न्यायसूत्र (टीका सहित) · अध्याय 12
इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां
पञ्चमस्याध्यायस्याद्यमाह्निकम् ॥
मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्तिकतात्पर्यटीकायां
पञ्चमोध्यायः
न्य्स्_5,2.1: प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरमर्थान्तरं निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्तकालं न्यूनमधिकं पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ॥
विप्रतिपत्त्यप्रतिपत्त्योर्विकल्पाद्वैचित्र्यान्निग्रहस्थानबहुत्वमिति सङ्क्षेपेणोक्तं तदिदानीं विभजनीयम् ।
तत्र य एवमाहुः सर्वो ऽयं साधनदूषणप्रकारो बुद्ध्यारूढो न वास्तव इति ।
तान् प्रत्याह पराजयवस्तूनीति ।
पराजयो वसत्येष्विति पराजयस्थानानीत्यर्थः ।
काल्पनिकत्वे कल्पनायाः सर्वत्र सुलभत्वात्साधनदूषणव्यवस्था न स्यादिति भावः ।
निग्रहस्थानानि पर्यायान्तरेण स्पष्टयति ।
अपराधेति ।
य आहुरसाधनाङ्गं वचनमदोषोद्भावनं द्वयोर्निग्रहस्थानत्वमन्यत्तु न युक्तमिति तान् प्रत्याह ।
सामान्यतो द्वे निग्रहस्थाने ।
सामान्यविवक्षायां प्रतिज्ञाहान्यादयो द्वार्विशतिरपि न भिद्यन्ते तत्त्वसाधनाङ्गं वचनमदोषोद्भावनमिति भवद्भिः संगृहीतमृषिणा च विप्रतिपत्त्यप्रतिपत्तिभ्यामिति न कश्चिद्विशेषः ।
अत्र विचारयति कर्तृकर्मकरणानामिति ।
तत्रैके वर्णयन्ति पक्षस्येति ।
(549।13) यथा पक्षोद्देशेन साधनं प्रवर्तमानं पक्षस्य एवं तदुद्देशेन दूषणानि प्रवर्तमानानि पक्षस्यैवेति ।
एवं चाहुर्दूषणानीति ।
न्यूनतादयो हि सर्वे पक्षोद्देशेन प्रवर्तमानाः पक्षस्यैवेत्यर्थः ।
दूषयति एतत्तु न सम्यगिति ।
पक्षोद्देशेन प्रवृत्तेः पक्षविषयतां नापजानीमः साक्षात्तु तद्विषयतां निराकुर्मः ।
तस्य वस्तुसतस्तादवस्थ्यात् ।
एवं साधनमपि यत्रासमर्थं तत्र प्रयुज्यमानं न स्वतो दुष्यति यत्र तु समर्थं तत्साधयत्येव तस्मात्कर्तुरेव दोष इत्याह ।
तस्मादसमर्थयोरिति ।
(550।1) न केवलं स्वातन्त्र्यात्कर्तुर्निग्रहो ऽपि तु तदाधारत्वाद्विप्रतिपत्त्यप्रतिपत्त्योरित्याह ।
विप्रतिपत्त्यप्रतिपपत्त्योश्चेति ।
ननु वाक्ये न्यूनतादयो दोषा न पुरुषाश्रया इत्यत
आह ।
विप्रतिपत्त्यप्रतिपत्ती चेति ।
न स्वरूपेण वाक्यं दुष्टं तस्य तादवस्थ्यादित्युक्तं किं तु पुरुषस्य विप्रतिपत्त्यप्रतिपत्तिभ्यां तथा प्रतिभाति तेन वाक्यगतन्यूनतादिदर्शनात्पुरुषे विप्रतिप्रत्त्यप्रतिपती प्रतीयेते तेन द्वारेण पुरुषो निगृह्यते न तु वाक्यमेतावता च प्रतिज्ञादोष इत्युच्यते ।
नचायमपि नियमो यद्वाक्यद्वारेण पुरुषी निगृह्यते अज्ञानादिषु तदभावादि त्याह ।
कानि चिन्निग्रहस्थानीति ।
शङ्कते द्वविध्यानुपपत्तिरिति ।
सामान्यं विवक्ष्यते विशेषो वा सामान्यविवक्षायां निग्रहस्थानमित्येवास्तु तस्य सर्वत्राविशेषाकुतो द्वैविध्यं विशेषविवक्षायां प्रतिज्ञाहान्यादीनि बहूनीत्ययुक्तं द्वैविध्याभिधानमुभयथा ऽपीत्यर्थः ।
निराकरोति न सामान्यभेदविस्तरस्य विवक्षातः प्रवृत्तेरिति ।
सामान्यविवक्षायामपि निग्रहस्थानमिति नोक्तम् उद्देशादविशेषप्रसङ्गात् ।
तस्मात् लक्षणं प्रणयता ऽन्यथा तदसम्भवादवान्तरसामान्यद्वैविध्यविवक्षया सामान्यं लक्षितम् ।
भेदानां तु विस्तरविवक्षया प्रतिज्ञाहान्या दयो ऽपि प्रपञ्चिता इत्यर्थः ।
आन्तर्गणिकानां तु भेदानामानन्त्यमित्याह ।
उदाहरणमात्रत्वाच्चेति ।
द्वाविंशतिसंख्यावच्छिन्नो भेद उदाहरणमात्रम् ।
आन्तर्गणिकभेदविवक्षयां त्वानन्त्यमित्यर्थः ।
भाष्यमनुभाष्याक्षिवपति प्रायेण प्रतिज्ञेति ।
समाधत्ते क्रियावचनदोषद्वारेणेति ।
(551।1) वचनदोषद्वारेणेत्येतावन्मात्रे वक्तव्ये क्रियादोषामिधानं दृष्टान्तार्थम् ।
नन्वाश्रयार्थो ऽप्ययुक्तः पुरुषाश्रयत्वादित्यत आह ।
न चाधाराधेयभाव
इति ।
अपरमपि भाष्यमनुभाष्याक्षिपति तत्त्ववादिनमतत्त्ववादिनं चेति ।
समाधत्ते ।
न परापदिष्टेति ।
सम्यम्
साधने जात्युत्तरे दत्ते तस्य जातित्वमनुद्भावयंस्तत्त्ववाद्यपि निगृह्यतैत्यर्थः
न्य्स्_5,2.2: प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥
लक्षणं तु ।
प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः (सू. 2) ॥
तदेतत्सूत्रं भाष्यमतेन तावद् व्याचष्टे प्रतिदृष्टान्तस्य योधर्मस्तं यदा स्वदृष्टान्ते ऽभ्यनुजानातीति ।
तदेतद्भाष्यव्याख्यानमुपन्यस्य वार्त्तिककारो दूषयति ।
एतत्तु न बुध्यामहे कधमत्र प्रतिज्ञा हीयत इति ।
अनित्यः शब्द ऐन्द्रियकत्वाद्
घटवदिति साधने प्रयुक्ते प्रतिवादिना चानैकान्तिकत्वे सामान्येनोद्भाविते तृतीयस्थानपतितो वाद्याह ।
अस्तु तर्हि सामान्यवद् घटादिर्नित्य
इति ।
तथा सत्यैन्द्रियकत्वमनैकान्तिकं न भवति नित्यमात्रागामित्वाद् घटादीनामपि नित्यताभ्युपगमादित्याशयेन यद्यपपि तथा ऽपि साक्षादनैकान्तिकदोषोद्वारमक्षरारूढमनुक्वा स्वदृष्टान्ते नित्यतां प्रतिपद्यते, नित्यताप्रतिपत्तेश्चासिद्धता दृष्टान्ते दोषो भवति साध्यविकलतेत्यर्थः ।
सो ऽयं दृष्टान्तदोषेण हेतुदोषेण वा विरुद्धत्वेन घटादीनामपि नित्यत्वाभ्युपगमेनैन्द्रिनयकत्वस्य हेतोः साध्यानित्यत्वविरुद्धेन नित्यत्वेन व्याप्तत्वाद् निग्रहो वादिनो न प्रतिज्ञाहानिः ।
न खल्वनेनास्तु शब्दो नित्य इतिप्रतिज्ञा परित्यक्ता किं त्वस्तु घटो ऽपि नित्य इत्युक्तम् ।
यदि दृष्टान्तपरित्यागेन प्रतिज्ञातार्थस्यासिद्धेः प्रतिज्ञाहानिरित्युच्यते ततः सर्व एव दोषः प्रतिज्ञाहानिः सर्वस्मादेव दोषात्प्रतिज्ञाहानेरुपपत्तेः ।
तस्मात्कथं चिद् दृष्टान्तपरित्यागेन प्रतिज्ञाहानिरुपचरितव्नया च चासौ प्रधानं प्रतिज्ञाहानिं विना भवितुमर्हतीत्याह ।
दृष्टान्तं चजहदिति ।
(552।3) तदेवं भाष्यकरीयं व्याख्यानं दूषयित्वा स्वमतेन व्याचिख्यासुः पृच्छति ।
कथं तर्हीति ।
दृष्टश्चासावन्ते निगमने व्यवस्थित इति दृष्टान्तः ।
दृष्टान्तप्रतिदृष्टान्तौ पक्षप्रतिपक्षावुच्येते ।
एतदुक्तं भवति ।
प्रतिदृष्टान्तस्य प्रतिपक्षस्य सामान्यस्य यो धर्मो नित्यत्वं तं स्वपक्षे शब्दे ऽभ्यनुजानाति ।
उदाहरणमाह ।
यथानित्यः शब्द ऐन्द्रियकत्वादिति ।
द्वितीयपक्षवादिति सामान्येन प्रतयवस्थितैदमाह तृतीयपक्षे स्थितो वादी यदि सामान्यमैन्द्रिपयकं नित्यं शब्दो ऽप्येवं भवत्विति ।
प्रतिज्ञाहानिः ।
अत्र चानैकान्तिकत्वेन प्रत्यवस्थितैत्युपलक्षणं येन केन चित्ग्नकारेण स्वप्रतिज्ञातार्थानिर्वाहं पश्यन् प्रतिज्ञार्थञ्जहत्प्रतिज्ञाहानिमाप्नोतीति परमार्थः ।
यदप्युच्यते स्वयमेव घटमनित्यमैन्द्रियकमुदाहृत्य घटस्यैन्द्रियकत्वं पश्यन् कथमनुन्मतः सन्
सामान्यस्य नित्यस्यैन्द्रियकत्वदर्शनमात्राच्छब्दे नित्यत्त्वमभ्युपगच्छेत्किन्तूभयत्रदर्शनात्संशयित्तः स्यात् तत्र सर्वं नित्य मिति सांख्यीयराद्धान्तावष्टम्भेनापि स्वपक्षनिर्वाहं पश्यतो ऽनैकान्तिकत्वोद्धाराय प्रेक्षावतो ऽपि प्रवृत्तिसम्भवात् ।
न चात्यन्तिकं प्रेक्षावत्त्वमिह ग्राह्यम् ।
तादृशस्यनिग्रहाधिकरणत्वानुपपत्तेः ।
तस्माद्यथा जडं प्रति विचारो नास्त्येवं प्रामाणिकमपि प्रति निग्रहावतातारो नास्तीति मध्यमो जनो निग्राह्यः ।
तस्य च सम्भवन्त्येवं प्रमादा इति ।
शङ्कते ।
प्रसङ्गविधानादिति चेत् ।
निराकरोति तच्च न अत एव तत्प्राप्तेः ।
हेतुदोषमुद्दिधीर्षुः प्रसञ्जयन्नभ्युपगच्छत्येव न हि साङ्ख्यीयं राद्धान्तमनभ्युपगच्छन्ननैकान्तिकत्वमुद्धर्तुमर्हतीति भावः ।
तदनेन परमतं निराकृतप्रायमपि साक्षान्निराकर्त्तुमुपन्यस्यति ।
हेतुदोषेणानैकान्तिकत्वलक्षणेन चरितार्थत्वान्न प्रतिज्ञाहानि र्निग्रहस्थानमित्यन्ये ।
(553।1) यदाह कीर्तिः ।
ऽतस्मादैन्द्रियक त्वस्य नित्यानित्यपक्षवृत्तेर्व्यभिचारादसाधनाङ्गस्योपादानान्निग्रहो न प्रतिपक्षधर्मस्याभ्यनुज्ञानादिति ।
निराकरोति ।
नानैकान्तिकदोषपरिहारेण विप्रतिपत्तेस्तदुपपत्तेः ।
यदा हि सांख्यपक्षावलम्बनेन शब्दनित्यत्वमभ्युप इति तदा प्रतिज्ञाहानिः न विरुद्धो हेतुर्नाप्यनैकान्तिको विपक्षाभावात् केवलं प्रतिज्ञातार्थहानमेवास्य पराजयस्थानं, विप्रतिपत्तेः स्वसाध्यविरुद्धप्रतिपत्तेरिति सर्वमवदातम्
न्य्स्_5,2.3: प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम् ॥
एतद्व्याचष्टे प्रतिज्ञातो मीमांसकं प्रति वैशेषिकेणानित्यः शब्दः इति तस्य साधनमैन्र्दियकत्वाद्धटवदिति एवमुक्तस्य प्रतिषेधो मीमांसकेन क्रियते प्रतिदृष्टान्तेन हेतुव्यभिचारः तमाह सामान्यमैन्द्रियकं नित्यमिति ।
तस्मिन्प्रतिषेधे मीमांसकेन कृते धर्मवविकल्पात्तथा निर्द्देनश इति यावन्नोचयते तावदर्धोक्त एव धर्मविकल्पादित्यनूद्य व्याचष्टे ।
दृष्टान्तप्रतिदृष्टान्तयोर् धटसामान्ययोः साधर्म्यमैन्द्रियकत्वं तद्योगे तद्धर्मभेदात् सामान्य मैन्द्रियकं सर्वगतमैन्द्रियकस्त्वसर्वगतो घट इति धर्मविकल्पात्तदर्थं प्रति ज्ञातार्थसिद्ध्यर्थं शब्दस्यासर्वगतत्वं मीमांसकानां प्रतिपादयितुं निर्द्देशः तस्य हि शब्दस्यासर्वगतत्वमसिद्धम् ।
प्रश्नपूर्वकं निर्द्देशस्वरूपमाह कथम् ।
यथा घटो ऽसर्वगतो ऽनित्य इति एवं शब्दो ऽप्यसर्वगतो ऽनित्य
इति ।
इदं हि प्रतिज्ञावाक्यम् अनित्यः शब्द इतिवदसर्वगतः शब्द इति मीमांसकं विप्रतिपन्नं प्रति निर्द्देशान्न तु कृतकत्वादितिवदुदाहरणसाधर्म्यादस्य हेतुलक्षणमस्ति साध्यनिर्देशः प्रतिज्ञेति तु प्रतिज्ञालक्षणयोगात्प्रतिज्ञान्तरमेव यद्यप्यस्य मनसिविपरिवर्तते असर्वतत्वं साधयित्वा मया असर्वगतत्वे सतीति ऐन्द्रियकत्वं हेतुर्विशेषणीय इति तथाप्येतदनेन न कृतं किं त्वसर्वगतः शब्दो घटवदित्युक्त्वैव विरतः परार्थानुमाने च वचनगता गुणदोषा विचार्यन्ते न तु वचनानपेक्षं वस्तु, तदिदमाह
असर्वगतः शब्द इति द्वितीया प्रतिज्ञा हेतुरहिता ।
अस्य प्रश्नपूर्वकं निग्रहस्थानत्वमाह तत्कथमिति ।
अनर्थकं निष्प्रयोजनमिष्टार्थसिद्धेरभावादिति ।
वार्त्तिकं तत्रानित्यः शब्द इति प्रतिज्ञाप प्रथमा ।
अस्यां सामान्येनैन्द्रियकेण हेतोरनैकान्तिकत्वात्प्रतिहतो वादी प्रतिवादिना असर्वगतः शब्दो ऽनित्य
इति प्रतिज्ञान्तरं पूर्वप्रतिज्ञासिद्ध्यर्थं करोतीत्यनुषज्यते ।
पृच्छति कथमिति ।
उत्तरम् ।
साधनसामर्थ्याप्रज्ञानात् ।
अनित्यः शब्द
ऐन्द्रियकत्वाद् घटवदित्येताववदुक्त्वा निराकाङ्क्षो वादी न त्वसर्वगतत्वे सतीति साधनं विशेषितवान् न चाविशिष्टं साधनमत्रार्थे ऽसमर्थं विशिष्टं तु समर्थं तस्य सामर्थ्यमपरिज्ञायाविशिष्टे तदारोप्याविशिष्टसाधनं प्रयुक्तवान् ।
तत्र निराकाङ्क्षो वादी सव्यभिचारहेतुप्रयोगादेव पराजीयते न तु प्रतिज्ञान्तरप्रयोगात् ।
यदि तु वादिन्यपर्यवसितवाद एव मध्ये प्रतिवादिना हेतोरनैकान्तिकत्वे उद्भाविते तमेवहेतुमसर्वगतत्वे सतीति विशेष्टुं मीमांसके प्रति शब्दस्यासर्वगतत्वं प्रतिजातीते ।
असर्वगतः शब्द इति प्रतिज्ञाय च न हेतुं ब्रवीति तदानैकान्तिकत्वोद्धाराय प्रतिज्ञान्तरकरणान्नानैकान्तिकत्वेन पराजीयते अपि तु प्रतिज्ञान्तरादेव, न हि प्रतिज्ञा प्रतिज्ञान्तरं साधयितुमर्हतीति ।
सो ऽयं प्रतिज्ञांमात्रस्यासाधकत्वाप्रतिपत्त्या ऽसाधकस्यैव वा साधकत्वप्रतिपत्त्या पराजीयते ।
तदेतदाह न च प्रतिज्ञा प्रतिज्ञान्तरं साधयति ।
तेन प्रतिज्ञा यत्रार्थे समार्था तदपरिज्ञानात्पञ्चावयवसाध्ये च सामर्थ्यारोपणादपरिज्ञानादिति श्लिष्टनिर्द्देशः प्रसज्यप्रतिषेधपर्युदासौ विवक्षितौ तेनाज्ञानाद्विपरीतज्ञानाच्च प्रतिज्ञान्तरं निग्रहस्थानमिति ।
यत्पुनरुच्यते परैः अत्यन्तासम्बद्धमेतद् यत्प्रतिज्ञा प्रतिज्ञासाधनायेति यो हि प्राक् प्रतिज्ञामुक्त्वा हेतूदाहरणादिकं वक्तुं जानाति स कथं चिदनुक्रमं साधनस्य जानात्येव जानन् कथमवि कलान्तःकरणः प्रतिज्ञामेव प्रतिज्ञानसाधनायोपाददीतेति ।
तत्र ब्रूमः
नायं प्रतिज्ञया प्रतिज्ञा साधनीयेति बुद्ध्या प्रवृत्तः किं त्वसर्वगतत्वं शब्दस्य मीमांसकं प्रति साधयित्वा तेनैन्द्रियकत्वं विशिष्यानैकान्तिकत्वमुद्धरणीयमिति मनोरथेन प्रवृत्तः प्रतिज्ञां कृतवान् असर्वगतः शब्द इति ।
अथास्य प्रतिवाद्यवष्टम्भात्परिषद्दर्शनाद्वा स्तम्भितत्वे साधनाप्रतिभनया तूष्णीं भवतः प्रेक्षावतो ऽपि प्रतिज्ञान्तरं भवति निग्रहस्थानम् ।
अयं च विकलान्तःकरणस्य निग्रहो भवद्भिरप्युक्त
एव तदभ्युपगम्याप्रतिभया तूष्णींभावादिति वदद्भिः सो ऽयमीदृशो ऽसत्प्रलापो भवद्भिः शास्त्रे निबन्धनीयोन त्वस्माभिरिति व्यक्तमियं राजकुलस्थितिरिति सर्वं चतुरसम्
न्य्स्_5,2.4: प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ॥
अत्र प्रतिज्ञाहेत्वोरिति प्रतियोगिद्वयमात्रोपलक्षणपरम् ।
तेन दृष्टान्तादयो ऽपि प्रतियोगिन उन्नेयाः ।
एतदुक्तं भवति येषां वाक्यगतानां पदार्थानां मिथो व्याघातः प्रतीयते प्रमाणान्तरं च विरोधकं स विरोधो नाम निग्रहस्थानम्1 लक्ष्यस्थितस्पय प्रतिज्ञाग्रहणस्याप्युपलक्षणार्थत्वात् ।
नचैवं भाण्डालेख्यन्यायः एकदेशेनाव्यापकेन समुदायसंग्रहे स हि भवति, न तु व्यापकेन संग्रहे व्यापकं चानवयवेन इदंप्रतियोगिमिथुनयोर्विरोधः
अतो यथाश्रुति तावित्सूत्रं व्याचष्टे वार्तिककारः
यत्र प्रतिज्ञा हेतुना विरुध्यत इति ।
द्वयोर्विरोधे यस्य प्रमाणान्तरानुग्रहस्तेन तद्बाध्यत इति तेन तद्विरुध्यतैत्युच्यते ।
यत्र प्रतिज्ञया हेतुर्विरुध्यते तदुदाहरति ।
यथा गुणव्यतिरिक्तं द्रव्यं भेदेनाग्रहणादिति ।
अत्र हि भेदेनाग्रहणादित्यनेन ग्रहणप्रतिषेधेन ग्राह्याभाव उपलक्ष्यते ।
तेनैवं हेत्वर्थो भवति गुणव्यतिरिक्तं द्रव्यमव्यतिरेकादिति ।
सो ऽयं प्रतिज्ञाहेतुपदयोर्व्याप्तिस्मरणानपेक्ष
एव परस्परव्याघातो ऽस्तितास्तिपदयोरेव ।
न चैवंविधः शब्दे नित्यत्वकृतकत्वयोर्येन कृतकत्ववद्विरुद्धो ऽयं हेत्वाभासः स्यात् ।
तत्र हि कृतकत्वस्य नित्यत्वेन व्याप्तिस्मरणापेक्ष
एव विरोधः प्रतीयते न त्वयं तथा अस्तिनास्तिवत्स्वभावविरोधात् ।
यद्यप्ययमसिद्धो ऽपि हेतुस्तथा ऽप्यस्यासिद्धिर्बाधकं प्रमाणान्तरमनुसृत्य प्रतिपत्तव्या प्रतिज्ञाविरोधस्तूच्चारणमात्रादेव प्रथमत एव गम्यत इति ।
तेनैव दूषितेनासिद्धिः पश्चात्तनी न दूषणत्वाय कल्पते भस्मीकृते दहनवत् ।
प्रतिज्ञाहेतुविरोधमात्रेण च निग्रहसिद्धेः सुहृद्भावमात्रेण प्रतिज्ञाया बलवत्तास्मरणम् ।
प्रतिज्ञायाश्चात्र बलवत्त्वं प्रमाणान्तरानुग्रहात् ।
तथा हि दर्शनस्पर्शनाभ्यामेकार्थप्रतिसंधानाद्रूपादिव्यतिरिक्तं द्रव्यं सिध्यतीति तदनुगृहीता प्रतिज्ञैव हेत्वर्थं बाधत इति ।
एतेनैवेति ।
लक्षणेन ।
श्रमणा गर्भिंणीति श्रमणा ब्रह्मचारिणी नान्तर्वत्नी भवितुमर्हति जितेन्द्रयस्योपस्थसंयमो हि ब्रह्मचर्यं, न--चासाधनाङ्गस्य प्रतिज्ञाया वचनादेव निगृहीत इति कृतं विरोधोद्भावनेन निष्पादितक्रिये कर्मणि अविशेषाभिधायिनो दूषणस्य दूषणन्यायातिपातादिति सांप्रतम् ।
प्रतिज्ञायाः साधनाङ्गत्वस्य प्रथम एवाध्याये दर्शितत्वात् ।
हेतुविरोधो ऽपि यत्र हेतुना प्रमाणान्तरेणानुगृहीतेन प्रतिज्ञा बाध्यते ।
यथा सर्वं पृथगिति प्रतिज्ञा न किं चिदेकमित्यर्थः ।
हेतुः समूहे भावशब्दप्रयोगादिति1 एकसमुच्चये घटादिप्रयोगादित्यर्थः ।
नास्त्येकमेकसमुच्चयश्चेति वचनं मिथो विरुध्यते विनैव व्याप्त्यनुस्मरणमिति ।
न च सर्वनास्तित्ववादिनो नैकसमुच्चयोव
ऽस्तीति वक्तव्यम् असति हेतौ साध्यसिद्धेरयोगात् ।
न च कल्पितस्य हेतोः साधनाङ्गतेति तत्र तत्र निवेदितम् ।
अत्र चैकसमुच्चयस्य प्रमाणानुग्रहान्नैकं किं चिदिति प्रतिज्ञा हेतुना बाध्यते ।
एतेन लक्षणेन प्रतिज्ञाया दृष्टान्तविरोधो ऽपि वक्तव्यः ।
यथा नित्यः शब्दः प्रमेयत्वाद् यत्प्रमेयं तन्नित्यं यथाकाशमिति साधर्म्यदृष्टान्तः ।
यद्यप्यत्र वस्तुतो हेतुरनैकान्तिकस्तथा ऽपि दृष्टान्तस्य प्रतिज्ञाविरोधेनैव निगृह्यते विरोधस्य वाक्ये प्रथममवगतेः ।
अनित्यं घटाद्युन्नीयानैकान्तिकत्वप्रतिपत्तेस्तज्जधन्यत्वादिति ।
हेतोश्च दृष्टान्तादिभिर्विरोध एतेन वक्तव्य
इत्यनुषज्यते यथा नित्यः शब्द ऐन्द्रियकत्वादनैन्द्रियद्व्यणुकवदिति ।
अत्राप्यैन्द्रियकत्वानैन्द्रियकत्वयाः शब्दतो विरोधः प्रतीयते साधनवैकल्यं तु वस्तुस्वभावालोचनयेति विशेषः ।
एवमुपनयेन विरोधो ऽनैन्द्रियकश्च शब्द इति ।
अत्रापि वस्तुस्वभावालोचनया ऽनैन्द्रियकत्वासिद्धिः प्रतीयते शब्दतस्तु विरोध इति ।
प्रमाणविरोधश्च प्रतिज्ञाहेत्वोर्वक्तव्यः ।
(554।1) यद्यपि बाधितविषयं हेत्वाभासान्तर्गतं तथापीहाप्यस्तीति विरोधहेत्वाभासयोरत्र निग्रहस्थानयोः समावेशो ऽस्तु न क्व चिद्विषये समावेशादानर्थक्यम् ।
विषयान्तरे समावेशाभावादर्थवत्त्वात् ।
दर्शितं चानन्तरमेव भिन्नविषयत्वमिति ।
तदेवं साधनवादिनो विरोधं निग्रहस्थानमभिधायोत्तरवादिनो ऽपि निग्रहस्थानमनेनैव संगृहीतमित्याह परपक्षसिद्धेन गोतवादिनेति ।
यदा हि बौद्धेन प्राभाकरं प्रति साध्यते अनित्यः शब्दः श्रावणत्वादिति ।
यद्यनित्यत्वं न भवेच्छ्रावणत्वं न स्यादिति प्राभाकरो ऽनैकान्तिकत्वमुद्भावयति श्रावणं शब्दत्वं नित्यं चेति तदास्यानैकान्तिकत्वोद्भावनं स्वकीयशब्दत्वनिराकरणविरुद्धमिति ।
परपक्षसिद्धं गोत्वाद्यपीदृश एव विषये विरुद्धे द्रष्टव्यम् ।
सिद्धान्तविरुद्धं च साधनं विरुद्धमित्याह ।
स्वपक्षानपेक्षं च ।
ननु यद्यनैकान्तिकोद्भावनमपि विरुद्धं कस्तर्ह्यनैकान्तिकत्वापादनस्य विषय इत्यत् आह ।
उभयपक्षसम्प्रतिपन्नस्त्विति ।
देशयति ।
दृष्टान्ताभासा इति ।
अवयवान्तरं हि प्रतिज्ञाहेत्पवादिभ्य उदाहरणे तेन हेत्वाभासोक्त्या तस्य सङ्ग्रहः।पारम्पर्येण तूदाहरणाभासस्य हेतुदूषकत्वेन सर्वमेव हेतुदूषकमिति भावः ।
परिहरति हेत्वाभासपूर्वकत्वादिति ।
हेत्वाभासा इत्यत्र हेतुशब्दः स्वार्थमपरित्यज्य दृष्टान्तमुपलक्षयति ।
उपलक्षणे हेतुरुक्तः
हेत्वाभासपूर्वकत्वाद्धेत्वाभासप्रधानकत्वाद्
दृष्टान्ताभासेनापि हेतुरेव दूष्यते यतः ।
न चैतावता प्रतिज्ञादिदोषोपलक्षणप्रसङ्गः ।
न हि यत्र यत्र निमित्तमस्ति तत्सर्वमुपलक्षणीयं,
किं तु यदुपलक्ष्यते तत्रावश्यं निमित्तं वक्तव्यम् ।
न च सूत्रकारस्य सर्वत्र लाघवादरो दृढ
इत्युक्तम् ।
तस्मात्सर्वं रमणीयम्
न्य्स्_5,2.5: पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः ॥
ऐन्द्रियकत्वस्य हेतोरनैकान्तिङ्कत्वोद्भावनेन शब्दानित्यत्वपक्षे प्रतिक्षिप्ते वादी प्रतिवादिनं ब्रूयादनैकान्तिकत्वमुद्दिधीर्षुः कः पुनराहानित्यः शब्द इति ।
यद्यहमनित्यः शब्द इति प्रतिज्ञातमपह्वोतुं शक्नोति तदा न सामान्येन नित्येन मे हेतुरनैकान्तिको भवतीति बुद्ध्या ऽह्नुपते सो ऽयमेवंवादी न शक्यो ऽनैकान्तिकत्वेन जेतुम् ।
अपह्ववस्यापह्नवत्वावेदने ऽनैकान्तिकत्वोद्धारात्तस्मादनैकान्तिकस्यानैकान्तिकत्वस्थापनायापह्नवस्यापह्नवत्वमुद्भावनीयम् ।
तत्र किमपज्नवत्वमुद्भाव्यानैकान्तिकत्वं व्यवस्थाप्य निगृह्यतामुतापह्नवादेवेति संशये ऽपह्नवत्वोद्भावनेनैव पूर्वापरपराहते निर्गृह्यते नानैकान्तिकत्वेन तत्पूर्वकत्वादनैकान्तिकत्वस्थापनस्य ।
तस्माद्यदुक्तं कीर्तिना किमिदानीं हेत्वाभासादुत्तरप्रतिज्ञासंन्यासापेक्षया तस्य प्रतिवादिनो हेत्वाभास एवाद्यं निग्रहस्थानमिति तदप्यपास्त् ।
प्रतिज्ञासंन्यासस्यैव पूर्वभावित्वात् ।
यदपि तेनोक्तं पक्षप्रतिषेधे तूष्णींभवतस्तूष्णींभावो नाम निग्रहस्थानं प्रलपतश्च प्रलपितं नामेत्याद्यपि वाच्यं स्यादिति ।
तदप्यसांप्रतम् ।
न हि तूष्णीम्भावेन प्रलपितादिभिर्वा शक्यमनैकान्तिकत्वमुद्धर्तुं यथा प्रतिज्ञार्थापह्नवेन, न चैते हेत्वाभसोद्भावनस्य पुरस्तात्तनाः तस्मादेतदप्यनिरूपिताभिधानाद्यत्किञ्चिदिति
न्य्स्_5,2.6: अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ॥
व्याख्यातुं निदर्शनमाह निदर्शनमेकप्रकृतीदं व्यक्तं भूतभौतिकेन्द्रियमेकप्रकृतीनां विकाराणां परिमाणात् ।
तद्यथा एकमृत्पूर्वा घटशरावोदञ्जनादयः परिमिता दृष्टाः यावान् प्रकृतेर्व्यूहः संस्थानं तावान्विकार इति ।
न चैतदुदाहरणं साधनविकलमित्याह दृष्टं चेति ।
उपनयमाह अस्ति चेदमिति ।
निगमनमाह तदेकप्रकृतीनामिति ।
अस्य परिमितत्वस्य हेतोर्व्यभिचारेण प्रत्यवस्थानं प्रतिवादिनः ।
नानाप्रकृतीनां घटरुचकादीनामेकप्रकृतीनां च घटशरावादीनां दृष्टं परिमाणमिति ।
एवं प्रत्यस्थिते प्रतिवादिनि वादी पश्चात्परिमितत्वं हेतुं विशिनष्टि एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनादिति ।
प्रकृतिः स्वभावः, एकस्वभावसमन्वये सतीत्यर्थः ।
एकप्रकृतिसमन्यवं स्फुटयति ।
सुखदुःखमोहसमन्वितं हीदं सर्वं व्यक्तं परिमितं गृह्यते ।
तथा हि ।
मेत्रदारेषु नर्मदायां मैत्रस्य सुखबुद्धिर्भवति तत्सपत्नीनां च दुःखबुद्धिः चैत्रस्य तामविन्दतो रणरणकवतो मोहो विभादः ।
नर्मदया भावान्तराणि व्याख्यातानि ।
तदेवं यत्रैकस्वभावसमन्वये सति परिमाणं तत्रैकप्रकृतित्वमेव तद्यथैकमृत्पिण्डस्वभावेषु घटशरावोदञ्चनादिषु ।
घटरुचकादयस्तु नैकस्वभावाः मार्दसौवर्णादीनां स्वभावानां भेदात् ।
निदर्श्यात्र सूत्रं योजयति तदिदमविशेषोक्ते हेतौ प्रतिषिद्ध इति ।
अस्य निग्रहस्थानत्वमाह ।
सति च हेत्वन्तरभाव इति ।
अपि च यदि हेत्वन्तरवचने विश्वमेकप्रकृति साध्यते तदा निदर्शनं नास्ति सर्वस्य पक्षे निक्षेपात् ।
अथ निदर्शनसिद्ध्यर्थं किं चित्पक्षाद्व्यतिरिच्यतेततस्तेनैवानैकान्तिकत्वम् ।
अन्वितानां परिमितानां भिन्नप्रकृतिकत्वादित्याह ।
हेत्वन्तरवचने सति यदि हेत्वर्थनिदर्शन
इति ।
हेतुः साधनम् अर्थः साध्यः तौ हेत्वर्थौ निदर्शयति व्याप्यव्यापकभावेनेति ।
निदर्शनः
निदर्शनः हेत्वर्थयोर्निदर्शनो हेत्वर्थनिदर्शनो दृष्टान्तः स यद्युपादीयते ततो नेदं व्यक्तमेकप्रकृति भवति दृष्टान्तस्य प्रकृत्यन्तरोपादानात् ।
वार्त्तिकं साधनान्तरोपादाने पूर्वस्येति ।
दत्तोत्तरावसर एव वादिनि यदि प्रतिवादी हेत्वर्थं व्यभिचारयति वादीच तृतीयपदके स्थितो हेतुं विशेषयति तदा साधनान्तरोपादानान्निगृह्यतामुतानैकान्तिकसाधनोपादानात् ।
न तावदनैकान्तिकसाधनादस्य निग्रहो हेतुविशेषणेननपव समाहितत्वादिति ।
तस्माद्धेत्वन्तरवचनादेव निगृह्यते पूर्वस्य वस्तुतो ऽसमर्थस्यासामर्थ्यख्यापनात् ।
सामर्थ्ये वा हेत्वन्तरानर्थक्यमिति सूक्तम्
न्य्स्_5,2.7: प्रकृतादर्थादप्रतिसंबद्धार्थम् अर्थान्तरम् ॥
व्याचष्टे यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे सति वादे जल्पे वितण्डायामित्यर्थः ।
हेतुतः साध्यसिद्धौ प्रकृतायां वादी साधनं ब्रूयाद् नित्यः शब्दो ऽस्पर्शत्वादिति ।
अत्रान्तरे सूखादिभिर्व्यभिचारेण हेतोरसामर्थ्यं पश्यन तत्प्रच्छादनार्थं प्रसक्तानुप्रसक्त्या तं तमर्थमुपन्यस्यन्नर्थान्तरेण निगृह्यते ।
अभिधेयस्य क्रियान्तरयोगात् क्रियाविशेषस्य योगाद्विशिष्यमाणरूपो भिद्यमानरूपः शब्दो नामेति यथा वृक्षस्तिष्ठति वृक्षं छिनत्ति वृक्षेण चन्द्रमसं पश्यति वृक्षायोदकमासिञ्चतीत्यादि ।
तदेवमभिधेयस्य क्रियाविशेषयोगाद्विशिष्यमाणरूपः शब्दो नामेति ।
आख्यातस्वरूपमाह ।
क्रियाकारकसमुदाय
इति ।
विषयेण विषयिणमुपलक्षयति ।
पचति पच्यतैत्येवमादयः शब्दाः क्रियां कर्तारं कर्म चाभिवदन्ति तदेतल्लक्षणमसिद्धमतिव्यापकं च, न हि कर्ता कर्म वा आख्यातेनाभिधीयते ।
क्रियाक्षेपेणैव तयोः प्रतिलम्भात् ।
अनन्यलभ्यस्य च शब्दार्थत्वात् ।
कर्तृकर्मणोश्च कारकान्तरेम्यो भावनायामभ्यर्हिततमत्वेन तत्सङ्ख्याभिधाननियमादसिद्धं कारकाभिधानम् ।
अतिव्यापकं च पाचकः पाक्य
इत्यादेर्नाम्नो ऽपि क्रियाकारकसमुदायाभिधायित्वात् ।
तदस्मिन् लक्षणे ऽपरितुष्यन् लक्षणान्तरद्वयेनाख्यातपदान्युपसंगृह्णाति ।
कारकसंख्याविशिष्टक्रियाकालयोगाभिधाय्याख्यातम् ।
पचति पच्यतैत्यादौ कर्तुः कर्मणो वा संख्यया कालेन वर्तमानादिना विशिष्टा क्रिया प्रतीयते ।
कालश्च क्व चिदस्तीत्येताववोक्तो,
न तु विवक्षितो लक्षणे पचत यजेतेत्येवमादौ तद्योगाप्रतीतेः ।
अनेन लक्षणेन स्थीयते सुप्यतैत्यादीनामाख्यातानामसङ्घहः कारकतत्संख्ययोरप्रतीतेः तत्संग्रहाय द्वितीयं लक्षणमाह ।
धात्वर्थमात्रं च कालाभिधानविशिष्टमभिधीयतैत्यभिधानम् ।
प्रयोगेष्विति ।
नाम्नो वाख्यातस्य वा तदर्थादभिद्यमानरूपा निपाताः ।
यथा समुच्चयविकल्पादिनामपदैः समुच्चयादयः समुच्चेतव्यान्नामार्थादाख्यातार्थाद्वा भेदेनोच्यन्ते तत्र षष्ठीप्रयोगात् ।
तेषां समुच्चयो विकल्पो वेति नैवं चादयः स्वार्थान्नामार्थादाख्यातार्थाद्वा भेदेनाभिदधति ।
रूप्यन्ते प्रतिपाद्यन्ते रूपाणि अर्थान्नामार्थादाख्यातार्थाद्वा भिद्यमानं रूपं प्रतिपाद्यमानं येषां निपातानां ते तथोक्तः ।
उपसूज्यमानाः समीपे प्राक् प्रयुज्यमानाः क्रियावद्योतका उपसर्गाः अवद्योतनं चोपलक्षणम् ।
अधिकार्था विपरीतार्थाश्चोपसर्गा गृह्यन्ते ।
यथा ऽभ्यागच्छति प्रतिष्ठतैत्यादिषु तदस्य निग्रहस्थानत्वं वार्तिककार उपपादयति ।
अभ्युपगतेति ।
यथा च साधनवादिनोर् ऽथान्तरं निग्रहस्थानमेवमुत्तरवादिनो ऽपि द्रष्टव्यम्
न्य्स्_5,2.8: वर्णक्रमनिर्देशवद् निरर्थकम् ॥
वर्णक्रमनिर्द्देशवदिति वतिः ।
अत्र यदा द्राविडः स्वभाषया तद्भाषानभिज्ञमार्यं प्रति शब्दनित्यत्वं प्रतिपादयति तदा तन्निरर्थकं निग्रहस्थानं स खल्वार्यभाषां जानन्नसामर्थ्यप्रच्छादनाय तद्भाषानभिज्ञतया वा स्वभाषया साधनं प्रयुक्तवान् सो ऽयं पूर्वस्मिन्कल्पे विप्रतिपत्त्या निगृह्यते उत्तरस्मिंस्त्वप्रतिपत्त्या ।
वस्तुतः साधनसामर्थ्ये ऽपि मूकवदार्यप्रतिपादकशब्दाप्रतीतेस्तत्प्रतिपादनारम्भवैयर्थ्यात् ।
अत्रैव दृष्टान्तमात्रतया वतिना अत्र वर्णक्रमो दर्शितो न पुनरेतदुदाहरणं निग्रहस्थानस्य येन कपोलवादित्रादावपि प्रसङ्गः ।
यथा हि द्राविडस्यार्थभेदविवक्षोत्थापितं वचनं नैवं वर्णक्रमनिर्द्देशः कपोलवादित्रं वा अप्रतिपादकत्वसामान्याद्वर्णक्रमनिर्द्देशवदिति दृष्टान्तः ।
अत एवाह भाष्यकारः ।
एवंप्रकारमिति ।
न पुनरिदमेवेत्यर्थः ।
वार्तिकमुदाहरणं भाष्य इति ।
(555।3) एवंप्रकारोदाहरणमित्यर्थः ।
साधनानुपादानादिति ।
परप्रतिपादकं पञ्चावयवं वाक्यं साधनं तत्तेन नोपात्तं तस्य स्वसमयेन प्रतिपादकत्वे ऽप्यार्यान् प्रत्यप्रतिपादकत्वादित्यर्थः
न्य्स्_5,2.9: परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातम् अविज्ञातार्थम् ॥
यद्वाक्यं परिषदा प्रतिवादिना च न विज्ञायते समानसंकेतेन वादिना त्रिरभिहितं यावद्भिर्वारैः परिषत्प्रतिवादिनोरर्थप्रत्ययो भवति स च प्रायेण त्रिभिरिति त्रिरभिहितमित्युक्तम् ।
ननु समानसङ्केतेन वादिना त्रिरभिहितमविज्ञातार्थं चेति न संभवति ।
सम्भवे वा परिषत्प्रतिवादिनै जडौ न च जडानवबोधे प्रतिपादकस्य कश्चिदपराधः ।
न हि बधिरो गीतं न शृणोतीति गायनस्य कश्चिदपराध इत्यत आह ।
श्लिष्टशब्दमसति प्रकरणादौ नियामके यथा श्वेतो धावतीति ।
अप्रतीतप्रयोगं जर्भरीतुर्फरीतू इति ।
अतिद्रुतोच्चारितमित्येवमादिना कारणेन तदविज्ञातार्थम्।अस्य निग्रहस्थानत्वमाह ।
असामर्थ्येति ।
वार्तिकं भाष्यव्याख्यया गतार्थम्
न्य्स्_5,2.10: पौर्वापर्यायोगादप्रतिसंबद्धार्थम् अपार्थकम् ॥
यत्रानेकस्य पदस्याश्लिष्टस्य प्रतीतयोगस्याद्रुतोच्चारितस्य वाक्यस्य चानेकस्य पौर्वापर्येणायोगः सम्बन्धो नास्तीति तस्मादसम्बद्धार्थता गृह्यते तदपार्थकं निग्रहस्थानं निष्प्रयोजनं, कस्मात्? ।
समुदायार्थस्य वाक्यार्थस्य वा ऽपायाद्वाक्यमहावाक्यार्थप्रत्यायनप्रयोजनो हि पदानां वाक्यानां वा प्रयोगो ऽसति तस्मिन्नपार्थकमित्यर्थः ।
वाक्यस्य पौर्वापर्यासम्बन्धौदाहरणमाह ।
यथा दश दाडिमानि षडपूषा इति ।
पदानां पौर्वापर्यासम्बन्धे उदाहरणमाह ।
कुण्डमजाजिनम्
इति ।
रौरुकं ररुसम्बन्धि ।
पार्य्य पाययितव्यम् ।
अप्रतिशीनो वृद्धः ।
वार्तिककारः शङ्कते ।
निरर्थकापार्थकयोरिति ।
परप्रत्यायनप्रयोजनं हि वचनोच्चारणं तत्र निरर्थकेनेवापार्थकेनापि न परः प्रतिपाद्यत इति उभयोरभेदः ।
न च वर्णक्रममात्रमेकत्रान्यत्र च पदानीत्येतावता भेदेनोपादनं युक्तम् ।
एकत्र वाक्योपादानमन्यत्र पदोपादानमित्यपार्थकयोरप्यवान्तरभेदेन भेदोपादानप्रसङ्गादिति शङ्कार्थः ।
निराकरोति ।
भिद्यत इति ।
पृच्छति ।
कथम् ।
उत्तरम् ।
तत्रानर्थके वर्णमात्रम् अभिधेयशून्यम् इह त्वपार्थके पदानि पद्यते गम्यते ऽभिधेयमेभिरिति पदानि वाक्यानि चाभिधेयवन्ति असम्बद्धानि निरभिधेयनिष्प्रयोजनयोर्निरर्थकापार्थकयोर्महान्विशेषः ।
न त्वीदृशो वाक्यपदयोर्निष्प्रयोजनयोर्विशेषो येनावान्तरभेदमाद्रियामहे ।
परप्रत्यायनप्रयोजनाभावामात्रविवक्षया त्वविशेषे सर्वनिग्रहस्थानाविशेषः सर्वत्र परप्रत्यायनाभावात् ।
भावे वा निग्रहस्थानानुपपत्तेः
अवयवविपर्यासवचनमप्राप्तकालम् (सू. 11) ॥
व्याचष्टे प्रतिज्ञादीनामवयवानां यथालक्षणमर्थवशात् क्रमः लक्षणानतिक्रमेण क्रमः उक्तमेतदस्माभिः प्रथमाध्याये ।
यदपेक्षिताभिधायिनो वचनात्परे प्रतिपद्यन्ते नान्यस्य ।
तत्र प्रथमं साध्यनिर्द्देशो ऽपेक्षितः परैर्न तु साधननिर्द्देशः
तत्र यद्ययं प्रथमं साधनमेव प्रयुञ्जीत कथमपोक्षितं ब्रूयाद्, अनपेक्षिताभिधायी च कथं प्रतिपादको नाम ।
तदेवं सर्वाण्येव हेतुवचनादीनि अपि क्रमवन्ति नाक्रमाणि प्रतिपादयितुमर्हन्तीति विपरीतक्रमेभ्यो ऽप्यार्थक्रमानुसरणादेवार्थप्रतिपत्तेः ।
सो ऽयं प्रतिज्ञादीनामर्थ एतादृशो य एषां क्रममन्तरेण न शक्यो ज्ञातुमिति ।
अवयवविपर्यासे तवाकाङ्क्षाभावात् तत्पूर्वकत्वाच्च पदार्थसम्बन्धस्यासम्बन्धं निग्रहस्थानमित्यर्थः ।
वार्तिकं नैवमपिव सिद्धेरित्येके ।
यथाहुरत्रापि न कश्चित् क्रमनियम इष्टार्थपसिद्धेरुभयत्राविशेषात् ।
यद्युच्येत अर्थशब्दवदयमस्माकं समयो यदनेन क्रमविशेषेणार्थः प्रत्येतव्यो नान्येनेति अतस्तथेव प्रतीयते न क्रमान्तरेणेत्यत आह ।
समयानभ्युपगमाच्च ।
पदेष्वेव समयपूर्वकः प्रत्ययो न वाक्येषु अभिनवकविरचिततत्समयानपेक्षादेव वाक्यादर्थप्रतीतेः ।
स्यादेतद् वाक्येष्वपि क्रमनियमो दृष्टः यथा पाचयां बभूवेति न पुनर्वभूवपाचयामिति अत आह प्रयोगाच्चेति ।
तत्र लौकिकः प्रयोगो नियत इह त्ववयवव्यत्ययस्यापि दृष्टः प्रयोग इत्यर्थः ।
तदेतद्दूषयति ।
यत्तावन्नैवमपि सिद्धेरिति ।
तत्रोत्तरं प्रयोगो पेतशब्दवदेतत् ।
एतदेव विवृणोति ।
यथा गौरित्यस्यैव पदस्यार्थें गावीति प्रयुज्यमानं पदं ककुदादिमन्तमर्थं प्रत्याययति ।
(556।1) यद्यपि शब्दानामर्थप्रत्यायनं न स्वाभाविकं तथा ऽपि परमेश्वरसङ्केतपूर्वकमद्य यावदनुवर्त्तते ऽत एव साधवोर् ऽथभेदे शब्दभेदा येषां पारमेश्वरसङ्केतः तदसङ्केतात्तु प्रवर्त्तमाना अप्यर्थे ऽसाधवः शब्दा अपभ्रंशा भवन्ति ।
तदपेक्षाश्च साधुभिर्भाषितव्यमित्यादयो विधयो धर्मेषु निन्दार्थवादाश्च मन्त्रो हीनः स्वरतो वर्णत इत्यादयः वेदानां च प्रामाण्यं प्रतिपादितं द्वितीये ऽध्याये ।
न चायमर्थो ये ये साधवस्ते सर्वे धर्महेतव
इति, किं तु धर्मानुष्ठानं तदनुरूपभाषणे प्राप्ते साधुभिरेवति नियम्यते ।
तदेवं व्यवस्थिते अविशेषेण गोगाव्यादिशब्दा आर्येण प्रयुज्यमाना दृश्यन्ते तत्रैते किमविशेषेणैवसाधव
उत कश्चिदेकः साधुः तत्पूर्विकेतरेभ्यः प्रतीतिः
तत्रैकशब्दस्य साधुत्वकल्पनायामितरस्मात् तन्मूलतया ऽर्थप्रतिपत्त्युपपत्तौ न सर्वत्र साधुत्वकल्पनायुक्ता ।
यथाह स्मात्रभवान्
जैमिनिरन्यायश्चानेकशब्दत्वमिति ।
तत्रापि कतमस्यासाधुत्वमेकस्यैतोष्विति जिज्ञासायां तत्र तत्त्वमभियोगविशेषात्स्यादिति यो ऽभियुक्ततमैरिन्द्रपाणिनिप्रभृतिभिः साधुत्वेनाविगानतः स्मर्यते स साधुरितरो ऽसाधुरिति निश्चीयते ।
तेन यद्यपि लौकिका गाव्यादिशब्देभ्य एव गवाद्यर्थमधिगच्छन्तीति दृष्टार्थमात्रव्यवहारिणः प्रतिपत्तिस्तथा ऽपि परीक्षकाणां विचारयतामेवं विचारक्रमो यद्वृद्धतमेन गोशब्दे प्रयोक्तव्ये प्रमादाद्गावीशब्दः प्रयुक्तः ततश्च वृद्धतरेण गोशब्दमुन्नीय गोत्वं प्रतीतम् ।
यथाहुः ।
ऽअम्बाम्बेति यदा बालः शिक्षमाणः प्रभाषते ।
अव्यक्ते तद्विदां तेन व्यक्ते भवति निर्णयः ॥
एवं साधौ प्रयोक्तव्ये यो ऽपभ्रंशः प्रयुज्यते ।
तेन साधुव्यवहितः कश्चिदर्थो ऽभिधीयते।ऽ
पार्श्वस्थाश्चातो ऽनेन मूलशब्दमुन्नीयार्थः प्रतीत इत्यगृहीत्वैव गावीशब्दादेवायममुमर्थं प्रतीतवानिति तमेव गोत्वस्य वाचकमवगम्यान्येषां वृद्धो बभूव ।
ततः प्रभृत्यननुसृतमूलशब्दानामयं वाचकत्वभ्रमो ऽपभ्रंशे वर्तते न वृद्धतरस्योभयवेदिनो मूलशब्दानुसारिणसी पदर्थप्रतिपत्तिरिदानीन्तनानां त्वपभ्रंशादेव अत एवानवाख्यानमपि प्रयोजनवत् ।
असत्यस्मिन् वाचकापभ्रंशविभागे ज्ञानानभावात्साधुभिर्भाषितव्यमिति नियमविधेर्न म्लेच्छितवै नापभाषितवै इति निषेधस्य च विषयसंशयेन दुरधिगमत्वेन धर्मानुष्ठानस्याशक्यत्वप्रसङ्गात् ।
यत्रार्थे यस्य शब्दस्य भगवतेश्वरेण सङ्केतः कृतः स तत्र साधुरसाधुरन्यत्र यथा य एवास्वशब्दो दरिद्रे साधुः स एवासाधुर्वाजिनि प्रयुज्यमानः
यथा नकुलदंष्टाग्रस्पृष्टा या का चिदोषधिरसौ सर्पविषं हन्ति एवमीश्वरेण कृतसङ्केतः शब्दः साधुर्धर्मौपयुज्यते नान्य इति ।
यववराहादिशब्दानामार्यम्लेच्छयोरर्थविवादे वैदिकाद्वाक्यशेषादार्यसंमतोर् ऽथो ग्रहीतव्यो न म्लेच्छसंमतः तत्र वैदिकवाक्यशेषविरोधात् ।
येषां तु शब्दानामार्येषु न दृष्टचरः प्रयोगः केवलैर्म्लेच्छैरेवार्थभेदे प्रयुज्यन्ते यथा पिकनेमतामरसादयः वेदे तु प्रयुक्तास्तेषां म्लेच्छव्यवहारादेवार्थो ऽवधारणीयः
तत्र तेषामभियोपगादिति आर्यव्यवहारापरिपन्थित्वाच्चेति ।
तदेवं व्यवस्थिते न्यायमीमांसापरिशीलनविकलानां बाह्यतराः प्रलापा उपेक्षणीयाः तस्मात्सुष्ठूक्तं प्रयोगापेतशब्दवदिति ।
न च शब्दान्वाख्यानं व्यर्थमिति चेति ।
प्रतिज्ञादीनां क्रमनियमकारणं प्रश्नपूर्वकं दर्शयति ।
तदेतत्कथं पूर्वं तावदिति ।
द्वितीयं देश्यमनुभाष्य परिहरति ।
यत्पुनरेतत्समयानभ्युपगमादिति ।
सो ऽयमर्थस्यानुर्वीं प्रतितिबलप्रवृत्तामन्वाचक्षाणो नाभ्याख्येय इति--- नोपालभ्यः ।
शास्त्रे वाक्यान्यर्थसंग्रहार्थमुपादीयन्त इति ।
न हिशास्त्रे कृत्स्नासदिवादरभूतदिवेत्यर्थसङ्ग्रहो यथा कथं चित् क्रियत इति वादे ऽपि तथा क्रियतामिति युक्तं वादादिषु पक्षप्रतिपक्षवद्वक्रोरपि परीक्ष्यमाणत्वात् परीक्षितस्य च शास्त्रितत्वात्
न्य्स्_5,2.12: हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥
प्रतिज्ञादीनां पञ्चावयवानां मिलितानां साधनत्वमुपपादितम् ।
न्यूनत्वे साधनत्वं नास्ति तदभावे न साध्यसिद्धिः
न हि सामग्रीनिष्पाद्यं कार्यं सामग्र्येकदेशाद्भवतीत्यर्थः ।
परेषां मतमुपन्यस्ति एके त्विति ।
एके तु प्रतिज्ञान्यूनं नामनिग्रस्थानं नास्तीति ब्रवते।दूषयति एतत्तु न युक्तमिति ।
किं प्रतिज्ञान्यूनं निग्रहस्थानान्तरं न भवति अथ निग्रहस्थानमेव न भवति ।
एतदेवाह किमसौ निगृह्यते न वेति ।
प्रथमकल्पे दोषमाह यदीति ।
द्वितीयकल्पे दोषमाह अथ न निग्रह
इति ।
प्रतिज्ञायाः साधनाङ्गत्वमुक्तमित्यर्थः ।
यच्च ब्रवीषि दिङ्नागसिद्धान्तपरिग्रह एवेति ।
एततु दूषप्रति ।
एतदपीति ।
(557।1) सिद्धसाध्यार्थयोः सिद्धान्तप्रतिज्ञयोर्महान् भेद इत्यर्थः
न्य्स्_5,2.13: हेतूदाहरणाधिकमधिकम् ॥
तदेतन्नियमाभ्युपगम इति भाष्यम् ।
तत्र कथमेतत्साध्यं सिध्यतीति जिज्ञासा तत्रैकेनैव साधनेन साध्यसिद्धेः साधनान्तराभिधानमनर्थकमिति ।
निष्पादितक्रिये कर्मणि अविशेषाभिधायिनः साधनस्य साधनन्यायातिपातात् ।
यत्र तु प्रतिवादिनः परिषदो वा जिज्ञासा भवति कति साधनानिसंभवन्त्यस्मिन्साध्य
इति तत्र यावन्ति साधनानि तावन्ति सर्वाण्येव वाच्यानि अन्यतराभिधाने निग्रहप्रसङ्गादिति,
नाधिकं निग्रहस्थानमिति य आहुस्तन्मतमुपन्यस्यति ।
तच्च न दार्ढ्यादिति ।
दूषयति न दार्ढ्यार्थेति ।
यदि निश्चयो दार्ढ्यं तदेकस्मादेव प्रमाणाद्भवति अनिश्चायकस्याप्रमाणत्वात् ।
अथ स्फुठत्वं तदपि चेन्निश्चयः स दत्तोत्तरः ।
अथ सामान्यविशेषतद्वतां ग्रहणं न तदनुमानसहस्रैरपि तेषां सामान्यवद्द्रव्यमात्रविषयत्वात् ।
शङ्कते अथ ब्रवीषि द्वे अपि ज्ञापके इति ।
नास्माकमनधिगतार्थगन्तृत्वं प्रमाणत्वं येनैकेनाधिगते प्रमाणान्तरमप्रमाणं स्यात् ।
अपि तु गन्तृमात्रं प्रमाणं तच्च द्वितीयस्याप्यविशिष्टमिति शङ्कार्थः ।
निराकरोति सत्यं द्वे अपि ज्ञापते इति ।
पुरुषो ऽत्रापराध्यते यो ज्ञातमर्थमजिज्ञासितं ज्ञापयति न तु प्रमाणं तद्धि सामर्थ्येन मेने प्रवर्तत एव ।
यदि जिज्ञासायां सित्यां प्रवर्तते प्रतिपादयति ज्ञेयं नास्य कश्चिदपराध इति ।
न हि धान्येष्वलूनेषु दात्रमव्रश्चनं भवति तस्मादनपेक्षितकारणादनवस्थाप्रसङ्गाच्च पुरुषस्य निग्रह इति स्थितम्
न्य्स्_5,2.14: शब्दार्थयोः पुनर्वचनं पुरुक्तमन्यत्रानुवादात् ॥
न्य्स्_5,2.15: अर्थादापन्नस्य स्यशब्देन पुनर्वचनं पुनरुक्तम् ॥
तदनेन सूत्रद्वयेन पुनरुक्तमेकमेव निग्रहस्थानं कथं चिदवान्तरभेदविवक्षयात्रिविधमुक्तं प्रापञ्चार्थम् ।
तदेव पुनरुक्तं क्व चिच्छब्दाभ्यासात् क्व चित्पर्यायान्तरात् क्व चिदर्थादिति ।
आक्षिपति नाबाधनादिति ।
समाधत्ते सत्यमिति ।
जल्पवितण्डयोर्वक्तुर्नैपुण्यं चिन्त्यते ।
पुनरुक्तप्रयोगे त्वनिपुणः स्याद्
अनपेक्षिताभिधानात्साधनस्य विषयः साध्यो ऽर्थो न सिद्धः तस्यापरिज्ञनान्निगृह्यते ।
वैयर्थ्यं चानर्थक्यं विरुद्धप्रयोजनत्वं वाभिमतम् ।
तथा हि पुनरुक्तप्रयोगे तत्प्रयोजनानुसरणसमाकुलचित्तः प्रथमाभिधानादापाततः प्रतीतमप्यर्थमप्रतीतमिव मन्यमानो न निश्चेतुमर्हतीति ततश्च प्रतिपादनाय प्रवृत्तो न प्रतिपादयितेति विरुद्धप्रयोजनवत्त्ववैयर्थ्यं स्यादित्युपपन्नं निग्रहस्थानमिति
न्य्स्_5,2.16: विज्ञातस्य परिषदा त्रिरभिहितष्याप्यप्रत्युच्चारणमननुभाषणम् ॥
व्याचष्टे विज्ञातस्य वाक्यार्थस्येति ।
निग्रहस्थानत्वे ऽस्योपपत्तिमाह ।
अप्रत्युच्चारयन् किमाश्रयं प्रतिषेधं ब्रूयादिति ।
वार्त्तिकं नेदं निग्रहस्थानमिति के चित् ।
(555।9) उत्तरेण
उत्तरगुणदोषनिरूपणेन प्रतिवादिनो मूढत्वामूढत्वावस्थापनात् ।
एतद्विभजते उत्तरेण गुणदोषवतेतीति ।
तस्मात्किं पुनरुच्चारितेनोच्चारणेनास्ति प्रयोजनमिति शेषः ।
अस्ति हि कश्चिदिति क्व चित्पाठः ।
तत्रास्ति हीति निपातद्वयं वाक्यावतारे द्रष्टव्यम् ।
पुंसां विचित्रस्वभावत्वात् कश्चिदुत्तरे समर्थो न प्रत्युच्चारणे नासौ सदुत्तपरमभिदधानः
तावताननुभाषणमात्रेण निग्रहमर्हति ।
ननु यद्यननुभाषणं न निग्रहस्थानं तदा ऽनुभाषितुमुपक्रम्य सर्वमननुभाषमाणो न निगृह्येतेत्यत आह ।
यस्त्वारभ्य न निर्वाहयेत् सदुत्तरं तु ब्रूयात् तस्य स्यात् खलीकारमात्रसमामर्थ्यकृतं न तु तत्त्ववादित्वविहतिरित्यर्थः ।
तमेवं भदन्ताक्षेपं समाधत्ते नोत्तरविषयापरिज्ञानादिति ।
दूष्यविषयं हि दूषणम् असति दूष्याभिधाने न शक्यं वक्तुम् ।
न खलु प्रतिज्ञाहेतूदाहरणोपनयनिगमनदोषास्तत्स्वरूपमनभिधाय शक्या दोषत्वेनावस्थापयितुमित्यनुच्चारयन्न दोषमभिधातुमर्हतीति ।
तदिदमुक्तं तदिदं व्याहतमुच्यते नोच्चारयति उत्तरं च ब्रवीतीति ।
स्यादेतद् न प्रतिवादिना सर्वं दूषणीयम्
अन्यतमावयवदूषणेनैव साधनस्य दूषितत्वेन दोषान्तराभिधानवैयर्थ्यात् ।
न खलु मृतो मृत्युना रक्षितो मारयितुं शक्यः एवं दूषितमपि दूषयितुं, तस्मात् सत्यपि दूष्यबाहुल्ये ऽन्यतमं दूष्यं तथा च सर्वानुभाषणे सर्वस्यादूष्यत्वाद् यद्दूषणीयं तत्पुनरनुवाद्यमिति सर्वानुवादे द्विरनुवादो ऽदूष्यानुवादश्चेति दूषकनिग्रहस्थानद्वयं तस्मादनुभाषणमेव निग्रहस्थानमिति विपरीतमापतितमित्यत
आह अप्रतिज्ञानाच्चेति ।
एतद्विभजते न चेदं प्रतिज्ञायते ।
पूर्वमेकग्रन्थेन सर्वमुच्चारयितव्यं पश्चादुत्तरं यद्दूष्यं तदनुवादेनाभिधेयं येन दूष्यानुवादो द्विरनुवादश्च दोषौ स्याताम् अपि तु यथाकथं चिदुत्तरंवक्तव्यम् ।
उत्तरवादपरस्योत्तरमाश्रयाभावे न युक्तमिति तदाश्रयमात्रमनुवदितव्यं तदन्तरेणाशक्याभिधानत्वादुत्तरस्येति ।
तस्माद्युक्तं तन्मात्रस्याप्रत्युच्चारणमननुभाषणं न सर्वस्याप्रत्युच्चारणमननुभाषणमित्यर्थः ।
नन्वप्रतिभाया निग्रहस्थानत्वविधानेनाननुभाषणस्यापि विदितं तस्य तद्विशेषत्वात् ।
न खलु नानुभाषतैत्येतावतैव निगृह्यते अपि त्वननुभाषमाणो दूष्यं न बुध्यते अबुध्यमानश्च तत्रोत्तरं न प्रतिपद्यते ततो ऽप्रतिभया निगृह्यते ।
तदेवमननुभाषणमप्रतिभाविशेष इति अप्रतिभाया विहितं निग्रहस्थानत्वं तद्विशेषे ऽपि विहितं भवति ।
यथा गवि सास्नादिमत्त्वं विहितं शाबलेये ऽपि विहितं भवति न पुनस्तत्र सास्नादिमत्वविधानाय पृथग् यत्नान्तरमारभन्ते ।
अत्र ब्रूमः, न तावदुत्तराप्रतिपत्तिसामान्यविशेषो ऽननुभाषणं पुंसां सामर्य्यवैचित्र्यात् ।
कश्चिद्दूनष्यं दूषणं च विदन्नपि नानुभाषितुं पारयति बहुवचनकुण्ठत्वात् ।
तस्मादसत्यामप्रतिभायामननुभाषणसम्भवान्नाप्रतिभाया विशेषो ऽननुभाषणमिति ।
कश्चिद्दूषणविषयं वेदानुभाषते च उत्तरप्रतिपत्तिविकलस्तु स्यात्सो ऽयमप्रतिभया निगृह्यते नाननुभाषणेन तत्र सामर्थ्यात् ।
कश्चित्पुनर्दूष्यमेव न जानाति सो ऽज्ञानेन निगृह्यते न चाज्ञाने ऽननुभाषणमवश्यंभावि धारणावतोर् ऽयानिरूपणे वाद्युदीरिताक्षरस्वरूपमात्रपाठसम्भवेनानुभाषणोपपत्तेः ।
अप्रतिभा त्ववश्यं भेवद् न ह्यस्ति सम्भवो दूष्यं न वेदास्य दूषणं तु वेदेति ।
तथापि स्वरूपतस्तावद्भेदः न हि यदेव दूषणविषयमज्ञानमप्रतिभा तदेव दूष्यविषयमज्ञानं तस्मात्सत्यप्यननुभाषणाप्रतिभाज्ञानानानामुत्तरानभिधानफलत्वे तुल्ये अवान्तरभेदविवक्षया भेदेनोपन्यासः ।
त्रिरभिहितस्येति ।
त्रिरभिधानमेवमप्यप्रतिपद्यमानस्यातिजडतया न वादे ऽधिकार इत्यभिसंधिमत इति
न्य्स्_5,2.17: अविज्ञातं चाज्ञानम् ॥
तद्व्याचष्टे विज्ञातार्थस्य परिषदेति ।
निग्रहस्थानसामन्यलक्षणमत्र योजयति वार्तिककारः ।
अप्रतिपत्तितो निग्रहस्थानमिति
न्य्स्_5,2.18: उत्तरस्याप्रतिपत्तिरप्रतिभा ॥
तद्व्याचष्टे ।
परपक्षेति ।
वार्तिकं श्लोकपाठादिभिरवज्ञां दर्शयन्निति ।
अर्थान्तरे हि निग्रहस्थाने प्रसक्तानुप्रसक्तं तत्सिद्ध्यर्थताव्याजेनावतारयता न प्रकृतावज्ञानं क्रियते इह त्ववज्ञानमेतावता भेदेनोपन्यास
इति ।
इयं चाप्रतिभा सम्यक्साधनोपन्यासे द्रष्टव्या साधनाभासोपन्यासे तु पर्यनुयोज्योपेक्षणम्
न्य्स्_5,2.19: कार्यप्रसङ्गात् कथाविच्छेदो विक्षेपः ॥
साधनस्य दूषणस्य चोपन्यासमभ्युपगम्य तदवस्थः प्रतीयमान एव प्रतिवादिनो दार्ढ्यं सभ्यानां वा कठोरत्वमवगम्याकस्मात्कार्यं व्यासज्याभ्युपगतां कथां व्यवच्छिनत्ति तत्र विक्षेपो नाम निग्रहस्थानम् ।
तदनेनाप्रतिभया तूष्णींभावो ऽपि संगृहीतो वेदितव्यः ।
कार्यव्यासङ्गस्याभ्युपगतकथाविच्छेदमात्रोपलक्षणत्वात् ।
न चेदमर्थान्तरं तत्र प्रकृतमेव साधयामीति व्याजेन प्रसक्तानुप्रसक्तावतारेण कथाविच्छेदाभावाद्
इह तु कथाविच्छेदात् ।
न चास्य हेत्वाभासेष्वन्तर्भावः ।
न हि विक्षेपस्यान्यतमलिङ्गधर्मानुविधानं नापि प्रकृतसाध्यसिद्धये प्रयोगो येन हेत्वाभासः स्यात् ।
न च वादिनो विक्षेपो हेत्वाभासः ।
अनन्तरं कथामम्युपत्यैव हेतुमनभिधायापसारणात् ।
यदि चायं सम्यञ्चं हेतुमभिधाय तत्समर्थनासमर्थो ऽपसरेत् किमेतावता न निगृह्येत हेत्वाभासेन वा निगृह्येत किं तु व्यासङ्गादेव ।
अनर्थकापार्थकाम्यां तु भेदे ऽस्य स्फुट एव ।
न ह्यत्रासमानसंकेतः प्रतिपादको येनानर्थकः स्यात् ।
नापीह पदानि वाक्यानि वा पौर्वापर्येणासम्बन्धानि येनापार्थकः स्यात् ।
न चावज्ञानं येनाप्रतिभा भवेत् ।
तस्माद्विक्षेपः पृथङ् निग्रहस्थानमिति सिद्धम्
न्य्स्_5,2.20: स्वपक्षदोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥
व्याचष्टे यः परेण देशित दोषं स्वपक्षे ऽभ्युपगम्य ।
कथं ज्ञायते अभ्युपगम्यतैत्यत
आह ।
अनुद्धृत्येति ।
अनभ्युपगमे ऽसाबुद्धरेदिति भावः ।
वार्तिकं किं तु परस्वेनानतिसृष्टेनादत्तेनेत्यर्थः ।
(559।13) प्रसङ्गविधानान्न निग्रहस्थानमित्यन्य
इति ।
यदि पुरुषत्वाच्चोरो ऽहं ततो भवानपि चोरः स्यात् ।
न च भवत एवमिष्टं तस्मात्त्वयैवानैकान्तिकत्वान्नायं हेतुरिति प्रसङ्गविपर्ययः तस्मान्नात्मनश्चोरत्वमनेनाभ्युपगतमिति मतानुज्ञा नासौ निग्रहस्थानमित्यर्थः ।
निराकरोति एतत्तु न, कस्मात् अत एव ।
कुतः ? यत एवासौ उत्तरे कर्तव्ये प्रसङ्गं करोति अत एव निगृह्यते ।
यदि हि वादी प्रतिवादिनं ब्रूयात्सत्यमहं चोर एवेति तदा किमनैकान्तिकत्वं शक्नुयात्कर्तुम् ।
तस्मात्पुरुषत्वं न चोरत्वहेतुः अपि तु परस्वेनादत्तेन सम्बन्ध इत्युत्तरे कर्तव्ये यदुत्तराभासमाह तेन ज्ञापयति नूनमयं सभ्यगुत्तरं न जानाति सम्यगुत्तराज्ञानान्निगृह्यते, तच्चोत्तरापरिज्ञानं मतानुज्ञाद्वापरेणोद्भाव्यमानं मतानुज्ञेत्युच्यते
न्य्स्_5,2.21: निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥
व्याचष्टे पर्यनुयोज्यो नामेति ।
निग्रहस्योपपत्तिः प्रमाणतः सिद्धिस्तयेत्यर्थः ।
एतत्तु न तावद्वादिनोद्भावनीयं न ह्यसौ स्वस्वसाधनावद्यमनुन्मत्त उद्भावयति,
नापि प्रतिवादिना न ह्यनुन्मत्त आत्मानमात्मना निगृह्णाति ।
अपि तु पर्यनुयोज्यं जानानः कस्मादुपेक्षतेतस्मात्सभापनिता वादिप्रतिवादिभ्यामनुयुक्तया वा परिषदा तन्निग्रहस्थानमुद्भावनीयम् ।
अत्र च तत्त्वनिर्णयावसाने वादे द्वयोरपि निग्रहात्परिषदेव विजयते जल्पवितण्डयोश्च तत्त्वानपेक्षं पुरुषसामर्थ्यपरीक्षणप्रवृत्तयोः प्रतिवादी निगृह्यते ।
साधनाभासवादिना ऽपि वादिना स्फुरता प्रतिवादी स्तम्भितो यतः सम्यक्साधनोपन्यासो विहितः ।
प्रतिवादिन
उत्तराप्रतिपत्तिरप्रतिभा साधनाभासोपन्यासे च उत्तराप्रतिपत्तिः पर्यनुयोज्योपेक्षणमिति विशेषः ।
वार्तिकं नान्यवचनादित्येके ।
यत्र प्रतिवादी तूष्णींभवति तत्र तूष्णीम्भावेनैव वादिन उत्तरानर्हतां दर्शय न्नस्य साधनाभासवादितां सूचयति यत्रास्य दोषोद्भावनं सम्यग्दोषमनुक्त्वा करोति तत्राप्यसौ दुष्टमुत्तरं ददत्तत्साधनदोषमेव सूचयति ।
उपदिशन्ति हि वृद्धाः दुष्टे हि साधने दृष्टोत्तरं देयमिति ।
तस्मादवचने ऽन्यवचने वा न पर्यनुयोज्योपेक्षणं निग्रहस्थानमुभयथा ऽप्यनुपेक्षणादित्यर्थः ।
दूषयति तच्च नेति ।
(560।1) साधनस्य हि सम्यञ्चं दोषं जानन् तमेव ब्रूयात् ।
सो ऽयं प्राप्तावसरो ऽब्रुवन् विब्रुवन् वा नूनं न सम्यञ्जं दोष जानाति ।
निश्चितप्रमाणभावस्य पुरुषस्येङ्गितादिभिरभिप्रायःप सूच्यते न त्वनिश्चितप्रमाणभावस्य ।
यथाऽहुः ।
श्रुतिस्मृत्यतिरेकेण युक्तजल्पाकभाषितम् ।
तद्यथाश्रति दुष्टं चेद् दुष्टमेवावधार्यताम्
॥ इति सुष्ठूक्तं जानानो ऽप्ययं किमर्थमन्यद् ब्रवीतीति
न्य्स्_5,2.22: अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ॥
न चायमप्रतिभातो न भिद्यते ।
सा ह्युनराप्रतिपत्तिरियं त्वनुत्तरस्यैवोत्तरत्वेन
(वि) प्रतिपत्तिरिति महान् विशेषः ।
अनेनैव सर्वा जातयो निग्रहस्थानत्वेन संगृहीता भवन्ति ।
न च हेत्वाभासानामितो न भेदः
ते हि वादिनो निग्रहस्थानमयं तु प्रतिवादिन
इति महान्विशेषः ।
अत एव भवतामपि गाथा ।
ऽअसाधनाङ्गं वचनमदोषोद्भावनं तयोः ।
निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते इति ।
अप्रतिभाया एव प्रसज्यप्रतिषेधात्मिकाया अस्या निरनुयोज्यानुयोगस्य भेदे दर्शयति भाष्यकारः ।
निग्रहस्थानलक्षणस्य मिथ्याध्यवसाया त्समारोपादित्यर्थः ।
सुगमं वार्तिकम्
न्य्स्_5,2.23: सिद्धान्तमभ्युपेत्यानियमात्मकथाप्रसङ्गो ऽपसिद्धान्तः ॥
अभ्युपेत्पयेत्यस्य व्याख्यानं कस्य चिदर्थस्य तथाभावं प्रतिज्ञायेति ।
प्रतिज्ञातार्थविपयर्यादिति ।
अभ्युपेतार्थविपर्ययात्सिद्धान्तविपर्ययादित्यर्थः ।
तदेतदनियमादित्यस्य व्याख्यानम् ।
तत्र सांख्यीयं सिद्धान्तमाह ।
यथा न सदिति ।
तस्य पर्यायान्तरेण कथनं न सत इतञ् नासिदात्मानमित्यस्य पर्यायान्तरेण विवरणं नासदुत्पद्यत इति ।
सो ऽयं सिद्धान्तः सांख्यानां तमभ्युपेत्य तद्विपर्ययात्कथाप्रसङ्गमाह स्वपक्षं व्यवस्थापयति ।
पक्षावस्थानं दर्शयति ।
एका प्रकृतिर्व्यक्तस्योपलभ्यमानस्यार्थजातस्य युक्तेति प्रतिज्ञा ।
विकाराणामिति व्यक्तस्यैवानुवादः ।
अन्वयदर्शनादिति हेतुः ।
मृदन्वितानामिति साधर्म्योदाहरणं तथा यं ऽव्यक्तभेदः सुखदुःखमोहसमन्वितो गृह्यते इत्युपनयः ।
निगमनमाह तस्मात्समन्वयदर्शनाद्विश्वव्यक्तस्य कैरित्यपेक्षायामुत्तरं सुखादिभिरिति ।
एकप्रकृतिः सर्वो विकार इति सेयं कथा ।
सिद्धान्तमभ्युपेत्त्यैवमुक्तवान् सांख्यो नैयायिकेन पर्यनुयुज्यते ।
दूषणाय पृच्छ्यते ।
अथ प्रकृतिर्विकापर इति कथं लक्षितव्यमिति ।
स एवं नैयायिकेन पृष्टः सांख्य उत्तरमाह यस्यावस्थितस्य मृदादेर्धर्मान्तरनिवृत्तौ शरावविनाशे यद्धर्मान्तरं मणिमादि प्रवर्तते असदेव जायते सा प्रकृतिर्मृदादि ।
यद्धर्मान्तरं निवर्तते प्रवर्तते वा स विकार इति ।
एतास्मिन्नुदाहरणे ऽपसिद्धान्तं योजयति ।
सोयं प्रतिज्ञातार्थस्य सिद्धान्तार्थस्य वादी विपर्ययादनियमात्कथां प्रसञ्जयति प्रतिज्ञातः सिद्धान्तः खल्वनेन नासदाविर्भवतीति उत्पद्यते न सत्तिरो भवतीति न विनश्यतीति ।
तथा ऽपि कस्मादनेन सिद्धान्तो बाध्यते अथ सिद्धान्तेनैव कस्मान्न बाध्यतैत्यत आह ।
सदसतोश्चेति ।
इदं हि लौकिकं प्रमाणसिद्धं सिद्धान्तस्त्वभ्युपगममात्रसिद्धो ऽप्रामाणिकः
तस्मादनेन सिद्धान्तो बलवता बाध्यते ।
तदेतन्मृद्धर्माणामपि न स्यादिति ।
न केवलं प्रेक्षावतां कर्तॄणामपि तु सद्धर्माणामप्युत्पादविनाशौ प्रवृत्त्युनपरमौ दृश्यमानौ न स्यातामित्यर्थः ।
एवं प्रत्यवस्थितः सांख्योनैयायिकेन पृष्टो यद्यसत आत्मलाभं सतश्चात्महानमभ्युप इति ततो ऽस्यापसिद्धान्तो भवति ।
अथ नाभ्युपैति पक्षो ऽस्य न सिद्ध्यति ।
विकारो ह्यनेन पक्षीकृत एकप्रकृतित्वेन तत्र विकाराणामनिरूपणात् तदभावे न प्रतिज्ञार्थो न च हेत्वर्थः आश्रयासिद्धत्वात् ।
नन्वेवं प्रतिज्ञातार्थविरोधित्वात्सतो निरोधस्यासतश्चोत्पादस्य हेत्वाभास
एव निग्रहस्थानं भवेत् ।
प्रतिज्ञाविरोधो वेत्याशङ्क्य वार्तिककार आह ।
प्रतिज्ञातार्थव्यतिरेकेणेति ।
न ह्यत्रैकप्रकृतयो विकाराः एकप्रकृतिकत्वादित्ययं हेतुः साध्यविरुद्धेन व्याप्त उद्भावितो येन विरुद्धो भवेत् ।
नाप्येकप्रकृतिकत्वं विकाराणां शब्दतो विरुद्धं समन्वयेन हेतुना येन प्रतिज्ञाविरोधो भवेत् ।
वैभवमात्रेण च प्रतिज्ञाहेत्वोर्विरोध
इत्यत्रोक्तं वार्तिककृता स्वसिद्धान्तस्पय गोत्वार्देर्नित्यत्वविरोधाद्विरोध
इति ।
अपि च तत्र बलवता सिद्धान्तेनानैकान्तिकदेशना बाध्यते इह तु सिद्धान्त एव बाध्यते ।
दुर्बल इत्युदाहरणपौनरुक्त्यमपि नास्ति ।
तस्माद्यत्र प्रतिज्ञार्थेन विरोधः तत्र विरुद्धो हेत्वाभासः प्रतिज्ञाविरोधो वा इह तु प्रतिज्ञार्थव्यतिरेकेणाभ्युपगमान्तरेण विरोध इति पुरुषस्य पूर्वापरविरुद्धार्थाभिधायिनो ऽसामर्थ्यान्निग्रहस्थानं जल्पवितण्डयोरिति सिद्धम्
मूल पाठ: Nyāyasūtra with Vacaspatimiśra's Nyāyavārttikatātparyaṭīkā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0