादिति ।
नन्ववगतम्, अर्थपदतया हेयादिचतुर्वर्गो दर्शित इतिः, प्रमाणादिचतुर्वर्गस्तु कथं प्रदर्शित इति पृच्छति--कथं पुनरिति ।
उत्तरं प्रमाणग्रमेयाधिगतय इति ॥
तदेवं तात्पर्यं व्याख्यायावयवार्थं व्याख्यातुमुपक्रमते--तदिदं वाक्यामवयवश उपन्यस्य वर्ण्यते व्याख्यायते ऽवयवश इति ।
तत्रास्यावयवेषु व्याख्यातव्येषु प्राथम्यात् प्रमाणत इति विवृणोति--तत्रेति ।
विभजते-प्रमाणत इतीयं निमित्तपञ्चमी ।
निमित्तपञ्चमी चेत् कस्मात् प्रमाणादिति नाभिहितमित्यत आह-- अस्येति ।
प्रमाणत इत्येवंरूपस्याभिधानं वचनव्याप्त्यर्थं विभक्तिव्याप्त्यर्थं चेति ।
वचनव्याप्त्यर्थमिति मृश्यामहे, न तु विभक्तिव्याप्त्यर्थमिति, पञ्चमीव्यतिरेकेण तसेरभावादित्याह----कथं पुनरिति? परिहरति--लभ्यत इति ।
व्याप्तेः प्रयोजनं पृच्छति-किं सिद्धं भवतीति ।
उत्तरं-वचनव्याप्त्या संप्लवो व्यवस्था च ।
तदुभयं विभजते--प्रमाणेनेति ।
यत्र द्वयोर्बहूनां वा संपल्वः प्रमाणानां तत्रैकैकस्याप्यस्ति प्रतिपत्तिसाधनत्वं प्रमाणस्येति कथयितुं संप्लवावसरे ऽपि प्रमाणेनेत्यङ्क्तम् ।
अत एव व्यवस्थायामेवकारः प्रमाणेनैवेति ।
विभक्तिव्याप्तेः प्रयोजनमाहविभक्तिवयाप्त्या हेततुकरणभावः ।
गम्यते इत्यनुषज्यते ।
तद्विभजते-प्रमाणादर्थाधिगतिर्भवतीति हेतुत्वं गम्यते ।
प्रमाणेनार्थाधिगतिर्भवतीति करणरूपो ऽर्थो गम्यत इति संबन्धः ।
कस्मात् पुनः करणार्थो गम्यत इत्यत आह--प्रमाणेनेति ।
अर्थमर्थाधिगति साधयतीति साधकतमत्वात् ।
अत्र च करणभावनान्तरीयकस्य हेतुभावस्य पञ्चम्य अभिधानं प्रमाणफलयोस्तादात्म्यप्रतिषेधार्थम्, भेदाधिष्ठानत्वाद्धेतुफलभावस्य, न खलु परशुरेव च्छिदेति ।
प्रमाणप्रातिपदिकलब्धकरणत्वानुवादश्च प्रमाकारकान्तरेभ्यो ऽभ्यर्हितत्वेनास्य व्युत्पाद्यत्वं च प्राथम्यं च युक्तमिति दर्शयितुं संप्लवमाक्षिपति--संप्लवेति ।
समाधत्ते--नेति ।
आक्षेपु विभजते--स्यान्मतिरिति ।
विशिष्टो भिन्नो विषयो येषां तानि तथा ।
बहुवचनमान्तर्गणिकभेदाभिप्रायम् ।
अर्थसामर्थ्यसमुत्थं हि प्रत्यक्षमर्थगोचरम् ।
स एवार्थः प्रत्यक्षगोचरो यो ज्ञानप्रतिभासमात्मनो ऽन्वयव्यतिरेकावनुकारयति ।
न च सामान्यं निरस्तसमस्तार्थक्रियासामर्थ्यमेवं भवितुमर्हति ।
स्वलक्षणं तु स्यात ।
तदेव हि परमार्थसत्, अर्थक्रियासामर्थ्यलक्षणत्वाद् वस्तुनः ।
एतदेवास्य स्वमसाधारणं लक्षणं यद्देशतो ऽननुगमेनादेशात्मकस्य परमाणुत्वम्, कालतो ऽननुगमेन च क्षणिकत्वम् ।
तस्मात् स्वलक्षणविषयं प्रत्यक्षम् ।
न च स्वलक्षणमनुमानस्यापि गोचरः ।
तद्धि गृहीतप्रतिबन्धलिङ्गहेतुकम् ।
प्रतिबन्णश्च तादात्म्यतदुत्पत्तिलक्षणः स्वलक्षणविषयो ऽशक्यग्रह इति सामान्यधर्मावाश्रयते ।
न च सामान्यमेकमनेकदेशकालावस्थासंसर्गि भवितुमर्हति ।
तदिदमनादिवासनोद्भूतविकल्पधिष्ठानं विकल्पाकारस्य वा अलीकस्य वा बाह्यत्वमनुमानगाचरो ऽभ्युपेयम् ।
तच्च भावाभावसाधारण्याच्च बाह्यसादृश्यच्च नियतप्रतिभासत्वाच्चान्यव्यावृत्तिनिष्ठम् ।
यत् खलु भावाभावसाधारणम्, तदन्यव्यावृत्तिनिष्ठमेव यथा अमूर्तत्वम् ।
तद् विज्ञानादौ भावे शशविषाणादौ चाभावे साधारणम् ।
भावाभावसाधारणश्च विकल्पगोचरो ऽस्ति घटो नास्ति घट इति ।
यदि पुनरसाधारणो भावो भवेद् अस्तिशब्दो न प्रयुज्येत, पुनरुक्तत्वात् ।
नास्तीयपि न वक्तव्यं विरोधात्, एवमभावासाधारण्ये ऽपि वाच्यम् ।
न चालीकस्य सर्वसामर्थ्यविरहिणः परमार्थसत्ता स्वलक्षणेन सादृश्यं मन्यते ऽन्यव्यावृतेः ।
न च गौरिति नियतौ बुद्धिव्यपदेशौ विनाश्चादिव्यावृत्तिम् ।
तस्मात् सामान्यमन्यव्यावृत्तिरूपमबाह्यं बाह्यभेदाग्रहाद् बाह्यत्वेनावगाह्यमानमनुमानं बाह्यो प्रवर्तयति ।
पारम्पर्येण च बाह्यप्रतिबन्धाद् बाह्यं प्रापयत् संवादकं सद् भ्रान्तमपि प्रमात्राशयवशात् प्रमाणम् ।
तदस्य न स्वलक्षणं गोचरः ।
प्रत्यक्षमपित न सामान्यगोचरमित्यावेदितम् ।
न चाभ्यामन्यत् प्रमाणमस्ति, प्रमाणस्य सतो ऽत्रैवान्तर्भावात्, अनन्तर्भावे वा प्रमाणत्वानुपपत्तः ।
न च सामान्यविशेषाभ्यामन्यदस्ति प्रमेयान्तरं यत्रैते तत् संप्लोष्येते इत्यर्थः ॥
समाधानवाक्यं विवृणोति--एतच्च नेति ।
यथा चैतत् तथा तत्र तत्र निवेदयिष्यते ।
विशेषो व्यवच्छेदकः ।
स च वक्रकोटरादिरन्त्यश्च ।
व्यवस्थासङ्करोदाहरणान्याह--इन्द्रियवदिति ।
संप्लवममृष्यमाण आह--अधिगतत्वादिति ।
समाधत्तेनान्यथेति ।
आक्षेपं विवृणोति--यदीति ॥
स्यादेतत् ।
नास्ति वैयर्थ्यमधिगतीनामाशुतरविनाशितया तद्गोचराधिगत्यन्तरोत्पादं प्रति प्रमाणान्तरस्यार्थवत्त्वादित्यत आह--अधिगतं चार्थमधिगमयता प्रमाणेनेति ।
यद्यप्यधिगतय आशुतरविनाशिन्यः,
तथाप्येकतरप्रमाणजनितार्थाधिगलिब्धजन्मनः संस्कारादेव स्थायिनस्तदर्थस्मृतिसन्ततिसंभावाद् अधिगमर्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यादिति ।
समाधिवाक्यं विवरीतुमनुवदति--नान्यथेति ।
विवृणोति--न ब्रूम इति ।
अयमभिसन्धि, न हि प्रमाणकारणानि प्रेक्षावन्तिः, येनैवमालोचयेयुः--जनितमेव प्रमाणमन्यमेनास्मासु, वयमिहोदास्मह इति ।
नापि स्वकारणबललब्धजन्मानि प्रमाणानि दिर्शितो ऽयमर्थो ऽन्यतमेन चास्मासु प्रमाणेन, कृतमस्माभिरिति विरन्तुमर्हन्ति ।
प्रमातुश्चेतनत्वादयमनयोग इति चेत्--न, प्रियतमस्य वस्तुनो ऽनेन भूयो भूयः प्रमित्सितत्वात् ।
अप्रमित्सितस्यापि च दुर्जनवचनादेः प्रमेयस्यानेन प्रमीयमाणत्वात् ।
तस्मान्न प्रमात्रभिसन्धानात् प्रमाणस्य प्रवृत्तिरप्रवृत्तिर्वार्थे, किं तु समार्थ्योत् ।
अन्यथाग्निदाहादिदुःखस्याप्रत्यक्षत्वप्रसङ्गः ॥
चत्तु प्रमाणं प्रमित्साधीनप्रवृत्ति तद्यदि प्रमाता न व्यापारयेत् किमायातं प्रमाणस्य? न हि तोयमपि पिपासुना न पीयत इति तस्य पिपासोपशमनशक्तिरपीति ।
तस्मात् प्रत्युत्पन्नकारणसामग्रीजनिता बुद्धिः प्रमा ।
तज्जनकानि च प्रमाणानि समानविषयाण्यपि ।
स एव चानेन सामग्रीभेदः प्रदर्शितः अन्यथा प्रत्यक्षेणेत्यादिना ।
यद्यपि साक्षात्कारासाक्षात्कारादिरपि प्रकारभेदो ऽस्ति, तथाप्यसौ प्रकृतानुपयोगान्नोक्तः ।
यदि च द्रव्यं त्वचा गृहीतमिति कृतं चक्षुषा, चक्षुषा वा गृहीतमिति कृतं त्वचेत्युच्येत, न रूपविज्ञानं वा स्पर्शविज्ञानं वोपजायेत ।
तदर्थं चक्षुर्वा त्वग्वाम्युपेतव्यम् ।
तथा च संप्लववैयर्थ्ये ऽपि व्यवस्थायां न वैयर्थ्यमित्याह--विषयान्तर इति ।
प्रकृतमुपसंहरतितस्मादिति ॥
विभक्त्यर्थं निरूप्य प्रातिपदिकार्थनिरूपणमवतारयति--प्रमाणेति ।
अत्र चावधार्यते ऽनेनेत्यवधारणं विचार इति ।
विचारणाय भावभवितारौ पृच्छति-- किं पुनरिति ।
केचिदाहुः, अनधिगतार्थगन्तृ प्रमाणमिति ।
विषयसारूप्यं साकारस्य विज्ञानस्येत्यन्ते ।
विज्ञानस्यैवानाकारस्यात्मानामप्रकाशनसामर्थ्यमित्यपरे ।
उपलब्धिसाधनमिति वृद्धाः ।
तस्माद् विप्रपित्तेः संशयात् प्रश्र्नः ।
भावप्रश्र्नव्याख्यानेन भवितृश्नो वयाख्यातः ।
उत्तरम्--उपलब्धिहेतुः प्रमाणम् ।
न च संशयविपर्यासरूपोपलब्धिकारणयोः प्रसग्डः, अर्थवदित्यधिकारत्, तयोश्वेपदर्शितार्थव्यभिचारेणानर्थवत्त्वात् ।
नो खलु विकल्पयमानं वस्त्वस्ति, अर्थक्रियासु वोपयुज्यते ॥
स्यादेतत् ।
स्मृतिहेतोरपि प्रामाण्यप्रसङ्गः ।
न ह्यसौ नोपलब्धिहेतुः ।
न चार्थसहकारि प्रमाणमिति संस्कारस्यार्थसहकारिताविरहादप्रामाण्यमिति सांप्रतम्, नदीपूरस्य पिपीलिकाण्डसंचरणस्य चातीतानागतवर्षलिङ्गस्य, शब्दस्यातीतानागतगोचरस्यार्थसहकारिताविरहिणश्चप्रमाणत्वप्रसङ्गात् ।
ज्ञापकत्वेन कार्यत्वेन वा कथञ्चिदर्थसंबन्धे संस्कारस्यापि तत् समानमिति तस्यापि स्मृतिरूपोपलब्धिहेतोः प्रामाण्यं प्रसक्तम् ।
मैवम्, प्रमाणशब्देन तस्यापास्तत्वात् ।
प्रमासाधनं हि प्रमाणम् न च स्मृतिः प्रमा ।
लोकाधीनावधारणो हि शब्दार्थसबन्धः ।
लोकश्च संस्कारमात्रजन्मनः स्मृतेरन्यामुपलब्धिम् अर्थाव्यभिचारिणीं प्रमामाचष्टे ।
तस्मात् तद्धेतुः प्रमाणमिति न स्मृतिहेतौ प्रसङ्गः ।
अनधिगतार्थगन्तृत्वं च धारावाहिकविज्ञानानामधिगतार्थगोचराणां लोकप्रसिद्धप्रमाणभावानां प्रमाण्यं विहन्तीति नाद्रियमहे ।
न च कालभेदेनानधिगगोचरत्वं धारावाहिकानामिति युक्तम्, परमसूक्ष्माणां कालकलाभेदानां पिशितलोचनैरस्मादृशैरनाकलनात् ।
न चाद्येनैव विज्ञानेनोपदर्शितत्वादर्थस्य प्रवर्तितत्वात् पुरुषस्य प्राप्तित्वाच्चोत्ततेषाम्, अप्रामाण्यममेव विज्ञानानामिति वाचयम् ।
न हि विज्ञानस्यार्थप्रापणं प्रवर्तनादन्यत्, न च प्रवर्तनमप्यर्थप्रदर्शनादन्यत् ।
तस्मादर्थप्रदर्शनमात्रव्यापारमेव ज्ञानं प्रवर्तकं प्रापकं च ।
प्रदर्शन च पूर्ववदुत्तरेषां विज्ञानामभिन्नमिति कथं पूर्वमेव विज्ञानं प्रमाण नोत्तराण्यपि? पुरुषापेक्षया तु प्रामाण्ये चन्द्रतारकादिविज्ञानस्य पुरुषानपेक्षितस्याप्रामाण्यप्रसङ्गः ।
न चातिदवीस्तया तदर्थस्य हेयतया तदपि पुरुषस्यापेक्षितम्, तस्योपेक्षणीयार्थविषयत्वात् ।
न चोपेक्षणीयम् अप्यनुपादेयत्वाद्धेयमिति निवेदयिष्यते ।
उपलब्धिहेतुं च प्रमाणं वदता अनधिगतार्थगन्तृत्वं चार्थसारूप्यं चात्मानात्मप्रकाशनशक्तिश्च प्रमाणमिति निरस्तानि भवन्ति ।
उपलब्धिमात्रस्यत्वाद्धेयमिति निवेदयिष्यते ।
उपलब्धिहेतुं च प्रमाणं वदता अनधिगतार्थगन्तृत्वं चार्थसारूप्यं चात्मानात्मप्रकाशनशक्तिश्च प्रमाणमिति निरस्तानि भवन्ति ।
उपलब्धिमात्रस्यार्थाव्यभिचारिण स्मृतेरन्यस्य प्रमाशब्देनाभिधानात् ।
हेतुग्रहणेन सारूप्यशक्त्योः फलादभिन्नयोरपाकरणात् हेतुहेतुमद्भावस्य तादात्मये ऽनुपपत्तेरिति ।
उपलब्धिहेतुत्वे च प्रमाणत्वम् ।
भवितृव्याख्यानेन भावो व्याख्यातः ।
तदेवं ज्ञानमज्ञानं वा उपलब्धिहेतुः प्रमाणम् ।
तस्य भावस्तत्त्वमिति स्थितम् ॥
तदेतदतिव्यापकत्वेनाक्षिपति--समानत्वादिति ।
समाधत्ते अयं विशेष इति ।
अयमर्थः, सर्वः कर्त्ता करणगोचरव्यापारो न तु साक्षात् फले व्याप्रियते ।
करणं च द्विधा सिद्धमासिद्धं च ।
तत्र सिद्धं परश्वादि दारूद्वैधीभावायोद्यम्योद्यम्य दारूणि निपातयन् दारू च्छिनत्तीत्युच्यते ।
न तु साक्षात् कर्तृव्यापारगोचरो दारूद्वैधीभावः, किं तु स्पर्शवद्वेगवतः करणीभूतस्य परशोः संयोगस्योद्यमननिपातनलक्षणस्तु कर्तृव्यापारः परशुगोचर एव ।
एवं स्वर्गकामो ऽपि कर्ता न साक्षात् स्वर्गे व्याप्रियते, किं तु तत्करणं यागमसिद्धं साधयति ।
स्वर्गस्तु यागव्यापारादेवापूर्वाभिधानात् चेतनाश्रयाद् देशकालावस्थाभेदासादितपरिणतिविशेषात् साक्षादुत्पद्यते ।
तद्वदिहापि प्रमाता सिद्धमिन्द्रियादि, असिद्धं च तत्सन्निकर्षादि व्यापारयन्नुत्पादयन् वा करण एव चरितार्थः ।
करणं त्विन्द्रियादि तत्सन्निकर्षादि वा नान्यत्र चारितार्थमिति साक्षादुपलब्धावेव फले व्याप्रियते ।
प्रमेयस्य तु प्रत्यक्षादन्यत्रोपलब्धिहेतुभाव एव तावन्नास्ति, तत्रापीन्द्रियसंबन्धमात्रे उपयुज्यते प्रमेयम् ।
इन्द्रियमेव तु तत्तत्सन्निकर्षादि वा साक्षात् प्रमाहेतुः ।
ततः सिद्धमेतत् न प्रमाता साक्षात् प्रमाहेतुः कर्तृत्वात् ।
यो यः कर्ता स सर्वो न साक्षात् फलहेतुः, यथा व्रश्चनयजमानादिः ।
तथा चायम् ।
तस्मात् तथा ।
तथा प्रत्यक्षं प्रमेयं न साक्षात् प्रमाहेतुः, प्रमेयत्वात् ।
यद् यत् प्रमेयं वत्तत् सर्वं न प्रमाहेतुरनुमेयादिवत् ।
तथा चैतत् ।
तस्मात् तथेति ।
तदिदं प्रमातृप्रमेययोः प्रमाणे चरितार्थत्वमचरितार्थत्वं च प्रमाणस्य, तस्मात् तदेव फलहेतुः ।
प्रमातृप्रमेये तु फलोद्देशेन प्रवृत्ते इति तद्धेतू कथञ्चिदिति ।
चोदयति अकरणेति ।
नाकरणः कर्ता प्रमाणमपि व्याप्तुमर्हतीत्यर्थः ।
परिहरति--न, इन्द्रियार्थेति ।
यदा ज्ञानं प्रमाण तदा ज्ञानस्य प्रमाणस्योत्वत्तावित्यर्थः ।
पुनश्चोदयति--यदि तर्हाति ।
परिहरति--तस्मिन्नपीति ।
चोदयति--यदि प्रमातृप्रमेयाभ्यां सद्भ्यां प्रमाणमिति ।
प्रमाणमन्तरेण प्रमाया अभावात् प्रमातृप्रमेययोः असिद्धिरित्यर्थः ।
पृच्छति--कथमिति ।
उत्तरम्--प्रमाणमितीति ।
अर्थ स्वरूपमात्रमेव कारकं कस्मान्न भवति, तच्च क्रियासंबद्धस्य पुरस्तादप्यस्तीत्यत
आह-न च द्रव्यमात्रमिति ।
अस्तु तर्हि तदीयो ऽवान्तरव्यापारः प्रधानक्रियायां साध्यायां कारकम्, तस्यापि प्रधानक्रियायां निमित्तत्वादित्यत आह--न च क्रियामात्रमिति ।
न हि स्वरूपेण देवदत्तो व्रश्चनः, नापि तदीयो व्यापार उद्यमननिपातनादिर्लोष्ठाद्याश्ररूः ।
क्व तर्हि कारकशब्दः प्रवर्तत इत्यत आह--कारकशब्दो हीति ।
प्रधानक्रियासाधने हेतौ अवान्तरक्रियाविशेषयुक्ते कारकशब्दः प्रवर्तते ।
द्वैधीभावे हि फले प्रधानव्यापारे कर्तुः करणगोचर उद्यमननिपातनादिः अवान्तरव्यापारः ।
कर्मणश्च दारूणः स्पर्शवद्वेगवत्तीक्ष्णतरकुठारसयोग एवावान्तरव्यापातः ।
तेन हि दारू स्वावयवपरिस्पन्दलब्धजन्मनो ऽवयवविभागाद् द्वैधीभावमनुभवति ।
तस्मादवान्तरप्रधानव्यापारसंपन्नं कारकमिति सामान्यतः प्रसाध्य प्रकृते योजयति--प्रमातृप्रमेयशब्दौ चेति ।
तावन्रेण क्रियां प्रधानक्रियामित्यर्थः ।
परिहरति--न, पाचकादिशब्दवदिति ।
लोकाधीनावधारणः खल्वयं शब्दार्थसंबन्धः ।
लोकश्चातीतानागतवर्तमानक्रियासंबन्धमात्रविवक्षया कारकशब्दान् प्रयुङ्क्ते, पाचकमानय पक्ष्यतीति च, पाचको ऽयमपाक्षीदिति च, पाचको ऽयं पचतीति च तुल्यवत् त्रैकाल्यविषयप्रयोगदर्शनम् ।
तत् कस्य हेतोरपचत्यपि पाकसंबन्धं प्रत्यस्ति स्वरूप्शक्तिर्देवदत्तादाविति? द्वयी हि शक्तिः कारकाणां कार्योपजननं प्रति स्वरूपं च सहकारिग्रामसमवधानं च ।
तत्रासत्यपि सहकारिग्रामसमवधाने कारकशब्दानां प्रवृत्तेः, सत्यपि च स्वरूपे त्रेकाल्यव्यापिनि त्रेकाल्ययोगिकार्यासंभवे ऽप्रवृत्तेः त्रैकाल्ययोगिकार्योपहितमर्यादमेव स्वरूपं कारकशब्दानां प्रवृतौ निमित्तमिति ।
असत्यपि प्रत्युत्पन्नप्रमाहेतुप्रमाणसंबन्धे प्रमातृप्रमेयशब्दयोः प्रवृत्तिरिति उपपन्नं प्रमातृप्रमेयाभ्यां प्रमाण जन्यत इति ।
तत् प्रमाणमुपलब्धिसाधनं साक्षात्, न प्रमातृप्रमेये इति सिद्धम् ॥
सत्यपि चोपलब्धिसाधनत्वे प्रमातृप्रमेययोरूपब्धिहेतुरित्यत्राप्रसङ्ग, साधाकतमासाधकतमयोः साधकतमे कार्यसंप्रत्ययात् सातिशयत्वेनोद्भूतत्त्वात् तस्येत्याह--साधकतमत्वाद् वेति ।
साधकतमार्थं पृच्छति--कः पुनरिति ।
उत्तरम्--प्रमाणस्य भावाभावयोः प्रमायाः कार्यस्य तद्वत्ता भावाभाववत्ता साधकतमार्थः ।
लक्ष्यलक्षणयोरभेदविवक्षया सामानधिकरण्यम्, न तु प्रमातृप्रमेयान्वयव्यतिरेकानुविधानमप्यस्ति प्रमाया अन्वयव्यतिरेकयोरित्यत आह--न प्रमातरीति ।
प्रमातृप्रमेयाभ्यां सह प्रमोत्पादस्यान्ययोगव्यवच्छेदेन संबन्धः ।
प्रमाणेन तु संबन्धः प्रमोत्पादस्यायोगान्ययोगव्यवच्छेदाभ्यामित्यतिशयः प्रमाणस्य ।
प्रमातृप्रमेये हि प्रमाणोपक्षीणवृत्तिनी न प्रमायां व्याप्रियेते ।
तेनान्तरायसंभवन्नावश्यं प्रमातृप्रमेयव्यापारे सति प्रमा भवति ।
प्रमाणस्य व्यापारे तु प्रमा भवत्येवेति कल्पान्तरमाह- यद्वान् वा प्रमिमीते सो ऽतिशयः ।
प्रमिमीत इति स्वतन्त्रं कर्तारं दशयति प्रतिपाद्यात् करणाद् व्यवच्छेत्तुम् ।
यद्वानेवेति च सावधारणाम् ।
तत्र यद्वानिति कर्त्रन्तरं व्यवच्छिनत्ति ।
न हि कर्ता कर्तृमान्, किं तु प्रमाणवान् ।
स्वतन्त्रो ह्याश्रयः परतन्त्रेणाश्रीयते ।
कर्त्रधीनं हि करणमित्यावेदितम् ।
प्रमाता प्रमेयवानपि क्वचिद् भवेत् तत्तन्त्रत्वात् प्रमेयस्य ।
न तु प्रमेयवानेव, अनुमानादिषु प्रमेयस्यातीतत्वादिना तद्वत्ताविहात् ।
न तु लिङ्गदिज्ञानवान् न कदाचिदित्यवधारणफलम् ।
सो ऽयं विशेषः प्रमातृप्रमेयाभ्यां प्रमाणस्य ।
अस्यैव च विशेषस्यातिशयत्वमन्वयव्यतिरेकाभ्यामादर्शयति-- प्रमाणे सतीति ।
कल्पान्तरकाह-- सतार्वेति ।
पूर्वेण भावप्रधानो ऽतिशयो यादृशस्य दर्शितः, तादृशस्यैवेह व्यतिरेकप्रधानो ऽतिशय इति विशेषः ।
अकर्तृत्वमहेतुत्वमित्यर्थः ।
कल्पान्तरमाह--संयोगवच्चरमभाविता वा ।
सेतिकर्तव्यताकं हि व्याप्रियमाणं करणम्, न तु चक्षुरादिस्वरूपम् ।
करणादिशब्दप्रवृत्तिनिमित्तमात्रं तु स्वरूपं स्यादिति पूर्वमावेदितम् ।
तच्च सिद्धमसिद्ध वा प्रमातृप्रमेयव्यापारस्य पश्चादेव तथात्वेन संपद्यत इति चरमभावीत्युच्यते ।
सो ऽयमस्य चरमभावितातिशयः, तथा तन्तूनां पटे जनयितव्ये ऽन्त्याः संयोगभेदा यदनन्तरं पट उत्पद्यत एवेति ।
कल्पान्तरमाह-- प्रपिपत्तेरानन्तर्य वा ।
यत एव प्रमाणं चरमभावि, अत एव तदनन्तरं प्रतिपत्तेः प्रमाया भावात् ।
प्रतिपत्तेरानर्न्यमेव प्रमाणस्यातिशयः ।
स चेति ।
चो ऽवधारणे ।
इदमपि लक्ष्यलक्षणयोरभेदविवक्षयोक्तम् ।
कल्पान्तरमाह--असाधारणकारणता वा ।
चतस्त्रः खल्विमाः प्रत्यक्षादिप्रमियो भिन्नबुद्धिव्यपदेशभाजो ऽनुभूयन्ते ।
न च प्रमाता तद्भेदहेतुः, स्य साधारण्यात् ।
न च प्रमेयमेकस्यापि प्रमेयस्य संप्लवे सर्वप्रतिपत्तिसाधारण्यात् ।
प्रमाणानि तु यथायथं चतसृष्वपि प्रमितिष्वसाधारणानीति भिन्नबुद्धिव्यपदेशनिबन्धनानि ।
तदिदमसाधारण्यमतिशयः ।
अशेषः पुरुषः प्रमातात्र विवक्षितः ।
कल्पान्तरमाह-- प्रमाकारणेति ।
प्रमाया असमवायिकारण खल्वात्ममनःसंयोगः ।
स च सर्वप्रमासोधारणः ।
नासौ प्रमात्रा प्रमेयेण वा शक्यो विशेष्टुम्, तयोरपि तद्वदेव साधारण्यात् ।
असाधारणं तु प्रमाणं यथायथमात्ममनःसंयोगमवच्छिनत्ति ।
एवे सुखादिप्रमेयाणामपि मन एवासाधारणं व्यवच्छेदङ्क द्रष्टव्यम् ।
सो ऽयमस्यातिशयः ।
अतिशयातिशयिनोरभेदविवक्षया अतिशयशब्दवाच्यम् इत्युक्तम् ॥
क्रमप्राप्तमर्थग्रहणं तात्पर्यतो व्याचष्टे-- अर्थग्रहणमिति ।
कस्मात् पुनर्निषिध्यते प्रमाणविषया प्रतिपत्तिरित्यत आह--यतो न प्रमाणविषयेति ।
इतिकर्तव्यता अनुष्ठानम्, तस्मिन् ।
अर्थ्यत इत्यर्थः, तोयकण्टकादिः ।
तस्य तथामावो ऽर्थनीयत्वम् ।
तच्च सुखदुःखसाधनत्वम् ।
सुखसाधनं खलूपादेयत्वेन दुःखसाधनं च हेयत्वेनार्थ्ये ।
तात्पर्यान्तरमाह--उपेक्षणीयेति ।
उपेक्षणीयविषये प्रमाणे प्रवृत्तिसामर्थ्यं नास्तीति तत्प्रतिषध्यते ।
न च तदप्रमाणमिति ।
तस्यापि दृष्टप्रमाणसाधर्म्येण लिङ्गेन प्रामाण्यानुमानादिति ।
चोदयति--प्रमाणागहणमिति ।
समर्थप्रवृत्तिजनिका हि प्रतिपत्तिर्नाप्रमाणाद्भावतीत्यर्थादेव प्रमाणादिति गम्यत इत्यर्थः ।
परिहरति--न प्रमाणविशेषज्ञापनार्थत्वात् ।
अयमभिसन्धिः, प्रवृत्तिसामर्थ्येन हि कार्येण प्रमाणस्यार्थवत्त्वमनुमातव्यम् ।
न चैतत् साक्षात् प्रमाणस्य कार्यम्, किं त्वर्थप्रतिपत्तेः ।
तदनन्तरं हि समर्था प्रतिपत्तिरूपजायते ।
अर्थप्रतिपत्तिस्तु प्रमाणकार्येति समर्था प्रवृत्तिः प्रमाणकार्या सती प्रमाणस्यार्थवत्त्वमनुमापयति ।
तस्मादर्थगम्यमपि प्रमाणमर्थप्रतिपत्तिकरणत्वेन द्योतनीयम् ।
अन्यथा प्रमाणमर्थवदर्थप्रतिपत्तेः मसर्थप्रवृत्तिजनकत्वादिति किं केन संगतम्? प्रमाणस्य विशेषः प्रमाणभासाद् व्यावृत्तिः, तस्य ज्ञापनम् ।
स एवार्थो यस्य प्रमाणग्रहणस्य तत् तथोक्तम् ।
तस्य भावस्तत्त्वम् ।
तस्मादेतदुक्तं भवति--प्रमाणकार्याया अर्थप्रपित्तेः प्रवृत्तिसामर्थ्यं न तदाभासकार्यायाः ।
तस्मात् प्रमाणस्यार्थवत्त्वं गम्यत इति ।
तदिदमुक्तम्--तद् येह प्रमाणेन प्रतिपत्तिः सा प्रवृत्तिसामर्थ्यं प्रतिपादयति प्रमाणम् ।
अयमर्थः ।
प्रमाण कर्तृ, प्रवृत्तिसमार्थ्यं प्रतिपद्यमानं प्राप्नुवत्तत् प्रतिपादयति प्रापयति प्रमाणकार्यार्थप्रतिपत्तिरिति ।
इदमपि प्रमाणग्रहणस्य प्रयोजनमित्याह-- न च प्रमाणग्रहणमिति ।
एकदेशिव्याख्यानमुपन्यस्यति--सुखेति ।
न केवलं सुखदुःखहेतुत्वादर्थ्यमानत्वात् ज्ञायमानत्वाच्च ।
दूषयति--नेति ।
सर्वस्य सुखदुःखतद्धेतुत्वेन हेयपक्षनिक्षेपात् उपादेयानां प्रमाणशास्त्रापवर्गाणानामभावप्रसङ्गाद् व्याघातः ।
अविवक्षितत्वाच्चेति ।
चशब्दसमुच्चितमशक्यहानत्वं हेत्वन्तरमादर्शयति-- न च प्रमाणादिहानमिति ।
सुखदःखतद्धेतवो हि हेयाः सने हानोपायमपेक्षन्ते ।
न च प्रमाणादेरन्यः तदुपायः संभवति ।
न च प्रमाणादिः स्वोच्छेदाय पर्याप्तः ।
न चास्मादपवर्गो नाधिगम्यते ।
तस्मान्न शक्यं प्रमाणादिना प्रमाणदिहानमिति ।
न चैतन्निःश्रेयसहेतुं शास्त्रं प्रणयतः सूत्रकारस्य तदनुवर्तिनो वा भाष्यकारस्य विविक्षितमित्याह--न च प्रमाणादिहानं विवक्षितम् ।
तस्मादस्मद्वचाख्यानमेव शोभनमित्याह--किं त्विति ।
प्रवृत्तिसामर्थ्याधानयोग्यवममधिकारः ।
तस्मात् सुखदुःखतद्धेतुरूपार्थप्रतिपत्तिरेव हि समर्थां प्रवृत्तिमाधत्ते, न त्वर्थमात्राप्रतिपत्तिरित्यर्थः ।
न केवलं व्याघाताशक्यहानाविवक्षितत्वैरर्थपदेन न सर्वसंग्रहो ऽशक्यत्वादपि न सर्वसंग्रह इत्याह--न संविद इति ।
सुखदुःखतद्धेतुतया न संविदो ग्रहणं संग्रहः सर्वमध्यपतिताया अपि ।
कुतः? अनधिकारात्, सुखदुःखतद्धेतुयोग्यताविरहात् ।
नाप्यर्थ्यमानत्वेन संग्रह इत्याह--अकर्मत्वाच्च ।
न तावत् सर्वा एव संविदः संविद्गोचरा मनोयोनयः, संवेद्या भवितुमर्हन्ति ।
एकनीलविषयसंवित्परम्परामात्र एव पुरुषायुषसहस्रपर्यवसानात्, विषयान्तरसंचाराभावप्रसङ्गाच्च ।
तस्मादनवस्थाभयादन्ते कस्याश्चित् संविदो ऽसंवेद्यतया फलमात्रत्वमभ्युपेयम् ।
तथा च सा नार्थ्यते ।
न च सुखदुःखे तत्रेतुरिति न सर्वसंग्रहः संविदो ऽसंग्रहादित्यर्थः ।
तदेवमादिवाक्य व्याख्याय भाष्यवाक्यान्तरमवतार्य तत्रैकदेर्शिव्याख्यानं दूषयितुमुपन्यस्यति--सो ऽयं प्रमाणार्थ इति ।
दूषयति--नोभयस्यापि परिसंख्यातत्वात्, अर्थस्तु सुखमित्यादिना भाष्यग्रन्थेन ।
कार्यकारणाभ्यामुभयत्वम् ।
प्राणभृद्भेदस्यापरिसंख्येयत्वादिति च हेतुः श्वेतः प्रासादः काकस्य कार्ष्ण्यादितिवन्न प्रतिज्ञार्थेन सङ्गच्छते इत्याह--प्राणभृद्भेदस्य चेति ।
तदेतदेकदेशिमतदूषणमस्मिन् व्याख्याने नास्तीत्याह--नार्थशब्दस्येति ।
चन्द्रनादिविषयं प्रमाणं सुखप्रयोजनमेव, कण्टकादिविषयं च प्रमाणं दुःखोत्पादप्रयोजनमेवेत्येतदुभयं परिसंख्यातुं नियन्तुमशक्यमित्यर्थः ॥
एवं किलात्र शङ्क्यते, सुखदुःखहेतुभावो वस्तूनां स्वाभाविको भवेन्न वा? स्वाभाविकत्वे नील इव सर्वान् प्रत्यर्थः सुख इति करभवन्मनुष्याणामपि कण्टकः सुखः स्यात् ।
एवं निदाधे ऽपि कुङ्कुमं सुखं स्यात् ।
चन्दनं च हेमन्तते ऽपि सुखं भवेत् ।
एवं तृष्णज इवापां सुहितस्यापः सुखाः प्रसज्येरन् ।
अस्वाभाविकत्वे त्वनादिवासनावैचित्र्यलब्धजन्मपुरुषधर्मकल्पनानुपातिनः सुखदुःखादयो न प्रमाणप्रयोजनं भवितुमर्हन्तीति ।
तत्रेदमुपतिष्ठते--सो ऽयंप्रमाणार्थ इति ।
निवेदयिष्ये हि क्षणभङ्गाधिकारे तथा स्थेमभाजामपि वस्तुनामक्रमाणामपि क्रमवत्सहकारिकारणसमवधानवशादुपजनापायधर्माणः क्रमवन्तो धर्मा भवन्तीति, तदिहापि ।
यद्यपि न जात्या सुखदुःखहेतुभावो भावनां भवति, तथापि जातिदेशकालावस्थापुरुषभेदसहकारिसमवधानादुपपत्स्यतेसुखदुःखहेतुभावो ऽव्यवस्थयेति भावः ॥
तत् सिद्धमेतत्, प्रमाणार्थो ऽनियतः, अनियतप्राणभृद्भेदहेतुकत्वात् ।
यद्यदनियतकारणकं कार्यं तत्वसर्वमनियतमेव, यथा अनियतकालमेघोदयनिबन्धनं वर्षम् ।
तथा चायम् ।
तस्मादनियत इति ।
कस्मात् पुनः प्रमात्रादिचतुर्वर्गे प्रमाणस्यैवार्थवत्त्वमुच्चेत न प्रमात्रादीनामपीत्याशङ्कानिराकरणार्थं भाष्यमनुवदन्नेव व्याचष्टे-- अर्थवति च समर्थे सम्यगर्थे ऽर्थाव्यभिचारिणीति यावत् ।
प्रमाणे ऽर्थवन्ति भवन् सिमर्थानि सम्यगर्थानि प्रमात्रादीनि ।
अर्थस्य तु सम्यक्त्वमिदमेव यद् यादृशः प्रमाणेनोपदर्शिस्तस्य तथात्वं न पुनरन्यथाभाव इति ।
यदा त्वादिभाष्यवाक्ये ऽर्थशब्दः प्रयोजनवचनः, तदैवं व्याख्यानम्-- अर्थवति च प्रयोजनवति च यतः समर्थं शक्तं प्रमाण प्रतिपत्त्यादिक्रमेण पूर्वोक्तेन प्रयोजनं प्रति, अतः समर्थे प्रमाणे प्रमात्रादीन्यर्थवन्ति प्रयोजनवन्ति भवन्ति, यतस्तान्यपि प्रमाणवदेव समर्थानि शक्तानि प्रयोजनं प्रतीति, अत्र हेतः अन्यतमापाय इति ।
तस्यार्थं व्याचष्टे--अन्यतमत्वार्थ इति ।
नन्वन्यतमशब्दो बहुष्वनिर्धानितविशेषमेकमाह, न तु साधकतममित्यत आह--प्रमारणादिति ।
साधारणशब्दो हि प्रमरणाद् विशेषे वर्तते ।
तद् यथा शिविकावहनपक्रमे पुरुषमानयेति पुरुषशब्दो विष्टौ ।
तद्वदिहापि प्रमात्रादिपरिहाण्या प्रमाणस्यार्थवत्त्वाभिधाननियमप्रक्रम इति प्रमात्रादिभ्यः प्रमाणस्य विशेषो वाच्य इति तत्रैवान्यतमशब्दो वर्तते ।
यद्यप्यर्थप्रतिपत्त्यर्थाव्यभिचारद्वारेण प्रमाणस्याव्यभिचारो गम्यते दृष्टे विषये, तथाप्यदृष्टे विषये न तज्जनितप्रपित्तयव्यभिचारेणाव्यभिचारः शब्दस्य प्रमाणस्य शक्यो विज्ञातुम्, प्रतीयव्यभिचारस्य प्रमाणाव्यभिचारग्रहणमन्रेणाशक्यज्ञानवत् ।
तस्माद् दृष्टार्थस्य मन्त्रायुर्वेदस्य प्रवृत्तिसामर्थ्यावधृतार्थाव्यभिचारस्य साधर्म्यादाप्तप्रणीत्वादग्निहोत्रादिवाक्यानां प्रमाणानामव्यभिचारग्रहणपुरःसरमेव त्रिवर्गस्याव्यभिचारग्रहणम् ।
न पुनरत्र त्रिवर्गस्याव्यभिचारः शक्यो ऽन्यतः परिच्छेत्तुम् ।
अदृष्टार्थविषयस्य च चतुर्वर्गस्येहार्थवत्त्वेन प्रयोजनं दृष्टार्थे सन्देहादपि व्यवहार सिद्धेः ।
तदिदं चतुर्वर्गे प्रमाणस्य प्राधान्यमिति ॥
चतुर्वर्गविभागपरे भाष्ये प्रमाता प्रथमं दर्शितः ।
ततस्तस्य लक्षणमाह--प्रमाता स्वतन्त्र इति ।
स्वातन्त्र्यं पृच्छति--किं पुनः स्वातन्त्र्यम्, यस्याभिसंबन्धात् स्वन्त्र इति? भाष्यकृता प्रमातोपलक्षितो न लक्षितः ।
न खल्वीप्साजिहासयोर्वा प्रवृत्तौ वा स्वान्त्र्यं प्रमातृत्वम्, अपि तु प्रमायार्म् ।
इप्सादिस्वातन्त्र्येण तु तदुत्तरकालभाविना प्रमायां स्वातन्त्र्यं पर्वकालाभाव्युपलक्षिम् ।
तेन तच्चरिमनुवर्तमानो वार्तिककृत् उपलक्षणान्तरं कर्तृत्वोत्तरकालभाव्याह--कारकफलोपभोक्तृत्वम् ।
न हि सर्वः कर्ता समस्तकारकजन्यं स्वर्गादि वौदनादि वा भुङ्क्ते ऋत्विक्पाचकादिषु च व्यभिचारदर्शनात् ।
कारकस्य तु सतः कर्तृत्वोत्तरकालभाविनी फलोपभोक्तृता कर्तृवनान्तरीयकतया दुपलक्षयति, यजमानस्य राज्ञश्च प्रैषादिना तत्तद्वयापारे कर्तृत्वात् ।
यथाहुरत्रभवन्तः,
तदभिसन्धिपूर्वकं प्रेषणमध्येषणं व युक्तं तसर्वं पच्यर्थः ।
इति ।
स्वातन्त्र्यलक्षणमाह--तत्समवायो वा ।
कारकाभिधानेन सन्निधापितां क्रियं तदिति सर्वानाम्ना परामृशति ।
यस्य हि व्यापारं प्राधान्येन धातुराख्यातप्रत्ययो वाभिधत्ते स स्वतन्त्रः कर्ता ।
तथा हि विक्लिद्यन्तीयत्र तण्डुलादयः कर्तारः, पचन्तीत्यत्र देवदत्तादयः ।
तत् कस्य हेतोः? एकत्र तण्डुलादेर्व्यापार उपात्तो ऽपरत्र देवदत्तादेरिति ।
प्राधान्येन चाशेषकारकनिवर्त्त्यत्वं प्रधानक्रियायाः, अवान्तरव्यापारभेदे ऽपि प्रधानक्रियोद्देशेन समस्तकारकप्रवृत्तेरिति ।
पुरुष इति प्रकृतक्रियापेक्षम्, प्रमायाः पुरुषाश्रयत्वादिति ।
लक्षणान्तरमाह--तत्प्रयोक्तृत्वमितराप्रयोज्यता वा ।
तस्य चेतनस्य सर्वकारकाणि प्रति प्रयोक्तृत्वम्, तैश्च कारकैरप्रयोज्यता वा ।
अचेतनस्य तु भाक्तव कर्तृत्वं न स्वाभाविकमिति भावः परिसमाप्तिपदार्थं व्याचष्टे--तत्त्वपरिसमाप्तिरिति ।
तत्त्वं हि प्रमाणव्याप्यत्वं प्रमाणव्यापारविषयत्वम् ।
तच्च हानोपादानोपेक्षाभिः पर्यवस्यति ।
पर्यवसानं परिसमाप्तिः विनियोज्येति वक्तव्ये योग्यताग्रहणमीप्सिते ऽपि दृष्टे वस्तुनि कुतश्चित् प्रतिबन्धात् पुरुषेणानुपात्ते मा भूत् तत्त्वापरिसमाप्तिरिति ।
यद्यपि हि तत् पुरुषेणानुपात्तं तथाप्युपादानयोग्यताप्रदर्शनादस्ति तत्त्वपरिसमाप्तिरिति ।
तत्प्रतिषेधश्च इत्यत्र तच्छब्देन हानोपादानलक्षणं विनियोगं परामृशति ॥
किं पुनस्तत्त्वमित्यादि भाष्यं व्याचिख्यासुस्तत्त्व्प्रत्ययप्रकृतेस्तदो ऽर्थं पृच्छति--किंपुनरिति ।
उत्तरम्--सदसती तत् ।
प्रश्नं विभजते--तस्य भावस्तत्त्वमित्यत्रेति ।
उत्तरं विभजते--सदसतीतत् ।
अथ कस्मात् प्रकृतिपुरुषौ वा, पञ्चस्कन्धा वा, परं ब्रह्माद्वैतं वा, जीवजीवस्त्रवादयो वा सप्त, पृथिव्यापस्तेजोवयुरिति वा चत्वारि भूतानीत्यादीति न तदो वाच्यानि भवन्तीत्यत आह-- प्रमाणविषयत्वेनाधिकारात् ।
सूत्रभाष्यवाक्यतद्विवरणेषु प्रमाण प्रमाणविषयश्चाधिकृतः न च संख्यादिसिद्धान्तभेदानुपातिनो ऽर्थाः प्रमाणविषयाः ।
यथा चैतत् तथात्रेव निवेदयिष्यते ।
उपसंहरति--तस्मादिति ॥
प्रकृत्यर्थं व्याख्याय प्रत्यार्थं व्याचष्टे-तद्भाव इति, सदसतोर्यथासंख्यं विधायकप्रकाणविषयता सतो भावः, तत्प्रतिषेधश्चासतो भावः ।
तदिति विधायकप्रमाणविषयतां परामृशति ।
तत्प्रतिषधेन च प्रतिषधकं प्रमाणमुपस्थापितम् ।
तेन प्रतिषेधकप्रमाणविषयत्वमेव तत्प्रतिषेध इत्यनेनोक्तं भवति ।
एतद् विभजते-तयोः खल्विति ।
शङ्कते-प्रमाणविषयत्वादिति ।
सर्वसामर्थ्यविरहेण त्वसत् सतो व्यावर्तते ।
यदि चासदपि प्रमाणविषयः, तर्हि नासमर्थम् ।
तथा च सदसतोरभेद इत्यर्थः ।
निराकरोतिन, अनैकान्तात् ।
न वयमसामर्थ्येनासतो भेदमाचक्ष्महे येनैवमुपालभ्येमहीति भावः ।
शङ्का विभजते--तत्र भवेदिति ।
निराकरणं विभजते--तच्च नेति ।
गवादि चेतनम्, अचेतनं घटादीति ।
यदि सदसती समर्थे कुतस्तर्हि तयोर्मेद इत्यत आह--स्वतन्त्रेति ।
असदुपलब्धिरेव सदुपलब्धेरन्यानुपलब्धिः ।
ननु संयोगविभागादिषु सत्स्वपि तरतन्त्रोपलब्धिकरणत्वमतिस्त, तेषां संयुज्यमानविभज्यमानाद्यधीननिरूपणत्वादित्य आह--प्रतिषेधमुखेन प्रतिपद्यते प्रतीयते ।
सतां केषाञ्चित् पारतन्त्र्ये ऽपि न निषेध्यनिषेधाधिकारणपारतन्त्र्यमित्यर्थः ।
संप्रति सदुपलम्भकस्य प्रमाणस्यासदूपलम्भकत्वं प्रतिपिपादयिषता भाष्यकारेण प्रदीपो दृष्टान्त उपन्यस्तः ।
सतु साध्यसमः, तस्यापि प्रमाणसामग्रीनिवेशदिति शङ्क्यमानो ऽत्यन्तलोकप्रसिद्धतयास्य दृष्टान्तत्वं समर्थयते--प्रदीपवदिति ।
गोपालाङ्गना अपि हि किमत्रास्ति स्तेनो ऽस्मद्धनं वा अपवरके न वेति सन्दिहाना प्रदीपमुपादाय समन्तादवलोक्यापवरकमस्तीहास्मद्धनं नास्ति स्तेन इति सममेव निश्चिन्वन्ति, न तु स्तेनाभावनिश्चयायोपायन्तरमुपाददते ।
तेनागापालाड्नमा च पण्डितरूपेभ्यः सिद्धः प्रदीपो दृष्टान्तः ।
तदिदमुक्तम्-न ह्यसत्प्रतिपत्तावुपायान्तरमास्थीयते लोकेन ।
अनाश्रयणे हेतुमाह प्रदीपेन दृश्यमाने हि घटादिके ऽर्थे स्वतन्त्रे नानेन समानजातीयं तुल्योपलम्भयोग्यतं दृश्यान्तरमस्ति ।
नीलपीतौ हि परस्पराभाववन्तौ, तेन नलीनिषेधे नावश्यं पीतविधिः ।
भावाभावौ तु परस्पराभावात्मानौ, नो खल्वभावाभावो नाम कश्चिदन्यो भावरूपात् ।
नापि भावाभावो ऽन्यो ऽभावात् ।
तदेवं प्रदीपोपायस्य प्रतिपत्तुः प्रतीतिक्रममुक्त्वा परीक्षकाणामुपपत्तिक्रममाह--यद्यभविष्यदिति ।
यदि कश्चिदाशङ्केत दृश्यतामभावः ।
प्रदीपेन भावो ऽपि भविष्यतीति, तत्रैष परीक्षकाणां तर्क उपतिष्ठते--यद्यभविषयदिति ।
तदेवं लौकिकपरीक्षकसंमतं दृष्टान्तमुपपाद्य दार्ष्टान्तिके योजयति--एवे प्रमाणेनापि इन्द्रियादिना सति प्रमीयमाणे इति ।
पूर्ववद् व्याख्येयम् ।
उपसंहरति--तदेवमिति ।
सर्वं चैतदुपरिष्टादुपपादयिष्यते ।
ननु यदि सदसती प्रमाणविषयौ, कस्मात् सद्भेदा इवासद्भेदा अपि सूत्रकृता नोच्यन्त इत्यत आह--तत्र तेषु सदसद्भेदेषु मध्ये स्वातन्त्र्येणासद्भेदा न प्रकाशन्त इति नोच्यन्ते ।
निषेध्यनिषेधाधिकारणाधीननिरूपणत्वादसद्भेदानां भावभेदतन्त्रं प्रमाशनमिति भावभेदकथनेनैवाभावभेदा अपि गम्यन्त इति नोक्ता इत्यर्थः ।
अथ वा कथिता एव येषां तत्त्वज्ञानं निःश्रेयसोपयोगि, यं तु न तथा न तेषां प्रपञ्चः अनुपयुक्तभावप्रपञ्च इव वक्तव्य इत्याह--चतुर्वर्गानन्तर्भावाद् वा भावप्रपञ्चवद् अभावप्रपञ्च इति ।
निःश्रेयसानुपयोगिनि भावप्रपञ्चे यथा चतुर्वर्गानन्तर्भावः, एवमभावप्रपञ्चे ऽपीति ।
अथ निःश्रेयसोपयोगाभावः कुतो ऽवगन्तव्य इत्यत आह--भावोपदेशादेवाभाव उपदिष्टो भवतीति ।
द्विविधं प्रमाणं भावो ऽभावश्च, यथा कारणाभावेन कार्याभावज्ञानं यतो द्वितीयसूत्रसमुत्यानम् ।
प्रमेयेषु चापवर्ग एव मूर्धाभिषिक्तः ।
एवे प्रयोजनादिष्वपीति तत्र तत्रोहनीयमिति ।
उपसंहरति--अतश्चेति ॥
तदेवं तात्पर्यं व्याख्याय अवयवार्थं व्याख्यातुं भाष्यं पठति--सच्च खलु षोडशधाव्यूढमुपदेक्ष्यत इति ।
अत्र प्रथमे कल्पे चशब्दो ऽवधारणे, खलु शब्दः स्पष्टार्थे ।
तदेव षोडशधा व्यूढमुपदेख्यते नासत्, तस्य सदधीनप्रकाशत्वादिति ।
द्वितीये तु कल्पे पारमार्थिके चः समुच्चे, खलुः अवधारणे, सति षोडशाधैवोपदेक्ष्यमाणे ऽसदप्युपदेक्ष्यत इत्यर्थः ।
प्रकृत्यर्थं व्याचष्टे--व्यूह इति ।
सूत्रस्य सप्रपञ्च तात्पर्यं व्याख्याय अवयवार्थं व्याचिख्यासुना भाष्यकारेण तासां खल्वासां सद्विधानामिति भाष्येण सूत्रमवतार्य पठितं तदस्य वार्तिककृत् तात्पर्यमाह--त एते सद्भेदा इति सूत्रम् ।
त एते प्रमाणादयः सद्भेदा निःश्रेयसोपयोगिनो न गङ्गावालुकादयः ।
तस्मात् सत्सुप्रमाणादयः षोडशैवोदियेष्टा लक्षिताः परीक्षिताश्च ।
न गङ्गावालुकादयः सन्तो ऽपि निःश्रेयसानुपयोगादिति भावः ॥
द्वन्द्वस्वरूपमाह--सर्वपदेति ।
द्वन्द्वपरिग्रहे तात्पर्यमन्वयव्यतिरेकाभ्यामादर्शयति--सर्व एव इति ।
बहुव्रीहिकर्मधारययोरसंभावात् षष्ठीसमासपरिग्रहे निग्रहस्थानस्यान्त्यपदार्थस्य प्राधान्ये विवक्षितार्थहानप्रसङ्ग इत्यर्थः ।
निर्देशे ययावचनं विग्रहैत्यस्त भाष्यस्य तात्पर्यमाह--यथावचनमिति ।
अन्योन्यनिरपेक्षाणां प्रत्येकं प्रमाहेतुभावः प्रमाणानामिति हि बहुवचनप्रयोजनम् ।
प्रमेयेषु तु यद्यपि प्रमेयता वास्तवी प्रत्येकमस्ति तथाप्यपवर्गहेतुभावेन प्रमेयता समुदाये समाप्यते, न तु प्रत्येकम् ।
आत्मादीनामन्यमतस्याप्यतत्त्वज्ञाने संसाराननिवृत्तेरिति यदेव हि निर्देश वचनभेदस्य प्रयोजनम्, तदेव चोद्देशे ऽपि, तयोरेकवाक्यत्वादिति भावः ।
प्रमाणादीनामिति विभक्त्यर्थव्याख्यानपरं भाष्यं पठित्वा पृच्छति--कः पुनरिति ।
उत्तरम्--कारकाणामिति ।
तद्विभजते--यत्रेति ।
कारकार्थः प्रधानक्रिया, यदुद्देशेन सर्वकारकप्रवृत्तिः ।
कारकग्रहणेन च तन्नान्तरीयकतया प्रधानक्रियाप्यानीतेति विवरणे सापि दर्शिता ।
यद्यपि स्वस्वामिभावादावपि संबन्धे ऽन्तर्गतः क्रियाकारकसंबन्धो ऽस्ति संबन्धमात्रस्य क्रियागर्भत्वात् तन्नान्तरीयकत्वाच्च कारकस्य, तथाप्यसौ न विवक्ष्यते ।
संबन्धमात्रमेव तु विवक्ष्यत इत्यर्थः ।
तत्र चोदयति--तत्त्वस्येति ।
षष्ठी चानर्थिका अव्यतिरेके तदनुपपत्तेरित्यपि द्रष्टव्यम्, तत्रानियमवाद्येकदेशी परिहरति--न, उभयथापीति ।
भावस्य भवित्रधीननिरूपणत्वाद्, भावनिरूपणमेव भवितृनिरूपणमाक्षिपति ।
अभेदे ऽपीति ।
इषुस्थित्या यथा तद्भावप्रतिषेध इषोभावो धर्मो गतिः, तस्य प्रतिषधः स्थितिः, तिष्ठतेग्रतिनिवृत्त्यर्थत्वात् ।
एवमत्रापि न प्रमाणप्रमेयादिमात्रमच्यते तत्त्वग्रहणेनापि त्वर्थान्तरं तेष्वेव यत् यत् समारोपितं रूपमन्यथात्वमिति यावत् तत् प्रतिषिध्यते ।
गतिमदिति भावप्रधानो निर्देशः ।
यथा द्वेकयोर्द्विवचनैकवचने ।
इति द्वित्वैकत्वयोरिति ।
संख्येवविक्षायां तु द्व्येकेष्विति स्यात् ।
तेन गति मत्त्वमर्थान्तरमिषोर्नभवतीत्यस्मिन्नर्थे इषोः स्थितिरिति प्रयुज्यत इत्यर्थः ।
तदेतद् एकदेशिमतमर्थान्तरत्वनियमवादी दूषयति--तन्नेति ।
प्रमाणदिभ्यो ऽनर्थान्तरस्य तत्त्वस्य च इषोरनर्थान्तरस्य गत्यभावस्य चासिद्धेः । यथा च भावातिरिक्तो ऽभावस्तथा क्षणभङ्गाधिकारे निवेदयिष्यते ।
प्रमाणाद्यतिरिक्तं च तत्त्वमनन्तरमेव दर्शयिष्यतीति ।
तत्त्वस्यज्ञानमित्यादि भाष्यं व्यापष्टे--तत्त्वं ज्ञायमानमिति ।
उभयं पृच्छति-किं पुनरिति ।
तत्त्वप्रश्नस्योत्त्रम्--तत्त्वमिति ।
निमित्तत्वं शक्तिः प्रमाणादीनाम् ।
सा च द्वयी स्व्रूपलक्षणा सहकारिसाकल्यलक्षणा च, अतीन्द्रियस्य सामर्थ्यस्य नैयानिकैरनभ्युपेतत्वात् ।
शक्तेश्च भावत्वेन भवितृनिरूपणाधीननिरूपणत्वाद् भवितुरपि निरूपणं भवतीत्युक्तम् ॥
अभिमतं निःश्रेयसं ग्रहीतुं निःश्रेयसद्वैविध्यमाह--निःश्रेयसं पुररिति ।
तक्रिज्ञदृष्टं निःश्रेयसं ग्रहीतुं दृष्टमतिप्रसङ्गापादनेन दूषयति--एवे च कृत्वेति ।
सूत्रकाराभिमतं निःश्रेयसमाह--परं त्विति ।
एतदुक्तं भवति, यद्यपि निःश्रेयसपदमभिमतमात्रवाचि प्रमाणादितत्त्वज्ञानस्य च दृष्टमपि निःश्रेयसं संभवति, तस्यैव ततः साक्षादुत्पत्तेः ।
तथाप्यात्मादिवाचकप्रमेयपदसमभिव्याहाराददृष्टमेव निःश्रेयसमभिप्रेत सूत्रकारस्य ।
तत्र च प्रमाणमादितत्त्वज्ञानस्यापि पारर्म्येण हेतुभावो ऽस्त्येवेति ।
चोदयति--दृष्टमिति ।
दृष्टे दर्शनमेव प्रमाणम् ।
अदृष्टं तु निःश्रेयसमप्रामाणिकं दर्शनाभावादित्यर्थः ।
परिहरति--न, नास्ति अर्थस्य तथाभावात् ।
अर्थ आत्मादिः ।
तस्य आगमानुमानसहकारिणा कारणाभावेन कार्याभावानुमानमेवात्रार्थे प्रमाणमिति भावः ।
ये तु वैयात्यात् मन्येरन् पदार्थतत्त्वज्ञानमात्रमेव परनिःश्रेयसहेतुरिति, यथाहुः---
एको भावस्तत्त्वतो येन दृष्टाः, सर्वे भावास्तत्त्वतस्तेन दृष्टाः ।
इति, तान् प्रत्याह-- यदि पुनरिति ।
न हि भावानां तत्त्वमन्यदतः प्रत्यक्षविषयीकृताद् रूपादिति भावः ।
मोक्षमाणा इति, सनि मुचो ऽकर्मकस्य गुणो वा इति गुणाभ्यासलोपौ ।
न केवलं वस्तुवृत्तिः, सूत्रकारस्यापि संमतमेदित्यत आह--पृथगुपदेशाच्च प्रमेयस्य प्रमाणादिभ्यः ।
यदि च यत्किञ्चित्प्रमेयतत्त्वज्ञानान्निःश्रेयसस्य परस्य प्राप्तिः, किमर्थमात्मादसूत्रेण द्वादशैव प्रमेयाणि नाधिकानि न न्यूनानि चेत्यवधार्यते सूत्रकारेर्ण? तस्मात् तदेव साक्षादुपयोति निःश्रेयसे न पदार्थमात्रमित्याह--प्रमेयावधारणार्थायां चोत्ररसूत्रप्रिक्रियायामकुशलः सूत्रकारः स्यात् ।
कुतः? प्रमेयस्य विहतत्वादाद्येन सूत्रेणेति ।
तस्माद् यद्युपपत्तिः यदि च सूत्रकारभिमतसुभयथापि प्रमेयतत्त्वपरिज्ञानं परस्य निःश्रेयसस्य हेतुः ।
तदनेन आत्मादेरिति भाष्यं व्याख्यातम् ॥
अथ किं तत्त्वज्ञानस्यात्मादिविषयस्यादृष्ट एव को ऽपि सामर्थ्यातिशयो यतः परनिःश्रेयसोत्पादः, मैवम् ।
किं तर्हि? दृष्टयैव द्वारेत्याह भाष्यकारः-- तच्चैतदिति निःश्रेयसहेतुभावाभिधानस्य अनु पश्चात् उद्यते अनूद्यते ।
तत्त्वज्ञानोत्पादे हि साक्षात् तद्विषयमिथ्याज्ञानादिनिवृत्तिक्रमेणापवर्गोत्पाद इति द्वितीयसूत्रेणानद्यते ।
तदेतद् भाष्यं तच्चैतदित्याद्यधिगच्छतीत्यन्तमनूद्य व्याचष्टे-हेयमिति ।
मिथ्याज्ञानमात्मादिषु प्रमेयेषु अविद्या तन्मूलं तृष्णा ।
उपलक्षणं चैतत्, द्वेषो ऽपि द्रष्टव्यः ।
तन्मूलौ च धर्माधर्मौ, तदेतद्धेयम् ।
हानं तत्त्वज्ञानं हीयते ह्यनेनैतत् सर्वम् ।
तस्य प्रमाणस्य ।
उपायः शास्त्रम् ।
अधिगन्तव्यो मोक्षः ।
एवंमवयवान् विभज्य तात्पर्यमाह--एतानीति ।
एतानि चत्वार्यर्थपदानि पुरुषार्थस्थानानि, न केवलं हेयाधिगन्तव्यभेदेन द्वादशविद्र प्रमेयं दर्शयतः तद्विषयतत्त्वज्ञानाय च सोपकरणन्यायाभिधानप्रमाणव्युत्पादकं शास्त्रं प्रणयतः सूत्रकारस्य संमतम्, अपि तु सर्वेषामेवाध्यात्मविदामाचार्याणामिति भाष्यतात्पर्यमित्यर्थः ।
तत्र संशयादीनां पृथग्वचनमनर्थकम् इत्यादि चोद्यभाष्यं व्याचष्टेसंशयाद्यग्रहणमिति ।
सत्यमिति परिहारभाष्यं व्याचष्टै--न विद्येति ।
चोद्यं विवृणोति--संशयादय इति ।
परिहारं विवृणोति--न विद्येति ।
प्रस्थानं व्यापारः ।
तेषां पृथग्वचनमित्यादि भाष्यं व्याचष्ट--तस्याः संशयादीति ।
न च वाचयमस्तु विद्यात्रयमेव, कृतमान्वीक्षिक्या विद्ययेति, तस्या एव समस्तविद्यावदातीकरणहेतुत्वात् ।
यथा वक्ष्यति--प्रदीपः सर्वविद्यानामिति ।
स चायं किंस्विदिति वस्तुविमर्शमात्रमनवधारणज्ञानं संशय इति भाष्यम् ।
तद् व्याचष्टे-तत्र संशयादिषु,
संशयस्तावदिति ज्ञानमवधारणं प्रत्यय इति पर्याया इति मन्वानश्चादयति--अनवधारणात्मक इति ।
न ज्ञानमात्रपर्यायो ऽवधारणशब्दः ।
अपि तु तिद्वशेषविश्चयवचनः किंस्विदिति दोलायमानस्योभयकोटिस्पृशः प्रत्ययस्यार्थे ऽनवधारणात्मकस्यापि प्रत्यात्मं मानसेन प्रत्यक्षेणावधार्यमाणत्वादिति ।
परिहरति--न व्याघात इति ।
तत् तस्मात् अभयमिति ।
तत्र नानपलब्धे इत्यादि भाष्यमवतारयितुं पृच्छति-- स कथं न्यायस्येति ।
यदि न्यायस्याङ्ग संशयो भवेत्, सो ऽपि व्युत्पाद्येतेति भावः ।
उत्तरम्--यस्मादिति ।
एतदाक्षिपति--उपलब्ध इति ।
पञ्चरूपश्चतूरूपो वा हेतुर्न्यायः ।
प्रतिज्ञाद्यवयवसमूहो वा न्यायः ।
नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति ।
तस्याश्रयो विषय उपलब्ध उच्यमानो निर्णोत एव वक्तव्यः ।
सन्दिग्धे हि तस्मिन् हेतुः सन्दिग्धाश्रयतया असिद्धः स्यात् ।
यथेह नगनिकु।जे मयूरः केकायितापातादिति ।
तदापातसन्देहे अतो न निर्णीतश्चेन्नोपलब्धः ।
ततश्चोपलब्धश्चानिर्णोतश्चेति व्याहतमित्यर्थः ।
परिहरति--नास्ति व्याघात इति ।
समामन्यतः पर्वतमात्रमुपलब्धं निर्णोतम्, तद्विशेषस्तु वह्निमत्त्वादिरनिर्णीत इति ।
पुनश्चोदयति--एवमपीति ।
उपलब्धो निर्णोत इति हि सामानाधिकरण्यात् समानविषयत्वं दर्शयति ।
तथा च व्याघातः ।
सामान्यविशेषभेदेन तु व्याघातं परिहरन् सामानाधिकरण्यं न समर्थयस इति भावः ।
परिहरति-न, यथा तथेति व्यापदेशादिति ।
सामान्यविशेषयोः सामानाधिकारण्यात् ।
य एव सामान्यो निर्णोतः, स एव विशेषतो ऽनिर्णोतो ऽपि संभवतीति न व्याघात इत्यर्थः ।
एवमर्थ न्यायप्रवृत्त्यर्थम्, असन्दिग्धे न्यायप्रवृत्तेरनुपपत्तेः ।
न हि करिणि दृष्टे चीत्कारेण तमनुमीमे पेक्षावन्त इति ॥
प्रयोजनस्वरूपप्रतिपादनपूर्वकं प्रयोजनपदप्रयोजनप्रदशनार्थं भाष्यमनुभाषे--अथ प्रयोजनम् ।
व्याख्यातुं पृच्छति--किं पुनरिति ।
उत्तंरं-- येनेति ।
स्फुटतरमवैतत् इत्यर्थः ।
पुनः पृच्छति--केनेति ।
एकदेशिमतेनोत्तरमाह--धर्मेति ।
तत्र काम इतीच्छामात्रं वोच्यते, कामिनीविषयो वा रागः? पूर्वस्मिन कल्पे काम इत्येवास्तु कृतं धर्मादिभः, सर्वेषामेव काम्यमानत्वात् ।
उत्तरस्मिन्नव्याप्तिः, सरकमृगयादीनां काम्यानामसंग्रहात् ।
धर्ममोक्षयोरपि नास्तिकान् प्रत्यप्रवर्तकत्वम् ।
तस्मादयुक्तमेदिति मन्वान आह-- वयं तु पश्याम इति ।
सुखस्याप्त्या दुःखस्य हान्या विषयेण विषयिणं प्रत्ययमुपलक्षमति ।
असत्योरकारणवात्, सत्योर्वा अनर्थकत्पवात् प्रवृत्तेरिति ।
तथापि सुखदुःखाप्तितहान्योरेव कर्तुः प्रवृत्तिप्रसङ्गो न तत्साधने, न ह्यन्यद्विजानाति इच्छति च करोति चान्यदिति घटते, अतिप्रसङ्गात् ।
न च फलं पुरुषप्रवृत्तिगोचरः, तत्साधनं तु तद्गोचरः ।
तत्साधनत्वविज्ञानात् तत्साधन एव प्रवर्तते ।
तन्नातिपसङ्ग इति चेत्? हन्त तर्हि तत्साधनत्वज्ञानमेव प्रवर्तयति, न फलज्ञानम्, ज्ञानेच्छाप्रवृत्तीनां कार्यकारणभूतानां सामानाधिकारण्येन संप्रतिपत्तंरित्यभिप्रायेणाह--सुखदुःखसाधनभावत् सर्वे ऽर्थाश्चेतनं प्रयोजयन्तीति ।
तुशब्दः फलाद् व्यवच्छिनत्ति ।
अत्रापि विषयेण विषयिणं प्रत्ययमुपलक्षयति ।
एतदुक्तु भवति, तोयमुपलभ्य तज्जातीयस्यापेक्षिसाधनां दृष्टचरीमनुस्मरति ।
अथ तज्जातीयता लिङ्गेन दृश्यमानस्यापेक्षिसाणनभावमनुमिमीते ।
अनुमाय च पिपासुः प्रवर्तते ।
तेनोपायज्ञानस्य साक्षात् पुरुषप्रवृत्तिहेतुवम्, फलस्य त्वीप्सितमस्योद्येशतयेति सर्वं सुन्दरम् ।
तदाश्रयश्च न्यायः प्रवर्तते इति भाष्यं व्याचष्टे--तदिदं प्रयोजनं न्यायस्येति ।
आक्षिपति--क इति ।
समाधत्ते--उपकारकत्वमिति ।
यथा राजाश्रितः पण्डित इति ।
उपकारकत्वमेव दर्शयतितन्मूलत्वादिति ।
विधिः प्रवृत्तिः ।
न जातु निष्प्रयोजना काकदन्तादौ परीक्षामारभन्ते प्रेक्षावन्त इत्यर्थः ।
आक्षिपति--का पुनरियमिति ।
न्यायाश्रयत्वं प्रयोजनस्य प्रतिज्ञाय परीक्षाश्रयत्वसमर्थनमसङ्गतमिति भावः ।
उत्तरम्--न्यायः ।
तस्मान्नासंगतमित्यर्थः ।
नन्वेवमपि नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति व्युपत्त्या प्रत्यक्षादि प्रत्येकं न्यायः ।
न चैतत् प्रत्येकं प्रयोजनमाश्रयते ।
अजिहासितानुपादित्सितानामप्यविज्ञासितानामर्थानां प्रत्यक्षादिगोचरत्वदर्शनादित्त्याक्षिपति--कः पुनरयं न्यायः? समाधत्ते--प्रमाणैरिति ।
प्रत्यक्षादिप्रमाणमूलाः प्रतिज्ञादयः पञ्चावयवाः प्रमाणानि ।
तैरर्थस्य लिङ्गस्य परीक्षण परीक्षा ।
परीक्षितु तु लिङ्ग पन्चावयवोपपन्नमनुमेयप्रत्ययफलं भावयत्येव, न त्वतुमेयार्थपरीक्षा ।
तस्य सन्दिग्धत्वे ऽपि स्वरूपेण परीक्षानास्पदत्वादिति ।
नन्ववयवैश्चेदर्थपरीक्षण न तर्हि प्रमाणैः, कार्यकारणयोरभेदाभावादित्यत आह--किमुक्तं भवतीति ।
न साक्षत् प्रतिज्ञादयो ऽवयवा अर्थपरीक्षायामुपयुज्यन्ते ।
अपि तु स्वकारणतत्प्रमाणसूचनेन ।
तस्मात् प्रमाणानामवान्तरव्यापारः प्रतिज्ञादय इत्युपपन्नं प्रमाणैरर्थपरीक्षणम् ।
तदिदमुक्तम्--प्रमाणव्यापारादितीति ।
तस्मात् नैकैकं प्रमाणमिति ।
समस्तप्रमाणोपकरणत्वादेव चास्य परमत्वमित्याह--सो ऽयमिति ।
पञ्चावयवोपपन्नतया च प्रत्यक्षागामाश्रितत्वम्, न तद्विरोध इति प्रदर्शनार्थं भाष्यमनुभाष्य तात्पर्यां व्याचष्टे--प्रयक्षागमेति ।
कथं पुनरनेन भाष्येण तदुच्यत इत्यत आह--यदिहानुमानेनेति ।
यत् पुनरनुमानमित्यादि भाष्यं व्याचष्ट--चत्र पुनरिति ।
यत्र हि विरोधस्तत्र प्रमाणमूलानामवयवानां प्रतिज्ञादीनामितरेतरप्रतिसन्धानमेकवाक्यता नास्ति ।
प्रमाणविरोधेन चोग्यताविरहिणां तत्पदार्थानां पारमार्थिकान्वयाभावादिति ।
तीर्थं दर्शनं तस्य प्रतिरूपकः ।
अदर्शनमिव दर्शयतीति यावत् ।
स खलु तादृशः पञ्चावयवप्रयोगो लाभपूजाख्यातिकामैः पण्डितव्य।जनैरूपवर्ण्यमानः प्रत्यवायाय, प्रागव त्वपवर्गायेत्यर्थः ।
तदेवं समुदायतो भष्यं व्याख्यायवयवविभागाय पठति-यत् पुनरनुमानमिति ।
प्रत्यक्षविरुद्धोदाहरणमाह--अनुष्णो ऽगिरवयवी कृतकत्वाद् घटवदिति ।
अत्र चोदयति--कः पुनरिति ।
इदमात्राकूतम्--रूपत्रयसंपन्नमेतत् कृतकत्वं न वा? न चेत्, तत एवे तर्हि तदनुमानाभासमिति कृतं प्रत्यक्षविरोधेन ।
अथान्वयव्यतिरेकपक्षधर्मततासंपन्नमपि बाधितविषयतयैततदप्रमाणम्? तदयुक्तम्,
रूपत्रयसंपत्त्यां खल्वेतत् स्वासाध्येनाविनाभूतं भवति ।
न च बाधाविनाभावयोः सह संभवः ।
बाधायामपक्षधर्मो भवेत्, अनैकान्तिकश्च हेतः ।
विज्ञासितधर्मणो धर्मिणः पच्यमानत्वेन पक्षत्वम्, न पुनः प्रत्यक्षावधृतसाध्यविरुद्धधर्मस्य ।
तस्याजिज्ञासितत्वेनापक्षतया तद्धर्मस्यापक्षधर्मत्वान्न चैकान्तिकः ।
साध्यधर्मिण्येव प्रत्यक्षोपस्थापितसाध्यधर्मवति दर्शनेन व्यभिचारात् ।
न च सपक्षासपक्षावेवान्वयव्यतिरेकागम्याविनाभावदर्शनविषयौ न पक्ष इति साम्प्रतम् ।
यदि हि पक्षं विहाय बहिरेव सपक्षासपक्षयोरविनाभावो गम्येत, तदा बहिर्व्याप्तिमात्रबलेन पक्षधर्मो ऽपि हेतुर्न पक्षे साध्यं साधयेत् ।
असिद्धा हि तत्रास्य स्वसाध्येन व्याप्तिः ।
तदेतत् पण्डकमुद्वाह्य मुग्धायाः पुत्रप्रार्थनमिव ।
तस्मादन्तर्बहिर्वा सर्वोपसंहारेणाविनाभावो ऽवगन्तव्यः ।
एवं च सिद्धः पक्षे ऽपि व्यभिचारः साधनधर्मस्येत्यनैकान्तिकत्वम् ।
तथा च रूपत्रयसम्पन्नो हेतुर्बाधितविषयश्चेत्यसंभवः ।
तस्मात् सुष्ठूक्म्--कः पुनरस्यानुमानस्य रूपत्रयसम्न्नस्य विरोधः? न ह्यस्ति संभवो रूपत्रयसंपन्नं विरुद्धं चेत्यर्थः ।
अत्र समाधिमाह--अनुमानाविषये प्रयोगः ।
वक्ष्यति ह्यनुमानाधिकारे यथानौपधिकः संबन्धो हेतुसाध्ययोरनुमानाङ्गम्, न तु कार्यकारणभावादिरव्यापकत्वादतिप्रसङ्गच्चेति ।
स चैवं प्रवर्तते--यो यः कृतकः स सर्वो ऽनुष्णो यथा घटदिरिति ।
न च वह्नेरिव धूमसंबन्धे आर्द्रेन्धनसंयोगो गुर्वन्तवासिनोः साहचर्ये इव स्वाध्यायाध्ययनमुपाधिः कृतकत्वानुष्णत्वयोः संबन्धे उपलभ्यते ।
सो ऽयं शङ्कितः समारोपितो वा प्रयत्नेन पुनःपुनरन्विष्यमाणो ऽनुपलभ्यमानस्तत्र तत्र घटादावुपाधिर्नास्तीति प्रत्यक्षेण, यद्यभविष्यद् घटादिवदेव व्यज्ञास्यत्र, विज्ञानाभावान्नास्त्येवेति तर्कसहायेन निश्वीयते ।
सो ऽयं रूपेणेव रसस्य, श्वस्तनेनेव सवितुरूदयेनाद्यनस्य तदुदयस्य, समुद्रवृद्धचेव चन्द्रोदयस्य समानकालस्य, कृतकत्वस्यानुष्णत्वेन स्वाभाविक औत्सार्गिकः संबन्धः सामान्येन यो यः कृकः स सर्वो ऽनुष्ण इत्यवधारितः, न तु निर्विभज्य तेजो ऽवयविनि ।
न हि सर्वोपसंहारवती व्याप्तिरेकदेशविषया भवितुमर्हति ।
एकदेशविषयत्वे यत्रैव न दर्शिता तेनैवानैकान्तिकत्वमाशङ्क्येत ।
तथा च तत्र तत्रैकदेशे प्रत्येकं व्याप्तिप्रदर्शनमशक्यम्, आनन्यात् ।
तस्मात् सर्वोपसंहारेणैव तदुपदर्शनम्, तदिह कृतकत्वमौत्सर्गिकसामान्यविषयव्याप्तिस्मरणसध्रीचीनं पक्षधर्मतावशात् विशेषे तेजोवयविनि साधयितुमनुष्णतोन्मुखं यन्न साधयेत् तत् किं प्रत्यक्षेणापहृतविषयत्वात्, आहोस्विदनैकान्तिकत्वात्? न तावदनैकान्कित्वम्, प्रागेवसामान्यतो ऽनौपाधिकसंबन्धस्यावधारणात् ।
उष्णे तेजोवयविनि कृतकत्वस्य दर्शनाद् अनैकान्तिकमपक्षधर्मो वा कृतकत्वमिति चेत्-न, अनुमानेन सामान्यतो ऽवधृतव्याप्तिना तस्यानौष्ण्यासाधनात् ।
प्रत्यक्षेण तेजो ऽवयविन औष्ण्यग्रहेण तत्र कृतकत्वस्य हेतोर्वृत्तावुत्पन्नमपि व्याप्तिविज्ञानं बाध्यते ।
ततश्चानैकान्कित्वादप्रवृत्तिरनुमानस्येति चेत्-न, अनुमानप्रवृत्तिविषये साध्यधर्मिणि हेतोर्व्यभिचारानुद्भावनात् ।
अन्यथा तद्गतसाध्यधर्मसन्देहे तत्रोपलभ्यमानः साधनधर्मः सन्दिग्धब्यतिरेकिवादनैकान्तिकः स्यात् ।
सन्दिग्धसाध्यधर्मे दृष्टान्त इव साधनधर्मः ।
तथा चानुमानमात्रमुच्छिद्येत, प्रत्यक्षेण साध्यधर्मविपर्यदर्शनात् ।
तेजोवयविनो ऽनुष्णत्वेनासाधयत्वम्, तथा चानैकान्तिकत्वम् ।
तदिदमुक्तम्--यस्मिन विषये तेजसो ऽनुष्णत्वे एतत् प्रयुक्तम्, स प्रत्यक्षेणापहृत इति ।
एवं चानुमाने दूषिते कृतमपक्षधर्मत्वव्यभिचाराभ्यां तदुपजीविभ्यामिति भावः ॥
यत् पुनः दिग्नागेन प्रत्यक्षविरुद्धमनुमानमुदाहृतं तदुपन्यस्यति- अपरे पुनरिति ।
अश्रावणः शब्दः कृतकत्वाद् घटादिवदिति ब्रुवाणः शब्दस्वरूपमेवापलपति ।
न हि श्रवणेन्द्रियादन्यदस्ति शब्दग्रहणकारणम् ।
न हि श्रवणेन्द्रियादन्यदस्तित शब्दग्रहणकारणम् ।
न चागृह्यमाणः शब्दः सद्व्यवहारगोचरः ।
तस्मादेवंवादिनो ऽभिप्रायव्याप्तमसत्त्वं शब्दस्य ।
तथा च प्रत्यक्षविरोध इति भावः ।
दूषयि--तैस्त्विति ।
सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामत इत्युत्सर्गः ।
क्वचित् पुनर्विशिष्ट विधानमपि भवत्यनन्यगतित्वात् ।
तद्यथा-
लोहितोष्णीषा ऋत्विजः प्रचरन्ति ।
सति विभवे न जीर्णमलवद्वासाः स्तातकः स्यात् ।
इति ।
तद्वदिहापि अश्रावणः शब्द इति श्रुतिवाक्ययोः सामर्थ्यात् श्रावणत्वविशेषणोपसंकान्तो निषेधो न विशेष्येण शब्देन सह संबध्यते ।
नापि श्रावणत्वनिषधादार्थः शब्दनिषेधो वाद्यभिप्रायव्याप्तः ।
वचनार्थाविरोधिनो ऽर्थस्यार्थगम्यत्वान्न तद्विरोधिनः श्रावणत्वनिषेधस्य चाधिकारण शब्द इति न शब्दाभावे तन्निषेधो ऽवकल्पते ।
न चाभावस्तुच्छ इति तृतीय उपपादयिष्यते ।
न च श्रावणत्वं प्रत्यक्षगोचरः ।
तद्धि शब्दश्रोत्रयोः संबन्ध,
कृत्तद्धितसमासेषु संबन्धाभिधानं त्वतल्भ्याम् ।
इति कात्यायनीयवचनात् ।
न च प्रत्यक्षाप्रत्यक्षवृत्ति ।
संबन्धः प्रत्यक्षः ।
तस्मात् श्रावणत्वमप्रत्यक्षमिति नात्र प्रत्यक्षविरोधः ।
तदिदमुक्तम्--इन्द्रियवृत्तीनामनीन्द्रियत्वादिति ।
वृत्तिः स्वार्थे संबन्ध इत्यर्थः ॥
आगमविरुद्धमुदाहरति-शुचीति ।
मन्वादिभिर्नरास्थिस्पर्शप्रतिषेधात्, स्पर्शे च प्रायश्वित्तोपदेशादशुचित्वं नरशिरःकपालादीनामिति ।
कापालिक आक्षिपति--कथमिति ।
नास्माकं वेदस्तन्मूला वा स्मृतयः प्रमाणमित्यभिप्रायः ।
उत्तरम्- शुचि नरशिरः- कपालमिति ब्रुवता श्रुतिस्मृतीतिहासपुराणानपेक्षेणानुमानमात्रसहायेनात्र वस्तुनि वया शुचिरूपो ऽर्थो वक्तव्यः ।
किमुक्तं भवति शुचीति? यदि उच्येत स्प्रष्टुः प्रत्यवायाभावः? सिद्धान्ती पृच्छति--स कस्येति वाच्यम् ।
यद्यात्मन इति ब्रूयात् कापालिकः, अविगीता हि व्यवहारपरम्परास्माकं कापालिकानां नरशिरःकपालकस्पर्शतदवस्थितान्नपानोपयोगलक्षणा, दाक्षिणात्यानामिवाह्नेनैवुकादिलक्षणा क्रिया श्रेयस्करी ।
तस्मादस्माकमप्रत्यवायकरया शुचि नरशिरःकपालमित्यर्थः ।
तत्र सोपहासम् उत्तरमाह-तदागमानुष्ठानतात्पर्यावस्थानात् कापालिकस्यैवमेतत् ।
श्रुतिस्मृतीतिहासपुराणलक्षणागमविहितमर्थमाचरतां तन्निसिद्धं च परिहरतां दाक्षिणात्यानामाह्नेनैवुकाद्यनुष्ठानमनादि अद्य यावदनुवर्तमानमविगीतमाम्नायमूलतामनुमापयति आत्मानः श्रेयोहेतुभावेन, न खल्वागमानपेक्षः सहस्रेणाप्यनुमानैरिममर्थमवगन्तुमर्हति ।
कापलिकानां त्वागमविहितमकुर्वतां कुर्वतां च तन्निषिद्धमर्थं प्रयत्नेनानादिरपि व्यवहारः शाक्यमल्लकादीनामिव न वेदानुमानमूलमिति भावः ।
अथ त्रयीविदां नरशिरःकपालमप्रत्यवायहेतुरिति ब्रूयात्, तदा त्रय्या वक्ष्यमाणेन न्यायेन प्रामाण्योपगमादागमविरोधः, तदीयस्पर्शस्य त्रय्यां निषेधेन प्रत्यवायहेतुवनिश्चयात् ।
अपि चागमानपेक्षो ऽनुमानेन शौचं नरशिरःकपालंव्यवस्थापयन् प्रष्टव्यो जायते-- शुचि नरशिरःकपालमिति को ऽर्थः? ननु च एव वाक्यात् प्रतीयते स एवार्थः, तत् किं पृच्छचत इत्यत आह--विशेषविधानं च शेषप्रतिषेधपरं लोके दृष्टम्, यथा दक्षिणेन चक्षुषा पश्यतीति उक्ते न वामेनेति गम्यते ।
तदिह यदि शुचि नरशिरःकपालम्, किमन्यदशुचीति वक्तव्यम् ।
न हि नरोच्चारादीनामशुचित्वे प्रमाणमन्यदस्त्यागमात् ।
आगमप्रमाण्यं च न मन्यस इति भावः ।
अथ त्रयीविद्वेषाद् अनुमानपक्षापातिना त्वया सर्वमेव नरविट्कपालादि शौचपक्षे निक्षिप्यत इत्याह--अथ सर्वमेव शुचि ।
परिहरति--दृष्टान्तो नास्ति ।
कृतः? सर्वस्य पक्षीकृतत्वात् ।
चोदयति--अथानुमानविरुद्ध्र कस्मादनुमानं न भवतीति ।
न खलु प्रमाणत्वेन प्रत्यक्षागमाभ्यामनुमानस्य कश्चिद् विशेषो येन तौ बाधकावनुमानस्य नानुमानमिति भावः ।
परिहरति--एकस्मिन्ननुमानद्वयसमावेशाभावात् ।
अयमभिसन्धिः---यत् तावदनुमानं पूर्वप्रवृत्तं तेन बाधितविषयं तब्दलभावि पश्चत्तनमनुमान न स्वकार्याय पर्याप्तम्, यथोक्तमश्रावणः शब्दः कृतकत्वाद् घटादिवदियस्यानुमानस्यानुमानविरोध इति ।
लब्धस्वरूपं हि वस्तु क्वचित् किश्चिन्निषिध्ये, न तु ज्ञानाकारालीके बहिरिति तृतीये निव्रदयिष्यते ।
तदिह श्रावणत्वं शब्दस्य निषेधतापूर्वं श्रवणमिन्द्रियमतीन्द्रिय तद्ग्राह्रात्वं च वस्तुनी अनुमातव्ये शब्दोपलम्भलक्षणेन कार्येण ।
तथा चैतेनैवानुमानेनापहृतविषयमश्रावणत्वानुमानं चरममन्वयव्यतिरेकसंपन्नमपि न स्वोचितं कार्या जनयति ।
एवे तनुभुवनादीनां न कर्तेश्वरो ऽशरीरित्वान्मुक्तसत्मवत् प्रयोजनाभावादित्याद्यापीश्वरधर्मिग्राहिमूलानमानेनापहृतविषयतया न्यायाभासं वेदितव्यम् ।
तस्मात् परस्परानपेक्षसमानकालप्रवृत्तिसमर्थानुमानद्वयसमावेशाभावाभिप्रायमेतदुक्तम् ।
न ह्यनयोरन्यतरद् बाध्यं बाधक वा संभवति, किं तु मिथः सत्प्रतिपक्षतया न प्रमां कुरुतः ।
कस्मात् पुनर्न समावेशो ऽनुमानयोः? असमावेशे वा कुतः सत्प्रतिपक्षतेत्यत आह--न ह्यन्वयव्यतिरेकसम्पन्ने इति ।
इहान्वयव्यतिरेकग्रहणेन समानबलयोरन्वयव्यतिरेकपक्षधर्मत्वासत्प्रतिपक्षत्वान्युपलक्षितानि ।
एतैः सम्पन्नयोर्यदि समावेश एकस्मिन् विषये भवेत्, तत एकतरस्य बाध्यत्वं बाधकत्वं वा गम्येतापि ।
न त्वेतदस्ति, असप्रपिपक्षतासम्पत्तेरभावादिति ।
उपसंहरति- -तस्मान्नानुमानविरुद्वम् अनुमानं तुल्यबलम्, अपि तु सत्प्रतिपक्षमित्यर्थः ।
प्रत्यक्षमप्यनुमेयविरुद्धसाधनादनुमानस्य प्रतिपक्ष इति सत्प्रतिपक्षतयान्वयव्यतिरेकादिसम्पन्नस्यानुमानस्य न प्रत्यक्षेण तद्विरुद्धार्थोपसंहारिणा समावेश इति न बाध्यबाधकभाव इयभिप्रायेण चोदयति--प्रत्यक्षविरोध्यपीति ।
परिहरति न नेति ।
तुल्यबलौ हि मिथः प्रतिपक्षौ भवतः न तु दुर्बलोत्तमबलौ ।
न हि भवति तरक्षुः प्रपिक्षो हरिणशावकस्य, किं तु समरकण्डूनिघ्नविषाणकोटिसमुल्लिखितगण्डशैलस्य विपिनमाहिषस्य ।
तस्मात् ।
पूर्वभावि प्रत्यक्षमनन्यथासिद्धं सदसत्प्रतिपक्षमनुमानं समानविषयसमावेशाद् बाधत इति युक्तमित्यर्थः ॥
चोदयति--अथोपमानविरुद्धमनुमानं कस्मान्न भवति? गोसदृशो गवय इत्यारण्यकस्य वाक्यं श्रुत्वा यदा नागरको वनं गतो गोसदृशं पिण्डमुपलभे, तदास्य वाक्यार्थानुभवाहितसंस्कारप्रबोधजनितस्मृत्यपेक्ष गोसादृश्यज्ञानमुपमानं पुरो ऽवस्थितस्य पिण्डस्य गवयशब्दवाच्यत्वज्ञाने प्रमाणम् ।
तत्र यदि कश्चित् ।
प्रमाणयेत् नैष पिण्डो गवयशब्दवाच्यो गोपिण्डसादृश्याद् गोपिण्डान्तरवदिति, तदिदमनमानमुपमानेन बाधितविषयमस्त्वित्यर्थः ।
संप्रतिपत्तिरुत्तरम्--नोपमानविरुद्धं न भवतीति अनुषज्यते ।
अस्ति चेत् कस्मान्नोक्तमित्यत
आह--पूर्वप्रमाणविरोधानुविधानान्नोक्तमिति शेषः ।
तद् दर्शयति--उपमानविरोध इति ।
स्वफलद्वारा शब्दं प्रमाणं दर्शयति--उपमानविरोध इति ।
स्वफलद्वारा शाब्दं प्रमाणं दर्शयति--आगमेति ।
स्वफलद्वारैव प्रत्यक्षं प्रमाण दर्शयति--सारूप्यज्ञानमिति ।
उपसंहरति--प्रत्यक्षागमयोर्विरोधात् विरोधाभिधानाद् उक्तं तद् उपमानविरुद्धमनुमानमिति ॥
भाष्यमनुभाष्याक्षिपति--तत्र वादजल्पाविति ।
प्रयोजनस्वरूपोपयोगाभिधानानन्तरं दृष्टान्तपदे व्याख्यातव्ये तदुल्लङ्घनेन वादजल्पयोः को ऽवसर इत्यर्थः ।
अवसरमाह--तेनानेनेति ।
प्रयोजनव्याख्यानाङ्गमेवेदं न वादजल्पव्याख्याङ्गमित्यस्त्यवसर इति भावः ।
तत्रशब्दार्थं व्याचष्टे--तस्मिन्न्यायाभासे इति ।
वादजल्पकथयोर्हि न द्वयोर्वादिप्रतिवादिनोः साधने समीचीने संभवतः, वस्तुनि विरुद्धधर्मद्वयसमावेशामावात् ।
तस्माद् द्वयोरेकस्य न्यायः, एकस्य तु न्यायाभास इति वादजल्पाभ्यां विविच्यते ।
न्यायाभास इति तु सन्निधानादुक्तम्, सन्निहितार्थत्वात् सर्वनाम्न इति ।
वितण्डा तु परीक्ष्यतं, सप्रयोजना निष्प्रयोजना वेति ।
तुशब्दः प्रसिद्धप्रयोजनाभ्यां वादजल्पाभ्यां व्यवच्छिनत्ति ।
प्रतिपक्षस्थापनाहीना हि वितण्डोच्यते ।
तत्र स्थापनाहीनत्वात् प्रतिपक्षहीनेति प्रतीयते ।
न खलु स्थापनाभावे स्थाप्यसंभवः ।
तथा वितण्डचते व्याहन्यते ऽनया प्रतिपक्षसाधनमिति व्युत्पत्त्या परपक्षोपघातेन पारिशेष्यात् स्वपक्षसिद्धिरस्याः प्रयोजनं प्रतीयते ।
तदेवं सन्दिग्धप्रयोजना सती वितण्डा परीक्ष्यते, प्रयोजनवती न वेति ।
तत्र यदि निष्प्रयोजना ततो न सर्वा विद्याः, सर्वाणि कर्माणि, तन्मुखेन च सर्वे प्राणिनः प्रयोजनेन व्याप्ताः, वितण्डाया एव कर्मरूपाया विद्यारूपाया वा निष्प्रयोजनात्वात् ।
अथ प्रयोजनवती, तत उपपन्ना प्रयोजनव्याप्तिः ।
किं तावत् प्राप्तम्? तत्र केचिद् ब्रुवते निष्प्रयोजना वितण्डेति ।
स्थापनाहीनतया तावत् स्थापयः पक्षो नास्ति ।
अवयवव्युत्पत्त्यापि परसाधनाविधातः प्रतीयते ।
न च तावन्मात्रेण स्वपक्षसिद्धिरस्ति ।
न हि पर्वतनितम्बवर्तिति धूमे असिद्धत्वादिना दूषिते वह्नेस्तत्राभावो निश्चीयते ।
तदिदमुक्तम्--दूषणमात्रत्वादिति ।
तमिमं निष्प्रयोजनवितण्डावादिनं प्रत्याहतच्च नैवमिति ।
परसाधनदूषणेनास्य पारिशेष्यात् स्वपक्षः सिध्यतु, मा वा सैत्सीत्, स तु स्वपक्षसेद्धचैव प्रयोजनेन प्रतिपक्षसाधनमाहन्तीति भावः ।
तदनेव (स) यदि प्रयोजनमनुयुक्त इत्यादि भाष्यं व्याख्यातम् ।
अथ न प्रतिपद्यत इत्यादि भाष्यं व्याचष्ट--अथ पक्षमपीति ।
अथापीत्यादि भाष्यं व्याचष्टे--अथ परपक्षेति ।
नास्तिको हि सदसदुभयानुभयरूपतया न विचारं सहन्त इति प्रमेयाणि सर्वथा दूषयति ।
तदयं परपक्षप्रतिषेधमात्रप्रयुक्तः प्रवर्तते ।
न त्वस्यास्ति पक्षो न च स्थापना ।
तयोरपि प्रमेयपक्षपातितया दूष्यत्वादित्यर्थः ।
एतदपीत्यादि भाष्यं व्याचष्ट-- तादृगेवैतत् ।
एदद्विभजते--एतस्मिन्नपि पक्षे चतुर्वर्ग चेत् प्रतीपद्यते सो ऽस्य पक्षः ।
प्रतिपत्तिरभ्युपगमः ।
यद्यपि स्थाप्य एव पक्षः, तथापि तन्नान्तरीयकतया अभ्युपगममात्रेण चतुर्वर्गो ऽपि पक्ष उक्तः ।
कश्चतुर्वर्ग इत्यत आह--चतुर्वर्ग इति ।
एष साधनवादी ज्ञापयति--अहं वैतण्डिको जाने अनेन पञ्चावयवेन साधानावाक्येनेदं साध्यं ज्ञाप्यत इति चतुर्वर्गः ।
तत्प्रतीत्या खल्वस्य वैतण्डिकस्य परपक्षनिषेधः प्रयोजनं सिध्यति ।
तथा च न विष्प्रयोजनो ऽयं वैतण्डिक इत्यर्थः ।
द्वितीयं कल्पं दूषयति--अथ न प्रतिपद्यत इति ।
चतुर्वर्गनान्तरीयकत्वात् दूषणमपि न प्रतिपद्यते इत्युन्मत्तवदुपक्षणीय इत्यर्थः ।
अपरमपि नास्तिकवैतण्डिकं प्रति दोषमाह--प्रतिपक्षेति ।
असिद्धविरुद्धादिदोषो वाक्यस्य वैतण्डिकप्रयुक्तस्यार्थः ।
तं यदि प्रतिपद्यते सो ऽस्य पक्षः ।
अथासिद्धविरुद्धादीनां सद्भावाभ्युपगमे प्रमेयमध्यपातिनां प्रमेयमात्रविचारासहत्वाभ्युपगमो विघटत इति स्ववाक्याभिहितमेवाद्धिविरुद्धादि न प्रतिपद्यते, पूर्ववद्दोषः ।
नायं लौकिको न परीक्षक इति ।
तस्माद् वितण्डापि प्रयोजनवतीति नाव्यापकं प्रयोजनमिति सिद्धम् ।
सो ऽयं प्रसक्तानुप्रसक्तिवादः प्रयोजनव्याख्यानाङ्गमित्याह--उक्तं प्रयोजनमिति ॥
दृष्टान्तपदव्याख्यानपरं भाष्यमनुभाषते--प्रत्यक्षविषय इति ।
आक्षिपति--किमुक्तं भवतीति ।
न तावद् यो यः प्रत्यक्षविषयः, स सर्वो दृष्टान्तः, अदृष्टान्तस्यापि प्रत्यक्षविषयत्वात् ।
नापि यो दृष्टान्तः स सर्वः प्रत्यक्ष विषयः, आगमादिविषयस्यापि दृष्टान्तत्वात् ।
तस्मादयुक्तमेतदित्याक्षेप इति ।
तत्समाधानभाष्यम्--यत्रेति ।
तद्वचाचष्टे--लौकिकपरीक्षकाणां दर्शनविघातहेतुरिति ।
एतच्च क्वचिल्लौकिकपरीक्षकाणाम्, क्वचित् परीक्षकाणामिति मन्तव्यम् ।
अन्यथा यदप्रसिद्धं लौकिकानां केवलं पण्डितरूपवेदनीयं परमाण्वादि तस्यादृष्टान्तता स्यात् ।
अत्र च यो दृष्टान्तः स एवम्, त तु य एवे स दृष्टान्त इति द्रष्टव्यम् ।
एवंभूतव्याख्यानस्य प्रयोजनं दर्शयति--एवं चेति ।
तद् विभजते--दर्शनाविधातेति ।
न केवलं प्रमेयविरोधः सूत्रविरोधश्चेत्यत आह--ततश्चोदाहरणसूत्रं व्याहन्यते ।
यत् तेषु तेषु शास्त्रप्रदेशेष्वतीन्द्रियोदाहरणसूत्रं सिद्धान्ते पूर्वपक्षे वा यथा,
मन्त्रायुर्वेदप्रामाण्यवत् (2.1.68),
अणुश्यामतानित्यत्ववत् (5.1.67)
इत्येवमादि, तद् व्याहन्यते ।
न तूदाहरणलक्षणसूत्रम् ।
तद्धि प्रत्यक्षविषयदृष्टान्तत्वे ऽप्युपपद्यत एव ।
तस्माद् भाष्ये प्रत्यक्षवचनं दृष्टान्तविषयप्रमाणदाढ्रयं लक्षयति ।
प्रत्यक्षमूलत्वाद् वा प्रत्यक्षो दृष्टान्तः, अन्यथानवस्थाप्रसङ्गादिति ।
सो ऽयं दृष्टान्तः प्रमेये ऽन्तर्भवन्नेवमर्थं पृथगुक्त इत्याह--सो ऽयमिति ।
न्यायस्य पञ्चावयवात्मकस्य वचनसमूहस्य दृष्टान्तो मूलम्, अतस्तस्य पृथगुपदेशः ।
अतश्चास्य पृथगुपदेशो यत्--सति तस्मिन्निति ।
अनुमाननिमित्तत्वमाह-- पूर्व प्रत्यक्षेति ।
दृष्टान्तधर्मिणि दृढतरप्रमाणावधारितमित्यर्थः ।
शाब्दमूलतां द्रृष्टान्तस्य दर्शयति--पूर्व ज्ञातं चार्थमिति ।
संबन्धग्रहणविषयो ऽर्थो दृष्टान्तः, संबन्धग्रहणं च शाब्दस्यापि ज्ञानस्य निमित्तं प्रथमश्राविणः शब्दादर्थज्ञानाभावात् ।
तस्मादस्ति शाब्दे ऽपि दृष्टान्तस्योपयोग इति ।
अपरमपि पृथगुपादानप्रयोजनमाह--नास्तिकस्येति ।
अप्रपञ्चने हेतुमाह--तदुक्तं भाष्य इति ॥
सिद्धान्पदविवरणभष्यं व्याचष्टे--अभ्युपगमेति ।
तद्विभजते- -अभ्युपगम इदिमित्थम्भूतं चेति ।
तद्विभजते--इदमितीति ।
इदमिति हि धर्मिविषयं सिद्धान्तं दर्शयति, धर्मो सर्वतन्त्रसिद्धान्तविषयः ।
इत्थमिति प्रतितन्त्राधिकारणाभ्युपगमसिद्धान्तविषयं दर्शयति ।
व्यवस्थायामुपलक्षणतया प्रतितन्त्रसिद्धान्तमात्रमुदाहरति--इदं सांख्येष्वेवेति ।
उपलक्षणतामुदाहरणस्याजानानश्चोदयति--सर्वतन्त्रेति ।
परिहरति--यो ऽयमिति ।
अभ्युपगमव्यवस्थितिरनभ्युपगमाद् व्यवच्छिनत्ति ।
न तु पुरुषविशेषे व्यवस्थापयतीति भावः ।
अस्यापि प्रमेयान्तर्ग्रतस्यापि सतः पृथगुपादानप्रयोजनमाह--तस्य प्रमेय इति ।
तत्र सर्वतन्त्रसिद्धान्तसिद्धस्तावद् विप्रतिपन्नानामपि वादिनां धर्मो, तस्य सर्वतन्त्रसिद्धान्तसिद्धस्य विशेषेषु प्रतितन्त्रसिद्धान्ताः प्रवर्तन्त ।
तथा हि यदि घटो नाम न सर्वतन्त्रसिद्धान्तसिद्धः किमाश्रया अवयवी वा परमाणुसमूहो वा ज्ञानाकारो वा प्रधानपरिणामो वा ब्रह्मपरिणामो वा तद्विवर्तो वेति प्रतितन्त्रसिद्धान्ताः प्रवर्तन्ते? कथं च प्रतितन्त्रसिद्धान्ताश्रयो वादजल्पवितण्डाः प्रवर्तन्ते? किमाश्रयश्च न्यायः स्यात्? तथा यद्यधिकारणसिद्धान्तो न भवेत्, कथं साध्यसामान्यव्याप्तं साधनसामान्यमिति साणनविशेषत् साध्यविशेषो गम्येत? तस्मादस्ति प्रमेयस्यापि सिद्धान्तस्य पृथगुपादनप्रयोजनम् ।
अभ्युपगमसिद्धान्तं चोपरिष्टाद् विचारयिष्यति वात्तिककृत् इति तत्प्रयोजनमिहास्माभिनोग्क्तमिति ॥
क्रमप्राप्तानवयवानाह--अथावयवाः ।
ननु यथा तन्तवः पटस्य समवाचिकारणं किं तथैवैते प्रतिज्ञादयो वाक्यस्य? नो खलु रागनगुणा वर्णाः समवायिकारणतां प्रतिपद्यन्त इत्याह-- वाक्यैकदेशा इति ।
अवयवा इवावयवाः, न पुनः समवायिकारणम्, यथा ह्यवयवाः समुदायिन एकस्मिन्नवयविनि कार्ये धारयितव्ये च, एवमेकस्मिन् विवक्षितार्थप्रतिपादने प्रतिज्ञादयो ऽवयवा वाक्यस्य समुदायस्य समुदायिन इति ।
ननु वर्णानामाशुतरविनाशिनां क्रमवतामेककालत्वाभावे समुदायाभावात् कुतस्तत्समुदायो वाक्यम्, कुतश्चैकदेशतेत्याशयवानाक्षिपति--किं पुनर्वाक्यम्? उत्तरम्--पूर्वपदस्मृत्यपेक्षो ऽन्त्यपदप्रत्ययः स्मृत्यनुग्रहेण प्रतिसन्धीयमानो विशेषप्रतिपत्तिहेतुर्वाक्यम् ।
विशिष्यत इति विशेषः पदार्थ एकः, क्रिया वा कारकं वा प्रातिपदिकार्थो वा पदार्थान्तरविशिष्टो वाक्यार्थः ।
यथा सोमेन यजेत गोदोहनेन पशुकामस्य यस्य पिता पितामहो वा सोमं न पिबेत् स व्रात्य इति ।
तस्य विशेषस्यैकस्य प्रतिपत्तिहेतुः ।
तदेवं समूहनिबन्धनं पदानामेककार्यत्वं सूचयति ।
को विशेषप्रतिपत्तिहेतुरित्यत उक्तम्--अन्त्यपदप्रत्ययः ।
अन्त्यं विशेष्यं विरोषणपूर्वकत्वात् ।
तस्य पदम् ।
न च तदविदितं सत्तामात्रेण चक्षुरादिवद् विशेष्यं प्रतिपादयतीत्यत उक्तम्--प्रत्यय इति ।
प्रतीयमानं विशेष्यवाचि पदं विशेष्यं बोधयति ।
प्रतीतिश्च नानुभवः, अपि तु स्मृति ।
न हि क्रमवद्वर्णसमुदायः पदं श्रवणेन्द्रियानुभवगोचरः संभवति, संभवन्ति तु प्रत्येकं वर्णाः ।
न चैते प्रत्येकं पदम् ।
न च पूर्ववर्णस्मृतिनिचयसाहितो ऽन्त्यवर्णानुभवः श्रोत्रज
इति युक्तम्, स्मृतीनां स्वकार्यसंस्कारविरोधिनीनामसहभावात् ।
विनश्यदविनश्यदवस्थयोस्तूपान्त्यान्त्यवर्णस्मृत्यनुभवयोः स्यात् ।
न चैतावतार्थप्रत्ययः पूर्ववर्णस्मृतीनां निरोभावात् ।
न च पूर्ववर्णानुभवनितसंस्कारसहकारिणः श्रवणादेव लब्धजन्मनः प्रत्ययस्यैकस्याध्यस्ततत्स्मृत्यनुभवरूपवैचित्र्यस्य सदसद्वर्णावगाहिनो विषयभावमापन्ना वर्णा अर्थधियमादधतीति साम्प्रतम्, संबन्धसंवेदनाहितसंस्कारोब्दोधसमयजन्मना स्वजनितेन संस्कारेण संबन्धस्मृत्युत्पत्तिसमये विनाशात् पदार्थावबोधकत्वानुपपत्तेः ।
तस्मात् स्मृतिरेव प्रत्ययः ।
अत एवाध्ययनसमये गुरुमुखाद् गृहीतो वेदराशिर्वेदाङ्गोपाङ्गज्ञानसंस्कृतेन स्मर्यमाण एव तस्यार्थं बोधयति ।
एवं च यदा पदार्थप्रत्यायन एव पदानुभवो न कारणम्, तदा वाक्यार्थज्ञाने नानापदार्थस्मरणाकाङ्क्षायोग्यतासन्निधानावधारणादिव्यवहिते कैव कथेति ।
यदि तर्हि विशेष्यपदमेव स्मर्यमाणं विशिष्टमर्थमवगमयति कृतं पदान्तरैः, तत एव वाक्यार्थप्रतिपत्तेरित्यत उक्तम्--पूर्वपदस्मृत्यपेक्षः ।
पूर्वं विशेषणम्, तत्पूर्वकत्वाद् विशेष्यप्रतीतेः ।
तस्य पदव स्मर्यमाणपूर्वपदापेक्षः ।
यद्यपि स्मरणानि न सह संभवन्ति तथाप्येकस्मृतिसमारूढानि वा पदानि निरन्तरस्मृतिसंतानसमारूसनि वा परस्परापेक्षाणि ।
तथा च स्मर्यमाणं विशेष्यपदं विशेषणपदापेक्षं विशिष्टमर्थमवगमयतीति ॥
स्यादेतत् ।
पदमाला चेत् स्मर्यमाणा वाक्यार्थवोधनी, कृतं तर्हि पदार्थवोधनेन, कृतं च पदतदर्थसंबन्धबोधनेनेत्यत उक्तम्--स्मृत्यनुग्रहेणेति ।
प्रत्येकं पदेभ्यो याः पदार्थस्मृतयस्तदनुग्रहेण ।
एतदुक्तं भवति, यद्यपि वाक्यार्थवोधनाय पदमाला प्रवृत्ता, तथापि पदार्थस्मृतिरवान्तरव्यापारभूता अपेक्षते काष्ठानीव पाकप्रवृत्तानि ज्वलनमवान्तरव्यापारम् ।
न च पदान्यगृहीतसङ्केताति पदार्थान् स्मारयन्तीति उपपन्ना पदार्थस्मृतिसंबन्धसंवेदनयोरपेक्षेति ।
यदि हि पदार्थस्मृत्यपेक्षा पदमाला वाक्यार्थवोधनरी, हन्त दशदाडिमानि षडपूपा भवन्तीत्येवमादीनामपि वाक्यार्थबोधकत्वं स्यादित्यत आह--प्रतिसन्धीयमानः ।
प्रतिपदं सन्धानं घटनं प्रतिसन्धानम् ।
तच्च स्वार्थद्वारेणाकाङ्क्षायोग्यतासत्त्यधीनम् ।
न च दशदाडिमादिवाक्यादिषु तदस्तीति न ततो वाक्यार्थावबोध इत्यर्थः ।
तदेवमेकस्मृतिसमारोहेण एमार्थावच्छेदेन च पदानां समूहो वाक्यम् ।
तस्य भागा एकदेशा इति ।
यावतीत्यादि भाष्यमवतारयति--ते कियन्तः? भाष्यव्याख्यानेनोत्तरम्--यावभ्दिरिति ।
पृच्छति--केति ।
न हि समाप्तेर्निष्पत्तेरन्या सिद्धिरस्तीत्यभिप्रायः ।
उत्तरम्--पदार्थस्येति ।
धर्मिणः सिषाधायिषितधर्मविशिष्टत्वं वास्तवमित्यर्थः ।
समाप्ति पृच्छति--केति ।
उत्तरम्--विशेषेति ।
वास्तवो धर्मः सिद्धिः, तद्गोचरस्तु विनिश्चयः पुरुषधर्मो निष्पत्तिरिति विशेष इत्यर्थः ।
कियद्भिः किमभिधानैश्च विभागैः सिद्धिः परिसमाप्यत इत्याशङ्क्य भाष्यकृतोक्तम्--तस्य पञ्चेति ।
तद् व्याचष्टे--समाख्येति ।
भाष्यम् अनुभाष्याक्षिपति--तत्रागम इति ।
न ह्यगमवत् प्रतिज्ञावचनं निश्चायकम्, हेतुवचनादिवैयर्थ्यात् ।
निष्पादितक्रिये कर्मणि साधनस्य साधनन्यायातिपातादिति ।
समाधत्ते--आगमाधिगतस्येति ।
आत्मादिप्रमेयप्रतिपादनोद्देशेन हि शास्त्रमेतत् प्रवृत्तम् ।
तन्नान्तरीयकतया न्यायं व्युत्पादयत् तमेव व्युत्पादयेत्, य आत्मादेः प्रमेयस्य साक्षात् निश्चायकः, तत्प्रतिपादकागमप्रमाण्यनिश्चायको वा ।
तस्य च न्यायविशेषस्याद्यो ऽवयवः प्रतिज्ञा, आगमार्थविषया साक्षात्, तद्विषयागमप्रमाण्यप्रतिपादकस्य च परम्परया ।
तस्मात् आगमः प्रतिज्ञा ।
आगमोपचारस्य च प्रयोजनमिदं यदर्थसंवादेनागमेनानुगृह्यते न्यायः सप्रयोजनश्च भवति, आगमार्थज्ञानस्य निःश्रेयसहेतुभावेन निरूढत्वात् ।
तस्माद् यद्यपि न न्यायमात्रवर्तिनी प्रतिज्ञा आगमः, तथापि प्रकृतन्यायाभिप्रायेणैतद् द्रष्टव्यम् ।
तथा चागमार्थसंबन्धेन प्रतिज्ञायाः कल्पितविषयत्वमपि पराकृतं वेदितव्यम् ।
यदाहुः एके--सर्वो ऽयमनुमानानुमेयव्यवहारो बुद्ध्यारूढेनैव धर्मधर्मिभावेन, न बहिःसदसत्त्वमपेक्षते इति ॥
तथानुमानस्य न्यायानुग्रहाकत्वं हेतुवचनस्यानुमानत्वोपचारेण भाष्यकारेणोक्तम्--हेतुरनुमानमिति ।
तत् खल्वनुमानप्रतिपादकं वचनं विषयतयानुमानेनानुग्रहीतव्यम् ।
न च लिङ्गदर्शनमात्रमनुमेयप्रतिपत्तिहेतुः, अपि तु संबन्धस्मृतिसहकारि ।
न च हेतुवचनमात्रात् सहकारितावगम्यते ।
तस्मान्न लिङ्गवचनमनुमानप्रतिपादकमिति कथमनुमानत्वोपचार इत्यत आह--एवं लिङ्गदर्शनमात्रे दृश्यमाने लिङ्गरूपे संबन्धस्मरणरहिते हेतूपचारात् अनुमानत्वोपचारत् हेतुरनुमानमित्युक्तं भवष्यकृता ।
तदेव विभजतेयत्तु द्वितीयं लिङ्गदशनम् ।
संबन्धग्रहणसमये लिङ्गदर्शनं प्रथमम्, तदपेक्षया साध्यधर्मिणि लिङ्गदर्शनं द्वितीयम्, तत्संबन्धस्मृतिव्यक्तिहेतुभावात् स्मर्यते ऽनयेति स्मृतिः संस्कारः ।
तस्य व्यक्तिः कार्याभिमुखीकरणम्, तत्र हेतुभावात् ।
क्वचित् पाठः--- संबन्धस्मृतिहेतुव्यक्तिहेतुभावादिति ।
स तु सुगम एव ।
अतो हेतुरित्युच्यते ।
एतदुक्तं भवति, यत् तद् द्वितीयं लिङ्गदर्शनं शुद्धमप्यापाततः संबन्धस्मृतिहेतुभावात् संबन्धस्मृति सहकार्येव ।
तथा चानुमानम् ।
एवं च तत्प्रतिपादकस्य वचस उपपन्नो ऽनुमानत्वोपचार इति सिद्धम् ।
एवं च वास्तवेन लिङ्गेन संबन्धात् तद्वचनस्य बुद्धिविकाल्पितलिङ्गविषयत्वं परास्तं वेदितव्यम् ।
एवमन्येष्वप्यवयवेषु वक्ष्यमाणेष्वेतदेव प्रयोजनं योजनीयमिति ।
उदाहरणं प्रत्यक्षमिति भाष्यम् ।
तद्व्याचष्ट--स्मृतिविषयस्येति ।
यत्र प्रत्यक्षविषये पूर्वं व्याप्तिर्गृहीता तस्य स्मृतिरिति स्मृतिविषयस्य प्रत्यक्षतः पुनरूपदर्शनात् अविप्रतिपत्त्या पुनः स्मरणात् तत्स्मारकं वचनमुदाहरणं प्रत्यक्षम्, मूलभूतप्रत्यक्षप्रमाणसमुत्थत्वादित ॥
कः पुनरूपमानार्थ इति ।
प्रत्यक्षमिव प्रत्यक्षमित्यत्रेवकारे तत्रोपमार्थः क इत्यर्थः ।
एतदेव विभजते--यस्मादिति ।
उपमानमुपनय इति भाष्यम् ।
तद्व्याचष्टे--यथा तथेत्युपमानैकदेश इति ।
उपनयो हि तथा चैतदिति प्रवर्तमान उदाहरणस्थं यथाशब्दार्थमपेक्षत इति यथा तथेति प्रवर्तत इति ।
किं पुनरूपमानं यस्यायमेकदेश इत्यत आह--उपमानं खलु तथा गौस्तथा गवय इत्युपदेशोपयोगे ।
उपयोगस्तदर्थविषयो ऽनुभवः ।
तस्मिन् सति पश्वाद् वनं गतो नागरकः प्रत्येक्षेणादृष्टपूर्वं पिण्डं पश्यति ।
स्मरति चोपदेशार्थम् ।
पिण्डस्य च पुरोवर्तिनः स्मर्यमाणेन गवा सादृश्यं प्रत्यक्षेणैव पश्यति ।
तदेवंभूतं सारूप्यज्ञानं गवयशब्दवाच्यो ऽयं पिण्ड इति प्रतीतिहेतुरूपमानम् ।
तदेतस्योपमानस्योपदेशार्थस्मरणगवयपिण्डगोसारूप्याप्रत्यक्षरूपस्यैकदेशे सरूप्ये यो यथातथाभावः स उपनये ऽप्यस्तीत्येतावतोपमानत्वोपचार उपनय इत्यर्थः ।
सो ऽयं सर्वप्रमाणविनिवेशेन परमो न्यायः स्तूयते ।
निगमनव्याख्यानभाष्यमनुभाष्याक्षिपति--कः पुनरिति ।
न खल्ववयवानां प्रमाणानां वा वाक्ये समवायः संबन्धः संभवतीति भावः ।
उत्तरम्--एकवाक्येति ।
अध्यारोपो बुद्धचा प्रतिसन्धानम् ।
सामर्थ्यं पृच्छति--किं पुनतिति ।
उत्तरम्--इतरेतरेति ।
सामर्थ्यं हि पदानां धर्मः ।
इह तु विभज्यमानानामवयवानां नन्मूलानां च प्रमाणानां साकाङ्क्षत्वमेव धर्मः समार्थ्यम् ।
तदत्र समस्तरूपसम्पन्नलिङ्गप्रतिपादनमेकं प्रयोजनं विभज्यमानसाकाङ्क्षत्वं चास्तीति सिद्धमेकवाक्यत्वमवयवानामिति ।
निगमनपदं व्युत्पादयति--निगम्यन्त इति ।
सो ऽयमिति भाष्यमनुभाष्य पृच्छति--कः पुनः परमशब्दस्यार्थ इति ।
उत्तरम्--विप्रतिपपन्नपुरुषप्रतिपादकत्वं पश्चावयववाक्यस्य परमत्वमिति ।
एतदेव व्यतिरेकमुखेन प्रतिपादयति--एकैकश इति ।
यद्यपि लोके प्रत्यक्षादीनामेकैकशो ऽपि विप्रतिपन्नपुरुषप्रतिपादकत्वं तत्र तत्रोपलभ्यते, तथापि यदेतद् वेदप्रामाण्यमात्मादिप्रतिपादनं च निःश्रेयसोपयोति, न तत् पञ्चावयवाक्योदतच्छास्त्रोपदिष्टोपकरणाद् विना सिध्यतीत्यनेनाभिप्रायेण द्रष्टव्यम् ।
अवयवानां पृथगभिधानमाक्षेप्तुं विकल्पयति--किं पुनरवयवा इति ।
विकल्पप्रयोजनं पृच्छति--किं चातः? उत्तरम्--यदि प्रमाणान्तरमिति ।
समाधत्ते--नप्रमाणान्तरमिति ।
प्रयोजनान्तरमाह--त एत इति ।
यत एव वादादिप्रवृत्तिहेतवो ऽत एव तत्त्वव्यवस्थायाश्चाश्रया भवन्तीति ।
पृच्छति--क इति ।
न हि कुण्डमिव वदराणि तत्त्वव्यवस्थावयवानाश्रयतीत्यर्थः ।
उत्तरम्--विशेषप्रतिपादकत्वम् ।
धमविशिष्टोधर्मो विशेषः ।
विशिष्यत इति व्युत्पत्त्या, तत्प्रतिपादकत्वमवयवानां तत्त्वव्यवस्थाश्रयत्वमित्यर्थः ॥
क्रमप्राप्ततर्कपदव्याख्यानार्थं भाष्यमनुभाषते--तर्को न प्रमाणसंगृहीतः ।
प्रमाणपदेन हि चत्वारि प्रमाणानि संगृहीतातिन ।
न चैतेष्वन्यतमस्तर्क इत्यर्थः ।
अस्तु तर्हि प्रमाणपदसंगृहीतेभ्यः प्रमाणेभ्यः प्रमाणान्तरमसंगृहीतं प्रमाणपदेन प्रमेयपदेनेवासंगृहीताः संशयादयः प्रमेया इत्यत आह--न प्रमाणान्तरम् ।
भाष्यमनुभाष्य हेतुमाह--अपरिच्छेदकत्वात् अनिश्चायकत्वात् ।
तदेव व्यतिरेकमुखेन दर्शयति--प्रमाणमिति ।
स्यादेतत् ।
अपरिच्छेदकत्वमसिद्धं तर्कज्ञानस्य संशयादिवद् गुणत्वेनात्मलिङ्गत्वात् ।
अन्यथा त्वकिञ्चित्करवादुपादानवैयर्थ्यमित्यत आह--प्रमाणविषयविभागात् त्विति ।
न हि वयं गुणत्वेनोत्पत्तिमत्त्वेन वा रूपेणानिश्चायकत्वं तर्कस्याचक्ष्महे, किं तु प्रमाणविषयविभागहेतुतया ।
न चैवमस्याकिञ्चित्करत्वमित्यर्थः ।
पृच्छति--कः पुनरिति ।
उत्तरम्--युक्तायुक्तेति ।
इदं युक्तमिदमयुक्तमिति ।
इतिकारेण युक्तायुक्तविषयं तर्कज्ञानं परामृशति ।
तदनेन तर्कस्य स्वरूपं दर्शितम् ।
तस्य व्यापारमाह--यत् तत्र युक्तं भवति, संभवति तदनुजानाति न त्ववधारयति तर्कः ।
एतदुक्तं भवति प्रमाणं तत्त्वावधारणाय प्रवृत्तं करणतया इतिकर्तव्यतामपेक्षते ।
तर्कश्च प्रमाणविषययुक्तायुक्तविचारात्मा प्रमाणं युक्ते तत्त्वे प्रवर्तमानमनुजानन् प्रमाणमनुगृह्णरति ।
तदनुगृहीतं प्रमाणं तत्त्वनिर्णयाय पर्याप्तम् ।
न च प्रमाणविषये चेत् तर्कः प्रवर्तते कृतमस्य प्रमाणानुज्ञया, नन्वयमेव निश्चायकः कस्मान्न भवतीति साम्प्रतम्, तस्य प्रसङ्गतया पारतन्त्र्येण स्वयमसाधनत्वात् ।
अस्ति हि प्रसङ्गो न प्रसङ्गो हेतुः ।
तथा हि प्रत्यक्षमेव तावद् भूतले प्रवर्तमानं तद्विशेषणतया घटाभावे ऽपि प्रवर्तमानं यद्यत्राभविष्यद् घटो भूतलमिवाद्रक्ष्यत, तेन सह तुल्यदर्शनयोग्यत्वात् ।
न च दृश्यते ।
तस्मान्नास्तीति तर्केणानुज्ञायमानं घटाभाविशिष्टे भूतले प्रवर्तते केवलमेवेदं भूतलं नेह घट इति ।
एवं स्वर्गकामो यजेत इति शब्दो ऽपि प्रवर्तमानः परमाप्तस्य भगवतर् इश्वरस्य नियोगो नास्वर्गफलायां यागभावनायामवकल्पत इति समानपदेनोपत्तो ऽपि दुःखतया धात्वर्थः साध्य इति न युक्तम् ।
भिन्नपदोपत्तो ऽपि पुरुषविशेषणमपि स्वर्ग एव भावनाफलं युक्त इति तर्केणानुज्ञायमानः प्रवर्तते ।
न च यद्यभविष्यद् घट इति वा यद्यभविष्यद् धात्वर्थः साघ्य इति वा क्रियातिपत्तिरस्ति, यदाश्रयानिष्टप्रसङ्गेनायुक्तत्वमितरथा तु युक्तत्वम्, तत् तर्केण निश्वीयते ।
तस्मान्न प्रमाणम् ।
निश्वयाय तु प्रवृत्तं प्रमाणं तद्विषयविवेचनेनानुगृह्णन् इतिकर्तव्यात्वेनोपयुज्यते ।
यर्थोक्तम्--
मीमांसासंज्ञकस्तर्कः सर्ववेदसमुद्भावः ।
सो ऽतो वेदो रूमाप्राप्तकाष्ठादिलवणात्मवत् ॥
पूजितविचारवचनो हि मीमांसाशब्दः ।
अयुक्तप्रतिषेधेन युक्ताभ्यनुज्ञानं तर्कः ।
प्रमाणेतिकर्तव्यतात्वेन च प्रमाणाद् वेदाद्भेद उक्तः ।
सो ऽतो वेद इति अङ्गाडिगनोः अभेदविवक्षया ।
इतिकर्तव्यतात्वं चास्य साक्षद् दर्शितम् ।
धर्मे प्रमीयमाणे हि वेदेन करणात्मना ।
इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥
इति सर्वमवदातम् ।
तस्योदाहरणं भाष्ये कर्मेति ।
कर्मकारणकमपूर्वं धर्माधर्माविति यावत्, कार्ये कारणत्वोपचारात् ।
एतदुपपादनाय पृच्छति--कथं पुनतिति ।
निकायविशिष्टाभिरपूर्वाभिः शरीरेन्द्रियबुद्धिवेदनाभिरभिसंबन्धो जन्म, तस्य कथं कर्मनिमित्ततेत्यर्थः ।
अत्र प्रमाणमनुमानमाह--भदवत्त्वात्, विचित्रत्वादित्यर्थः ।
पृच्छति--कः पुनरिति ।
भेदमाह--सुगतिरिति ।
प्रमाणमुक्त्वा तस्येतिकर्तव्यताभूतं तर्कमवतारयति--सो ऽयं भेद इति ।
यद्येकं निमित्तं स्याद् वैचित्र्यं न भवेत् ।
न ह्यभिन्नात् कार्यवैचित्र्यमुपपद्यते, तस्याकस्मिकत्वप्रसङ्गात् ।
अत उक्तम्--अनेकमिति ।
नन्वनेकं यागादिब्रह्महत्यादिक्रियारूपं कारणमस्तं कृतमपूर्वैरित्यत उक्तम्--अवस्थितम् ।
यागादिका तु क्रिया आशुतरविनाशिनी न चिरभाविने स्वर्गाय कल्पत इत्यर्थः ।
अवस्थितं चेद् यागाद्याहितमपूर्वं धर्मो ऽस्तीति सदैव सुखिना भवितव्यम् ।
एवमधर्मो ऽस्तीति सदैव दुःखी स्यादिति सुखदुःखयोः कादाचित्कत्वं व्याहन्येत ।
न ह्यवस्थितात् कारणादनवस्थितं कार्यमित्यत उक्तम्--अनित्यम् ।
न ह्यवस्थानं नित्यतां ब्रूमः, किं तु तावदनेन स्थातव्यं न यावदन्त्यसुखदुःखसंविज्ञानं जनयति,
अथ नश्यतीति ।
ननु भिन्नानि सन्त्वपूर्वाणि, तथापि सर्वाणि सर्वात्मसमवेताति, यथावयवी स्वावयवेषु ।
तथा च सर्वसाधारण्यान्नोक्तवैचित्र्योत्पाद इत्यत उक्तम्--एकद्रव्यम् ।
एकद्रव्यं चेदस्तु तर्हि सर्वसाधारणे पृथिव्यादौ यत्र क्वचित् ।
तथापि वैवित्र्यानुपपत्तिरित्यत उक्तम्--प्रत्यात्मनियतम् ।
अथ पृथिव्याद्येव कारण जन्मवैचित्र्ये कस्मान्न भवतीत्याशयवान् पृच्छति--किं कारणमिति कस्मात् कारणादित्यर्थः ।
उत्तरम्--पृथिव्यापदीनामिति ।
मा भूत् पृथिव्यादि, पृथिव्यादिगतं किञ्चिद् भविष्यतीत्यत आह-- पृथिव्यादिगतस्येति ।
भाष्योक्तप्रमेयत्वे तर्कस्य हेतुमाह--उपलब्धिविषयत्वादिति ॥
तर्कानन्तरं निर्णय उद्दिष्टस्तर्कहेतुकत्वात् ।
तस्य स्वरूपमाह--निर्णयस्तत्त्वज्ञानमिति ।
यद्येवमिन्द्रियापातजन्मप्रत्यक्षज्ञानमपि तत्त्वज्ञानमिति निर्णयः स्यादित्यत आह--प्रमाणनामिति ।
अनेन पञ्चावयववाक्यमुपलक्षयति ।
तत्र सतर्काणां प्रमाणानां समावायात् ।
परमार्थतस्तु तर्कपूर्वकस्तत्त्वविनिश्चयो निर्णय इति प्रत्यक्षादीनामपि तर्कसहायानां निर्णयफलत्वमिति ।
स्यादेतत् ।
धूमादिगोचरेण निर्णयेन वह्न्यादावनुमीयमाने प्रमाणभेव निर्णयो न फलमित्याशयवान् पृच्छति--कदा पुनतिति ।
विदिताभिप्रायस्योत्तरम्--यदेति ।
संकलय्य तर्कनिर्णयव्युत्पादनस्य प्रयोजनमाह--तावेताविति ।
परीक्षको ऽत्र लोको लोकशब्देनोच्यते, तदितरस्य तर्कासंभवात् ।
बुद्ध्वेति परीक्ष्य निर्णयं कृत्वेत्यर्थः ।
शेषं निगदव्याख्यातम् ॥
निर्णयानन्तरं वादव्याख्यानार्थं भाष्यम्--वादः खल्विति ।
तदनुभाष्योपपत्तिमाहवाद इति ।
नाना प्रवक्तारो यस्मिन् स तथा ।
एकस्यापि शास्त्रकर्तुः पूर्वपक्षोत्तरपक्षसाधनदूषणप्रतिपादको वचनसमूहो वादः स्यादिति नानाप्रवक्तृक इत्युक्तम् ।
सिद्धान्तभेदानविधानेन हि द्वावपि स्वसिद्धान्तानुरूपं साधनं दूषणं चाहतुरित्यर्थः ।
प्रत्यधिकरणेत्यादि भाष्यमनुभाष्याचष्टे--प्रत्यधिकरणमस्य साधनम् ।
अधिक्रियत इत्यधिकरणं साध्यम्, तदधिकृत्य साधनप्रवृत्तेः ।
प्रत्यधिकारण साधनं यस्मिन् वादे स तथोक्तः ।
अस्यैवार्थं निष्कर्ष्टुं पृच्छति--किमुक्तं भवति? निष्कर्षति--उभाभ्यां वादिप्रतिवादिभ्यां स्वस्वसाध्ये साधनं वक्तव्यम् ।
तथा च नानाप्रवक्तृकत्वेन तुल्यत्वे ऽपि वादस्य वितण्डायाः प्रत्यधिकरणसाधनत्वेन भदेः सिद्धो भवति ।
वितण्डायाः प्रतिपक्षस्थापनाहीनतया प्रत्यधिकारणसाधनत्वाभावात् ।
तथापि जल्पादभेदो वादस्य, अस्ति हि जल्पस्य प्रत्यधिकरणसाधनवत्वं च नानाप्रवक्तृकत्वं चेति ।
अत आह--अन्यतरस्मिन्नधिकरणे निर्णय इति ।
वादे हि तावद् ब्रूते, न यावदन्यतरस्मिन् पक्षे निर्णयो जातः, तत्त्वबुभुत्सोर्वादिनोर्वादे ऽधिकारात् ।
जल्पे तु पुरुषशक्तिपरीक्षालक्षणे ऽप्रतिभादिनापि पराज्योपपत्तेर्नावश्यं तत्त्वनिर्णयः ।
तस्मादन्यतरनिर्णयावसानत्वेन जल्पाद् भेदो वादस्येति सिद्धम् ।
यथा चैतत्, तथोपरिष्टाद् उपपादयिष्यते इत्याह--तच्चेति ।
तस्य स्वरूपं पृच्छति।--सो ऽयमिति ।
उत्तरम्--वाक्येति ।
चोदयति--ननु चेति ।
वाक्यसमूहश्च ज्ञानं चेति विप्रतिषिद्धमेतदित्यर्थः ।
परिहरति--नेति ।
साधनोपालम्भग्रहणस्य शब्दविषयत्वादविदोध इत्यर्थः ॥
युगपदेव जल्पवितण्डे व्याचष्टे--तद्विशेषाविति ।
विशिष्येते भिद्यते इति विशेषौ ।
तस्माद् वादाद् विशेषौ भिन्नौ ।
भाष्यमनुभाष्य पृच्छति--कः पुनर्विशेषः? यद्योगाद् विशिष्टे वादात् जल्पवितण्डे इत्यर्थः ।
उत्तरम्--अङ्गाधिक्यमङ्गहानिश्च यथासंख्यम् ।
तदेव दर्शयति--छलेति ।
तत् किमिदानी संशयादिभिरिवात्यन्तवैरूप्यं वादेन जल्पवितण्डयोः? नेत्याह--एतावता विशेषेण कथामार्गभेद इति एतावानेव विशेषो न सर्वथा, कथात्वेन संशयादिव्यावृत्तेनसामान्यविशेषेण त्रयाणामप्यभेदादित्यर्थः ।
अपरमपि भेदहेतुमाह--विषयभेदाच्चेति ।
तद् विभजते--शिष्यादीति ।
शिष्यमाणो ऽत्यन्तविपर्यस्तः दुर्ज्ञानावलेपदुर्विदग्ध इति यावत् ।
न त्वेवंभूतः शिष्यादिर्विपर्यस्तो ऽप्यनवलिप्तत्वादिति भावः ॥
क्रमप्राप्तानां हेत्वाभासानां स्वरूपमाह--अन्यतमेति ।
पञ्चसु चतुर्षु वा लिङ्गरूपेष्वन्यतमं लिङ्गं धर्ममेकं द्वयं त्रयं वानुविदधाना अहेतवो हेतुवदाभासान्त इति हेत्वाभासा उक्ताः ।
निग्रहस्थानेभ्य इति भाष्यमवतारयितुमाह--ते च निग्रहस्थानमिति ।
अवतारयति--निग्रहस्थानेति ।
अवतार्य दूषयितुमेकदेशिमतेन व्याचष्टे--यस्मात् किलैत इति ।
किलशब्दो ऽयमरुचौ ।
तदेतदेकदेशिव्याख्यानं दूषयति--न, उभयथाप्यसंबन्धात् ।
किं ये ये निग्रहस्थानेभ्यः पृथगुपदिश्यन्ते, ते सर्वे वादे चोद्यन्ते? अथ ये ये वादे चोद्यन्ते ते सर्वे पृथुगुपदिश्यन्ते इति? उभयथाप्यनैकान्तिकत्वात् नाविनाभावलक्षणः संबन्ध इत्यर्थः ।
तदेतद् विभजते--न वादे चोदनीयत्वमिति ।
कस्माद् उभयथाप्यविनाभावाभाव इत्यत आह--यदि तावदिति ।
तस्मात् नायमविनाभूतो हेतुर्वादे चोदनीयत्वं वा पृथगुपदेशो वा भाष्यकारेणोक्त इत्युपसंहरति--तस्मादिति ।
वादे चोदनीयत्वादित्युपलक्षणम्, पृथगुपदेशादिति च द्रष्टव्यम् ।
तदेवमेकदेशिमतं दूषयित्वा स्वमतेन भाष्यं व्याचष्टे--एतदेव तु न्याय्यामिति ।
निग्रहस्थानेभ्यो हेत्वाभासानां पृथगुपदेशे प्रयोजनं यद् भाष्याक्षरेभ्यः साक्षात् प्रतीयते ।
सामान्योपदेशेन विशेष उपदिष्टे विशेषोपदेशः प्रयोजनाधिक्यं सूचयति ।
यथा ब्राह्मणान् भोजय कठ चेति कठभोजने विशेषो गम्यते, तद्वदिहापि निग्रहस्थानोपदेशेनैव हेत्वाभासेषु लब्धेषु तेषां विशेषेणाभिधानं प्रयोजनाधिक्यं सूचयति ।
एतावानेव सूत्रकृतो व्यापारो यत् सूत्रणं नाम ।
तत्र निग्रहस्थानविशेषाणां हेत्वाभासानां स्वरूपं वादस्य च तत्त्वनिर्णयावसानत्वमालोच्य वादे चोदनीया भविष्यन्ति निग्रहस्थानत्वेन हेत्वाभासा नाप्रतिभादय इति प्रयोजनं वर्णयाञ्चकार भाष्यकारः ।
स्यादेतत् ।
भवन्तु वादे चोदनीया हेत्वाभासाः, मा च भुवन्नप्रतिभादयः ।
किमेवमपीत्याह--विद्याप्रस्थानप्रमेदज्ञापनार्थत्वात् ।
वादजल्पवितण्डा विद्याः परम्परया निःश्रेयसोपयोगात् ।
तासां प्रस्थानं व्यापारः, तस्य भेदः, तज्ज्ञापनार्थत्वात् ।
अत एव जल्पवितण्डयोस्तु इत्याह ।
चोदयति--अथ कस्मादिति ।
यदि वादे हेत्वाभासाः प्रयुज्येरन् ततो निग्रहस्थानत्वेन चोद्येरन्, न तु तेषामस्ति प्रयोगो ऽप्रमाणत्वात् प्रमाणतर्कसाधनोपालम्भत्वाच्च वादस्य ।
तस्मात् निग्रहस्थानमात्रत्वं हेत्वाभासानाम् ।
तथा च न पृथगुपदेशः, निग्रहस्थानोपदेशेनैव लब्धत्वादित्यर्थः ।
परिहरति--प्रमाणसामान्यादिति ।
न खलुहेत्वाभासन् तब्दुद्ध्या प्रयु।जाते वादिप्रतिवादिनौ, अपि तु हेतुबुद्ध्या ।
तथा चास्ति तेषां वादे प्रयोग इति वादे निग्रहस्थानत्वेन हेवाभासाश्चाद्यन्ताम्,
नाप्रतिभादीनीत्यर्थवान् पृथगुपदेशः ।
तदेतद् विकल्प्याक्षिपति--वादे कानिचिदिति ।
समाधत्ते--न, लक्षणपरतन्त्रत्वादर्थतथाभावस्येति ब्रूमः ।
लक्ष्यत इति लक्षणम्, समानासमानजातीयव्यावृत्तं रूपं वादस्य च निग्रहस्थानानां च ।
तदधीनो हि तेषां तथाभावो व्यवस्था ।
कानिचिदेव निग्रहस्थानानि वादे न तु सर्वाणीति सामान्यतो ऽभिधाय तदेव लक्षणपरतन्त्रत्वमभिमते विशेषे योजयति--वादस्येति ।
उक्तमाक्षिपति--प्रमाणप्रतिरूपकत्वादिति ।
निश्चितौ हि वादं कुरूतः ।
निश्चयश्च प्रमाणफलमिति कुतो ऽप्रमाणस्यावकाश इत्यर्थः ।
उत्तरम्--भ्रान्तेरिति ।
न निश्चयः सर्वः प्रमाणमूलो ऽप्रमाणमूलस्यापि तस्य दर्शनात्, अन्यथा विपर्यासादप्रवृत्तिप्रसङ्गात् ।
वादिनोश्चाभ्रान्तत्वे वस्तुनो विरुद्धधर्मद्वयसमालिङ्गितत्वमेकदा स्यादिति भावः ।
पृच्छति--कः पुनः शिष्येति ।
उपास्योपासकयोः परस्परं न ध्वंसनं संभवतीति भावः ।
उत्तरम्--विवक्षितार्थाप्रतिपादकत्वम् एव न खलीकार इति ।
हेत्वाभासानां च पृथक्करणं न वादे तन्मात्रावधारणार्थम्, अपि तु यस्मिन्ननुद्धाविते ऽपि निग्रहस्थाने तत्त्वप्रतिपत्तिव्याघातो भवति, तस्य सर्वस्य संग्रहार्थम् ।
एवं च न्यूनाधिकापसिद्धान्ता अपि संगृजीता भवन्ति ।
तत्र पृच्छति--न्यूनाधिकेति ।
उत्तरम्--प्रमाणेति ।
जल्पवितण्डयोस्त्विति भाष्यमनुभाष्योपपादयति--जल्पवितण्डयोस्त्विति ।
साहङ्कारो विजिगीषुरप्रतिभादिभिरपि निग्रहस्थानैस्तिरस्कृतो गलिताहङ्कारस्तत्त्वबुभुत्सुतां नीतः पश्चाद् वादेन व्युत्पाद्यत इत्यर्थः ॥
छलजातिनिग्रहस्थानानां पृथगुपदेशप्रयोजनपरं भाष्यमनुभाषते--छलेति ।
उपलक्षणार्थमिति भाष्यावयवं व्याचष्टे ।
परिज्ञानार्थमेव केवलम्, पिरज्ञानस्य फलमुक्तम्--स्ववाक्ये परिवर्जनम् अप्रयोगः, परवाक्ये चोद्भावनमिति ।
चोदयति--छलजातिनिग्रहस्थानानीति ।
अत्र हि जातेः स्ववाक्ये परिवर्जनमुक्त्वा पुनः स्वयं प्रयोगो न युक्तः ।
कस्मात्? व्याघातात् ।
एतद् विभजते--स्वाक्य इति ।
परिहरति--न व्याघातः ।
कुतः? प्रश्नापाकरणार्थत्वात् ।
तद् विभजते--स्वयं च सुकरः प्रयोग इति अनेन भाष्येण किमुक्तं भवति? परेण प्रतिवादिना जातौ प्रयुक्तायां वादी प्राश्निकान् सभ्यान् ब्रवीति जातिरनेन प्रतिवादिना प्रयुक्तेति ।
ते प्राश्निका एनं पर्यनुयु।जीरन् हे वादिन् कथं केन प्रकारेण जातिः चतुविंशत्यां जातिषु कतमा जातिरिति? सो ऽयं प्राश्निकानां प्रश्नः ।
तदपाकरणार्थं स्वयं सुकरः प्रयोग इत्यर्थः ।
प्रकृतमुपसंहरति--तस्मादेत इति ॥
सूत्रकारेण शास्त्रस्यात्यन्तिकदुःखोपरमरूपनिःश्रेयसाधिगमः प्रयोजनमुक्तम् ।
भाष्यकारस्तु नास्त्येव तत् प्रेक्षावतां प्रयोजनम्, चत्रान्वीक्षिकी न निमित्तं भवतीत्याह--सेयमान्वीक्षिकीति ।
तदेतद् भाष्यं व्याचष्टे--सेयमान्वीक्षिकी न्यायविद्यति ।
यद्यपीतरा विद्याः प्रमाणिकमेवार्थमभिनिविशन्ते तथाप्येतद्विद्याप्रतिपाद्यमेव प्रमाणाद्युपजीव्य स्वे स्वे व्युत्पाद्ये तत्त्वे प्रवर्तन्त्र, न तु प्रमाणाद्यपि व्युत्पादयन्ति ।
यथा प्रत्यक्षाद्युपजीव्य प्रवर्तमानमनुमानं न प्रत्यक्षादिविषयमपि तदानीमेव गोचरयति ।
तदनेन विद्योपकरणग्रहणेन व्यापार आन्वीक्षिक्या दर्शितः ।
संप्रति विद्यानां यानि कर्माणि प्रतिपाद्यानि सामाग्रिहोत्रकृष्यादीनि तत्राप्यान्वीक्षिक्युपाय इत्याह--उपायः सर्वकर्मणां विद्याव्युत्पाद्यानाम्, न तु हालिकमृगय्वादिकर्मणामपि ।
न हि विद्यापदेभ्यो यावन्मात्रागतिः, तावन्मात्रेण प्रेक्षवतां परितोषः ।
मा भूत्
आदित्यो वै यूपः
इत्यादिभ्य आदित्यादीना यूपादिता ।
तस्मात् संशयपरीक्षाप्रमाणविनिवेश द्वारेण तदर्थतत्त्वमवधार्या तत्र त्रयी विनिवेशनीया ।
एवं दण्डनीतिवार्तयोरनुगन्तव्यम् ।
तस्मादान्वीक्षिकीपरिशोधितप्रमाणप्रमाशितं सामादि इतरा विद्याः कुर्वन्ति विषयमिति शेषः ।
अपि च द्रव्यगुणकर्मणामभिमतानभिमतोपायताप्रज्ञापनेन यथायथ सर्वा विद्याः प्रेक्षावतः प्रवर्तयन्ति निर्वयन्ति वा ।
तत्र किमविशेषेण साध्यसाधनेतिकर्तव्यतासु प्रवर्तयन्तु, आहोस्वित् साधनेतिकर्तव्यतामात्रे? तत्र यदि साध्यांशो ऽपि प्रवर्तनागोचरः, तदा श्येनादिसाध्याया हिंसाया विहितत्वेन नानर्थवत्वम् ।
अथ साध्यांशं रागतः प्राप्तमनूद्य साधनेतिकर्तव्यते एव विधरयेते, ततः श्येनादिसाध्याया हिंसाया अविहितत्वेन न हिंस्यात् सर्वा भूतानि इति प्रतिषधादनर्थत्वम् ।
तदिह साध्यांशे ऽप्रवर्तनमान्वीक्षिकीगम्यम् ।
एवमनुष्ठानगताः प्रयोजकत्वाप्रयोजकत्वादय आन्वीक्षिकीगम्याः ।
एवं वार्तादिष्वपीति ।
तदेवमान्वीक्षिकीमाश्रयन्ते सर्वविद्या इत्याह--आश्रयः सर्वधर्माणाम् सर्वासां विद्यानां पुरुषप्रवर्तना धर्माः, तेषामाश्रयः ।
वार्तिककारस्तु धर्मद्वारेण विद्यानामेवश्रय इति व्याचष्टे--सर्वविद्योपकारकत्वादाश्रयः, सर्वासां विद्यानामियमुपकरोति ।
विद्यया प्रवर्तनायां कर्तव्यायामियं सहकारितयोपकरोतीत्यर्थः ॥
स्यादेतत् ।
व्युत्पाद्याश्चेत् प्रमाणादयः सर्वविद्योपयोगिनः, तर्ह्रात्यन्तिकी दुखः- निवृत्तिरान्वीक्षिक्याः फलं निःश्रेयसपदादवगम्यते ।
व्युत्पाद्यस्वभावालोचनया हि तद् गम्यते, स च विद्यान्तरसाधारण इति विद्यान्तराधिगम्येन निःश्रेयसेन सङ्करप्रसङ्ग इत्यत आह--तदिदं तत्त्वज्ञानं निःश्रेयसाधिगमश्च यथाविद्यं वेदितव्यम् ।
विद्यान्तराणि तावद् यत् तत्त्वज्ञानं कुर्वन्ति तत्स्वभावालोचनया हि तद्विद्यासाध्ये एव निःश्रेयसभदे उपयुज्यन्ते नान्यत्र ।
इह तु प्रमाणादि यद्यपि साधारणम्, तथाप्यसाधारणात्मादिरूपप्रमयसमभिव्याहृतं सदभिमत एव निःश्रेयसेःवतिष्ठत इति ।
विशुद्धेनार्जनेन होमसाधनस्य द्रव्यस्य प्राप्तिः स्वागतम् ।
आदिग्रहणेन क्रमपर्यन्ताङ्गग्रामसाकल्यं गृह्यते ।
श्वमार्जारादिभिरनुपघातः अनुपहतत्वम् ।
आदिग्रहणाद् विशुद्धाभिसन्धिरिति ।
शेषमतिरोहितम् ।
वादादीनां निग्रहस्थानान्तानामुपदेशः पराभिभवोपायतया मदमानादिहेतुत्वेन निःश्रेयसपरिपन्थीति मन्वानश्चोदयति--मदमानादीति ।
परिहरति--न, सूत्रार्थापरिज्ञानात् ।
नायं सूत्रार्थः, सर्वेषां तत्त्वज्ञानं साक्षान्निःश्रेयसोपयोगीति, किं त्वात्मादितत्त्वज्ञानम् ।
तदितरत् तु पारम्पर्येण ।
तत्र जल्पादीना पराहङ्कारप्रशमनमवान्तरव्यापार इति न निःश्रेयसपरिपन्थिता, किं त्वानुकूल्यमित्यर्थः ।
मदमानादिनिमित्तत्वं च हेतुरसिद्ध इत्याह--यच्चेदमिति ।
उपसंहारति-- तस्मान्न निमित्तं वादादिपरिज्ञानं रागादीनामिति ।
इति ।
सूत्रसमाप्तौ
न्य्स्_1,1.2: दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्गः ॥
तदेवं प्रथमसूत्रेण शास्त्रस्याभिधेयप्रयोजनसंबन्धान् दर्शयता पदार्थाः प्रमाणादय उद्धिष्टाः ।
तेषां च लक्षणमुक्त्वा तत्परीक्षा वर्तयिष्यते, अपरीक्ष्य तत्त्वज्ञाननिर्णयायोगात् ।
न चानिर्णोतप्रयोजनसंबन्धानां प्रमाणादीनां लक्षणपरीक्षयोरवसरः ।
न च प्रयोजनसंबन्धनिर्णयः परीक्षां विनेति तत्परीक्षार्थं द्वितीयं सूत्रम् ।
तत्र प्रयोजनाभिधानस्य द्वैविध्यात् संशयः ।
द्विविधं हि प्रयोजनाभिधानं ग्रन्थकृतां दृष्टं समीचीनमसमीचीनं च, यथा वातिकादिप्रयोजनाभिधानम् आयुर्वेदादिप्रयोजनाभिधानं च ।
तस्मादभिधानसामान्याद् उभयथादर्शनाच्च संशयः ।
तत्रोत्सूत्रेण प्रयोजनाभिसंबन्धप्रतिपादनपरं पूर्वपक्षभाष्यम्--तत् खलु वै निःश्रेयसमित्यादि ।
तद् विभजते--न तत्त्वपरिज्ञानादपवर्गः ।
कुतः? उभयथादोषात् ।
तदत्यन्तविमोक्षलक्षणो ऽपवर्गो निःश्रेयसम् ।
तच्चेत् तत्त्वज्ञानानन्तरम्, सम्प्रदायोच्छेदो वातपुत्रीयता च शास्त्रस्य स्याताम् ।
तस्मान्न तत्त्वज्ञानानन्तरं निःश्रेयसम् ।
तथा सति प्रमाणादितत्त्वज्ञानान्निःश्रेयसमिति ।
मिथ्या ।
न चान्यन्निःश्रेयसम् इत्यभिमानः पूर्वपक्षवादिन इति ॥
अत्रेदं सिद्धान्तसूत्रमुपतिष्ठते--दुःखजन्मेति ।
तस्य तात्पर्यमभिधायावतारयति--न प्रयोजनानभिसंबन्धः ।
कुतः? निःश्रेयसस्य परापरभेदात् ।
चतस्त्रो हि प्रतिपत्तयः प्रमेये आत्मादौ ।
प्रथमा तावदागमात् यामाचक्षते श्रवणमिति ।
द्वितीया तु श्रुतस्य परीक्ष्य न्यायन व्यवस्थापनम्, यामाहुर्मननमिति ।
सा चान्वीक्षिक्यामायतते ।
आन्वीक्षिकी च संशयादितत्त्वज्ञापनं प्रमाणतत्त्वज्ञापनायोपादत्ते ।
प्रमाणतत्त्वज्ञापनं च हेयोपादेयभेदव्यवस्थितप्रमेयतत्त्वपरिज्ञापनाय ।
तत्राप्याद्यन्तवर्जितदशवर्गज्ञापनमाद्यन्तयोः एवात्मापवर्गयोरूपादेययोस्तत्त्वज्ञानस्योपकरोति ।
न चायमान्वीक्षिकीविद्यावघृतप्रमेयतत्त्वो ऽपि परितुष्यति, पूर्ववदेवात्मादिगतविपर्ययवासनानुवृत्तेः ।
नो खलु दिङ्मूढः सहस्रेणाप्यनुमाणैर्विपर्ययसंस्कारमपनयति ।
तत्त्वासाक्षात्कारस्तु विपर्ययसंस्कारा निवर्तयति ।
तज्जनिता च वासना विपर्ययवासनामिति लोकसिद्धम् ।
तस्मादात्मादिसाक्षात्कारवतीं चतुर्थौ प्रतीतिमशेषतद्गोचरवासनाविपर्यासशमनीमर्थयमानेनादरनैरन्तरर्याभ्यां ध्यानचिन्तादिशब्दवाच्या तृतीया प्रतीतिः साक्षात्कारफला दीर्घकालमुपासनीया ।
अथ परिनिष्पन्नध्यानोपायः साक्षात्कारवतीं प्रतिपद्य चतुर्थौ प्रतीतिं निर्मुक्तसकलक्लेशजालः अप्रवर्तमानो धर्माधर्मसाधनेषु निरूद्धानागतधर्माधर्मप्रबन्धोत्पादो भूतेन्द्रियविजयी प्रज्ञाज्योतिर्जोवन्नेव मुक्त इत्युच्यते ।
न चैवमवस्थो वीतरागो ऽपि सहसैव देहादिभिः वियुज्यते, प्रागुपात्तस्य धर्माधमप्रचयस्याभुक्तस्य भुज्यमानस्य चाप्रक्षीणत्वात् ।
न च प्रायश्वित्तेनेवात्मज्ञानेनादत्तफलान्येव कर्माणि क्षीयन्त इति युक्तम्,
नाभुक्तं क्षीयते कर्म ।
# # इति स्मृतेः ।
अत्यन्तसुखदुःखसंविज्ञानविरोधस्य कर्मणामवधारणात् ।
औत्सर्गिकस्य क्वचित् प्रयश्वित्तादौ विशेषवचनेनापवादात् ।
क्षीयन्ते चास्य कर्माणि ।
# मुण्डक 2।2।8 # इति श्रुतेः ।
योगर्द्धिवशाद् युगपदुत्पादितानेकविधदेहोपभोगेनाप्युपपत्तेः ॥
तावदेवास्य चिरं यावन्न विमाक्ष्ये ऽथ सुपत्स्ये ।
# छान्दोग्य 3।14।2 # इति चाभुक्तोपभज्यमानफलकर्मप्रक्षयावघित्वदर्शनम् ।
योगार्द्धिवशाच्चानियतविपाककालान्यपि दीर्घकालफलान्यपि कर्माणि पिण्डीकृत्य भूतेन्द्रियदविजयितया युगपदेव भुङ्क्ते ।
अचिन्त्यो हि समाधिप्रभाव इत्युक्तम् ।
न चाचिन्त्यत्वाद् विनैवोपभोगेन कर्माशयान् प्रक्षयिष्यतीति युक्तम्, दृष्टानुसारेण कथञ्चिदुपपत्तौ अत्यन्तादृष्टकल्पनाया अयोगात् ।
तस्मादुत्पन्नतत्त्वसाक्षात्कारस्य दोषाभावात् प्रवृत्त्युपरमे यो ऽनागतापूर्वानुत्पादस्तदपरं निःश्रेयसम् ।
तच्च तत्त्वसाक्षात्कारानन्तरं भवति ।
तादृशश्च मुनिस्तत्त्वज्ञानवान् शास्त्रस्य प्रणेतेति न वातपुत्रीयं शास्त्रमिति ।
परं तु रिःश्रेयसं योगर्द्धिप्रभवसम्पदा युगपदुपभोगेनोपात्तकर्माशयस्य क्षयात् सर्वदुःखोपरम इत्युपपन्नं निःश्रेयसद्वैविध्यमिति भावः ॥
तदेतद् दर्शयति--यत्तावदिति ।
तत्त्वसाक्षात्कारः तत्त्वज्ञानम् ।
संहर्षः सुखम् ।
आयासो दुःखम् ।
तत्रानागताभ्यां तावत् प्रवृत्त्यभावादनुत्पादादेवमुच्यते ।
विद्यमानकारणे अपि सुखदुःखे ऽशक्तो ऽद्विषश्च भु।जनो न सुखदुःखतया मनुते ।
न ह्यस्ति संभवो न तत्र तृप्यति तच्च तस्य सुखम्, न च तद् द्वेष्टि तच्च तस्य दुःखमिति ।
स्यादेतत् भवत्वेतदपरं निःश्रेयसम् ।
प्रकृते तु किमायातमित्यत आह--अयं शास्त्रार्थः ।
अर्थशब्दो निमित्ते ।
अपरं निःश्रेयसं शास्त्रस्य निमित्तम् ।
अथ अपरनिःश्रेयसोत्पादसमय एव परनिःश्रेयसोत्पादो ऽपि कस्मान्न भवतीत्याह--परं तु निःश्रेयसं तत्त्वज्ञानात् क्रमेण भवति ।
नो खलूत्पन्नतत्त्वसाक्षात्कारः समुच्छिन्नवासनाविपर्यासज्ञानस्तत्कार्यदोषतत्कार्यप्रवृत्तीनं निवृत्त्यै प्रयतते, कारणनिवृत्त्यैवायत्नलभ्यत्वात् कार्यनिवृत्तेः ।
न हि कफोद्भावज्वरप्रशमनाय कफनिवृत्तौ सत्यां यत्नान्तरमातिष्ठते, तत एव तत्सिद्धेः ।
परं तु निःश्रेयसं न तावद् भवति, यावदुपभोगादुपात्तकर्माशयप्रचयो न क्षीयते ।
तस्मात् तत्त्वसाक्षात्काराधानप्रयत्नात्परस्तदुपभोगप्रयत्न आस्थेयः ।
तथा च न तुल्यकाल उत्पादः परापरयोर्निःश्रेयसयोः ।
तदिदमुक्तम्--क्रमेणेति ॥
तदेवमर्थगति परिशोध्य सूत्रमवतारयति--क्रिमेति ।
यद्यप्यपरस्मिन्नपि निःश्रेयसे मिथ्याज्ञानदोषप्रवृत्तीनामपि समुच्छेदक्रमो ऽस्ति, तथापि जन्मदुःखोच्छेदक्रमो नास्ति, पूर्वोपात्तस्य कर्माशयप्रचयस्य तादवस्थ्यात् ।
तस्मात् जन्मदुःखोच्छेदक्रमसमभिव्याहृतो मिथ्याज्ञानाद्युच्छेदक्रमः परस्यैव निःश्रेयसस्य शास्त्रप्रयोजनस्य ।
तत्प्रतिपादनमर्थः प्रयोजनं यस्य तत् तथोक्तम् ।
इदं चावान्तरप्रयोजनम् ।
प्रधानप्रयोजनमग्रे वक्ष्यति ॥
अत्र केचित् योगविभागमिच्छन्ति ।
कारणोच्छेदात् कार्योच्छेदो ऽभिमतः ।
न चासौ दुःखादीनां मिथ्याज्ञानान्तानामप्रदर्शिते कार्यकारणभावे सिध्यति ।
तस्माद् दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामित्यको योगः ।
अत्र किल समासादेतेषामितरेतरयोगः अवगम्यते ।
स च योग्यतया कार्यकारणभावः ।
कार्येण कारणं युक्तम्, कारणेन च कार्यमिति ।
अतः सिद्धे कार्यकारणभावे उत्तरोत्तरापाये तदनन्तराभावादपवर्ग इत्यनेन योगेन कारणोच्छेदक्रमेण कार्योच्छेदक्रमप्रतिपादनेनापवर्गः प्रतिपाद्यते ।
अत्र चोत्तरत्वं पाठापेक्षया कारणस्य ।
तदनन्तरत्वं च कार्यस्याव्यवहितादिपाठापेक्षया ।
मिथ्याज्ञाने कारणे तत्कार्याः दोषाः ।
एवे शेषेष्वपि योज्यम् ।
तमिमं सूत्रविभागममृष्यमाणो वार्त्तिककृद् आह--इदं सूत्रम् ।
एकवचनेन भेदं व्यावर्तयति ।
न हि समुच्छेदक्रमप्रतिपादनेनापवर्गपरतयैकवाक्यत्वे संभवति वाक्यभेदो न्याय्यः ।
एवनिवृत्त्या अन्यनिवृत्त्यैव कार्यकारणभाव आक्षिप्त इति नासौ सूत्रे दर्शनीयः ।
न ह्यर्थाक्षिप्तं सूत्रकारा दर्शयन्ति ।
तदिदं सूत्रग्रहणप्रयोजनम् ।
तथा हि---
स्वल्पाक्षरमसन्दिग्धं सारवद् विश्वतोमुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥
# विष्णुधर्मोत्तरे 3.5.1 # इति ।
अस्तोभमनधिकम्, अर्थलभ्यप्रदर्शने त्वधिकं भवेदिति ।
तत् सूचनात् सूत्रं स्यात् ।
तथा ह्यहुः,
लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च ।
सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः ॥
# # इति ।
इतरेतरयोगेनापि कार्यकारणभावः सूचनीय एव ।
स वरमेकनिवृत्त्यान्यनिवृत्त्यैव सूच्यतामेकवाक्यतानुरोधायेति ।
परमतात्पर्यमस्याह--एतत्संबन्धेनैव ।
शास्त्रस्य निःश्रेयसाधिगमलक्षणेन प्रयोजनेन यः संबन्धः पूर्वमाक्षिप्तः, तत्समाधानेनार्थेन अर्थवदेतत् सूत्रम् ।
संबन्धपदेन विषयवाचिना विषचिसमाधानं लक्षयति ।
तदेवं सूत्रतात्पर्यं व्याख्यायावयवव्याख्यानमवतारयति--पदार्थस्विति ।
यद्यपि सामभेदादौ हलशकटदौ च मिथ्याज्ञानमनेकप्रकारं संभवति, तथापि न तत् संसारहेतुरपि त्वात्मादिद्वादशविधप्रमेयविशेषविषयमिति सूत्रस्थं मिथ्याज्ञानं विशेष्टुमाह--तत्रेति ।
तदेतेन आत्माद्यपवर्गपर्यन्त इत्यादि भाष्यमवतारितम् ।
तदेतदाक्षिपति--को वृत्त्यर्थ
इति ।
न खलु यथा कुण्डे वदरं पटे वा शौक्ल्यम्, एवं प्रमेये मिथ्याज्ञानं प्रवर्तते, तस्य ज्ञातृसमवेतत्वादित्यर्थः ।
उत्तरम्--विषयार्थः ।
यावदुक्तं भवति प्रमयविषयं मिथ्याज्ञानमिति, तावदुक्तं भवति प्रमेये वर्तत इति ।
विषयत्वं चाग्रे निवेदयिष्यते ।
अनेकप्रकारम् इत्युक्तम् ।
तदाह--तत्रायं भेदः तत्रात्मनि तावत् प्रधाने प्रमेये नास्तीति ।
कथं पुनरेतन्मिथ्याज्ञानमित्यत आह--आत्मा तावदिति ।
अत्र शङ्गते--तस्यानुपपत्तिः ।
कुतः? सदसतोः सारूप्याभावादिति चेत्? सर्वत्र हि रजतोदकादिविभ्रमेषु शुक्तिरजतयोर्वा मरूमरीचिसलिलयोर्वा सारूप्यमेव निमित्तं प्रतीमः न हि जातु रूपं रसादिषु हस्तिनं वा मशकादिषु आरोपयन्ति ।
असदृशे ऽपि श्वेते पीतभ्रमः, मधुरे च तिक्तभ्रमः, पीतः शङ्खस्तिक्तो गुड इति च दृश्यत इति चेत्--न, तत्रापि सारूप्यसंभवात् ।
तथा हि बहिनिर्गच्छदत्यच्छनयनरश्मिसंपृक्तपित्तगतं पीतिमानमाश्रयरहितम्, शङ्खं च दोषाच्छादितसितिमानमनुभवन् पीतगणस्य च तदसंबन्धमननुभवंस्तदसंबन्धाग्रहेण पीतचीरविल्वादिसामानाधिकरण्येन सारूप्यात् शङ्ख पीत इति विपर्यस्यति ।
एवं त्वगिन्द्रियोपनीतं गुडद्रव्यमननुभूयमानमाधुर्यमनुभवन् रसनाग्रवर्तिनश्च पित्तस्यास्वभावजाततिक्तस्य तिक्तत्वमनुभवन् तदाश्रयं च पित्तमननुभवन्नसंबन्धाग्रहसारूप्यात् तिक्तनिम्बसामानाधिकरण्येन तिक्तो गुड इति वपिर्यस्यति ।
अतिशीघ्रतया चैष क्रमो न लक्ष्यते ।
न च ब्रूमो यत्र सारूप्यं तत्र भ्रम इति, येनातिप्रसक्तिश्चोद्येत, अपि तु यत्र भ्रमस्तत्रावश्यं कथञ्चित् सारूप्यमिति ।
एवं द्विचन्द्रदिङ्मोहालातचक्रादिष्वपि किञ्चित् कथञ्चित् सारूप्यमूहनीयम् ।
न च स दसतोरत्यन्तविलक्षणयोः सारूप्यमस्ति ।
तत् कथमात्मनि नास्तितारोप इत्याक्षेपः ॥
समाधत्ते--न, प्रमाणगम्यतोपपत्ते ।
आक्षेपं विभजते--न हि सदसती इति ।
समाधानं विभजत--तच्च नैवमिति ।
यदि सदसतोः समानत्वं नास्ति, तर्हि भेदः ।
तथा च कस्य कुत्रारोप इत्यत आह--क्रियागुणेति ।
सो ऽयमसद्धर्मान् क्रियागुणरहितत्वादीन् सत्यात्मनि समारोप्य असत्तया विपर्यस्यति--नास्त्यात्मेति, नत्वात्मानं सर्वतो ऽभ्यर्हिततमं पश्यन् तत्रासौ स्निह्यति, स्नेहाच्च तदुपकाराय घटते ।
एवं तत्परिपन्थिनं द्वेष्टि ।
द्वेषाच्च तदपकाराय द्यटते ।
ततश्च कर्माशयम् आचिनोति ।
ततो जन्म ।
ततश्च दुःखमिति ।
एवमात्मनस्तादृशस्य मा भूत् तत्त्वाज्ञानम् ।
अस्तु नास्तितासमारोप एव तावद् यतो न प्रवर्तते ।
यथाहुः,
सुखी भवेयं दुःखी वा मा भूवमिति तृष्यतः ।
यैवाहमितिधीः सैव सहजं सत्त्वदर्शनम् ॥
# प्र.वा. 1.202.3 # अत्रोच्यते ।
यद्यपि रागादिनिवृत्तिहेतुर्नैरात्म्यदर्शनम्, तथापि नास्ति कर्म, नास्ति कर्मफलमिति दृष्टेः परमं निदानम् ।
एवं प्रेत्यभावाभावज्ञानस्य च ।
तथा च दुःखहेतोर्हेयवर्गस्याभावान्न तद्धानायानेन घटितव्यम् ।
न चावङ्घटमानो हेयं हातुमर्हति ।
सो ऽयं वृश्चिकभिया पलायमानः आशीविषमुखेनिपतितः ।
सेचमास्तिकत्वायात्मास्तितोपासनीया ।
अभ्यर्हितता चात्मनो ऽत्यन्तदुःखनिवृत्तावुपपद्यते ।
अयमेव चास्योपकारो यदात्यन्तिकदुःखशमनम्, सूखाधाने त्वस्य तदनुषङ्गिदुःखाधानादपकारप्रसङ्गात् ।
न हि जातु कश्चिच्चेतनः सुखमाप्स्यामीति मधुविषसम्पृक्तमन्नमुपभुङ्क्ते ।
तस्मान्नैरात्म्यदृष्टिः प्रयत्नेनोच्छेत्तव्या प्रेक्षावतेति सिद्धम् ॥
अपरमपि संसारहेतु मिथ्यादर्शनमाह--एवमनात्मनीति ।
पृच्छति--कि पुनरिति ।
उत्तरम्--अहङ्कारेति ।
विशेषमाह--इच्छादीति ।
पुनः पृच्छति--कथं पुनरिति ।
उत्तरम्--शरीरेति ।
उपसंहरति--एवमिति ।
सामान्यधर्मो ऽहङ्कारास्पदत्वम् ।
विशेषधर्म इच्छाद्याधारता ।
तां खल्वयं शरीरादिष्वारोप्य एत एवाहमिति शरीरादिष्वात्मभावमारोपयति ॥
एवं सिद्धं कृत्वा विपर्ययं सर्वमुक्तम् ।
संप्रति सन्दिहानो विपर्ययस्वरूपं पृच्छति--कः पुनरयं विपर्ययः? परीक्षकाणां विप्रतिपत्तेः संशयः ।
केचित् स्वाकारबाह्यत्वविषयं ज्ञानं विपर्यय इत्याचक्षते ।
अन्ये ऽसाद्विषयं ज्ञानम् ।
अन्ये त्वनिर्वचनीयमेव ज्ञानम् ।
अपरे त्वग्रहणमेवव ।
अन्यथाख्याति तु वृद्धाः ।
उत्तरम्--अतस्मिस्तदिति प्रत्ययः ॥
इदमत्राकूतम्--न तावत् स्वाकारं रजतादि बाह्यतया आलम्बन्ते विभ्रमाः ।
तथा हि ज्ञानाकारत्वं रजतादेरनुभवाद् व्यवस्थाप्येत्, अनुमानाद् वा? अनुभवो ऽपि रजतप्रत्ययो वा स्वाद्, बाधकपत्ययो वा? न तावद् रजतप्रत्ययः ।
स हीदमनहङ्काराकारास्पदं रजतमादर्शयति, न चान्तरम् ।
अहमिति हि तदा स्यात्, प्रतिपत्तुः प्रत्ययादव्यतिरेकात् ।
भ्रान्तं हि ज्ञानं स्वाकारमेव बाह्यता आलम्बते ।
तथा चानहङ्कारास्पदमस्य विषयो ज्ञानाकारो ऽपि, ज्ञानाकारता पुनरस्य बाधकज्ञानप्रवेदनीयेति चेत्? हन्त चक्षुषी निमील्य वैतालिकपक्षपातं परित्यज्यालोचयत्वायुष्मान् कि पुरोवर्तिद्रव्याकारतामात्रं प्रतिषेधति रजतस्य, आहोस्वित् ज्ञानाकारतामप्यस्यादर्शयति बाधकप्रत्ययः? तत्र ज्ञानाकारतोपदर्शनव्यापारं बाधकप्रत्ययस्य ब्रूवाणः श्लाघनीयप्रज्ञो देवानांप्रियः ।
पुरोवर्तित्वनिषेधादर्थात् ज्ञानाकारतासिद्धिरिति चेत्? तन्निषेधो वणिग्वीथ्यादावुपलब्धस्य रजतस्य व्यावस्थापने हेतुः ।
आन्तरत्वं त्वस्यानुपलब्धचरं कुतस्त्यम्? न चानुमानमत्र प्रभवतीति चतुर्थेनिवेदयिष्यते ॥
सन्तु तर्हि बाधकप्रत्ययानुरोधाद् असत्प्रकाशनशीला एव मिथ्याप्रत्ययाः ।
तथा हि बाधकं विज्ञानं नेदं रजतमिति रजतज्ञानगोचरस्यासत्त्वं गृह्णाति ।
न चासतो विषयभावो नोपपद्यते ।
न हि विषयत्वं नाम कारणत्वं येनासति न स्यात्, किं तु स्वकारणधीनः सामर्थ्यातिशयः ।
स तादृशो ज्ञानस्य, येन सन्तमिवासन्तमपि गोचरयति।न च विषयसामर्थ्यमत्रोपयुज्यते, ज्ञानस्य सामर्थ्यादेव तद्भावसिद्धेः ।
अत एवासत्प्रकाशनसामर्थ्यमेव मिथ्याज्ञानानामविद्यात्वमनिर्वचनीयं केचिदास्थिषत ।
अत्रेदमालोचनीयम्--किमेतत् मिथ्याज्ञानमसत् सदात्मना गृह्णातीत्यसद्विषयमुपेयते? आहोस्वित् सदेव सदन्तरात्मना गह्णाति सतश्च सदन्तरात्मत्वेन असत्त्वादसद्विषयमुच्यते? न तावत् पूर्वः कल्पः, रजतात्मना चेत् असदालम्बेत न सती शुक्तिकाम्, कथं पुनरसौ रजातर्थो शुक्तौ प्रवर्तते न पुना रजताभावे ।
कस्काच्चेदमिति पुरोवर्ति द्रव्यमङ्गुल्या निर्दिश्य तस्य रजतत्वं निषेधति नेदं रजतमिति, यदि तत्र न प्रसञ्जितं रजतत्वं पूर्वविज्ञानेन? अथ शुक्तिरेव रजतात्मना असतीति तदाकारतया तामालम्बमानं मिथ्याज्ञानमसदालम्बनमुच्यते? तत्रानुज्ञया वर्तामहे ।
न खल्वन्यथाख्यातिवादिनो ऽपि सदन्तरं सदन्तरात्मना सदभ्युपगच्छन्ति ।
तथा सत्यन्यथेत्येव न स्यात् ।
यथाहुरन्यथाख्यातिवादिनः,
तस्माद् यदन्यथा सन्तमन्यथा प्रतिपद्यते ।
तन्निरालम्बनं ज्ञानमभावालम्बन च तत् ॥
# श्लो. वा. निरालम्बनवादे 117-8 # इति ।
न च रजतात्मना पुरोवर्तिनो द्रव्यस्यानिर्वचनीयता, मिथ्याज्ञानसमये सत्त्वेन बाधकसमये चासत्त्वेन निर्वचनीयत्वात् ।
न चैवंभूतस्यासतः प्रथा नोपपद्यते, तस्य सदसद्भ्यामुपाख्येयत्वात् ।
यःपुनः अद्वैतवादिना प्रपज्चो वैनाशिकानां वा सामान्यादिर्नो बहिः कि त्वलीकम् ।
तद्विषयं च ज्ञानं मिथ्याज्ञानमित्यपि न संभवति, तस्य सर्वोपाख्यारहितस्य केनचित् सारूप्याभावात्, तत्कारणकत्वाच्च भ्रान्तेः, कारणाभावे कार्याभावस्य सुलभत्वात् ।
तस्मात् प्रपञ्चश्च सामान्यादि च वस्तुसती नाममीचीनविज्ञानगोचरौ ।
तब्दाधकं चोपरिष्टादपाकरिष्यते ।
तस्मान्नानिवचनीयख्यातिरपि ॥
स्यादेतत ।
अन्यदन्यथा प्रकाशत इति संविद्विरुद्धम्।न तावत् सद्भावमात्रेणालम्बनत्वम् ।
तन्मात्रस्य सर्वप्रत्ययसाधारण्येन सर्वे ऽर्थाः सवर्प्रत्ययविषया इति सवर्सर्वज्ञतापत्तिः ।
न च कारणत्वेनालम्बनत्वम्, रूपादिविज्ञानानां रूपादिवच्चक्षुराद्यपि कारणमिति चक्षुराद्यालम्बनत्वप्रसङ्गात् ।
अतीतानागतविषयत्वं च विज्ञानस्य न स्यात्, अतीतानागतयोरसत्त्वेनाकारणत्वात् ।
तस्मात् प्रतिभासमानमालम्बनम् ।
तथा च रजतप्रतिभासः शुक्तिकालम्बनमिति दुर्घटम् ।
अपि च चक्षुरादीनां समीचीनज्ञानोपजननसामर्थ्यमिति कथमेभ्यो मिथ्याज्ञानं भवितुमर्हति? न हि श्यामाकबीजं परिकर्मसहस्रेणापि कलमाङ्कुराय कल्पते ।
दोषसहाया लोचनादयो मिथ्याप्रत्ययमादधत इति चेत्--न दोषा हि कारणानां सामर्थ्य निघ्नन्ति, न पुनः कार्यान्तरोपजननसामर्थ्यमादधति, न खलु भृष्टं कुटजबीजं न्यग्रोधधानायै कल्पते, किं तु न करोति कुटजधानाम् ।
अपि च स्वगोचरे व्यभिचारे विज्ञानानां सर्वत्रानाश्वासप्रसङ्गः ।
तस्मात् सर्वमेव विज्ञानं समीचीनमास्थेयम् ।
तथा हि रजतमिदमिति द्वे ज्ञाने स्मृत्यनुभवरूपे ।
तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम्, दोषवशात् तद्गतस्य शुक्तिकात्वसामान्यविशेषस्याग्रहणात् ।
तावन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजते स्मृति जनयति ।
सा च गृहीतग्रहणस्वभावापि दोषवशात् गृहीततांशप्रमोषेण ग्रहणमात्रमवतिष्ठते ।
तथा च रजतस्मृतेः पुरोवर्तिमात्रग्रहणस्य व मिथः स्वरूपतश्च विषयतश्च भेदाग्रहणात् सन्निहितरजतविषयविज्ञानसारूप्येणेदं रजतमिति भिन्ने अपि ग्रहणस्मरणे अभेदव्यवहारं सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः ।
क्वचित् पुनर्ग्रहणे एव मिथो ऽगृहीतप्रभेदे, यथा पीतः शङ्ख इति ।
अत्र हि विनिर्यन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य कायस्येवातिस्वच्छस्य पीतत्त्वं च गृह्यते ।
पित्तं तु गृह्यते ।
शङ्खो ऽपि दोषवशात् गुणरहितः स्वरूपमात्रेण गृह्यते ।
तदनयोर्गुणगुणिनोरसंसर्गाग्रहात् सारूप्यात् पीतचिरबिल्वफलप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च, भेदाग्रहप्रसञ्जिताभेदव्यवहारबाधानाच्च नेदं रजतमिति विवेकप्रत्ययस्य बाधकत्त्वमप्युपपद्यते ।
तदुपपत्तौ च भ्रान्तत्वमपि लोकप्रसिद्धं सिद्ध्र भवति ।
तस्माद् यथार्थाः सर्वे ऽपि भ्रमाः प्रत्ययत्वात् पटप्रत्ययत्वयवदिति प्राप्तम् ॥
एवं प्राप्ते ऽभिधीयते--अस्ति तावद् रजतार्थिनो रजतमिति ज्ञाने सति पुरोवर्तिद्रव्यप्रवृत्तिः सामानाधिकरण्यव्यपदेशश्चेति सर्वजनीनम् ।
तत् किं ग्रहणस्मरणयोस्तद्गोचरयोश्च भेदाग्रहाद् भवतु, आहोस्विदभेदग्रहात्? न तावच्चेतनो ऽज्ञानात् प्रवर्तते, अपि तु ज्ञानात् ।
पुरोवर्तिवस्तुग्रहणरजतज्ञानादगृहीतभेदं स्वरूपतो विषयतो वा रजतार्थिनं पुरोवर्तिद्रव्ये प्रवर्तयतीति चेत्? हन्त भोः किमेतावता पुरोवर्तिवस्तुगोचरं ज्ञानं रजतगोचरं भवति, आहोस्वित् तन्मात्रगोचरमेव? यदि रजतगोचरं पुरोवर्तिरजततयागृह्णात्, कथं नान्यथाख्यातिः? अथ तन्मात्रगोचरम्, को भेदाग्रहस्योपयोगः? न हि वृक्षमात्रदर्शनं निश्चयेन शिंशपार्थिनं प्रवर्तयति, न हि तत्र शिंशपाज्ञानमस्ति ।
अस्ति त्विह रजतविज्ञानम्, अगृहीतभेदमिदमिति ज्ञानेनेति चेत्? ननु रजतविज्ञानं पुरोवर्तिनि द्रव्ये न वर्तते, पुरोवर्तिज्ञानं च न रजत इति तत्र पुरोवर्तिद्रव्यमात्रार्थो पुरोवर्तिनि प्रवर्तेत न रजतार्थो ।
एवं रजतार्थो यत्र क्वचन प्रवर्तेत न नियमेन पुरोवर्तिन द्रव्ये ।
न हि तत्र तेन रजतत्वमवगतमीति ।
अथेदं रजतमिति द्वे ज्ञाने, भेदाग्रहादिदं रजतमित्येकज्ञानसदृशे, तेन तदुचितं व्यवहारं प्रवर्तयतः? यद्येवं तद्रजतम्, इयं शुक्तिरिति भेदावभासिविज्ञानव्यवहारमपि कस्मान्न प्रवर्तयतः? यथैव हि भेदाग्रहादभिन्नविज्ञानसादृश्यम्, एवमभेदाग्रहाद् भिन्नविज्ञानसादृश्यमपि ।
सो ऽयमुभयतो भेदाभेदग्रहसारूप्यात् प्रवृत्तिनिवृत्तिभ्यां युगपदाकृष्यमाणः प्रतिपत्ता कष्टां दशामावेशितः प्रज्ञाशालिभिरतिव्याख्यया ॥
स्यादेतत् ।
विपर्ययज्ञानोत्पादे ऽपि शुक्तिरजतयोर्भेदाग्रहे ऽस्य व्यापार आस्थेयः, अन्यथा गृहीतभेदानामपि विपर्ययोत्पादप्रसङ्गात् ।
तथा च शक्यं तत्रापि वक्तुम्--यथा भेदग्रहाद् विपर्ययज्ञानोत्पाद एवमभेदाग्रहात् कस्मान्न समीचीनज्ञानोत्पाद इति ।
तत्र यस्तव परिहारः सो ऽस्माकं व्यवहारव्यपदेशयोर्भविष्यतीति ।
यथाहुरख्यातिवादिनः---
येषामपि विपरीतख्यातिस्तेषामप्यज्ञानवासननिबन्धनो भ्रम इति ।
मैवम्, ज्ञानहेतूनाम् अज्ञातरूपकार्यसंबन्धाना चुक्षुरादीनां दर्शनात्, चेतनव्यवहाराणां त्वबुद्धिपूर्वकाणामप्रतीतेः बुद्धिपूर्वकत्वे तु विवेकाग्रह उपयुज्यते, न व्यवहारव्यपदेशयोरिति युक्तमुत्पश्यामः ।
यद्यविवेकग्रहो ऽपि तत्परिपन्थी विद्यत इति कुतो ऽन्यतरनिबन्धनो व्यवहारः? तस्मात् समारोप एव भेदाग्रह इति ।
तत् सिद्धम् एतद्विवादाध्यासितं रजतादिवज्ञानं पुरोवर्तिवस्तुविषयम्, रजतार्थिनस्तत्र नियमेन प्रवर्तकत्वात् ।
यद् यदर्थिन नियमेन यत्र प्रवर्पयति तद्विज्ञानं तद्विषयम्, यथोभयसिद्धं समीचीनरजतविज्ञानम् ।
तथा चैतत्, तस्मात् यथा, यच्चोक्तम्--अनवभासमामा शुक्तिरनालम्बनमिति, तत्र किं शुक्तिकात्वस्य रजतमिति ज्ञानं प्रत्यनालम्बनत्वं साध्यते, आहोस्विद् द्रव्यमात्रस्य सितभास्वरस्य पुरोवर्तिनः? तत्र पूर्वस्मिन् कल्पे सिद्धसाधनम् ।
उत्तरस्मिन्ननवभासनमसिद्धम्, इदमिति पुरोवर्तिनो द्रव्यस्याङ्गुल्या निर्देशात् ।
दृष्टं च दुष्टानामपि कारणानामौत्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोत्पादकत्वम् ।
तद् यथा, वेत्रबीजानां दावाग्निदग्धानां कदलीप्रकाण्डजनकत्वम्, भस्मकदुष्टस्य चौदर्यस्य तेजसो बहुतरान्नपानपाचकत्वम् ।
नेदं रजतमिति च प्रत्यक्षबाधकप्रत्ययादपहृतविषयम्, प्रत्ययत्वेन विभ्रमाणां यथार्थत्वानुमानं नोदेतुमर्हति ।
यथा च प्रमाणाभासव्यभिचारे ऽपि प्रमाणे आश्वासः, तथा प्रमाणतो ऽर्थप्रतिपत्तौ इत्यत्रोपपादितम् ।
दिङ्मात्रमत्र दर्शितम् ।
प्रपञ्चस्तु तत्त्वसमीक्षायाम् अस्माभिः कृत इत्युपरम्यते ॥
तदेवमात्मनि मिथ्याज्ञानं व्याख्याय शरीरादिष्वेकादशसु मिथ्याज्ञानं भाष्य एव दर्शितम् ।
तत्तु स्पष्टत्वात् अस्माभिर्न व्युत्पादितमित्याशयवानाह--शेषमिति ।
तत्र शरीरादिषु मनःपर्यन्तेषु यथायोगं मिथ्याज्ञानं दुःखे सुखम् इत्यादिना अप्रतिहातव्यम् इत्यन्तेन भाष्येणोक्तम् ।
प्रवृत्त्यादिषु शृङ्गग्राहिकयोक्तं प्रवृत्तौ इत्यादिना रोचयेत् इत्यन्तेन भाष्येण ।
एवं मिथ्याज्ञानस्य स्वरूपं दर्शयित्वा मिथ्याज्ञानदोषप्रवृत्तितजन्मदुःखानां कार्यकारणभावो दोषादीनां स्वरूपं चोक्तम् एतस्मात् इत्यादिना ताप इत्यन्तेन भाष्येण ।
संप्रति मिथ्याज्ञानाद्युच्छेदादपवर्ग इति वक्ष्यति ।
तच्चायुक्तम्, सत्यपि तदुच्छेदे संसारतादवस्थ्यात् ।
न ह्यान्योच्छेदे ऽन्यस्योच्छेदः ।
तथा च नापवर्ग इति वक्ष्यमाणमर्थमुपपादयितुमक्तं भाष्यकृता, त हमे मिथ्याज्ञानादय इत्यादि ।
तद् वार्त्तिककारो व्याचष्ट--त हमे दुःखादय इति भाष्यकारोक्तक्रमाद् विपरीतक्रमाभिधानं वार्त्तिककृतः एवं सूत्रकारोक्तक्रमाद् विपरीतक्रमाभिधानं भाष्यकृतः ।
तद् दुःखादीनां मिथ्याज्ञानपूर्वकत्वेन मिथ्याज्ञानस्य दुःखादिपूर्वकत्वेनानादित्वं दर्शयितुम् ।
पृच्छति--कः पुनरिति ।
यद्येत एव संसारस्तर्हि सूत्रकारः प्रमेयसूत्रे कस्माद् दुःखादिभ्यः पृथक् प्रेत्यभावं संसारापरनामानमुपादत्ते? तस्मादेभ्यो ऽन्य एव संसार इति भावः ।
उत्तरम्--दुःखादीनामिति ।
नैषां स्वरूपमपि तु कार्यकारणभाव इत्यर्थः ।
क्रमव्यतिक्रमतात्पर्यमाह--स चानादिरिति ।
अत्र हेतुमाह--पूर्वापरेति ।
दुःखजन्मप्रवृत्तिदोषाः विषयत्वेन तावन्मिथ्याज्ञानस्य कारणम् ।
एवमसति जन्मनि मिथ्याज्ञानस्यानुत्पत्तरविषयो ऽपि जन्म मिथ्याज्ञानस्य कारणम् ।
एवं विना प्रवृत्तिं जन्माभावात् जन्मद्वादेण प्रवृत्तेरपि मिथ्याज्ञानकारणत्वम् ।
प्रवृत्तिद्वारेण च दोषाणाम्, तथा मिथ्याज्ञानाद् देषाः, दोषेभ्यः प्रवृत्तिः, प्रवृत्तेर्जन्म, जन्मनो दुःखम् ।
यद्यपि प्रवृत्तिरेव साक्षादुःखहेतुः, तथाप्यनायतनस्य तस्यानुत्पत्तेरन्तरा जन्म करोति ।
अथ सैव दुःखमिति? अनादित्वाच्च नान्योन्याश्रयं चक्रकं वा बीजाङ्कुरसन्तानयोरिवेति ।
संप्रतिबीजापाय इव तज्जान्याङ्कुरप्रवाहनिवृत्तिः मिथ्याज्ञानापाये तज्जन्यदोषप्रवृत्तिजन्मदुःखमिथ्याज्ञानादिप्रवाहनिवृत्तिः, कारणनिवृत्तौ कार्यनिवृत्तेरिति कथनपरं भाष्यम् अनुभाष्याक्षिपति--यदा तु तत्त्वज्ञानादिति ।
अपायो ऽपि तत्त्वज्ञानान्मिथ्याज्ञानस्य स्वरूपतो वा, विषयतो, वा फलतो वा स्यात्, न तावत् स्वरूपतः, तस्याशुतरविनाशिनः संस्काराद् वा ज्ञानान्तराद् वा अपायस्य तत्त्वज्ञानसाधारण्येन तस्यापि बाध्यत्वप्रसङ्गात् ।
नापि विषयतः, न हि शुक्तिकाज्ञानं रजतज्ञानस्य रजतविषयतामपहर्तुमुत्सहते जातं हि तद् रजतं विषयीकृत्य ।
यथाहुः
गृहीत्वार्थं गताश्चौराः कस्तानाच्छेत्तुमर्हति ।
इति ।
नापि फलमपहरति, उपदर्शितो हि तेनार्थः, प्रवर्तितश्च तत्र पुयषः ।
तदिदमुक्तम्--कथमपाय इति ।
उत्तरम्--समानविषय इति ।
यस्मिन्नेव हि पुरोवर्तिनि द्रव्ये पूर्वेण रजतत्वमासञ्जितं तत्रैवोत्तरं तद्विरुद्धं शुक्तिकात्वं धर्ममुपनयति ।
तथा च पूर्वस्य विज्ञानस्य मिथ्यात्वमादर्शयत्तज्जनितां प्रवृत्तिं विघटयत् फलमस्यापहरतीति भावः ।
न तु समानविषयतामात्रेण विरोधः, मा भूदेकस्मिन्नात्मनि नित्यत्वविभुत्वज्ञानयोर्विरोध इत्यत आह--यस्मादिति ।
तत्वमिथ्यात्वकथनेन मिथो विरुद्धधर्मप्रस।जनं सूचयति ।
नित्यत्वविभुत्वज्ञानयोस्तु समानविषययोरप्यविरुद्धधर्मोपस्थापकतया तत्त्वज्ञानत्वादित्यर्थः ।
कस्माद् विरोध इत्यत आह--वस्तुन इति ।
परस्पराभावधर्मिणोरेकत्र समवाये नेदं स्वाभाविकं नानात्वं क्वचिदपीत्यद्वैतप्रसङ्ग इति भावः ।
उपसंहरति--तस्मादिति ॥
अत्र देशयति--कथं पुनरिति ।
प्रथममुत्पन्नं मिथ्याज्ञानमनुपजातविरोधि, तेनापहृतविषयं पश्र्वात्तनं तत्त्वज्ञानमुदेतुमेव नोत्सहते, प्रागेव तु मिथ्याज्ञानं बाधितुमिति भावः ।
उत्तरम्--मिथ्याज्ञानस्येति ।
तत्र हि प्रथममुपजातेनानुपजातविरोधिना ज्ञानेनोत्तरं बाध्यते, यत्र पूर्वापेक्षमुत्तरमुपजायते ।
तत् खलु पूर्वविरोधे न जायेत ।
अजातं सत् कथं पूर्वं बाधेत, यथा प्रत्यक्षादिविरुद्धमनुमानम्? इह तु द्वे अपि ज्ञानेदोषोपहतानुपहतेन्द्रियार्थसन्निकर्षजन्मनी परस्परानपेक्षे ।
तत्र पूर्वमनुपजातविरोधित्वात् कि बाधताम्, अनागतस्याप्राप्तत्वेन बाधितुमशक्यत्वात्, स्वकारणबलादासाद्यमानजन्मनश्चोत्पत्तिविरोधस्य चाशक्यात्वात्? तदेवमुत्पन्नमुत्तरमुपजातविरोधितया पूर्वबाधात्मकं सन्नानुपकृद्य पूर्वमुत्पत्तुमर्हतीति बाधते ।
तत्तु न पूर्वेण नाप्यन्येन केनचिदिति भावत्यर्थसहायम् ।
अर्थासहायं च मिथ्याज्ञानम् ।
तदनेन बाध्यत्वाबाध्यत्वे मिथ्याज्ञानतत्त्वज्ञानयोरूपलक्ष्येते ।
तदिदमन्यैरप्युक्तम्---
पूर्वात् परबलीयस्त्वं तत्र नाम प्रतीयताम् ।
अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् ॥
इति ।
तथा चानुपजातविरोधित्वमत्र बाध्यत्वे हेतुः, उपजातविरोधित्वं च बाधकत्व इति ।
यदुपलक्षणार्थं ससहायत्वाभिधानं तज्जिज्ञासुः पृच्छति--कस्मात्? उत्तरम्--तयात्वेनेति ।
अनेनाबाध्यत्वं तत्त्वज्ञानस्योक्तमिति ।
न केवलमबाध्यत्वम्, दृढमूलत्वमपि तत्त्वज्ञानस्येत्याह--प्रमाणान्तरानुग्रहाच्च ।
अन्तरशब्दो विशेषवचनः ।
आत्मादितत्त्वज्ञानं हि फलं प्रमाणविशेषैरागमानुमानप्रत्यक्षैरनुगृह्यते ।
तस्माद् दृढमूलत्वात् तदपि तत्त्वज्ञानं मिथ्याज्ञानं निवर्तयतीत्यर्थः ।
एतदेव विभजते--आगमेति ।
एतदेव स्फोरयति--यदा हीति ।
आगममयेन हि ज्ञानेन प्रमेयं गृहीत्वा शास्त्रीयेण च न्यायविज्ञानेनानुमानापरनाम्ना व्यवस्थाप्य भावयतो यदात्ममनःसन्निकर्षाद् योगजधर्मसहायादुत्पद्यते तत्त्वविषयः साक्षात्कारः प्रत्यक्षफलम्, तत्र त्रयाणामपि प्रमाणानां प्रतिसन्धानम् अस्तीति दृढमूलत्वात् तेन मिथ्याज्ञानं बाध्यते ॥
विषयं भावयतीति व्याचष्ट--समाहित इति ।
समाहितत्वेन चेतसो धारणां दर्शयति--अनन्यमना इति प्रत्याहारम्, चेतसः तत्त्वविषयबुद्धिधाराविपच्यमानत्वं ध्यानस्य, तत्त्वज्ञानस्य स्फुटाभत्वारम्भावस्था ।
ध्यानजनितभावना संस्कारो ध्यानभावना, तस्या विवेको मिथ्यज्ञानवासनायाः ।
पूर्वं हि मिथ्याज्ञानवासना तत्त्वज्ञानवासनाया बलवत्यासीत्, अथाभ्यासवशात् तुल्यबलाभवत्, अथेयमेव बलीयसी तत्त्वज्ञानवासनासंभिन्ना मिथ्याज्ञानवासनया सहानुवर्तते ।
संप्रति तु तत्त्वज्ञानवासनया अत्यन्तबलीयस्य समूलकाषं कषितत्वात् मिथ्याज्ञानवासनाया भवति विविक्ता तत्त्वज्ञानवासना तस्यामित्यर्थः ॥
नन्वनेन क्रमेण निवर्ततां मिथ्याज्ञानम्, निवृत्तं तं तत्त्वसाक्षात्कारसमये ऽपि कस्मात् पुनः स्ववासनावशान्न जायते? न खलु मिथ्याज्ञानवासना अनादिकालप्रवृत्ता आदिमता तत्त्वज्ञानेन तत्संस्कारेण वा शक्या निवर्तयितुमित्यत आह--निवृत्ते चेति ।
तावदेव पुंसां बुद्धयो ऽस्थिरा भ्राम्यन्ति स्वोचितं च संस्कारजातमातन्वते, न यावद् भूतमर्थं साक्षात्कुर्वन्ति ।
अथ साक्षात्कृत्य तत्र स्थिरपदा भवन्ति, क्षिण्वन्ति च सवासनान् मिथ्याप्रत्ययान् ।
भूतार्थंपक्षपातो हि बुद्धेः स्वभावः ।
यदाहुर्बाह्या अपि----
निरूपप्लवभूतार्थस्वभावस्य विपर्ययैः ।
न बाधो यत्नवत्त्वे ऽपि बुद्धेस्तत्पक्षपाततः ॥
# प्र. वा. 212.3 # इति ।
तस्मात् मिथ्याज्ञानस्य न पुनरूत्पाद इति ॥
उक्तमेवार्थं स्मृतिदाढ्रयाय पृच्छति--कः पुनरिति ।
उक्तं स्मारयितुमुत्तरम्--सहेति ।
भवतु मिथ्याज्ञानस्य निवृत्तिः सवासनस्य, ततो ऽपि किमित्यत आह--मिथ्याज्ञानेति ।
अत्र पृच्छति--ये तावदिति ।
उत्तरम्--तेषामपीति ।
वैराग्यस्वरूपं पृच्छति--कि पुनरिति ।
रागाभावो हि वैराग्यम् ।
न च तस्मादेव रागादीनामभाव इति भावः ।
उत्तरम्--भोगानभिष्वङ्गलक्षणमित्युक्तम् ।
विषयदोषपरिभावनापरिपाकात् खलु विषयपरित्यागेच्छा भवति ।
तया विरोधिगुणेन विषयतृष्णा च तत्परिपन्थिनि विद्वेषश्च तदधिकरणाश्र्वेर्ष्यादयो निवर्तन्ते ।
असक्तिर्विषयपरित्यागेच्छा, वशितया च स्वयमुपनतेषु विषयेषु माध्यस्थ्यदर्शनम् ।
दोषाभावे किं भवतीत्यत आह--दोषाभाव इति ।
पृच्छति--का पुनरियमिति ।
यदि हि जन्मनः प्रवृत्तिः कारणं स्यात्, ततो जन्मनिवृत्त्यै तन्निवृत्तिरर्थ्येत ।
न पुनरसौ क्षणिका सतो आमुष्मिकाय जन्मने कल्पते ।
अतः किमर्थं निवर्त्यत इति भावः ।
विदिताभिप्राय उत्तरमाह--धर्माधर्मो ।
कस्मात् पुनरूपचार इत्यत आह--जन्मसाधनत्वात् ।
एतद्विभजते--नास्मिन्निति ।
उपचारे प्रयोजनं दर्शयित्वा निमित्तमाह--धर्माधर्मयोस्त्विति ।
वर्तमानानागतयोरविशेषेण दोषापायात् निवृत्तिरूक्तेति भ्रान्त्या देशयति--यौ तावदनागताविति ।
परिहरति--न, अनागतयोरिति ।
अनागताभिप्रायमेतदित्यर्थः ।
यद्येवम्, वर्तमानयोः कुतः प्रक्षय
इत्यत आह--वर्तमानयोरिति ।
अस्तु प्रवृत्तेरभावः,ततः किमित्यत आह--प्रवृत्त्यभाव इति ।
उक्तं विवेकमिहापि योजयति--अत्रापीति ।
वर्तमाननिवृत्तिहेतु पृच्छति--अथेति ।
उत्तरम्--संस्कारेति ।
श्रुतिः,
तावदेवास्य चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्ये ।
# छान्दोग्य 6.14.2 # इति ।
किं जन्माभावे सिध्यतीत्यत आह--जन्माभाव इति ।
अत्रैव वृद्धसंमतिमाह--एतच्च तदाहुरिति ।
तदेतच्चेति योजना ।
प्राणनस्य कालभेदावच्छेद आयुः ॥
स्यादेतत्, महाप्रलये ऽपि मिथ्याज्ञानादिना दुःखान्तेनास्ति वियोग इति अत्रापि मुक्तिप्रसङ्ग इत्यत आह--सो ऽयं मिथ्याज्ञानादिनेति ।
सर्वत इति तृतीयार्थे तसिः सर्वेणेति ।
न च प्रलयावस्थायां सर्वेण वियोगः, कर्माविद्यावासनयोरनविनाशात् ।
मुक्तौ तु तयोरपि विनाशः ।
कर्मवासना च सर्वकार्याणामुत्पादिका अवस्थापिका च ।
तन्निवृत्तौ शरीरादिवत् तत्त्वज्ञानसंस्कारस्यापि प्रलय इत्यशेषविशेषगुणविमुक्तो मुक्त इत्युच्यत इति सद्धिम् ॥
स्तादेतत् ।
तत्त्वज्ञानात् मिथ्याज्ञानापाय इत्युक्तम् ।
किं पुनस्तत्त्वज्ञानमित्यत उक्तं भाष्यकृता--तत्त्वज्ञानु त्विति ।
तदनुभाष्य सर्वेषां ज्ञानानां भाष्योक्तानामनुगतमेकं स्वरूपतस्त्विति ।
चोदयति--कस्मादिति ।
नो ख्ल्वयं प्रेक्षावतां समाचारो यद् दुःखभिया सुखपरित्याग इति, अपि तु सुखं दुःखाद् विविच्य उपाददते दुःखं च वर्जयन्ति ।
न हि मृगाः सन्तीति शालयो नोप्यन्ते, भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्त इति ।
उत्तरम्--विवेकहानस्येति ।
यद्यपि सुखदुःखे भिन्ने, तथाप्यनित्यत्वकृतकत्ववत् परस्परानुषक्ते इति न खलु सुखस्य केवलस्योपादानं दुःखस्य वा केवलस्य परिवर्जनं शक्यमित्यर्थः ।
कः पुनरयमनुषङ्गो यतो विवेकहानमशक्यमित्यत आह--अनुषङ्गो ऽधिनाभावः ।
तत्स्वरूपमाह--यत्रैकं सुखं वा दुःखं वा, तत्रेतरत् दुःखं वा सुखं वा ।
तदनेनानित्यत्वकृतकत्वयोरिव सुखदुःखयोरविनाभावो दर्शितः ।
न चाविनाभावो विना संबन्धादिति तत्सिद्धये संबन्धविकल्पानाह--समाननिमित्तता वा अनुषङ्गो ऽविनाभावः, वाशब्दश्च वक्ष्यमाणसंबन्धान्तरापेक्षया, न तु पूर्वापेक्षया ।
अत्र च शरीराद्यपेक्षया समाननिमित्तता, न तु धर्माधर्मापेक्षया, न तु पूर्वापेक्षया ।
अत्र च शरीराद्यपेक्षया समाननिमित्तता, न तु धर्माधर्मापेक्षया तयोरसाधारण्यादिति ।
मन्तव्यम् ।
तयोरविनाभावसिद्ध्यर्थं संबन्धान्तरम् आह--समानाधारता वा ।
अपरं संबन्धान्तरमाह--समानाधारता वा ।
अपरं संबन्धान्तरमाह--समानोपलभ्यता वा ।
मनोगोचरत्वमुभयोः ।
ततश्च सिद्धो ऽनविनाभावापरनामा अनुषङ्ग इति ।
यत्रैकं तत्रेतरदिति वा यत्र यस्मिन्निमित्ते सतीति वा यत्राधार इति वा यत्रोपलब्धिसाधने सतीति व्याख्येयम् ।
इतिः सूत्रसमाप्तिं सूचयति
न्य्स्_1,1.3: प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥
तदेवं प्रमाणादिपदार्थतत्त्वज्ञानस्य निःश्रेयससंबन्ध उक्तः परीक्षितश्च ।
तत्रैतत् स्यात् ।
स्वपदेभ्यः प्रमाणादयः पदार्थास्तत्त्वतो ज्ञाता यथायथं मिथ्याज्ञानादिनिवृत्तिक्रमेण अपवर्गे उपयोक्ष्यन्ते, कृतमुपरितनेन प्रबन्धेन इति ।
अत उक्तं भाष्यकृता--त्रिवधा चास्येति ।
न नामधेयमात्रात् प्रमाणादीनां तत्त्वज्ञानं भवति, अपि तु लक्षणपरीक्षणाभ्याम् इत्यस्ति प्रबन्धस्योत्तरस्योपयोग इति भाष्यार्थः ।
तदेतद्भाष्यमनुभाष्य पृच्छति---प्रवृत्तेरिति ।
यदि पुरुषकल्पना मात्रात् त्रैविध्यम्, अथानन्त्यमेव कस्मान्न भवति? सर्वत्र तस्य सुलभत्वादिति भावः ।
उत्तरम्---अर्थस्य तथाभावात् ।
अर्थस्य प्रयोजनस्य साक्षात्, शास्त्रकार्यस्य तत्त्वज्ञानलक्षणस्य तथैव त्रिविधयैव शास्त्रप्रवृत्त्या भावात् ।
तथा हि, लक्षणं नाम व्यतिरेकिहेतुवचनम् ।
तद्धि समानासमानजातीयेभ्यो व्यवच्छिद्य लक्ष्यं व्यवस्थापयति ।
न चास्य धर्मिदर्शनमन्तरेण पक्षधर्मता सिध्यतीति तदुपदर्शनाय नामधेयमात्रेण धर्मिणामुद्देशः ।
यद्यपि च प्रतिलक्षणमुद्दिष्टा एव धर्मिणः, तथापि शास्त्राभिसंबन्धपरादपि वाक्यात् समधिगम्यन्त इत्युद्देशो ऽप्युक्तः ।
न चापरीक्षितो हेतुर्व्यतिरेकी चतूरूपो भवतीति परीक्षाप्यवश्यं कर्तव्या ।
तस्मात् तत्त्वज्ञानस्यार्थस्य तथाभावात् त्रैविध्यमिति ।
तदेतद् विभजते--नामी पदार्था इति ।
किं त्विति ।
अर्थः तत्त्वज्ञानं तथाभूतम्, येनार्थेन हेतुना शास्त्रस्य प्रवृत्तिस्त्रेधा भवति ॥
उद्देशस्वरूपप्रतिपादनपरं भाष्यमनुभाष्याक्षिपति--नामधेयेनेति ।
परिहरति--मात्रग्रहणसामर्थ्यादिति ।
यद्यपि प्रमाणणादिशब्दा अपि कारकशब्दा एव, तथाप्युद्देशसमये तदर्थानां सदपि कारकत्वमविवक्षितम्, अपि तु प्रातिपदिकार्थमात्रम् ।
घ्राणादिसूत्रे # 1.1.12 # तु लक्षणपरे कारकत्वं विवक्षितम् अन्यथा लक्षणत्वायोगादिति अदोषः ।
अत्र च यद्यपि सूत्रकारेण संशयप्रमाणप्रमेयेषु परीक्षा साक्षात् कृता न प्रयोजनादिषु, तथापि तत्करणादेव प्रयोजनादिपरीक्षापि सूचिता सूत्रकारेण इति त्रिविधेत्युक्तम् ।
अत एव भाष्यकारः सर्वत्र परीक्षामन्ववर्तयदिति ॥
स्यादेतत् ।
विभागपरमेतत् सूत्रमिति वक्ष्यति ।
न च विभागो न्यूनाधिकसंख्याव्यवच्छेदार्थमेकं किञ्चिदुपसंग्राहकमन्तरेण ।
न च प्रमाणत्वादन्यदत्रोपसंग्राहकम् ।
न चेदमलक्षितमुपसंगृह्णाति ।
न चैतत् सूत्रमस्य लक्षणम्, विभागपरत्वादिति शङ्कानिराकरणपरं भाष्यम्--तत्रोद्दिष्टस्येति ।
तस्यार्थः--यद्यपि विभागपरमेतत् सूत्रम्, तथापि प्रमाणपदसमभिव्याहृतं सत् सामर्थ्यात् प्रमाणत्वमपि लक्षयतीति ।
तथा हि, प्रमीयते ऽनेनेत्यस्य वाक्यस्यार्थे प्रमाणपदप्रयोगः ।
प्रमा च स्मृतेरन्यः अर्थाव्यभिचारी स्वतन्त्रः परिच्छेदः तस्माद् विभागपरादपि सूत्रात् प्रतीयमानं प्रमाणसामान्यलक्षणमपेक्षितं संगृहीतमिति प्रमाणत्वोपगृहीतानां प्रत्यक्षादीनां प्रमाणानां युक्तो विभागः ।
तथा च विभागपरत्वेन साक्षात् सामान्यलक्षणानभिधानाद् विभक्तस्य लक्षणमुच्यत इत्युक्तम् तच्चेह ।
विशेषलक्षणम् इन्द्रियार्थसन्निकर्षेत्यादि # 1.1.4 # ।
तदेतद् भाष्यं व्याचष्टे--उद्दिष्टस्येति ।
लक्षणालक्षणमात्रविवक्षया लक्षितस्यालक्षितस्य इत्युक्तम् ।
तच्च छले सामान्यतः, प्रमाणेषु प्रमेयेषु च विशेषत इति गमयितव्यम् ॥
अत्र भाष्यम्--अथोद्दिष्टस्य विभागवचनमिति ।
तस्यार्थ उच्यते ऽनेनेति वचनं सूत्रं विभागस्य ।
अथेति त्रिविधप्रवृत्तिव्युत्पादनानन्तरं विविक्तानां प्रतिपादनं विभागवचनम् ।
न च विवेकः स्वरूप उपयुज्यत इत्यत आह--अथोद्दिष्टविभागद्वारेणेति ।
नात्र विभागमात्रं विवक्षितम्, अपि तु तद्द्वारेण न्युनाधिकसंख्याव्यवच्छेदस्तत्त्वज्ञानाङ्गमित्यर्थः ॥
अव्याख्याने हेतुमाह--सूत्रेति ।
चोदयति--उद्दिष्टस्य विभागानर्थक्यम् व्याघातात् ।
त्रिविधा चास्य शास्त्रस्य प्रवृत्तिरित्यस्यानर्थक्यम् ।
अनर्थमर्थविपर्ययं कायति कीर्तयतीत्यनर्थकः ।
तस्य भावस्तत्त्वम् ।
कस्मात्? व्याघातात् ।
व्याघातम् एव स्फोरयति--त्रिविधा चास्य शास्त्र्यस्येति ।
परिहरति--नोद्दिष्टेति ।
परस्परं विभक्ता नामधेयमात्रेणोद्दिश्यन्त इत्युद्देशेन्तर्भावः ।
तेनायमर्थो भवति, सामान्येनोद्दिष्टस्य विभागवचनं विशेषेणोद्देश इति ।
विभागप्रयोजनं पृच्छति--किं पुनरिति ।
उत्तरम्--नियमः ।
तद्विभजते--यदीति ।
पुनश्चोदयति--लक्षणत इति ।
प्रमाणलक्षणकरणप्रवृत्तो यत् चत्वार्येव लक्षयति तदवगम्यते न न्यूनान्यधिकानि वा प्रमाणनीत्यर्थः ।
परिहरति--लक्षणस्येति ।
आक्षेपं विभज्ते--स्यादेषेति ।
परिहारं विभजते--न, लक्षणस्येति ।
अन्यपरमपि वाक्यं तदेवार्थलभ्यं स्वीकरोति ।
न च प्रत्यक्षादीनां समानासमानजातीयस्य व्यवच्छेदे पञ्चम्याद्यभाव उपयुज्यते ।
लक्षणकरणप्रवृत्तस्य क्वचिदकरणं न तदभावे प्रमाणम्, सतो ऽप्यनुपयोगेनाकरणापत्तेः ।
तदेतदाह--अन्यासंभवस्येति ।
विभागोद्देशस्य पुनरनन्यपरत्वादन्याभाविनिश्चयो भवतीति ।
उपसंहरति--तस्मादिति ॥
अक्षस्याक्षस्येति भाष्यमनुभाष्य तात्पर्यमाह--अयं च सूत्रविवक्षायामिति ।
अक्षमक्षं प्रति वर्तत इति विगृह्याव्ययीभावे कृते सर्वेन्द्रियावरोधो भवति ।
ननु यदिर् इदृशो विग्रहः, कस्मात् पुनर्भाष्यकारेण अक्षस्याक्षस्येति विगृह्यत इत्यत आह--अन्यथा तु वस्तुनिर्देश इति ।
अर्थमात्रमनेन प्रतिपाद्यते, न पुनः समास इत्यर्थः ।
अथ कस्मात् समास एव तेन विग्रहेण न प्रतिपाद्यत इत्यत आह--समासे हि अक्षस्येति षष्ठी न श्रूयेतेति ।
यदि सूत्रगतस्य प्रत्यक्षपदस्याव्ययीभावः समासः, अन्यत्र पुनरस्य कः समास इति पृच्छति--कः पुनरिति ।
उत्तरम्--प्रादिसमास इति ।
तथा हि, प्राप्तापन्नालंपूर्वगतिसमासेषु परवल्लिङ्गताप्रतिषेधादभिधयलिङ्गोपादानात् प्रत्यक्षो ऽर्थः प्रत्यक्षाबुद्धिः प्रत्यक्षं ज्ञानमित्यभिधेयलिङ्गता सिद्धा भवति ।
क्वचित् पाठः समासे हि प्रत्यक्षस्येति षष्ठी न श्रूयेतेति ।
सूत्रविवक्षयाव्ययीभाव इत्युक्तम् ।
तत्र शङ्कते, कस्मात् पुनः सूत्रविवक्षयेत्युच्यते, यावता सर्वत्रैव कस्मादव्ययीभावो न भवतीति? तत्रेदमुपतिष्ठते--समासे हि अव्ययीभावसमासे हि, सर्वत्र प्रत्यक्षस्येति षष्ठी न श्रूयेतेति ।
व्युत्पत्तिनिमित्तमात्रं चेदं प्रत्यक्षशब्दस्य, न तु प्रवृत्तिनिमित्तम् ।
तस्मात् नेन्द्रियगतैर्गुणसामान्यादिभिर्व्यभिचारः,
प्रवृत्तिहेतुस्त्वर्थसाक्षात्कारिज्ञानजनकत्वम् ।
तन्निमित्तः खल्वयं प्रत्यक्षशब्दस्तत्र तत्र लौकिकपरीक्षकैः प्रयुज्यते ।
यथा मयूरशब्दो मयूरत्वसामान्यनिबन्धनः कासुचिदेव पतत्रिव्यक्तिषु वर्तमानः, मह्यां रौतीत्यन्वाख्यायते ।
तदिदं प्रत्यक्षमुद्धिष्टमपि सत् प्रमाणतदाभाससंकीर्णमिति तद्विवेकाय लक्षणमुपयुज्यते ।
यदि तूद्देशपदं तद्विवेचयेत्, कृतं तर्हि लक्षणप्रणयनेन ॥
विग्रहवाक्यगता च वृत्तिर्भाष्यकृता व्याख्याता ।
वृत्तिस्तु सन्निकर्षो ज्ञानं वा ।
वृत्तिरिति हि व्यापारः ।
स तु व्यापार उच्यते, यः कारकैः फले जनयितव्ये चारमभावी धर्मभेदः फलोत्पादानुकूलो ऽपेक्ष्यते ।
यथा पटे जनयितव्ये तन्तुभिश्चरमभाविनः संयोगभेदाः, स्वर्गे वा जनयितव्ये यागेनापूर्वमात्मधर्मः, तथेहापि इन्द्रियादिना प्रमाणेन प्रमायां फले प्रवृत्तेन तदुत्पादनानुकूलः सन्निकर्षो ज्ञानं वा चरमभावी धर्मभेदो ऽपेक्ष्यत इति भवति व्यापारः ।
स एव वृत्तिरित्याख्यायते ।
व्यवस्थां दर्शयति--यदा सन्निकर्षो व्यापार इन्द्रियादेः प्रमाणस्य तदा ज्ञानम् आलोचनं वा सविकल्पकं वा साक्षात्कारवद्विज्ञानं प्रमितिः फलम्, उभयस्यापीन्द्रियव्यापारात् सन्निकर्षापरभिधानानुत्पत्तेः ।
न चान्तरालिकेन निर्विकल्पकेनेन्द्रियव्यापारविच्छेद इति प्रत्यक्षव्याख्यानावसरे निवेदयिष्यते ।
यदा ज्ञानम् आलोचनं वा विकल्पो वा व्यापार इन्द्रियादीनां तदा हानोपादानोपेक्षाबुद्धयः फलम् ।
तत्रोपादेयमिदं सलिलमिति बुद्धिरनागतोपादानविशिष्टं सलिलमालम्बमाना न साक्षात्कारवती, सलिलमात्रसाक्षात्कारस्तु स्यात् ।
न च तन्मात्रमस्य फलम्, अपि तूपादेयता ।
सा च परोक्षा, अनागतत्वात् ।
तस्मादुपादीयते अनेनेत्युपादानम् उपादानं चासौ बुद्धिश्चेत्युपादानबुद्धिः ।
तत्र तोयालोचनमथ तोयविकल्तः, अथ तज्जातीयस्य दृष्टचरपिपासोपशमनहेतुभावस्य स्मृतिबीजसंस्कारोद्बोधः, अथ तस्य स्मरणम्, अथ लिङ्गपरामर्शः तज्जातीयं चेदमिति ।
तदिदं लिङ्गपरामर्शविज्ञानं साक्षात्कारवत् ।
लिङ्गे विनश्यदवस्थव्याप्तिस्मरणसहकारिदृश्यमानस्य सलिलस्य पिपासोपशमनहेतुतया अनुमानमुखेनोपादानबुद्धिरूच्यते ।
अनुमाय खल्वयं तथाभावं तदुपादित्सर्न् इहमानस्तदुपादत्ते ।
न च व्याप्तिस्मृतिविच्छिन्नमालोचनं वा विकल्पो वा न लिङ्गपरामर्शज्ञानहेतुरिति वाच्यम्, तदुद्बोधितसंस्कारद्वारेण व्याप्स्मिरणे च परामर्शे च तस्य तदानीमसतो ऽपि कारणत्वात् ।
न खलु कृषिकर्म शस्याधिगतिसमये समस्ति, न च यागादिकं स्वर्गाद्युत्पादसमये, न च त्रिवृत्कषायपानं विरेकसमये ।
आन्तरालिककार्यपरम्परया तु तत्साधानत्वं सर्वत्र समानम् ॥
स्यादेतत् ।
का पुनरियं पिपासोपशमनशक्तिस्तोयस्य, या अनुमानगोचरः? न तावत् मीमांसकवदतीन्द्रिया शक्तिर्युस्माभिरभ्युपेयते, किं तु कारणानां स्वरूपं वा सहकारिसाकल्यं वा ।
तत्र स्वरूपं हेतूनां प्रत्यक्षमेव ।
सहकारिणा प्रत्यक्षाप्रत्यक्षाणां साकल्यं कार्यसमुत्पादैकव्य।जनीयम्, न तु तत् तोयरूपदर्शनमात्रात् शक्यानुमानम् ।
तत् किमपरमवशिष्यते यदनुमानस्य गोचर इति? अत्रोच्यते ।
न वयमतीन्द्रियं सामर्थ्यम् आतिष्ठामहे, नापि सहकारिसाकल्यानुमानमाचक्ष्महे, किं तु स्वरूपस्य कार्यसंबधिताम् ।
न चेयं स्वरूपमेव, इहस्थस्येव नारिकेलद्वीपादागतस्यापि वह्निदर्शनमात्राद् ग्राहकत्वावगमप्रसङ्गात् ।
तस्मात् कार्योपहितं स्वरूपमनुमेयम् ।
इदमेव चास्य कार्योपधानं यत् कार्योत्पादात् पूर्वमवश्यंभाव आनन्तर्यनियमः ।
न च तज्जातीयस्य दृष्टचरस्य तथाभावदर्शने ऽपि दृश्यमानस्य तोयस्य तद् दृष्टं भवति येन तत्र स्मर्येत ।
न खलूज्जयिन्यामुपलब्धस्य सौधस्य पाटलिपुत्रे स्मरन्त्यभ्रान्ताः ।
उपादानेन हानं व्याख्यातम् ।
न चोपेक्षानुपादानतया हानपक्षे निक्षिप्ता, अहानतयोपादानपक्षनिःश्रेपप्रसङ्गात् ।
उपादानप्रयत्नाप्रसवहेतुतया नोपादानमिति चेत्? किमियं हानप्रयत्नमपि प्रसूते यतो हानं स्यात्? तस्माद् या नोभयप्रयत्नप्रसवहेतुः सोपेक्षाबुद्धिस्तृतीया लोकप्रसिद्धेति सिद्धम् ॥
प्रत्यक्षपदव्युत्पत्तिं दर्शयित्वा अनुमानादिपदेष्ववि व्युत्पत्तिगति दिशति--एवमनुमानादिष्वपीति ।
तत्रेदमनुमानदव्युत्पत्तिभाष्यम् ।
मितेन लिङ्गेन लिङ्गिनो ऽर्थस्य पश्चान्मानमनुमानमिति ।
मितिर्मानम् ।
तथा च लिङ्गदर्शनोद्बोधितसंस्कारजा स्मृतिर्व्यवच्छिन्ना, तस्या मितेरन्यत्वेन लोकसिद्धत्वात् ।
मितेनेत्यज्ञानसन्देहविपर्यासा लिङ्गविषया व्युदस्ता भवन्ति ।
तथापि मितेनार्थस्य ज्ञानं शाब्दे ऽप्यस्तीत्यत उक्तम्--लिङ्गेनेति ।
अपक्षधर्मतो निवर्तयति--लिङ्गिन इति ।
तथापि धर्मिणः प्रत्यक्षगोचरत्वात् कृतमनुमानेनेत्यत उक्तम्--अर्थस्येति ।
अर्थ्यते साध्यत इत्यर्थः ।
न च धर्मो स्वरूपेणार्थ्यते, किं तु जिज्ञासितधर्मविशिष्ट इत्यर्थः ।
पश्चादिति अनुशब्दस्य व्याख्या ।
तदेतद्भाष्यमनुभाष्याक्षिपति--मितेनेति ।
कस्मादयुक्तमित्यत आह--फलाभावादिति ।
एतद् विभजते--एतस्मिन्निति ।
अनुमानज्ञानस्य फलावस्थायामेवार्थो मित इति मेयं नावशिष्यते, यत्रैतत् सिद्धं सत् प्रमाणं भवेदित्यर्थः ।
तत्र फलविशेषणपक्षमास्थाय यत इत्यध्याहृत्य सामधत्ते---नैष दोष इति ।
अनध्याहारेणाप्यदोष इति समाधानान्तरमाह---भवतु वेति ।
पूर्वोक्तं दोषं स्मारयत्ति---ननु चेति ।
परिहरति--न दोष इति ।
अथ कस्मात् हानादिविषयं प्रमाणमुच्यते, न स्वगोचरं प्रतीत्यत आह--सर्व च प्रमाणमिति ।
यद्यपि वह्निज्ञानस्यानुमानस्य सतो हेयत्वादिकं विषयः, तत्रैव व्यापारात् ।
अन्यथा प्रमाणफलयोर्विभिन्नविषयत्वेन विप्रतिपत्त्या प्रमाणफलभावायोगात् ।
न हि पनसविषयेण परशुना खदिरे द्वैधीभावो भवति ।
तथापि फलान्तरानपेक्षमुत्पत्तावेव विज्ञाने यत् प्रकाशते स तस्य विषयः ।
तत्र तु न तत् प्रमाणम्, फलान्तराजनकत्वादपि तु फलमेवेत्यर्थः ।
विषयान्तरं प्रति तु प्रमाणमित्याह--विषयान्तरमिति ।
चोदयति--यदीति ।
भावसाधनश्चेत् प्रमाणशब्दः फलमस्यार्थो न तु फलं स्वविषये करणम्, तद्व्यापारस्य तज्जनकेनैव कृतत्वात् ।
न च स्वविषयादन्यद् विषयान्तरमस्य संभवति, अतिप्रसङ्गादिति भावः ।
परिहरति--उक्तं फलमिति ।
यद्यपि यत्र फलं सो ऽस्यौत्पत्तिको विषयः, तथापि यत्रानेन प्रमाणेन सता हानादिबुद्धयो जनयितव्याः, सो ऽपि व्यापारेण विषय इति भावः ।
फलत्व एव हेतुमाह---ज्ञात इति ।
परोक्षार्थावगाहितया हेयादिबुद्धयः प्रत्यक्षफलं न भवन्ति, भवन्ति त्वनुमानस्येति ।
नियमवादिनां मतमपन्यस्य दूषयति---केचित् त्विति ।
अनियमं रोच्यमान आह--उभयं त्विति ॥
अनुमानशब्दवत् फलेन निर्वचनीयत्वमुपमानशब्दस्येति मन्वान आक्षिपति--सामीप्येति ।
समाधत्ते--नास्ति व्याघात इति ।
नेयमुपमानशब्दस्य फलेन निरूक्तिः, अपि तु प्रमाणेन निरूक्तिरिति न वयाघात इत्यर्थः ॥
शब्दविषया प्रतिपत्तिः शाब्दं प्रमाणम् ।
यत् खलु चैत्र, गां बधानेति वाक्यमिदमित्यनुसन्धानात्मकं स्मार्तं विज्ञानमुपजायते, तत् पदार्थस्मरणसहकारि विशिष्टार्थविषयं विज्ञानं प्रसूते, तच्छाब्द्र प्रमाणम् ।
प्रमाणमुक्त्वा फलमस्याह---फलं तदेव ।
यदा ह्येतत् प्रमाणं तदा वाक्यार्थविज्ञानं फलम् ।
यदानुमानवद् वाक्यार्थविज्ञानं प्रमाणं तदा हानोपादानादिबुद्धयः फलमित्यर्थः ॥
अत्र प्रत्यक्षादीनां क्रमोद्देशप्रयोजनं प्रति एकदेशिमतमुपन्यस्यति---केचित् त्विति ।
प्रत्यक्षपरा हि प्रमाणान्तरजन्याः प्रमितय इति प्रत्यक्षस्य प्राधान्यम् ।
यद्यपि किञ्चिदनुमानमनुमानादिपूर्वकमपि, तथापि प्रायेण प्रत्यक्षपूर्वकम्, उपमानं तु प्रत्यक्षपूर्वकमपि शब्दपूर्वकमेवेत्यस्यानुमानादपकर्षः ।
स्मरणसहकारिता चानुमानसादृश्यमुपमानस्यास्तीत्यनुमानानन्तरमुद्देशः ।
अल्पज्ञानाधीनं च बहुज्ञानमित्यल्पविषयप्रत्यक्षाद्युद्देशेभ्यः परो बहुविषयशब्दोद्देश इति ।
तदेतत् एकदेशिमतम् एकदेश्यन्तरमतेन दूषयति--तच्चायुक्तमित्यपर इति ।
आक्लिष्टो हि प्रथमं महाविषयमेव दुरवधारणत्वान्निरूपयति, अल्पविषयं तु क्लिष्टो ऽपि शक्नोति निरूपयितुम् ।
अतो महाविषयत्वं प्राथम्य एव हेतुर्न चरमत्व इत्यर्थः ।
अनन्तरमतं दूषयति--एतच्चेति ।
एतावता क्रममात्रं भवेत्, न तु तद्विशेषनियम इत्यर्थः ।
॥
संप्रति विमर्शपूर्वकं स्वाभिभतक्रमनियमहेतुमवधारयन्नेव पूर्वैकदेशिमतमपाकरोति--तस्मादन्य इति ।
विमर्शनिमित्तं विप्रतिपत्तिमाह--प्रत्यक्षं पूर्वं प्राधान्यात् इत्येकः ।
महाविषयत्वाच्चादौ शब्दोपदेश इत्यपरः ।
तत्र महाविषयत्वमनैकान्तिकं सन्नागमस्यैव पूर्वोपदेशं गमयतीत्याह--उभयमिति ।
पृच्छति--कथमिति ।
उत्तरम्--प्रत्यक्षैणापीति ।
महाविषयत्वलक्षणसाधारणधर्मदर्शननिमित्तं संदेहमाह---तत्रेति ।
स्वाभिमतेन हेतुनां क्रमविशेषनियममवधारयति--प्रत्यक्षस्येतीति ।
यद्यपि प्रमितेः प्रत्यक्षपरत्वेन प्रत्यक्षस्य प्राधान्यम्, तथापि शास्त्रे व्युत्पाद्यत्वेनानुमानस्यापि तदस्तीति साधारणतया न हेतुरिति भावः ॥
स्यादेतत् ।
व्यवस्थितविषयं प्रत्यक्षं नानुमानविषये प्रवर्तते ।
न चानुमानम् अगृहीतसंबन्धमुदेति ।
न च संबन्धग्रहः संबन्धिग्रहमन्तरेण ।
न चानुमानविषये सामान्यरूपे संबन्धिनि प्रत्यर्क्ष प्रवर्तते ।
अनुमानान्तरेण तु ग्रहणे ऽनवस्था ।
तस्मात् कारणभावान्नानुमानमस्ति ।
एतेन शब्दोपमाने अपि परास्ते, तयोरपि संबन्धसंवेदनाधीनजन्मत्वात् ।
तस्मात् नाप्रत्यक्षं प्रमाणमिति विभागवचनमनुपपन्नमिति शङ्कामपनेतुं विमर्शपूर्वकं विचारयति स्म भारूयकारः---किं पुनः प्रमाणानीति ।
तदेतद्भाष्यम् अनुभाष्याव्याख्याने कारणमाह--किं पुनरेतानीति ॥
सा चेयं प्रमितिः प्रत्यक्षपरेति भाष्यम् ।
तदनुभाष्य हेतुमाह--सेयमिति ।
आकाङ्क्षाभावप्रतिपादनाय प्रतीतिस्वरूपं क्रमं चाह--यथायमिति ।
आहित उत्पादितः प्रत्ययो निश्चयो यस्य, संसर्गोपधानं वर्हि प्रति स तथा ।
सन्दिग्धेन हि निश्चयाय प्रवर्तितव्यमेव ।
निश्चितस्तु विनिश्चयाय प्रमाणान्तरे प्रवर्तमानस्तदभ्यर्हिततरं मन्यते ।
धूमाङ्गत्वेनेति ।
अङ्गत्वं व्यापकत्वम् ।
व्याप्यं पुनर्व्याप्तिक्रियायां कर्मत्वेन प्रधानम् ।
तदनेन धूमव्यापकत्वोपधानेन धूमाद् गम्यमानो बह्निः परोक्ष इति दर्शितम् ।
अनुपहितप्रकाशसतु प्रत्यक्षेणाव्यवहितवह्निस्वरूपप्रकाशः ।
स हि साक्षात्कार इति ।
तावदयं प्रमाता साकाङ्क्षो यावदुपधानव्यवहितं स्वरूपमुपलभते ।
उपधानानपेक्षस्तु प्रत्यक्षेणाव्यवहितं साक्षाद् वर्हिन विषयीकृत्य निराकाङ्क्षो भवति ।
धूमाङ्गत्वेन धूमविशेषणत्वेनेति केचित् ।
तत्तु प्रकृतानुपयोगितया अयुक्तमिति ।
उपसंहरति--अतः प्रधानमिति ।
सो ऽयं गुणप्रधानभावो भेदाश्रयो व्यवस्थायां नास्ति, व्यवस्थितानां प्रत्येकमेकत्वात् ।
तस्माद् व्यवस्थायां गुणप्रधानभावो न चिन्त्य इति ।
इतिः सूत्रसमाप्तौ
॥ इति न्यायत्रिसूत्रीतात्पर्यटीका ॥
न्य्स्_1,1.4: इन्द्रियार्यसन्निकर्षोत्पन्नु ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ॥
प्रत्यक्षादिप्रमाणविशेषलक्षणानाम् अर्थाक्षिप्तसामान्यलक्षणविभागोद्देशहेतुत्वेन तदनन्तराभिधानमित्याह--अथ विभक्तानामिति ।
तत्र तेषु मध्ये प्राथम्यात् प्रत्यक्षलक्षणम् इन्द्रियार्थसन्निकर्षोत्पन्नम् इत्यादि सूत्रम् ।
अस्य तात्पर्यमाह--सूत्रार्थः सूत्रप्रयोजनम् ।
समानासमानजातीयविशेषकत्वम् ।
समानजातीयमनुमानादि, असमानजातीयं प्रत्यक्षाभासप्रमेयादि ।
तेभ्यो विशेषकत्वं विशेषः ।
तदस्य सूत्रस्य प्रयोजनम् ।
यः खलु कुतश्चिद् व्यामोहात् समानासमानजातीयव्यावृत्तं तद्रूपं न शक्रोति ग्रहीतुम्, सो ऽनेन लक्षणेन बोध्यते ।
एवंलक्षणकं प्रत्यक्षमिति ।
तस्मात् सामान्नयतः सिद्धविविक्तप्रत्यक्षमात्रानुवादेन लक्षणविधानपरमिदं सूत्रम् ।
इतस्त्ववगतलक्षणः तेनैव विविच्य प्रत्यक्षतत्त्वं गृह्णातीति समानासमानजातीयव्यवच्छेदः सूत्रार्थ उक्त इति ।
अत्र च यह इत्यध्याहृत्य यत्तदोनित्याभिसंबन्धात् तत् प्रत्यक्षमिति प्रमाणवाचि प्रत्यक्षपद्र योजनीयम् ।
एवं च ज्ञानप्रमाण्यपक्षे ऽपि यत् तद्विशेष्यज्ञानं प्रत्यक्षफलं लिङ्गपरामर्शो वा तदपीन्द्रियार्थसन्निकर्षोत्वन्नत्वाद्युपेतत्वेन भवति प्रमाणविशेषणमिति नाव्यापकत्वं लक्षणस्येति ॥
सूत्रपदार्थं पृच्छति---अथेति ।
उत्तरम्--इन्द्रियेति ।
सन्निकर्षग्रहणलभ्यं प्रकारभेदं परिसंचष्टे--सन्निकर्षः पुनरिति ।
पुनःशब्देन संयोगसमवायपदोपादानात् व्यवच्छिनत्ति ।
संयोगपदोपादाने हि न समवायो लभ्यते, समवायपदोपादाने वा न संयोगः ।
सन्निकर्षपदोपादाने त्वभिमतलाभः ।
अर्थग्रहणेनार्थ्यमाणतया ज्ञेयस्वरूप्योग्यता दर्शिता ।
न चासावण्वाकाशादीनामस्तीति सत्यपि संयोगादौ नासावर्थसन्निकर्ष इति तद्व्युदासः ।
उत्पन्नग्रहणेन च सन्निकर्षस्योत्पादकत्वं सूचितम् ।
ततः सत्यप्यर्थस्वरूपयोग्यत्वे संयुक्तसंयोगादेरनुत्पादकस्य सन्निकर्षस्य व्युदासः ।
अन्यथा कुड्यादिसंयुक्तेनेन्द्रियेण कुड्यादिव्यवहितस्य तत्संयुक्तस्य घटादेः तत्समवेतस्य च रूपादेरपि ग्रहणप्रसङ्गः ।
न चैतावता त्रिविध एव सन्निकर्षः संयोगः संयुक्तसमवायः समवायश्चेति सांप्रतम् ।
स्वतन्त्रव्याघातादनुभवव्याघाताच्च ।
ये हि द्रव्यगुणकर्माश्रयं सामान्यातिरिक्तं सादृश्सयमर्थानतरं रोचयन्ते, तेषां कथं रूपादिभेदानामन्योन्यस्य सादृश्यं प्रत्यक्षं भवेत् ? न हि तदिन्द्रियेण संयुक्तम् ।
नापीन्द्रियसंयुक्तसमवेतम् ।
तस्मात् चतुर्थःसंयुक्तसमवेतसमवायो ऽभ्युपगन्तव्यः ।
इतरथा स्वतन्त्रव्याघातः, अनुभवव्याघातश्च ।
अनुभूयन्ते हि रूपगन्धत्वादयः सामान्यविशेषा अनुगताः, तासु तासु व्यक्तिषु परस्परव्यावृत्तिमतीषु एते नानुभूयेरन् असति सन्निकर्षान्तरे ।
यदि तु वैयात्यादाहुः नानुभूयन्त एवेति, तदा प्रतिवक्तव्यं कुतस्त्यो ऽयमनन्तासु रूपगन्धादिव्यक्तिषु रूपमिति वा गन्ध इति वा व्यपदेशभेदः? चाक्षुषत्वाद्युपाधिनिबन्धन इति चेत्--न, अननुसंहितोपाधेरूपहितप्रत्ययायोगात् ।
न खल्वननुसंहितदण्डश्र्चैत्रं दण्डीति व्यपदिशति ।
न चेन्द्रियाण्यतीन्द्रियाणीन्द्रियदर्शनविषयभावमनुभवन्ति ।
तस्मादस्तीन्द्रियेण रूपत्वादिसामान्यानुभवो यन्निबन्धनाः कासुचिदेव केचिदेव व्यक्तिषु व्यपदेशेभेदा इति सिद्धं सन्निकर्षान्तरम् ।
विशेषणभावेन च संयुक्तविशेषणं समवेतविशेषण च संगृहीतम् ॥
यस्येन्द्रियेण यादृशः सन्निकर्षः तादृशं तत्र दर्शयति--तत्र चक्षुरिति ।
शब्दस्स्य आकाशगुणत्वम् ।
कर्णशष्कुल्यवच्छिन्नस्य नभोभागस्य श्रोत्रत्वम् ।
आद्यस्यैव शब्दस्य संयोगविभागयोनिजत्वम् ।
सन्तानेन श्रोत्रे समुत्पादः समवाय इत्यादि द्वितीये निपुणतरमुपपादयिष्यते ।
अवयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिजातिमन्तौ च मिथः संबद्धावनुभूतेते ।
नान्यथा तन्तुषु पट इति च, शुक्लः पट इति च, पटः स्पन्दते इति च, पटो द्रव्यमिति च बुद्धिव्यपदेशौ स्याताम् ।
शुक्लः पट इत्यादि सामानाधिकरण्यज्ञानं न तु संबन्धिज्ञानमिति चेत्? किं पुनरिदं सामानाधिकरण्यम्? तादात्म्यमिति चेत्--न, द्वितीयबुद्धिव्यपदेशयोः पौनरुक्त्यात् ।
अपौनरूक्त्यं चाभिमन्यन्ते प्रतिपत्तारः, यदन्यतरदुपलभ्यान्यद् बुभुत्सन्ते ।
न चैकं वस्तु द्व्यात्मकमिति युक्तम् ।
भेदाधिष्ठानस्य तन्नान्तरीयकस्य द्वित्वस्यैकात्मनि विरोधेनासंभवात् ।
तस्माद् भिन्ने एव वस्तुनी संबद्धे सामानाधिकरण्येन भासेते, असंबन्धे गौरश्व इतिवत् तदनुपपत्तेः ।
संबन्धे ऽपि कुण्डे दधीतिवद्वैयधिकरण्यप्रसङ्ग इति चेत्--न, शब्दवृत्तिभेदेन संबन्धाभेदे ऽपि सामानाधिकरण्यवैयधिकरण्यव्यवस्थापनात् ।
न हि जातु दधिशब्दः कुण्डे वर्तते कुण्डशब्दो वा दध्नि ।
वर्तन्ते तु सुरभिमधरशुक्लादिशब्दाः स्वाभिधेयं निमित्तीकृत्य पटादिषु, एवं पटादिशब्दा अपि जात्यादि निमित्तीकृत्य द्रव्ये प्रवर्तन्ते इति सामानाधिकरण्यम् ।
तेन सामानाधिकरण्ये ऽपि प्रवृत्तिनिमित्तानां नैकात्म्यं परस्परम् ।
नापि द्रव्येण, किं तु तैस्तैन्वितमेकं द्रव्यं प्रतीयते ।
शब्दानां तु तत्रैकस्मिन् द्रव्ये प्रवृत्तेः तद्वाच्यानामैकात्म्यभ्रमः ।
अयुतसिद्ध्या तु कुण्डे दधीतिवत् न स्फुटतरो विवेकप्रकाशः ।
तदेवमस्ति संबद्धानुभवः, न चासौ संबद्धानुभवं विनेति संबन्धो ऽनुभूयते, स चायुतसिद्ध्यादिसंपत्त्या समवायः, न चास्यान्यः समवायः, अवस्थानात् ।
न चेन्द्रियेणास्य संयोगः अद्रव्यत्वात् ।
न चासंबद्धस्य ग्रहणम्, इन्द्रियाणां प्राप्यकारित्वसमर्थनात् ।
तस्मात् विशेषणविशेष्यभावः परिशिष्यते ।
नन्वयं विशेषणविशेष्यभावो ऽन्यत्र संबन्धान्तरपूव्रको दृष्टः ।
तत् किमत्र संबन्धान्तरं कल्प्यताम्? तथा चानवस्था इत्युक्तम् ।
न चेन्द्रियासंवबद्धस्य ग्रहणम् ।
तस्माद् विना संबन्धान्तरं विशेषणविशेष्यभाव एषितव्य इति सिद्धम् ॥
एवमभावे ऽपि यदिन्द्रियसंयुक्तं वा यद्वेन्द्रियसमवेतु यथा भूतले घटो नास्तीति वा नास्त्यकारे ऽनुदात्तस्वर इति वा तस्य संयुक्तस्य वा विशेषणभावेन, समवेतस्य विशेषणभावेन चेन्द्रियप्रत्यासत्त्या ग्रहणम् ।
न च भूतलादिरूपमेव घटाभावो नार्थान्तरमिति सांप्रतम्, सत्यपि घटादौ भूतलस्य भावात् ।
न च कैवल्यं तस्य धर्मो घटभावविरोधी घटाभावादन्यः ।
न च दृश्ये घटादौ भूतलोपलम्भः कैवल्यमभावव्यवहारहेतुरिति युक्तम् ।
एवं हि घटसंसृष्टभूतलग्रहो ऽपि कैवल्यमिति घटाभावव्यवहारं प्रवर्तयेत् ।
न ह्यदृश्यो घटस्तदानीं दृश्यमानः ।
दृश्ये ऽनुपलभ्यमान इति तु विशेषणे किमपराद्धमुपलभ्याभावेन येन तदपाकरणायोपलम्भाभावो ऽभ्युपेयते? तस्मात् सदिवासदपि तत्त्वमभ्युपेयम् ।
तच्च प्रत्यक्षमक्षव्यापारे सति तत्प्रत्ययात् ।
न च प्रतियोगिस्मरणव्यवहित इन्द्रियार्थसन्निकर्षो नालमभावधियमुपजनयितुमिति सांप्रतमित्यग्र दर्शयिष्यामः ।
सविकल्पकस्स प्रत्यक्षत्वसिद्धौ यथा शब्दस्मरणपूर्वगृहीतपिण्डानुसन्धानादयो नेन्द्रियव्यापारं व्यवदधतीति, न च शब्दस्मरणादीनामनुयोगिता, भूतलविकल्पं प्रत्यङ्गत्वात्, स्वाङ्गमव्यवधायकमिति न्यायात्, घटस्य तु प्रतियोगितेति सांप्रतम् ।
कस्य पुनः प्रतियोगी घटः? तदभावस्येति चेद् भवतु ।
घटाभावानुभवस्य तु घटस्मरणं हेतुरिति न प्रतियोगि, किं त्वनुयोग्येव ।
ननु स्वरूपमात्रं दृष्टं वेश्माद्यर्थं स्मरन्नेव बहिर्नितश्र्चैत्रो यदा पृच्छ्यते केनचित्--वयस्य, तव गृहे तदा किमासीत् मैत्र इति ? स चैत्रः प्रतियोगिस्मरणविरहात् पूर्वमप्रतिपन्नमैत्राभावो ऽपि तत्प्रश्नजनितमैत्रस्मृतिः क्षणं ध्यात्व तदभावमवगम्याह, मित्र, तत्र नासीत् मैत्र इति ।
तदीयमसतीन्द्रियार्थसन्निकर्षे ऽभावबुद्धिर्भवन्ती प्रत्यक्षाद्यतिरिक्तमभावाख्यं प्रमाण व्यवस्थापयतीति ।
नैतत्, संयुक्तविशेषणलक्षणेन मनःसन्निकर्षेण स्मर्तव्यस्य स्मरणाभावं मैत्रस्य गृहीत्वा तेन लिङ्गेन तदभावस्य तदानीमनुमानात् ।
तथा हि तद्गेहं तदा मैत्राभाववत्
ज्ञानार्हस्य मैत्रस्याज्ञाने गेहस्य ज्ञायमानत्वात् ।
यद् यस्य ज्ञानार्हस्याज्ञाने ज्ञायते तत् तदभा ववत् ।
यथा घटभाववद् भूतलम् ।
तथा च गेहम् ।
तस्मात् तथा ।
न च यत् कदाचिदानुमानिकं तेनेनिद्रयगम्येन न भवितव्यम्, प्रमाणसंप्लवव्यवस्थापनात् ।
तत् सद्धिं विशेषणभावादभावस्येन्द्रियप्रमेयतेति ।
संयोगसमवायपदपरिहारेण सन्निकर्षपदोपादानस्य प्रयोजनमाह---सो ऽयं सन्निकर्षशब्द इति ॥
तदनेन प्रबन्धेन इन्द्रियस्यार्थेन सन्निकर्षाद् यदुत्पद्यते ज्ञानं तत् प्रत्यक्षमिति भाष्यं व्याख्यातम् ।
संप्रति न तर्हीति चोद्यभाष्यं व्याचष्टे---यदीन्द्रियार्थेति ।
प्रत्यक्षज्ञानकारणाभिधानप्रवृत्तेस्तदेकदेशं वदन्नकुशलः सूत्रकारः स्यादित्यर्थः ।
कारणान्तराणि दर्शयति--तद्यथेति ।
विषयसंयोति चक्षुरालोकश्च ।
तत्स्थं रूपम् ।
आत्मीयेन हि रूपेणालोकचक्षुषी द्रव्यं दर्शयत इति स्थितिः ।
महत्त्वं वा अनेकद्रव्यवत्त्वं वा, अनेकद्रव्या अवयवाः, तद्वत्त्वमवयविनो महत एव न द्व्यणुकस्य, तस्मादन्योन्यनिरपेक्षत्वं महत्त्वानेकद्रव्यवत्त्वयोरिति विकल्प एव न्याय्य इति ।
सत्यप्येवंलक्षणकत्वे चुक्षुरवयविनस्तैजसस्य न चाक्षुषत्वमित्यत उक्तम्--उपलब्धिकलः संस्कार इति ।
धर्माधर्मनिमित्त उभ्दवसमाख्यातः संस्कारः उपलब्धिफलः ।
न चासौ चक्षुषि, तस्यादृष्टवशेनानुद्भूतरूपस्पर्शत्वादित्यर्थः ।
परिहरति--न वक्तव्यानि इति ।
प्रत्यक्षलक्षणकरणप्रवृत्तो हि सूत्रकारः तदेव ब्रूयात् यदस्यासाधारणं कारणम् ।
न तु सदपि साधारणमस्य कारणम् ।
न हि तत् तस्य लक्षणमतिव्याप्तेरित्यर्थः ।
तदनेन नेदम् इत्यादि भाष्यं व्याख्यातम् ।
असाधारणं कारणं चेत् प्रत्यक्षलक्षणायोपादेयं हन्त, अन्यदप्यस्यासाधारणमस्ति कारणमिति तदप्युपादेयमिति चोदयति--इन्द्रियमनः- संयोगस्तर्हीति ।
तदनेन मनसस्तर्हीत्यस्य भाष्यस्यार्थ उक्तो वेदितव्यः ।
परिहरति-न, अनेनैव इन्द्रियार्थसन्निकर्षेणैव ।
तस्य---इन्द्रियमनःसन्निकर्षस्य उक्तत्वात् ।
तदुक्तिसाध्यं यत् तत् तेनैव कृतम् ।
तत्साध्यं त्विन्द्रियमनःसन्निकर्षो न शक्नोति साधयितुम् ।
न च सुखादिज्ञाने मानसे अस्तीन्द्रियमनःसन्निकर्षः ।
इन्द्रियार्थसन्निकर्षस्तु सर्वव्यापकः ।
वक्ष्यति हि मनस इन्द्रियत्वम् ।
सुखादेश्चार्थत्वं सिद्धमेवेति ।
संप्रति व्यापकत्वमभ्युपेत्य परीहारान्तरमाह---इन्द्रियार्थेति ।
यद्यपीन्द्रियमनःसन्निकर्षे ऽपीन्द्रियम् अस्ति प्रत्यक्षज्ञानस्य विशेषकम् इन्द्रियेण व्यपदेशादिन्द्रियज्ञानमिति, तथापि मनसा व्यपदेशामावात् मनसस्तत्राविशेषकत्वम् इन्द्रियार्थसन्निकर्षे तूभयमपि विशेषकम्, उभाभ्यां प्रत्यक्षज्ञानस्य व्यपदेशादित्ययमस्येन्द्रियमनःसन्निकर्षाद्विशेष इति ॥
चोदयति--यदा त्विति ।
तुशब्दः पूर्वपक्षं व्यावर्तयति ।
यु।जानस्य हि योगिनो यदात्ममनःसयोगादात्मनि बुद्धयो भवन्ति ताः खल्वात्मना व्यपदिश्यन्ते आत्मबुद्धय इति ।
मनसा च व्यपदिश्यन्ते मनोबुद्धय इति ।
तस्मादुभाभ्यां व्यपदेशाद् उभयोर्विशेषकत्वमितीन्द्रियार्थसन्निकर्षवदात्ममनःसन्निकर्षो वक्तव्य इत्यर्थः ।
परिहरति--यच्चेति ।
चो ऽवधारणे ।
यदेवासाधारणं तद् व्यपदेशभाग्भवति, कारणत्वेन ज्ञानं व्यपदिश्यते इत्यर्थः ।
एतदुक्तं भवति---यथा चुक्षुषा इन्द्रियत्वेन ज्ञानं व्यपदिश्यते चाक्षुषमिति, तथा मनसापीन्द्रियत्वेन व्यपदिश्यते ज्ञानं मानसमिति ।
एवं यथा रूपेणार्थेन व्यपदिश्यते ज्ञानं रूपज्ञानमिति, तथा आत्मनाप्यर्थेन व्यपदिश्यते आत्मज्ञानमिति, तत्र चासाधारणत्वमेव तयोः ।
यत्र त्विन्द्रियान्तरमेवासाधारणम्, लिङ्गादि वा तत्र चात्मा नार्थो ऽपि तु प्रमातैव ।
यथा रूपादिज्ञाने ऽनुमानादिज्ञाने वा न तत्र ज्ञानं मानसमिति वा आत्मज्ञानमिति वा व्यपदेशः स कस्य हेताः, तयोः साधारण्यात्? आत्ममनःसन्निकर्षस्त्विन्द्रियार्थसन्निकर्षेण संगृहीतो न त्विन्द्रियार्थसन्निकर्षस्यैष संग्राहको ऽव्यापकत्वादिति ॥
एकदेशिनः परीहारमुपन्यस्यति--इन्द्रियमनःसंयोगस्य वा अग्रहणं भेदे ऽभेदात् ।
यदा हि नागरयोषितः कुतूहलात् प्रणिहितमनसो विकसितनिःस्पन्दनयनोत्पलाः सौधमालागवाक्षकैरवनिपतिं सबलवाहनमतिचिरपरावृत्तं गोपुरेण निविशमानमालोकयन्ति, तदा ख्ल्वासामेकेनैवेन्द्रियमनःसंयोगेन क्रमवदनेकेन्द्रियार्थसन्निकर्षसहकारिणा भिन्नानि क्रमवन्ति हास्तिकाश्वीयादिप्रत्यक्षज्ञानानि जायन्ते ।
तदिदमाह--यस्माद् इति ।
चोदयति--यदीति ।
यदा हि मन्दं गच्छति गवि दूरतः संयुक्तसमवायेनेन्द्रियार्थसन्निकर्षेण शुक्लो गौरित्यज्ञासीत्, अथ प्रत्यासीदन् गच्छतीत्यपि विजानाति तेनैव संयुक्तसमवायेन सन्निकर्षेण, तेन प्रत्यक्षज्ञानस्य शुक्ल इति च गच्छतीति च भेदे ऽपि इन्द्रियार्थसन्निकर्षो न भिद्यते ।
तस्मादिन्द्रियार्थसन्निकर्षे तुल्यत्वादिन्द्रियमनःसंयोगो ऽपि तत्र वक्तव्य इत्यर्थः ।
परिहरति--न वक्तव्यः ।
कुतः--उक्तोत्तरत्वादिति ।
तद्विभजते--उक्तेति ।
ननु भवतूक्तमुत्तरं भेदे ऽभेदादित्यस्याक्षेपः समाधातव्यः इत्यत आह--अनभ्युपगमाच्च ।
एकदेशिमतमेतदस्माभिर्नाभ्युपेयते ।
तस्मान्न समाधेयम् इत्यर्थः ।
तत् किमिदानीं भिद्यमानस्य प्रत्यक्षज्ञानस्य नायं भिद्यत इति समानत्वान्नोक्त इति भाष्यम् अनुपपन्नमेव? नेत्याह--इन्द्रियमनःसंयोगस्य चाग्रहणं समानत्वात् ।
पृच्छति--केनेति ।
उत्तरम्"--आत्ममन इति ।
पुनः पृच्छति--किं पुनः समानत्वम्, उत्तरम्--व्यपदेशाभाव इत्युक्तम् ।
तेन भाष्यस्यायमर्थः ।
प्रत्यक्षज्ञानस्य रूपज्ञानस्य रूपज्ञानमिति वा चक्षुर्विज्ञानमिति वा व्यपदेशेन भिद्यमानस्य आत्ममनःसंयोग इव अयम् इन्द्रियमनःसंयोगो न भिद्यते ।
एवं हि स भिद्यते, यदि स्वसंबन्धिवाचकेन व्यपदेशेन स्वमन्यतो व्यावर्त्यते, न विशेषणेन विशिष्टं ज्ञानमप्यन्यतो व्यावर्तयेत् ।
न त्वस्ति इन्द्रियमनःसन्निकर्षाधाराभ्यामिन्द्रियमनोभ्यां प्रत्येकमस्य व्यपदेशो यथेन्द्रियार्थसन्निकर्षाधाराभ्यां इन्द्रियार्थाभ्यां व्यपदेशो रूपज्ञानमिति चक्षुर्ज्ञानमिति वा ।
तस्माद् व्यपदेशाभाव आत्ममनःसन्निकर्षेण साम्यम् इन्द्रियमनःसन्निकर्षस्य ।
तस्मात् समानत्वात् नोक्त इति ॥
प्राकरान्तरं समानत्वे दर्शयति--अतीन्द्रियाधारता वेति ।
लक्षणं हि प्रसिद्धं भवति यथा धूमो वह्नेः न चातीन्द्रियद्वयाधारसन्निकर्षस्तथा प्रसिद्धो यथेन्द्रियार्थसन्निकर्षो ऽर्थस्य संबन्धिन एकस्नय प्रसिद्धत्वात्, इन्द्रियमनसोस्तु द्वयोरतीन्द्रियत्वात् ।
आत्मा तु यद्यपि यु।जानस्य शरीराद्यतिरिक्तः प्रत्यक्षः, तथाप्यस्मदादीनां न तथेत्यतीन्द्रिय उक्तः ।
तदनेनातीन्द्रियाधारत्वं स्वरूपेणोक्त्वा तदेवं विषयावृत्तित्वमनोवृत्तित्वाभ्याम् अतीन्द्रियाधारत्वं सामान्यमाह--विषयावृत्तित्वं वेति ।
उपसंहरति--तस्मादिति समानत्वादिति भाष्योक्तो हेतुः, चरितार्थत्वादिति स्वोक्तः ॥
आक्षिपति--इन्द्रियार्थसन्निकर्षोत्पन्नमित्ययुक्तमिति ।
सान्तरग्रहणादिति हेतुं विभजते--विप्रकृष्टेति ।
ननु नार्थो विप्रकृष्टः, चक्षुषस्तत्र प्राप्तेरित्यत आह--न तु चक्षुष इति ।
कस्मादित्यत आह--भूतविशेषस्येति ।
बाह्यो भूतविशेष आलोकः ।
तस्य प्रसाद इन्द्रियाव्यवधायकत्वम् कुड्यादिभ्यो विशेषः यः खलु काचाभ्रपटलादिषु स्वच्छेषु समस्ति ।
स्यादेतत् ।
अस्ति कृष्णसारलक्षणो भूविशेषः प्रसन्नान्धस्यापि, अतस्तस्यापि रूपोपलब्धिः स्यादित्पत आह--तत्तृष्णापूर्वकेति ।
रूपोपभोगतृष्णा हि तत्साधनं कृष्णसारमपि विषयीकरोति ।
एतदुक्तं भवति--भूतविशेषः कर्मापेक्षो रूपं चष्ट इति चक्षुरित्युच्यते ।
कर्मक्षायात् तु प्रसन्नान्धस्य न रूपं चष्ट इति न चक्षुः ।
अस्तु गोलकमेव चक्षुः किमेतावतापीत्याह--न चेति ।
विच्छिन्नं हि गोलकमर्थादनुभूयत इत्यर्थः ।
तदेवं वस्तुनः सान्तरस्य ग्रहणमप्राप्यकारित्वे हेतुरुक्तम् ॥
केचित् तु सान्तरमिति ग्रहणविशेषणं हेन्तु ब्रुवते, तन्मतमुपन्यस्यति---अपरे त्विति ।
साध्यविपर्ययादस्य व्यतिरेकं दर्शयति--न हि प्राप्यकारिष्विति पक्षधर्मतामाह--दृष्टं त्विति ।
यच्चोक्तमप्राप्यकारित्वे साधनं पृथुतरग्रहणादिति, तद्विभजते--पृथुतरेति ।
द्व्याश्रयो हि संयोगो ऽल्पमेव संयोगिनमनुरुध्यते, न महान्तम् ।
न जातु रथादिसंयोगा नभो व्यश्नुवते, मा भूत् सर्वत्र रथादीनां तत्संयोगादीनां चोपलब्धिः ।
तेन यावन्मात्र राष्ट्रवनादेर्गोलकेन व्याप्तं तावन्मात्रस्य ग्रहणप्रसङ्गः ।
हेत्वन्तरमाह--दिगिति ।
अस्यापि व्यतिरेकमुखेन गमकत्वं दर्शयति---यदि प्राप्यकारीति ।
अपरमपि हेतुमाह---सन्निकृष्टेति ।
यद्यपि गतिक्षणानां प्रत्येकं स्पाश्रयस्य देशान्तरविभागसंयोगोपजननं प्रति क्षिप्रतया न विशेषः ।
स्वाश्रयप्रत्यासत्तौ चाविशेषः तथाप्या चापादानविभागात् आ च प्रापनीयदेशप्राप्तेरन्तरालवर्ती यावान् गतिक्षणप्रचयः पूर्वापरीभूतो गतिरिह विवक्षितः ।
तस्य सान्तरत्वं मन्दत्वं विलम्बः नैरन्तर्यं तु पाटवं क्षिप्रता ।
तामिमां गतिमभिन्दद् नैरन्तर्येण कुर्वदपि सन्निकृष्टमाशु प्राप्नोति ।
न विप्रकृष्टेन तुल्यकालम्, किं तु विप्रकृष्टं चिरेणेति ।
यथोक्तं दिग्रागेन--
सान्तरग्रहणं न स्यात् प्राप्तौ ज्ञाने ऽधिकस्य च ।
बहिर्वर्तित्वादिन्द्रियस्योपपन्नं सान्तरग्रहणमिति चेत्?
अत उक्तम्---
अधिष्ठानाद् बहिर्नाक्षं किं त्वधिष्ठानदेश एवेन्द्रियम् ।
कुतः?
तच्चिकित्सादियोगतः ॥
सत्यपि च बहिर्भावे न शक्तिर्विषयेक्षणे ।
यदि च स्यात् तदा पश्येदप्युन्मील्य निमीलनात् ॥
यदि च स्यात् उन्मील्य निमीलितनयनो ऽपि रूपं पश्येत्, उन्मीलनादस्ति बहिरिन्द्रियमिति ॥
तत्र वार्त्तिककारः सान्तरग्रहणादिति हेतुं विकल्प्य दूषयति--यत् तावदिति ।
सान्तरता खल्वप्राप्तिसाहचर्यात् ।
अप्राप्तिं लक्षयति---हेत्वर्थस्य प्रतिज्ञार्थेनाक्षिप्रत्वात् अमेदेन ।
तदुक्तम्--न प्रतिज्ञार्थाद् भिद्यत इति ।
हेतुप्रतिज्ञापदवाच्यत्वेन भेदमुपचर्याक्षेप्याक्षेपकभावो द्रष्टव्यः ।
तस्य व्यवधायकत्वादिति रूपवतो ऽप्रसादस्वभावस्य कुड्यादेरित्यर्थः ।
यत् तु प्रसादस्वभावं तेजः तन्न गृह्यते, किं तु तस्य रूपमात्रं विस्फारिताक्षण दृश्यते ।
तदाश्रयं च द्रव्यं साधयिष्यते ।
न च गुणो द्रव्यस्यान्तरम् ।
मा भूद् गन्धादिभिरन्तरं द्रव्यस्य, मा न भूतां च निरन्तरे द्रव्ये, स्वगुणाभ्यामन्तरितत्वात् ।
न चापातजन्मालोचनं वा विकल्पो वा द्रव्यानुमानं प्रतीक्षते येन रूपज्ञानानुमितं द्रव्यम् इन्द्रियर्थयोर्द्रव्ययोरन्तरं स्यात् ।
अपि च रूपमात्रमगृह्यमाणे द्रव्ये स्वतन्त्रं गन्धादिवद् गृह्यमाणं कथमन्तरा स्वाश्रयमनुमापयेत्, आकाशादीनामाश्रयाणमग्रहणात्? तस्माद् विषक्तावयवतेजोद्रव्याप्रत्यक्षत्वसमारोपमात्रेण दूषणं वक्ष्यमाणं त्वन्यथासिद्धत्वदूषणं पारमार्थिकं द्रष्टव्यम् ।
अथाभावो ऽन्तरशब्दवाच्य इति, नास्माकं मूर्तद्रव्याभावादन्यत् आकाशमस्तीति भावः ।
दूषयति--स स्वतन्त्रश्र्चक्षुर्विषयो न भवति इन्द्रियं चार्थं चान्तरा अभावो ग्राह्यः, तेन सहार्थस्य ग्रहणं सान्तरग्रहणम् ।
न चेन्द्रियार्थयोर्मध्यते कस्यचित् संयुक्तस्य वा समवेतस्य वा ग्रहणमस्ति, यत्तन्त्रो ऽयमभावो गृह्येत इति भावः ॥
स्यादेतत् ।
मा भूदान्तरालिकं संयुक्तं वा समवेतं वा विशेष्यं गृह्यमाणमेव तु रूपादिविशेष्यमिति ।
तत्तन्त्रो ऽयमभावः तद्विशेषणत्वेन रिरूपयिष्यते ।
ततश्र्च सान्तरग्रहणमुपपत्स्यत इत्यत आह--तेन सहोपलब्धाविति ।
प्रतीयते हि त्वगादिभिः अपीन्द्रियैः प्राप्यकारिभिरौष्ण्याभवविशेषण शिषिरतरं पाथः ।
न चेन्द्रियाणामत्राप्राप्यकारिता,
तस्मादनैकान्तिकम् ।
अन्वयाभ्युपगमेनैतदुक्तम् ।
अन्वयाभावे तु विरुद्धमिति भावः ।
न च तैजसं रूपमन्तरम्, येन सान्तरग्रहणं स्यादित्याह--न चान्या गतिरति ।
यथा चैतत् तथोपपादितमधस्तात् ।
ये तु सान्तर इति ग्रहणमिति हेतुमाहुः, तान् प्रति दूषणमाह---यैरपीति ।
अन्यथासिद्धत्वे हेतुमाह--शरीरेति ।
शरीरावच्छिन्नाः खल्वात्मानः शरीरायतनाः शरीरमेवात्मानमभिमन्याना अर्थाननुभवन्ति ।
तत्र य एव शरीरासंबद्ध इत्यनुभूयते तमेव सान्तर इति मन्यते ।
इन्द्रियसंबन्धो भवतु, मा वा भूत्, शरीरसंबन्धेन तस्य स्पर्शादौ न सान्तरत्वाभिमान इत्यर्थः ।
हेत्वन्तरं दूषयति--यदपीति ।
संबन्धमात्रेणेति ।
मात्रग्रहणं संबन्धचतुष्टयव्याप्त्यर्थम् ।
तद् यथा इन्द्रियेणार्थस्य संबन्धः, इन्द्रियावयवैरर्थस्य, अर्थावयवैरिन्द्रयस्य, इन्द्रियावयवैरर्थावयवानाम् ।
न चैतत् निर्यता विना पृथ्वग्रतां भवतीति पृथ्वग्रता सूचिता ।
यथा वर्तिदेशे पिण्डितमपि तेजः प्रसर्पत् प्रासादोदरं व्याप्नोति ।
तत् कस्य हेतोः? पृथ्वग्रत्वादिति ।
स्वभावतः प्रसरदपि न स्वपरिमाणानुविधायिनं प्रत्ययमाधत्ते, किं तु विषयभेदानुविधायिनम् ।
विषयनिरूपणाधीननिरूपणा हि प्रत्यया नेन्द्रियनिरूपणाधीननिरूपणाः ।
तदिदमुक्तम्---विषयभेदानुविधायी प्रत्यय इति ॥
अपरमपि हेतुं दूषयति--यत् पुनरिति ।
देहमर्थं चान्तरावस्थितस्य पृथिव्यादेः संयुक्तसंयोगाल्पीयस्त्वं भूयस्त्वं चापेक्षमाणस्येति ।
खगानां चोपर्युपरि संचरतां दूरान्तिकभावो बहुलतमालोकावयवभागानां संयुक्तसंयोगाल्पत्वभूयस्त्वाभ्यामवगन्तव्यः ।
स च तादृगालोकावयवी प्रत्यक्षो ऽन्यथा न रूपमात्रेण तदनुमानं शक्यमित्युक्तम् ।
न च खगानामुपर्युपरि संचरतां दूरन्तिकप्रत्ययः स्यात् ।
न च पतति पतत्रिणीह प्राप्तो नेहेति भवेत् ।
तस्मादन्यथासिद्धिरेव सहान्तरेण ग्रहणादितिवदत्रापि दूषणमिति द्रष्टव्यम् ॥
अपरमपि हेतुं दूषयति--यत् पुनरिति ।
युगपद्ग्रहणमसिद्धम्, तदभिमानस्तु अन्यथासिद्धः ।
अचिन्त्यो हि तेजसो लाधवातिशयेन वेगातिशयो यदुदयगिरिशिखरम् आरोहत्येव मार्तण्डमण्डले भवनोदरेष्वालोक इत्यभिमानो लौकिकानाम् ।
तादृशं चाक्षुषमपि तेज इति क्रमेणापि गच्छद् युगपत्तत्र तत्र लक्ष्यते ।
न चैकस्मादेव कर्मणो युगपद् दुरान्तिकसंयोगा भवन्तीति युक्तम् ।
तद्धि स्वकार्ये जनयितव्ये स्वाश्रयप्रत्यासत्तिम् अपेक्षते ।
अन्यथा मधुरास्थस्य देवदत्तस्य कर्म पाटलिपुत्रेण देवदत्तं योजयेत् ।
वेगाख्यसंस्कारजमपि कर्मन सहसा शरमन्तरालदेशेन च लक्ष्येण च योजयति ।
तस्मात् मिथ्यैव यौगपद्याभिमान इति ।
चोदयति--कथं पुनरिति ।
अस्ति हि शाखाचन्द्रमसोः ग्रहणे यौगपद्याभिमानः ।
न चायमसति बाधके मिथ्येति वक्तुं शक्यः ।
सो ऽयमबाधितो बोधो ऽवबोधयत्यप्राप्यकारितां चक्षुष इत्यर्थः ।
परिहरति--इदमिति ।
इन्द्रियं यद्यगत्वानागतमर्थं गृह्णीयात्, किमस्य कुड्यकटाद्यावरणमपकुर्यात् येन तदावृतं न गृह्णीयात् ।
गतौ तु स्पर्शवता प्रसादरहितेन सैवास्य प्रतिबद्धेति न प्राप्नोति विषयम्, अप्राप्तं च न गृह्णाति ।
प्रायोगस्तु, चक्षुःश्रोत्रे प्राप्य स्वविषये कार्यं कुरुतः, जनकत्वे सति तदप्राप्तावजनकत्वात् ।
यज्जनकं सद् यदप्राप्तौ यन्न जनयति तत् तत्प्राप्तावेव तज्जनयति, यथा कुम्भजनकः कुम्भकारो मृदो ऽप्राप्तावकुर्वन् कुम्भं तत्प्राप्तावेव करोति ।
तथा चैतत् ।
तस्मात् तथेति ॥
युक्त्यन्तरमाह--दूरान्तिकानुविधानमिति ।
दूरे नोपलभ्यते, अन्तिके च उपलभ्यते ।
अप्राप्तेरविशेषेण दूरे ऽप्युपलम्भः स्यात् ।
अनुपलम्भे वा अन्तिके ऽपि न स्यात् ।
प्राप्तौ तु दूरं गच्छत् प्रक्षीणं सत् प्राप्तमर्थं न गृह्णाति अतैजसम्, तैजसम् अप्यभिभूतं न गृह्णाति, यथोल्काप्रकाशं मध्यन्दिने ।
अनभिभूतं तु मार्तण्डमण्डलं गृह्णात्येवेति ।
चोदयति--विषयीभावादिति ।
योग्यो हि तादृश इन्द्रियक्षणः स्वकारणादुपजातः परिणतो वार्थक्षणश्र्च, ययोरप्राप्तयोरेव ग्रहणग्राह्यभावः ।
व्यवहितविप्रकृष्टौ च न तौ तादृशौ ।
तत् किमप्रतीयमानप्राप्तिकल्पनयेत्यर्थः ।
परिहरति---तच्च नैवमिति ।
निषत्स्येते हि क्षणभङ्गपरिणामौ भावानाम् ।
तेन स्थेमभाजां भावानां स्वरूपयोग्यता वा महत्त्वादिर्विषयीभावः सहकारिसाकल्यं वा ज्ञानोपजननं प्रति परिशिष्यते ।
तत्र स्वरूपयोग्यतामात्रं चेदास्थीयेत, तदा यदेवाव्यवहितं सन्निहितं सद् अजनयद् विज्ञानं विप्रकृष्टमपि व्यवहितमपि तदेवेति तथैव तेन ज्ञानं जनयितव्यम् ।
अस्ति हि तस्य तदापि स्वरूपयोग्यतेति, सहकारिसाकल्यं तु प्राप्तिरेव ।
तस्मात् न संबन्धमन्तरेण विषयीभाव इति सूक्तम् ।
सन्दिग्धः पृच्छति--अथ प्राप्यकारित्व इति ।
अयमभिसन्धिः ।
कुलालादौ प्राप्यकारिणि दृष्टं यथा विप्रकृष्टो व्यवहितश्र्च न करोतीति, तस्मात् अप्राप्यकारिणि चाचस्कान्तादौ दृष्टं यथा विप्रकृष्टो व्यवहितश्र्च लौहं मणिराकर्षति, तस्मात् तत्र प्रमाणं वक्तव्यमिति उत्तरम्--इन्द्रियत्वमेव प्रमाणम् ।
तदेव पञ्चावयवोपपन्नमाह--प्राप्यकारीति ।
यदि तु कश्र्चित् दृष्टान्तस्य साध्यविकलत्वम् उभ्दावयेत् त्वगादीनामप्राप्यकारित्वादिति, तु प्रत्याह--अथ पुनर्न किञ्चिदिति ।
पृच्छति--अथेति ।
योग्यतयैव हि कारणानि स्वकार्यं कुर्वन्ति, प्राप्तिस्तु स्वरूप्योग्यताप्रयुक्तां व्याप्तिमुपजीवति, न त्वस्याः स्वाभाविकं व्यापकत्वमिति भावः ।
उत्तरम्--सो ऽपीति ।
सहकारिसाकल्यं तावत् न प्राप्तेरतिरिच्यत इत्युक्तम् ।
केवलं स्वरूपयोग्यता वक्तव्या ।
स च व्यस्तानामप्यस्तीति यत्र तत्र व्यवस्थितेभ्यो ऽपि कार्योत्पादप्रसङ्कः ।
अयस्कान्तमणेरपि चक्षुष इव वृत्तिभेद एषितव्यः,
अन्यथा व्यवधानविप्रकर्षयोरपि लौहाकर्षणप्रसङ्गात् ।
न च व्यवधानविप्रकर्षाभावसहितो लौहमाकर्षति, व्यवधानविप्रकर्षयोस्तु तदभावाभावो नाकर्षति संप्रतम् ।
प्राप्तेरेव तत्र तत्र कार्योत्पादं प्रति उपयोगस्य विदितस्वात् ।
योग्यतामात्रस्य चोपाधेरपाकृतत्वात् ।
यथा च द्रव्यातिरिक्तस्तद्धर्मः प्राप्तिस्तथाग्रेनिवेदयिष्यते ।
तस्मात् सर्वमवदातम् ।
उपसंहरति--तस्मादिति ।
यदपि कृष्णसारानुग्रहोपघाताभ्यां दर्शनादर्शनादिति तत्रोच्यते, तदधिष्ठानमिन्द्रियमित्यधिष्ठानानुग्रहोपघाताभ्यां तस्यानुग्रहोपधातौ, यथा कूष्माण्डलतासेचनच्छेदनाभ्यां तत्फलस्य अनुग्रहोपघातौ ।
अत एव बहिर्निसृताप्यच्छिन्नमूला दृष्टिः कार्याय समर्था न छिन्नमूलेति सिद्धम् ॥
पृच्छति--अथ ज्ञानेति, प्रत्यक्षसमाख्यातलक्षणानुवादेन लक्षणे विधीयमाने ज्ञायत एवैतज्ज्ञानमेवेति लोके साक्षात्कारिज्ञानहेतोः प्रत्यक्षत्वादिति भावः ।
उत्तरम्---सुखादिव्युदासार्थम् ।
तदेव हि लक्षणवायमुच्यते, यस्य लक्ष्यानपेक्षो ऽतिव्याप्त्यव्याप्तिव्युदासो लक्षणपदेभ्य एव प्रतीयते ।
लक्ष्यानुरोधेन तु लक्षणव्यवस्थापने अन्योन्याश्रयत्वमगतिर्वेति भावः ।
सुखादीनां विज्ञानाभिन्नहेतुजत्वेन विज्ञानत्वादशक्यं व्यावर्तनमिति चेत्--न, अभिन्नहेतुजत्वासिद्धः ।
न खलु यैव चन्दनस्पर्शज्ञानस्योत्पत्तौ सामग्री सैव सुखस्यापीति ।
अस्ति हि शीतार्तस्यापि चन्दनेन्द्रियसंयोगात् शीतस्पर्शज्ञानम् इति तद्वदेवास्य सुखमपि भवेत् ।
अवान्तरसामग्रीभेदे ऽपीन्द्रियार्थमनस्कारजत्वात् ज्ञानजातीयत्वमिति चेत्---न, किञ्चित्कारणाभेदे ऽपि कार्यभेदस्यानाकस्मिकत्वोपपत्तेः ।
तदर्थत्वाच्च कारणभेदानुसरणप्रयासस्य ।
न चोपादानाभेदादभेद इति युक्तम् ।
भिन्नानामपि ज्ञानानामेकसमनन्तरप्रत्ययोपादानत्वस्य भवभ्दिरभ्युपगतत्वात् ।
अपि चोपादानाभेदश्र्च कुतश्र्चित् कारणभेदात् कार्यभेदश्चेति को विरोधः? अत एवास्माकमभेदे अप्युपादानस्य पिठरस्यौष्ण्यापराख्यस्य च वहिनसंयोगस्य पूर्वरूपादिप्रध्वंसानां कारणानां भेदाद् भिन्नजातीया जायन्ते गन्धरूपरसस्पर्शा इति सिद्धान्तः ।
तस्मादर्थप्रवणेभ्यो ज्ञानेभ्यस्तदप्रवणतया भिन्नजातीयाः सुखादयो यथास्वमुनकूलवेदनीयत्वादिभिर्लक्षणैरन्योन्यमपि भेदवन्तस्तीव्रसंवेगतया प्रमित्सानपेक्षमानसप्रत्यक्षप्रवेदनीया इति रमणीयम् ॥
स्यादेतत् ।
असत्यपीन्द्रियार्थसन्निकर्षे ज्ञानमात्रादेव सुखदुःखयोः स्वप्नान्तिके दर्शनात्
यत्रापीन्द्रियार्थसन्निकर्षस्तत्रापि ज्ञानमस्तीति तदेव सुखदुःखयोः कारणं क्लुप्तसामर्थ्यात् ।
इन्द्रियार्थसन्निकर्षस्य तु ज्ञानमात्रोपयोगादन्यथासिद्धौ भावाभावाविति ।
तदयुक्तम्, स्वप्नान्तिके सुखदुःखोत्पादस्यासिद्धेस्तज्ज्ञानस्यार्थज्ञानस्येव मिथ्यात्वात् ।
यथा हि तत्र कामिनीस्मृतिविषर्यास एव मुपलब्धचरतज्जन्मसुखस्मरणविपर्यासः ।
सुखदुःखबुद्ध्युत्पाद एव चात्र धर्माधर्मोपयोगो न तु सुसदुःखोत्पादे ।
न चासतीन्द्रियार्थसन्निकर्षे ज्ञानमन्यन्मनोरथादि वा तादृशं सुखभेदं विधत्ते यादृशो विषयोपभोगजन्मा ।
सतीन्द्रियार्थसन्निकर्षे ज्ञानमात्रमेव तस्य हेतुः ।
ज्ञानहेतुस्तु सुखभेदस्यानुत्पादादित्यप्युक्तमेव ।
विषयसाक्षात्कारस्तदुत्पादहेतुर्न विषयज्ञानमात्रमिति चेत्? हन्तर्, इश्वरस्याप्यस्ति तत्रभवतो योगर्द्धिसंपन्नानां च महाधियां समस्तवस्तुसाक्षात्मार इति तेषामपि सुखदुःखोत्पादप्रचयः प्रसज्येत्, असत्यां प्रतिपक्षधारणायाम् ।
तस्मादिन्द्रियार्थसन्निकर्षो ऽपि सुखदुःखोत्पादहेतुरेषितव्यः ।
स च सत्यप्यर्थसाक्षात्कारे नास्ति सिद्धानामिति न तेषां सुखदुःखोत्पादः ।
अपि च चरमभावि कारणं गृहीत्वा पूर्वभाविनामकरणत्वापादने तन्त्वादीनामपि पटादीन् प्रत्यकारणत्वप्रसङ्गः ।
संयोगभेदादेव तादृशपटात्पत्तेः तन्त्वादीनां च संयोगभेद एवोपयोगात् ।
तत्सहितस्य तु तत्कारणत्वं सन्निकर्षस्याप्यालोचनसहितस्येति समानम् ।
यथाहुः पदार्थविदः स्त्रगाद्यभिप्रतविषयसान्निध्ये सतीष्टोपलब्धीन्द्रियार्थसन्निकर्षधर्माद्यपेक्षादात्ममनसोः संयोगात् यदनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमत्पद्यते तत्सुखम् इति ।
तस्मात् सुष्ठूक्तं सुखादिनिवृत्त्यर्थं ज्ञानग्रहणमिति ॥
इह द्वयी प्रत्यक्षजातिरविकल्पिका सविकल्पिका चेति ।
तत्रोभय्यपि इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यभिचारीति लक्षणेन संगृहीतापि स्वशब्देनोपात्ता, तत्र विप्रतिपत्तेः ।
तत्राविकल्पिकायाः पदम् अव्यपदेश्यमिति, सविकल्पिकायाश्र्च व्यवसायात्मकमिति ।
तत्र व्यपदेशो विशेषणमुपलक्षणं वा नामजात्यादि, तत् कर्म व्यपदेश्यं विशेष्यमिति यावत् ।
तद्यथा डित्थो ऽयं गौरयं शुक्लो ऽयं कमण्डलुमानयं गच्छत्ययमिति सर्वं हि सविकल्पकं विशेषणविशेष्यभावेन वस्तुषु प्रवर्तते ।
अविद्यमानं व्यपदेश्यं यस्मिस्तदव्यपदेश्यं जात्यादिस्वरूपावगाहि, न तु जात्यादीनां मिथो विशेषणविशेष्यभावावगाहीति यावत् ॥
तत्र नामरहितमविकल्पकं नास्तीति ये विप्रतिपद्यन्ते तन्मतमपचिकीर्षुरूपन्यस्यति भाष्यकारः यावदर्थं वै नामधेयशब्दाः ।
सर्वे ऽर्थाः सर्वथा सर्वदा सर्वत्र नामधयान्विताः ।
नास्ति सो ऽर्थो यः कदाचित् क्वचित् कथञ्चित् नामधेयेन वियुज्यते ।
तदनेन नामधेयतादात्म्यमर्थानां प्रतिजानीते ।
अत्र हेतुमाह--तैरर्थसंप्रत्यय इति ।
अर्था हि प्रतीयमानां नामधेयैरूपेतास्तत्सामानाधिकरण्येनावगम्यन्ते गौरित्यर्थो ऽश्व इत्यर्थ इति ।
न चोपायतया सामानाधिकरण्यं घटते ।
न हि चक्षुरादिसामानाधिकरण्यं रूपाद्यनुभवति ।
नापि ज्ञायमान उपाय उपेयसामानाधिकरण्मनुभवति ।
न हि भवति धूमो ऽयं वहिनरिति किं तु धूमो ऽयं धूमत्वात् वहिनमानिति ।
अपि चाशब्दोपाये ऽनुमेयादौ न शब्दसंभेदेनाधिगमो भवेत्, अस्ति तु ।
तस्मात् तैर्नामधेयैः सह समानाधिकरणस्यार्थस्य प्रत्ययो यत इति ।
तस्मात् नामधेयात्मानः अर्थाः ।
किं च गवादिषु षड्जादिषु च शब्दापकर्षे ऽर्थप्रत्ययापकर्षात् तदुत्कर्षे त्वर्थप्रत्ययोत्कर्षात् प्रत्ययस्य च प्रत्येतव्योत्कर्षाधीनोत्कर्षत्वात् नामधेयोत्कर्षेणार्थस्योत्कर्षः अर्थस्य तादत्म्यं गमयति ।
तदिदं समः प्रयोजनं संप्रत्यय इति समधिकः प्रत्यय इत्यर्थः ।
अस्त्यर्थसंप्रत्ययो नामधेयसामानाधिकरण्येन, न त्वेतावता नामधेयात्मता सिध्यति ।
अस्ति हि पुरोवर्तिद्रव्यसामानाधिकरण्येन रजतप्रत्ययो न चैतावता शुक्ती रजतात्मिका भवतीत्यत आह---अर्थसंप्रत्ययाच्च व्यवहारः ।
ततश्र्चविसंवादात् प्रमाणं सन्नामधेय तादत्म्यं साधयत्यर्थानामित्यर्थः ॥
तदेवं सामान्यतो ऽर्थानां नामधेयतादात्म्यं व्युत्पाद्य प्रकृते योजनयति---तत्रेदमिन्द्रियार्थसन्निकर्षादुत्पन्नं विषयज्ञानं रूपमिति वा रस इति वा एवं रूपाद्यर्थसामानाधिकरण्येन भवति ।
भवतु, किमेतावतापीत्यत आह---रूपरसशब्दाश्र्च विषयनामधेयम् ।
किमेतावतापीत्यत आह--तेन व्यपदिश्यते ज्ञानम् ।
उक्तमपि व्यपदेशं सव्याख्यानमाह--रूपमिति जानीते रस इति जानीते इति ।
तथा चार्थानां नामधेयात्मकत्वात् तद्गोचरमालोचनमपि नामधेयगोचरमित्यर्थवत् नामधेयेन व्यपदिश्यमानं शाब्दं प्रसज्यत इति ।
न शब्दप्रमाणकतया शाब्दम्, अपि तु शब्दे जातं शाब्दम् ।
शब्दश्र्चात्र विषयत्वेन जनको ऽर्थतादात्म्यात् ।
तथा च नाविकल्पकं शब्दरहितमस्तीति तात्पर्यार्थः ।
तथा चाहुः,
न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते ॥
बालकमूकादीनामपि ज्ञानं शब्दानुव्याधवदेवानादिशब्दभावनावशात् ।
यदवोचत्,
आद्यः करणविन्यासः प्राणस्योर्ध्वं समीरणम् ।
स्थानानामभिघातश्र्च न विना शब्दभावनाम् ॥
इति ।
तदस्य निराकरणं लक्षणगतेनालोचनज्ञानावरोधार्थेनाव्यपदेश्यपदेन सूचितम् इति परीक्षापर्वणि वचनार्हमपि सुभाषितरुचितया तद्विलम्बमसहमानो भाष्यकारो लक्षणावसर एवाह ।
अत एवाह---अव्यपदेश्यमितीति ।
तेन सूचिते ऽप्यर्थे अव्यपदेश्यपदं चोजयति---यदिदमनुमयुक्ते शब्दार्थसंबन्धे ऽर्थज्ञानम्, न तत् नामधेयशब्देन व्यपदिश्यते ॥
अयमभिसन्धिः ।
सामानाधिकरण्येन शब्दात्मकत्वं रूपादीनामभिधीयानं शब्दब्रह्मात्मकत्वं वोच्येत श्रेयमाणगौरित्यादिपदभेदात्मकत्वं वा? न तावदाद्य ।
कल्पः ।
न सल्वस्मदादिसमस्तदर्शनपथातिवृत्तेन शब्दब्रह्मणा रूपादीनामस्ति सामानाधिकरण्यप्रतीतिः लौकिकानाम् ।
श्रूयमाणशब्दसामानाधिकरण्येन तु तादात्म्यप्रसाधने अनुपयुक्तशब्दसंबन्धस्य बालमूकादेः रूपादिज्ञानेषु नास्ति श्रूयमाणशब्दगन्धो ऽपि, प्रागेव तु तत्सामानाधिकरण्यम् ।
न च तेषामपि प्राग्भवीयशब्दभावनानुगमेन तत्सामानाधिकरण्यमिति सांप्रतम् ।
न खलु रूपाद्यात्मनः शब्दस्य रूपादिवैशद्यैनावैशद्यं संभवति ।
युगपद् वैशद्यावैशद्यरूपविरुद्धधर्मयोगेन भेदप्रसङ्गात् ।
वेशद्ये तु व्युत्पन्नवदव्युत्पन्नो ऽपि शब्दैः व्यवहरेत्, न तु संबन्धग्रहणपेक्षेत ।
न च तादात्म्यादन्यद् वाचकत्वं शब्दानां यत्र संबन्धग्रहापेक्षा भवेत् ।
न च तादात्म्ये ऽपि कल्पितभेदानां वाच्यवाचकभावः ।
तथा सति न सामानाधिकरण्यं स्यात् ।
न ह्यस्ति संभवो भेदकल्पना च सामानाधिकरण्यप्रथा चेति ।
तस्मादव्युत्पन्नानामस्ति शब्दरहितं रूपादिषु निर्विकल्पकं प्रत्यक्षमिति ।
न केवलमब्युत्पन्नानाम्, व्युत्पन्नानामप्यस्तीत्याह--गृहीते ऽपि च शब्दार्थसंबन्धे इति ।
आर्द्धेक्त एव सामानाधिकरण्यनिरासाय संबन्धग्रहणस्वरूपमाह--अस्थार्थस्य सास्नादिमद्रूपस्य अयं गकराद्योकारो नामधेयमिति ।
इतिकरणो ज्ञानपरामर्शप्रधानः ।
तथा च यो डित्थो नानादेशकालावस्थासंसृष्टः पिण्डभेदः सो ऽयमिति सन्निहितदेशकाल इत्यर्थः ।
न त्वयं पिण्डो डित्थशब्द इति प्रत्ययः ।
औत्सर्गिकं हि शब्दानामर्थपरत्वं क्वचित् पुनरित्यादिभिः शब्दैस्तदपोद्यते ।
यत्रापि संबन्धप्रतिपादनमभेदेन अयं डित्थ इति, तत्रापि शब्दो वाच्यत्वपरो न स्वरूपपरः यथा गौर्वाहीक इति लक्ष्यमाणगुणयोगपरः ।
न च तन्मात्रेण वाहीकस्य गोत्वं भवति ।
तस्माद् भिन्नयोरेव शब्दार्थयोः संबन्धग्रहात् तन्मूलत्वाच्च शब्दव्यवहारस्य न शब्दपुरःसरमपि ज्ञानं शब्दसामानाधिकरण्यमात्मनो ऽर्थस्यावगमयति ।
यत्तु शब्दानुपाये ऽपि ज्ञाने शब्दः पूर्वं भवति तद्गृहीतसङ्केतस्य प्रथममिन्द्रियार्थसन्निकर्षादालोचनेन शब्दसंसर्गरहितेनालोचिते ऽर्थमात्रेतस्यार्थभेदस्य शब्दभेदेन संबन्धात् शब्दविषयः संस्कारः प्रबोध्यते ।
प्रबुद्धः शब्दस्मृतिं जनयति ।
तेन व्युत्पन्नस्य निर्विकल्पकात् पराञ्चः प्रत्ययाः शब्दानुपाया अपि शब्दपुरःसरा जायन्ते ।
यथाहुः,
यत् संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् ।
पिण्ड एव हि दृष्टः सन् संज्ञां स्मारयितुं क्षमः ॥
तस्माद् व्युत्पन्नस्यापि नामधेयस्मरणाय पूर्वमेषितव्यो विनैव नामधेयमर्थप्रत्ययः ।
तदिदम् उक्तम्--गृहीते ऽपि शब्दार्थसंबन्धे अस्यार्थस्यायं शब्दो नामधेयमिति ।
यदा तु सो ऽर्थो गृह्यते नामधेयरहितो नामधेयस्मरणात् पूर्वमविकल्पेन तदा पूर्वस्माद् अव्युत्पन्नावस्थायाम् अर्थज्ञानात् न विशिष्यते इति ।
यतो न विशिष्यते तस्मात् तदर्थज्ञानं तादृगेव भवति ।
ननु परप्रतिपादनादिलक्षणव्यवहाराय स्वरूपेण ज्ञाने व्यपदेष्टव्ये यदर्थव्यपदेशेन व्यपदिश्यते तदवगच्छामो ऽर्थव्यपदेशाकारमिति ।
कथं चार्थाकारं भवति? यद्यर्थव्यपदेशयोर्नाभेदः, तस्मात् पुनरपि तादात्म्यं प्रसक्तमित्यत आह--तस्य त्विति ।
अर्थाकारमेव तु ज्ञानमर्थव्यपदेशेन व्यपदिश्यते अन्यथा अशक्यत्वादित्यर्थः ।
प्रतीयमानं परेण ।
उपसंहरति--तस्मादिति ॥
तदेवमर्थज्ञानकाले # स # न समाख्याशब्दो व्याप्रियते प्रतीयमानतया, व्यवहारकाले तु परप्रत्यायनकाले तु व्याप्रियते कारणतया ।
तदनेन गोपालाविपालादीनां संज्ञानिवेशनं तासु तासु व्यक्तिषु व्यवहारोत्कर्षहेतुः
नार्थोत्कर्षहेतुरित्यपि सूचितं भवति ।
तस्माद् अविकल्पकप्रत्यक्षावरोधार्थेनाव्यपदेश्यपदेनास्यैवाविकल्पकस्य शब्दानुव्याधरहितता सूचिता इत्याशयवान् उपसंहरति---तत्मादिति ॥
तदेतद् भाष्यं वार्त्तिककारः तात्पर्यतो व्याचष्टे---तच्चेन्द्रियार्थेति ।
विषयभेदानुविधायि ज्ञानमिति शब्दात्मतामपारोति ।
चाक्षुषं हि रूपज्ञानं रूप एव नियतं न शब्दे प्रवर्तते ।
एवं श्रौत्रमपि शब्द एव नियतं न रूपादौ प्रवर्तते ।
यदि पुनरिदं शब्दात्मकं रूपादि भवेत्, श्रोत्रजं ज्ञानं शब्दग्राहीति रूपादावपि प्रवर्तेत ।
अप्रवर्तमानं वा विधुरयति रूपादीनां शब्दात्मताम् ।
अपि च श्रूयमाणशब्दात्मत्वे रूपादीनाम्, तेषामपि श्रवणग्राह्यत्वमित्यन्धो ऽपि रूपु गृह्णीयात् ।
अस्ति हि तस्य श्रोत्रं च शब्दज्ञानं च ।
एवं बधिरो ऽपि शब्दं गृह्णीयात् ।
अस्ति हि तस्य लोचनं च रूपज्ञानं च ।
अशब्दो ऽभाव इति च विवक्षितविपरीतापत्तिः शब्दाभावस्यार्थस्य शब्दत्वात्, अशब्दत्वे वा स एवास्यार्थः शब्दाद् भिन्नः प्रसज्यते ।
एवमभावो ऽप्यर्थ इति शब्दः स्यात् ।
तथा च नाभावः, शब्दस्य सत्त्वात् ।
तथा चार्थानुविधायि विज्ञानं न भवेत् ।
अस्ति च ।
तस्मात् न शब्दात्मानो ऽर्था इति ।
तदुत्पत्तिकाल इति प्राथम्येन शब्दानुव्याधं व्यावर्तयति ॥
एकदेशिव्याख्यानमाह---अपरे त्विति ।
इन्द्रियार्थसन्निकर्षेण हि लिङ्गेन यदिन्द्रियगातिज्ञानं तदपि प्रत्यक्षलक्षणोपेतमिति प्रत्यक्षं प्रसज्यत इति तन्निवारणाय अव्यपदेश्यपदम् ।
अपदेशो हेतुवचनम् ।
तदेव तदाभासेभ्यो विशिष्टं व्यपदेशः ।
तस्य कार्यं हेतुप्रत्यायनद्वारा अनुमेयज्ञानं व्यपदेश्यम् ।
न व्यपदेश्यमव्यपदेश्यमलिङ्गोभ्दवम् इत्यनुमानं व्यावर्तितमित्यर्थः ।
तदेकदेशिमतं दूषयति---तच्च नैवमिति ।
नन्विन्द्रियगतिज्ञानमपि इन्द्रियार्थसन्निकर्षाल्लिङ्गादुत्पन्नमित्यत आह---न ह्यनुमेयस्येति नैतदिन्द्रयार्थसन्निकार्षादुपजायते, किं तु तज्ज्ञानात् ।
अत एवातीते ऽपि धूमादौ लिङ्गे तत्स्मरणमात्रादेवानुमेयज्ञान भवति ।
न च सन्निकर्षपदस्य मुख्यत्वे संभवति ज्ञानलक्षणा युक्तेत्ति भावः ।
उपसंहरति--अत इति ।
इमं च वार्त्तिकग्रन्थमबुध्यमाना इन्द्रियगतिज्ञाननिवृत्त्यर्थमिन्द्रियविषयेष्विति पदं सूत्रे ऽध्याहरन्तीति ॥
क्रमप्राप्तस्याव्यभिचारिपदस्य तात्पर्यं ब्रूवाणो भाष्यस्यापि तात्पर्यमाह--ग्रीष्मे मरीचय इतीति ।
यद्यपि सामान्यलक्षणेनैव व्यभिचारिणो निरस्ताः प्रत्ययाः तदपेक्षं च विशेषलक्षणम्, अन्यथा अनुमानादिपदेष्वप्यभिचादिपदमुपादेयं स्यात्, तथापि सिद्धे सत्यारम्भो नियमार्थः ।
द्वयी हि प्रमाणानां गतिः ।
किञ्चित् सत्तामात्रेणप्रमासाधनं यथा प्रत्यक्षम् ।
न हि चक्षुरादीनां ग्रहणमुपयुज्यते, अपि तु सत्तैव ।
अनुमानादीन तु स्वज्ञानेन प्रमासाधनानि ।
न खल्वगृहीतं लिङ्गं वा शब्दो वा आगमसहितं सादृश्यं वा यथाविषयम् आदधाति प्रमाम् ।
तत्रानुमानस्य प्रमोपजननात् प्रागेव अर्थाव्यभिचारग्रहणमपेक्षते नान्यथा ।
ततः प्रमा सिध्यतीति ।
शब्दादौ तु यद्यपि प्रमोपजननं प्रति नार्थाव्यभिचारग्रहापेक्षा, तथापि शक्यमतिरोहितार्थमन्त्रमध्यपतितस्य द्रागित्येव प्रतीयमानार्थस्यापि,
सृण्येव जर्भरी तुर्फरीतू ॥
इत्येवमादेर्मन्त्रस्याप्तप्रणेतृकतया सामान्यतो ऽर्थाव्यभिचारित्वं ग्रहीतुम् ।
औत्सर्गिकं हि शब्दानामर्थपरत्वम् ।
अत एव निगमनिरुक्तव्याकरणसहायास्ततो ऽर्थमवधारयन्ति ।
एवं यथा मुद्गस्तम्बस्तथा मुद्गपर्णीति आप्तवाक्यश्रवणादेव मुद्गस्तम्बसादृश्यज्ञानस्यानुपजनितफलस्यापि शक्यं तदर्थाव्यभिचारित्वं निश्र्चेतुम् ।
प्रत्यक्षस्य तु प्रमाणस्यात्यन्तपरोक्षस्वरूपोलम्भ एव तावत् प्रमोपजननात् प्राग् दुर्लभः, प्रागेत तु तस्यार्थाव्यभिचारित्वम् ।
यद्यपि च संवेदनप्रामाण्यपक्षे ऽपि तत्संवेदनं मनसा सुलभम्, तथापि न तन्मात्रं प्रमाणम् ।
अपि तु असाधारणेन्द्रियार्थसन्निकर्षसहायमिति तत्सहायस्य तस्य परोक्षत्वमेव ।
तेन प्रत्यक्षस्य प्रमाणस्य फलाव्यभिचारेणैवाव्यभिचारज्ञानम्, न स्वरूपतः इत्येतत् प्रमाणान्तरेभ्यो व्यावृत्तमसाधारणं प्रत्यक्षस्य रूपमादर्शयितुमव्यभिचारिपदोपादानम् ।
अथ वा प्रत्यक्षाव्यभिचार एवानुमानाद्यव्यभिचारे कारणम् ।
न ह्यस्ति संभवो ऽव्यभिचरितप्रत्यक्षगृहीतपक्षधर्मताकं तर्कसहायप्रत्यक्षगृहीताविनाभावं चानुमानं व्यभिचारतीति ।
यत्तु बाधितविषयं सत्प्रतिपक्षितं चानुमानम्, तदपि यद्यपि प्रथमं व्याप्तिग्रहणदोषेण न खण्डितम्, तथापि खण्डनोत्तरकालं सो ऽपि प्रतीयते ।
तथा च व्याप्तिग्राहि प्रत्यक्षं तत्रापि व्यभिचारीति ।
एवमागमो ऽपि साक्षात् क्वचित् पारम्पर्येण प्रत्यक्षपूर्वकस्तद्व्यभिचारेणैव व्यभिचरति ।
आगमव्यभिचारेणैवोपमानव्यभिचारो व्याख्यातः ।
तदेवं प्रत्यक्षाव्यभिचारे प्रमाणानामव्यभिचारो ऽस्तीति प्रत्यक्षस्यैव विशेषणमव्यभिचारिपदं चकार, नेतरेषां प्रमाणानाम् ।
न ह्यस्ति संभवस्तन्मूलं प्रत्यक्षम् अव्यभिचारि, तानि च व्यभिचारीणीति ।
सो ऽयं विशेषः प्रमाणान्तरेभ्यः प्रत्यक्षस्य ।
यथाह मीमांसावार्त्तिककारः,
प्रत्यक्षाव्यभिचारेण स्वलक्षणबलेन च ।
प्रसिद्धाव्यभिचारित्वान्नानुमानं परीक्ष्यते ॥
इति ।
तस्मात् सुष्ठूकं ग्रीष्मे मरीचय इति भाष्यम्, तत्प्रतिषेधार्थमिदमुच्यते---अव्यभिचारीति ॥
पृच्छति--किमिदमिति ।
उत्तरम्--यदतस्मिन्निति ।
एतच्चोपपादितं द्वितीयसूत्रे ।
पुनः दूषयति--तच्च नैवमिति ।
पृच्छति--कस्मात्? उत्तरम्--अर्थस्येति ।
तदेव स्फोरयति--यत्तदिति ।
अत्र च न निर्विकल्मकं भ्रान्तम्, किं तु सविकल्पकमित्याह--तांस्तु मरीचीनिति ।
इन्द्रियेणालोच्य मरीचीन् उच्चावचमुच्चलतो निर्विकल्पकेन गृहीत्वा पश्र्चात् तत्रोपघातदोषाद् विपर्येति, सविकल्पको ऽस्य प्रत्ययो भ्रान्तो जायते इति ।
तस्माद् विज्ञानस्य व्यभिचारो नार्थस्येति ।
यथाहुः निरुक्तकाराः, नैष स्थाणोरपराधो यदेनमन्धे न पश्यति ।
पुरुषापराधः स भवतीति ॥
अव्यभिचारिपदेनैव संशयज्ञानमपि व्युदस्तम् ।
नो खलु संशयज्ञानं विकल्प्यमानवस्तुगोचरं तद्रूपं वस्तु प्रापयति ।
अप्रापयच्चोपदर्शितं कथं संवादम्, असंवादकं च कथमव्यभिचारि? तस्मादव्यभिचारिपदेनैव संशयज्ञाने निरस्ते सविकल्पकप्रत्यक्षावदोधार्थमुपादीयमानं व्यवसायात्मकपदं संशयज्ञानप्रत्यक्षतापाकरणमन्वाचिनोति ।
तद्यथा एधानाहर्तुमरण्यं गच्छ, शाकमप्यानेष्यसीति शाकानयनमन्वाचीयते ।
न च तदेवास्य प्रेषितुर्वि धित्सितम्, तथेहापि ।
व्यवसायात्मकपदं साक्षात्सविकल्पकस्य वाचकम् ।
तथा हि व्यवसायो विनिश्र्चयो विकल्प इत्यनर्थान्तरम् ।
स एवात्मा रूपं यस्य तत् सविकल्पकं प्रत्यक्षम् ।
तदेतदतिस्फटत्वात् शिष्यैर्गम्यत एवेति भाष्यवार्त्तिककाराभ्याम् अव्याख्यातमपि अस्माभिः,
त्रिलोचनगुरुन्नीतमार्गानुगमनोन्मुखैः ।
यथान्यायं यथावस्तु व्याख्यातमिदमीदृशम् ॥
स्यादेतत् ।
न व्यवसायात्मकं प्रतयक्षं भवितुमर्हति ।
अभिलापसंसर्गयोग्यप्रतिभासं हि तत् ।
न चेन्द्रियार्थाभ्यां लब्धजन्म विज्ञानमर्थावभासं शक्यमभिलापेन योजनयितुम् ।
न ह्यर्थे शब्दाः सन्ति, अर्थात्मनो वा, तथा सत्यव्युत्पन्नस्यापि व्युत्पन्नवद् व्यवहारः स्यादित्युक्तम् ।
न चाभिलापो ऽर्थासंस्पर्शो संवेदनधर्मः, अर्थेषु तन्नियोजनात् ।
तस्मादर्थादुपजायमानं ज्ञानमर्थमेवादर्शयेत् नाभिलापम् ।
न हि रूपात् जायमानं प्रत्यक्षं रससहितमेतदादर्शयति ।
तस्मादभिलापसंसर्गानपेक्षमभिलापसंसर्गिणमादर्शयद् विकल्पविज्ञानं विकल्पवासनोत्थापितमनियतार्थग्राहि मानसमात्मीयमुत्प्रेक्षालक्षणं व्यापारं तिरस्कृत्यानुभवप्रभवतया अनुभवव्यापारं दर्शनु पुरस्कृत्य प्रवर्तमानमनुभवतया अभिमन्यन्ते प्रतिपत्तारः ।
तत् सिद्धमेतत्, यदर्थसामर्थ्यलब्धजन्म, न तत् शब्दकल्पनानुगतम्, यथा निर्विकल्पकम् ।
अर्थसामर्थ्यलब्धजन्मारश्र्च विवादाध्यासिता विकल्पा इति प्रसङ्गसाधनविरुद्धव्याप्तोपलब्धिः ।
शब्दकल्पनानुगतत्वस्य हि प्रतिषेध्यस्य विरुद्धं तदननुगतत्वम्, तेनार्थसामर्थ्यजत्वं व्याप्तम् ।
तस्योपलब्धिस्तदननुगतत्वमुत्थापयन्ती तदनुगतत्वं विरूणद्धीति ।
अथैषां प्रत्ययानां प्रत्यक्षमभि लापानुगतत्वमशक्यापह्नवम्, हन्त भोः, नार्थसामर्थ्यजत्वमिति प्रसङ्गविपर्ययः ।
तथा हि यदभिलापकल्पनानुगतं न तदर्थसामर्थ्यजं यथेश्वरप्रधानादिविकल्पविज्ञानम् ।
तथा चैते विवादाध्यासिता विकल्पा इति व्यापकविरुद्धोपलब्धिः ।
निषेध्यमर्थसामर्थ्यजत्वं तदभिलापकल्पनाननुगतत्वेन व्याप्तं तद्विरुद्धं च सदनुगतत्वमिति ।
न च सन्दिग्धव्यतिरेकिता, अर्थसामर्थ्येन हि तदुत्पद्यमानमर्थरूपम् अनुकुर्याद् न शब्दरूपम् ।
न ह्यर्थे शब्दाः सन्ति तदात्मानो वेत्युक्तम् ।
असंबद्धरूपानुकारे तु विज्ञानस्य सर्वरूपानुकारेण सर्वसर्वज्ञातापत्तिरति ।
सङ्केतवशात् शब्दानामर्थसंबन्धेनार्थोपलब्धौ तत्स्मरणात् तत्संसृष्टवेदनमिति चेत्? यत्र तर्हि ते कृतसङ्केताः तदेव स्मारयेदेतान् ।
तत्रैव च ते कृतसङ्केता यदनुगतं सामान्यम् ।
न च तद्दृष्टम्, किं तु स्वलक्षणं दर्शनगोचरः ।
तदेव हि परमार्थसद्विज्ञानस्य कारणम्, न तु सामान्यम् ।
सर्वसामार्थ्ययहितं हि तत् अलीकत्वात् ।
तस्माद् यद् द्ष्टं न तेन शब्दानां संबन्धः, येन च संबन्धो न तद्दृष्टम् ।
अपि च दृष्टस्य शब्दवाच्यत्वे दर्शनादिव वहिनरुष्ण इति वाक्यादपि प्रतीयेत ।
तथा च शब्दादपि तस्मिन् प्रतीते शीतापनोपनप्रसङ्गः ।
सामान्यविषयौलिङ्गशब्दौ वस्तुभूतसामान्यवच्च स्वलक्षणम् ।
तादृशं च तद्दर्शनस्य कारणमिति निर्विकल्पकेन प्रथमाक्षतन्निपातजन्मना जातिमद्वस्तुवेदनात् तत्रोपलब्धचरसंबन्धस्य शब्दस्य स्मरणम् ।
तथा च तच्छब्दाभिधेयजातिविशिष्टद्रव्यावगाहीन्द्रियार्थसन्निकर्षजन्मा विकल्पप्रत्ययो गौरयमित्येवमाकारो जायत इति चेत्? यथाहुः,
निर्विकल्पकबोधेन द्व्यात्मकस्यापि वस्तुनः ।
ग्रहणम् # श्लो. वा. प्रत्यक्ष. 118 #
तथा ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया ।
बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन संमता ॥
# श्लो. वा. प्रत्यक्ष. 120 # इति ।
तन्न, पिण्डविवेकेन जात्यादेरविकल्पकेनाग्रहणात् ।
न हि जातिजातिभन्तौ वा क्रियाक्रियावन्तौ व गुणगुणिनौ वा तत्समवायो वा विवेकेन चकासति ।
न च विवेकेनाप्रतिभासमानः शक्या मिथो योजयितुं क्षीरोदकवदतद्वेदिना ।
तस्मादेकमविभागं स्वलक्षणमनादिविकल्पवासनासमारोपितजात्यादिभेदं तथा विकल्प्यत इति युक्तमुत्पश्यामः ।
अपि च परमार्थसद्वस्तुद्वयवेदने ऽपि कुतो विशेषणविशेष्यभावः? न ह्यङ्गुल्यावेकविज्ञानविषयौ मिथो विशेषणविशेष्यभावमापद्येते ॥
विशेषण खलूपकारकम्, उपकार्यं च विशेष्यम् ।
नान्यथा तयोस्तभ्दावः ।
न चैकविज्ञानसमारूढयोर्ज्ञाप्यज्ञापकभावो वा कार्यकारणभावो वा संभवी, समानकालयोः तयोरूभयोरपि पौर्वापर्यनियमात् ।
अपि च वस्तुनिवेशे जात्यादीनामुपाधीनामेकस्य वस्तुनः सत्त्वं च द्रव्यत्वं च पार्थिवत्वं च वृक्षत्वं च शिंशपात्वं चोपाधय इति दूरादेकोपाधिविशिष्टस्य ग्रहे सर्वोपाधिविशिष्टग्रहप्रसङ्गः ।
तथा ह्याधाराधेयभाव उपकारगर्भो भवति ।
पतनधर्मणो हि बदरस्योत्तरस्य कुण्डमधरं प्रतयासन्नमपतनधर्मकं बदरं विदधदाधारः ।
तद्वदिहापि द्रव्येण जात्यादीनामुपाधीनामुपकर्तव्यम् ।
न च शक्त्यन्तरैरूपकरोति ।
शक्त्यन्तरपकारे ऽपि शक्त्यन्तरौकल्पनायाम् अनवस्थापातात् ।
तस्मात् स्वभाव एव स्वकारणाधीनजन्मा द्रव्यस्य स तादृशो येन बहूनामुपाधीनामुपकरोतीति वाच्यम् ।
तथा च सत्त्वोपकारसमर्थें तस्मिन् द्रव्ये गृह्यमाणे द्रव्यत्वाद्युपकारसमर्थो ऽपि स एवास्य स्वभाव इति तत्स्वभावावच्छिन्नाः सत्त्वविकल्पकेन परमार्थसद्द्रव्यावगाहिना सर्व एव द्रव्यत्वपार्थिवत्ववृक्षत्वशिशपात्वादयो विषयीकृता इति विकल्पान्तराणामानर्थक्यम् ।
यदाह,
यस्यापि नानोपाधेर्धीग्राहिकार्थस्य भेदिनः ।
नानोपाध्युपकाराङ्गशक्यभिन्नात्मनो ग्रहे ।
सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्र्चितः ॥
एकोपकारके ग्राह्ये नोपकारास्ततो ऽपरे ।
दृष्टे तस्मन्नदृष्टा ये तद्ग्रहे सकलग्रहः ॥
इति ।
अस्माकं तु अनादिविकल्पवासनोपादाना विकल्पा यच्च गृह्णन्ति, यच्च अध्यवस्यनित तयोरूभयोरप्यन्यनिवृत्तिरूपतया अवस्तुत्वात् मतागपि न परमार्थसद् वस्तु गाहन्ते, पारम्पर्येण तु वस्तुप्रतिबन्धात् तत्र प्रवर्तयन्तः प्रापयन्तश्च न विसंवादयन्ति लोकम् ।
अतो वस्तुसभ्दावाविनिवेशाद् विकल्पानां न पौनरूक्त्यमस्ति ।
अपि चालोचिते वस्तुनीन्द्रियेण तदनन्तरोत्पन्नं शब्दस्मरणव्यवहितव्यापारमिन्द्रियमर्थश्र्च न सविकल्पिकामपि धियमुपजनयितुमर्हतः ।
यथाह,
अर्थोपयोगे ऽपि पुनः स्मार्तं शब्दानुयोजनम् ।
अक्षधीर्यद्यपेक्षेत सो ऽर्थो व्यवहितो भवेत् ॥
न च यदेवालोचनमजीजनदिन्द्रियं तदेव स्मरणसहकारि विकल्पप्रत्ययमाधत्ते ।
न च स्मृतिर्व्यवधायिका, स्वाङ्गमव्यवधायकमिति न्यायात् ।
यतो यः प्रागजनको बुद्धेरूपयोगाविशेषतः ।
स पश्र्चादपि ।
इति नो खल्वतीतं भवति गोचरो ऽक्षस्य ।
न चागोचरे सहस्रेणाप्युपायैरेतत् प्रवर्तितुमर्हति ।
न च स्मृतिरतीतविषयाननुभूतपूर्वं वर्तमानं गोचरयितुमर्हति ।
तद्गोचरत्वे चान्धानामपि रूपसाक्षात्कारप्रसङ्गः यथाह,
तेन स्यादक्षापाये ऽपि नेत्रधीः ॥
इति ।
तदेवं नामजातिगुणकर्मकल्पनाः प्रत्यक्षत्वेन परास्ताः ।
द्रव्यकल्पनापि दण्डीति,
विशेषणं विशेष्यं च संबन्धं लौकिकीं स्थितिम् ।
गृहीत्वा सङ्कलय्यैतत् तथा प्रत्येति नान्यथा ॥
न चैतावन्तं व्यापारकलापं विचारकनिवर्तनीयमिन्द्रियज्ञानं सहते, तस्य सन्निहितविषयबलेनोत्पत्तेरविचारकत्वात् ।
जातिगुणक्रियावतां चैतन्न संभवत्येव रूपविवेकसंबन्धयोरप्रतिभासनेन घटनायोगात् क्षीरोदकवदतद्वेदिनेत्युक्तम् ।
तस्मात् न तद्विकल्पं प्रत्यक्षमिति ॥
अत्रोच्यते ।
यत् तावदुक्तम्---अर्थसामर्थ्यजत्वाभिलापसंसर्गयोग्यप्रतिभासत्त्वयोः विरोध इति, तत्र ब्रूमः ।
स्याद् विरोधो यदि स्वलक्षणमेवार्थः, न त्वेतदस्ति ।
उपपादयिष्यति हि परमार्थसन्तं जात्यादिमन्तमर्थं स्थेमभाजमभिलापसंसर्गयोग्यम् ।
तेन तज्जनितं ज्ञानमर्थसामर्थ्यजं चाभिलापसंसर्गयोग्यप्रतिभासं चेति न विरोधः ।
तथा च प्रसङ्गसाधनस्य सन्दिग्धव्यतिरेकिता ।
न च द्रव्याद्यभिन्नं जात्यादि भिन्नं कल्पयन्तो विकल्पा नार्थसामर्थ्यजन्मान इति सांप्रतत् ।
द्रव्यादपि हि भेदः साधयिष्यते तेषाम् ।
यथा च भेदे ऽपि तेषां तद्वाचकानां सामानाधिकरण्यं तथोपपादितमधस्तात् ।
न च भिन्नेन शब्देन डित्थो ऽयमित्यभेदकल्पनादर्थस्य विकल्पानामनर्थजत्वमिति युक्तम् ।
उक्तमेतद् अव्यपदेश्यपदव्याख्यानावसरे यथा न शब्दाभेदेनार्थयोरेकेन्द्रियज्ञानसंसर्गिता किं तु प्रथममालोचितो ऽर्थः सामान्यविशेषवान् सङ्केतग्रहण्समयवर्तिनीमात्मनो ऽवस्थां स्मारयन् तत्कालभाविनं शब्दमपि स्मारयत्यवर्जनीयतया ।
न त्विन्द्रियजविकल्पोत्पादं प्रत्यस्त्युपयोगः कश्चित् शब्दस्मरणस्य ।
अन्यथा बालमूकादीनां नेन्द्रियजः स्याद्विकल्पः शब्दस्मरणाभावात् ।
सङ्केतसमयवर्त्यवस्थास्मरणं तूपयुज्यते, वस्तुनस्तदानीन्तनेदानीन्तनावस्थाभेदवत एकस्येन्द्रियजेन विकल्पेनाकलनात् ।
शब्दस्तु संपातायातो न निवेशयत्यात्मानम् इन्द्रियजे विकल्पे ।
यथाह,
देवदत्तादिशब्दन हृदयस्थेन यः स्मृतः ।
चक्षुषापि स एवायं पिण्डः संप्रति दृश्यते ॥
अनेन हि पिण्डस्य पूर्वापरावस्थावर्तिनीमेकतामिन्दियजविकल्पगोचरत्वेन दर्शयति, न तु शब्दनिवेशनमपि ।
तथा,
संज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते ।
संज्ञिनः ।
कुतः?
सा तटावस्था न रूपाच्छादनक्षमा ॥
नार्थेन्द्रियव्यापारं व्यवधत्ते इत्यर्थः ।
न च प्रागवस्थास्मरणसापेक्षतया नेन्द्रियार्थसन्निकर्षः कारणं विकल्पस्येति सांप्रतम् ।
यतो,
न किञ्चिदेकमेकस्मात् सामग्र्याः सर्वंसंभवः ।
# प्र. वा. 3.53 # इति भवन्तो ऽप्याहुः ।
अन्यथालोकमनस्कारसापेक्षमर्थेन्द्रियं निर्विकल्पकमपि न जनयेत् ।
यत्तु प्रथमं नाजीजनत् तत् स्मरणसहकारिविरहात् ।
न हि नाजीजनत् कुशूलस्थं बीजमङ्कुरमिति न समवहितक्षित्यादिसहकारिग्राममप्यस्याजनकं भवति ।
न च जनकत्वाजनकत्वलक्षणो विरुद्धधर्मसंसर्गो भेदहेतुरित्युपपादयिष्यते क्षणभङ्गभङ्गे ॥
स्यादेतत् ।
अतीतावस्था नेन्द्रियगोचरस्तस्य वर्तमानार्थे नियमात् ।
न च वर्तमानो ऽर्थः स्मरणगोचरः स्मरणस्यानुभवजनितसंस्कारोद्बोधजन्मनः पूर्वानुभवगोचरं प्रति नियमात् ।
तस्मात् भिन्नविषयतया नेन्द्रियसहकारिता स्मरणस्य ।
न हि रूपविषयाः सहस्रमपि नयनप्रदीपादयः शब्दविषयस्य श्रवसः सहकारितामापद्यन्त इति ।
तत् किं भवतां यत्र गन्धज्ञानानन्तरं चाक्षुषं रूपज्ञानं जायते तत्र गन्धज्ञानम् न समनन्तरप्रत्ययः? तत्रापि हि चक्षूरूपविषयं न गन्धविषयस्य ज्ञानस्य सहकारि भवितुमर्हति, भिन्नविषयत्वादेव ।
अथान्वयव्यतिरेकनिबन्धनः कार्यकारणभावो न समानविषयत्वमनुविधीयते इत्युच्येत्र, तदस्माकमपि समानम् ।
नन्वतीतावस्थाविशिष्टत्वम् अस्य नेन्द्रियसन्निकृष्टमिति कथं प्रत्यक्षम्? तत् किं यदिन्द्रियसंबद्धं तत् प्रत्यक्षम्? तथा सत्याकाशपरमाण्वादयो ऽपि तत्संयुक्ता इति ते ऽपि प्रत्यक्षाः प्रसज्येरन् ।
तस्माद् यदेवेन्द्रियजस्य ज्ञानस्य गोचरस्तत् प्रत्यक्षम् ।
न त्विन्द्रियसंबद्धम् ।
नन्वसंबद्धमिन्द्रियं कथं तत्र ज्ञानं जनयति? तच्च ज्ञानं कथं प्रत्यक्षम्?
प्रत्यक्षं चेत्, कथमिन्द्रियार्थसन्निकर्षोत्पन्नमिति लक्षणं प्रत्यक्षं व्याप्नोति, अस्यैव प्रत्यक्षस्य लक्षणेनाव्यानात्? मा भूदर्थस्य पूर्वकालवर्तिता इन्द्रियगोचरः, तथापि स्मरणसहकारिणा संस्कारसहकारिणेन्द्रियार्थसन्निकर्षेणोपजनितं तदिन्द्रियार्थसन्निकर्षोत्पन्नं न भवति ।
तथा च नाव्यापकमस्य लक्षणम् ॥
ननु पूर्वापरावस्थापरामर्शिज्ञानं कथमेकम्, विषयभेदात् पारोक्ष्यापारोक्ष्यलक्षणविरुद्धधर्मसंसर्गाच्च? तथा हि तदिति पारोक्ष्यम्, इदमिति च साक्षात्कारः ।
न च विरुद्धधर्मसंसर्गे ऽप्येकत्वम्, त्रैलाक्यस्यैकत्वप्रसङ्गात् ।
विषयभेदश्र्च पूर्वदेशकालापरदेशकालसंबन्धयोरेकस्य विरोधात् ।
यथा ह्येकस्मिन् पद्मरागमणौ गृह्यमाणे तदभावो व्यवच्छिद्यते, यदि पुनर्नं व्यवच्छिद्येत तदा भावो न परिच्छिद्येत, तस्य स्वाभावव्यवच्छेदरूपत्वात् ।
तदभावाविनाभाविनश्र्च पुष्परागादय इति ते ऽपि सर्वे वयवच्छिन्न भवन्ति ।
यदि पुनर्न व्यवच्छिद्यरन्, स एव पुष्परागाद्यत्मेति तदविनाभावी पद्मरागाभावः पद्मरागश्र्च स्यादिति दुर्घटमापद्येत ।
एवं तस्यैव पूर्वदेशकालसंबन्धे गृह्यमाणे तदभावव्यवच्छेदक्रमेणापरदेशकालसंबन्धो व्यवच्छिन्नः ।
पूर्वदेशकालसंबन्धाभावाव्यभिचारी ।
तथा च न पददेशकालसंबन्धस्वभावः ।
तथापि यद्यसौ तद्देशकालसंबन्धादन्यस्वभावो भवेत्, तथा सति स एव भवेत्, न भवेच्चेति दुर्घटमापद्येत ।
तस्मात् पूर्वदेशकालसंबन्धादन्यो ऽपरदेशकालसंबन्ध इति सिद्धो विषयभेद इति ॥
अत्रोच्यते ।
यदि परोक्ष्यापारोक्ष्यधर्मभेदात् पूर्वापरावस्थापरामर्शिज्ञानं भिद्येत, हन्त भोः, तदित्यपि विकल्पो भिद्येत ।
सो ऽपि हि परोक्षश्चापरोक्षश्र्च विकल्पश्चाविकल्पश्र्च ।
अर्थे परोक्षो विकल्पश्र्च स्वात्मनि त्वविकल्पो ऽपरोक्षश्र्च ।
तस्माद् विषयभोदात् विरोध इति चेत्---न त्विहापि तदेकं ज्ञानं तस्यैवैकस्य वस्तुनः पूर्वदेशकालसंबन्धे परोक्षमपरोक्षं वा परदेशकालसंबन्ध इति को विरोधः? यो ऽपि कालदेशसंबन्धभेदेन विषयभेद उक्तः, सो ऽपि अयुक्तः ।
यतो युक्तं यत् पद्मरागस्वरूपग्रहे तदभावो व्यवच्छिद्यत इति, स्वाभावव्यवच्छेदात्मकत्वेन भावानां तदव्यवच्छेदे स्वरूपाग्रहणप्रसङ्गात् ।
कस्मात् पुनः पुष्परागादयो व्यवच्छिद्यन्ते, पद्मरागाभावाविनाभावादिति चेत्? अथैतदभावाविनाभावज्ञानं कुतस्त्यम्? तयोः कदाचिदपि तादा त्म्येनानुपलम्भादिति चेत्---यत्र तर्हि तादात्म्यमुपलभ्यते न तत्र तदभावाविनाभावः, तथा च पूर्वापरदेशकालसंबद्धस्तादात्म्येनानुभूयमान इन्द्रियजेन विकल्पेन पद्मरागो न भिन्नो भवितुमर्हति ।
तस्मात् पर्वापरदेशकालौ तत्संन्धौ वा कामं भिद्येयातां परस्पराभावाविनाभावात्, तयोरेकदापि तादात्म्येनाप्रतिभासनात् ।
न तु तदालिड्रिगतस्वभावः पद्मरागमणि।, तस्य ताभ्यामन्यत्वात् ।
न चान्यस्य भेदो ऽन्यस्य भेदमापादयति, अतिप्रसङ्गात् ।
न चेन्द्रियार्थसन्निकर्षाभावे ऽपि पूर्वापरावस्थापरामर्शात्मनो विकल्पस्य भावादनिन्द्रियजयत्वमिति सांप्रतम्, तथा सत्यविकल्पकमपि कामातुरस्य कामिनीं भावयतः तद्विषयमिन्द्रियार्थसन्निकर्षं विनापि दृष्टमिति नीलाद्यनुभावात्मानो ऽपि अविकल्पका अनिन्द्रियजाः प्रसज्येरन् ।
यदि तु नीलाद्यनुभवानां कामिन्यनुभवात् कथञ्चिद् विशेषं ब्रूयात, तदा अस्माकमपि अनिन्द्रियजेभ्यो विकल्पेभ्य उत्प्रेक्षाव्यापारेभ्यो ऽस्तीन्द्रियजानां दर्शनव्यापाराणां भेदः ।
न च विकल्पगतो दर्शनव्यापारो ऽनुभूयमानः सति संभवे निर्विकल्पकोपाधिरिति युक्तम् ।
सर्वा एव हीन्द्रियजा बुद्धयो विकल्पिका अविकल्पिका वा धारावाहिन्यो ऽमहमिकया परस्परानपेक्षा एकमर्थमवगाहमाना उदयन्ते व्ययन्ते च ।
न त्वमूषामन्योन्यमनुगम्यानुगन्तृतामीक्षामहे ।
तस्मात् इन्द्रियार्थसन्निकर्षलब्धजन्मानो विकल्पा दर्शनव्यापारा नान्य इति युक्तमुत्पश्यमः ।
न च शब्दप्रत्यक्षयोर्वस्तुगोचरत्वे सत्यपि प्रत्ययाभेदः कारणभेदेन पारोक्ष्यापारोक्ष्यभेदोपपत्तेः ।
न च वहिनसंयोगजन्मा शीतापनोदो वहिनज्ञानाद्
भवितुमर्हति ।
न चैकोपाधिना सत्त्वेन विशिष्टे तस्मिन् गृहीते उपाध्यन्तरविशिष्टतद्ग्रहप्रसङ्गः ।
स्वभावो हि द्रव्यस्योपाधिभिर्विशिष्यते, न तूपाधयो व तैर्विशिष्टत्वं वा तस्य स्वभावः ।
न च यत् स्वभावसंबन्धि स स्वभावः ।
तथा सत्यसंबन्धित्वमेव ।
न हि तदेव तेन संबध्यते ।
अपि च रूपज्ञानं विषयग्रहणधर्म नानापरमाणुविषयं न परमाणुस्वभावः ।
तत्स्वभावत्वे वा तेषां सर्वान् प्रत्यविशेषात् सर्वैरेव ते परमाणवो विदिताः स्युः ।
न चासंबद्धा एव स्वज्ञानेन रूपपरमाणवो विषयास्तस्येति वाच्यम्, असंबद्धस्य विषयत्वे ऽतिप्रसङ्गात् ।
स्वभाव एवार्थज्ञानभेदयोः संबन्धो यदर्थो विषयो ज्ञानं च विषयीति चेत्? हन्तोपाध्युपाधिमतोरपि स्वभाव एव संबन्धो ऽस्तु तथापि विज्ञानार्थवन्न स्वरूपाभेदः ।
क्षणभङ्गपरिणामनिराकरणे तु स्वभावातिरिक्तं संबन्धमुपपादयिष्यामः ।
तस्मात् नैकोपाध्यन्वितग्रहणे सकलोपाध्यन्वितप्रत्ययप्रसङ्गः ॥
यच्चैकविज्ञानगोचरयोर्न विशेष्यविशेषणभाव इति, तत्र ब्रूमः ।
भिन्नज्ञानगोचरत्वे ऽपि नासौ संभीति ।
न हि विशेषणज्ञानं विशेष्याविषयं विशेष्यमवच्छेत्तुमर्हति ।
एवं विशेष्यज्ञानमपि विशेषणाविषयं केन स्वविषयमवच्छिन्द्यात्, तयोः परस्परवार्तानभिज्ञत्वात्? ताभ्यां वासना, ततो मानसप्रत्ययो विशेषणविशेष्यभावाकर उत्पद्यते ।
न त्वस्ति विशेषणविशेष्यभावो वास्तव इति चेत्? अस्तु तावद् वास्तवावास्तवचिन्ता ।
करिष्यते हीयमुपरिष्टात् ।
यस्तु भवतामस्य मानसत्वे प्रयासः, स वरमिन्द्रियजत्व एव भवतु, तथा सति दर्शनव्यापारत्वमस्य साक्षात् समर्थितं भवति ।
इतरथा हि निर्विकल्पकोपधानं कल्प्येत ॥
नन्वविचारकमिन्द्रियज्ञानं कथं विशेषणविशेष्यादि सकलं संकलयेत्? हन्त भोः किं मानसमपि ज्ञानं संकलयितुमर्हति? संकलयति मनसस्तत्कारणस्य सर्वविषयत्वात् इति चेत्? यदि पूर्वकं विज्ञानं मनः, कथं तस्य सर्वविषयता? अस्माकं तु मनः सर्वविषयमपि अचेतनतया न विचारकम् ।
तस्मादात्मैव सकलज्ञानतज्जनितवासनाधारः स्मर्ता च प्रतिसन्धाता च ।
यथाह,
आत्मन्येव स्थितं ज्ञानं स हि बोद्धात्र गम्यते ।
स्मरणे चास्य सामर्थ्यं सन्धानादौ च विद्यते ॥
# श्लो. वा. प्रत्यक्ष. 122 # स सल्विन्द्रियार्थसन्निकर्षादालोच्य जातिमन्तं संमुग्धमर्थम् उद्बुद्धसंस्कारसमुपजातपूर्वपिण्डानुस्मृतिसहायः प्रागेव चक्षुषा विकल्पयति, गौरयमिति ।
यथाह,
करणं चेन्द्रियं बुद्धेः कर्ता चात्म सचेतनः ।
स च स्मृतिसमर्थत्वात् सर्वार्थान् कल्पयिष्यति ॥
तेनैकविज्ञानवेद्यत्वे यद्यपि ज्ञाप्यज्ञापकभावरूप उपकार्योपकारकभावो नास्ति, तथापि, तदर्थालोचनानुगतस्मरणयोर्विशेषणविशेष्यभावावगाहि विज्ञानं प्रत्युत्पादकत्वमेवोपकारकत्वमस्ति ।
अर्थौ हि रूपरूपिभावेन स्थितावपि नापातजन्मना ज्ञानेन तथा गृहीतौ, अपि तु स्वरूपमात्रेण ।
न हि यावदस्ति तावद् ग्रहीतव्यम्, तेन तदेकदेशग्रहे ऽपि नाप्रमाणता ।
सविकल्पकं तूक्तसामग्रीजन्म जात्यादिरूपतया द्रव्यं च रूपितया कल्पयत् पश्चाज्जायमानमपीन्द्रियार्थसन्निकर्षप्रभवतया प्रत्यक्षं भवत्येव ।
अक्रमस्यापि च क्रमवत्सहकारिभेदसमवधानवशात् क्रमेण कार्यकरणमुपपादयिष्यते ।
तत् सिद्धमेतद् विवादाध्यासिता विकल्पाः स्वगोचरे प्रत्यक्षा अव्यभिचारित्वे सति इन्द्रियार्थसन्निकर्षजत्वात् ।
यो य एवंभूतः स सर्पः प्रत्यक्षो यथालोचनम्, तथा चैतत् ।
तस्मात् तथेति ॥
तस्मात् सविकल्पकप्रत्यक्षावरोधार्थं व्यवसायात्मकपदमिति सिद्धम् ।
तदस्य सविकल्पकप्रत्यक्षावरोधार्थस्यान्वाचीयमानो व्यवच्छेदः ।
तद्व्यवच्छेद्यप्रतिपादनार्थं भाष्यमनुभाष्यान्वाचीयमानमेव व्यवसायात्मकपदस्यार्थमाह--दूराच्चक्षुषेति ।
न चैतन्मन्तव्यमिति भाष्यं व्याचिख्यासुश्र्चोदयति--न संशयस्येति ।
ननु सतीन्द्रियार्थसन्निकर्षे पुरोवर्तिनि द्रव्ये धूम इति वा रेणुरिति वा ज्ञानमुत्पद्यमानं कथमनिन्द्रियजमित्यत आह--न हीति ।
कस्मान्मानस इत्यत आह--संशीतिरिति ।
संपूर्वो हि शीड् भावप्रत्ययान्तो विशेषापेक्षे विमर्शे वर्तते स चैकाधिकरणौ स्मर्यमाणौ मिथो विरुद्धौ धर्मावारोपयन् अन्यतरन्नावधारयति ।
तथा चाधिकरणमात्रसमर्पणमिन्द्रियजव्यापारः ।
मनसा तु स्मरणसहकारिणैव पुरुषः संशेते ।
अत एव विस्फारिताक्षाः सौदामिनीसंपातात् सकृदालोच्य कञ्चित् समानधर्मवन्तं धर्मिणं समन्धकारे सन्दिग्धे, तस्मान्मानस एवैष संशयो न त्विन्द्रियज इत्यर्थः ।
तदेतत् परिहरन् न चैतदित्यादि भाष्यं व्चाचष्टे---तच्च नैवम् ।
कस्मात् संशयस्येति--उभयं त्विति ।
तु शब्दो मनोमात्रनिमित्तत्वं व्यवच्छिनत्ति ।
तदनेन चक्षुषा हीत्यादि भाष्यं व्याख्यातम् ।
पश्यन् समानधर्माणं धर्मिणं नावधारयति ।
विशेषतः सन्दिग्धे तस्मिन्नित्यर्थः ।
इन्द्रियेणोपलब्धं सन्निकृष्टं सन्निकर्षपूर्वकत्वादुपर्लधेः मनसोपलभते जानीते चक्षुःसहायेनेत्यर्थः ।
अत्र भाष्यं यच्च तदिन्द्रयानवधारणपूर्वकं मनसानवधारणं तद्विशेषपेक्षं विमर्शमात्रं संशयः, न पर्वमिति ।
अनवधारणशब्दो ऽयं संशयज्ञानवाचकः स्वकारणेन्द्रियार्थसन्निकर्षे प्रयुक्त उपचारेण ।
उपरतेन्द्रियव्यापारस्य हि संशयज्ञानदर्शनात् ।
सत्यपीन्द्रियव्यापारे संशयो नेन्द्रियज इति चोदको ऽभिमन्यते ।
तदनयोः संशयज्ञानयोर्मध्ये यत् तदिन्द्रियावधारणपूर्वकमिन्द्रियार्थसन्निकर्षपूर्वकं मनसानवधरणं संशयज्ञानमित्यर्थः ।
न पूर्वम् ।
यदुपरतेन्द्रियव्यापारस्य संशयज्ञानं दृष्टान्ततया हृदि स्थितं शङ्कितुरित्यर्थः ।
तदेतद् भाष्यं व्याचष्टे--तत्र यदिन्द्रियार्थेति ।
इन्द्रियार्थसन्निकर्षश्चासावनवधारणं चेति कर्मधारयः ।
तत्पूर्वकं मनसानवधारणं संशयज्ञानमित्यर्थः ॥
ननु स्मरणव्यवहितव्यापारमस्य कारणं नेन्द्रियमित्यत आह--तस्य हीति ।
उपपादितमेतदधस्तात् यथा स्मरणं नेन्द्रियव्यापारं व्यवधत्त इति ।
पूर्वं त्विति ।
दृष्टन्ततया पूर्वत्वम् ।
स्यादेतत्, मन एवेन्द्रियानपेक्षं बाह्ये प्रवर्तते इत्यभ्युपेयम्, अन्यथा घटमहं जानामीति ज्ञानं निर्निमित्तं स्यात् ।
न तावदिन्द्रियजम्, आन्तरे ज्ञाने चक्षुरादीनामप्रवृत्तेः ।
नाप्यनुमानादिष्वन्तर्भवति, लिङ्गाद्यभावात् ।
तस्मान्मानसभेवेदम् ।
यदि च घटादौ बाह्ये न मनः प्रवर्तेन, कथं घटमिति भवेत्? जानामीत्येव स्यात् ।
न चार्थनिरुपणमन्तरेण ज्ञानरूपनिरूपणम्, तस्माद् बाह्याभ्यन्तरविषयं मनः, तथा च सर्व एव संशयो मानस इत्याशङ्क्याह भाष्यकारः, सर्वत्र च प्रत्यक्षविषये इति ।
यद्यप्ययमीदृशो ऽनुव्यवसायो मानसस्तथाप्यन्धबधिरादीनामभावात् तत्पूर्वं व्यवसायोत्पत्तौ चक्षुराद्यपेक्षणीयम्, अन्यथा अन्धबधिराद्यभावप्रसङ्गः ।
तथा च संशयज्ञानोत्पादे अपीन्द्रियार्थसन्निकर्षो ऽपेक्षणीय इति भावः ।
तदिदं तस्य हीत्यादिना वार्त्तिकेन व्याख्यातम् ॥
अव्यापकत्वेन लक्षणाक्षेपपरं भाष्यम् आत्मादिषु इत्याति ।
तद् व्याचष्टे--इन्द्रियार्थेति ।
चोदयति--कथं पुनरिति ।
परिहरति--इन्द्रियेति ।
मा भूदिन्द्रियसूत्रे पाठः ।
तद्धि बाह्येन्द्रियलक्षणम्, आन्तरं च मन इत्यत आह--पृथक् चेति ।
न च सुखादौ प्रमाणान्तरमस्ति ।
तस्मात् पारिशेष्यात् सद्धिं प्रत्यक्षत्वमित्याह---प्रत्यक्षाश्र्चेति ।
ननु नैते प्रमेयाः स्वसंवेदनसिद्धत्वात्, तत् किमत्र प्रमेयार्थेन प्रमाणेन इत्यत आह---न च तेषामिति ननूक्तं स्वसंवेदनतया न प्रमाकर्मभाव एषामित्यत आह--न चान्या गतिरिति ।
संवेदनत्वेन हि तेषां स्वसंवेदनता, न चैते संवेदनमिति उक्तमधस्तादिति भावः ।
आक्षेपनुपसंहरति--तस्मादिति ।
भाष्ये चात्मादिषु सुखादिष्विति नित्यानित्याभिप्रायं वर्गद्वयम् ।
आत्मसुखदुःखत्वादयो नित्याः अनित्याश्च सुखदुःखादय इति ।
तदिदमुक्तं दिग्नागेन,
न सुखादि प्रमेयं वा मनो वास्त्विन्द्रियान्तरम् ।
न च तत् संभवति, घ्राणादिसूत्रेण विभागपरेण निषेधादिति भावः ।
समाधिभाष्यम् इन्द्रियस्य वै सतः इति ।
तद्व्याचिख्यासुर्गूढाभिप्रायः पृच्छति--कश्चैवम् इति ।
आक्षेप्तुरुत्तरम्--इन्द्रियार्थेति ।
समाधाता आह--नैष दोष इति ।
आक्षेप्तुः अनुशयबीजमुद्घाट्य दूषयति--यत्तु सूत्रे इति ।
नेदं विभागपरं घ्राणादिसूत्रम्, अपि तु लक्षणपरम् ।
तत्र चेन्द्रियमपि मनो न लक्षितम्, वैधर्म्यादित्यर्थः ।
वैधर्म्यमाह--वैधर्म्यमिति ।
तत्र प्रमाणयति--सर्वविषयं त्विति ।
वैधर्म्यान्तरं दूषयति---भौतिकेति ।
कार्यस्य हि विशेषौ भौतिकत्वाभौतिकत्वे, भूतकार्यं भौतिकम् ।
यद् भूतकार्यं न भवति तदभौतिकम् ।
भूतकार्यत्वप्रतिषेधश्र्च तदन्यकार्यत्वं गमयति, विशेषनिषेधस्य विशेषान्तराभ्यनुज्ञानहेतुत्वात् ।
इतरथा तु अकार्यमेवोच्येत, न त्वभौतिकमिति ।
तस्मादकार्यस्य मनसो ऽभौतिकत्वं कार्यधर्मो विरुद्धमित्यर्थः ।
अपि च वैधर्म्यात् मनोवत् श्रोत्रमपि न वक्तव्यमित्याह--श्रोत्रे चेति ।
शङ्कते--स्वार्थ इति ।
भूतानि हि घ्राणादीनि श्रोत्रान्तानि, मनस्तु न भूतमिति वैधर्म्यमित्यर्थः ।
निराकरोति--तच्च नेति ।
दर्शयिष्यति हि वार्त्तिककारो यथा स्वार्थिको न कश्र्चिदपि प्रत्यय इत्यर्थः ।
आक्षेपहेतुमनुभाषते--यत् पुररिति ।
दूषयति--न नास्तीति ।
तददेन सति चेन्द्रियार्थसन्निकर्षे इत्यादि भाष्यं व्याख्यातम् ।
यच्चापरं वैधर्म्यं घ्राणादिभ्यो मनस उक्तं भाष्यकारेण तदपि सिंहावलोकनेन दूषयति---सगुणानामिति ।
घ्राणादीनि यथा स्वस्वगुणेन गन्धादिना बाह्यं गन्धादि बोधयन्ति , नैवं स्वगुणेन शब्देन श्रोत्रं बाह्यं शब्दं बोधयति, तन्मनोवत् श्रोत्रमपि घ्राणादिसूत्रे न पठितव्यमित्यर्थः ।
भाष्योक्तेषु मध्य अभिमतं वैधम्यमुपसंहरति--तस्मादिति ।
भूतत्वाभूतत्वलक्षणं वैधर्म्यं न भौतिकत्वाभौतिकत्वग्रहणेन शक्यं वक्तुमित्यवधारणाभिप्रायः ।
ननु युगपज्ज्ञानानुत्पत्तेर्ज्ञानकारणं मनोः अस्तीत्यवगम्यते, न पुनरस्येन्द्रियत्वमपि, तभ्दावानवगमे च नेन्द्रियार्थसन्निकर्षजं सुखादिज्ञानं शक्यं वक्तुमित्यत आह--तन्त्रान्तरेति ।
तन्त्र्यते व्युत्पाद्यते अनेन तत्त्वमिति तन्त्रं शास्त्रम् ।
तदनेन मनसश्र्चेत्यादि भाष्यं व्याख्यातम् ।
एतद् दूषितं दिग्नागेन
अनिषेधादुपात्तं चेदन्येन्द्रियरुतं वृथा ।
इति ।
तद्दूषयितुमुपन्यस्यति----न शेषेति ।
तद्दूषयति--न तन्त्रयुक्तीति ।
सर्वस्य तन्त्रान्तरे लोके च सिद्धत्वादवक्तव्यतायां स्वमतमिति नास्ति ।
वचनलिङ्गं हि मताज्ञानं न चाननुमते निषेधमात्रं शक्यं वक्तुम्, अभावस्य भावनिरूपणाधीननिरूपणत्वादिति भावः ।
सिद्धमर्थमुपसंहरति--तस्मादिति ।
प्रकृतमुसंहरति--तदिति ॥
तदेवं लक्षणपदानि व्याख्याय विमृशति--समस्तमिति ।
अभिमतमाह--समस्तमित्याह भाष्यकारः ।
हेतुमाह--यस्मादिति ।
इन्द्रियार्थसन्निकर्षोत्वन्नं ज्ञानमव्यभिचारीति हि प्रतयक्षलक्षणमनवयवेन समानासमानजातीयेभ्यो व्यावृत्तं शक्यमेव लक्षयितुम् ।
न खल्वयमसावश्व इति ज्ञानमिन्द्रियजं शब्दजं संभवति ।
तद्धि द्रव्यगोचरं वा उच्येत, वाच्यत्वगोचरं वा, वाच्यत्वविशिष्टद्रव्यगोचरं वा ।
तत्र द्रव्यमैन्द्रियकमेव न शाब्दमित्यशक्यं हि ज्ञानं व्यवच्छेत्तुम्, अनभिमतं च ।
वाच्यत्वगोचरं तु ज्ञानं शाब्दम् एव, अन्यथा ह्यश्रुतशब्दो ऽप्यारण्यको ऽश्वमेवेन्द्रियसन्निकर्षादश्वशब्दवाच्य इति गृह्णीयात् ।
वाच्यत्वविशिष्टद्रव्यज्ञानमपि शाब्दमेव, वह्निविशिष्टधूमज्ञानमिवानुमानिकम्, अन्यथा तदप्यैन्द्रियकमिति न तन्निराकरणाय यत्नान्तरमास्थेयम् ।
अथ न वाच्यत्वं नाम मीमांसकानामिव किञ्चिदतीन्द्रियम्, अपि तु सङ्केतमात्रमेतदस्मादिदं प्रत्येतव्यमिति ।
तथापि शब्द एव ।
अथायमप्यैन्द्रियक एव, तत्र गुरुपदिष्टा गाथा पठितव्या,
शब्दजत्वेन शाब्दं चेत् प्रत्यक्षं चाक्षजन्मतः ।
स्पष्टग्रहणरूपत्वाद् युक्तमैन्द्रियकं हि तत ॥
इति ।
तस्मात् नोभयजज्ञाननिवारणायाव्यपदेश्यपदम् ।
व्यवसायात्मकपदेन तु सविकल्पके ज्ञाने ऽवरुद्धे निर्विकल्पकस्याप्रत्यक्षता मा प्रसांक्षीदिति तदवरोधार्थेनाव्यपदेश्यपदेन निर्विकल्पके ऽपि शब्दसंभेदनिराकरणमन्वाचितमिति शाब्देत्युक्तम् ।
एवम् अव्यपदेश्यपदेन निर्विकल्पके ऽवरुद्धे सविकल्पकस्येन्द्रियजस्याप्रत्यक्षत्वं मा प्रसांक्षीदिति तदवरोधार्थेन व्यवसायात्मकपदेन संशयज्ञानप्रत्यक्षत्वनिराकरणमन्वाचितमिति संशयेत्युक्तम् ॥
अन्वयं दर्शयित्वा व्यतिरेकमाह--यदीति ।
उपसंहरति--तस्मादिति ।
हेयास्त्रिशत्कोटीर्गणयति--तत्रेति ।
द्विपदपरिग्रहेण दश--इन्द्रियार्थसन्निकर्षोत्पन्नपदं ध्रवं कृत्वा ज्ञानाद्येकैकपदसंबन्धेन चरस्त्रः कोटयः, ज्ञानं च घवं कृत्वा अव्यपदेश्यादि एकैकपदसंबन्धेन तिस्त्रः, एवमव्यपदेश्यपदं ध्रुवं कृत्वा अव्यभिचार्याद्येकैकपदसंबन्धेन द्वे कोटी, अव्यभिचारिव्यवसायत्मकसंबन्धे दशमीति ।
त्रिपदपरिग्रहेणापि दशैव ।
इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमिति ध्रुवं कृत्वा अव्यपदेश्याद्येकैकपदसंबन्धे तिस्त्रः कोटयः, ज्ञानमव्यपदेश्यमिति ध्रुवं कृत्वा अव्यभिचार्यादिपदसंबन्धेन द्वे कोटी, अव्यभिचार्यव्यपदेश्यपदयोस्तु व्यवसायात्मकपदसंबन्धे कोटिरेका इन्द्रियार्थसन्निकर्षाव्यपदेश्यपदध्रौव्ये अव्यभिचार्याद्येकैकपदसंबन्धे कोटिद्वयम्, अव्यभिचारिव्यवसायात्मकपदयोस्तु ध्रुवयोरिन्द्रियार्थसन्निकर्षोत्पन्न पदेन ज्ञानपदेन च प्रत्येकं संबन्धे कोटिद्वयम्, इति त्रिपदपरिग्रहेण दश कोटयः ।
चतुष्पदपरिग्रहेण पञ्च ।
इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमिति ध्रुवं कृत्वा अव्यभिचार्याद्येकैकसंबन्धे द्वे कोटी, अव्यपदेश्यपदं त्यकत्वा परकोटिः, ज्ञानपदं त्यक्त्वा चापरा, इन्द्रियार्थसन्निकर्षोत्पन्नपदं त्यक्त्वा तु पञ्चमी ।
पृच्छति--कस्मात् पञ्चपदपरिग्रहेणैकत्रिशत्तमकोटिपरिग्रहेणेतराः कोटयो व्यवच्छिद्यन्ते? न ह्यत्र तद्व्यवच्छेदवाचकः कश्र्चिदस्ति शब्द इत्यर्थः ।
उत्तरम्--विशेषेति ।
विशेषप्रतिविधानप्रस्तावे शेषनिषेधोपन्यासो दृष्टान्तलाभाय ।
एकदेशाभ्युपगम एकत्रिशत्कोटिषु एकत्रिंशत्तमी कोटिरेकदेश इत्यर्थः ।
शेषविधानं वेति ।
वाशब्द इवार्थः ॥
तदेवं प्रत्यक्षलक्षणं समर्थ्य वासुबन्धवं तावत् प्रत्यक्षलक्षणं दूषयितुम् उपन्यस्यति--अपरे पुनरिति ।
लक्षणं व्याचष्टे ततो ऽर्थादिति ।
यत्तदोर्नित्यसंबन्धाद् यस्यार्थस्य यद्विज्ञानं व्यपदिश्यते, यदि तत एव तभ्दवति नार्थान्तराद् व्यपदेशासंबन्धिनः तत् प्रत्यक्षम् ।
अत एव व्यपदेशासंबन्धिनो ऽर्थान्तरात् शुक्तिरूपात् रजतेन व्यपदिश्यामानं शुक्तिज्ञानं न प्रत्यक्षम्, व्यपदेशकानुत्पत्तेः, व्यपदेशकस्य रजतस्य तत्रासंभवात् ।
एतस्य प्रत्यक्षाभासस्य व्यावृत्तिः सुप्रसिद्धेति तामुपेक्ष्यानुमानव्यावृत्तिम् आह--एतेनेति ।
कुतः? न हि तत एव व्यपदेशकादेव वह्नेः तद् विज्ञानमनुमानं भवति, किं तु यत्र वह्निरस्ति तत्र ।
ततश्च यत्र तु दृष्टमात्र एव वह्नेरूपरमादुपरतो धूमः तत्रान्यतश्र्च तभ्दवति स्मर्यमाणाद् धूमादसति व्यपदेशके वह्नौ ।
ततो ऽर्थात् इत्यत्र हि अर्थविशेषणं तत इति ।
तत्संगतश्र्च एवकारो ऽयोगव्यवच्छेदे वर्तते, यथा चैत्र धनर्धर एवेति ।
तेन यत्रैव तदयोगः तदप्रत्यक्षमित्यर्थः ।
तदेतल्लक्षणं दूषयति---अत्रार्थग्रहणमनर्थकम् ।
न हि ज्ञानव्यपदेश आत्मना वा इन्द्रियेण वा संभवति ।
शङ्कते---अवधारणार्थ इति ।
अयोगव्यवच्छेदेनैतदवधारणम्, विशेषण च तत इति ।
विशेषणसंगतश्चेवकारो ऽयोगं व्यवच्छिनत्ति ।
असति चार्थपदे कस्येदं विशेषणम् इति विशेषणसंगतो नैवकारो ऽयोगं व्यवच्छिन्दादिति भावः ।
निराकरोति--तन्नेति ।
तत इति सर्वनाम्नः सन्निहीतविशेष्यापेक्षत्वात् ।
अन्यथा अभिधानापर्यवसानाद् यस्य तद् व्यपदिष्यत इति व्यपदेशसंबन्धी विशेष्यः प्राप्यत एवेति सिध्यत्येव विशेषणत्वम् ।
अभ्युपेत्य त्वदवधारणमात्रे ऽप्यदोष इति मन्यमानेनाब्भक्ष इन्युदाहृतम् ।
अन्यव्यवच्छेदे अपिहि तदेवान्यद्व्यवच्छिद्येत यद्विरोधि, न पुनरन्यमात्रम् ।
यथाहुः,
नियमस्तद्विरोधाच्च कल्पते नाविरोधिनः ।
इति ॥
स्यदेतत् ।
तत इत्युच्यमाने यतस्ततः स्यात्, तथा चानुमानाद्यपि लिङ्गज्ञानादेस्तत उपजायते इति प्रत्यक्षं प्रसज्येतेति तन्निवृत्त्यर्थमर्थादिति वक्तव्यम् ।
न हि तद् अर्थात् जायते ।
अपि तु प्रत्यक्षमेव, इत्यत आह---एतनेनि ।
यस्य तद् व्यपदिश्यते इत्यपेक्ष्य ततःशब्दसामर्थ्येनानुमानादिव्युदासो ऽपि प्रत्युक्तः ।
यच्च ततःशब्दस्य व्यावर्त्यान्तरमुक्तम्, तदपि दूषयति--यत्पुनरेतदिति ।
यदि यस्य व्यापदिश्यते ज्ञानं, तत् प्रत्यक्षं ततो घट इत्यपि ज्ञानं प्रत्यक्षं प्रसज्येत, तदपि हि घटस्य व्यपदिश्यते, न तु ततो घटाद् भवति ।
तस्य विचारासहतया परमार्थसत्त्वाभावेन संवृतिसतो विज्ञानं प्रति कारणभावाभावात् ।
तेन तन्निराकरणाय तत इत्युक्तम् ।
तदेतत् न बुध्यामहे कथमपक्षिप्तमिति ।
शङ्कते---यदीति ।
रूपादिपरमाणव एव निरन्तरोत्पादाः परमार्थसन्तो भिन्नाः स्वविज्ञानस्याविकल्पकस्य जनकाः ।
तेषां तु नानात्वं स्वेन रूपेण संवृण्वती निर्विकल्पकपृष्ठभाविनी घट इति विकल्पिका बुद्धिः तानेव रूपादीन् एकोदकाहरणादिक्रियाकारिणो भेदिन इव दर्शयन्ती संवृतिरित्युच्यते ।
निराकरोति--न हि रूपादिभ्य इति ।
अनुशयबीजमुद्घाटयति--अथापीति ।
निराकरोति--मनोमोदकेति भवन्तु व्यतिरिक्ताः किमेतावतापीत्यत आह--सर्वं चेति ।
यत्संवृतित्वेन भवतामभिमतं यच्चाविकल्पकं तत्सर्वं स्वविषयाद् भवति ।
तस्मात् ततोग्रहणम् संवृतिनिवृत्त्यर्थम् अनर्थकम् ।
मा भूत् संवृतिनिवृत्त्यर्थम्, मिथ्याज्ञाननिवृत्त्यर्थं भविष्यतीति चोदयति---ननु च मिथ्याज्ञानमतस्मादपि भवति ।
यथा पुरोवर्ति द्रव्यमिदमिति व्यपदिश्यते रजतमिति न, न तु शुक्तिरिति, तेन यद्यपि सामान्यरूपेण तस्य व्यपदिश्यते ज्ञानम्, ततश्र्च तभ्दवति, तथापि येन विशेषणरूपेण तस्य वयपदिश्यते न ततस्तभ्दवति इति अतस्मादपीत्युक्तम् ।
तस्मात् तत एव यभ्दवति तत् प्रत्यक्षम्, न चैवं मिथ्याज्ञानम् ।
तद्धि ततश्र्चततश्र्च भवतीत्यर्थः ।
परिहरति--न ह्यतस्मात् आरोपिताद्रूपात् तत्रासतः तत् मिथ्यज्ञानं भवति, किं तु ततो भवति ।
यस्य सामान्यरूपस्य व्यपदिश्यत इदमिति तत एव ।
समारोपितं तु तजतमस्य विषयो दृश्यमानाकारतया ।
तदिदम् उक्तम्--अतस्मिस्तद् भवतीति ।
एवं च लक्ष्यपदमात्रावशेषात् लक्षणाभाव इत्याह--ततोग्रहणमिति ।
तथा चातिव्याप्तिरित्याह--तथा चेति ।
अभ्युपेत्यत दूषणान्तरमाह--यद्यप्येतदिति ।
यतो भवति ज्ञानं स ग्राह्यो ऽर्थः कारणम्, ग्राहकं च विज्ञानं कार्यम् ।
तयोरयुगपभ्दावात् वर्तमानाभं ज्ञानमतीते मिथ्येति न प्रत्यक्षं स्यात् ।
तत्समानकालयोस्तु कार्यकारणभावाभावात् ।
ततो ऽर्थादिति नास्तीति भावः ।
शङ्कते--नाशोत्पादाविति ।
क्षणिकत्वाद् भावानां कारणसय नाशः कार्यस्योत्पाद इत्येकः कालः, तथापि कारणस्य ग्राह्यता भिन्नकालस्यापि, स्वसदृशज्ञानजनकमेव तस्य तजानं ग्राह्यत्वम्,
नान्यत्, यथाह,
भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः ।
हेतुत्वमेव युक्तिज्ञाः ज्ञानाकारार्पणक्षमम् ॥
# प्र. वा. 2.2.47 # इति ।
न चैतावता मिथ्यात्वम्, अर्थाहितस्य नीलाकारस्य वर्तमानत्वादिति भावः ।
निराकरोति--तच्च नेति ।
पूर्वापरकालकलाविकललक्षणा क्षणिकता न क्वचिदपि ।
विद्युज्जालादेरप्याशुविनाशिनो द्वित्रादिक्षणावस्थानादित्यर्थः ।
पूर्वोक्तश्चानुयोगस्तदवस्थ एवेत्याह--विनष्टश्र्चेति ।
अनहङ्कारास्पदमसातादिरूपं विज्ञानाद् भिन्नं नीलाद्यनुभूयते, न तु विज्ञानात्मकम् ।
तथा च यदि विच्छेदग्रहो मिथ्या, तथा सति ज्ञानमेतस्मिन् मिथ्येति कथं प्रत्यक्षम्, सम्यग्ज्ञानभेदस्य तथाभावात्? न चार्था हिताकारवेदनमर्थवेदनम्, भाक्तत्वप्रसङ्गात् ।
न च गौणमुख्यलक्षणा गिरां गतयो ज्ञानेषुशक्या नियोजयितुम् भिन्नप्रस्थानत्वात् ।
तस्मात् निराकारं ज्ञानमात्मनो भिन्नं गोचरयतीति वाच्यम् ।
स चेत् कारणं विनष्टस्य प्रत्यक्षतेति तथा च वर्तमानाभमवर्तमानं गोचरयति मिथ्यात्वमप्रत्यक्षत्वं च स्यादिति भावः ।
यौगपद्ये ऽपि नास्त्युदाहरणम्, सर्वस्य क्षणिकत्वपक्षनिक्षेपादिति चोदयति--तुल्यमिति चेत् ।
निराकरोति--तच्चेति ॥
संप्रति दिग्नागस्य लक्षणमुपन्यस्यति--अपर इति ।
दूषयितुं कल्पनास्वरूपं पृच्छति--अथ केयमिति ।
लक्षणवादिन उत्तरम्--नामेति ।
यदृच्छाशब्देषु हि नाम्ना विशिष्टो ऽर्थ उच्यते डित्थ इति ।
जातिशब्देषु जात्या गौरयमिति ।
गुणशब्देषु गुणेन शुक्ल इति ।
क्रियाशब्देषु क्रियया पाचक इति ।
द्रव्यशब्देषु द्रव्येण दण्डी विषाणीति ।
सेयं कल्पना यत्र ज्ञाने नास्त्यर्थतः स्वरूपतो वा तत्कल्पनया अपोढं प्रत्यक्षम् ।
तदिदमाह--यत् किल न नाम्ना अभिधीयते अर्थतः स्वरूपतश्र्च न जात्यादिभिर्व्यपदिश्यते ।
अव्यभिचाराय विषयकारणत्वमाह--विषयस्वरूपानुविधायीति ।
प्रमाणत्वमाह--परिच्छेदकं व्यवस्थापकम् ।
ज्ञानतामस्य दर्शयति--आत्मसंवेद्य स्वसंवेदनादेव तस्य कल्पनारहितत्वमपि ।
यथाह,
प्रत्यक्षं कल्पनापोढं प्रत्यक्षेनैव सिध्यति ।
इति ।
तत् प्रत्यक्षमिति ।
तदेल्लक्ष्यलक्षणपदतत्समुदायव्यापारनिरूपणेन दूषयति--त इदमिति ।
अथ नेति ।
विकल्पयोनयो हि शब्दास्तद्गोचरमभिनिविशनते ।
यद् विकल्पा गृह्णान्ति, यच्चाध्यवस्यति तदुभयमप्यन्यव्यावृत्तिरूपमवस्तु, तस्मान्न अविकल्पकं ज्ञानं तद्गोचरं वा परमार्थसद् गोचरयन्ति विकल्पाः शब्दाश्चेत्ययमभिसन्धिः ।
अपि चास्यावाच्यत्वे भवदभ्युपगतप्रामाण्यागमविरोध इत्याह-- अनित्यादीति ।
शङ्कते-- अथेति ।
स्वमसाधरणं रूपं व्यावृत्तमिति यावत् ।
ततो निराकरोति--सर्वे ऽर्था इति ।
न हि यथा सम्यग्ज्ञानम् अधिकृत्य प्रत्यक्षादिलक्षणं कृतं कीर्तिना तथा दिग्नागेन येनाधिकारात् ज्ञाने व्यवतिष्ठेत कल्पनापोढमिति भावः ।
ननु यदि स्वरूपतो नाभिधीयेतानभिधेयं तर्हि वस्तु प्रसज्येत ।
तथा चावास्तवः स्यात् शाब्दो व्यवहार इत्यत आह--सर्वस्य चेति ।
सामान्यविशेषतद्वभ्देदाद् वस्तुत्रयम् ।
तत्र तद्वद्वस्त्वधिकृत्योक्तम्--द्वावाकाराविति ।
सामान्येनैवाकारेणाभिधीयते सामान्यान्वितमित्यर्थः ।
ब्राह्मण इति ।
मनुष्यत्वजातिमानित्यर्थः ।
विशेषमाकारमभिप्रेत्य स्वरूपतो न व्यपदेश्यमित्युक्तम्, न तु सर्वथेति भावः ।
प्रकृते योजयति--एवमिति ।
आशङ्क्य पूर्वोक्तमतिप्रसङ्गं समारयति--यदि चेति ।
अथाश्चकर्णादिवदव्युत्पन्नः कल्पनापोढशब्दः प्रत्यक्षस्वरूपस्य वाचक इति शङ्कते--अथेति ।
निराकरोति--एवमपीति ।
भवतु कल्पनापोढशब्दः अव्युत्पन्नो मा वा भूत्, अवाच्यं तु प्रत्यक्षमेषितव्यम्, अन्यथा विकल्पस्य प्रत्यक्षत्वप्रसङ्गात् ।
तथा च व्याघात इत्यर्थः ॥
जैमिनिप्रत्यक्षलक्षणं दूषयति--सत्संप्रयोग इति ।
यथाश्रुतस्यातिव्याप्तिः संशब्देनापि प्रयोगस्य समीचीनता प्रतिपाद्यते ।
सा च मिथ्याप्रत्यये ऽपि तुल्या, व्यत्यये ऽपि बुद्ध्या बोद्धस्योपस्थापनात् ।
तद् इति बोध्यं परामृशति ।
अस्ति च मिथ्याज्ञाने ऽपि बोध्येन संबन्ध इन्द्रियाणाम्, बोध्यं हि पुरोवर्ति द्रव्यम् ।
अथ यथा बोध्यं तादृशो नास्ति संबन्ध इन्द्रियाणाम्, रजतत्वस्य प्रकारस्यासन्निधानात् ।
हन्ताव्यापकत्वं लक्षणदोषः ।
प्रत्यभिज्ञायां तत्ताप्रकारस्य
इन्द्रियेणासंबन्धात् ।
अपि च प्राभाकरे दर्शने अनुमानादिज्ञानमात्मनि प्रत्यक्षं न भवेत्, न हि तत् सत्संप्रयोगजम् ।
तस्मादेतदपि परिभावनीयं सूरिभिरिति ॥
वार्षगण्यस्यापि लक्षणमयुक्तमित्याह--श्रोत्रादिवृत्तिरिति ।
पञ्चानां खल्विन्द्रियाणामर्थाकारेण परिणतानामालोचनमात्रं वृत्तिरिष्यते, सा च संशयादिव्यापकत्वादलक्षणमिति ।
तत् सिद्धमिन्द्रियार्थसन्निकर्षोत्पन्नमित्येतदेव लक्षणमिति प्रत्यक्षलक्षणं समाप्तम्
न्य्स्_1,1.5: अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं च ॥
प्रत्यक्षलक्षणानन्तरमनुमानलक्षणपरं सूत्रं पठति---अथ तत्पूर्वकं त्रिविधमनुमानमिति ।
अत्रानुमानमिति सिद्ववत् प्रमाणाविशेषरूपलक्ष्यानुवाद एव नाप्रत्यक्षं प्रमाणमित्यप्रामाण्यमनुमानस्य सुदूदं प्रतिक्षिपति ।
दृष्टप्रामाण्याप्रामाण्यविज्ञानव्यक्तिसाधर्म्येण हि कासांचिद् व्यक्तीनां प्रामाण्यमप्रामाण्यं वा विदधीत ।
दृष्टसाधर्म्यं चानुमानम् एवेति कथं तेनैव तस्याप्रामाण्यम्? अपि चानुमानमप्रमाणमिति वाक्यप्रयोगो ऽज्ञं विप्रतिपन्नं सन्दिग्धं वा पुरुषं प्रत्यर्थंवान् ।
न च परपुरुषवर्तिनो देहधर्मा अपि सन्देहाज्ञानविपर्यासा गौरत्वादिवत् प्रत्यक्षमीक्षन्ते ।
न च तद्ववचनात् प्रत्तीयन्ते, वचनस्यापि प्रत्यक्षादन्यस्याप्रामाण्योपगमात् ।
पुरुषविशेषमनधिकृत्य तु वचनमनर्थङ्कं प्रयु।जानो नायं लौकिको न परीक्षक इत्युन्मत्तवदनवधेयवचनः स्यात् ।
परिशिष्टं तु परीक्षापर्वणि निवेदयिष्यते ।
तस्मादकामेनापि प्रमाणमनुमानमुपेतव्यमिति ।
लक्ष्यं प्रमाणभेदमनुमानमनूद्य तत्पूर्वकमिति लक्षणं विधत्ते ।
अथेत्यानन्तर्ये उक्तं प्रत्यक्षम् अनुमानस्य हेतुः ।
अथेदानीमनुमानं हेतुमद्व्युत्पाद्यते इत्यर्थः ।
लक्षणसूत्रतात्पर्यमाह---अनुमानेति ।
तदेव स्फुटयति---अनेनेति ।
समानजातीयानि प्रमाणतया प्रत्यक्षादीनि, असमानजातीयानि चानुमानाभासादीनि, यथा क्षणिकत्वादिषु साध्येषु सत्त्वादीनि ।
स्यादेतदतिव्यापकमेतत् तत्पूर्वकत्वम् ।
तदिति हि प्रत्यक्षं परामृशत्यानन्तर्यात् ।
तथा च प्रत्यक्षपूर्वकत्वमनुमानस्येवागमस्मृतिसंशयविपर्यासानामप्यस्तीति तान्यप्यनुमानं प्रसज्येरन् ।
अनुमानादिपूर्वकं चानुमानं न प्रत्यक्षपूर्वकमिति नानुमानं स्यात्, अनुमानलक्षणेनाव्यातत्वात् ।
तस्मादव्याप्त्यतिव्याप्तिभ्यामलक्षणमेतदित्यत आह---तत्पूर्वकमिति ।
तत्पूर्वकमित्यावृत्या विग्रहत्रयप्रदर्शनम् ।
तत्र प्रथमे विग्रहे तानीत्यनन्तरं सूत्रम् उवल्लङ्घ्य विभागसूत्रगताः प्रत्यक्षादयः संबन्धनीयाः योग्यत्वात् ।
यथाहुः,
यस्य येनार्थसंबन्धो दूरस्थस्यापि तस्य सः ।
इति तदनेन लक्षणस्याव्याप्तिः परिहृता ।
तदिदमाह---यदा तानीति ।
नन्वेदं प्रत्यक्षपूर्वकमिति भाष्यविरोध इत्यत आह---पारम्पर्येणेति ।
पारम्पर्येण हि प्रत्यक्षपूर्वकत्वमुक्तं भाष्यकृता, तस्मान्न विरोध इति ।
अतिव्याप्तिनिरासाय द्वितीयं विग्रहं विवृणोति---यदापीति ।
ते इति विग्रहे अनन्तरसूत्रगतमेव प्रत्यक्षपदं संबध्यते ।
यथा च द्वे प्रत्यक्षे पूर्वे यस्य प्रत्यक्षस्य लिङ्गपरामर्शज्ञानस्य प्रत्यक्षफलस्य ।
तदिदं तत्पूर्वकं प्रत्यक्षम्, तद्धि स्वविषये प्रत्यक्षमप्यनुमेयार्थप्रत्ययं कुर्वदनुमानम् ।
तदिदं तदित्युच्यते ।
प्रत्यक्षग्रहणमुपलक्षणार्थम्, अनुमाने इत्याद्यपि द्रष्टव्यम् ।
स्यादेतत् ।
संबन्धग्रहणसमये पदतदर्थगोचरं प्रत्यक्षं प्रथमम् ।
अथ तदर्थविषये द्वितीये प्रत्यक्षे सति या तत्पदविषया स्मृतिरुत्पद्यते सापि प्रत्यक्षद्वयपूर्वा ।
एवं लिङ्गल्लिङ्ग्सिंबन्धस्मृतिरपि प्रत्यक्षद्वयपूर्वेति तदवस्थैवातिव्याप्तिरित्याशयवान् पृच्छति--- कतरे द्वे इति ।
उत्तरम्---लिङ्गेति ।
सर्वसन्देहेष्विदमुपतिष्ठते ।
व्याख्यानतो विशेषप्रतिपत्तिर्न हि संन्देहादलक्षणमिति भावः ।
न च द्वितीयलिङ्गदर्शनं व्यप्तिस्मरणसमये विनश्यदवस्थमप्यस्ति, व्याप्तिसंस्कारोब्दोध समयजन्मना स्वजनितेन संस्कारेणास्य व्याप्तिस्मरणसमये विनाशात् ।
विनश्यदवस्थस्य द्वितीयलिङ्गदर्शनस्य व्याप्तिस्मरणेन सह यौगपद्ये ऽपि तयोः परस्परवार्तानभिज्ञतया मिथो घटनायोगः ।
न चात्मा ते घटयतीति युक्तम् ।
वृत्त्या खल्वयं घटयेत्, न स्वरूपतः । तस्माद् उभाभ्यामुत्पन्नं परामर्शज्ञानमिन्द्रियार्थसन्निकर्षजं तृतीयं प्रत्यक्षम् एषितव्यम् ।
बुभुत्सावतो द्वितीयादिति ।
बुभुत्साप्यनुमानज्ञानोत्पत्तौ कारणमिति दर्शयितुं बुभुत्सावत इत्युक्तम् ।
लिङ्गलिङ्गिसंबन्धदर्शनमाद्यं प्रत्यक्षम् इत्यत्र संबन्धपदेनानुमानाङ्ग संबन्धं विवक्षन् परोक्तान् संबन्धविकल्पान् अनुमानानङ्गभूतान् प्रतिक्षिपति---प्रत्यक्षमिति च तस्य प्रमाणमाह ।
तथा हि केचिदविनाभावं तादात्म्यतदुत्पत्तिनिबन्धनमनुमानाङ्गमाहुः ।
द्विविधो ह्यर्थः, प्रत्यक्षश्च परोक्षश्च ।
तत्र यो बुद्धौ साक्षादात्मीयं रूपं निवेशयति स प्रत्यक्षः ।
स हि स्वविषयाया बुद्धेः जनक इति तमन्तरेण बुद्धिरात्मानमनासादयन्ती तस्य सत्ता निश्चाययतीति युक्तम् ।
परोक्षस्तु बुद्धौ साक्षात् स्वरूपोपधानसामर्थ्यरहितो ऽयुक्तप्रतिपत्तिरेव ।
न चान्यदर्शने अन्यकल्पना युक्ता, अतिप्रसङ्गात् ।
नान्तरीयकतया त्वन्यो ऽप्यन्यं गमयेत् ।
स हि प्रतिबद्धस्वभावो यथाविधः सिद्धः तथाविधसन्निधानं सूचयति ।
स च प्रतिबन्धो न दर्शनादर्शनमात्रादवसेयः, तथा सति स श्यामो मैतनयत्वात् परिदृश्यमानमैत्रतनयस्तोमवदित्यप्यनुमानं स्यात् ।
इहापि हि स्तो दर्शनादर्शने ।
तस्मात् तादात्म्यतदुत्पत्तिनिबन्धन एव प्रतिबन्धः ।
यथाह कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् ।
अविनाभावनियमो दर्शनान्न न दर्शनात् ॥
तथा च लिङ्गविकल्पं विना न लिङ्गिविकल्पः ।
न लिङ्गविकल्पो लिङ्गानुभवं विना ।
न लिङ्गानुभवो लिङ्गं विना ।
न चाविनाभूतं लिङ्गं विना लिङ्गिनमिति लिङ्गिस्वलक्षणाप्रतिभास्यपि पारम्पर्येण तत्प्रतिबन्धात् तत्राविसंवादको ऽनुमानविकल्प इति ।
कार्यकारणभावश्चेदम् ।
अस्मिन् सति भवति सत्स्वपि तदन्येष्वस्मिन्नसति न भवति एवमाकारो नान्वयव्यतिरेकाभ्यामतिरिच्यते ।
तौ च प्रत्यक्षपृष्ठभाविना विकल्पेनावसीयेते ।
तथा हि सत्यग्नौ धूम इति प्रत्यक्षमेव विकल्पानुगतव्यापारमध्यवस्यति ।
असति चाग्नौ न धूम इत्यपि प्रत्यक्षमेव, न ह्यग्निधूमानुपलम्भावान्यौ ।
अतस्तद्विविक्तवस्तूपलभ्भात् नाप्यनयोर्व्यतिरेको ऽन्यस्तद्विविक्ताद् वस्तुनः ।
एवं तादात्म्यमपि विपर्यये बाधकप्रमाणोपपत्त्या निश्चेतव्यम्, यथा सत्त्वस्य क्षणिकतया सह तादात्म्यं विपक्षैऽक्षणिके क्रमाक्रमयोर्व्यापकयोरनुपलम्भन्निश्चीयते ।
तस्मात् तादात्म्यतदुत्पत्तिभ्यामेव प्रतिबन्धो नान्यत इति ॥
अत्रोच्यते ।
सत्यं यत् किञ्चित् क्वचिद् दृष्टम्, तस्य यत्र प्रतिबन्धः तद्विदस्तस्य तद्गमकं तत्रेत्यनुजानीमः ।
स एव तु प्रतिबन्धो न तावत् तदुत्पत्त्या संभवति ।
का पुनरियं तदुत्पत्तिर्धूमस्य? किं वह्न्यनन्तरं भावः? स तादृशो ऽस्ति रासभस्यापीति तत्प्रतिबद्धो ऽपि धूमः स्यात् ।
अथ तदनन्तरमेव भावः, न च रासभानन्तरं भवन्नपि तदनन्तरमेव भवति, तस्मिन् सत्यप्यसत्यग्नौ तदभावात् ।
असत्यपि तस्मिन् सति आद्रेन्धनवति वह्नौ तद्भावात् ।
अथ यद्यपि धूमस्य वह्निभावाभावानुविधानं तत्रोपलब्धं तथापि देशान्तरादिषु तद्भावो ऽस्य कुतस्त्यः? तथा हि भूयो भूयो रासभे दृष्टे धूमो दृष्टः, तदभावे चादृष्टः ।
न च स तत्कार्यः ।
तज्जातीयस्यैव धूमस्य रासभं विना सति वह्नौ भावात् ।
एवं सत्यप्यग्नौ पिशाचेन जनितो धूमः क्वचित् देशादौ तज्जातीय एव रासभवद् वह्न्यभावे ऽपि पिशाचादेव भविष्यतीति,
अवश्यं शङ्कया भाव्यं नियामकमपश्यताम् ।
न च सति भावमात्रं नियामकम्, तस्य रासभादिष्वष्यविशेषात् ।
तदनन्तरमेवेति चावधारणस्य शङ्कापनयनमन्तरेणासंभवात् ।
अवधारणेन तु शङ्कापनये परस्पराश्रयप्रसङ्गः ॥
स्यादेतत् ।
यो यो धूमो दृष्टः स सर्वस्तावदार्द्रेन्धनसहितवह्न्यनन्तरमेव न पिशाचानन्तरम् ।
स च कादाचित्कतया निमित्तमपेक्षमाणो यदनन्तरमेव गम्यते तदेवाप्रतीतव्यभिचारं निमित्तीकरोति, न तु प्रतीव्यभिचारं रासभादि ।
नापि सर्वथा अनुपलब्धपूर्वपिशाचादि ।
यदि न तन्निमित्तं कस्मात् विनापि वह्नि क्वचिद् धूमो नोपलभ्यते? अथासौ सर्वथा वह्निसहितः, तथा सत्याद्रेन्धनवत् कथं वह्निरपि न कारणम्? कारणं चेत् कथं तदन्तरेण धूमभावशङ्का? अकारणस्य हि कार्यस्य नित्यं सत्त्वमसत्त्वं वा स्यात्, अनपेक्षत्वात्, न कादाचित्कत्वम् ।
नाप्यनेककारणकम्, अकारणकत्वप्रसङ्गादेव ।
वह्न्यनन्तरमेव भाव इति हि धूमस्य वह्निकार्यत्वम् ।
स चेत् अवह्नेरप्यनन्तरं नैवकारार्थः स्यादिति न वह्नेः कार्यम् ।
एवमन्यस्यापि न कार्यम् ।
न हि अन्यानन्तरमेव भवति, वह्नेरप्यनन्तरं भावात् ।
ततश्चाहेतुको धूमः स्यात् ।
तथा च कादाचित्कत्वव्याहतिः ॥
सत्यम्, तत्कार्यत्वसिद्धौ स्यादेवम् ।
तदेव तु तदनन्तरमेव भाव इत्येवंरूपं नास्ति ।
यद्यपि च विना वह्नि नोपलब्धो धूमो यद्यपि च पिशाचानन्तरं नोपलभ्यते तेषामनुपलब्धेः, तथापि पिशाचकार्य एव धूमस्यत्र तत्र वह्निः कुतश्चित् स्वहेतोरूपनिपतितो रासभ इव न तु धूमस्य जनमः ।
तेन तदभावे ऽपि तज्जातीय एव कारणभेदजन्मा कदाचित् कादाचित्को धूमः स्यादिति अनिवृत्तिरेव शङ्कायाः ।
न दृष्टसंभवे नादृष्टं कल्पयितुं युक्तमिति शक्यं भवद्भिर्वक्तुम्, अनुपलब्धिलक्षणप्राप्तस्य अशक्यनिराकरणत्वात् ।
न चानुपलब्धन्तराण्यपि तन्निषेधे प्रभवन्ति ।
तस्मात् अनन्तरमेवेत्यवधारणाभावात् नैवंरूपं कार्यकारणभावावधारणं युक्तम् ।
न च यद् यदन्यसहितानन्तरम् मुपलब्धं तत् तदन्यरहितात् तस्माद् भवद् भिन्नजातीयं भवति ।
उक्तं हि रासभसहिताद् वह्नेर्यादृशो धूमः तादृश एव तद्विरहिताद् वह्नेरिति ।
तस्मादेवंविधा शङ्कापिशाची स्वनिवारकं तदुत्पत्तिनिश्चयमास्कन्दन्ती न शक्या निवारयितुम् ।
अपि चास्तु तदुत्पत्तिनिश्चयः, तथापि कस्मात् कारणमन्तरेण न कार्यं भवति? तथा च सत्यनपेक्षतया कादाचित्कत्वविहतिरिति चेत्---यथाह,
नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्वसंभवः ॥
इति ।
अस्तु तर्हि संबन्धः स्वाभाविकतया अन्यानपेक्षो ऽव्यभिचारी गमकाङ्गम् ।
स च यो वा स वा भवतु, कृतं कार्यकारणभावावधारणायासेन ।
यथा चैतत् तथात्रैव प्रदर्शयिष्यामः ॥
अपि च कार्यात् कारणमनुमीयमानं ततः पूर्वमेवानुमीयेत, न तु वर्तमानकालम् ।
न हि हेतुसत्ता कार्यकाला कार्योत्पादाङ्गम्, अपि तु तत्पूर्वकाला ।
न हि नदीपूरभेदः स्वसत्तासमयवर्ति वर्षं गमयत्यपि तु तत्पूर्वकालम् ।
तत्कालं तु न तस्य कारणम् ।
अत एव साधकबाधकप्रमाणाभावेन तत्कालवर्तिन वर्षे सन्दिहाना न तदर्थिनः प्रवर्तन्ते ।
एवं धूमादप्यग्निः तत्पूर्वकाल एवानुमीयेत, न तु वर्तमानकालः ।
तथा च सति न तदर्थिनः तत्र निःशङ्कं प्रवर्तेरन् ।
अपि च रसादन्यद्रूपं रससमानकालमनुमिमते ऽनुमातारः ।
न चानयोरस्ति का कारणभावः तादात्म्यं वा ।
यद्युच्येत तत्पूर्वेभ्यो रूपरसगन्धस्पर्शक्षणेभ्यो रसक्षणो जायते, स स्वकारणं पूर्वरूपक्षणमनुमापयन् यादृशा तेन जनितः, तादृशमेवानुमापयति ।
स चानुमापकरसक्षणसमानकालरूपक्षणान्तरजनक एव स्वकारणम् इति तादृशमेव गमयति ।
तथा च कार्यसमानकालरूपानुमानसिद्धिः ।
एतेन धूमानुमानं व्याख्यातम् ।
यथाह,
एकसामग्र्यधीनस्य रूपादेरसतो गतिः ।
हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥
इति ॥
अत्रोच्यते ।
यो ऽयु गमकरससमानकालो रूपक्षणः, स किं तज्जनकस्य रूपक्षणस्य स्वभाव अत तत्स्वभावावच्छेदको ऽस्वभावभूतः? न तावत् स्वभावः, एकस्मिन्नभिन्ने जन्यजनकभावानुपपत्तेः, तस्य भेदाश्रयात् ।
तदस्वभावभूतः कथं तदनुमाननिवेशी? तदवच्छेदकत्वादित चेत्? ननु नैतावताप्यस्य तुल्यकालस्य रूपस्य कारणभाव इति कथं कार्यं हेतोर्गम्येत? विशिष्टेन कारणस्वभावेनास्वभावो ऽपि असावाक्षिप्यते विशेषणतयेति चेत्? नन्वाक्षिप्यते ज्ञाप्यत इत्यनर्थान्तरम् ।
स किं कारणानुमितेः प्रागथानुमितिसमये पश्चाद् वा? न तावत् प्राक् न हि सत्तामात्रेण कारणं तद् गमयत्यतिप्रसङ्गात्, किं तु स्वज्ञानेन ।
न च कार्यमस्य गमकम्, अकारणत्वादित्युक्तम् ।
अत एवानुमितिसमये ऽप्यगमकम्, स्वज्ञानेन गमकत्वात् ।
उभयोश्च ज्ञानयोः सहभवतोः सव्येतरविषाणवत् कार्यकारणभावाभावात् ।
तथा च रसात् कार्यात् तत्कारणं रूपमनुमातव्यम् ।
तथा च कारणात् कार्यानुमानं तादात्म्यतदुत्पत्तिभ्यामन्यत इति नाभ्यामेव प्रतिबन्धसिद्धिः ।
लौकिकानां चेदं रसाद् रूपानुमानम्, न चैते पिशितचक्षुषः क्षणानामन्योन्यभेदमध्यवस्यन्ति ।
न चानध्यवस्यन्तः प्रवृत्तरूपोत्पादनसामर्थ्यं रसहेतुं रूपमनुमातुमुत्सहन्ते ।
न च लक्षणानुरोधेन लक्ष्यस्यान्यथाकरणं युक्तं परीक्षकारणम् ।
अतिपतितलोकमर्यादानां तेषां तत्त्वानुपपत्तेः ।
यथाहुः,
सिद्धानुगममात्रं च कर्तुं युक्तं परीक्षकैः ।
न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् ॥
इति ।
अपि चाद्यतनस्य सवितुरूदयस्य ह्यस्तनेन सवितुरूदयेन, चन्द्रोदयस्य च समानकालस्य समुद्रवृद्ध्या, मध्यनक्षत्रदृष्ट्या चाष्टमास्तमयोदयस्य, न कार्यकारणभावः तादात्म्यं वा, अथ च दृष्टो गम्यगमकभावः ।
अपि च तादात्म्ये ऽपि कथं गम्यगमकभावः? न हि तदेव कर्म च कर्तृ चेति युक्तम् ।
तस्य भेदाश्रयत्वात् ।
यद्यपि च वृक्षत्वशिंशपात्वे परमार्थतो न भिन्ने तथापि भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां कल्पितभेदयोर्गम्यगमकभाव इति चेत्---न, वास्तवमेव वृक्षत्वशिंशपात्वयोर्भेदमुपपादयिष्यामः ।
अपि च काल्पनिकमपि रूपं विचार्यमाणं न यथा भिन्नमेवमभिन्नमपि न भवति, वस्तुनो ऽपि तुच्छत्वप्रसङ्गात् ।
काल्पनिकस्यावास्तवत्वेन तत्त्वानुपपत्तेः ।
तस्मात् कल्पनारूढयोर्नवस्तुतादात्म्यम्, नापि परस्परम् ।
तथा सति सद्द्रव्यपार्थिववृक्षशिशपादिविकल्पानां च पर्यायत्वप्रसङ्गात् ॥
स्यादेतत् ।
कल्पनाभेदविरहिणां भेदमुल्लिखन्त्यपि परस्परमेषामभेदमप्यवगाहते सामानाधिकरण्याकारत्वात्, अभेदानुल्लेखे तदनुपपत्तेः ।
तथा च तादात्म्यं सिद्धमिति ।
तदयुक्तम् ।
उक्तं हि यथा सामानाधिकरण्यं न भावानामभेदसाधकम् ।
जात्यादिशब्दा हि जात्यादीन् निमित्तीकृत्य द्रव्ये वर्तन्ते ।
तच्चाधिकरणमेकमिति सामानाधिकरण्यम् अश्नुवते, न पुनर्जात्यादीनपि मिथो मिश्रयन्ति ।
शब्दसमानविषयाणां विकल्पानाम् अपीयमेव गति ।
तस्माद् यत्र गम्यगमकभावो न तत्र तादात्म्यम्, यत्र तादात्म्यं न तत्र गम्यगमकभाव इति सद्धिम् ।
यत्तु विदितशिंशपाव्यवहारमविदितवृक्षव्यवहारमुच्चायां हि शिंशपायां वृक्षशब्दः प्रयुक्तः, तस्मादुच्चत्वमेव वृक्षशब्दप्रवृत्तिनिमित्तमिति मन्यमानं मूढं प्रति शिंशपात्वेन वृक्षव्यवहारमात्रं साध्यते ।
वामनायामपि शिशपायां वृक्ष इति व्यवहर्तव्यम्, शिंशपामात्रानुबन्धित्वाद् वृक्षत्वस्येति ।
तत्रापि चेद् व्यवहारः साध्यः स शिंशपाया भिन्न इति, न तादात्म्यम् ।
व्यवहारयोग्यता चेत्? सा शिंशपाया अभिन्नेति न गम्यगमकभावः ।
व्यावृत्तिभेदे चोक्तम् ।
तस्मात् तादात्म्यतदुत्पत्तिभ्यां प्रतिबन्ध इति मनोरथमात्रम् ॥
यश्च वैषेशिकैः चतुष्प्रकारः संबन्ध उच्यते, अस्येदं कार्यं कारणं संबन्ध्येकार्यसमवायि विरोधि चेति लैङ्गिकम् # वै. सू. 9।2।1 # ॥
इति, अत्रापि संबन्धिपदेनैव सर्वापसंग्रहात् शेषाभिघानं व्यर्थम् ।
न च संबन्धिपदोपात्तस्यातिप्रसक्तिः शेषपदैर्निवार्यते ।
तथा सति शेषपदान्येव सन्तु कृतं संबन्धिपदेन, तेभ्य एव संबन्धिभेदानामधिगतेः ।
न चैवं चातुर्विध्यं संबन्धस्यानुमानङ्गस्य ।
तच्चेष्यते ।
तथा च संबन्धिपदस्य संबन्धिमात्रावरोधे ऽतिव्याप्तिः ।
अपि च भूतं वर्षम् अभूतस्य वाय्वभ्रसंयोगस्य कथं विरोधि? तद्धि तदनुकूलमेव एवम् अभूतम् वर्षं भूतस्य वाय्यभ्रसंयोगस्याप्रतिकूलम् ।
एवं भूतो नकुलजयो न भूतस्य सर्पपराजयस्य विरोधी ।
नापि अभूतो ऽसौ अभूतस्य विरोधी ।
येषां पुनर्विरोधः, तेषामन्यतमदन्यतमस्य न लिङ्गमपि तु प्रतिक्षेपकमेव ॥
एतेनैव,
मात्रानिमित्तसंयोगिविरोधिसहचारिभिः ।
स्वस्वामिवध्यघाताद्यैः सांख्यानां सप्तधानुमा ॥
इत्यपि पराकृतं वेदितव्यम् ॥
तस्माद् यो वा स वास्तु संबन्धः केवलं यस्यासौ स्वाभाविको नियतः, स एव गमको गम्यश्चेतरः संबन्धीति युज्यते ।
तथा हि धूमादीनां वह्न्यादिसंबन्धः स्वाभाविकः, न तु वह्न्यदीनां धूमादिभिः ।
ते हि विनापि धमादिभिरूपलभ्यन्ते ।
यदा त्वाद्रेन्धनादिसंबन्धमनुभवन्ति, तदा धूमादिभिः सह संबध्यन्ते ।
तस्माद्वह्न्यादीनामाद्रेन्धानाद्युपाधिकृतः संबन्धो न स्वाभाविकः, ततो न नियतः स्वाभाविकस्तु धूमादीना वह्न्यादिसंबन्धः, तदुपाधेरनुपलभ्यमानत्वात् ।
क्वचिद् व्यभिचारस्यादर्शनात् मानो ऽपि दर्शनानर्हतया साधकबाधकप्रमाणाभोवन सन्दिह्यमान उपाधिः संबन्धस्य स्वाभाविकत्व प्रतिबध्नातीति सांप्रतम् ॥
अवश्यं शङ्कया भाव्यं नियामकमपश्यताम् ।
इति दत्तावकाशा खल्वियं लौकिकप्रमाणामर्यादातिक्रमेण शङ्काशिची लब्ध्रपसरा न क्वचित् नास्तीति नायं क्वचित् प्रवर्तेत ।
सर्वत्रैव कस्यचित् कथञ्चिदनर्थस्य शङ्कास्पदत्वात् ।
अनर्थशङ्कायाश्च प्रेक्षावतां निवृत्त्यङ्गत्वात् ।
अन्ततः स्निग्धान्नपानोपयोगे ऽपि मरणादिदर्शनात् ।
तस्मात् प्रामाणिकलोकयात्रामनुपालयता यथादर्शनं शङ्कनीयम् ।
न त्बदृष्टपूर्वमपि ।
न त्वदृष्टपूर्वमपि ।
विशेषस्मृत्यपेक्षो हि संशयो नास्मृतेर्भवति ।
न च स्मृतिरननुभूतचरे भवितुमर्हति ।
तस्मादुपाधि प्रयत्नेनान्विष्यन्तो ऽनुपलभ्यमाना नास्तीत्यवगम्य स्वाभाविकत्वं संबन्धस्य निश्चिनुमः ॥
स्यादेतत् ।
अन्येनान्यस्य सहकारेण चेत् स्वाभाविकः संबन्धो भवेत्, सर्वं सर्वेण स्वभावतः संबध्येत ।
तथा च सर्वं सर्वस्माद् गम्येत ।
अथान्यस्य चेदन्यत् कार्यम्, कस्मात् सर्वं सर्वस्य न भवति, अन्यत्वाविशिषात् ।
ततश्च स एवातिप्रसङ्गः ।
यद्युच्येत, न भावस्वभावाः पर्यनुयोज्याः, तस्मादन्यत्वाविशेषे ऽपि किञ्चिदेव कारणं कार्यञ्च किञ्चिदिति ।
नन्वेष स्वभावानामनुयोगो भिन्नानामकार्यकारणभूतानामपि स्वभावप्रतिबन्धे तुल्य एव ।
तस्माद् यत्किञ्चिदेतत् ।
कः पुनः प्रमाणेन स्वाभाविकः संबन्धो गृह्यते? प्रत्यक्षसंबन्धिषु प्रत्यक्षेण, यथाह---लिङ्गलिङ्गिसंबन्धदर्शनमाद्यमिति ।
यदा तावत् प्रथमं वह्निधूमयोः सहाद्रेन्धनयोः संबन्धं पश्यति तदा द्वयोरपि किं स्वाभाविकः संबन्ध औपाधिको वा? अथ धूमस्यौपाधिको वह्नेः स्वाभाविकः, वह्नेर्वौपाधिको धूमस्य तु स्वाभाविक इति न शक्यं निर्धारयितुम् ।
तत्र वह्नेरनार्द्रेन्धनस्य विनाधूममयोगोलकादौ दर्शनाद् आद्रेन्धनोपाधिरस्य धूमेन संबन्धो, न तु स्वभाविक इति निश्चीयते ।
धूमविशेषस्य तु विना वह्निमनुपलभ्भाद् उपाधिभेदस्य चादृश्यमानस्य कल्पनायां प्रमाणाभावाद् विशेषस्मृत्यपेक्षस्य च संशयस्यानुपलब्धपूर्वे अनुत्पादात्, उत्पादे वा अतिप्रसङ्गात् प्रेक्षावतां प्रवृत्त्युच्छेदात् स्वाभाविकः संबन्धः अवधार्यते ।
तदिदमवधारणं न मानसम्, अनपेक्षस्य मनसो बाह्ये प्रवृत्तावन्धबधिराद्यभावप्रसङ्गात् ।
भूयोदर्शनसापेक्षस्य च प्रवृत्तौ प्रमाणान्तरापातात्, न हि मनो निमित्तम् इत्येव मानसं प्रत्यक्षं भवति ।
तथा सति न किञ्चिन्मानसम्, प्रत्ययमात्रस्य मनोनिमित्तत्वात् ।
तत्तदसाधारणकारणापेक्षयो तु तत्प्रमाणव्यपदेशे अत्रापि भूयोदर्शनम् असाधारणमिति प्रमाणान्तरं जातम् ।
तस्मादभिजातमणिभेदतत्त्ववद्भूयोदर्शनजनितसंस्कारसहायमिन्द्रियमेव धूमादीनां वह्न्यादिभिः स्वाभाविकसंबन्धग्राहीति युक्तमुत्पश्यामः ॥
एवं मानान्तरविदितसंबन्धिषु मानान्तराण्येव यथास्वं भूयोदर्शनसहायानि स्वाभाविकसंबन्धग्रहणे प्रमाणमुन्नेतव्यानि ।
स्वभावतश्च प्रतिबद्धा हेतवः स्वसाध्येन यदि साध्यमन्तरेण भवेयुः, स्वभावादेव प्रच्यवेरन्निति तर्कसहाया निरस्तसाध्यव्यतिरेकवृत्तिसन्देहा यत्र दृष्टाः तत्र स्वसाध्यमुपस्थापयन्त्येव ।
न च श्यामादिषु मैत्रतनयादीनां स्वाभाविकप्रतिबन्धसंभवः, अन्नपानपरिणतिभेदस्योपाधेः श्यामताया मैत्रतनयसंबन्धं प्रति विद्यमानत्वेन मैत्रतनयत्वस्यागमकत्वात् ।
एतेन पक्वान्यस्य वृक्षस्याग्रवर्तीनि फलानि एतद्वृक्षप्रभवत्वात् पतितफलवदित्यादयो ऽप्यौपाधिकसंबन्धा व्याख्याताः ।
तस्मात् सर्वमवदातम् ॥
नन्वन्तिमप्रत्यक्षमतीताभ्यां प्रत्यक्षाभ्यां कथमनुगृह्यते इत्यत आह---स्मृत्या चेति ।
चो हेत्वर्थे ।
यद्यपि स्वरूपतो लिङ्गदर्शने अतीते, तथापि तज्जनिता स्मृतिः अनुगृह्णाति यस्मादतस्ताभ्यामनुगृह्यते ।
अनुग्रहश्च करणमेव ।
संबन्धसमृतिसहकारिणा इन्द्रियेण स्वसाध्याविनाभूतलिङ्गविज्ञानं यदुपजन्यते तत् परामर्श
इत्याख्यायते ।
तथाभूतलिङ्गगोचर एव चतुर्थो वाक्यावयव उपनय इत्याख्यायते ।
अत्र पृच्छति---कः पुनरिति ।
अनुमानशब्दस्यार्थो न तावदनुमितिः ।
न खलु लिङ्गपरामर्शो ऽनुमितिः, प्रत्यक्षफलत्वात् ।
तस्मादनुमीयते अनेनेति करणार्थो वक्तव्यः ।
स च लिङ्गविषयः क्रिया च लिङ्गिविषयेति विषयवैषम्यात् न क्रियाकरणभाव इति भावः ।
उत्तरम्---अनुमीयत इति ।
तेनैवाभिप्रायेण पृच्छति---किं पुनरिति ।
उत्तरम्---अग्नीति ।
प्रष्टा स्वाभिप्रायमुद्घाटयति---कथं पुनरन्यविषयमिति ।
एकदेशिन उत्तरम्---नानियमादिति ।
वृक्षोद्देशेन प्रवर्तितः परशुः कर्त्रा न तदवयवोद्देशेन, तस्माद् वृक्षविषयः परशुर्न तदवयवविषयः ।
द्वैधीभावश्चावयवेषु न वृक्षे, तस्य ततो विनाशात् इति भावः ।
क्वचित् पुनर्यद्विषयमिति ।
औष्ण्यापेक्षो वह्निसंयोगः करणं तण्डुलेषु ।
रूपादिपरावृत्तिरूपः पाकः तेप्पेव ।
तण्डुलेन पिठरं लक्षयति ।
न केवलं समानविषयत्वानियमः कर्तुः करणं भिन्नमित्यपि नियमो नास्तीत्यनियमाभिधानप्रसङ्गेनाह-क्वचित् पुनरिति ।
स्थितिः सावयवेषु समवायो वा प्रदेशविशेषे संयोगो वा ।
एवमनियमं दृष्टान्त उक्त्वा दार्ष्टान्तिके योजयति---एवमन्यविषयस्येति धूमविषयस्य प्रमाणस्याग्निविषया क्रिया प्रमितिः ।
यदा अग्निविषयमेव ज्ञानं प्रमाणं तत्राह---क्वचित् पुनरिति ।
आक्षिपति---किं पुनरिति ।
अत्र हेतुमाह---प्रमितत्वात् ।
उत्तरम्---प्रमीयते ।
तद्विभजते---हेयत्वेनेति ।
अनियमवादिन एकदेशिनो मतं नियमवादी दूषयति---तन्नेति ।
हेतुमाह---प्रमाणफलयोरिति ।
यदि अन्यविषयं करणमन्यविषया क्रिया भवेत् ततश्छेदने खदिरं प्राप्ते पनसादावपि च्छिदा स्यादित्यतिप्रसङ्गः स्यात् ।
यद्यपि वृक्षोद्देशेन कर्त्रा परशुः प्रयुक्तस्तथाप्ययं वृक्षमिव तदवयवानपि प्राप्त इति तद्विषयो भवति ।
तेन तदवयवद्वैधीभावमुखेन वृक्षविषयामपि द्वैधीभावक्रियां जनयतीति न वैयधिकरण्यं करणफलयोः ।
एवं यद्यपि लिङ्गविषयं प्रत्यक्षफलतया लिङ्गज्ञानम्, तदनुबद्धस्य तस्य मानसप्रत्यक्षगोचरत्वात्, लिङ्गनिरूपणमन्तरेण तदनिरूपणात् ।
न तु लिङ्गज्ञानं लिङ्गिनं विना न निरूप्यते ।
तस्मात् प्रतिपत्तयनुबन्धितया विषयो न लिङ्गज्ञानस्य लिङ्गी, किं तु लिङ्गमेव ।
तथपि लिङ्गिविषयप्रतिपत्तिजनकत्वात् लिङ्गज्ञानं भवति लिङ्गिविषयम् ।
न चातिप्रसङ्गः, स्वाभाविकसंबन्धशालित्वात् लिड्स्य लिङ्गिनि ।
तस्माद् द्विविधो विषयभावः प्रतिपत्त्यनुबन्धितया, प्रतिपाद्यतया च ।
तत्र पूर्वः फलस्य, उत्तरस्तु प्रामाण्यस्येति विवेकः ।
तस्मात् सुष्ठुक्तम्---प्रमाणफलयोर्विषयभदानभ्युपगमादिति ।
स्थितौ तु भेदो दर्शयिष्यते कर्तुः करणस्य चेति ।
तदेवं तानि ते इति विग्रहद्वयं परस्परापेक्षमुपपाद्य तानि तदिति विग्रहद्वयं परस्परापेक्षमुपपादयति---यदा पुनरिति ।
लिङ्गलिङ्गिसंबन्धदर्शनं च अनन्तरलिङ्गदर्शनं च तत्स्मृतिश्चेति विग्रहः ।
अत्रापि सर्वसन्देहेष्विदमुपतिष्ठते, व्याख्यानतो विशैषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति भावः ॥
ननु यदि प्रमाणफलयोरेकविषयत्वं तर्हि परामर्शज्ञानविषयीकृत एवार्थो विषयीकर्तव्यो नान्यः ।
स च प्रत्यक्षप्रमाणविषय एवेति कृतमनुमानेनेत्याशयवान् पृच्छति---किं पुनरिति ।
तैर्विशिष्टेन लिङ्गपरामर्शेनेत्यर्थः ।
उत्तरम्---शेषो ऽर्थः ।
प्रत्यक्षप्रमितात् लिङ्गादन्यो लिङ्गी तद्विषयत्वं च लिङ्गपरामर्शस्योक्तमिति ।
पृच्छति---अनुमानमित्यत्र किं कारकम्? अनुमीयते ऽनेनेति करणकारकमेव युक्तं, तस्यैव लिङ्गदर्शनद्वयस्मृतिपूर्वकत्वात्, न त्वनुमितिरनुमानं प्रमाणव्यापारत्वेनातन्निमित्तत्वात् करणकारकादन्यत्वाद् अतत्पूर्वकत्वाच्चेति भावः ।
उत्तरम्---भावः करणं वा ।
ननूक्तं न भावः कारकमित्यत आह---यदेति ।
न द्रव्यादीनामेव कारकत्वम्, अपि तु व्यापारस्यापि ।
अन्यथा कर्मनामधेयेषूद्भिदादिशब्देषु न कारणविभक्तिः श्रूयेत, उद्भिदा यजेत दर्शमौर्णमासाभ्यां यजेतेत्यादि ।
संभवति हि तस्यापि सिद्धस्य फलभावनायां निमित्तत्वम् ।
एवं वह्निप्रमायाः सिद्धायाः संभवति हानादिबुद्धिनिमित्तभावः ।
एतस्मिश्च कल्पे तत्पूर्वकमित्यत्र तदा हानादिसंबन्धावधारणसमये प्रथमं वह्नित्वस्य लिङ्गस्य दर्शनम्, अथानुमानिकं द्वितीयम्, अथ संबन्धस्य स्मृतिरिति त्रयमेकीकृत्य परामर्ष्टव्यम् ।
तत्पूर्वको हि तथा चायमनुमीयमानो वह्निरिति लिङ्गपरामर्शः ।
तस्माद् दाहपाकादिकारित्वादुपादेयो वह्निरिति ज्ञानमनुमानस्य फलम् ।
ततश्च तत्पूर्वकत्वमपि सिद्धं भवतीति भावः ।
करणकारकपक्षे फलमाह---यदा करणमिति ।
अत्र विमृशति-लिङ्गेति ।
तत्पूर्वकत्वानुमितिनिमित्तत्वसमानधर्मदर्शनात् संशयः ।
अत्र आचार्यदेशीयमतमाह---एके तावदिति ।
सत्स्वपीतरेषु स्मृतेरभावादनुमितेरनुत्पादनेन स्मृतिरेव अनुमानम्, इतरे तु तदनुग्राहका इत्यर्थः ।
मतान्तरमाह---अपर इति ।
सत्स्वपीतरेषु लिङ्गपरामर्शं विना अनुमित्यनुत्पादात्, लिङ्गपरामर्श एवानुमानमितरैरनुगृहीत इत्यर्थः ।
स्वमतमाह---वयं त्विति ।
अन्वयव्यतिरेकाभ्यामशक्यो गुणप्रधानभावो विवेक्तुम्, तयोः सर्वत्र तुल्यत्वादिति भावः ।
तत् किमिदानीं नास्त्येव गुणप्रधानभाव इत्यत आह---प्रधानेति ।
नान्वयव्यतिरेकावत्र प्रभवतो न तु न्यायान्तरमिति भावः ।
पृच्छति---कः पुनरत्रेति ।
उत्तरमाह---आनन्तर्येति ।
नेहास्ति तिरोहितं किञ्चित् ॥
अतिव्याप्ति चोदयति---यदीति ।
ननु भवतु प्रत्यक्षद्वयपूर्वकः संस्कारो ऽनुमानम्, तेनापि शेषो ऽर्थो ऽनुमास्यत इत्यत आह---स्मृतिहेतुः नानुमितिहेतुरित्यर्थः ।
परिहरति---नैष दोष इति ।
विशिष्टज्ञानं विज्ञानम् विशषश्च स्मृतेरन्यत्वम्, न हीन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं स्मृतिः ।
तस्याः संस्कारमात्रप्रभवतया अन्यस्मादनुत्पत्तेः ।
तेन च ज्ञानेन स्वकारणं विशेषितम्, प्रत्यक्षसूत्रे यत इत्यध्याहारात् ।
तस्मादिहापि स्वकारणविशेषकं स्मृतेरन्यद् विज्ञानमधिकृतम् ।
न च संस्कारः प्रत्यक्षपूर्वो ऽपि तादृशज्ञानकारणमिति न तस्य प्रसङ्ग इत्यर्थः ।
निर्णये ऽनुपजनितफले प्रसङ्ग निवारयति-निर्णय इति ।
विभागसूत्राक्षिप्तप्रमाणसामान्यलक्षणपूर्वकं विशेषप्रमाणलक्षणं तदपेक्षं प्रवर्तमानं नानुपजनितफले ऽप्रमाणे निर्णयमात्रे प्रवर्तितुमर्हति, जनितफलस्तु निर्णयः प्रमाणमेवेति भावः ।
स्वविषयपरिच्छेदकत्वात् फलं परिच्छेद एव परिच्छेदकः ।
स्वार्थिकः प्रत्ययः ॥
त्रिविधमिति सूत्रावयवमर्थगौरवादराद् वार्त्तिककार उद्भाष्यं व्याचष्टे---त्रिविधमितीति ।
अन्वयव्यतिरेकिणं लक्षयति---तत्रेति ।
विवक्षितोपपत्तिः पक्षधर्मता ।
तज्जातीयोपपत्तिः अन्वयः ।
विपक्षावृत्तिः व्यतिरेकः ।
अन्वयिमात्रात् व्यतिरेकिमात्राच्च व्यावृत्तो ऽन्वयव्यतिरेकी दर्शनीय इति हेतुत्रयसाधारणे अबाधितविषयत्वात्सत्प्रतिपक्षत्वे सती अपि हेतुरूपे न दर्शिते ।
विवक्षितप्रत्ययमन्तरेण चान्वयव्यतिरकयोः तज्जातीयातज्जातीयवृत्तिव्यावृत्त्योरशक्यप्रतीतित्वाद् विवक्षितोपादानम् ।
तत्प्रसङ्गेन च तद्धर्मता हेतुत्रयसमानपि दर्शिता ।
तस्योदाहरणमाह---यथेति ।
प्रत्यक्षत्वादिति हेतुरात्मनि नित्ये ऽस्तीत्यत उक्तम्---बाह्यकरणेति ।
तथापि सामान्यविशेषैर्घटत्वादिभिर्व्यभिचार इत्यत उक्तम्--सामान्यविशेषवत्त्व इति ।
तथापि परमाणुभिर्बाह्यकरणप्रत्यक्षैर्योगिनां व्यभिचार इत्यत उक्तम्--अस्मदादीति ।
तथा चायं नित्येभ्य आकाशादिभ्यो घटादिषु चानित्येष्वन्वित इति भवत्यन्वयव्यतिरेकी ।
अन्वयिनं लक्षयति--अन्वयीति, विपक्षहीन इति ।
विपक्षाभावेन ततो व्यतिरेकाभावं दर्शयति ।
सद्भ्यामभावो निरूप्यते नैकेन सतेत्युक्तम् ।
तेन हेतोर्यतो विपक्षान्निवृत्तिः स एव नास्तीति कुतो निवर्तताम्, पक्षादन्यस्य सर्वस्यैव सपक्षत्वात्? न निवर्तत इति चेत्? अस्तु तर्हि हेतोस्तत्र वृत्तिः, निवृत्तिनिषेधरूपत्वाद् वृत्तेरिति चेत्? यस्याभावाधिकरणत्वमपि न संभवति निरूपाख्यस्य तस्य भावाधिकरणत्वशङ्केति सुभाषितम् ।
न खलु मुमुर्षोसतोयाभ्यवहारे ऽप्यसमर्थस्य शष्कुलीभक्षणं शङ्कते चेतनः ।
तत् किमिदानीं भावाभावौ न परस्पराभावात्मानौ यदेकनिषेधेनान्यविधिः स्यात्? सत्यम्, यत्रैकतर एतयोर्निषिध्यते विधीयते वा तत्र तदितरविधर्निषेधो वावश्यं भवेत् ।
न त्विह परमार्थतः कस्यचित् निषेधः ।
न चात्र निरूपाख्यो हेतोर्व्यतिरेको निषिध्यते ।
ननु निरूपाख्यो निषेधाधिकरणमिति च वचः स्वचरितविरुद्धम् ।
न चैतत् तत्त्वतो निरूपाख्ये हेतोर्व्यतिरेकं वा हेतुं वा व्यासेधामो नाप्यन्वयं विदध्मः ।
नो खल्वयं सकलप्रतिपत्त्यभाजनं क्वचिदप्युपयुज्यते ।
उपयोगे वा निरूपाख्यो न भवेत् ।
कस्तर्हि न निरूपाख्ये हेतोर्व्यतिरेक इत्यस्यवचनस्यार्थः? अथ निरूपाख्ये हेतोर्व्यतिरेक इत्यस्य भवद्भाषितस्य को ऽर्थः? अहृदयवाचां खलयहृदया एव प्रतिवाचो भवन्ति भवन्ति ।
यक्षानुरूपो बलिरिति हि लौकिकानाम् आभाणकः ।
न चात्यन्तादृष्टपूर्वाणां कल्पनाजालगोचरत्वमिति चोपपादितमन्यथाख्याति ।
निरूपणवासरे ।
कल्पितगोचरश्च व्यतिरेको ऽपि काल्पनिक इति नानुमानाङ्गम् ।
स्वाभाविकरूपसंपन्नं हि प्रमाणं तत्त्वज्ञानरूफलाय कल्पते न कल्पितरूपसंपदा, तस्याः सर्वत्र सुलभत्वादिति ।
तत्त्वविषयत्वं चानुमानस्योपपादयिष्यते ।
तस्मादनुपाख्ये विपक्षे हेतोर्व्यतिरेकनिवृत्तौ वा व्यतिरेके वा हेतुप्रवृत्तौ वा सहृदयानां मूकतैवोचिता ।
न चैतावता हेतोरगमकत्वम् ।
न हि व्यतिरेको ऽस्तीत्येव गमको भवति ।
मा भूदसाधारणस्यापि गमकत्वम्, किं तु स्वसाध्येन सह स्वाभाविकसंबन्धशालितया ।
सा चान्वयव्यतिरेकाभ्यामिवान्वयमात्रेणप्युपाधिरहितेन शक्या ज्ञातुमिति कृतमत्र व्यतिरेकेण ।
विपक्षसंभवे तु तत्रापि हेतुवृत्तिशङ्कानिराकरणाय व्यतिरेकग्रहणम् उपासनीयमिति सर्वमवदातम् ॥
उदाहरणमाह---यथेति ।
स्वमते त्वभिधेयो विशेषः प्रमेयत्वात् सामान्यवत् ।
परमाण्वाकाशादयः कस्यचित् प्रत्यक्षाः प्रमेयत्वात् घटवदित्यादयो द्रष्टव्याः, विश्वस्यैव सदसत्प्रभेदभिन्नस्य यथास्वं पक्षसपक्षयोरन्तर्भावेन विपक्षाभावादिति ।
व्यतिरेकिणं लक्षयति---व्यतिरेकीति ।
तमिमं व्यतिरेकिणं हेत्ववयवलक्षणव्याख्यानावसरे वार्त्तिककृद् उपपादयिष्यतीति नेहोपपादितः ।
तदेवं त्रिविधमित्यवच्छिद्य व्युत्पाद्य संप्रति पूर्ववदित्यादिना एकवाक्यतया व्याचष्ट---अथ वा त्रिविधमिति ।
तिसृष्वपि विधासु साध्यवचनस्य पूर्वमपपादनात् पूर्वं साध्यं तद् यस्यास्त्यधिकरणतया तत्पूर्ववत् ।
तथाप्यनित्याः परमाणवो गन्धवत्त्वाद् घटवदित्यपि हेतुः स्यात् ।
अस्ति हि साध्यं तस्यापि, पार्थिवानामप्यणूनामनित्यत्वेन सिषाधयिषितत्वादित्यत आह---व्याप्त्येति ।
अस्ति गन्धवत्त्वस्य साध्यं न तु व्याप्त्या, पृथिवीमात्रवृत्तिततया चतुर्षु परमाणुषु तदभावात् ।
साध्यस्योपयुक्तत्वात् ततो ऽन्यस्तज्जातीयः शेषः, साध्यसामान्येन समान इति यावत् ।
तदिदमाह---साध्यतज्जातीय इति ॥
पदानि विभज्यार्थमाह---पूर्ववन्नामेति ।
सामान्यतो ऽदृष्टमिति न।मन्तर्भाव्य व्याचष्ट---सामान्यतश्चेति ।
तथा च बाधितविषयं प्रकरणसमं चानुमानं स्यादित्यत आह---चशब्दादिति ।
वार्त्तिके चशब्देनासत्प्रतिपक्षत्वमति सूचितम् ।
तेन सूत्रस्थेन चशब्देनाबाधितविषयत्वमसत्प्रतिपक्षत्वमपि रूपद्वयं समुच्चितमित्युक्तं भवति ।
नन्वेवं त्रिविधो ऽपि हेतुः पञ्चलक्षणः स्यादित्यत आह---एवमिति ।
एतदुक्तं भवति अबाधितविषयमसत्प्रतिपक्षं पूर्ववदिति च ध्रुवं कृत्वा शेषवदित्येका विधा, सामान्यतोदृष्टमिति द्वितीया, शेषवत्सामान्यतोदृष्टं चेति तृतीया ।
त्रिविधमनुमानम् ।
तत्र चतुर्लत्रण द्वयम् ।
एकं पञ्चलक्षणमिति ।
तदेवं स्वमतेन सूत्रं व्याख्याय भाष्यकृन्मतेन व्याचष्ट---अथ वेति ।
आक्षेप्तुं स्वरूपतो व्याचष्टे---तत्रेति ।
पूर्वं कारणं कार्यात् ।
तद् यस्यास्ति विषयतया परामर्शज्ञानस्यानुमानस्य तत् पूर्ववदित्यर्थः ।
विकल्प्या आक्षिपति---यदि तावदिति सर्वत्रानुमानप्रसङ्गादिति भावः ।
अतिप्रसड्भिया कल्पान्तरमातिष्ठते---अथ पुनरिति ।
दूषयति---एतदपीति ।
दूषणान्तरं समुच्चिनोति---कारणदर्शनाच्चेति ।
नासिद्धाश्रयो हेतुर्गमक इति भावः ।
परिहरति--नेति ।
द्वयमपि नाभ्युपेयत इत्यर्थः ।
किं तर्हि अभ्युपेयते इत्यत आह--कार्यं त्विति ।
एनं प्रकारमन्यत्राप्यतिदिशति--एवमिति ।
पृच्छति--कथमिति ।
उत्तरम्--द्वयोरिति ।
पूर्वशब्देन कारणभिघायिना प्रतिसंबन्धितया कार्यमप्युपक्षिप्तम् ।
अतो द्वयोरप्युपक्षिप्तयोः कारणस्योपयोगादनुमानभावेनेति योचना ।
उदाहरणमाह--उदाहरणमिति ।
यद्यपि कारणमात्रं व्यभिचारति कार्योत्पादम्, तथापि यादृशं न व्यभिचरति तत्र निपुणेन प्रतिपत्रा भवितव्यम् ।
अन्यथा धूममात्रमपि वह्निसत्तां व्यभिचरतीति न धूमविशेषो गमको भवेत् ।
रसाद्रूपानुमाने तु वैनाशिकानामापादितं कारणात् कार्यानुमानमस्माभिः ।
अपि चान्त्यतन्तुसंयोगानन्तरं पटो जायते तत्रापि शक्यं कारणात् कार्यानुमानम् ।
यदा खल्वयमन्यत एवोद्बुद्धसंस्कारो व्याप्तिस्मृतिमान् अविरलेष्वितरेषु तन्तुषु अन्त्यतन्तावुत्पन्नायां क्रियायामिन्द्रियसन्निकर्षात् प्रथममेव परामृशति तथा चेयमिति, तदैव क्रियातो विभाग इत्येकः कालः ।
अथ यदा विभागात् पूर्वसंयोगविनाशः, तदा परामर्शात् तस्मादवश्यंभाविपटविशिष्टेयं क्रियेत्यनुमानोत्पाद इत्येकः कालः ।
अथान्त्यस्य तन्तोस्तन्तुसंयोगः, अथ पटोत्पादः, तत्र रूपाद्युत्पादः, अथ प्रत्यक्षदर्शनम् इत्यनुमानोत्पादस्य परस्ताच्चतुर्थे क्षणे प्रत्यक्षम् ।
यदि तु क्रियोत्पादानन्तरमालोचनमिष्यते, तथापि तृतीये क्षणे प्रत्यक्षस्य उत्पाद इति नानवसरमनुमानम् ।
अपि च बधिरो मुरजमुखमभिहत्य स्वपाणिनाभिघातादेव शब्दकारणात् तत्कार्यं शब्दं निःशङ्कमनुमिमीते ।
एवमन्यान्यपि कारणात् कार्यानुमानानि ऊहनीयनीति ॥
शेषवदुदाहरणमाह--नद्या इति ।
चोदयति--कथं पुनरिति ।
परिहरति--नेति ।
अनुमीयते ऽनेनेति अनुमानं नदीपूरः ।
न तु वृष्टिरनुमीयमाना पूरविशेषात् नातीता शक्यानुमातुम्, अनुमानसमये तदत्ययस्याशक्यनिश्चयत्वात् ।
नापि वर्तमाना तदत्ययस्यापि तदानीं संभवात् ।
एवं भविष्यन्त्यपि साधकबाधकप्रमाणाभावेन सन्दिग्धैव ।
तस्मात् त्रेकाल्यस्याशक्यनिश्चयत्वात् अनुपपन्नमनुमानमित्यत आह--भविष्यतीति ।
कारणस्य हि कार्यात् पूर्वकालता शक्या निश्चेतुम् कार्येण लिङ्गेन ।
तेन अतीतादिसन्देहः क्षतिमावहति ।
यः कश्चिदिति योग्याभिप्रायम् ।
स च कार्यस्य पुरस्तात् ततो निश्चयव्याप्त इत्यर्थः ॥
सामान्यतोदृष्टोदाहरणं भाष्यकारीयं दुःखबोधम्, शेषवदुदाहरणान्तर्गतं च ।
अत्रापि कार्येण सवितुर्देशान्तरप्राप्त्या तत्कारणस्य व्रज्याया अनुमानात् ।
न चैतावता अनुमानस्य त्रैविध्यं भवति, उदाहरणमात्रस्यानन्त्येनानन्त्यप्रसङ्गात् ।
तस्माद् भाष्यकारव्याख्यानमरोचयमानो वार्त्तिककृत् अन्यथाव्याख्यायोदाहरणान्तरमाह--सामान्यतोदृष्टं नामेति ।
साध्यधर्माविनाभाविना विशेषणेन साधनधर्मेण विशिष्यमाणो धर्मो गम्यते गमकत्वेन ।
हेतुविशिष्टो हि धर्मो गमकः, जिज्ञासितधर्मविशिष्टश्च गम्यः ।
यथाहुः,
स एव चोभयात्माष गम्यो गमक इष्यते ।
असिद्धेनैकदेशेन गम्यः सिद्धेन बोधकः ॥
इति ।
अविनाभावित्वं स्वभावप्रतिबद्धत्वं सर्वेषामेव हेतूनां सामान्यम् ।
तत्र धर्मधर्मिणोरभेदविवक्षया हेतुरेव सामान्यमुक्तः ।
सामान्येनाविनाभाविना हेतुना अवच्छिन्नं दृष्टं धर्मिरूपमनुमानं सामान्यतो दृष्टमनुमानम् ।
तृतीयायास्तसिः ।
तदेतत् पूर्ववच्छेषवतोरपि प्रापकमपि तत्पदसन्निधानात् गोबलीवर्दन्यायेन ते परित्यज्यान्यत्र निविशते ।
तदिदमुक्तम्--अकार्यकारणभृतेनेति ।
उदाहरणमाह--यथा बलाकयेति ॥
भाष्यकारीयमुदाहरणमुपन्यस्याक्षिपति--अपरे पुनरिति ।
तदिति गतिमानिति ।
परामृशति--उपलब्धिलक्षणप्राप्तत्वादिति ।
कर्मणो हि महत्त्वरूपविशेषैकार्थसमवाय उपलब्धिलक्षणप्राप्तिः प्रत्यक्षोपलब्धियोग्यता ।
समाधत्ते--नैवेदमिति ।
देशान्तरप्राप्तिमानादित्यः द्रव्यत्वे सति क्षयवृद्धिप्रत्ययाविषयत्वे च प्राङ्मुखोपलभ्यत्वे च तदभिमुखदेशसंबन्धाद् अनुत्पन्नपादविहारस्य परिवृत्य तत्प्रत्ययविषयत्वात् मण्यादिवत्, तत्प्रत्ययविषयत्वाद् इत्युच्यमाने पुरःस्थितेन स्थाणुना व्यभिचारः, सो ऽपि हि प्रत्यभिज्ञाविषयो भवति तत्रैव स्थितः ।
तन्निवृत्त्यर्थं परिवृत्येत्युक्तम् ।
तथापि गुणादिभिर्व्यभिचारः ।
तन्निवृत्त्यर्थं द्रव्यत्वे सतीति विशेषणम् ।
तथापि प्रदीपादिभिराशुतरविनाशिभिर्व्यभिचारः, तन्निवृत्त्यर्थं क्षयवृद्धिप्रत्ययाविषयत्वे सतीति विशेषणम् ।
तथापि पृष्ठतो ऽवस्थितया स्थूणया व्यभिचारः, तन्निवृत्त्यर्थं प्राङ्मुखोपलभ्यत्वे सतीति विशेषणम् ।
उपलभ्यता च उपलब्धिकर्मता ।
सा चेहातीता विवक्षिता, अन्यथा पूर्वापरजलधिवेलावगाहिना तुहिनशैलेन व्यभिचारः ।
यद्यप्ययमपि परिवृत्य तत्प्रत्ययवतो ऽतिपतितोपलम्भकर्मभावः, तथापि तदा नरान्तरस्योपलभ्यः ।
मार्तण्डमण्डलं त्वस्ताचलचूडावलम्बि न प्राच्यां कस्यचिदुपलम्भगोचर इति वैषम्यम्, तथापि यदि द्रष्टैव पुरो ऽवस्थितस्य पश्चिमाभिमुखसय प्रासादस्य स्वयुमुपनिपत्य पृष्टतो भवति, तदोक्तलक्षणस्य हेतोरस्ति व्यभिचारः ।
तन्निवृत्त्यर्थमनुत्पन्नपादविहारस्येति विशेषणम् ।
तदभिमुखदेशसंबन्धादिति ल्यब्लोपे पञ्चमी ।
स्वाभिमुखदेशमुद्दिश्यानुत्पन्नः पादविहारो यस्य स तथोक्तः ।
तमुद्दिश्य खल्वयं पद्भ्यां संचरमाणः प्रासादस्य पृष्टतो भवतीति भावः ।
देशान्तरप्राप्तौ साधनान्तरमाह---देशान्तरेति ।
सत्यविनाश इति च द्रष्टव्यम् ।
ये त्विमामनुमानपरम्पराम् अमृष्यमाणा दिशः प्रत्यक्षतामिच्छन्ति, विप्रतिपन्नं चानुमानेन बोधयन्ति, तन्मतमुपन्यस्यति---एके त्विति ।
दूषयति--तच्च नेति ।
अरूपमात्मसुखाद्यपि प्रत्यक्षमिति शङ्कमानेन बाह्यकरणेनेत्युक्तम् ।
पृच्छति--कथं तर्हीति ।
उत्तरम्--दिग्देशेति ।
अन्यथासिद्धतया अङ्गुल्या निर्देशस्य दिक्प्रत्यक्षत्वेन न स्वाभाविकः प्रतिबन्ध इत्यर्थः ॥
स्यादेतत् ।
अप्रत्यक्षायां दिशि दिग्देशसंबन्धिष्वित्येतदेव कुत इत्यत आह---आदित्येनेति ।
तद्विभजने---प्राचीत्ययमिति ।
तत् पुनरिदं प्रत्यक्षम् आ चोदयात् आ चास्तमयाद् देशान्तरं सञ्चरणं मार्तण्डमण्डलस्य अनाकलितद्रव्यत्वे सतीत्यादिदण्डकानुमानानामिन्द्रियव्यापारान्तरमुपजायमानत्वात् ।
तत्र मा भूवन्नाकाशदिगादयः प्रत्यक्षाः, तथापि परितो विनिष्पतदतिविशदमयुखजालमध्यवर्तिनो हेलिमण्डलस्य त एव मयुखभागभेदाः प्रत्यक्षदेशा इति तेषां प्रत्यक्षाणां प्रत्यक्षेण सवितृमण्डलेन संयोगविभागाः प्रत्यक्षा भविष्यन्तीति युक्तम् ।
इदं त्वतिस्फुटतया नाभिधाय शिष्यव्युत्पादनायाक्षुण्णं मार्गान्तरं दर्शितमिति मन्तव्यम् ।
तदेवं रूपेण स्पर्शानुमानम्, शिंशपात्वेन श्रुतेन वृक्षत्वानु मानमित्यादि सामान्यतोदृष्टेन संगृहीतं वेदितव्यम् ॥
स्वमतेन व्याख्यान्तरमाह--अथवा त्रिविधमिति ।
तद्धिभजते--प्रसिद्धमिति ।
पक्षैकदेशे सदपि सिद्धम्, पक्षव्यापकं तु प्रकर्षेण सिद्धमित्यर्थः ।
यद्यपि अविनाभावः पञ्चसु चतुर्षु वा रूपेषु लिङ्गस्य समाप्यते इत्यविनाभावेनैव सर्वाणिलिङ्गरूपाणि संगृह्यन्ते, तथापीह प्रसिद्धसच्छब्दाभ्यां द्वयोः संग्रहे गोबलीवर्दन्यायेन तत् परित्यज्य विपक्षव्यतिरेकासत्प्रतिपक्षत्वाबाधितविषयत्वानि संगृह्णाति ।
अत्रापि यथासंभवं चतुर्णां पञ्चानां वा रूपाणां लिङ्गेषु संबन्धः ।
तदनेन प्रबन्धेनानुमानवादिनां स्वरूपसंख्याफलविप्रतिपत्तयो निराकृताः ।
तत्र तत्पूर्वकमिति स्वरूपविप्रतिपत्तिः ।
अनुमानमिति समाख्यानिर्वचनसामर्थ्यात् फलविप्रतिपत्तिः ।
त्रिविधमिति न्यूनाधिकसंख्याव्यवच्छेदेन संख्याविप्रतिपत्तिर्निराकृता ॥
संप्रत्यान्तर्गणिकभेदानन्त्येनानन्त्याद् अनुमानस्याशक्यलक्षणमिति यदि कश्चिदनुमन्येत, तन्निराकरणाय त्रैविध्यमनुमानस्य उच्यते इति त्रिविधपदस्यतात्पर्यान्तरमाह--अथ वेति ।
त्रिविधत्वेन यतो नियतमतः शक्यलक्षणमित्यर्थः ।
अनित्यः शब्दः कृतकत्वादिति सपक्षे सदेव ।
अनित्य शब्दो ऽस्मदादिप्रत्ननान्तरीयकत्वादिति सपक्षे सदसत् ।
तदेतदन्वयव्यतिरेकि द्विविधम् ।
एवमन्वय्यपि द्वेधा ।
तत्र सपक्षे सदेव, यथा परमाण्वादयः कस्यचित् प्रत्यक्षाः प्रमेयत्वाद् घटादिवदिति ।
तथा सपक्षे सदसद् यथा तत्रैव साध्ये सत्त्वाद् घटादिवदिति ।
कालभेदः त्रैकाल्यम् ।
प्रतिपन्नो ऽप्रतिपन्नः सन्दिग्धो विपर्यस्तश्चेति पुरुषभेदः ।
पूर्वं सिद्धवत् पूर्ववदित्यनूद्य तस्योदाहरणमुक्तम् ।
संप्रति प्रश्नपूर्वकं तदर्थाभासनिराकरणेन तात्त्विकमस्यार्थमाह---पूर्ववदित्युक्तमिति ।
भाष्यव्याघात इत्यर्थः ।
पूर्ववदित्यस्य व्याख्यानं शेषवदित्यत्रापि योजयति ।
सामान्यतोदृष्टं च ज्ञानमतिदिशति---एवं शेषवदादिष्विति ।
अथवा पूर्ववदिति भाष्यम् ।
तस्यार्थः, पूर्वेण तुल्यं वर्तते इति पूर्ववत् ।
क्रियातुल्यतायां च वतिरिति क्रियातुल्यता दर्शिता ।
यत्रेति ।
पूर्वमन्यतरदर्शनेन सहान्यतरदर्शनं दृष्टान्तधर्मिणि, यथापूर्वं प्रत्यक्षभूतयोरिति प्रमाणमात्रोपलक्षणम् ।
एवं साध्यधर्मिणि अन्यतरधर्मदर्शनेन साधनधर्मदर्शनेनान्यतरस्य साध्यधर्मस्यानुमानमनुमिति दर्शनमिति भवति क्रियातुल्यता ।
तदेतत् भाष्यमनुभाष्य व्याचष्टे---अथ वेति ॥
अत्र दिग्नागेन धूमादग्निरूपधर्मान्तरानुमानम् अग्निदेशयोः संबन्धानुमानं च दूषयित्वा अग्निविशिष्टदेशानुमानं समर्थितम् ।
तथा चाह---
केचिद् धर्मान्तरं मेयं लिङ्गस्याव्यभिचारतः ।
संबन्धं केचिदिच्छन्ति सिद्धत्वाद् धर्मधर्मिणोः ॥
लिङ्ग धर्मे प्रसिद्धं चेत् किमन्यत् तेन मीयते ।
अथ धर्मिणि तस्यैव किमर्थं नानुमेयता ॥
संबन्धे ऽपि द्वयं नास्ति षष्ठी श्रूयेत तद्वति ।
अवाच्यो ऽनुगृहीतत्वान्न चासौ लिङ्गसंगतः ॥
न हि संबन्धधर्मतया लिङ्गं प्रतीयते, अपि तु देशसंगतमित्यर्थः, इति ।
तत्र लिङ्गस्याव्यभिचारस्तु धर्मेणान्यत्र दृश्यते ।
तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयिष्यति ॥इति ।
तत्र दिग्नागदूषितान् कल्पान् अन्यांश्च विकल्पान् दिग्नागसमर्थितं च कल्पमुपन्यस्य दूषयति---अन्ये पुनरिति धर्मधर्मिभावानुपपत्तेरिति ।
धर्मेण हि धर्मिप्रतिपत्तव्यः, अन्यथा अतिप्रसक्तेरिति भावः ।
देशस्य च स्वरूपेणेत्यर्थः ।
शङ्कते---अथापीदमिति ।
निराकरोति---तच्च नैवमिति ।
यः कश्चिद् वा देशो ऽग्निमान् साध्यो, धूमवान् वा देशभेदः? तत्र पूर्वस्विन् कल्पे निराकरणमाह---अतद्धर्मादिति ।
यः कश्चिदग्निमत्तया देशः साध्यते न तस्यावश्यं धूमो धर्म इत्यर्थः ।
न चैतत् साध्यं सिद्धत्वादित्याह---न चाग्नेरिति ।
द्वितीयं कल्पमाशड्ते---अयमिति ।
निराकरोति---न, तस्येति, शङ्कां विभजते---देशेति ।
निराकरणं विभजते---न ह्ययमिति ।
न ह्ययमेवंवादी दिग्नागो धूमाधारं देशविशेषं पश्यति ।
न ह्यस्य मते पर्वतो नाम कश्चिदवयवी यदाधारो धूम उपलभ्येत, किं तु परमाणवः परमसूक्ष्मा अतीन्द्रियाः पर्वतः ।
एवं धूमो ऽपि तादृश एव ।
यथा वक्ष्यति---सर्वागहणम् मवयव्यसिद्धेः # 2।1।34 # इति ।
येषामपि देशभेदो ऽवयवी दर्शनार्हः, तेषामपि वियद्वर्तिनीं धूमलेखामभ्रंलिहामुपलभ्यानुपलब्धदेशानां नानुमानसंभव इति भावः ।
शङ्कते---अविनाभावेनेति ।
तदेव विभजते---अथापीति ।
निराकरोति---तन्नेति ।
विकल्पयति---अग्निधूमयोरिति ।
कार्यकारणभावमालम्बते---अस्त्विति ।
दूषयति---तन्नेति ।
धूमेन हि वह्निरनुमीयते, न च कार्यसत्ता निमित्तकारणसत्ताया व्याप्ता ।
न हि यदा यत्र वा पटः, तदा तत्र वा कुविन्दः ।
नाप्यसमवायिकारणसत्तया, न हि यदा यदा संयोगस्तदा कर्म ।
तस्मात् समवायिकारणाविनाभावः कार्यस्य वक्तव्यः ।
तत्रेदं दूषणम्--अतद्वृत्तित्वादिति ।
एकार्थसमवायमविनाभावं दूषयति--नैकेति ।
एकार्थसमवाय इति हि द्वेधा, एकस्यार्थस्य समवायः, एकस्मिन् वार्थे समवाय इति ।
तत्र प्रथमं कल्पं दूषयति---ताभ्यामिति ।
यदि हि वह्निमाभ्यामेको ऽर्थः कश्चित् आरभ्येत ततो ऽसौ तयोः समवेयात्, न त्वेतदस्तीत्यर्थः ।
द्वितीयं कल्पं दूषयति---न च ताविति ।
तत् किमसंबद्धावेव वह्निधूमौ, तथा च प्रतीतिविरोध
इत्यत आह---संबन्धमात्रमिति ।
संयोग इत्यर्थः ।
तदेव तह्र ॥
यवधार्यतामित्यत आह---तदपीति ।
पृच्छति--कथमिति ।
उत्तरम्--यदि तावदिति ।
कुरुते प्रयोगम् ।
अस्ति संबन्धो ऽग्निधूमयोर्धूमादिति ।
दूषयति--तन्नाप्रतीतत्वात् ।
तदनेनानैकान्तिकत्वं दर्शयति ।
संबन्धान्तरम् आशङ्कते--रूपस्पर्शवदिति ।
न हि बौद्धराद्धान्ते द्रव्यं नाम किञ्चिदस्ति यत्र रूपस्पर्शै समवेतौ, किं त्वेकसामग्र्यधीनतया नियतसाहचर्यौ, तथा वह्निधूमावपि इत्यर्थः ।
दूषयति--नोभयोरिति ।
उभयसहाचर्यनिराकरणेन यत्र धूमस्तत्राग्निरित्यपि पराकृतम्, तस्यापि साहचर्यविशेषत्वादित्याह--यत्र धूम इति ।
गत्यन्तराभावादुपसंहरति--न चेति ।
शङ्कते--लोक इति ।
निराकरोति-- नास्तीति ।
यत्र तावत् पर्वतनितम्बवर्तिनी धूमलेखा सन्ततमुद्गच्छन्ती दृश्यते, तत्रासौ देश एव तद्विशिष्टो ऽनुमीयते इति लोकप्रसिद्धमेवेति किमत्र वक्तव्यम् ।
यत्र तु भूयिष्ठताया तस्य धूमस्य दूरत्वेन देशो न दृश्यते, धूम एव त्वम्रंलिहो लिम्पन्निव अभ्रमण्डलमवलोक्यते, तत्र देशानुमानप्रयासालसतया दृश्यमानो धूमविशेष एवाग्निमत्तया साध्यते धूमत्वैकार्थसमवायिभिः तद्गतैः संतत्येर्ध्वगमनादिभिरित्याह--धूमविशेषेण इति ।
विशिष्यते तेनेति विशेषः संतत्यूर्ध्वगमनादिः ।
तेन धूममात्राद् वह्निव्यभिचारिणो वह्न्यविनाभावी धूमो विशेष्यत इत्यर्थः ।
शेषमतिरोहितार्थम् ॥
शेषवन्नाम परिशेषः ।
द्रव्यत्वकर्मत्वयोः शब्दे निराकार्यत्वेन उपयुक्तत्वात् ताभ्यामन्यद् गुणत्वं शेषः ।
स यस्यास्त्यनुमानस्य प्रतिपाद्यतया, तच्छेषवत् ।
तत्र न द्रव्यं शब्दः एकद्रव्यत्वात् ।
द्विविधमेव हि द्रव्यम्, अद्रव्यमनेकद्रव्यं च ।
अद्रव्यं परमाण्वादि, अनेकद्रव्यं च घटादि ।
शब्दस्त्वेकद्रव्यः ।
तस्मात् न द्रव्यं रूपादिवत् ।
न कर्म, शब्दान्तरहेतुत्वादिति ।
तदेतद् भाष्यमाक्षिपति---कर्मेति ।
परिहरति---नेति ।
अन्यमस्यार्थं दर्शयति---समानजातीयारम्भकत्वादिति ।
यत् समानजातीयारम्भकं न तत् कर्म, यथा रूपादय इति ।
कार्यत्वात् तावत् शब्दः समवायिकारणवान् ।
तत्र च पृथिव्यादिनिषेधात् नभो ऽस्य समवायिकारणम् ।
न चैष नभोव्यापकः सर्वत्र उपलम्भप्रसङ्गात् ।
तस्मादव्यापकः ।
कर्णशष्कुल्युपसन्निहितं च नभः श्रोत्रम् ।
ताल्वादिसंयोगोपधानेन च नभःप्रदेशे शब्दः समवेतः ।
प्राप्यकारि च श्रोत्रम् ।
न च वक्तृवक्त्रावरुद्धं नभःप्रदेशं तत् प्राप्नोति ।
न चाद्रव्यं शब्दो गत्वा श्रोत्रेण संबध्यते ।
तस्माद् वीचीतरङ्गरीत्या स्वदेशानन्तरदेशे शब्दान्तरारम्भणपरम्परया श्रोत्रदेशोत्पन्नं शब्दं गृह्णातीति सिद्धं सजातीयारम्भकत्वादिति ।
इदं तु परिशेषस्य उदाहरणं नादरणीयम् ।
व्यतिरेकिणो हि नामान्तरमिदं परिशेष इति ।
एष पुनरन्वयव्यतिरेकी द्रव्यकर्मान्यत्वे सति सदाद्यभेदस्य सपक्षे रूपादौ सत्त्वाद्, विपक्षे सामान्यादावभावात् ।
तस्माद् आत्मतन्त्रतासाधनमिच्छादीनां परिशेषोदाहरणं द्रष्टवयम् ।
तच्चानन्तरमेव वक्ष्यतीति ॥
सामान्यतोदृष्टं नामेत्यादि भाष्यम् अनुभाष्याक्षिपति--सामान्यत इति ।
कथं तर्हि अनुमानमत्र प्रवर्तते इति ।
नित्यपरोक्षेण सह कस्यचित् लिङ्गसय संबन्धादर्शनादित्यर्थः ।
व्याहतं चेति ।
स खल्वत्यन्तापरिदृष्टः स्वरूपतो वा साध्येत, दृष्टधर्मिविशेषणतया वा? तत्र पूर्वस्मिन् कल्पे नानुपलब्ध इति व्याघातः ।
उत्तरस्मिन् सन्दिग्ध इति, विशेषस्मृत्यपेक्षो हि संशयो नात्यन्तानुपलब्धपूर्वधर्मवत्तया क्वचिद् भवितुम् अर्हति ।
न खलु सप्तमरसवत्तया केचिद् द्रव्ये संशेरत इति भावः ।
समाधत्ते--न विशेषणभूतस्येति ।
न तावत् स्वरूपेणानुमीयते येन नानुपलब्ध इति व्याहन्येत, किं तु दृष्टस्य धर्मिणो विशेषणतया ।
न चैवं सर्वानुमानाविशेषः ।
साध्यधर्मिण्यस्यास्मदादिभिः कदाचिदपि प्रत्यक्षेणानुपलम्भात् ।
तज्जातीयेन तु दृष्टान्तधर्मिणोर्दृष्टेन प्रत्यक्षतो वा मानान्तराद् वा साधनधर्मस्य स्वाभाविकप्रतिबन्धग्रहसंभादित्यर्थः ।
उदाहरणमाह--यथेच्छादिभिरात्मा ।
तदेवं विभजते--इच्छादयः खलु धर्मिणो भवन्ति मानसप्रत्यक्षदृष्टाः, तेषाम् आत्मा विशेषणम् ।
कुतः? गुणभूतो ऽवच्छेदकतया यतः, तस्मादात्मविशिष्टा इच्छादयः साध्या इत्युक्तं भवति ।
साधनधर्मं तद्वर्तिनं दर्शयति--इच्छादीनां गुणत्वमिति ।
ननूक्तमनुपलब्धचरेण साध्यधर्मेण न संदेहविषयत्वम्, अनुपलब्धचरश्चात्मेति कथं तद्विशिष्टा इच्छादयो न्यायविषया इति शङ्कामुरीकृत्यत प्रयोगं सूचयति--परतन्त्रा इति ।
मा तत्र सैत्सीदात्मपारतन्त्र्यम्, पारतन्त्र्यमात्रं तु सिद्धम् इत्यर्थः ।
तेन सामान्यतोदृष्टस्य पारतन्त्र्यमात्रविषयता, न पारतन्त्र्यमिच्छादीनाम् अनुमेयात्मवादीनां कदाचिदप्यस्मदादिप्रत्यक्षगोचरः ।
परस्य तदाश्रयस्य नित्यपरोक्षत्वादिति ॥
तदेवं सामान्यतोदृष्टमुदाहृत्य परिशेपोदाहरणं पारमार्थिकं प्रश्नपूर्वकमादर्शयति--पारतन्त्र्येति ।
इच्छादीनो हि बाधकैरपनीते द्रव्याष्टकगुणत्वे गुणत्वमेव व्यतिरेकी हेतुः आत्मपारतन्त्र्ये प्रमाणम् ।
यद्यपि चायं स्वरूपेणात्मा न प्रसिद्धः, तथापि द्रव्याष्टकव्यतिरेकादिशब्दैरदूरविप्रकर्षेण परामृष्टः शक्नोति विशेष्टुं धर्मिणि च न्यायप्रवृत्त्यङ्गः संशयम् आपादयितुमिति निरवद्यम् ॥
अत्र भाष्यं विभागवचनादेव त्रिविधमिति सद्धि इति, तस्यार्थः, त्रिविधम् इति विभागवचनादेव त्रिविधे पूर्ववदादौ सिद्धे किमर्थं पूर्ववदाद्युपादानं सूत्रेणेति ।
तत्र समाधानं त्रिविधवचनं त्रिविधस्य पूर्ववदादेर्वचनमुक्तिः ।
महतः त्रिविधस्य महाविषयस्य अतीतानागतवर्तमानविषयस्य लघीयसा सूत्रेण तत्पूर्वकमित्येतावतैवोपदेशे परं वाक्यलाघवं मन्यमानस्यान्यस्मिन् वाक्यलाघवे ऽनादरः सूत्रकारस्येति शिष्यान् व्युत्पिपादयिषोः अत्रैव निदर्शनम्--तथा चायम् ।
अस्य समाचारः---इत्थंभूतेन वक्यविकल्पेन वैचित्र्येण प्रवृत्त इति योजना ॥
एवं तावत् लक्षणभेदानुमानं भिन्नं प्रत्यक्षाद् दर्शितम् ।
भाष्यकारस्तु विषयभेदादपि भेदमाह---सद्विषयं च प्रत्यक्षं सदसद्विषयं चानुमानम् ।
चो विषयभेदं समुच्चिनोति ।
सदिति वर्तमानम् ।
असदित्यतीतानागते ।
प्रत्यक्षं हि लौकिकं वर्तमानविषयमेव ।
अनुमानं तु त्रैकाल्यविषयम् ।
यद्यपि प्रत्यक्षमप्यतीतानागतयोः संप्रति निषेध्यनिषेधयोर्निषेधे प्रवर्तमानमसद्विषयं तथापि न प्रतिषेध्ययोः प्रवर्तते इत्येतावता सद्विषयमुक्तम् ।
अनुमानं तु तयोरपि प्रवर्तते इत्येतावता असद्विषयमुक्तम् ।
तदेतदाक्षिपति---सद्विषयं चेति ।
न ह्यनुपलब्धसामान्ये इति सामान्यत उपलब्धो विशेषतश्चानिर्णीतो धर्मो न्यायप्रवृत्तावधिक्रियते ।
न त्वनुपलब्धसामान्य इत्यर्थः ।
न चासतः स्वतन्त्रस्य सामान्येन दर्शनमस्तीति ।
द्वितीयं कल्पमाशङ्कते---अथेति ।
एतद्दूषयितुं धर्मत्रैविध्यमाह---धर्मा इति ।
तद्विभजते---तत्रेति ।
पृच्छति---कथं पुनरिति ।
यदि हि स्वतन्त्रः समवायः, न तर्हि कस्यचिद् विशेषणम्, तथा च न विशेषणतया गृह्येतेति भावः ।
उत्तरम्---समवायान्तराभावात् ।
न विशेषणत्वं स्वातन्त्र्येण निराकुर्मः, किं तु वृत्तिमस्येत्यर्थः ।
कस्मात् पुनरस्य न समवायान्तरमभ्युपेयत इत्यत आह---अथेति ।
पृच्छति--किमिदमिति ।
अनवस्थाप्रसङ्गो हि नाम तर्कः ।
नैष प्रमाणमन्तरेण निर्णयाय पर्याप्त इत्यर्थः ।
उत्तरम्--न संदेहः, किं त्वस्त्येव न्यायः ।
तमाह--पञ्चेति ।
अयं पञ्चपदार्थवृत्तिशब्दो बहुव्रीहिणा परमाणौ वर्तते, षष्ठीसमासेन तु समवाये ।
न च कथञ्चित् शब्दाभेदमात्रमनुमानाङ्गम्, मा भूद् गोशब्दसाम्येन वागादीनाम् अपि विषाणित्वमित्यपरितोषात् न्यायान्तरमाह--अनाश्रितः समवाय इति ।
इह बुद्धिनिमित्तत्वं कारणत्वम् ।
संयोगेनानैकान्तो मा भूदित्यत उक्तम्---व्यापकत्वे सतीति ।
सत्युपलब्धिकारणान्तरसमवधाने सर्वत्रोपलभ्यता व्यापकत्वम् ।
तच्चेह प्रत्ययकारणे आत्मानि च समवाये चाविलक्षणमिति ।
न्यायेतिकर्तव्यताभूतं तर्कं पृच्छति---यदि पुनरिति उत्तरम्---कार्यमिति ।
उक्तमनवस्थाप्रसङ्गमवतारयितुमनाधारत्वप्रसङ्ग उक्तः ॥
स्यादेतत् ।
भवतु वृत्तेः प्रागनाश्रितं कार्यं पश्चात् समवैष्यति, तुरीसंयुक्तेभ्य इव तन्तुभ्य उत्पद्य पटः पश्चात् तुर्या इत्यत आह--समवायश्चेति ।
अनवस्थाप्रसङ्गः पूर्वोक्त इत्यर्थः ।
शङ्कते--प्राप्तित्वादिति ।
प्रमाणवत्त्वात् प्राप्ता समवायस्य वृत्तिर्न शक्या अनवस्थाभिया परित्यक्तुमित्यर्थः ।
विमर्शपूर्वकं शङ्कां निराकरोति--किमियमिति ।
संयोगे प्राप्तित्वस्य निवृत्त्या स्वाभाविकः संबन्धः कार्यत्वस्योपाधेः तत्प्रयोजकस्य विद्यमानत्वादित्यर्थः ।
अथ प्राप्तिधर्मो ऽपि कस्मात् न भवतीत्यत आह---यदि पुनरियमिति ।
नन्वियमनवस्था कस्माद् बीजाङ्गुरादिष्विवेहापि नाभ्युपेयते इत्यत आह---न चैनामनवस्थामिति ।
अनिदंप्रथमेष्वनादित्वात् शक्या प्रतिपादयितुमनवस्था प्रमाणेन, न त्विदंप्रथमेष्वादिमत्त्वेन तस्याशक्यनिश्चयत्वात् ।
तदिदम् उक्तम्---प्रमाणाभावादिति ।
शास्त्रविरोधश्च समवायान्तराभ्युपगम इत्याह---समवायश्चेति ।
तत्त्वमेकत्वं समवायस्य भावेन सत्त्वया व्याख्यातमिति शास्त्रमाह, तदनेकत्वमुपपादयता बाध्येतेत्यर्थः ।
चोदयति---संबन्धिनिवृत्ताविति ।
तथा च विनश्यति, विनष्टे च तस्मिन् यो दृश्यते स ततो ऽन्य उत्पन्न इति सिद्धं समवायस्य नानात्वमित्यर्थः ।
परिहरति---न नास्तीति ।
ख्यातिरूपलब्धिः ।
कस्मात्? अकृतकत्वात् ।
अकृतकत्वमेव कुत इत्यत आह---अकृतक इति ।
कार्य स्वापादानेन अकृतकसंबन्धवद् आधारवत्त्वादिति व्यतिरेकी हेतुः ।
व्यतिरेकाव्यभिचारमाह---यद्ययमिति ।
उत्पद्यमानः खल्वयं समवायः सहकार्येण, न कार्यस्य ।
न हि सहोत्पन्नौ रूपस्पर्शौ मिथः संबध्येते ।
एकार्थसमवायस्तु तयोः ।
सो ऽपि समवाये नास्ति ।
सन्नप्यसौ न कार्यमाधारवत् करोति ।
तस्मात् सहोत्पादे कार्यमनाधारं स्यादिति ।
शङ्कते---अथेति ।
कार्यात् पूर्वमुत्पन्नः समवायः पश्चादुत्पद्यमानं कार्यमुपादानाधारकं करिष्यति कार्यहेतुबलादित्यर्थः ।
निराकरोति--तथापीति ।
त्रिभ्यो हि कारणेभ्यः कार्यं भावरूपं जायते ।
कार्यकारणसमवायस्य च कार्यकारणे समवायिकारणे वक्तव्ये, कार्यात् प्राग् जातस्य च समवायस्य न कार्यं कारणम् ।
न च निमित्तकारणमात्रादस्य जन्मेति सांप्रतम्, भावोत्पादस्य सर्वत्र कारणत्रयपूर्वकत्वनियमात् ।
तस्मात् समवायस्य समवाय्यसमवायिकारणाभावत् न कार्यात् प्राग् उत्पाद इति सुष्ठूक्तम्--तथापि कस्येति वाच्यमिति ।
शङ्कते--अथेति ।
दूषयति--कार्येति ।
न च पटतुरीसंयोगवत् समवायस्य पश्चात् कार्यकारणसमवाय इति युक्तम् ।
संयोगजस्य संयोगस्य कारणत्रयसंभवाद् अस्य तु समवायान्तरमन्तरेण कारणत्रयायोगात् ।
अन्यथानवस्थाप्रसङ्गादिति भावः ।
उपसंहरति--तस्मादिति ।
ततश्च न ज्ञायते किमभिप्रेत्यत असद्विषयमित्युक्तमित्याक्षेप इति ।
समाधत्ते--तत्र प्रतिषिध्यमानेति ।
अतीतानागते संप्रति प्रतिषिध्यमाने तद्विषयमनुमानम् असद्विषयमुक्तम् ।
तन्निषेधस्तु भवतु प्रत्यक्षगोचरः, तथापि सिद्धो विषयभेद इत्यर्थः ।
अत्र चैष धर्मत्रैविध्यक्रमो द्वेधा तावत्, विधीयमानः प्रतिषिश्यमानश्च ।
विधीयमानो ऽपि द्वेधा, परतन्त्रः स्वतन्त्रश्चेति ।
स्वतन्त्रस्य च धर्मत्वं विशेषणत्वमात्रविवक्षया द्रष्टव्यम् ।
ननु विधीयमानो ऽप्यसन् प्रत्यक्षश्च क्वचित् ।
यथा व्याप्रियमाणे कुलाले जायमानो घटः ।
विस्फारिताक्षो हि तदा घटो भवतीति प्रत्येति ।
न चासौ तदा सन्, सतो भवनं प्रत्यकर्तृकत्वात्, गमनवदिति शङ्कते---भवतीति ।
निराकरोति---न, जायमानेति ।
जायमानस्यार्थस्य विधिविषयस्य सत्तयासत्तया वानभ्युपगमात् ।
निषेधविषयतया तु तस्यासत्त्वमभ्युपेयत एवेति ।
कस्तर्हि भवतिशब्दस्यार्थ इत्यत आह---भवतीति ।
धटो जायत इति तु लौकिकः प्रयोगो घटशब्दं घटार्थेषु तदवयवेषूपचर्य तेषां च सिद्धतया कर्तृत्वादुपपादनीय इति ।
उपसंहरति---एवं तावदिति ॥
स्वलक्षणं समाधाय परेषामनुमानलक्षणं दूषयितुमुपन्यस्यति---अपरे त्विति ।
तस्यार्थमाह---अस्यार्थ इति ।
दूषयति---अत्रेति ।
यथासंभवं समासं विकल्प्य दूष्यति--नान्तरीयकार्थ इति चेति ।
सत्त्वं विधिविषयज्ञानगम्यत्वम्, न तु सामान्यम् ।
सत्त्वादिभिरनित्यत्वानान्तरीयकैः तन्नान्तरीयककृतकत्वधर्मैरनित्यत्वानुमानं स्यात्, न च शक्यम्, तेषामाकाशादिषु नित्येषु व्यभिचारादित्यर्थः ।
तथाप्यसमर्थः समास इति ।
पूर्वमर्थातिरेकमात्रं दूषणमुक्तम् ।
संप्रति त्वर्थातिरेकेण हेतुना विशेषणसमासानुपपत्तिरित्यपौनरूक्त्यम् ।
विशेषणं विशेष्येण बहुलम् ॥
इत्यत्र विशेषणपदोपादादमात्रेण वा विशेष्यपदोपादानमात्रेण वा अन्यतरस्यार्थात् प्राप्तेरूभयपदोपादानस्यैतत् प्रयोजनम्---यत्रोभयोः प्रत्येकं व्यभिचारः समुदाये त्वव्यभिचारः, तत्र समासो यथा स्यादिति ।
स चात्र नास्तीति समासानुपपत्तिरित्यर्थः ।
सामर्थ्यं प्रयोजनाभिसंबन्धः ।
चोदयति---एकपदेति ।
परिहरति---अत्रापीति ।
प्रधानं व्यक्तिर्विशेष्यत्वात् अङ्गं जातिर्विशेषणत्वात् ।
पृथिवीत्युक्ते भवति संशयः, किं पृथिवीत्वं सामान्यमस्य विवक्षितं यथा पशुना यजेत इति, किं वा तद्विशेष्यं द्रव्यम्, ग्रहं संमार्ष्टीति ।
अत्रेदमुपतिष्ठते--द्रव्यमिति ।
तद्धि पृथिवीत्वात् सामान्यविशेषात् पृथिवी व्यवच्छिनत्ति ।
एवं द्रव्यमित्यप्युक्ते द्रव्यत्वं वा सामान्यं व्यक्तिर्वेति विमर्शे पृथिवीत्येतदुपतिष्ठते ।
न द्रव्यत्वं सामान्यं किं तु पृथिवी ।
न च द्रव्यत्वपृथिवीत्वयोः सामानाधिकरण्यमस्ति ।
न हि भवति पृथिवीत्वं द्रव्यत्वमिति ।
तस्मात् सामानाधिकरण्यसंभवात् प्रधानैकव्यक्तिलाभः ।
इह त्वर्थो नान्तरीयकत्वं व्यभिचरति ।
नान्तरीयकत्वं तु नार्थम् ।
न ह्यस्ति संभवो नान्तरीयकश्च स्यात् न चार्थ इति, नान्तरीयकशब्दवाच्यस्यानभिधेयत्वासंभवात् ।
वस्तुवचनत्वे ऽप्यर्थशब्दस्य लक्ष्यासंभवाद् अविषयं लक्षणम्, न हि दिग्नागस्य मते किञ्चिदस्ति वस्तु यन्नान्तरीयकं सद्धेतुर्भवति ।
यथाह---
सर्वो ऽयमनुमानानुमेयभावो बुद्ध्यारूढेन धर्मधर्मिभावेन न बहिः सदसत्त्वमपेक्षते इति ।
अव्यापकं च, न हि वस्त्वेव नान्तरीयकमसतो ऽपि नान्तरीयकत्वादिति भावः ॥
दूषणान्तरमाह---तद्विद इति चेति ।
नान्तरीयकदर्शनमित्युच्यमाने शब्दसामर्थ्यादेव लभ्यते नान्तरीयकत्वविशिष्टार्थदर्शनमिति, सति संभवे शब्दार्थपरित्यागाभावात् ।
अतस्त्रिरूपलिङ्गदर्शनस्य सिद्धेः किमपरमवशिष्यते यदवरोधाय तद्विद इत्युपादीयते इत्यर्थः ।
एतदेव व्यतिरेकमुखेन निरूपयति--न हीति ।
एतल्लक्षणदूषणं लक्षणान्तरे अप्यतिदिशति--एतेनेति ।
पृच्छति--क इति ।
न ह्यस्मिन् लक्षणे तद्विद इत्यस्ति, तेन तदतिरिच्यते इति भावः ।
उत्तरम्--यथेति ।
तेषामुदाहरणं दूषयति--उदाहरणमिति ।
तदनेन दिग्नागस्य लक्षणं दूषयित्वा अन्येषां लक्षणं दूषितम् ॥
संप्रति दिग्नागस्य स्वकीयलक्षणप्रपञ्चार्थं वाक्यम् अनुमेये ऽथ तत्तुल्य इत्याद्युपन्यस्य दूषयति--अपरे त्विति ।
अनन्तरलक्षणकारमपेक्ष्यापर इत्युक्तम् ।
चोदयति--अनुमेय इति ।
न हि यो ऽनुमेये संश्चासंश्च स शक्यः सन्निति वक्तुम्
इत्यर्थः ।
समाधत्ते--नाप्रसङ्ग इति ।
यद्येवं स्यातद् यो विपक्षे द्वेधा स विपक्षावृत्तिरिति हेतुरेव स्यात् न सव्यभिचार इत्यर्थः ।
पुनश्चोदयति--न कर्तव्य इति ।
कुतः? अवधारणात् निवृत्तेः ।
अनुमेये सद्भाव एवेत्यवधारणेनानुमेये सद्भावस्य नियतत्वात् कुतः पक्षैकदेशवृत्तेः प्रसङ्ग इति भावः ।
एवन्निराकर्तुं यथासंभवं विकल्पयति---अनुमेये इति ।
तत्र पूर्वकल्पस्य तात्पर्यं विकल्पयति--किं पुनरनेनेति ।
असंभवः अत्यन्तासंभवो निराक्रियते, यथा नीलं सरोजं भवत्येव नात्यन्तं न भवतीति गम्यते, न तु नीलमेव सरोजं नानीलमिति, नापि सरोजमेव नीलं नान्यदिति ।
अथ संभव इति ।
अन्वयपरो न व्यतिरेकपर इत्यर्थः ।
एतद्विकल्पद्वयं दूषयति---उभयथा चेति ।
दूषणान्तरं चाह---न चैकदेशवृत्तिरिति ।
न ह्यत्यन्तायोगव्यवच्छेदेनायोगो व्यवच्छिन्नो भवति, नापि संभवमात्रविधानेनासंभवो व्यवच्छिन्नो भवति ।
ततश्चयोगाव्यवच्छेदादेकदेशवृत्तिरनुमानाभासो न व्यवच्छिन्न इत्यर्थः ॥
स्यादेतत् ।
विशेष्यसंगतो ऽयमेवकारो ऽनुमेय एव संभवति ।
यथा पार्थ एव धनुर्धर इति ।
न चायमन्ययोगव्यवच्छेदो विनैवकारं लभ्यते ।
तस्मात् न व्यर्थमवधारणमित्यत आह---उत्तरपदबाधा च ।
न ह्यस्ति संभवो ऽनुमेय एवास्ति तत्तुल्ये चेति ।
तस्मात् तत्तुल्य इत्यस्य बाधा ।
चकारो नैकदेशवृत्तिर्निराकृत इति दूषणं समुच्चिनोति ॥
अनुमेय एव सद्भाव इति पक्षं यथासंभवं दूषयित्वा अनुमेये सद्भाव एवेति द्वितीयं पक्षं दूषयितुमुपन्यस्यति---अथोत्तरमिति ।
तस्य प्रयोजनं दशयति---तस्य वयाप्तिरित्यर्थः ।
सद्भाव एवेति किल विशेषणसंगतमवधारणमयोगम् अव्याप्ति व्यवच्छिन्दत् व्याप्ति दर्शयति ।
तथा च व्याप्तिरस्यार्थ इत्यर्थः ।
दूषयति---तथाप्यनुमेयमवधारितं संभवस्य व्याप्त्या न धर्मः सद्भावः ।
हेतुमाह--यत एवकारकरणं ततो ऽन्यत्रावधारणमिति ।
मा वधारि सद्भावो ऽवधार्यतां चानुमेयम् ।
किमेतावतापीत्यत आह---संभवव्याप्त्या चेति ।
अनुमेयं खल्ववधारितं सद्धेतुसंभवं परित्यज्य नान्यत्र वर्तते, ततश्चानुमेयं हेतुसंभवव्याप्त्यावधारितं भवति ।
हेतुसंभवस्त्वनवधारितः सर्वत्रैव तत्तुल्ये च विपक्षे च प्रसृतः ।
स च कश्चित् तत्तुल्यविपक्षौ व्याप्नोति, कश्चित् तदेकदेशवृत्तिः ।
तदस्य हेतुसंभवस्य विपक्षे ऽपि प्रसक्तस्य प्रतिषेधाय युक्तमसति नास्तीति ।
तत्तुल्ये तु प्रसक्तमप्रतिषिद्धमनुमतमेवेति तत्तुल्ये सद्भाव इति व्यर्थमित्यर्थः ॥
स्यादेतत् ।
तुल्यहेतु सद्भावसिद्धावपि तत्तुल्ये व्याप्त्या होतोः सद्भावो भवत्वित्येतदर्थं तत्तुल्ये सद्भाव
इति वचनम् इत्यत आह--तत्तुल्ये चेति ।
यदि पुनर्व्याप्तिर्विवक्ष्येत कृतकत्वे साध्ये प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् ।
न ह्ययं सपक्षव्यापक इति भावः ।
देशयति--अथ तत्तुल्ये इति ।
दूषयितुं विकल्पयति--किं पुनरत्रेति ।
पूर्वस्य विरोधाद् बाधनम्, उत्तरस्य पौनरूक्त्यादिति ।
पूर्वपदेन सह विरोधे निदर्शनमाह---न हि भवतीति ।
अनुमेये सद्भाव इत्यनेनानुमेये वृत्तौ हेतार्लब्धायां तत्तुल्य एव सद्भाव इति समुच्चीयमानावधारणं विपक्षमात्राद् वृत्ति व्यवच्छिनत्ति, न त्वनुमेयात्,
नरं च नारायणमेव चादौ स्वतः सुतौ द्वौ जनयां बभूव ।
इति यथेति चेद् अत आह---तथेहापीति ।
समुच्चीयमानावधारणे हि तत्तुल्येन यथान्ययोगव्यवच्छेदेनैवकारः संबध्यते तथानुमेयेनापि संबध्येत ।
तथा चानुमेयैकदेशवृत्तिरपि हेतुः स्यात् ।
न खलु नरं च नारायणमेवेति निपातो नारायणेन सहान्ययोगव्यवच्छेदेन संबध्यते, नरेण चायोगव्यवच्छेदेनेति भावः ।
अथावधारणस्यावैचित्र्येण संबन्धमिच्छता अनुमेये यथायोगव्यवच्छेदः, तथा तत्तुल्ये ऽयोगव्यवच्छेदेन संबन्ध उच्येतेति शङ्कते---अथ तत्तुल्य इति ।
निराकरोति---तत्तुल्य इति ।
तद् एव विस्तारयति---स इति ।
ते तव दर्शने इत्यर्थः ।
न च यस्यानुमेये सद्भाव एवेत्यनूद्य तत्तुल्य एव सत्त्वमिति विधातुं शक्यम् ।
न ह्यनुमानं शक्यं विशेष्टुम्, तथा सति तद्विशेषणाय प्रयत्नान्तरास्थाने सति वाक्यभेदप्रसङ्गात् ।
यथा,
यस्योभयं हविरार्त्तिमार्च्छेदैन्द्रं पञ्चशरावमोदनं निर्वपेत् ।
इत्यत्र हि यद्यपि स्वरूपेणार्तेरशक्यप्रतिपत्तित्वेन हविषा विशेषणं मृग्यते, तथापि न शक्यं हविरूभयत्वेन विशेष्टुं विना प्रयत्नान्तरादिति वाक्यभेदभिया प्रतीयमानमपि उभयत्वमविवक्षितम्, एवमात्राप्यनुमेय इत्यविवक्षितम् ।
अथ तद्विवक्षयैव वाक्यभेदमभ्युपेत्य पश्चाद् वाक्यैकवाक्यतया अभिमतार्थसिद्धिरास्थीयते ।
न च विरोधाद् वाक्ययोरेकवाक्यता विरहः ।
तत्तुल्य एवेत्यन्ययोगव्यवच्छेदस्य विपक्षमात्रविषयत्वेनाप्युपपत्तौ विरोधासिद्धेः ।
तस्मात् अन्यापोहार्थत्वात् पदानां विरोधो वक्तव्यः ।
तथा हि अनुमेये सद्भाव इत्यत्रानुमेय एव नाननुमेये, सद्भाव एव नासद्भाव इति पदार्थः ।
तथा च तत्तुल्यविपक्षयोर्हेत्वभावो दर्शितः ।
एवं तत्तुल्ये सद्भाव इत्यत्रापि तत्तुल्य एव नातत्तुल्ये, सद्भाव एव नासद्भाव इति पदार्थः ।
तथा चानुमेये ऽसद्भाव इत्युक्तं भवति ।
न चानुमेयतत्तुल्यपदार्थयोः परस्परपरिहारवतोः समुच्चयसंभवः ।
द्वयोरपि विपक्षव्यावृत्तिमात्रपरत्वात् परस्परसमुच्चयसद्भाव इति चेत्---न, वृक्षो गौरित्यनयोरपि हस्त्यादिनिवृत्तिमात्रपरत्वेनाभिन्नार्थयोः सामानाधिकरण्यप्रसङ्गात्, तस्माद् विरोधात् समुच्चीयमानावधारणं न युक्तमिति ।
न च समुच्चीयमानावधारणं दिग्नागो मेने, यदेवमूचे वैशेषिकलक्षणदूषणावसरे---
यदि रूपमेव चाक्षुषं ततो न द्रव्यं चाक्षुषं स्यात् ।
तथा च महदनेक्रद्रव्यसमवायाद् रूपाच्चोपलब्धिः
# वै. सू. 8।1।6 # इति द्रव्यचाक्षुषत्वाभिधानं व्याहन्येतेति ॥
अत्र हि रूपवद्द्रव्यसहितं रूपमेव चाक्षुषं न गन्धरसादीति शक्यं समुच्चीयमानावधारणम् ।
तस्मात् समुच्चीयमानावधारणाभिधानं कीर्तेः स्वातन्त्र्येण ।
तच्चायुक्तमिति कृतं विस्तरेण ॥
असति नास्तितेति दूषयति---असतीति ।
कस्मात्? यदसत् तत्तुच्छं स्वयमेव नास्ति, तन्न सदिति शक्यं व्यवहर्तुम् असदिति वा ।
भवतु, तथापि कस्मात् तस्मान्न हेतोः व्यावृत्तिर्भवतीत्यत आह---न ह्यसदिति ।
यथा चैतत् तथा अन्वयिहेतूपपादनावसरे ऽस्माभिरूक्तम् ।
स्वरूपेण दूषयित्वा एतद्गतमवधारणं दूषयिष्यन्ननूद्य विकल्पयति--किमवधार्यत इति ।
प्रथमं कल्पं दूषयति--यदि तावदिति ।
तत्तुल्य एव सद्भाव इत्यनेन गम्यत इत्यर्थः ।
द्वितीयं कल्पं दूषयति--यदि तावदिति ।
तत्तुल्य एव सद्भाव इत्यनेन गम्यत इत्यर्थः ।
द्वितीयं कल्पं दूषयति---अथ पुनरिति ।
गौरयं विषाणीत्वादित्ययं हेतुर्विपक्ष एव नास्ति, पक्षसपक्षव्यापकत्वात् ।
न तु नास्त्येव, विपक्षैकदेशे महिषादौ वृत्तेः ।
अतो विपक्ष एव नास्ति इत्ययमपि हेतुः स्यादिति ।
तदेवमवयवार्थं दूषयित्वा समुदार्यार्थं दूषयितुमुपन्यस्यति--यदप्येकद्विपदपर्युदासेनेति ।
तत्रैकपदपर्युदासेन त्रयः पक्षाः, द्विपदपर्युदासेनापि त्रय इति पट्कम् ।
तत्पर्युदासेन सप्तिकापरिग्रहः ।
यथानुमेये सद्भाव इत्युच्यमाने यस्य तत्तुल्ये नास्तिता विपक्षे च वृत्तिः सो ऽपि हेतुः स्यात् यथा नित्यः शब्दः कृतकत्वादिति ।
तत्तुल्ये अस्तीत्युच्यमाने विपक्षवृत्तेरपक्षधर्मस्य च हेतुत्वं स्यात्, यथा नित्यः शब्दः चाक्षुषत्वात् सामान्यवदिति ।
नास्तितासतीत्युच्यमाने यो ऽपक्षधर्मस्तत्तुल्ये च नास्ति स हेतुः स्यात् यथा नित्यः शब्दो ऽसत्त्वात् ।
अनुमेये तत्तुल्ये चेत्युच्यमाने, अनित्यः शब्दः प्रमेयत्वादिति विपक्षवृत्तिर्हेतुः स्यात् ।
अनुमेये ऽस्त्यसति च नास्तीत्येतावत्युच्यमाने नित्यः शब्दो जातिमत्त्वे सति श्रावणत्वादित्ययं तत्तुल्यवृत्तिहीनो ऽपि हेतुः स्यात् ।
तत्तुल्ये ऽस्ति असति च नास्तीत्येतावत्युच्यमाने अनित्याः परमाणवः कृतकत्वादित्ययम् अपक्षधर्मो हेतुः स्यात् ।
तदेतत्सर्वं मा भूदिति समुदायोपादानप्रयोजनम् ।
तदेतद् दूषयति--एतदपीति ।
सपक्षव्याप्त्यव्याप्तिभ्यां द्विरूपयुक्तस्यान्वयिनो द्वित्वम् ॥
संप्रति सांख्यीयमनुमानलाणं दूषयति--एतेनेति ।
संबन्धो ऽविनाभावः साधनस्य साध्येन ।
तस्मात् प्रत्यक्षाद् दृढतरप्रमाणावधारितात् ।
तथापि यत्राविनाभूते लिङ्गे भवत एकस्मिन् धर्मिणि विरूद्धाव्यभिचारिणी, तयोरपि हेतुत्वं प्रसज्येतेत्यत उक्तम्---एकस्मादिति ।
शेषस्य अनुमेयस्य सिद्धिः ।
अनुपपन्नत्वमात्रसाम्येनोक्तम् मेतेन न प्रयुक्तमिति ।
अनुपपत्ति पृच्छति---कथमिति ।
यथासंभवमनुपपत्तिमाह---न हीति ।
यदि प्रत्यक्षशब्दो ज्ञानवचनः ज्ञानं चैकत्वेन विशिष्यते, तदैतद् दूषणम् ।
अथ संबन्धविशेषणमेकस्मादिति, प्रत्यक्षशब्दश्च ज्ञाये न तु ज्ञाने, तदेतदुपन्यस्य दूषयति--अथापि संबन्धादिति ।
शङ्कते--अथेति ।
संबन्धस्य प्रत्यक्षतोक्ता पूर्वम्, न त्वनुमानकाल इत्यर्थः ।
दूषयति--तथाप्युपलब्धसंबन्धस्य पूर्वमनुमानकाले चानुपलब्धलिङ्गस्यानुमानं प्रसज्येतेति ।
स्यादेतत् ।
संबध्यते इति व्युत्पत्त्या संबन्धो लिङ्गम् ।
तेनाविनाभूताद्धेतोः प्रत्यक्षादेकस्माद् अनुमेयसिद्धिरिति ।
तथा च गृहीताविनाभावात् लिङ्गात् संप्रति प्रत्यक्षादित्युपपन्नमित्यत आह---न चान्या गतिरस्ति ।
अत्रापि व्याख्याने एकस्मादिति व्यर्थम् ।
तथा हि अन्वयव्यतिरेकमात्रसंपत्तिरविनाभाव इत्युच्यते, सर्वरूपसंपत्तिर्वा? तत्र प्रथमे कल्पे मा भूद् विरुद्धाव्यभिचारी, बाधितविषयस्तु हेतुः स्यात् ।
द्वितीये तु कल्पे न सर्वरूपसंपन्नो हेतुर्विरुद्धाव्यभिचारी संभवतीत्येकस्मादिति अतिरिच्यते ।
तस्मात् सुष्ठूक्तम्--न चान्या गतिरस्तीति ।
अव्यापकत्वं लक्षणदोषम् आह--रूपेण चेति ।
न तावदनयोः तादात्म्यम्, भिन्नेन्द्रियग्राह्यत्वाद् मिन्नबुद्धिबोध्यत्वाच्च ।
न चातदात्मनोरनयोः संबन्धः कश्चिदुपलभ्यते ।
न च प्रतिक्षणपरिणामवादे कुण्डवदरादीनामपि कश्चिदस्ति संबन्ध इत्यपि द्रष्टव्यम् ।
शङ्कते---अथेति ।
निराकरोति--सो ऽपीति ।
न हि सांख्यानां बौद्धानां वा राद्धान्ते ऽस्ति संबन्धः समवायो नाम् ।
नापि तदाश्रयो द्रव्यम् ।
नापि तदाश्रयो द्रव्यम् ।
अतः स्वदर्शनव्याघात इत्यर्थः ।
यद्युच्येत प्राधानिकत्वाद् रूपादीनां प्रधानमेकमाश्रयः, तथा च यत्र रूपं तत्र स्पर्श इत्यत आह--यत्र रूपमिति ।
कुतः? न क्वचिदति ।
न हि प्रधानमाधारः कार्याणाम्, अपि तु प्रधानात्मकत्वमेषामिष्यते, तथा च यत्र तत्रेत्यनुपपत्तिः ।
न च तादात्म्यमित्यप्युक्तम् ।
न च भेदाभेदावेकत्र संभवतो विरोधादिति भावः ।
शङ्कते--परस्परेति ।
यथा ह्यासन्दिकाङ्गानि भिन्नान्यनौत्तराधर्यव्यवस्थितान्यपि परस्पराश्रयतया न पतन्ति, एवं रूपस्पर्शावपि परस्पराश्रयावित्यर्थः ।
निराकरोति--परस्पराधारभावे ऽपि अन्यत्रासन्दिकाङ्गादौ, नासौ रूपस्पर्शयोः ।
कुतः? न रूपं स्पर्शो रूपे इति ।
परस्परसंयोगभेदप्रतिबद्धगुरुत्वानि आसन्दिकाङ्गानि अपतन्ति स्थितानि परस्पराधारत्वेनापदिश्यन्ते ।
रूपस्पर्शादीनां तु स्थितिर्न परस्परहेतुका, अपि तु भोगापवर्गलक्षणपुरुषार्थहेतुकेति भावः ।
एतेन साङ्खानां सप्तविधः संबन्धः प्रत्युक्तः ।
शेषं सुबोधम्
न्य्स्_1,1.6: प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् ॥
विभागसूत्रे अनुमानानन्तरमुपमानस्योद्देशाद् यथोद्देशं च लक्षणादनुमानलक्षणानन्तरमुपमानलक्षणमाह---अथोपमानमिति भाष्यम् ।
सूत्रं पठति---प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् ।
अत्रापि यत इत्यध्याहार्यम् ।
सिद्धिः साधनम् ।
तदेतद् भाष्यकारेण व्याख्यातम् ।
प्रज्ञातेन प्रसिद्धेन ।
गवा साधर्म्यात् सामान्याद् गवयस्य ।
साधर्म्यं च सामान्यमभिदधता न सामान्यातिरिक्तं सादृश्यं नाम पदार्थान्तरमस्तीत्युक्तं भवति ।
साधर्म्यं चाप्रसिद्धं न साध्यसाघनायालमिति साधर्म्यप्रसिद्धिरपि द्रष्टव्या ।
सा च यथा गौस्तथा गवय इत्याप्तवाक्यात् ।
तदिदमुक्तम्---यथा गौरिति ।
साध्यसाधनपदव्याख्यानम्---प्रज्ञापनीयस्य गवयशब्दवाच्यतया प्रत्यक्षदृश्यमानगोसादृश्यस्य गवयत्वसामान्यविशेषवतः पिण्डस्य प्रज्ञापनमुपमानम् ।
पिण्डस्य हि गवयशब्दवाच्यतां पुरुषो ऽतिदेशवाक्यस्मरणसहकारिणः प्रतयक्षाद् गवयगताद् गोसादृश्यात् प्रजानन् तेन प्रज्ञाप्यत इति प्रमाणस्य व्यापारः प्रज्ञापनमुक्तमिति ।
तत्र वार्त्तिककारः प्रथमं तावत् सूत्रतात्पर्यमाह---सूत्रार्थः पूर्ववत् ।
समानासमानजातीयव्यवच्छेद इत्यर्थः ।
साध्यसाधनमित्युच्यमाने प्रत्यक्षादिसाधनेषु सुखदुःखसाधनेषु प्रसङ्गः ।
अत उक्तं प्रसिद्धसाधर्म्यादिति ।
यद्यपि प्रसिद्धसार्म्यमुपमानमित्युच्यमाने प्रमाणविशेषाभिधाय्युपमानपदसामानाधिकरण्यात् करणत्वलाभः, तथापि तदाभासनिराकरणाय साध्यसाधनपदोपादानम् ।
तेनोपमानाभासमपाकृतं भवतीति ॥
अवयवार्थं विभजते---प्रसिद्धेति ।
वार्त्तिककारेण बहुव्रीहिद्वयसंभवो दर्शितः, न तु तृतीयासमासो भाष्यकारीयो निरस्तः ।
भाष्यकारेण हि संज्ञितया गवयप्रतिपत्तिः फलं साध्यसाधनपदवाच्यमुक्ता, आक्षिप्तप्रयोज्यव्यापारत्वात् ।
प्रयोजकव्यापारस्य प्रज्ञापनस्य पश्चात् निष्कृष्याभिधानं कृतम्---समाख्यासंबन्धप्रतिपत्तिपत्तिरूपमानार्थ इति ।
एतदेव साध्यसाधनपदार्थतया वार्त्तिककारो व्याचष्टे---समाख्यासंबन्धप्रतिपत्तिरूपमानार्थः फलम् ।
साध्यशब्देन समाख्यासंबन्ध उच्यते ।
तस्य साधनं सिद्धिः प्रतिपत्तिरिति ।
ननु प्रतिपद्यतामयं गोसादृश्ययुक्तं गवयम् ।
समाख्यासंबन्धप्रतिपत्तिस्तु कुतस्त्या? न हि यो यत्सदृशं यं प्रतिपद्यते, स तस्य समाख्यामप्यवगच्छति इत्याशयवान् पृच्छति---किमुक्तं भवति ।
उत्तरम्---आगमेति ।
आगमानुभवाहितात् संस्कारात् स्मृतिः ।
एतदुक्तं भवति, न केवलं सारूप्यज्ञानं समाख्यासंबन्धप्रतिपत्तिहेतुः, अपि त्वागमार्थस्मृत्यपेक्षमिति ।
नन्वसत्यागमानुभवे कुतः स्मृतिरित्यत आह---यदा ह्यनेनेति ।
प्रसिद्धसाधर्म्यादित्यत्र प्रसिद्धिरूभयी श्रुतमयी प्रत्यक्षमयी च ।
श्रुतमयी यथा गौरेवं गवय इति ।
प्रत्यक्षमयी च यथा गोसादृश्यविशिष्टो ऽयमीदृशः पिण्ड इति ।
तत्र प्रत्यक्षमयी प्रसिद्धिरागमाहितस्मृत्यपेक्षा समाख्यासंबन्धप्रतिपत्तिहेतुः ।
यद्यपि यथा गौरेवं गवय इत्येतस्मादपि गोसदृशस्य गवयशब्दः समाख्येति शक्यमवगन्तुम्, न खलु प्रत्यक्ष एव संज्ञाकर्म, समानजातीयव्यवच्छिन्ने हि तद्भावति ।
तच्च यदि मानान्तरेणापि तथावगम्यते, कस्तत्र संज्ञाकर्म निवारयेत्? गोसादृश्येन चोपलक्षितः पिण्डो य इति सर्वनाम्ना परामृष्टः शक्यो घटादिभ्यो ऽसमानजातियेभ्यो महिषादिभ्यश्च समानजातीयेभ्यो व्यवच्छिन्नो ऽवगन्तुं गवयः, तथापि यावदयमसौ गवय इति साक्षात् प्रतीते संबन्धिनि संज्ञां न निवेशयति, तावदयं परिप्लुतमतिः प्रमाता कच्चित् खलु द्रक्ष्यामि तादृशं पिण्डं यत्र गवयसंज्ञा प्रतिपत्स्य इति प्रमोत्सुक एवोदीक्षते ।
न चासौ वाक्यमात्रसहायो ऽप्रत्यक्षीकृतगोसदृशगवयत्वजातिमत्पिण्डो ऽसौ गवयाख्य इति प्रतिपत्तुमर्हति ।
न च वाक्यं विना प्रत्यक्षात्रात् ।
तस्मादागमप्रत्यक्षाभ्यामन्यदेवेदम् आगमस्मृतिसहितं सादृश्यज्ञानमुपमानाख्यं प्रमाणमास्थेयम् ॥
ननु यदोदीच्येन क्रमेलकं निन्द्रतोक्तम्, धिक् करभमतिदीर्घवक्रग्रीवं प्रलम्बोष्ठं कठोरतीक्ष्णकण्टकाशिनं कुत्सितावयवसन्निवेशमपसदं पशूनामिति, तदुपश्रुत्य दाक्षिणात्य उत्तरापथं गतस्तादृशं वस्तूपलभ्य नूनमसौ करभ इति प्रत्येति, तत् कतमदेतेषु प्रमाणम्? न तावदुपमानं साधर्म्याभावात् ।
नापि पञ्चमं प्रमाणमुपगम्यते ।
यद्युच्येत निन्दापरं वाक्यं करभस्य तादृशत्वे न प्रमाणम्, न ह्यन्यपरात् शब्दादन्यस्यावगम इति ।
यत्र तर्हि तादृक्त्वे पर्यवस्यति वाक्यं तत्र का गतिः? अथ तत्रापि तादृक् करभ आगमावगतः प्रत्यक्षेण प्रत्यभिज्ञायते, करभशब्दवाच्यता तु तस्य तत्पूर्वं तादृक्वरभपरत्वे अप्यागमस्य प्रयोगमात्रादवगता अनुमानात् ।
यो हि यत्र प्रयुज्यते शब्दो ऽसति वृत्त्यन्तरे स तस्य वाचकः, यथा गोशब्दो गोत्वे ।
प्रयुक्तश्चायं तादृशि ।
तस्मात् तस्य वाचक इति ।
तदिदं प्रागेव प्रयोगानुमितं वाचकत्वमस्य प्रत्यक्षसमये केवलं स्मर्यते इति ।
समानमेतत्
उपमानवाक्ये ऽपि तत्रापि वाक्यादवगतः साधर्म्यवान् पिण्डः प्रत्यक्षेण प्रत्यभिज्ञायते ।
प्रयोगानुमितं च गवयपदस्य वाचकत्वं स्मर्यते इति न फलान्तरमवशिष्यते यत्रोपमानं प्रमाणमिति ॥
अत्रोच्यते ।
न तावदाकाशादिशब्दवदेष गवयशब्दः साक्षात् पिण्डस्य वाचकः, किन्तु गवयत्वं निमित्तीकृत्य पिण्डे वर्तते इति परमार्थः ।
न च यथा गौरेवं गवय इति वाक्याद् गवयत्वमवगतम्, न ह्यनवगतसंबधं गवयपदमेतदवबोधयति ।
ततस्तदवगमात् तु संबन्धवेदने परस्पराश्रयप्रसङ्गः ।
न च गोसादृश्येनोपलक्ष्यते गवयत्वम् ।
न खल्वनुपलब्धचरेण गवयत्वेन गोसादृश्यं संबद्धं दृष्टम् ।
न चादृष्टसंबन्धम् उपलक्षकम् ।
न हि पुरुषेणादृष्टसंबन्धो दण्डः पुरुषमुपलक्षयितुमर्हति ।
तस्मात् संबन्धिनो गवयत्वस्य सर्वथानुपलब्धेः कुतो वाक्याद् वा अनुमानाद् वा वाच्यवाचकसंबन्धावसायः? कुतस्तरां च संबन्धस्मृति? गवयत्वसामान्यविशेषवति तु पिण्डे प्रत्यक्षे युक्तः संबन्धावगमः, संबन्धिनो गवयत्वस्य प्रत्यक्षत्वात् वाक्यार्थस्य च स्मर्याणत्वात् ।
तथापि किं गवयत्वजातिमान् पिण्डो वाच्यः, उत गोसादृश्यवानिति कुतो विनिगमनेति चेत्? वाक्यार्थस्मरणसहकारि गवयत्वजातिमतः पिण्डस्य गासादृश्यदर्शनमेव तर्कसहायं गवयत्वाभिधाने प्रमाणम् ।
तर्कश्च गोसादृश्यविशिष्टपिण्डाभिधाने कल्पनागौरवप्रसङ्गः तथा हि सादृश्यविशिष्ट पिण्डाभिधाने, नाप्रतीतं सादृश्यं पिण्डं विशिनष्टीति तत्प्रतिपत्तव्यम् ।
न च शब्दादन्यतस्तदवगम इति शब्दश्य तत्र वाचकत्वं कल्पनीयम् ।
न चाविशिष्टं सादृश्यमपि पिण्डविशेषे गवयपदम् अवस्थापयितुमर्हति, यस्य कस्यचिद् येन केनचित् सह सादृश्यादिति तदपि गवा विशेषणीयम् ।
न चान्यतो गोत्वस्यापि प्रतिपत्तिरिति तदपि गवयपदेनाभिधातव्यम् इति कल्पनागौरवम् ।
गवयत्वजातिमत्पिण्डाभिधाने तु लाघवमिति तदनुजानाति ।
साधर्म्यग्रहणं च धर्ममात्रोपलक्षणमिति करभसंज्ञाप्रतीतिफलमप्युपमानमेवेति नाव्याप्तिः ।
नापि पञ्चमप्रमाणाभ्युपगमः ।
अत एव बहुन्युदाहणान्युक्त्वाप्याह स्म भगवान् भाष्यकारः, एवमन्यो ऽप्युपमानस्य लोके विषयो बुभुत्सितव्य इति ।
तस्मात् सर्वं चतुरस्रम् ॥
तदीदृशमुपमानफलमविद्वान् सादृश्यविशिष्टवस्तुज्ञानं चोपमानफलमिति भ्रान्तो भदन्तो दिग्नाग आक्षिपति---प्रत्यक्षेति ।
पृच्छति---कथमिति ।
उत्तरम्---यदा ताविति ।
उपलक्षणं चैतत्, उभौ प्रत्यक्षेण पश्यतीति ।
यदा तु गवयमेकं प्रत्यक्षेण पश्यति, स्मरति च गाम्, तदापि गोसादृश्यं गवयस्थं प्रत्यक्षमेव ।
गगोस्थमप्रत्यक्षम्, अप्रत्यक्षत्वाद् गोरिति चेत्? हन्त भोः किमभिमतं सादृश्यमायुष्मतो यदप्रत्यक्षायां गवि न प्रत्यक्षम्? सामान्यबाहुल्यं जात्यन्तरवर्ति जात्यन्तरस्य ।
यथाहुः,
सामान्यान्येव भूयांसि गुणावयवकर्मणाम् ।
भिन्नप्रधानसामान्यवृत्ति सादृश्यमुच्यते ॥
इति चेत्? तत् किमिदानीं कर्णत्वादिसामान्यं गोगवयगतकर्णादिभेदेन भिन्नमित्यपि वक्तुमध्यवसितो ऽसि? तस्माद्
यथा कालाक्ष्यां गवि गोत्वमीक्षितवतः स्वस्तिमत्यां प्रत्यभिज्ञायमानं तदेवेदमिति, एतदेव तदित्यवगतं भवति, तथेहापीति न फलातिरेकः ।
तस्मात् न सादृश्यप्रतीतिफलमुपमानं प्रत्यक्षाद् वाक्याद् वा व्यतिरिच्यते इति सूक्तम् ।
भदन्तभ्रान्तिमुद्घाटयति---गवेति ।
गवयसत्तां सादृश्यविशिष्टम् इत्यर्थः ।
अर्थतत्त्वमुक्तं स्मारयति---गवयेति ।
उपसंहरति---तस्मादिति ।
प्रयोगस्तु, प्रत्यक्षादिभ्यः प्रमाणान्तरमुपमानम्, तज्जन्यप्रमाविलक्षणप्रमाजनकत्वात् ।
यदि तु न तेभ्यो विलक्षणमभविष्यद् न तद्विलक्षणां प्रमामकरिष्यत्, तथा तान्येव ।
न चैतत् तथा ।
तस्मात् तथाति
न्य्स्_1,1.7: आप्तोपदेशः शब्दः ॥
अथ शब्द इति भाष्यम् ।
उपमानानन्तरं शब्दोद्देशात् उपमानलक्षणानन्तरं शब्दस्य लक्षणमित्यर्थः ।
लक्षणसूत्रं पठति---आप्तोपदेशः शब्दः ।
अत्र शब्द इति लक्ष्यपदम् ।
आप्तोपदेश इति लक्षणम् ।
उपदिश्यते ऽनेनेति उपदेशो वाक्यज्ञानं वा तदर्थज्ञानं वा अभिघीयते ।
तत्र वाक्यज्ञानप्रमाण्यपक्षे तदर्थज्ञानं फलम्, पदार्थस्मृत्यादयस्त्वान्तरालिका इतिकर्तव्यताः ।
तदर्थज्ञानप्रामाण्यपक्षे तु हानादिबुद्धिः फलम् ।
यद्यपि विधिरूपदेशः प्रवर्तनमित्यनर्थान्तरम्, यद्यपि चायं नियोज्यप्रयोजने प्रवृत्तिनिवृत्ती विदधदाज्ञाध्येषणाभ्यामतिरिच्यते, ते हि नियोक्तृप्रयोजने प्रवृत्तिनिवृत्ती विधत्तः, तथापि भूतार्थपरोपनिषदादिशब्दव्यापकत्वात् परप्रयोजनवद्वचनमात्रविवक्षयोपदेशपदं व्याख्येयम् ।
यद्यपि सदेव सोम्येदमग्र आसीद्
इत्यादि वचनं क्वचित् न प्रवर्तयति, कुतश्चिद् वा निवर्तयति पुरुषम्, तथापि पुरुषश्रेयो ऽभिधत्ते इत्युपदेश इत्युच्यते ।
तथाप्यतिव्याप्तिः, चैत्यवन्दनादिवाक्यानामप्येवं लक्षणत्वात् ।
अत उक्तम्---आप्तेति ।
आप्तानां ऋष्यार्यम्लेच्छानामुपदेशः शब्दो न त्वनाप्तानां मायामोहनिर्मितानां बुद्धर्षभादीनां प्रमाणविरुद्धक्षणिकसर्वधर्मनैरात्म्यवादिनामिति ।
तदेवाह---वार्त्तिककारः न शब्दमात्रमिति सूत्रार्थः ॥
सूत्रस्थाप्तलक्षणपरं भाष्यम्---आप्तः खलु साक्षात्कृतधर्मा ।
सुदृढेन प्रमाणेनावधारिताः साक्षात्कृता धर्माः पदार्था हिताहितप्राप्तिपरिहारप्रयोजना येन स तथोक्तः ।
तथापि तत्त्वं विद्वान् अकारूणिकतया वा अलसतया वा अनुपदिशन्, मत्सरितया वा विपरीतमुपदिशन् नाप्तः स्यादित्यत आह---यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्तः ।
यथादृष्टस्येति मत्सरितया विपरीतोपदेशो निवारितः ।
चिख्यापयिषयेति अकृपास्वार्थकामत्वे निराकृते ।
प्रयुक्तः उत्पादितप्रयत्नः इत्यलसत्वम् ।
तथापि स्थानकरणपाटवाभावेन वर्णनिष्पादनासामर्थ्येनाप्तः प्रसज्येत, इत्यत आह---उपदेष्टा ।
स्थानकरणपाटवानित्यर्थः ॥
आप्त इति प्रकृतिप्रत्ययसमुदायात् प्रकृति निष्कृष्य तदर्थमाह--साक्षात्करणमिति ।
अनेन यथोक्तरूपसंपदुपलक्षिता ।
प्रत्ययार्थमाह--तयेति ।
आप्तलक्षणस्य वयापकत्वमाह--ऋषीति ।
दर्शनात् ऋषिः ।
करतलामलकफलवत् साक्षात्कृतत्रैकाल्यवर्त्तिप्रमेयमात्रः, आराद् यातः पातकेभ्य इत्यार्यो मध्यमो लोकः, म्लेच्छः प्रसिद्धः ।
म्लेच्छा अपि हि परिपथमवस्थिताः पान्थानामपहृतसर्वस्वानां मार्गाख्याने हेतुदर्शनशून्या अवन्त्याप्ता इति परेषामाप्तलक्षणमव्यापकमित्युक्तं भवति ॥
तदेतद् भाष्यम् आक्षेप्तुमनुभाषते---आप्तः खल्विति ।
आक्षिपति---स्वर्गेति ।
आक्षेप्ता भाष्यम् आक्षिप्य सूत्रं समाधत्ते तस्मादिति ।
आप्तः प्राप्तो युक्त इति यावत् ।
अपौरुषेयो वैदिक उपदेशः स्वर्गापूर्वदेवतादिविषयः स्वतःप्रामाण्ये सिद्धे निर्देषतया युक्त उपपन्नः ।
लौकिकश्चार्यम्लेच्छानां प्रमाणान्तरमूलो युक्तः ।
मानान्तराभावे त्वनाप्तो ऽयुक्तः ।
समाधत्ते---न ब्रूम इति ।
पौरुषेयत्वं वेदानां द्वितीयाध्याय उपपादयिष्यते ।
तस्मात् पुरुषस्यैवाप्तस्योपदेश आप्तोपदेश इति साधु व्याख्यानं भाष्यकारीयमिति भावः ॥
पृच्छति--कः पुनरिति ।
अस्ति हि स्वर्गादीनामप्रत्यक्षत्वे न्यायः, योगिप्रत्यक्षं न स्वर्गादिविषयः प्रत्यक्षत्वात् अस्मदादिप्रत्यक्षवदिति भावः ।
उत्तरम्--ब्रूमो न्यायम् ।
तमाह--समान्यविशेषवत्त्वात् कस्यचित् प्रत्यक्षा इति ।
अत्र यावति पक्षे यो हेतुः सिद्धः, तस्य तन्मात्रे पक्षीकार्यम् ।
योगजे च प्रत्यक्षे सिद्धे तत्साधकादेव प्रमाणात् तस्य स्वर्गादिविषयत्वमपि सिद्धमिति धर्मिग्राहकप्रमाणविरुद्धं मीमांसकानाम् अनुमानं नोदेतुमप्युत्सहते प्रागेव तद् बाधितुम् ।
असिद्धे तु योगजे प्रत्यक्ष आश्रयासिद्धो हेतुराभासः ।
अस्माकं तु सम्यञ्चो बहवश्च न्याया इति भावः ।
अनित्यत्वं हेतुमाक्षिपति--असिद्धमिति ।
परिहरति--नेति ।
नित्ये चापूर्व इति ।
अत्र त्रयः कल्पाः, किमेकमपूर्वं सर्वपुरुषसाधारणम्, आहो असाधारणम्? यदापि असाधारणं तदापि किं प्रतिपुरुषमेकैकमपूर्वम्, आहो प्रतिपुरुषमनेकमिति? तत्र प्रथमं कल्पं दूषयति--यदि साधारणतेति ।
न हि कदाचिदप्ययमपूर्वं पश्यति लौकिकः पुरुषः ।
योगिनस्त्वनभिव्यक्तमपि पश्यन्तीति भावः ।
द्वितीयं कल्पं दूषयति--एतेन प्रतिपुरुषमिति ।
उत्कर्ष आधिक्यमवयवोपचय इति यावत् ।
शङ्कते--व्य।जकेति ।
एकमपि व्य।जकभेदात् उत्कर्षनिकर्षवद् दृष्टम् ।
तद् यथा महति दर्पणतले महन्मुखम्, तदेव कनीनिकायाम् अण्विति भावः ।
वक्ष्यमाणेनाभिप्रायेण निराकरोति--न ह्येकमिति ।
शङ्किता स्वाभिप्रायमुद्धाटयति--ननु चेति ।
स्वाभिप्रायेण निराकरोति---न दृष्ट इति ब्रूम इति ।
शङ्किता पृच्छति--किं पुनस्तत् यदि न दृष्टम्? तत्र यदि भेदेन न दृष्टम्, दृष्टिर्नास्ति ।
किं पुनस्तत्, यद् भेदेन भेददर्शनमिति भासते? समाघाता स्वाभिप्रायमाह--मिथ्याप्रत्यय इति ।
न भेददर्शनमपजानीमहे, किं तु पारमार्थिकं भेदम् ।
न च कल्पितो ऽपूर्वभदः पारमार्थिकाय कार्यायालमिति भावः ।
उत्कर्षापकर्षकर्तृत्वं वेति कर्मण इति शेषः ।
तृतीयं कल्पमातिष्ठते---प्रतिपुरुषमनेक इति ।
दूषयति---अनिवृत्त इति ।
अथोत्तरकालमिति ।
अश्वमेधक्रियया तावत् तदपूर्वं स्वकाल एवाभिव्यक्तं फलदानाभिमुखीकृतम्, अभिव्य।जकसमानकालत्वादभिव्यक्तेः, प्रदीपादिषु दर्शनात् ।
तथापि फलं तावत् न दत्ते, यावत् क्रिया न निवर्तते ।
निवृत्तायां तु फलं दत्ते इत्यर्थः ।
दूषयति---असतीति ।
तत् खलु पूर्वं सदपि फलं नाकार्षीत् चरमभाविन्याः क्रियायाः तज्जन्याया आभिव्यक्तेरनुत्पादात् ।
उत्पन्नायां तु क्रियायामभिव्यक्तौ वा कस्मात् न करोति? न हि क्रियाया विनाशस्य कश्चिदुपयोगः ।
तस्मादकामेनापि त्वया असत्या एव क्रियाया व्य।जकत्वमनुग्राहकत्वं चाङ्गीकर्तव्यम् ।
तच्चैतदुभयमपि चित्रमित्यर्थः ।
अपि च सासती चेत् क्रियाभिव्यनक्ति, तथा सति असत्तायाः सर्वत्र सुलभत्वात् न किञ्चिदपूर्वं नाभिव्यक्तमिति ।
क्रियाविलोपः प्रयत्नविलोप इत्यर्थः ॥
अत्र शब्दं प्रमाणान्तरमसहमानो दिग्नागः तल्लक्षणं विकल्प्याक्षिपति---आप्तोपदेश इति ।
अन्यस्मादन्यस्य निश्चयो न तावदसंबन्धादतिप्रसङ्गात् ।
न च शब्दः अर्थात्मा, नाप्यर्थकार्यः ।
विनाप्यर्थं पुरुषविवक्षामात्रादेव तदुत्पादात् ।
तस्मात् न साक्षात् शब्दादर्थनिश्चयः, विवक्षाकार्यन्तया तु विवक्षां गमयेत् ।
सा चार्थाभिप्रायपूर्वा ।
अभिप्रायश्च कश्चिन्मनोमात्रयोनिः, अपरस्तु प्रमाणमूलः ।
तत्र यः प्रमाणनिश्चितमर्थं विवक्षति, यथाविवक्षं चोच्चारयति स आप्तः ।
तस्य वचनात् कार्यात् कारणं विवक्षा अनुमीयते ।
तस्याश्च कारणमर्थज्ञानम् ।
ततश्चार्थज्ञानस्यार्थकार्यत्वादिति प्रमाणगतिः ।
तत्राप्तोपदेश इत्यत्रोपदेशक्रियया उपदेष्टार उपस्थापिताः ।
ते च प्रायेण विसंवादका दृष्टा इत्याप्तग्रहणेन तेषामविसंवादित्वम् ।
ततश्च उपदेशादर्थविनिश्चयो भवत्वित्येतदर्थं यद्युच्येत इत्याह---यद्याप्तानामिति ।
उपदेष्टणामित्यर्थः ।
इमं कल्पं दूषयति---तदनुमानात् ।
अविसंवादित्वमुपदेष्टुरानुमानिकम्, तादृशस्य वचनमर्थविनिश्चये अनुमानमेव ।
तथा हि यद् यन्निर्देषसत्त्वीयं वचनं तत्सर्वमर्थवत्, यथा बुद्धस्य क्षणिकनैरात्म्यादिविषय उपदेशः, तथा चायं विवादाध्यासित उपदेश इति ।
यथोक्तं भदन्तेन
आप्तवाक्याविसंवादसामान्यादनुमानता ॥
इति ।
द्वितीयं कल्पमातिष्ठते---अथार्थस्य तथाभावः ।
अत्र हि उपदिश्यत इत्युपदेश इति व्युत्पत्त्या अर्थ उच्यते ।
आप्तः प्राप्त उपदेशो यस्मात् स तथोक्तः ।
एतदुक्तं भवति यस्मात् शब्दादवगम्यार्थं प्रवर्तमानः प्राप्नोति तमेवार्थ स आप्तोपदेशः शब्दः प्रमाणम् ।
एवं च यथा शब्देन यो ऽर्थो दर्शितः, तस्याप्त्या तथाता दर्शिता भवति ।
तदिदमुक्तम्--अथार्थस्य तथाभाव इति ।
दूषयति--सो ऽपीति ।
तदेव स्फुटयति--यदा हीति ।
आप्त्या हि तथात्वं विनिश्चन्वन् अर्थस्य नाप्रतिपन्नतया निश्चेतुमर्हति ।
प्रतिपत्तिश्च प्रायेण प्रत्यक्षेणेति प्रत्यक्षत इत्युक्तम् ।
तमिममाक्षेमपाकरोति--तन्नेति ।
नाप्तत्वसहायः शब्दो ऽर्थं बोधयतीति सूत्रार्थः ।
नापि शब्दार्थप्राप्त्या शब्दार्थतथात्वमिति ।
कस्तर्हि इत्यत आह--अपि त्विति ।
इन्द्रियसंबद्धासंबद्धेष्विति दृरूटदृष्टेष्वित्यर्थः ।
यथोक्तं स द्विविधो दृष्टादृष्टभेदादिति ।
एतदुक्तं भवति, नाप्तत्वहेतुकमविसंवादित्वमनेन सूत्रेणागमार्थतया प्रतिपाद्यते ।
नाप्यर्थतथात्वम् आगमार्थतया प्रतिपाद्यते ।
नाप्यागमः प्रत्यक्षानुमानाभ्यां न भिद्यते, किं तु उपदेशः शब्द इत्युक्तम् ।
उपदेश इति च कारकपदम्, उपदिश्यते ज्ञाप्यते प्रयोजनवानर्थो ऽनेनेति ।
तथापि वातिकाद्युपदेशो ऽपि शब्दः स्यादित्यत उक्तम्---आप्तेति ।
तेनोपदेशपदादेवागमस्य वाक्यार्थप्रतिपत्तिः फलमुक्तम् ।
तदिदमुक्तम्---या शब्दोल्लेखेन पदार्थस्मरणावान्तरव्यापारात् शब्दादेवार्थं प्रत्येमीत्यनेनोल्लेखेन प्रतिपत्तिः सागमस्यार्थः फलमिति ।
आप्तत्वं च न वाक्यार्थं प्रत्याययति अपि त्वागमस्याव्यभिचारिताम् ।
न च यतः प्रामाण्यमवगम्यते ततः प्रमेयमपि ।
तथा च सति प्रामाण्यज्ञानहेतोरनुमानादेव प्रत्यक्षादिप्रमेयावगतिरिति प्रत्यक्षादीनामप्रमाण्यप्रसङ्गः ।
तथासति कस्यानुमानमपि प्रामाण्यमवधारयेत् ।
न चाप्तवाक्यं कार्यं सद् वक्तृज्ञानानुमानद्वारेणार्थे ऽप्यनुमानमेव, न त्वर्थस्य प्रत्यायकमिति सांप्रतम् ।
यदि हि नार्थं प्रत्याययेत् ज्ञानमात्रमनुमापयेत्, तथा च नार्थविशेषसिद्धिः ।
न च ज्ञानस्यार्थादन्यो ऽस्ति कश्चिद् विशेषः ।
तस्मात् वक्तृज्ञानविशेषणाय पूर्वं शब्दादेव केवलाद् वाक्यार्थज्ञानम् एषितव्यम् ।
एवं च कृतं वक्तृज्ञानानुमानेनार्थप्रतिपत्त्यर्थेन केवलं प्रामाण्यज्ञानाय तदुपयोग इति ।
न चाविनाभाव एव संबन्धो येन शब्दार्थयोरसंबन्धेन गम्यगमकत्वं न स्यात् ।
अस्ति हि साङ्केतिकः संबन्धो ऽनयोरिति वक्ष्यते ।
न चाविनाभावः एव प्रत्यायनाङ्गम्, चक्षुरादयो नीलादिभेदव्यभिचारिणो ऽपि दृष्टाः तत्प्रतिपादका इत्युक्तम् ।
तस्मात् पदानि कृतसंकेतानि स्वार्थान् स्मारयन्ति, आकाङ्क्षायोग्यतासत्तिसध्रीचीनानि अदृष्टपूर्वं वाक्यार्थं बोधयन्ति, न संगतिग्रहणमपि प्रतीक्षन्त इति दूरे ऽनुमानाद् भवन्ति ।
यथा चैतत्, तथोद्देशे लेशत उक्तम् ।
उपपादितं च तत्त्वबिन्दौ ।
तस्मात् सर्वमवदातम्
न्य्स्_1,1.8: स द्विविधो दृष्टादृष्टार्थत्वात् ॥
स द्विविधो दृष्टादृष्टार्थत्वात् इति सूत्रस्य तात्पर्यमाह---नियमार्थम् ।
तद्विभजते---अनेकधेति ।
दृष्टादृष्टार्थत्वादिति भाष्यमतेन व्याचष्टे---प्रत्यक्षेति ।
आप्तप्रणीतत्वलिङ्गानुमितप्रामाण्यशब्दैकविषयस्वर्गयागादिसंबन्धादीनामनुमानविषयता ।
यथाह भाष्यकारः, यस्यामुत्र प्रतीयते सो ऽदृष्टार्थ इति ।
अदृष्टार्थो ऽपि प्रमाणमर्थस्यानुमानादिति ।
तेन दृष्टो ऽर्थो यस्यागमस्य स तथा ।
एवमितरो ऽपीति ।
तदेवं भाष्यमतेन व्याख्याय स्वमतेन व्याचष्टे---वक्तृभेदेनति ।
दृष्टो ऽर्थो येन सं दृष्टार्थः प्रवक्ता, एवमदृष्टो ऽर्थोनुमितो येन स तथा ।
तत्र दृष्टार्था ऋषयो ऽस्मदादयश्च ।
अनुमितार्था अस्मदादय एवेति ।
एवमपि शब्दद्वैविध्यसाधने मा भूदपक्षधर्गतेति प्रवक्तृपदेन पूरयति---दृष्टादृष्टार्थप्रवक्तृकत्वादिति ।
अदृष्टार्थः प्रवक्ता यस्यागमस्य स तथोक्तः ।
अस्यार्थमाह न विग्रहं करोति प्रत्यक्षत इति ।
शेषं सुबोधम् ।
स न मन्येत दृष्टानां वाक्यानां प्रामाण्यम् ।
स इति ।
विप्रकृष्टो नास्तिकः परामृष्यत इति भाष्ययोजनिका ।
परिशिष्टं तु परीक्षापर्वणि निवेदयिष्यते
न्य्स्_1,1.9: आत्माशरीरेन्द्रियार्थबुद्धिमनःवृत्तिदोषप्रेत्यभावफलदुःखापवर्गासतु प्रमेयम् ॥
इह प्रमेयं हेयोपादेयभावेनावस्थितं मुमुक्षुणा प्रतिपित्सितम् ।
तच्च परीक्षितस्वप्रमाणविशेषाधीनप्रतिपत्ति ।
लक्षणं चास्य प्रमाणविशेषः ।
न चावान्तरप्रमाणसामान्यप्रत्यक्षादिलक्षणमन्तरेणात्मादिप्रमाणावतारः कर्तुं शक्यः, तस्य प्रत्यक्षादिसामान्यविशेषत्वात् ।
अतः प्रत्यक्षादिलक्षणानन्तरं तदवतारः ।
अपरीक्षितं च न तत्त्वनिर्णयाय पर्याप्तमिति परीक्षा विधायिष्यते ।
तत्परिकरश्च संशयादय इति युक्तं तेषां पश्चाल्लक्षणम् ।
तदिह प्रमेयलक्षणाय तद्विभागोद्देशसूत्रमवतारयितुं भाष्यकारः पृच्छति स्म---किं पुनरनेन प्रमाणेनेति ।
जात्यभिप्रायमेकवचनम्, प्रकृते प्रमेये यथायथं प्रमाणानामुपयोगात् ।
तदेतद् भाष्यम् अनूद्य वार्त्तिककार आक्षिपति---किं पुनरिति ।
प्रमेयनान्तरीयकत्वं प्रमाणानां सामर्थ्यम् ।
समाधत्ते--नेति ।
प्रत्यक्षादिलक्षणसामर्थ्यात् प्रमेयमात्रं सिद्वम्, सिशिष्टं तु प्रमेयमद्यापि न सिध्यतीति तदर्थं प्रश्नः ।
स च विशेषो यथावदिति न दर्शित इति ।
अयमेव च सूत्रार्थ इति ।
येषां तत्त्वातत्त्वज्ञानाभ्याम् अपवर्गसंसारौ भवतः, त एतावन्त एव ।
न न्यूना नाधिका इत्यर्थः ।
प्रथमसूत्रव्यवस्थाम् अतिदिशति---अत्रापीति ।
उक्तमर्थमनाकलयन्नाक्षिपति---उभयेति ।
दिगादीनामिति ।
द्रव्येषु दिक्कालपरमाणूनामनभिधानात् ।
वृक्षस्तिष्ठतीति ।
इतिशब्द आद्यर्थे तेन वृक्षं पश्यति, वृक्षेण चन्द्रमसं पश्यतीत्यादयो वेदितव्याः ।
समाधत्ते---न सूत्रार्थापरिज्ञानादिति, न प्रमेयपदं प्रमेयमात्रे प्रवर्तते, किं तु यत् तत्त्वतो ज्ञायमानमपवर्गसाधनं तस्मिन्, तच्चात्माद्येव नान्यदिति युक्तो ऽन्ययोगव्यवच्छेद इत्यर्थः ।
अयोगव्यवच्छेदे ऽपि न दोष इत्याह---प्रमेयमेवेति ।
नन्वस्मिन् पक्षे न कदाचिदपि प्रमाणता स्यादित्यस्ति दोष इत्यत आह---किमुक्तं भवतीति ।
नास्य पुरुषमात्रं प्रति प्रमेयत्वं विधीयते, अपि तु मोक्षमाणशिष्टं प्रति विधीयते ।
अनूद्यत इति प्रमाणान्तरमूलकत्वेन विधानस्य दार्ढ्यं दर्शयति ।
उपसंहरति---तस्मादिति ।
कौशलमात्रमात्मनः ख्यापयितुमभ्युपेत्य समाधानान्तरमाह--उपेत्येति ।
प्रवृत्तिसंस्कारकत्वमस्ति दिक्कालयोः,
प्राङ्मुखो ऽन्नानि भु।जीत ॥
प्राचीनप्रवणे वैश्वदेवेन यजेत ॥
पौर्णमास्यां पौर्णमास्या यजेत ॥
अमावास्यायाममावास्यया यजेत ॥
इत्येवमादि श्रवणात् ।
कौशलमात्रमिदं न तु समाधानमित्याह---न पुनरिदमिति ।
विहितविधानादिति ।
प्रमाणविधानसामर्थ्येन विहितमित्यर्थः ।
न केवलं प्रमाणविधानाक्षिप्तम्, अपि त्वाद्यसूत्रगमप्रमेयपदादपि लब्धमित्याह---आद्येन चेति ।
एतस्मिश्चार्थे सूत्रकारस्य अनुमतिमाह---एनं चार्थमिति ।
भाष्यम्---सर्वस्य सुखदुःखसाधनस्य, द्रष्टा सर्वस्य सुखदुःखस्य भोक्ता, यतः सुखदुःखसाधनं सर्वम्, सर्वं च सुखदुःखं जानाति, अतः सर्वज्ञः ।
न चाप्राप्तान्येतानि जानातीत्यत आह---सर्वानुभावी ।
अनुभवः प्राप्तिः ।
तदेतद् वैराग्योत्पादायोक्तम्, एवमुत्तरत्रापि बोद्धव्यम् ।
आत्मन्ययं विशेषो यदनेन रूपेण हेयः, कैवल्येन चोपादेयः ।
शरीरादीनि तु हेयान्येव ।
अपवर्गस्तूपादेय एवेति ।
अविद्यमानं पूर्वं शरीरं यस्य तदपूर्वं शरीरम् ।
तन्निषेधति---नास्येदमिति ।
प्रमेयतत्त्वमविदुष आत्मन अविद्यमानमुत्तरं शरीरं यस्य तद् अनुत्तरम् ।
तदपि निषिद्धं चेन, नेत्यनुकर्षणात् ।
ननु यथा पूर्वेषां शरीराणाम् अनादिता एवमुत्तरेषामप्यनन्तता, तथा च मोक्षमाणानां प्रवृत्तयश्च तदर्थानि शास्त्राणि चानर्थकानि प्रसज्येरन्नित्यत आह---उत्तरेषामिति ।
प्रमेयतत्त्वावगमादित्यर्थः ।
ननु सूखे ऽप्युद्देष्टव्ये दुःखमात्रोद्देशः किं सुखं प्रत्याचष्टे? तथा चानुभवविरोध इत्यत आह--नेदमिति ।
तदेतद् भाष्यं वार्त्तिककार आक्षेपसमाधानाभ्यां व्याचष्टे---सुखं पुनरिति न चान्यत आत्मादिपदात्, उपलब्धिः, अस्मादेव आत्मादिभ्यो भेदेन प्रत्यात्ममुपलभ्यमानत्वादेव, निर्विद्यते इत्यस्य व्याख्यानम्---तां चोपासीनस्य तयैव विरोधिगुणेन तृष्णा विच्छिद्यते, सुखानभिधानेन दुःखपक्षनिक्षेपं सूचयति ।
तथा च सुखे ऽस्य वैराग्यं भवतीति तात्पर्यार्थः
न्य्स्_1,1.10: इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ॥
अपवर्गस्याप्यात्मार्थत्वेन प्रमेयेष्वात्मनः प्राधान्यात् प्रथममात्मलक्षणसूत्रम् इच्छेत्यादि ।
तदवतारार्थं भाष्यम्---तत्रात्मेति ।
अहमिति ज्ञानं गौराद्याकारं शरीरावभासं न शक्यं घटादिज्ञानवद् द्रागात्मनि प्रमाणयितुमित्यभिप्रायः, परदेहवर्त्यात्माभिप्रायं वा ।
तदत्र वार्त्तिकारः सूत्रतात्पर्यमाह---समानेति ।
समानजातीयं शरीरादि, असमानजातीयं प्रमाणसंशयादि ।
सत्येवास्मिन् प्रयोजने प्रयोजनमन्वाचिनोति---आगमस्येति ।
ततश्चात्पोक्तत्वानुमानसिद्धमपि प्रामाण्यं शब्दस्य अनेन तदर्थसंवादकेनानुमानेन दृढतरं भवतीत्यर्थः ।
प्रयोजनान्तरं चान्वाचिनोति---प्रमाणसंप्लवस्येति ।
द्वावपि वाशब्दौ चार्थे ऽन्वाचये द्रष्टव्यौ ।
तदनेन वार्त्तिकेन अनुमानाच्च प्रतिपत्तव्य इति भाष्यं व्याख्यातम् इच्छाया आत्मलिङ्गत्वकथनपरं भाष्यं यज्जातीयस्येति ।
यज्जातीयस्येति व्यप्तिस्मृतिकथनम् ।
तज्जातीयं पश्यन्निति पक्षधर्मोपनयः ।
तस्मादयं सुखहेतुरित्यनुमायादातुमिच्छति ।
सेयमिच्छेदृशी व्याप्तिग्रहणतत्स्मरणपक्षधर्मताग्रहणानुमानेच्छादीनामेककर्तृत्वं सूचयति, भेदे प्रतिसन्धानाभावेन तदनुपपत्तेः ।
तदिदमुक्तम्---एकस्येति ।
यश्चासावेको ऽनुभविता च स्मर्ता चानुमाता चैषिता च स आत्मा ।
न च शरीरमेव भवितुमर्हति, तस्यापि बाल्यकौमारयौवनवार्द्धकभेदेनान्यत्वात् ।
नेन्द्रियम्, इन्द्रियान्तरगृहीत इन्द्रियान्तरेणाप्रतिसन्धानप्रसङ्गात् यमहम् अस्प्राक्षं त पश्यामीति ।
नापि मनः, मनसः, करणत्वेनैवानुमानात् ।
वक्ष्यति ह्येतत् सर्वं ज्ञातुर्ज्ञानसाधनोपपत्तेः ॥
# 3।1।17 # इत्यत्र सूत्रे ॥
स्यादेतत् ।
असत्यपि आत्मनि ज्ञातरि सत्यपि च बुद्ध्यादीनां भेदे, तत्सन्तानाभेदेन प्रतिसन्धानव्यवस्थोपपत्स्यत इत्यत आह---नियतविषये इति ।
नियतविषय इति बुद्धिभेदस्य प्रतिसन्धानमपाकरोति ।
मात्रग्रहणेन च संतानं संतानिव्यतिरिक्तमपाकरोति ।
तदभ्युपगमे वा स एवात्मेति सिद्धं नः समीहितम् ।
तदेतद् भाष्यम् अनुभाष्य वार्त्तिककारस्तात्पर्यमस्याह---यज्जातीयस्येति ।
तत्र विचारमारभते---तत्रेति ।
पूर्वपक्षमाह---कथमिच्छादीति ।
परिहरति---स्मृत्येति ।
नन्वेकविषयाणां स्मृत्यादीनां नानाकर्तृकत्वे को विरोध इत्यत आह---न हीति ।
नानाविषयत्व उदाहरणमाह---न हि भवति यद्रूपमिति ।
नानानिमित्तत्व उदाहरणमाह---नापि भवतीति, यद् यस्मात् निमित्तात् त्वगिन्द्रियात् स्पर्शमहमस्पर्क्षं तत् तस्मात् निमित्तात् चक्षुषो रूपं पश्यामीति ।
नानाकर्तृत्व उदाहरणमाह---न हि भवति देवदत्त इति ।
तदेतत् किल प्रतिसन्धानं कर्तृभेदाद् देवदत्तयज्ञदत्तादेर्व्यतिरेकबलेनैककर्तृकत्वं साधयतीत्युक्तम् ॥
तदेतदनुपपन्नम्, भिन्नकर्तृकत्वाद् व्यतिरेकस्योपाधिसंभवेन स्वाभाविकप्रतिबन्धविज्ञानवैकल्यात्, अस्ति हि देवदत्तयज्ञदत्तविज्ञानानां भिन्नकर्तृकत्वमकार्यकारणभावश्च, तत्र किमकार्यकारणभावात् प्रतिसन्धानस्य व्यतिरेक उत भिन्नकर्तृकत्वादिति सन्दिग्धव्यतिरेकत्वादसाधनाङ्गं प्रतिसन्धानमित्याशयवांश्चोदयति---कार्यकारणभावादिति ।
तदिदमुक्तम्---तदिदं प्रतिसन्धानमन्यथा भवदिति ।
गूढाभिप्रायः परिहरति---न नानात्वस्येति ।
चोदक आह---अकार्येति ।
गूढाभिप्राय एव परिहारवाद्याह---तदयुक्तमिति, अनैकान्तिकत्वं सन्दिग्धव्यतिरेकिता ।
चोदक आह---तुल्यं भवतो ऽपीति ।
सिद्धान्ती गूढाभिप्राय एवाह--अभ्युपगमादिति ।
चोदक आह--नासाधनादिति ।
असिद्धार्थता अन्यथासिद्धार्थता ।
हेतोः हेतुवचनस्येत्यर्थः ।
संप्रति समाधाता स्वाभिप्रायमाविष्करोति--न, हेत्वर्थापरिज्ञानात् ।
तदेव विभजते---न भवतेति ।
कः पुनरसौ हेतुविशेष इत्यत आह---विशेषितं चैतत्प्रतिसंधानम् ।
तत् कथयति--- स्मृत्या सह पूर्वापरप्रत्यययोरेकविषयत्वेन प्रतिसंन्धानम् यज्जातीयं चन्दनवनितादि सुखहेतुं प्रतीतं स्मरामि तज्जातीयमिमु प्रत्येमीति प्रतिसन्धानम् ।
तदनेन शालिबीजाङ्गुरस्य परम्परया शालिबीजान्तरजननलक्षणात् प्रतिसंधानात् कार्यकारणभावनियमाद् व्यवच्छिनत्ति ॥
नन्वियं पूर्वापरप्रत्ययसंहिता स्मृतिरपि कार्यकारणभावादेवोपपत्स्यते, कृतमेकेन कर्त्रेत्यत आह---सा च स्मृतिर्भवत्पक्षे ऽनुपपन्ना ।
पृच्छति---कस्मात्? उत्तरम्---अन्येन निमित्तेन अनुभूतस्य अन्येन निमित्तेन अस्मरणात् ।
न हि भवति येनैव चक्षुषा घटमद्राक्षम्, तेनैव त्वगिन्द्रियेण तं स्पृशामीति ।
निमित्तभेदे प्रतिसंधानाभावमुक्त्वा विषयभेदे ऽप्याह---न ह्यन्येन स्वभावेन घटत्वादिनानुभूतस्य अन्येन वृक्षत्वादिना स्मरणम् ।
न हि भवति यमहं घटमद्राक्षं सो ऽयं वृक्ष इति ।
कर्तृभेदे प्रतिसंधानाभावमाह---न ह्यन्येन देवदत्तेन अनुभूतमन्यो यज्ञदत्तः स्मरति ।
न हि भवति यो ऽहं देवदत्तो ऽद्राक्षं सो ऽहं यज्ञदत्तः पश्यामीति ।
न चेदं सत्यपि भेदे कार्यकारणभावात् प्रतिसंधानं भवितुमर्हति ।
न हि यत्र स्फुटतरः कार्यकारणभावः तन्तुपटयोर्घटकपालयोर्वा दृश्यते तत्र प्रतिसंधानं भवति, ये तन्तवः स एव पट इति वा यो घटाक्षणः स एव कपालक्षण इति वा ।
वस्तुतः कार्यकारणभूतानामगृहीतभेदानां प्रतिसंधानहेतुभावः सभागेषु क्षणेषु तथा दर्शनादिति चेत्? तन्न, आमलकफलस्यैकस्यापनयने तत्रैव स्थाने आमलकान्तरावस्थापने भवति प्रतिसंधानम् ।
न च तयोरामलकयोरस्ति कार्यकारणभावः ।
पूर्वापरप्रत्यययोः स्मृत्या सहैकविषयत्वं कर्तरि कार्यकारणभावनिबन्धनं न कर्मणीति चेत्? हन्त, नैरात्म्यसाक्षात्कारसात्मीभावे ऽप्यस्ति विज्ञानानां कार्यकारणभाव इति तन्निबन्धनं प्रतिसंधानं पूर्ववदेव प्रसज्येत ।
सैव चात्मदृष्टिर्देषाणां निदानं परमिति व्यर्थो नैरात्म्यसाक्षात्कारसात्मीभावप्रयासः ।
अथासदपि प्रतिसंधानं कार्यवशादाहरति तथागतो नट इव रामत्वमात्मनः, यदि तत् कार्यकारणभावनिबन्धनम्, कथमसत्, कथमाहार्यम्? अथ कार्यकारणभावो ऽप्यवस्तुसन् कल्पनामात्रनिबन्धनः, स तर्हि तादृशः शालिबीजस्योत्पादं वास्तवं न नियन्तुमर्हति, न जातु कल्पितवह्निभावो माणवको दहनपाकयोरूपयुज्यते ।
न च प्रत्ययानां भेदाग्रहात् प्रतिसंधानमिति सांप्रतम्, प्रवृत्तिविज्ञानानां रूपादिविषयाणां भेदेन पृथग्जनैरपि प्रतियमानत्वात्, आलयविज्ञानस्य च प्रवृत्तिविज्ञानातिरिक्तस्यानुपलब्धेः ।
अहमिति च सत्त्वदृष्टेः क्षणिकत्वनिराकृतावसति बाधके स्थिरवस्तुविषयत्वात् ।
तस्मात् स्मृत्या सह पूर्वापरप्रत्यययोः एकविषयत्वलक्षणस्य प्रतिसन्धानस्यानेककर्तृकत्वाद् व्यतिरेको निरूपाधिरेककर्तृकत्वं साधयति ।
स चैकः कर्ता शरीरेन्द्रियबुद्धिभ्यो भिन्न आत्मेति सिद्धम् ॥
तदनेनाशयेनाक्तम्---अस्ति च स्मृतिः उक्तरूप ।
तस्माद् यस्मिन् पक्षे स्मृतिः संभवति तत्र प्रतिसंधानं न्याय्यमिति ।
स च कर्त्रेकत्वपक्ष इति भावः ।
आशयमविद्वान् पुनः परः प्रत्यवतिष्ठते---भवानिति ।
पर एवैकग्रन्थेनाह---कथमिति ।
कथं न संभवतीत्यर्थः ।
स्यादेतत्, योगिचित्तमपि सर्वज्ञस्य चेतस आलम्बनप्रत्यय इति ।
तस्यापि योगिचित्तेन प्रतिसन्धानं स्यादित्यत आह---यत्कायेति ।
एतदुक्तं भवति, उपादानोपादेयभावेनावस्थितः चित्तप्रवाहः सन्तानः ।
न च योगिचित्तमुपादानं सर्वज्ञस्य चेतसः ।
आलम्बनप्रत्ययो हि तदिति ।
कायग्रहणं च एकसन्तानोपलक्षणपरम् ।
तेन जन्मान्तरे ऽपि स्मृतिरूपपन्नेति ।
तमिममस्मदभिप्रायानभिज्ञं परमन्यथापि बोधयितुं विभवाम इति सिद्धान्ती अन्यथा स्मृत्यनुपपत्तिमाह---न, अस्थिरत्वात् बुद्धीनाम् ।
न ह्यजातानन्वयध्यस्तयोरस्ति कश्चिद् विशेष इति पूर्वोत्पन्नो ऽनुभवः काञ्चन वासनामाधाय ध्वंसते, यया कालान्तरे स्मृतिराधीयते इत्यभ्युपगन्तव्यम् ।
न चास्थिरा बुद्धिः शक्या वासयितुमित्यात्मा स्थिरो ऽभ्युपेय इत्यर्थः ।
युक्त्यन्तरमाह---असंबन्धाच्चेति ।
न च बुद्धीनामसमानकालानामस्ति संबन्ध इत्यर्थः ।
पुनः परः प्रत्यवतिष्ठते---शक्तीति ।
नास्माकं क्षणिकवस्तुवादिनामस्ति तज्जगति यदवस्थितं वासकेन वास्यमानं दृष्टमिति भावः ननु तथाप्यसमानकालयता संबन्धरहितमशक्यं वासयितुमिति ग्रहणकवाक्यविवरणव्याजेनापाकरोति---अथापीति ।
पूर्वचित्तं प्रवृत्तिविज्ञानं यत्तत् षड्विधम्, पञ्च रूपादिज्ञानान्यविकल्पकानि, षष्ठं च विकल्पविज्ञानम् ।
तेन सह जातः समानकालः चेनाविशेषः तदालयविज्ञानमित्युच्यते ।
अहङ्कारास्पदं स्मृतिशक्तिः ।
सा च न शक्तात् तज्ज्ञानादतिरिच्यते ।
तेन कथञ्चिद्
भेदविवक्षया शक्तिविशिष्टमित्युच्यते ।
सिद्धान्तवाद्याह---अत्रोक्तमिति ।
उपपादयिष्यते हि भावानां सर्वजनप्रतीतिसिद्धा स्थरता क्षणभङ्गनिराकरणेन ।
तथा च स्थिरस्य संबद्धस्य च वस्त्रादेः मृगमदादिना वास्यत्वं दृष्टमिति नास्थिरे ऽसंबद्धे च भवितुमर्हतीत्यर्थः ॥
स्यादेतत् ।
अस्थिरयोरपि ज्ञानयोः समानकालतया अस्ति संबन्ध इति कस्मात् अन्यतरचित्तवासितमन्यतरच्चित्तं स्मृतिं नाधत्ते इत्यत आह---यश्चासाविति ।
वक्ष्यमाणापेक्षो ऽपिशब्दः ।
ननु वर्तमाने चेतसि मा कार्षोदुपकारम्, अनागते तु करिष्यति इत्यत आह---नापीति ।
पृच्छति---कथमिति ।
उत्तरम्---वर्तमानं तावदिति ।
प्रकृतमुपसंहरति---तस्मादिति ।
इतो ऽप्यसत्यात्मनि विज्ञानमात्रात् कार्यकारणभावेन स्मृतिर्नोत्पद्यते इत्याह---इतश्चेति ।
कस्मात्? भावस्य भवित्रपेक्षत्वात् ।
भाव उत्पत्तिमान् धर्मः ।
भविता धर्मो ।
पाको विक्लित्तिः संयोगभेदः ।
स च तण्डुलावयवसमवेतो ऽप्यवयवावयविनोरभेदोपचारात् तण्डुलानामित्युक्तम् ।
गतिः परिस्पन्दो देवदत्ते कर्तरीति ।
सिद्धान्ती क्षणिकवादिनमुत्थाप्याक्षणिकत्वाभ्रिपायेण दूषयति---अनाधारैवेति ।
पूर्वपक्षी क्षणिकत्वाभिप्रायेणाह---कार्येति ।
सिद्धान्तवाद्यक्षणिकत्वाभिप्रायेण परिहरति---तच्च नेति ।
समानकालयोराधाराधेयभावो दृष्टः, यथा कुण्डवदरयोः ।
स्थिरमेव हि कुण्डं स्थिरस्यैव वदरस्य गुरुत्वेन पततो गुरुत्वं प्रतिबध्नदधःपतनं निवारयदाधारो भवति ।
यद्युच्येत न स्मृतिर्भावः, किं तु भवित्री उत्पत्तिरस्या भावः ।
न तु भवितुर्भवित्रन्तरापेक्षा युक्ता अनवस्थापातादिति आशङ्कते---अथापीदमिति ।
निराकरोति---तच्च नेति ।
विरोधादिति विवृणोति---यदीति ।
कस्माद् व्याहतमित्यत आह---स्वरूपं चेति ।
चो हेत्वर्थ ।
स्वरूपमुत्पत्तेरूच्यमानं स्वतन्त्रं बाधते यतः, तस्माद् विरोध इत्यर्थः ।
अनभ्युपगमादिति विवृणोति-न हि भवन्त इति ।
विरोधादिति स्फोरयति---व्यतिरिक्तां चेति ।
तन्त्रं शास्त्रम् ।
शङ्कते---अथेति ।
तथा च न विरोधो नाप्यनभ्युपग इत्यर्थः ।
निराकरोति---किं क्वेति ।
अभिधानस्वरूपमाह-उत्पत्तितिरति ।
अपि चोत्पत्तेर्भावत्वे ऽपि न स्मृतिर्न भावः, भावत्वस्य कार्यमात्रानुबन्धित्वात् स्मृतेश्च कार्यत्वात् ।
न चानवस्था, नित्ये व्यवस्थानात् ।
तथा च स्मृतेः भावस्य भविता आत्मैक नित्यः परिशिष्यते इत्याशयवानाह---यदा चोत्पत्तिरिति ।
प्रकृतमुपसंहरति---तस्मादिति ।
तत् सिद्धमेतत्---स्मृतिः पूर्वापरप्रत्ययाभ्यामेककर्तृका, ताभ्यां सहैकविषयत्वेन प्रतिसन्धीयमानत्वात् ।
या पुनर्नाभ्यामेककर्तृका सा नाभ्यां तथा प्रतिसन्धीयते, यथा देवदत्तस्य स्मृतिर्न यज्ञदत्तप्रत्ययाभ्याम् ।
न चेयं तथा ।
तस्मात् तथेति ॥
तदेवं व्यतिरेकिसमर्थनं कृत्वा अन्वयव्यतिरेकिणमत्रार्थे प्रमाणयति---अथ वेति ।
अनेकग्रहणमनेकनिभित्तप्रतिषेधशङ्कानिवृत्त्यर्थं येन मया रूपादयो ऽनूभूताः तेनैव गन्ध उपलभ्यते इति खलु मयेति स्मृत्या सह प्रतिसन्धानं तस्माद् भरतमताभ्यासेनाभिनये ये कृतसङ्केताः, तेषाम् ।
यच्चोक्तं परैः,
नर्तकीभ्रूलताक्षेपो न ह्येकः परमार्थिकः ।
परमाणुसमूहत्वादेकत्वं तस्य कल्पितम् ॥
इति ।
तत्राह---भ्रूक्षेपस्यैकत्वात् ।
न भ्रूः परमाणुसमूहो ऽपि तु अवयविद्रव्यमेकम्, तद्गतं च रेचितकमपि क्रियैकैव ।
भवतु वा परमाणुसमूह एव भ्रूक्षेपः, तथापि समूहस्य समूहिभ्यो ऽनन्यत्वात् परमाणव एव, तेषां च प्रत्येकमेकता चानेकभरतमतनिपुणप्रतिपत्तृसाधारणता च ।
अस्ति च तेषामपि स्वगोचराविकल्पोत्पादनद्वारेण परंपरया मयेति प्रतिसन्धानहेतुभाव इति यत्किञ्चिदेतदेकत्वं तस्य कल्पितमिति ।
तदेवं प्रतिसन्धानद्वारेणेच्छादीनामात्मलिङ्गत्वमुक्त्वा संप्रति गुणतया लिङ्गता वार्त्तिककृद् आह---अथ वेति ।
गुणत्वेनेच्छादीनां पारतन्त्र्यं रूपादिवत् साधनीयम् ।
तच्चानित्यत्वेनैव सामान्यविशेषसमवायेभ्यो व्यावर्तकेन सिद्धम् ।
न ह्यनित्यो भावो द्रव्यात् स्वतन्त्रो भवति ।
तस्माद् गुणत्वप्रसाधकादेव हेतोः पारतन्त्र्यसिद्धेः कृतं गुणत्वेन पारतन्त्र्यसाधकेनेति हृदि निधाय वार्त्तिककारः तदपि पूर्वमुक्तमिति सिद्धेन पारतन्त्र्येण गुणत्वमपि साधयति ।
न चैतदनित्यस्य पारतन्त्र्यं द्रव्येण सिध्यति, द्रव्यवकर्मणोरप्यनित्ययोः पारतन्त्र्यात् ।
तस्मादनित्यत्वसिद्धेन द्रव्यपारतन्त्र्येण द्रव्यकर्मभ्यां व्यतिरेचयति---न द्रव्यं कर्म वा इच्छादयः,
व्यापकद्रव्यसमवायात् शब्दवद् इत्यादि ।
यद्यप्यनित्यत्वेन द्रव्यसमवायमात्रं सिध्यति, तथापि द्रव्यकल्पनमात्रेणैवोपपत्तौ तदवययवकल्पनायां प्रमाणाभावेन तद् द्रव्यमनवयवं तावत् सिद्धम् ।
अनवयवं च द्रव्यं द्वेधा, व्यापकम् अणु च ।
न तावदणु, तत्रेच्छादीनामुपलब्धेः ।
क्वचिदन्यतरकर्मणा क्वचित् स्वभावतः तत्संयोगोपपत्तौ तद्गतिकल्पनायां प्रमाणाभावात् सिद्धमस्य व्यापकत्वम् ।
तदेतदादिग्रहणव्याख्यानम् ।
तदनया वक्रोक्त्या नित्यत्वं परममहत्त्वं चात्मनो दर्शितं भवति ।
एतच्च सामान्यतोदृष्टमनुमानं सूत्रयता सर्वं दर्शितमित्याह---सामान्यत इति ।
यत् तत्पूर्वं हृदि स्थितमिच्छादीनां द्रव्यपारतन्त्र्ये साध्ये ऽनित्यत्वहेतुकानुमानम् तदुद्धाटयति, कार्यत्वमपि हेतुं समुच्चिनोति---एतेनेति ।
नन्वस्तु द्रव्यपारतन्त्र्यं तथापि शरीरपारतन्त्र्यमस्तु, कृतमनुपलब्धचरेणात्मना इत्यत आह---अयावदिति ।
सर्वपुरुषसाधारण्यप्रसङ्गाच्च न पृथिव्यादिगुणाः ।
तदुत्पत्तौ करणत्वेन कल्पनाच्च नाकर्तुर्मनसः ।
तस्माद् अष्टद्रव्यातिरिक्तं द्रव्यान्तरम्, तत्रेच्छादयः, स चात्मेति सिद्धमित्याह---तत्प्रतिषेधादिति
न्य्स्_1,1.11: चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥
आत्मानं लक्षयित्वात्मनो दुःखनिदानानामिन्द्रियादीनां सर्वेषां साक्षात् पारम्पर्येण च शरीरमाश्रित्य तन्निदानत्वमिति तदेवास्य दुःखमूलकारणमित्यनन्तरं शरीरं लक्षयितुं सूत्रम्---चेष्टेत्यादि ।
तदवताराय भाष्यम्---तस्येति ।
तस्येत्यामानं परामृशति ।
भोगः सुखदुःखसंवित् ।
तदधिष्ठानं शरीरम् ।
तदनेन सर्वस्यानर्थसंभारस्य परमनिदानं शरीरम् ।
अतस्तदेवेन्द्रियादिभ्यः पूर्वं लक्षणीयमित्युक्तम् ।
अत्र चेष्टाश्रयत्वेनेन्द्रियाश्रयत्वेनार्थाश्रयत्वेन च प्रत्येकं समानजातीयेभ्य आत्मेन्द्रियादिभ्यो ऽसमानजातीयेभ्यः प्रमाणसंशयादिभ्यः शरीरं व्यवच्छिद्यते ॥
कथं चेष्टाश्रयः इति भाष्यम् ।
तस्यार्थं व्याचष्टे---का पुनरिति ।
चेष्टा व्यापारः ।
स चातिव्यापकतया अव्यापकतया च न लक्षणम्, वृक्षादिषु भावात्, अभावाच्च पाषाणमध्यवर्तिमण्डूकादिशरीरे इति भावः ।
अत्रोत्तरभाष्यर्म्---इप्सितमित्यादित ।
तद् व्याचष्टे---हिताहितेति ।
प्रयुक्तस्य उत्पादितप्रयत्नस्य ।
न च व्यापारमात्रं चेष्टा अभिमता, अपि तु विशिष्टो व्यापारः ।
स च न वृक्षादिष्वस्तीति नातिव्यापकता ।
यद्यपि च दारूयन्त्रादिषुर् इदृशो व्यापारो ऽस्ति, तथापि मूर्तान्तराप्रयोगे सतीति विशेषणात् न व्यभिचारः, तेषां शरीरेण मूर्तेन प्रयोगात् ।
शरीरस्य तु मूर्तान्तराप्रयुक्तस्यर् इदृशव्यापाराश्रयत्वम्, पाषाणमध्यवर्तिनश्च मण्डूकदेहस्य तद्व्यापारायोगे ऽपि तद्याग्यत्वात्, पाटिते पाषाणे तादृशस्य तद्व्यापारस्य दर्शनादिति भावः ॥
कथमिन्द्रियाश्रय इति भाष्यं व्याचष्टे---कथमिति ।
संयोगितया त्विन्द्रियाश्रयत्वे घटादीनामपि शरीरत्वप्रसङ्गः, तेषामपीन्द्रियसंयोगित्वादिति भावः ।
यस्येत्यादि परिहारभाष्यं व्याचष्टे---शरीरेति ॥
एतेनेति ।
तद्वृत्तित्वेनानुपपत्त्या अर्थानामप्यान्यादृश आश्रयार्थो व्याख्येयः ।
यद्यपि गन्धादयो विषया न स्वरूपेण शरीरमाश्रयन्ते तथापि यदेषां सुखाद्युपलम्भहेतुत्वं कार्यं प्रयोजनं तदर्थमाश्रयन्ते इत्यर्थः ।
तदनेन यस्मिन्नित्यादि भाष्यं व्याख्यातम् ।
चोदयति---कथं पुनरिति ।
परिहरति---सामान्येति ।
विशेषेण बुभुक्षितत्वादिनाप्रकरणापन्नं नियन्त्रियं सामर्थ्यम् ।
प्रकरणादीत्यत्रादिपदसंगृहीतमपरमपि सामर्थ्यशब्दार्थमाह---सामर्थ्यं चेति ।
अपरमाप्याह---प्रमाणेति ।
अत्र प्रथमे पक्षे चेष्टाशब्दो व्यापारविशेषे स्पन्दादिवन्मुख्यार्थः ।
तदेतत्---लोकस्तावदित्यादिना तथा चायं चेष्टाशब्द इत्यन्तेन दर्शितम् ।
प्रमाणासंभवो वेति द्वितीयं पक्षं विवृणोति---सामान्यवाच्यपीति ।
अपिरभ्युपगमे ।
प्रमाणासंभवो।नुपपत्तिः ।
सा च न क्रियामात्र इत्यनेन दर्शिता ।
एवं चेष्टापदव्याख्याने न घटादिषु शरीरत्वप्रसङ्गः ॥
एवं भाष्यानुसारेण स्वमतेन च प्रत्येकं चेष्टाश्रयत्वादि शरीरस्य लक्षणमिति वर्णयित्वा समस्तमेवेदं शरीरलक्षणमिति ये वर्णयांबभूवुः, तन्मतं निराकरोति---यैरपीति ।
यद्याद्यं पदं लक्षणं चेष्टाश्रय इति, तदा घटेन व्यभिचारः ।
तदर्थं द्वितीयपदोपादानम् इन्द्रियाश्रय इति, इन्द्रियसंयोगीत्यर्थः ।
तथापि तेनैव घटादिना व्यभिचारः, प्राप्यकारित्वेनेन्द्रियाणां घटादीनामपि इन्द्रियसंयोगित्वात् ।
अत आह---अर्थाश्रय इति ।
एवमपि व्यभिचारस्तदवस्थ
एव, घटादीनामपि रूपाद्यर्थसमवायेनार्थाश्रयत्वात् ।
अथ समवायाभिप्रायेणाश्रयत्वम्, तथापि न समवाय इन्द्रियाणां शरीरे ।
घ्राणस्य पार्थिवत्वेन समवायो न विरुद्ध इति चेत्---न, तस्य शरीरावयवसमवायित्वेन शरीरासमवायात् ।
यदि नासिकाग्रमेव घ्राणम्, अथ तदाधारमतीन्द्रियम्, तथापि न तत्समवेतं शरीरम्, प्रत्यक्षाप्रत्यक्षवृत्तेर्वायुवनस्पतिसंयोगवदप्रत्यक्षत्वप्रसङ्गाद् देहस्य ।
अपि च यदा चेष्टेन्द्रियार्थस्य समवायेन शरीरत्वम्, हन्त भो इन्द्रियसमवायिकारणेषु परमाणुषु समस्तम् एतदस्तीति तेषामपि शरीरत्वप्रसङ्ग इत्याह---समस्तेति ।
स्यादेतत् ।
भवन्मते ऽपि चुक्षुरादिभिरिन्द्रियैर्व्यभिचारः, तेषामपि यथोक्तव्यापाराधारत्वादित्यत आह---यथा त्विति ।
मूर्तान्तराप्रयोगे सतीति विशेषितम् ।
चक्षुरादयस्तु उन्मीलनान्मूर्तेन शरीरेण प्रयुज्यन्ते इति न प्रसङ्गः ।
श्रोत्रं तु चेष्टाधार एव न भवति ।
तदेतदुपलक्षणं शरीरं भावयन्निर्विद्यते इति सिद्धम्
न्य्स्_1,1.12: घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ॥
इन्द्रियस्योपनायकत्वेनार्थादिभ्यो विशेषादिन्द्रियाणामर्थादिभ्यः पूर्वं लक्षणम् ।
न च विशेषलक्षणमकृते सामान्यलक्षणे शक्यमिति भाष्यकारः प्रथममिन्द्रियाणां सामान्यलक्षणं निर्वेदोपयुक्तमाह---भोगसाधनानीति ।
अनेन यच्छरीरसंयुक्तं सत्कारकदोषव्यतिरिक्तं साक्षात्प्रतीतिसाधनं तदिन्द्रियमिति सामान्यलक्षणं सूचितम् ।
साक्षात्प्रतीतिसाधनमिन्द्रियमिति वक्तव्ये भोगसाधनाभिधानं निर्वेदोपयोगीति ।
पारम्पर्येण च भोगसाधनत्वं घ्राणादीनाम् साक्षान्मनस एव तत्साधनत्वात्, सुखदुःखसाक्षात्कारस्य भोगत्वात् ॥
घ्राण---भ्यः
अत्रेन्द्रियाणीति लक्ष्यनिर्देशः घ्राणादीनीत्यर्थः ।
तेषां पञ्चानां पञ्चैव लक्षणानीति कथयति---लक्षणसूत्राणीति ।
आपाततः सूत्रम्, विचार्यमाणानि तु सूत्राणीत्यर्थः ।
समानजातीयं घ्राणादे रसनादि प्रतिनियतविषयत्वात् ।
असमानजातीयं तु मन आदि सर्वविषयमिति ।
जिघ्रतीत्यादिभाष्यनिराकरणीयशङ्कामाह---उद्देशेति ।
प्रमाणाद्युद्देशेन सामान्यादित्यर्थः ।
लक्षणं हि विधेयम् ।
लक्ष्यं चोद्देश्यम् ।
ज्ञातं चोद्दिश्यते, अज्ञातं च विधीयते इति ।
न चैकस्य युगपज्ज्ञाताज्ञातत्वे संभवतः ।
नापि लक्ष्यलक्षणत्वे इति भावः ।
परिहरति---नेदं तथा यथोद्देश इत्यर्थः ।
कस्मात्? करणभावात् स्वविषयग्रहणलक्षणत्वं यतो घ्राणादीनाम् ।
एतदुक्तं भवति, इन्द्रियाणामतीन्द्रियत्वात् सर्वदा स्वस्वविषयोपलब्धिकरणत्वेनैवानुमातव्यानि ।
तस्मात् स्वस्वविषयोपलब्धिसाधनत्वमेव समानासमानजातीयव्यवच्छेदकतया लक्षणम् ।
तदेकार्थसमवायि तु घ्राणत्वादि लक्ष्यम् ।
अत्र च घ्राणादिशब्दाः पङ्कजादिपदवदवयवार्थं निमित्तीकृत्य क्वचित्, क्वचित् सामान्यविशेषे वर्तन्ते, अवयवार्थसंबन्धस्य प्रतीयमानस्यासति बाधके परित्यागायोगात् ।
अश्वकर्णादौ वृक्षविशेषवाचके वाजिकर्णायोगेन बाधकेनावयवार्थपरित्यागात् ।
अवयवार्थगे ऽपि च गन्धाद्युपलब्धिसाधने सन्निकर्षादौ घ्राणादिशब्दाप्रयोगात् अवयवार्थान्वितं घ्राणत्वाद्येव घ्राणादिशब्दप्रवृत्तिनिमित्तम् ।
तथा च घ्राणादिपदमेव घ्राणत्वादिपरं लक्षयनिर्देशः ।
तच्च इन्द्रियाणि इत्यनेन सूचितम् ।
तदेव त्ववयवार्थपरं लक्षणनिर्देशो घ्राणेत्यादि ।
न च सन्निकर्षेण गन्धोपलब्धिसाधनेन च व्यभिचारः, इन्द्रियसामान्यलक्षणयुक्तस्य गन्धोपलब्धिसाधनत्वं न सन्निकर्षस्यास्ति ।
तदनेन जिघ्रतीत्यादि स्वविषयग्रहणलक्षणानि इत्यन्तं भाष्यं व्याख्यातम् ।
निर्वचनग्रहणेन पदप्रवृत्तिनिमित्तमात्रमुच्यते ।
तेन त्वक्पदमपि संगृहीतं भवति ।
तस्यापि त्वक्स्थाने इन्द्रिये स्पर्शोपलब्धिसाधने एव उपचार इति ॥
भूतेभ्य इति सूत्रावयवतात्पर्यव्याख्यानपरं भाष्यं भूतेभ्य इतीति ।
नानाप्रकृतीनामित्यादि ।
तद् वार्त्तिककारो व्याचष्टे---भूतेभ्य इति ।
पृच्छति---कः पुनरिति ।
उत्तरम्---भूतगुणविशेषग्रहणसाधनत्वम् घ्राणेनैव हि पृथिव्या यो गुणविशेषो गन्धः स गृह्यते, न रसनादिना ।
एवं रसनेनैवापां यो माधुर्यं गुणविशेषः स गृह्यते, न घ्राणादिना ।
एवं चक्षुषैव शुक्लभास्वरं रूपं तेजसः ।
एवं त्वचैवानुष्णाशीतस्पर्शो ऽपाकजो वायोः ।
एवं श्रोत्रेणैव शब्दो नभस इति हि नियमः ॥
अत्र च प्रयोगः, गन्धोपलब्धिः करणसाध्या क्रियात्वात् छिदिक्रियावदिति ।
एवं सा तदन्यक्रियाकारणातिरिक्तकरणनिष्पाद्या, तदन्वयव्यतिरेकाननुविधाने सति कार्यत्वात् ।
या यत्क्रियाकरणान्वयतिरेकाननुविधाने सति कार्या, स सर्वा तक्रियाकरणातिरिक्तकरणनिष्पाद्या, यथा पटादिक्रिया घटदिक्रियाकरणचक्रदण्डाद्यतिरिक्तवेमादिकरणनिष्पाद्या ।
तथा चेयम् ।
तस्मात् तथेति ।
तच्च करणं चक्षुराद्यतिरिक्तं घ्राणम् ।
तद् द्रव्यम्, संयोगाधारत्वाद् घटदिवत् ।
तच्च पार्थिवम्, द्रव्यत्वे सति रूपादिषु मध्ये गन्धस्यैव व्य।जकत्वात्, पार्थिवान्तरवत् ।
एवं रसनादिष्वपि योज्यम् ।
तदिदमुक्तम्---यज्जातीयमिन्द्रियं पार्थिवं पार्थसीयं वा भवति, तस्य पृथिव्याः पाथसो वा यो गुणविशेषो गन्धो वा मधुर एव वा रसभेदः, तेन हि पृथिवी अबादिभ्यः, आपो वा पृथिव्यादिभ्यो व्यवच्छिद्यन्ते इति ।
इतरेतरभूतव्यवच्छेदहेतुः स तेनैवेन्द्रियेण गृह्यते नान्येनेति ।
न चैवे रसना अपामिव पृथिव्या अपि रसभेदं गृह्णातीति पार्थिवी भवति ।
तथात्वे तया गन्धो ऽप्युपलभ्येत ।
तेन तेनैवेन्द्रियेणेति नियमो गुणविशेषमवधारयति, न त्विन्द्रियमिमि ।
अत्र च कर्णशष्कुलीसंयोगोपाधिना श्रोत्रस्य नभसः कथञ्चिद् भेदं विवक्षित्वा भूतेभ्य इति प।यम्यर्थो व्याख्येयः ॥
अनेन खल्वाहङ्कारिकाणीन्द्रियाणि इति यदाहुः सांख्याः, तत् निराकृतम् ।
निराकरणहेतुमाह---ऐकात्म्य इति श्लिष्टं पदम् ।
सांख्यानां किल राद्धान्ते कारणात्मकं कार्यम् ।
तच्च कारणमिन्द्रियाणामहङ्कार एव इत्यैकात्म्यमेककारणकत्वम् ।
तथा चैकात्म्यमेकत्वं घ्राणादीनामित्यनियमः स्यादिति ।
तदेतद् विभजते---यदि पुनरिति ।
शङ्कते---एकेति ।
विभजते---अथेति ।
एकः पाक्य एको ऽग्निसंयोगः एकं चोष्ण्यमित्यर्थः ।
निराकरोति---न ब्रूम इति ।
यद्यप्यौष्ण्यं निमित्तं साधारणम्, तथापि गन्धाद्युत्पत्तौ पूर्वगन्धादिध्वंसानां निमित्तानां भेदादुत्पन्नं भेदादुत्पन्नं कार्यनानात्वमिति ।
तदिदमुक्तं ये पूर्वे रूपादयः तेषां स्वगतो विशेषः प्रध्वंस इत्यर्थः ।
अथ रूपत्वादिसामान्यमेव कस्मात् स्वगतो विशेषो न भवतीत्यत आह---एवं च कृत्वेति ।
रूपत्वादिसामान्यानां तादवस्थ्ये न पक्वतरतमादिभेदः ।
प्रध्वंसानां तु स्तोकभूयस्त्वं निःशेषत्वे नोपद्यते इति भावः ।
पुनराशङ्कते---एकं कर्मेति ।
निराकरोति---नेति ।
समवायिकारणं स्वाश्रयप्रत्यासत्ति वापेक्षत इति भावः ।
शङ्कते---यदि तर्हीति ।
लक्षणहानिः तथा च लक्षणहानिरित्यर्थः ।
निराकरोति---नेति ।
चरमभाविनिमित्तान्तरं भावरूपमित्यर्थः ।
संयोगाभावं तूत्तरसंयोगजननायापेक्षत एव ।
उपसंहरति---तस्मादिति
न्य्स्_1,1.13: पृथिव्यापस्तेजो वायुराकाशमिति भूतानि ॥
इन्द्रियप्रकृतित्वं तु भूतलक्षणं वेदितव्यम्
न्य्स्_1,1.14: गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ॥
क्रमप्राप्तमर्थलक्षणमवतारयति भाष्यकारः---हमे त्विति ।
तुशब्देनार्थमात्राद् वयवच्छिनत्ति ।
येषामिन्द्रियविषयत्वेन भाव्यमानानां निःश्रेयससाधकत्वम्, मिथ्याज्ञानविषयीकृतानां तु संसारनिमित्तता, त इमे इत्यर्थः ॥
गन्धर्---थाः
अत्र चोद्देशक्रमस्मारिता अर्था लक्ष्यतया प्रतिपत्तव्याः, तेषां लक्षणं तदर्था इति ।
तदित्यनन्तरलक्षितानीन्द्रियाणि परामृशति, तेषामिन्द्रियाणाम् अर्थाः ।
इन्द्रियैरर्यमाणत्वमर्थानां लक्षणम् ।
एतावतैव लक्षणे पर्यवसिते सुहृद्भावेन प्रविभागाभिधानं पृथिव्यादिगुणा इति ।
पृथिव्यप्तेजांसि च गुणाश्च धर्माः संख्याकर्मादयः ।
प्रविभागे ऽप्येतावतावगते गनधाद्यभिधानं सुहृद्भावेनेन्द्रियविषयनियमज्ञापनार्थम् ।
पृथिव्यादीनामिति भाष्यं न षष्ठीसमासज्ञापनार्थम्, अपि त्वर्थाभिधानमात्रम् ।
यथाविनियोगमिति ।
यथाक्रमं पृथिव्यादिष्वनिलान्तेषु गन्धादयः स्पर्शान्ताः चतुस्त्रिद्व्येकनियमेन विनियुक्ताः ।
शब्दश्चाकाश एवेत्यर्थः ।
तदर्था इति लक्षणपदं व्याचष्टे---इन्द्रियाणामिति ।
येन क्रमेण घ्राणादय इन्द्रियसूत्रे पठिताः येन चेह गन्धादय, तदनतिक्रमेणेत्यर्थः ।
अत्र वार्त्तिककारः पृथिव्यादिगुणा इत्यत्रानेकसमासप्रतिभासनात् संशयं कृत्वा द्वन्द्वसमासमवधारयति---पृथिव्यादिगुणा इति ।
षष्ठीसमासेनाभिन्नार्थत्वात् सप्तमीसमासस्येत्यसौ न दर्शितः ।
ननु कण्ठेकाल इतिवद् वैयधिकरण्येन बहुव्रीहिर्भविष्यति पृथिव्यादीनां गुणा येभ्यो गन्धादिभ्यः, ते तथा ।
तथा हि परमाणुगता गन्धादयो ऽवयविनि गन्धाद्यारभन्ते, नभोगतश्च शब्दो नभसि समानजातीयं शब्दमित्यत आह---न चान्यथेति ।
ज्ञापकवशात् क्वचिद् व्यधिकरणानां बहुव्रीहिः ।
ज्ञापककृतं च न सर्वत्र ।
न च गन्धादीनां पृथिव्यादिगुणहेतुत्वप्रतिपादनं क्वचित् निर्वेदादावुपयुज्यत इति भावः ।
अन्यसमासः कर्मधारयादिः ।
द्वन्द्वमवधारितमाक्षिपति---न द्वन्द्व इति ।
समाधत्ते---न, उभयस्यापीति ।
पृथिव्यादिग्रहणेनेति ।
यद्यादिशब्देन वाय्वादयो गृह्येरन्, तदर्था इति लक्षणमव्यापकं स्यात्, तेषां बाह्येन्द्रियार्थत्वाभावादित्यर्थः ।
गुणग्रहणेन सर्व इति आश्रितानाश्रितत्वाभिप्रायम्, गुणशब्दस्य धर्मवचनत्वात् ।
विशेषस्तु रेखोपरेखादिः न त्वन्त्यः, तस्यातीन्द्रियत्वात् ।
एतेषां च यथायोगं मिथ्याज्ञानसम्यग्ज्ञानविषयाणां रागवैराग्यहेतुत्वमूहनीयम् ।
चोदयति---गन्धेति ।
परिहरति---न कर्तव्यं लघुसूत्रम् ।
गन्धादीनां पृथगभिधानं कर्तव्यमित्यर्थः ।
नियममाह---इन्द्रियाणीति ।
तत्रेत्यनियतेषु मध्ये, पृथिव्यप्तेजांसि द्वीन्द्रियग्राह्याणि, शेषश्च गुणराशिः संख्यादिर्विशेषान्तो द्वीन्द्रियाग्राह्य इत्यर्थः ।
तथा सर्वेन्द्रियग्राह्यैत्यर्थः ॥
अत्र बौद्धमुत्थापयति---दर्शनस्पर्शनाभ्यामिति ।
तस्य पर्यनुयोगमाह---स इति ।
स्वसंवेदनेन वा मानसेन वा ज्ञानेन रूपाद्धालम्बनः, प्रत्ययो रूपादिविशिष्टो यथानुभूयते, एवं रूपाद्यतिरिक्तघटादिविशिष्टो ऽनुभूयत इत्यर्थः ।
अत्र पर आह---रूपादिभ्यस्तथा सन्निविष्टेभ्य इति ।
तथेत्याकारं निर्दिशति ।
सन्निवेशो व्यवस्थानम् ।
रूपादिपरमाणव एव तेन तेनाकारेण उत्पन्ना एकयोदकाहरणक्रियया व्यवच्छिन्ना घट इत्युच्यन्ते ।
अनुर।जनादिकया तु रूपादिव्यपदेशः ।
यथाह घट इत्यपि च रूपादय एवैकार्थक्रियाकारिणस्तथा व्यपदिश्यन्ते इति ।
निराकरोति---न, आकारार्थेति ।
तथार्थस्य यथापदार्थेन नित्याभिसम्बन्धात् यथा घटः, तथा सन्निविष्टा रूपादय इत्यर्थो गम्यते ।
तेन घटाकारेण घटसादृश्येनेत्ययमर्थः ।
तथा च दूषणमिति ।
दूषणान्तरमाह---रूपादिमात्रे चेति ।
न तावद् रूपादिक्षण एको घटः, क्षणान्तरे तत्प्रयोगाभावप्रसङ्गात् ।
तस्माद्
रूपादिमात्रमविवक्षितभेदम् तथा सत्येतद्दूषणमित्यर्थः ।
शङ्कते---संस्थानभेदादिति ।
यथासंस्थानां रूपादयो ऽर्था अनुभूयन्ते, तथा सन्निविष्टेभ्यो घटादिप्रत्यया इत्यर्थः ।
निराकरोति---नैतदिति ।
अन्यत्वे तदेवावयवीति संज्ञाभेदमात्रम् ।
अनन्यत्वे व्यर्थाभिधानम् ।
शङ्कते---घटादिप्रत्यया इति ।
एकानेकविचारासहत्वाद् असन्त एव घटादयो ऽनादिविकल्पवासनाजनितविकल्पप्रत्ययप्रतिभासिनः ।
शब्दशब्देन विकल्पमुपलक्षयति---शब्दवासनावशादिति ।
निराकरोति---तदयुक्तमिति ।
बीजं मिथ्याप्रत्ययस्य सम्यक्प्रत्ययविषयो ऽर्थः ।
तस्य क्वचिदभ्युपगमे ऽभिमतार्थहानमित्यर्थः ।
यस्तु भिन्नलोकमर्यादतया ब्रूते आदिमान् मिथ्याप्रत्ययः सम्यग्ज्ञानं निमित्तीकरोति, अयं पुनरनादि ।
पूर्वपूर्वमिथ्याप्रत्ययजन्मा मिथ्याप्रत्ययप्रवाहः, कृतमत्र सम्यग्ज्ञानेनेति, तं प्रत्याह---मित्याप्रत्ययाश्चैत इति ।
रूपाद्यव्यतिरेके अवयविन इत्यर्थः ।
परस्त्वव्यतिरेके प्रमाणमाह---न नास्तीति ।
न हि मांसतोयातिरिक्तः कंश्चिद्यूषो नाम ।
नापि तृणराजतरूयतिरिक्ता पङ्क्तिर्नाम ॥
दूषयति---नायं हेतुरिति ।
ये घटादिभावमापन्ना भवतां दर्शने इति ।
कामे ऽष्टद्रव्यको ऽणुरशब्दः रूपधातुररूपधातुः कामधातुरिति त्रैधातुकं जगत् ।
तत्र कामधातुस्वरूपमुक्तम् ।
कामे कामधातौ ।
अष्टद्रव्यको ऽणुः ।
रूपरसगन्धस्पर्शा इति चत्वारि द्रव्याणि, पृथिव्यप्तेजोवायव इति चत्वारि ।
द्रव्यशब्दो वस्तुवचनः ।
तेनाष्टद्रव्यको ऽणुरित्यागमः ।
सो ऽयं रूपाद्यतिरिक्तपृथिव्याद्यनभ्युपगमे बाध्येत ।
अथ वैयात्यादुच्यते---पृथिव्यादीनामिति ।
ततश्च सांवृतत्वेनाष्टसंख्यासिद्धेर्नागमविरोध इति भावः ।
उत्तरम्---तथापीति ।
मा भूवन् वस्तुतः, उभये ऽपि सांवृता भविष्यन्तीत्यत आह---संहन्यमानस्येति ।
यो हि यत्तन्त्रः स तदभावमभ्युपगम्याशक्याभ्युपगमः, न खलु संयुज्यमानानामभावे संयोगः शक्याभ्युपगम इत्यर्थः ।
न च संवृतिः, सा हि पररूपं स्वरूपेण संवृणोति, संहन्यमानाभावे च न संघातः, नापि संहन्यमाना इति किमनया स्वरूपेणाव्रियेतेति भावः ॥
तदेवं तदग्रहे तद्बुद्ध्यभावाद् इत्यस्य व्याघातदोषं दर्शयित्वा स्वसामर्थ्यालोचने न विवक्षितलिङ्गाभिधायिता, किं त्वसंबद्धार्थता हेतुवचनस्येत्याह---तदग्रहे इति ।
एवं किलात्राभिमतम्, पृथिव्यादयो रूपादिभ्यो ऽभिन्ना, रूपाद्यग्रहे पृथिव्यादिबुद्ध्यभावादिति ।
तन्नृ तदेत्ततदग्रहे तद्बुद्ध्यभावादित्यनेन न शक्यं वक्तुम् ।
तदग्रह इत्यत्र तच्छब्दः प्रधानपरामर्शी , पृथिव्यादयश्च धर्मितया प्रधानमिति त एव परामर्ष्टव्याः ।
तथा च पृथिव्याद्यग्रहे पृथिव्यादिबुद्ध्यभावादिति स्यात् ।
तथा च प्रतिज्ञातस्तेषां रूपाद्यभेदो न सिध्येदित्यसंबद्धम् ।
अथ रूपादयः पक्षीक्रियन्ते, तथापि रूपाद्यग्रहे रूपादिबुद्ध्ययभावादिति स्यात् ।
तथापि न प्रतिज्ञातार्थसिद्धिरित्यसंबद्धार्थमित्यर्थः ।
एवं शब्दान्तरेणापि प्रतिज्ञाप्रयोगे तुल्यः प्रसङ्ग इत्याह---एवं रूपादिमात्रमिति ।
प्रतिज्ञादोषमाह---सर्वत्र चेति ।
नानात्वैकार्थसंबन्धनियताया बहुत्वसंख्याया अभेदैकार्थनियतैकत्वसंख्यया सामानाधिकरण्यविरोध इत्यर्थः ।
तदेतदनैकान्तिकमिति चोदयति---नन्विति ।
निराकरोति---तन्न, अनभ्युपगमादिति ।
समानं धर्मसाधनम् ।
यमाः पञ्च ।
नियमाश्च पञ्च ।
ब्रह्मचारिगृहस्थवानप्रस्थयतीनामविशेषेणैव दश धर्मसाधनम् ।
तेषां धर्मसाधनत्वमेकं चातुराश्रम्यमिति प्रकृतिगता विभक्तिराह ।
आश्रमप्रकृतिगता तु विभक्तिः प्रकृत्यर्थसमवेतामेव बहुत्वसंख्यामाह, समानार्थानामपि प्रकृतीनां रूपभेदेन तत्परस्य प्रत्ययस्य सामर्थ्यभेदात् ।
यथाप्तोयशब्दयोस्तुल्यार्थत्वे ऽपि तोयशब्दात् परा विभक्तिस्तोयानीति तोयसमवेतामेव बहुत्वसंख्यामाह ।
आप इति न तोयगताम्, अपि तु तत्संबद्धगताम् ।
तत्संबद्धाश्च तदवयवाः,
तद्गतरूपादयो वा बहव इत्येकस्यामपि पाथःकणिकायां बहुवचनोपपत्तिराप इति ।
न च सोरस्ताडं क्रन्दतो ऽपि लोकस्याविनिवृत्तेर्नैवमिति साम्प्रतम् ।
लोको हि दृष्टव्यवहारमात्रप्रयोजनो न विवेचयति, परीक्षकास्तु तदनुसारिणो विवेचयन्त्येव ।
अन्यथा हि प्रत्यक्षादिलक्षणप्रणयनवैयर्थ्यप्रसङ्गः ।
एतेन दाराः षण्णगरीत्यादयो ऽपि व्याख्याताः ।
षाङ्गुण्यमिति षण्णां गुणानामेकं राजप्रययोजनसाधकत्वम् ।
वैशेषिकमित्यत्रापि विशेषाणां समानासमानजातीयव्यवच्छेदकत्वमेकमच्यते इति गमयितव्यम् ।
हेतुदेषमाह---असिद्धो ऽपीति ।
स्फटिकस्य धवलं रूपम् ।
तच्च नीलीद्रव्यानुषङ्गादभिभूतं न प्रतीयते ।
स्फटिकश्च प्रतीयते ।
न च नीलस्य स्फटिकलक्षणस्योत्पत्तिरिति तृतीये निवेदयिष्यते ।
तस्मादसिद्धो हेतुरित्यर्थः ॥
दृष्टान्तश्च साध्यविकल इत्याह---यो ऽप्ययमिति ।
उत्पन्नपाकजानां तैले सर्तिषि वा भृष्टमांसपिण्डावयवानाम्, द्रव्यान्तरेण तोयेन संपृक्तानां पाकजोत्पत्तौ सत्याम् ।
न चासौ सहसेति ।
अत उक्तम्---कालविशेषानुग्रहे सतीति ।
स च संयोगभेद एव तोयमांसयोः, न त्ववयवी विजातीययोरनाम्भकत्वात् ।
नापि यूषजातीयं तोयसंयोगि द्रव्यं क्षीरजातीयमिवेति युक्तम् ।
तोयविरहे काठिन्यपि क्षीरबुद्धिव्यपदेशयोस्तादवस्थ्यत् ।
इह तु काठिन्ये न यूषबुद्धिव्यपदेशाविति संयोगभेद एव तोयमांसयोर्यूष इति न्याय्यम् ।
स चानुभवसिद्धः संयोगिव्यतिरिक्तः ।
एवं बहुत्वसंख्या संख्येयातिरिक्तानुभवसिद्धैवेति ।
एवं तत्र तत्र व्याख्येयम् ।
अनाद्यन्तेषु अनारव्धावयविष्विति द्रष्टव्यम् ।
न च परकीय साधनदोषोदभावनमात्रात् स्वपक्षसिद्धिरिति सिद्धान्तिनं साधनं पृच्छति---अथ रूपादिभ्यो ऽर्थान्तरे द्रव्ये किं प्रमाणमिति ।
यतो ऽयं परो रूपादिभ्यो ऽर्थान्तरं द्रव्यं प्रत्यक्षेण विद्वानपि स्वसिद्धान्ताभ्यासाहितव्यामोहापस्मारो न तथा व्यवहरति, अतो ऽनेनानुमानेन स व्यवहार्यते ।
अस्ति हि सर्वेषामेव लौकिकपरीक्षकाणां ब्राह्यणस्य कमण्डलुरितिवत् चन्दनस्य रूपादय इति व्यपदेशः ।
तत्र च परो रूपाद्युपलम्भमभ्युपगच्छति चन्दनोपलम्भमपि ।
अन्यथा तद्बुद्ध्यभावादित्येतावन्मात्रे वक्तव्ये कथमाह तदग्रह इति? तेनावगच्छामो रूपादिग्रहे ऽस्य चन्दनबुद्धिरभिमतेति ।
न चासौ मनोमात्रयोनिः स्मार्तीति न्याय्यम् ।
उपपादितमेतस्याः सविकल्पिकाया इन्द्रियजन्यत्वं व्यवसायात्मकपदव्याख्यानावसरे ।
द्रव्यबाधकप्रमाणानि च परीक्षापर्वणि निराकरिष्यन्ते ।
तस्मात् सिद्धमुपलभ्यत्वं चन्दनस्य ।
सो ऽयं चन्दनो विवादगोचरेभ्यो रूपादिभ्यो भिन्नः, स्वयमुपलभ्यस्य च समस्तैरूपलभ्यैर्व्यपदिश्यमानत्वात् ।
प्रधानमपि सांख्यैर्व्यपदिश्यते, प्रधानस्य रूपादय इति ।
तन्निवृत्त्यर्थम् उपलभ्यस्येति ।
प्रधानं तु काल्पनिकं नोपलभ्यम्, तथापि रूपादीनां मूलकारणं प्रधानमित्यस्ति सांख्यानां व्यपदेशः ।
अत उक्तम्---उपलभ्यैरिति ।
तथापि रूपादीनां परस्परभिन्नानामन्योन्यं व्यपदेश्यव्यपदेशकभाव उपपत्स्यत इत्युक्तम्---समस्तैरिति ।
अतः समस्तेभ्यो व्यपदेशकेभ्यश्चन्दनं भिन्नं भवति ।
उपलभ्यस्योपलभ्येनेति वक्तव्ये प्रत्यक्ष्स्य प्रत्यक्षेणेति वचनं रूपावगमसमये ऽनुमेयेभ्यो रसादिभ्य एकान्ततो व्यपदेशं व्यावर्तयितुम्, न त्वस्यानुमान उपयोग इति ।
अस्यानैकान्तिकत्वमुद्भाव्य निराकरोति---सेनावनादिभिरिति ।
संख्यायामसत्त्वमाशङ्क्य निराकरोति---तदसत्त्वमिति चेदिति ।
विधीयमानं प्रतिषिध्यमानमिति यथासंख्यं निषेधस्य विध्यधीननिरूपणतया निषेध्यमेकत्वम् अङ्गीकार्यम्, तच्च संख्येत्यर्थः ।
ननु सन्त्वमी प्रत्ययाः, ते तु द्रव्यमात्रनिबन्धना भविष्यन्ति, कृतं संख्येत्यत आह---विशिष्टाश्चेति ।
न द्रव्यातिरिक्तनिमित्तप्रत्याख्यानेन इत्यर्थः ।
प्रयोगान्तरमाह---तत्प्रत्ययविषयनिमित्तप्रत्ययव्यतिरेकेणेति ।
घटप्रत्ययस्य विषयश्च, निमित्तं च, घटप्रत्ययश्च तद्व्यतिरेकेणेति, तद्विशिष्टसंख्यादिप्रत्ययस्य निमित्तान्तराकाङ्क्षित्वात् ।
तत् किमर्थमत् उक्तम्---उत्पत्ताविति ।
चर्मणि द्वीपिनं हन्ति इतिवद् घटादिविषयनिमित्तव्यतिरेकभाज इत्यत्रापि प्रत्ययग्रहणं कर्तव्यम् ।
चोदयति---महत्पुष्पितेति ।
न संख्याया गुणस्य परिमाणपुष्पयोगसम्भव इत्यर्थः ।
परिहरति---नैष देष इति ।
स्थानशब्देन तिष्ठतीति व्युत्पत्त्या संख्योच्यते ।
सा येषामस्ति ते गजवाजिपदातिप्रभूतयः स्थानिनः प्रत्येकं महान्तः ।
तत्र ते क्वचिच्छतमेव, क्वचित् पुनः स्वजातीयस्थान्यङ्गान्तरसन्निधाने सत्युपचिताः सहस्रं भवन्ति ।
तेन बहुत्वसंख्योपचयोपकरणा तदेकार्थसमवेतमहत्त्वोपचारात् महती सेनेत्युच्यते ।
न चैतावता यत्र शतं गजादयः यत्र च सहस्रं तयोः सेनयोर्महत्त्वाविशेषः, उपचयापचयोपकरणत्वेन विशेषितत्वात् ।
एवं पुष्पितवनादयो ऽपि द्रष्टव्याः ।
प्रत्ययभेदाद् द्रव्यादिभ्यः संख्याया भेदमुक्त्वा व्यपदेशादभेदादप्याह---अत एवेति ॥
स्थणुशब्देनापीति ।
मूर्तानां समानदेशत्वाभावात् न पर्वसु खदिरश्च स्थाणुश्च समवेतौ ।
न चावस्थितसंयोगेभ्यस्तरूविनाशापेक्षेभ्यः स्थाणोरूत्पत्तिरिति युक्तम् ।
यस्य द्रव्यस्य यावान् संयोगप्रचयो ऽसमवायिकारणं स तावानुत्पन्नमात्र एव तज्जनकः, तस्य क्षेपायोगात् ।
तस्मात् पर्वणां संस्थानविशेष एव स्थाणुरिति गमयितव्यम् ।
अथावस्थितसंयोगानां द्रव्यविनाशापेक्षाणां जनकत्वम्, ततः संयोगप्रचयपदेन स्थणुत्वसामान्यविशेषवद् द्रव्यमुपलक्षणीयम् ।
तच्च खादिरतरोर्भिन्नमिति ।
प्रतिमाया महारजतमय्या अवयविन्याः शरीरं संस्थानमेव, एवं शिलापुत्रकस्य अवयविनः संस्थानमेव शरीरम् ।
शङ्कते---गुणसमुदायेति ।
अतादात्म्येनाग्रहणं व्यतिरेकेणाग्रहणम् पृथक् शब्दो ऽप्यतादात्म्यमेव ब्रूते ।
दूषयति---अग्रहणस्येति ।
सतामपि वस्तूनामनुपलम्भो यथा मूलकीलोदकादीनां प्रमाणाभावेन, शशविषाणादीनां चानुपलम्भो ग्राह्याभावेन ।
तस्माद् व्यतिरेकाग्रहणमात्रं हेतुरनेकान्त इति ।
शङ्कते---ग्राह्याभावादिति चेत्? ग्राह्याभावे सत्यग्रहणादिति हेतुः, न त्वग्रहणमात्रमित्यर्थः ।
दूषयति---प्रतिज्ञार्थेनेति ।
प्रतिज्ञार्थस्यासत्त्वेन ।
तद्विशिष्टो हेतुरसिद्ध इत्यर्थः ।
शङ्कते---ग्रहणेति ।
ग्रहणं प्रमाणम् ।
निराकरोति---न प्रमाणाभावमात्राद् व्यतिरेकप्रतिषेधः, यस्तु योग्यप्रमाणाभावादिति विशेषयेत् तं प्रत्याह---यश्च तदग्रह इति ।
असिद्धता हेतोर्देषः ।
दर्शनस्पर्शनाभ्यामेकार्थप्रतिसन्धानमेव रूपादिव्यतिरिक्तद्रव्यग्रहणम् ।
अतो गुणसमुदायव्यतिरेकेणाग्रहणादित्यसिद्धो हेतुरिति ।
एकत्र अन्यत्वे ।
प्रमाणानामुपपत्तेः ।
एकत्र अनन्यत्वे चानुपपत्तेरिति ।
प्रकृतमुपसंहरति---तस्मादिति
न्य्स्_1,1.15: बुद्धिरूपलब्धिर्ज्ञानमित्यनर्थान्तरम् ॥
आत्मादीनां बुद्धिहेतूनां लक्षणस्यानन्तरं हेतुमती बुद्धिर्लक्षणीयेत्याह वार्त्तिककारः---अथ बुद्धेरवसरप्राप्ताया इति ।
लक्षणं तावत् प्रकृतत्वादपदेष्टव्यमेव, तदपदेशद्वारेणान्यदपि किञ्चित् सूचनीयम् ।
अत एवोक्तम्---सूत्रमिति ।
अन्यच्च सांख्यमतनिराकरणम् ।
यथोक्तं भाष्यकारेण---अचेतनस्य करणस्य बुद्धेरिति ।
इवकारेण नेदं प्रत्याख्यानपरम्, अपि तु लक्षणपरादयमप्यर्थः प्रतीयमानो ऽपेक्षितश्च नोपेक्षणीय इत्युक्तं भवति ॥
बुद्धि---रम्
सूत्रतात्पर्यमाह---एतैरिति ।
पृच्छति---कथमिति ।
समानासमानजातीयव्यवच्छेदकं हि लक्षणमव्यभिचारितया ।
पर्यायशब्दाश्च संकेतमात्राधीनप्रवृत्तयः क्व नाम न सम्भवन्ति? तस्मात् नैते लक्षणमिति भावः ।
उत्तरम्---व्यवच्छेदेति ।
ननु व्यभिचारसम्भवेन व्यवच्छेदकत्वमयुक्तमित्यत आह---एतैश्चेति ।
संकेतो हि द्वेधा, सर्वजनीनो यथा गौरिति गोजातीयस्य वायकः, प्रादेशिकश्च यथा चैत्र इति पुरुषभेदस्य ।
तत्र सर्वजनीनः शक्नोति व्यवच्छेदबुद्धि भावयितुम्, तद्विवक्षयैवोक्तम्---एतैश्चेति ।
उपपत्तिसामर्थ्यादिति भाष्यावयवं व्याचष्टे---पर्यायेति ।
अचेतनस्येत्यादि भाष्यम् ।
तद् व्याचष्टे---य आहुर्बुद्धेरिति ।
बुद्धिः किलत्रैगुण्यविकारः ।
त्रैगुण्यं चाचेनमित्यचेतना केवलमिन्द्रियप्रणालिकया अर्थाकारेण परिणमते ।
चितिशाक्तिश्चापरिणामिनी नित्यचैतन्यस्वभावा ।
तस्याः सन्निधानाद् अयस्कान्तमणिकल्पा बुद्धिस्तत्प्रतिबिम्बोद्ग्राहितया चैतन्यरूपतामापन्नेवार्थाकारपरिणतार्थं चेतयते ।
तेन यो ऽसौ नीलाकारः परिणामो बुद्धेः, स ज्ञानलक्षणा वृत्तिरित्युच्यते ।
आत्मप्रतिबिम्बस्य तु बुद्धिसंक्रान्तस्य यो बुद्ध्याकारनीलसम्बन्धः, स आत्मनो व्यापार इवार्थोपलब्धिरात्मनो वृत्तिरित्याख्यायते ।
तदिदं बुद्धितत्त्वं जडप्रकृतितया इन्दुमण्डलम् इव स्वयमप्रकाशं चैतन्यमार्तण्डमण्डलच्छायापत्त्या प्रकाशते, प्रकाशयति चार्थानिति ।
तन्निराकरणाय पर्यायोपन्यासः ।
नात्मवृत्तेरूपब्धेरन्यास्ति बुद्धिः ।
नापि बुद्धिवृत्तिर्ज्ञानम् अन्यदिति ।
अयमभिसन्धिः ।
न तावद् बुद्धेरात्माच्छायापत्तिरिन्दाविव मार्तण्डमण्डलतेजःसंक्रान्तिः पारमार्थिकी, चितेरपरिणामितया संक्रमायोगात् ।
तस्माद् भ्रान्तिः ।
सा च न तावद् बुद्धेः, तस्या अचैतन्यात् ।
नाप्यात्मनः, तस्यावृत्तिकत्वात्, तथात्वे वा परिणामापत्तेः ।
तस्मात् कृपणधनमिवात्मचैतन्यं न स्वपरोपकारीति बुद्धेः स्वाभाविकं चैतन्यमास्थेयम् ।
तथा च उभयचैतन्ये दूषणमुक्तम् ।
प्रत्ययव्यवस्थया यदेककर्तृत्वानुमान तन्न स्यादित्यर्थः ।
अथ द्वयोश्चेतनयोरेका वृत्तिर्भेदाग्रहो वा, तेनैककर्तृकत्वाभिमान इत्यत आह---बुद्धिवृत्त्यविशिष्टायामिति ।
बुद्धिर्ज्ञानसाधनमिति ।
बुध्यते ऽनेनेति व्युत्पत्त्या मन उच्यते ।
गन्धादिविषयतया सुखदुःखविषयतया चेयं बुद्धिर्भाव्यमाना निर्वेदाय कल्पत इति
न्य्स्_1,1.16: युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥
भाष्यकारः क्रमप्राप्तं मनोलक्षणसूत्रमवतारयन् उत्सूत्रमन्यान्यपि लक्षणानि आह---स्मृतीत्यादि ।
सुखादिप्रत्यक्षमित्यादिशब्देन विषयतयेच्छादयः संगृहीताः ।
इच्छादय इत्यत्रादिशब्देन कार्यतया सुखादयः संगृहीताः ॥
युग---ङ्गम्
अनिन्द्रियनिमित्ता अबाह्येन्द्रियनिमित्ता इत्यर्थः ।
स्मृतीत्यादिभाष्यस्य वार्त्तिककारः तात्पर्यमाह---स्मृतीति ।
अनिन्द्रियेत्यादिभाष्यं व्याचष्टे---यस्मादिति ।
इन्द्रियगतरूपादिनिवृत्त्यर्थयुक्तम् इन्द्रियसंयोगीति ।
तथापि आकाशादीनामपि मनस्त्वं मां भूदित्यत उक्तम्---सहकारीति ।
तथाप्यालोकस्य मा भूदित्यत उक्तम्---निमित्तान्तरमिति ।
तथाप्यात्मनो मा भूदित्यत उक्तम्---अव्यापीति ॥
आक्षिप्य भाष्यं समाधत्ते---कथं पुनरिति ।
चक्षुरादिभ्यो ऽनुत्पत्तौ सत्यां क्रियात्वात् ।
अत्र च य आत्मनो विशेषगुणास्ते सर्वे इन्द्रियजन्मानो यथा गन्धादिप्रत्ययाः, तथा च विवादाध्यासिताः स्मृत्यादयः ।
तस्मात् ते ऽपीन्द्रियजन्मानः ।
एवं च संस्कारादिषु न करणत्वप्रसङ्ग इति ।
सौत्रं हेतुमाक्षिप्य समाधत्ते---अथायुगपदिति ।
सम्बन्धिभेदादिति ।
यदा तस्यैव मनःसंयुक्तस्येन्द्रियस्य क्रमेण नीलादयो ऽर्थाः सम्बध्यन्ते तदा तत्क्रमात् क्रम
इत्यर्थः ।
बुभुत्साक्रमं गृहीत्वा सिद्धान्ते ऽपि मनःपरित्यागो मा भूदिति भिया उक्तम्---सत्यां बुभुत्सायामयुगपद्ग्रहण इति ।
न हि किञ्चित्करणं सम्बद्धमपि सदिति स्यात् ।
यद्येवं धारावाहिकज्ञानोत्वत्तिर्न स्यात्, द्वितीयादिज्ञानेष्वपि सैव सामग्रीति सकृदेव यावत् कर्तवयकरणात् समर्थस्य क्षेपायोगात् ।
क्षेपयोगे वा पश्चादपि न जनयेत्, अविशेषात् ।
न च कर्तुरप्ययं क्रमकारिताधर्मः स ह्यनेककरणाधिष्ठानेन युगपन्नानाकार्याणि करोति ।
यथा युगपन्माणवको गच्छति, पठति, पन्थानं वीक्षते, वहति चाचार्यस्य कमण्डलुमिति ।
तस्मात् सर्वमवदातम् ।
तदिदमपिमनः स्मृत्यादिसाधनतया भाव्यमानं निर्वेदाय कल्पत इति सद्धिम्
न्य्स्_1,1.17: प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः ॥
क्रमप्राप्ता त्विति भाष्यम् प्रवृत्तिलक्षणभवतारयितुम् ।
मनसो ऽपि प्रवृत्तिर्दर्शनीया ।
न चाप्रतिपादिते मनसि शक्या दर्शयितुमिति मनसो ऽनन्तरत्वं प्रवृत्तेरित्यर्थः ॥
प्रवृ---म्भः
आरम्भ प्रवृत्तिः ।
सा च द्विविधा ज्ञानहेतुः क्रियाहेतुश्च ।
तत्र या ज्ञानोत्पादद्वारेण पुण्यपापहेतुः सा वाक्प्रवृत्तिः ।
वागिति च ज्ञापकहेतूपलक्षणम् ।
तेन मनसा इष्टदेवताद्यनुचिन्तनं चक्षुरादिभिश्च साध्वसाधुदर्शनादि सूचितं भवति ।
क्रियाहेतुर्द्वयी कायनिमित्ता मनोनिमित्ता चेति ।
तदेतद् वार्त्तिककारो विभजते---शरीरेणेति ।
ननु प्रवृत्तेर्जन्महेतुत्वमुक्तं द्वितीयसूत्रे ।
न चेयं क्षणिका सती आमुष्मिकं जन्म साधयितुमर्हति ।
तस्माद् द्वितीयसूत्रव्याघात इति चोदयति---क्षणिकत्वादिति ।
परिहरति---नेति
न्य्स्_1,1.18: प्रवर्तनालक्षणा दोषाः ॥
प्रयोज्यव्यापारपूर्वकत्वेन प्रयोजकव्यापारनिरूपणात् प्रवृत्त्यनन्तरं दोषलक्षणम् ॥
प्रव---षाः
रागद्वेषौ मोहप्रभवौ पुरुषं प्रवर्तमानं प्रवर्तयतः ।
तयोर्धर्मः प्रवर्तना ।
सा च मोहैकार्थसमवायः ।
तावद्धि अयं रागादिवशः स्पन्दते, यावदस्य मोहो वर्तते इति ।
प्रत्यात्मवेदनीया इत्यादि चोद्यभाष्यम् ।
तस्यार्थः ।
लक्षणं खल्वनुमानम् ।
न प्रत्यात्मवेदनीयेषु समानासमानजातीयव्यावृत्तेषु स्फुटतरेषु तद् युक्तमिति भावः ।
परिहारभाष्यम्---कर्मलक्षणा इत्यादि ।
तस्यार्थः ।
स्वरूपतः स्फुटत्वे ऽपि न निर्वेदविषयतया स्फुटता ।
तथा चेह प्रयोजनम् ।
प्रवर्तनावत्त्वेन चैते निर्वेदविषयाः ।
सा च प्रवृत्त्या कार्येण लक्ष्यत इति कर्मलक्षणा इत्युक्तम् ।
यतः कर्मणा प्रवृत्त्या प्रवर्तकरागादियुक्ताः पुरुषा लक्ष्यन्ते, अतो रागादीनां प्रवर्तनावत्वत्त्मपि लक्षितं भवति ।
बहु नोक्तं भवतीति ।
स्वरूपमात्रं रागादीनामुक्तं भवति, न तु प्रवर्तनावत्वमपि तेषामित्यर्थः ।
तदेतत् सर्वं वार्त्तिककारः प्रश्नपूर्वकं व्याचष्टे---का पुनरिति ।
अवशो ऽस्वतन्त्रः ।
सा पुनरियं प्रवर्तना प्रवर्तकानां दोषाणां व्यापारः कथं गम्यते? दोषा हि गम्यन्ते, न तु तेषां प्रवृत्तिहेतुत्वमित्यर्थः ।
उत्तरम्---प्रत्यात्ममिति ।
स्वपरात्मनोर्यथासंख्यं प्रत्यक्षानुमानाभ्यम् ।
मौहैकार्थसमवायो हि रागादीनां मानस प्रत्यक्षवेदनीय इत्यर्थः
न्य्स्_1,1.19: पुनर् उत्पत्तिः प्रेत्यभावः ॥
उद्देशक्रमप्राप्तं प्रेत्यभावं लक्षयनि---पुनः---वः
सत्वनिकायः प्राणिनिकायः ।
नन्वात्मनो नोत्पत्तिः संभवति नित्यत्वादित्यत आह भाष्यकारः---उत्पन्नस्य संबद्धस्येति ।
तदेतद् वार्त्तिककारो व्याचष्टे---पूर्वेति ।
पुनर्ग्रहणमिति ।
पुनरित्यभ्यासमाह, तथा चानादिता सूचिता भवति ।
तदेतद् वार्त्तिकजातं द्वितीयसूत्रे कृतव्याख्यानम् ।
पूर्वाभ्यस्तसूत्रे चायमर्थ उपपादयिष्यते ।
आजर।जरीभाव इत्यायमभाषया अस्यार्थस्यागमिकत्वं सूचयति ।
क्रियामिति उपसर्पणमपसर्पणं चेत्यर्थः
न्य्स्_1,1.20: प्रवृत्तिदोषजनितो ऽर्थः फलम् ॥
यद्यपि शरीरेन्द्रियबुद्धिसुखदुःखोपभोगातिरिक्तं गौणमुख्यफलं भिन्नं नास्ति, ते च यथायोगं पूर्वं लक्षिताः, तेनापि च रूपेण ते निर्वेदोपयोगिनः, तथापि प्रवृत्तिदोषजनितत्वेनापि रूपेणामी निर्वेदोपयोगिन इति तेन रूपेण लक्ष्यन्ते ॥
प्रवृ---लम् ॥
अत्र च प्रवृत्तिजनित इति वक्तव्ये दोषग्रहणं न केवलं प्रवृत्ति प्रति दोषाणां हेतुभावः,
अपि तु प्रवृत्तिकार्ये सूखदुःखे अपि प्रति इति दर्शनार्थम् ।
दोषसलिलावसिक्तायां खल्वात्मभूमौ धर्माधर्मबीजे सुखदुःखे जनयतः, नान्यथा ।
न चास्ति सम्भवो न तत्र तृष्यति तच्च तस्य सुखम्, न च तद् द्वेष्टि तच्च तस्य दुःखमिति ।
सूत्रे अर्थग्रहणं गौणमुख्यफलावरोधार्थम् ।
भाष्ये च निष्ठा समाप्तिः ।
सा च महाप्रलये ऽष्यस्तीत्यत उक्तम्---पर्यवसानमिति ।
अवसानमात्रमस्ति, न तु परितः पुनरपि सर्गहानोपादानयोर्भावादित्यर्थः ।
सुबोधं वार्त्तिकम्
न्य्स्_1,1.21: बाधनालक्षणं दुःखम् ॥
नानुक्ते शरीरादौ तेषां दुःखत्वं शक्यं लक्षयितुमिति तल्लक्षणेभ्यः परमिदन्दुःखलक्षणम् ---
बाध---खम्
अत्र च बाधनेति बाधनाविषयां बुद्धिमुपलक्षयति ।
तेन बाधना च तदनुषङ्गिणश्च शरीरादयो गौणमुख्यभावेन लक्षिता भवन्ति ।
सैव हि बाधना बुद्धिर्दुःखे मुख्या, शरीरादौ गौणीति ।
अलमेभिरिति प्रत्ययो निर्वेदः, वशितया योगिनः स्वयमुपलभन्ते स्वयमुपनीतेष्वपि विषयेषु औदासीन्यमुपेक्षाबुद्धिर्वैराग्यम् ।
लक्षणशब्द इति वार्त्तिकम् ।
अनुषङ्गश्च सम्बन्धः ।
स च बाधनायां विषयविषयीभावः ।
शरीरादिषु उक्तः ।
केचिद्
विरक्तंमान्या मान्यन्ते न सुखं नामास्ति स्वरूपत इति ।
तान्निराचिकीर्षुराह---स्वरूपतस्तु दुःखमिति ।
विकल्पो विशेषः ।
अभावफलत्वप्रसङ्गादिति ।
यद्यप्युपात्तदुरितक्षयहेतवो ऽपि धर्माः सन्ति, तथाप्यधिकाधिकोत्कर्षफलानां दर्शपौर्णमासादीनां सहस्रसंवत्सरपर्यन्तानां विधायकेभ्यो वचनेभ्यो भावफल एव धर्मो गम्यते भावस्यैबोत्कर्षशालित्वादिति
न्य्स्_1,1.22: तदत्यन्तविमोक्षो ऽपवर्गः ॥
क्रमप्राप्तमपवर्गलक्षणमवतारयति भाष्यकारः---यत्र त्विति ॥
तदर्---गः
तदित्यनन्तरं गौणमुख्यभेदभिन्नं दुःखं परामृशतीत्याह भाष्यकारः---तेन दुःखेनेति ।
मुख्यमेव दुःखमिति भ्रमो मा भूदत आह---जन्मनेति ।
अनेन जायमाना दुःखशब्देन सर्वे शरीरादय उच्यनते इत्युक्तं भवति ।
अभयमिति पुनः संसारभयाभावमाह,
अभयं वै ब्रह्म
इत्यसकृदभयश्रुतेः ।
ये तु ब्रह्मैव नामरूपप्रपञ्चात्मना परिणमत इत्याहुः, तान् प्रत्याह---अजरमिति ।
सर्वात्मना वा परिणाम, एकदेशेन वा? पूर्वस्मिन् कल्पे सर्वात्मना ब्रह्मणो ऽन्यथात्वाद् विनाशप्रसङ्गः ।
एकदेशपरिणामे तु सावयवत्वात् घटदिवदनित्यत्वप्रसङ्गः इति सूक्तम्---अजरमिति ।
वैनाशिकाः प्राहुः
इति ।
तान् प्रत्याह---अमृत्यपदमिति ।
एतदुपपादयिष्यत्यग्रे वार्त्तिककारः ।
तदेतद् भाष्यं वार्त्तिककारो व्याचष्टे---तेनेति ।
आत्यन्तिकग्रहणं महाप्रलयावस्थानिवृत्त्यर्थम् ॥
अत्र भाष्यं नित्यं सुखमात्मन इत्यादि ।
अस्यार्थः---
विज्ञानमानन्दं ब्रह्म
इति सामानाधिकरण्यश्रुतेः ब्रह्मस्वभावं सुखम्, तया च ब्रह्मणो नित्यत्वात् तदपि नित्यमित्यर्थः ।
आत्मन इति च षष्ठी राहोः शिर इतिवत् मन्तव्या ।
तदेतद् भाष्यं व्याचष्टे---आत्यन्तिकीति ।
तेषामित्यादि भाष्यं व्याचष्टे---तन्नेति ।
अत्रानुमानमुपन्यस्यातिप्रसङ्गेन निराकरोति---न, नेति ।
अथात्मनि दुःखादिकं नित्यं नेच्छति, तत्राह---अनैकान्तिकता वा ।
नित्यस्याभिव्यक्तिरित्यादिभाष्यार्थमाह---नित्यमिति ।
अयमभिसन्धिः ।
सुखं तावदात्मनो गुणो नात्मा ।
उपपादितो हि गुणगुणिनोर्भेदः ।
एवं विज्ञानमप्यात्मगुणः,न ह्युदयव्ययवतीभ्यो विज्ञानव्यक्तिभ्यो ऽनुदयव्ययधर्मा भवितुमर्हत्यभिन्न आत्मा ।
न चात्मैव विज्ञानस्वभावः तत्तद्विषयोपधानेनोदयव्ययधर्मेव भवतीति सांप्रतम् ।
घटमहं जानामीति मानस्यां बुद्धौ त्रयाणामपि ज्ञानज्ञेयज्ञातणां भेदेनानुव्यवसायात् ।
विषयतज्ज्ञानभेदे ऽपि च ज्ञातुरेकस्य प्रतिसन्धीयमानत्वात् ।
न चैतदसति बाधके भेदज्ञानं भ्रान्तमिति युक्तम् ।
न चागन्तुकज्ञानातिरिक्तं स्वाभाविकमात्मनि चैतन्यमनुभूयते ।
न चात्मैव तत्स्वभावः, सुषुप्तत्वानुपपत्तेः ।
अचेतयन्नेव हि सुषुपत इत्युच्यते ।
न च तदा विषयशून्यं स्वनिष्ठमात्मचैतन्यमिति युक्तम् ।
तदवस्थाभेदस्य सुषुप्तोत्थितेन स्वप्नान्तिकस्येव स्मरणप्रसङ्गात् ।
सुखं च न ज्ञानजातीयमित्युपपादितं प्रत्यक्षसूत्रे ।
न च किञ्चिदपि सव प्रकाशमस्तीति चतुर्थे विज्ञान वादं निराकुर्वन् वक्ष्यति ॥
तदेवं व्यवस्थिते दूषण भाष्यवार्त्तिकोक्तं द्रष्टव्यं यथायमात्ममनःसंयोग इति ।
संसारावस्थायां तावदयमात्ममनःसंयोगो धर्मं निमित्तमपेक्षमाणः सुखज्ञानम् आकार्षीत् ।
यदि तु मुक्त्यवस्थायां तदनपेक्ष एव सुखज्ञानं करोति, हन्त रूपादिज्ञानेषु इन्द्रियान्तराण्यपि नापेक्षेतेति भावः ।
शङ्कते---योगजेति ।
न वयं विषयमात्रापेक्षां ब्रूमो येन रूपादिष्वपि ज्ञानमुत्पादयेत्, अपि तु संसारावस्थायां यत् सुखज्ञानायानेनापेक्षितं तदपेक्षते ।
धर्मश्च तदा तेनापेक्षित इति मुक्त्यवस्थायामपि धर्ममेवापेक्षते ।
एतावान् विशेषो यदयं योगज इति ।
तथा च न रूपादिविज्ञान प्रसङ्ग इति ।
शङ्कते---नित्यो ऽसाविति ।
निराकरोति---योगेति ।
ननु त्वन्मते यथा सुखसंवेदनं जिहासितम्, एवमस्मन्मते ऽपि सुखसंवेदनहानाय घटिष्यत इत्यत आह---न चायं सुखमिति ।
अस्मन्मते हि दुःखहानायैव तदनुषक्तं सुखं जिहासितम् ।
नित्यं तु सुखं सर्वदुःखविनिर्मुक्तं सन्न दुःखहानाय जिहासितं संभवति इत्यर्थः ।
न केवलमानुकूल्यात् प्रतिबन्धकत्वं नास्ति शरीरादीनाम्, प्रत्युत मुक्त्यवस्थायामपि कल्पनीयता इत्याह---नित्यं शरीरादि इति ।
सिद्धान्तिनो वचनमनुभाष्य देशयेति---प्रमाणाभावादित्युक्तं तच्च नेति ।
शास्त्रेण हि मोक्षसाधने लोकः प्रवर्तनीयः ।
अप्रवर्तमानश्च प्रवर्तनीयः ।
इष्टार्थी च प्रवर्तते तत्साधने ।
सुखं चेष्टम् ।
सुखात्मको मोक्ष इत्यर्थः ।
सेयं लोकप्रवृत्तिरनैकान्तिकत्वेन संशयहेतुरिति परिहरति---न, प्रवृत्तीति ॥
स्यादेतत् ।
मुख्यासंभवे गौणमरीयते ।
सुखशब्दश्च सुखे मुख्यः, भाक्तस्तु दुःखनिवृत्तौ ।
तस्मात् नित्यानन्द एव मोक्ष इत्यत आह---यदि पुनरिति ।
संचक्षाणकः संख्यानप्रवृत्तो योगी ।
धर्माधर्मौ तावदात्मनि पारमार्थिकौ, न त्वविद्याकल्पितौ ।
तौ च वीतरागेणासक्तेन सता शक्यौ भोगेन क्षेतुम्, न तु शक्तने ।
स हि सक्तस्तेषु तेषु विषयेषु उपात्तमुपात्तं भु।जानः त्यक्तं त्यक्तं चोपाददानः संसारात् न मुच्येत ।
तस्मादयं रागो बन्धनमिति समाज्ञातः ।
तन्निबन्धना च प्रवृत्तिः परिहर्तव्या ।
अन्यथा तु नित्यसुखावधारणलालितेयं तृष्णापिशाची लब्धप्रसरा विषयसुखेष्वपि प्रत्यासन्नेषु पुरूषं प्रवर्तयन्ती मोक्षमस्य सूदूरं प्रतिक्षिपेदिति मनागपि प्रसरो ऽस्या न दातव्यः ।
तस्मात् नित्यानन्दप्रतिपादकश्रुतिरात्यन्तिके दुःखवियोगे भाक्तीति युक्तमिति भावः ।
चोदयति---यद्यपीति ।
रागवद् द्वेषस्यापि प्रसरो न दातव्यः ।
तस्य च त्वया प्रसरो दत्त इति तुलयो दोष इति ।
परिहरति---न, अप्रतिकूलत्वात् ।
यथा नित्यसुखोपादानं मोक्षम् अप्रतिकूलया सक्त्या सप्रतिकूलं नैवमात्यन्तिकदुःखहानं दुःखद्वेषानुषक्तम् ।
द्वेषः क्रोधो मन्युरित्यनर्थान्तरम् ।
ज्वलनात्मको हि स भवति ।
नैवं वैराग्यम् ।
अलं प्रत्ययो हि स इत्यप्रतिकूलं दुःखहानमित्यर्थः ।
तदनेन नित्यं सुखमात्मनो मोक्षे ऽभिव्यज्यते इत्यादि तस्मिन् प्रहीणे नास्य नित्यसुखरागः प्रतिकूलो भवतीत्येवमन्तं भाष्यजातं व्याख्यातं वेदितव्यम् ।
यद्येवमित्यादेर्भाष्यस्यायमर्थः ।
एवं वैराग्येण मोक्षमाणस्य प्रवृत्तो सत्याम्, मुक्तस्य यदि नित्यं सुखं भवति कामं भवतु मा वा भूत्, उभयोरपि पक्षयोः वीतरागस्य प्रवृत्तौ न मोक्षाधिगमो विकल्प्यते, न सन्दिग्धो भवतीत्यर्थः ॥
वैनाशिकानां मोक्षमुपन्यस्यति---चित्तं विमुच्यत इति ।
संसारी हि मुच्यते ।
रागादयस्तद्धेतवः ।
न चात्मनि नित्ये रागादयः संसारं कर्तुमुत्सहन्ते, नित्यस्याविकार्यत्वेन तादवस्थ्यादुपनेयापनेयाभावात् ।
यथाहुः,
वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ।
चर्मोपमश्चेत् सो ऽनित्यः खतुल्यश्चेदसत्फलः ॥
इति ।
चित्तं तु कार्यं रागादिवशात् संसारी, तद्वियोगाच्च मुच्यते इति युक्तमित्यर्थः ।
देवमनुष्यादिजातिः गतिः तत्रोत्पत्तिः ।
तदेतद् दूषयति---न, अयत्नत इति ।
क्षणिकत्वात् चित्तस्य, जन्मविनाशप्रयोजनमेव ।
जन्मान्तरं हि विनाश इति क्षणस्याभेद्यत्वेनोपनेयापनेयाभावात् ।
स्वरसभङ्गित्वाच्च वैयर्थ्यमित्यर्थः ।
शङ्कते---सन्ततेरिति ।
अनादिः खलु कार्यकारणप्रवाहरूपा बुद्धीनां सन्ततिः ।
सा चात्मसाक्षात्कारोन्मूलितसवासनक्लेशजालस्य निवर्तते ।
निवृत्तिश्चेयमेव तस्या यत् तत्सन्तानवर्तिनश्चेतसो ऽनागतस्यानुत्पाद इति भावः ।
निराकरोति---न, तस्याशक्यत्वात् ।
उत्पन्नस्यानुत्पादो न शक्यः, नापि सन्ताननिवृत्तिः शक्या कर्तुम्, अन्त्यक्षणानुपपत्तेः ।
स हि अन्त्यः क्षणः किञ्चिदारभते न वा? आरम्भे नान्त्य इति न कार्यकारणप्रवाहनिवृत्तिः, प्रवाहश्च सन्तान इति न सन्ताननिवृत्तिः ।
अनारम्भे तस्यासामर्थ्येनासत्त्वम् ।
ततः पूर्वे सर्वे ऽपि क्षणा असन्तः स्युरिति कस्योच्छेद इति भावः ।
शङ्कते---अनागतानुत्पाद इति ।
तथा सत्यनागतानुत्पादलक्षणार्थक्रियाकारित्वादन्त्यक्षणोपपत्तिरिति भावः ।
निराकरोति---अनागतेति ।
प्रागभावस्यानादित्वादित्यर्थः ।
पृच्छति---तर्हि कस्येति ।
नित्यस्यानुपकार्यत्वादपनेयाभाव इति भावः ।
उत्तरम्---य इति ।
यथा चाक्षणिकस्योपकार्यत्वं तथा क्षणभङ्गभङ्गे उपपादयिष्यत इति सद्धिम्
न्य्स्_1,1.23: समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरूपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः ॥
संशयलक्षणावतारणपरं भाष्यं स्थानवत एतर्हि इति ।
तस्यार्थः ।
स्थानं क्रमः ।
तद्वतः ।
एतर्हि इदानीमिति ।
क्कचित् पाठः स्थानवत एव तर्हीति ।
तर्हि तदानीमुद्देशसमये, क्रमवतः संशयस्य प्रमेयानन्तरमुद्दिष्टस्य, प्रमेयलक्षणानन्तरं स्थानं क्रमो लक्षणस्येत्यर्थः ।
तदेतद् वार्त्तिककारो व्याचष्टे---प्रमेयेति ।
एतदेव स्फुटयनि---यति ।
स्थानं क्रमग्रहणेन व्याख्यातम्, मतुबर्थश्च प्राप्तिग्रहणेन ॥
समा---यः ॥
अत्र च विमर्शः संशय इति संशयसामान्यलक्षणम् ।
तत्र संशय इति लक्ष्यनिर्देशः, विमर्श इति लक्षणपदम् ।
एकस्मिन् धर्मिणि विरोधिनानार्थावमर्शो विमर्शः, किं स्विदिति ज्ञानम् ।
तदनेनासमानजातीयेभ्यः प्रमाणादिभ्यः समानजातीयेभ्यश्च विपर्ययादिभ्यः संशयो निवर्तितो भवति ।
समानेत्यादीनि तु त्रीणि विशेषलक्षणानि ।
तेषु च विमर्शः संशय इत्येतदनुवर्तनीयम् ।
अत्र विशिष्टो ऽवमर्शो विमर्शविशिष्टः संशय इति लक्ष्यपदम् ।
समानधर्मोपपत्तेरनेकधर्मोपपत्तेर्विप्रतिपत्तेरिति त्रीणि प्रत्येकं शेषैः पदैरूपेतानि लक्षणानीति ।
तदेतदाह वार्त्तिककारः---तत्र समानेति ।
त्रिविध एवेति ये पञ्चविधमाचक्षते ते निराकृताः ।
तदनवधारणज्ञानं स संशय इति संशयसामान्यलक्षणपरं भाष्यं व्याचष्टे---तत्र विषयस्वरूपेति ।
प्रत्ययो ऽनवधारणात्मकश्चेति ।
आक्षेपपरिहारौ प्रथमसूत्र एव व्याख्यातौ ।
प्रत्ययशब्दस्य निश्चयवचनत्वमभ्युपेत्य व्याख्यानं प्रतीयत इति ।
परमार्थतस्तु प्रत्ययशब्दो ज्ञानपर्यायः ।
ज्ञानत्वं च सामान्यं संशयादिष्वप्यस्तीति न विरोध इति ॥
समानधर्मोपपत्तेरिति व्याचष्टे---समानेति ।
विकल्प्याक्षिपति---किं पुनरिति ।
कस्मादिति ।
मा कार्षीद् द्रव्ये संशयम्, गुण एव कस्मात् न करोतीति प्रश्नार्थः ।
समाधत्ते---न, साधारणेति ।
यादृशं संख्याप्रचयपरिमाणभदयोनि परिमाणं स्थाणुपुरूषयोः, तादृशमास्यापि पुरोवर्तिनो द्रव्यस्य परिमाणम् ।
तस्मात् सदृशपरिमाणधर्मस्य धर्मिण उपपत्तेरित्यर्थः ।
महत्वदीर्घत्वसामान्यधर्मयोगस्तु सन्नपि न संशयकारणम्, असादृश्ये तद्योगे ऽपि संशयाभावादिति भावः ।
स्यादेतत् ।
उपपत्तिः सत्ता ।
न च सदृशो धर्मः सत्तामात्रेण संशये हेतुः, अपि तूपलब्धः ।
न चोपलब्धिवाचकमत्रास्ति पदमित्यत आह---तस्योपपत्तिरध्यवसाय इति ।
यद्यप्ययमुपपत्तिशब्दः सत्तावचनस्तत्परश्च, तथापि पदान्तरसमभिव्याहारादवगम्यते सत्तामात्राभिधाने ऽपि तदुपलब्धिर्विवक्षितेति ।
विषयविषयिणोरभेदविवक्षया सामानाधिकरण्यमुपपत्तिरूपलब्धिरिति ।
पृच्छति---कस्मादिति ।
अस्मदायत्ते हि शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्यामह इत्यर्थः ।
उत्तरम्---अनुक्तमपीति ।
विशेषापेक्षा इति वचनेन विशेषस्यापेक्षा उच्यते ।
अपेक्षाशब्दश्च यद्यपीच्छायां वर्तते, तथापीह जिघृक्षायां वाक्यसामर्थ्यात् ।
न च सा संशयस्य हेतुः, तस्याः संशये सति भावात् ।
तस्माद् विशेषापेक्षया विघृक्षालक्षणयेह विशेषयोः पुरोवर्तिवस्तुसादृश्यात् स्मरणे सत्यग्रहणं लक्षणीयम्, यथा गङ्गाशब्दस्तीरं संबद्धमेव लक्षयति, न तु तीरमात्रम् ।
अनेनैवाभिप्रायेण वक्ष्यति भाष्यकारः विशेषस्मृत्यपेक्ष इति ।
तस्माद् विशेषग्रहणप्रतिषेधात् सामान्य ग्रहणमभ्यनुज्ञातं भवतीत्यर्थः ।
परिहारान्तरमाह---अथ वेति ।
स्यादेतत्, उपपत्तिशब्दः सत्तावचनश्चोपलब्धिवचनश्च ।
तथा च विनिगमनायां को हेतुरित्यत आह---यः पुनरिति ।
नन्वभावः प्रमाणालम्बनमुक्तः, तत् कुतो न विरोध इत्यत उक्तम्---स्वतन्त्रमिति ।
अथ वा सत्तावाचको ऽप्ययमुपपत्तिशब्दः स्वाभिधेयविषयामुपलब्धि लक्षयतीत्याह---विषयशब्देनेति ।
न चेयम् अलौकिकी लक्षणेत्याह---लौकिकमिति ।
यथा च धूमो न सत्तामात्रेण हेतुस्तथोक्तं प्रागिति ॥
एकदेशिनामुपसंख्यानमुपन्यस्यति---अव्यवच्छेदेति ।
ते किल मन्यन्ते व्यवच्छेदहेतुरपि धर्मः समानो भवति ।
यथा कृतकत्वं साध्यधर्मिणि शब्दे दृष्टान्त धर्मिणि च घटादौ समानम्, न चासौ नित्यानित्यत्वसंशयहेतुः, अपि त्वनित्यत्वस्यायोगं साध्यधर्मिणि व्यवच्छिनत्ति ।
अतो ऽव्यवच्छेदहेतोरिति वक्तव्यमित्यर्थः ।
तदेतद् वक्तव्यं दूषयति---न समानेति ।
समानो हि धर्मः प्रतिसंबन्धिनमपेक्षते---केनेति ।
संशयपदेन च स्वविषयोपस्थापकेन परस्परविरोधिनौ तावुपस्थितौ ।
तेन ताभ्यां समान इति गम्यते ।
तेन विवक्षिततज्जातीयवृत्तित्वे सत्यन्यजातीयवृत्तिरेव गम्यते ।
न चैव कृतकत्वम् ।
तस्मात् न वक्तव्यमव्यवच्छेदहेतोरिति ।
समानशब्दार्थः सादृश्यं तत्र नास्तीत्यर्थः ।
अत्रैवोपलब्धीत्यादिपदद्वयं शङ्कापूर्वकं योजयति---सो ऽयं साधारण इति ।
उपलब्ध्यनुपलब्धी न व्यवतिष्ठेते इति ।
शिरःपाण्यादेरनुपलब्धिर्वक्रकोटरादेरूलब्धिः पुरूषस्य बाधकं प्रमाणम्, तद्धि पुरूष एवायं वा, इदन्तया व्यवतिष्ठते, इदन्तानिषेधेन वा ।
नायं पुरूष इत्यनिदन्तया व्यवतिष्ठते ।
तदभावो ऽव्यवस्था ।
तदनेन साधकबाधकप्रमाणाभावो दर्शितः ।
विशेषाकाङ्क्षायां चेति विशेषस्मृतिर्दर्शिता ॥
विमर्शपूर्वकं समस्तमित्यवधारयति---किमिदमिति ।
तत्रैकपदपरिग्रहे दोषमाह---यदि समानेति ।
विशेषः शिरःपाण्यादिः ।
विशिष्यते ह्यनेन पुरूषः स्थाणोरिति अनुपलब्धसामान्यस्यापि क्वचिदुपलब्ध्यनुपलब्ध्यव्यवस्थास्तीति ।
यथा सप्तमे रसे, दशमे वा द्रव्ये ।
न हि तत्र साधकं बाधकं वास्ति प्रमाणम् ।
न च संशयः ।
विशेषापेक्ष इत्येतावतीति ।
तद् यथा हस्तिनं दृष्ट्वा तत्संबन्धिनो स्थूणाहस्तिपकौ स्मरति न च तत्र संन्दिग्धे ॥
द्विपदपरिग्रहे दोषमाह---एवं समानेति ।
नौदोलारूढो हि गच्छन् विदूरे आरोहपरिणावद्वस्तुदर्शने ऽपि सत्यपि च साधकबाधकप्रमाणाभावे विशेषस्मृत्यमावात् नग इति वा नाग इति वा न सन्दिग्धे ।
एवमुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इति पदद्वये विधीयमानऽन्यतः स्मर्यमाणाद् विशेषात् सदृशधर्मवति धर्मिण्यनुपलभ्यमाने संशयः स्यात् ।
अस्ति हि तदा विशेषस्मृतिः साधकबाधकप्रमाणाभावश्च, नो खल्वनुपलभ्यमाने समानधर्मे धर्मिणि तद्गता वक्रकोटरादयो वा शिरः पाण्यादयो वा शक्यग्रहा इति ।
यदायं द्रष्टेति ।
यदा खल्वयं द्रष्टा प्रतिपरूरडकुरोद्भेदपुककिताभिर्मन्दमलयमारूतान्दोलनललितलास्यशालिनीभिः शाखाभिर्मधुमदमुदितमधुपमालाशिञ्जितवल्लकीवाद्यमनोहराभिर्मत्तपुंस्कोकिलकुलविपञ्च्यमानपञ्चमाभिरारब्ध-
संङ्गीतकं सहकारतरूमनुभूयाथ विदूरवर्ती कु।जरसदृशधर्मवन्तमनुभवति, तदास्यास्ति समानधर्मोलब्धिः ।
अस्ति च करितरुरूपविशेषस्मृतिः, न तु साधकबाधकप्रमाणाभाव इति न संशेते ।
कतिपयव्यक्त्याश्रयत्वं सहकारत्वादेर्विशेषस्याल्पविषयत्वम् ।
आरोहपरिणाहादेस्तु बहुव्यापित्वं महाविषयत्वम् ।
नानार्थावमर्शनं च विरूद्धार्थावमर्शनं द्रष्टव्यम् ।
तदनेन स्थाणुपुरूषयोरित्यादि भाष्यं व्याख्यातम् ।
पश्यन् इत्युपपत्तिविवरणम् ।
विशेषं बुभुत्समान इति विशेषापेक्ष इत्यस्य विवरणम् ।
किं स्विदिति विमर्शविवरणम् ।
स्यादेतत् ।
संशयोत्तरकाला बुभुत्सेति, कथं बुभुत्समानः संशेत इत्यत उक्तं भाष्यकृता, समानमनयोरिति ।
विशेषापेक्षाशब्देनेच्छावाचिना अगृह्यमाणविशेषस्मरणं लक्षितमिति भावः ।
सेयं साधकबाधकप्रमाणानुपपत्तौ सत्या समानधर्मोपलब्धिर्विनश्यदवस्था विशेषस्मृत्या सहाविनश्यदवस्था एकस्मिन् क्षणे सती संशयज्ञानस्य हेतुरिति सिद्धम् ।
त्रिपदपरिग्रहमनेकधर्मोपपत्तेर्विप्रतिपत्तेरित्यत्रापि योजयति---एतेनेति ।
द्वे द्वित्वेनैकीकृत्याद्यानन्तरयोरिति द्रष्टव्यम् ॥
अनेकधर्मोपपत्तेरित्यत्र भाष्यकृतो व्याख्यां ग्रहीतुम् एकदेशिव्याख्यानमुपन्यस्य दूषयति---अनेकेति ।
शब्दो हि संयोगजः ।
संयोगजत्वं हि कार्ये द्रव्ये गुणे च रूपादौ शरीरादिक्रियायां चास्तीति द्रव्यगुणकर्मणां समानम् ।
तस्मादनेकस्य धर्मः चरितार्थः ।
एवं शब्दगतो ऽनेको ऽपि धर्मः समानतयैव द्रव्यत्वादिसन्देहहेतुः त्रिषु, संयोगजत्वं साधारणं सत्त्वादिना निर्भक्स्य, निर्गुणत्वं गुणकर्मणाः ।
एवं क्षणिकत्वं द्रव्यगुणकर्मणामिति समानधर्मोपपत्त्या गतार्थंमित्यर्थः ।
पृच्छति---अथेति ।
भाष्यकृद्व्याख्ययोत्तरम्---असाधारण इति ।
पुनः पृच्छति---कथमिति ।
समासपदशब्देन तदेकदेशो ऽनेकशब्दो लक्ष्यते समासगतेनानेकशब्देनेत्यर्थः ।
उत्तरम्---समानेति ॥
एतदुक्तं भवति ।
यतो ऽनेकस्मात् समानासमानजातीयादेष स्वाश्रयं व्यावर्तयति, अतो ऽनेकापादानकव्यावृत्तिहेतुकत्वात् लक्षणयानेन इत्युच्यते ।
तदनेन समानजातीयम् असमानजातीयं चानेकमिति भाष्यं तस्माद् विशेष इत्यध्याहृत्य व्याख्यातम् ।
अध्याहृतविशेषपदविवरणं विशेषको धर्म इति ।
संबन्धसामान्यविवक्षया तु षष्ठी तस्यानेकस्येति ।
लक्षणाबीजान्तरमाह---तस्य चानेकस्येति ।
निवर्त्यनिवर्तकसंबन्धेनानेकशब्देन धर्मोः लक्ष्यत इत्यर्थः ।
तदनेन विनैवाध्याहारं समानजातीयमसमानजातीयं चानेकम् ।
तस्य धर्मे निवर्तकतयेति व्याख्यातम् ।
न त्वत्र समासभ्रान्तिः कर्तव्या ।
दर्शयिष्यति हि बहुव्रीहिमिहैव वार्त्तिककारः ।
तदेवं लक्षणाबीजद्वयोपन्यासेन असाधारणो धर्म इति ग्रहणकवाक्यं व्याख्यातम् ।
प्रकारान्तरेणानेकधर्मपदंव्याचष्टे---एकांनेकेति ।
एकं चानेक च तदुभयमनेकं तस्यानेकस्य प्रत्ययहेतुर्धर्मो ऽनेकधर्मः भेदाभेदप्रत्ययहेतुरित्यर्थः ।
विभागजत्वं विभागजानां शब्दानामन्योन्यस्याभेदप्रत्ययहेतुः, तदितरेभ्यश्च भेदप्रत्ययहेतुः ।
तदिदमाह---यतो विभागजत्वात् एष प्रत्ययो भवतीदं विभागजं शब्दजातम् एकम् ।
इदं च ततो ऽन्यद् अनेकं भिन्नम् ।
तत्र य एव एकप्रत्ययहेतुः धर्मो ऽभेदः स एव अनेकप्रत्ययहेतुर्विशेषः ।
जात्यभिप्रायं चैकवचनम्, सदादिर्हि धर्मो दुव्यगुणकर्मणामभेदप्रत्ययहेतुः, सामान्यादिभ्यश्च शब्दं निर्भजति ।
तदिदमाह---यतः सदादेरेष प्रत्ययो भवतीदमेकं यतश्च विभागजत्वादेप प्रत्ययो भवतीदमनेकमिति, तस्मात् सिद्धमेकं चानेकं च ।
अनेकमिति तत्प्रत्ययहेतुरुपचारेणानेक इति ।
तद्दिमुद्भाष्यं व्याख्यानम् ।
अत्रोदाहरणमाह---यथेति ।
द्रव्यत्वादिकोटित्रयविषयसंशयप्रदर्शनार्थमुक्तं सामान्यविशेषसमवायेभ्य इति ॥
सदनित्यं द्रव्यवत्कार्यां कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः ॥
तेनानेन सदादिना निर्भक्तस्य पृथक्कृतस्येत्यर्थः ॥
स्यादेतत् ।
यद् येन सहचरितं दृष्टं तत् क्कचिद् दृश्यमानं तत् स्मारयत् तद्वियरुद्धेनापि च संबन्धाननिश्चाययत् संशयहेतुर्भवति, यथा समानो धर्मः ।
असाधारणस्तु धर्मो विभागजत्वं नर्ते शब्दात् क्कचित् पृथिव्यादौ वा उत्क्षेपणादौ वा गन्धादौ वा दृष्ट इति कथ्र स्मारयेत्, अस्मारयद् वा कथं तत्र संशयं जनयेत्? तस्मात् को ऽयं भवेदित्ययो धर्मादिति जिज्ञासामात्रमुत्पादयेत् न त्वयं वायं वेति संशयमित्यत आह---न हीति ।
कस्मात् न दृष्टमित्यत आह---सर्वत्रासंभवात् ।
न हि द्रव्यादेर्विभागतो जन्म संभवति, तदन्वयव्यतिरेकाननुविधानादित्यर्थः ।
नन्वत एवोक्तं न संशयहेतुरित्यतः आह---विभागजत्वं संशर्ये करोति सर्वतो व्यावृत्तेरिति ।
अयमर्थः, यद्यपि विभागजत्वं न द्रव्यादौ क्वचिद् दृष्टम्, तथापि तद्व्यतिरेकः प्रत्येकं द्रव्यादौ दृष्ट इति विभागजत्वेन सदाद्यविशेषवान् शब्दो द्रव्यकर्मभ्या व्यावर्तमानः किं गुणः, गुणकर्मभ्यां व्यावर्तमानः किं द्रव्यम्, गुणद्रव्याभ्यां व्यावर्तमानः किं कर्मेति व्यतिरेकमुखेन तत्तत् स्मारयन् असाधारणो धर्मो भवति संशयकारणमिति ।
देशयति---ननु चेति ॥
अयमभिसन्धिः ।
वंशे पाट्यमाने वंशदलयोः क्रिया, ततस्तयोर्मिथो विभागः, ततो वंशदलावरुद्धनभोभागविभागः ।
सो ऽयं विभागजो विभागो न वंशदलकर्मजः ।
अवयवक्रिया हि तदवयवावरुद्धनभोभागविभागजनिका द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विविभागजनकत्वेन व्याप्ता विकसत्कमलकुङ्मलदलेषु दृष्टा ।
न हि तत्र तत्र मुकुलिताद् विकासि कमलमन्यत्, आकुञ्चितप्रसारिताङ्गुलिकरतलवत् तत्त्वेन प्रत्यभिज्ञायमानत्वात् ।
वंशदलक्रियापि चेत् तादृशी, नूनमनयापि द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विविभागजनिकया भवितव्यम् ।
तथा च द्रव्यं कार्यमपि न नश्येत् ।
तस्मात् नानया वंशदलाकाशविभागो जनयितव्यः ।
न चान्यदस्य कारणं संभवति ।
तस्माद् वंशदलक्रियाजनितो दलयोर्विभागः कार्यैकार्थसमवेतः तदवरुद्धाकाशप्रदेशविभागस्यासमवायिकारणमेषितव्यः ।
हेतुरिति सिद्धं भवतीति ।
परिहरति---अनभ्युपगतविभागजविभागस्यैतद् विभागजत्वम् एवं संशयकारणं भवति ।
अनभ्युपगमबीजं च कुतः पुनरेवदेवमवगतं पद्मपत्रावयवक्रिया विभागद्वयजनिकेति, विभागद्वयक्रमकल्पनायां प्रमाणाभावादिति चेत्? हन्त, वंशदलविभागयोरपि तुल्यम् ।
ननूक्तं द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विविभागजनकं स्यात् कर्म, ततश्च द्रव्यनाशो न भवेदिति ।
अथं विपर्ययः कस्मात् न भवतीति वंशदलद्वयक्रियैव विभागद्वयजनिका, पद्मपत्रवयवक्रिया त्ववयवविभागजनिका, तदवयवाकाशविभागस्त्ववयवविभागजन्मा ।
यदि तु पद्मपत्रावयवक्रिया उभयजनिका भवेत्, वंशदलक्रियैव द्रव्यारम्भकसंयोगप्रतिद्वन्द्विनं विभागं जनयेदिति ।
न चान्यतरत्र विभागद्वययौगपद्यनिश्चयः क्रमप्रमाणाभावश्च तुल्यः ।
तस्मात् पद्मपत्रावयवक्रियाविभागजनकत्वसंदेहादशक्यविनिश्चयो व्याप्यव्यापकभावः ।
क्रियावैलक्षण्यात् तु स्वहेतुवैलक्षण्यजन्मनः कार्यस्य विभागस्य वैलक्षण्यं स्यात्, यदेको द्रव्यारम्भकसंयोगप्रतिद्वन्द्वी अप्रतिद्वन्द्वी चेतरः, तथापि चैतद्वैलक्षण्यं क्रियाया अभ्युपेतव्यम् यदेका विभागमेकं जनयति ।
अन्या तु विभागद्वयमिति ।
तस्मादेतदुदाहरणबलेन न विभागजविभागसिद्धिः ॥
यस्त्वङ्गुलिकर्मानन्तरमङ्गुलितरुविभागो हस्ततरुविभागः, शरीरतरुविभगाश्च दश्यते, तत्राङ्गुलितरुविभागमङ्गुल्याश्रया क्रिया करोतु, हस्ततरुविभागं तु न शक्ता जनयितुम्, तस्याः स्वाश्रयसमवायात्, स्वाश्रयसमवेतकार्यजनने च क्रियायाः सामर्थ्यावधारणात् ।
तस्मात् हस्तादितरुविभागः क्रियतो ऽसंभवन्नङ्गुल्यादितरुविभागमेव कार्यैकार्थसमवायलक्षणया प्रत्यासत्त्या निमित्तीकरोतीति विभागजविभागसिद्धिं मन्यते, तं प्रत्याह---यः पुनरिति ।
अस्तु वा विभागजो विभागः, तथापि विभागजत्वमीदृशमसाधारणमेवेत्यत आह---अस्तु वा तस्य अभ्युपगतविभागस्य अपि विभागजत्वमसाधारणं विशिष्टम् ।
तदेव देशयति---विभागजेति ।
पाट्यमाने हि वंशे शब्दोत्पत्तौ वंशदलयोर्मिथो विभागो निमित्तकारणम् ।
वंशदलावरुद्धाकाशविभागस्त्वस्यासमवायिकारणम्, न तु भेर्याकाशसंयोगवत् वंशदलाकाशसंयोगो ऽसमवायिकारणं भवितुमर्हति ।
तथा हि प्रयोगः, यो ऽयं वंशदलविभागनिमित्तः शब्दः, स निमित्तसमानजातीयासमवायिकारणजन्यः, तदसाधारणनिमित्तजन्यशब्दत्वात् ।
यो यः शब्दो यदसाधारणनिमित्तजन्मा, स सर्वस्तज्जातीयासमवायिकारणजन्यः, यथा भेरीदण्डसंयोगनिमित्तः शब्दो भेर्याकाशसंयोगासमवायिकारणकः ।
तथा चायम् ।
तस्मात् तथेति ।
तदेवं वंशदलविभागलब्धजन्मना वंशदलाकाशविभागेनासमवायिकारणेन जनितः शब्दः ।
तदेवं विभागजविभागासमवायिकारणकत्वं शब्दस्य, तदपि यद्यप्यङ्गुल्याकाशविभागजहस्ताकाशविभागासमवायिकारणे कायाकाशविभागे ऽस्ति, तथापि कारणमात्रविभागजविभागासमवायिकारणकत्वादिति हेतुः भाष्यकारेण विभागजत्वात् इत्यनेन सूचितः ।
न चाङ्गुल्याकाशविभागपूर्वकः कायाकाशविभाग एवम् ।
स हि कारणाकारणविभागपूर्वको, न तु कारणमात्रविभागपूर्वकः ।
तदिदमुक्तम्---विभागजविभागासमवायिकारणकः शब्दो नान्यः पदार्थ इति ॥
ननु सहचरितो दृष्टः स्मारयन् विशेषसंशयहेतुर्भवति, न तु यो व्यावृत्तः तेन सहास्यासाहचर्यादिति शङकामपनेतुं भाष्यकारीयमुत्तरमाह---तुल्यजातीयेष्वितिं ।
यद्यपि व्यतिरेकमुखेनासाधारणः शक्तः स्मारयितुम्,
तथापि भाष्योक्तमप्युक्तम् ।
यत् खलु सदादिरूपसंपन्नं विशेषवत् तत्समानजातीयेभ्यो ऽसमानजातीयभ्यश्च व्यावृत्तम्, यथा पृथिवीद्रव्यम् ।
अबादिभ्यश्च द्रव्यान्तरेभ्यां गुणकर्मभ्यश्च विजातीयेभ्यो गन्धवत्त्वेन व्यावृत्तं द्रव्यजातीयम् ।
एवं रूपत्वेन रूपं गुणः ।
उत्क्षेपणत्वेनोत्क्षेपणं कर्म ।
तथाविधः शब्दः सदादिरूपसंपन्नो विभागजत्वेन समानासमानजातीयेभ्यो विशिष्यते ।
तस्माद् भवति द्रव्यं गुणः कर्म वेति संशय इति ।
पूर्वव्याख्यानतो ऽनेकशब्देनासाधारणधर्मो लक्ष्यत इत्युक्तम् ।
संप्रति समानशब्दपर्यालोचनयाप्यनेकपदमसाधारणे वर्तते लक्षणयैवेत्याह---समानधर्मस्य संशयकारणत्वेन उपयोगाद् वेति ।
समानं हि प्रतिगोगितया असमानं बुद्धौ सन्निधापयति ।
तत्र द्वयस्यापि समानशब्देन श्रुत्यर्थाभ्यामुपात्तस्य समानस्य धर्मस्यासमानस्य च, समानस्य संशयकारणत्वेनोपयोगादिति योजना ।
पृच्छति---कस्मादिति ।
अस्मदायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्यामह इति भावः ।
उत्तरम्---नैवमिति ।
असाधारणो हि धर्मो व्यतिरेकमुखेन संशयहेतुः ।
स चानेकस्माद् व्यावृत्त्या सिध्यति ।
सा च लाक्षणिकानेकपदाधीना नासमानपदात् लभ्यत इति प्रयोजनवल्लाक्षणिकपदोपादानम् ।
लक्षणैव चेयम् अनेकस्माद्व्यावृत्तो धर्मो ऽनेकधर्म इति विग्रहेण निर्वर्ण्यते इति ।
अभ्युच्चयमात्रमाह---लाघवं वेति ।
असाधारणस्य संशयकारणत्वे व्यावृत्तिः प्रयोजिकेति मन्वानश्चोदयति---यद्यनेकेति ।
परिहरति---नैष दोष इति ।
व्यभिचाराव्यभिचारौ हि संशयनिर्णययोः प्रयोजकौ, नान्वयव्यतिरेकमात्रमित्यर्थः ।
चोदयति---यदि तर्हीति ।
सपक्षासपक्षसाधारण्यं हि हेतोर्व्यभिचारः ।
स चेत् संशयस्य कारणम्, हन्त, समानधर्मोपपत्तिरेव सर्वत्र संशयकारणमिति कृतम् अनेकग्रहणेनेत्यर्थः ।
परिहरति---सत्यमिति ।
सपक्षासपक्षसाधारण्यं हि हेतोर्व्यभिचारः ।
स च संशयस्य प्रयोजकः ।
तथाप्येकस्यान्वयः साधारणो ऽपरस्य व्यतिरेक इत्येतावतोभयोपादानमित्यर्थः ॥
एवमनेकधर्मोपपत्तेरिति स्वमते व्याख्याय परमतव्याख्यानं दूषयितुमुपन्यस्यति---न ।
इति ।
नित्यः शब्दः श्रावणत्वात् शब्दत्ववदित्येकः पञ्चरूपोपपन्नो ऽव्यभिचारी हेतुः1 अनित्यः शब्दः कृतकत्वाद् घटवदिति चायमपरः पञ्चरूपोपपन्नो ऽव्यभिचारी हेतुरिति ।
तदेतद् दूषयति---तदयुक्तमिति ।
न ह्यव्यभिचारिणौ पञ्चरूपोपपन्नावित्यर्थः ।
न चायं प्रतिवादिनः प्रयोगो ऽपि युक्तः इति ।
विरुद्धशब्दस्यार्थो विरुद्धार्थ इति, स्वरूपमनयोर्विरुद्धं परस्पराभाववदित्यर्थः ।
विशेषदर्शनादुपजात इति ।
संशयस्य हि विशेषादर्शनं जनकम्, विशेषदर्शनं च निवर्तकमिति ।
स चेत् त्वन्मते निवर्तकादुत्पद्यत, अव्यभिचारिहेतुजनिताद्विशेषदर्शनात् नास्य निवृत्तिः स्यादित्यर्थः ।
न च यदा निवर्तकत्वमस्यास्ति तदा जनकमपीत्याह---न हि विशेषदर्शने सतीति ॥
स्यादेतत् ।
प्रत्यक्षमेव स एवायं गकार इत्येवमाकारं प्रत्यभिज्ञासमाज्ञातं शब्दस्य स्थेमानमाकलयत्,
तावत्कालं स्थिरं चैनं कः पश्चान्नाशयिष्यति ॥
इति नित्यत्वं परिच्छेत्स्यतीत्यत आह---नायमर्थः प्रत्यक्षस्य विषयः ।
तदेव हि प्रत्यक्षं संशयस्य निवर्तकं यदनन्यथासिद्धम्, यथौष्ण्यग्राहि वह्नेः ।
इदं तु सादृश्येनापि संभवात् स्वयं सन्दिग्धं सन्न संशयोच्छेदायालमित्यर्थः ।
मा भूत् प्रत्यक्षस्य विषयः, भवति त्वागमस्य ।
नो खलु क्षणिकः शब्दो ऽर्थप्रत्यायने समर्थः, तस्यान्वयव्यतिरेककालानवस्थायिनो ऽशक्यसमयत्वेनार्थप्रतिपत्तेरनुपपत्तेः ।
तस्माद् यद्यपि साक्षान्नित्यो ऽहम् इत्यागमो नाभिधत्ते, तथापि विदितसंगतेरर्थप्रत्ययं कुर्वन्नात्मनो नित्यतामाक्षिपन्नित्यताविषयो भवति ।
यथाहुः
नित्यस्तु स्याद् दर्शनस्य परार्थत्वात् ॥
इत्यत आह---नागमविषयः ।
यद्यपि वर्णव्यक्तयः क्षणिकाः, तथापि स्वस्वसामान्यविशेषगत्वाद्युपहिता गवादिव्यक्तय इव गोत्वाद्युपधानाः शक्यसंकेता इति न नित्यतामाक्षिपत्यागम इत्यर्थः ।
भवतु किं नो बाध्यत इति ।
न खलु चन्द्रमसः परभागे हरिणसदसद्भावसन्देहः शक्यः कदाचिदप्युच्छेत्तुमस्मदादीनामित्यर्थः ।
कथं न बाध्यत इति ।
सन्दिग्धनित्यानित्यभावे शब्दे कृतकत्वं दृष्टमिति नानित्यत्वेन स्वभावतः प्रतिबद्धम् ।
तथा च न बुद्ध्यादीनामनित्यत्वं साधयितुमर्हतीत्यर्थः ।
सर्वमिति ।
कृतकत्वप्रयत्ननान्तरीयकत्वप्रत्ययभेदभेदित्वादीत्यर्थः ।
सर्वं चानुमानमिति ।
यदि च पञ्चरूपो ऽपि हेतुः, संशयकारणं सर्वमेवानुमानमिति सर्वमप्रमाणं स्यादित्यर्थः ।
वैनाशिकाः प्राहुः नित्यासंभवादिति ।
न, बाधापरिज्ञानादिति ।
बाधाविषयापरिज्ञानादित्यर्थः ।
स्वदेशे परोत्पत्तिप्रतिबन्धकत्वं सप्रतिधत्वम् ।
सौत्रान्तिकमते हि रूपं सप्रतिघमिष्यते मूर्तं च, नित्य एवेति वा अनित्य एवेति वा अभिलापो नोपपद्येत, स्थाणुरेवेति वा पुरुष एवेति वा अभिलापः ।
चोदयति---नैवं भविष्यतीति ।
मा भूदभिलाप इत्यर्थः ।
परिहरति---व्याहतमिति ।
स एवैकग्रन्थेनाह---ननु चेति ॥
तदेवं पञ्चरूपयोर्हेत्वोरेकत्र समवायाभावः उक्तः ।
यदि पुनरसत्प्रतिपक्षरूपरहितयोरेकत्र संभवो ऽङ्गीक्रियते, तथा च संशयहेतुत्वमित्यभिप्रायेण शङ्कते---अथ कृतकत्वेति, निराकरोति---तथापीति ।
प्रत्येकं सत्प्रतिपक्षत्वम्, मिलितयोस्त्वसाधारणत्वम्, तादृशः अन्यत्रादर्शनादित्यर्थः ।
तत् किमिदानीं सत्प्रतिपक्षतया कृतकत्वमसाधनमेव शब्दानित्यत्वे, तथा च बहु व्याहतं भवतीत्याशयवान् पृच्छति---यदा पुनरेवंभूताविति ।
उत्तरम्---तदा तयोरिति ।
ननु कृतकत्वस्य साध्यत्वात् श्रावणत्वस्य च सिद्धत्वात् प्रथमभाविना नित्यत्वानुमानेन सिद्धाङ्गकेनापहृतविषयं चरमभाविसाध्यङ्गकमनित्यत्वानुमानमेव बाध्यताम् इत्यत आह---यत्नश्च क्रियमाण इति ।
सिद्धमपि श्रवणत्वमनुमानसिकताद्यनित्यधर्मसाधारणतया सव्यभिचारं सन्नित्यत्वस्य साधनं न भवितुमर्हतोति ।
कृतकत्वस्य तु पाञ्चरुप्यम् ।
नित्यत्वस्य च प्रमाणबाधनमुपपादयिष्यत इत्यर्थः ॥
विप्रतिपत्तेरित्यस्य व्याख्यानम्---विप्रतिपत्तेरिति ।
यद्यपि विरुद्धा प्रतिपत्तिर्ज्ञानं विप्रतिपत्तिः, तथापि तस्या वादिप्रतिवादिगताया अत्यन्तपरोक्षत्वात् संशयकारणत्वानुपपत्तेः स्वकार्यं प्रवादं लक्षयतीत्यर्थः ।
अत्र भाष्यकारः उपलब्ध्यव्यवस्थाया अनुपलब्धव्यवस्थायाश्च पृथक् संशयकारणत्वं मत्वा समानधर्मोपपत्तेरित्यनेन गतार्थतां परिहरन्नाह स्म---पुर्वः समानो ऽनेकश्चेत्यादि ।
तदुपन्यस्य वार्त्तिककारो दूषयति---तत्रेति ।
नो खलु समानानेकधर्मोपलब्धौ सत्याम्, सत्यां च विशेषस्मृतौ साधकबाधकप्रमाणासद्भावे संशयो भवतीत्युक्तम् ।
तस्मात् नोपलब्ध्यनुपलब्ध्यव्यवस्थे पृथक् संशयकारणे इति ।
विशेषमपि दूषयति---समान इति ।
ननु यदि नासित भेदः, तत् किमिदानी सर्वेषां ज्ञातृस्थत्वाविशेषण त्रयाणामपि संशयकारणानां समानानेकविप्रतिपत्तीनामभेदः, तथा च पृथगुपादानवैयर्थ्यमित्यत आह---समानानेकधर्मयोरिति ।
पुनश्चोदयति---समानधर्मः सर्व एवायमिति ।
अयमभिसन्धिः ।
असाधारणो ह्यदृष्टपूर्वः क्वचिदपि न संशयं कर्तुमुत्सहते, यत् पुनरसाधारणवत्त्वं संशयहेतुत्वेनोपवर्णितं भाष्यकृता तत् समानमेव, न त्वसाधारणम् ।
यथाहुः,
अन्यो ऽसाधारणो धर्मस्तद्वत्तान्या च दृश्यते ।
सर्वसाधारणी सा चेदिष्टा संशयकारणम् ।
ततः साधारणस्यैव सिद्धा संशयहेतुता ॥
यच्च वार्त्तिककारेण सर्वतो व्यावृत्त्या असाधारणस्य संशयकारणत्वमुक्तम्, तत्रापि तदभावस्य साधारणस्य संशयहेतुत्वे किमायातमसाधारणस्य? यथाहुः,
सर्वतो ऽस्य निवृत्तत्वादभावात् संशयो यदि ।
अनन्यवृत्तिरूपस्य ततो ऽसाधारणस्य किम् ॥
इति ॥
विप्रतिपत्तिरपि विरुद्धहेतुद्वयसमुत्था एकस्मिन् संशयकारणम्, विरुद्धहेतुसमवायश्चासाधारण एव ।
स च साधारणे निविशते इति सूक्तम् सर्व एवायं समानधर्म एवाभिधीयत इति ।
परिहरति---न, सूत्रार्थापरिज्ञानदिति ।
न वयं सर्वत्र साधारणमपजानीमहे अन्वयव्यतिरेकव्यभिचारवक्तृगतत्वभेदमात्रमाद्रियमाणाः कारणभेदेन त्रिविधं संशयमाचक्ष्महे इत्यर्थः ॥
वार्त्तिककारो भाष्यकारमतमुपन्यस्य दूषयति---अपरे पुनरिति ।
साधकबाधकप्रमाणाभावरहितं त्रयमपि न संशयकारणमित्युक्तमित्यर्थः ।
अपि चैतयोः पृथक् संशयकारणत्वे ऽतिप्रसङ्गात् निश्चयपूर्वं न प्रवर्तेत लोकः, तथा च लोकविरोध इति दर्शयति---उपलब्ध्यनुपलब्ध्योर्द्वैविध्याच्चेति ।
न चास्य क्वचिदाश्वासो निःशङ्कता,
न चानभ्यासदशान्ने उपलब्ध्यनुपलब्ध्यव्यवस्थयां संशय इति वाच्यम्, अनभ्यासदशापन्ने हि दूराद् वह्निज्ञाने उपलब्ध्यव्यवस्थाया अपि न नागो वा नगो वेति संशेरते, किं तु किंशुककुसुमनिचयो वा उषर्बुधो वेति, तत्र समानधर्मोपपत्तिरेव कारणमितरसहिता ।
एवमयोग्यानुपलब्धिमात्रादपि न संशयो विना समानधर्मादिदर्शनमित्युक्तम् ।
विकल्प्य दूषणान्तरमाह---येषां चेति ।
सामग्रीभेदेन भेदे त्रेविध्यं संशयस्य सामग्रीनिवेशिकारणभेदेन तु पञ्चविधः, अपि त्वनेकविध एत्यर्थः ॥
समानानेकधर्मोपपत्तेरित्यत्र षष्ठतत्पुरुषं मत्वा आक्षिपति---न समानधर्मग्रहणादिति ।
बहुव्रीहिं मत्त्वा समाधत्ते---अयं परिहार इति ।
अथेति ।
कश्चासौ विशेषश्चेति किंविशेषः अनुपलब्धपूर्वो विशेषो ऽस्येत्यर्थः ।
उपलब्धपूर्वायां व्यक्तौ संशये तद्गता विशेषाः सुस्मूर्षिताः तज्जातीयव्यक्त्यन्तरसंशये त्वन्यगतास्ते सामान्यद्वारेणोपलब्धा एवेति---सामान्यप्रत्यक्षादिति ।
समान्यवानेव सामान्यः ।
यथा सामान्यो ऽयं धर्मसेतुर्नृपाणाम्
इति सामान्यश्चासौ प्रत्यक्षश्चेति धर्मी तथोक्तः ।
अव्यवस्थितविशेषत्वं साधकबाधकप्रमाणाभाव इत्यर्थः ॥
बौद्धाभिमतं संशयलक्षणमुपन्यस्यति---अन्ये त्विति ।
निगूढाभिप्रायो दूषयति---तैरपीति ।
अविदिताभिप्रायः शङ्कते---धर्मी चेदिति ।
दूषणवादी स्वाभिप्रायमुद्धाटयति---यदि तावदिति ।
बौद्धानां हि राद्धान्ते न रूपादिधर्माश्रयः कश्चिदस्ति धर्मी ।
ततश्च सिद्धान्तव्याकोपः ।
यदि त्वाह भवतु राद्धान्तव्याकोपो न हि शास्त्राश्रयो वाद इति, तत्रापि दोषान्तरमाह---धर्मधर्मिणोश्चेति ।
अथाप्यस्मद्दिशेति ।
समानानेकधर्मपदवद् बहुव्रीहिरित्यर्थः ।
सामान्यशब्दस्तु भवितरि दृष्टो यथा,
सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः ।
इति भावः ।
व्यर्थं चाभिधानमिति ।
सामान्यविशेषतद्वदभ्युपगमे ऽपि तद्वतो ऽश्रवणात् साधर्म्यस्य सामान्यस्य विशेषा इति गम्येत, न च सामान्यस्य विशेषा इति विरुद्धार्थमभिधानं स्यादित्यर्थः ।
वैशेषिकलक्षणे हि विशेषाप्रत्यक्षादित्यनेन साधकबाधकप्रमाणाभावो दर्शितः ।
इह त्वसौ वक्तव्यः ।
तस्मात् न्यूनं बौद्धलक्षणमित्याह---उपलब्धीत्यादि ।
यदि च साधर्म्यदर्शनादित्यनेनान्वयमात्रव्यभिचारो ऽभिमतो बौद्धेन ततो ऽनेकधर्मदर्शनादिति वक्तव्यमिति ।
तदेवं सामान्यलक्षणमेकं, त्रीणि च विशेषलक्षणानीति स्थितम् ॥
तदेतानि चत्वारि लक्षणानि पु।जीकृत्य विचारयति---समानेति ।
यदि तावत् संशयसामान्यलक्षणे स्थिते त्रीणि विशेषलक्षणानि ततः संशयत्वेनोपगृहीतानां त्रयाणां परस्परव्यवच्छेदकमात्रं लक्षणं वक्तव्यम् ।
ततः समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरित्येतावन्मात्रं वक्तव्यम् ।
कृतमत्र शेषेण, तन्मात्रादेव परस्परव्यवच्छेदसिद्धेः ।
तस्मात् परस्परव्यवच्छेदमनप्रेक्ष्य संशयकारणकथनपरमेतत् सूत्रम् ।
तथा चान्यान्यपि संशयकारणानि सन्तीति तान्यपि वक्तव्यानि ।
यदा खल्वयमात्मनः शमादौ संशेते, किमहं चन्दनवनितादिसन्निधाने रज्ये विरज्ये वेति, सो ऽयमस्यात्मनः सन्निकर्षजन्मा संशयः आन्तरस्य शमादेर्विषयस्येति समाधत्ते---अस्तु तावदिति ।
यद्यपि तावन्मात्रेण समानजातीयव्यवच्छेदसिद्धिः, तथापि विजातीयनिर्णयादिव्यवच्छेदाय सामान्यलक्षणमनुवर्तनीयम् ।
तथा च प्रतिपत्तिगौरवं स्यादिति तल्लाघवाय शेषापेक्षा युक्ता ।
आत्ममनः---सन्निकर्षादयस्त्वत्यन्तसाधारणा विजातीयव्यवच्छेदायापि नालमिति नोपत्ता इति भावः ।
एवं संशयकारणावधारणादर्थात् संशयभेदावधारणमित्युक्तम् ।
संप्रति कारणविशेषणत्वेन संशयस्वरूपमेवोच्यत इत्यह---स्वरूपनिर्देशो वेति ।
विप्रतिपन्नो ऽपि पुरुषः संदिग्धवत् प्रतिपाद्य एवति मन्वानश्चोदयति---संशयवदिति ।
विप्रतिपन्नो न शिष्यः, किं तु जल्पवितण्डाभ्यां शिष्यतो नीत्वा सन्दिग्ध एव प्रतिपाद्य इत्यभिप्रायेण परिहरति---सत्यमिति
मूल पाठ: Nyāyasūtra with Vacaspatimiśra's Nyāyavārttikatātparyaṭīkā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0