भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र (टीका सहित) · अध्याय 11

11.1

इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां चतुर्थोध्यायः समाप्तः ॥
4 अध्याये 1 आह्निके 67 सूत्राणि 24 प्रकरणानि ।
2 आह्निके 51 सूत्राणि 6 प्रकरणानि ।
आदित आरभ्यमिलित्वा 460 सूत्राणि 60 प्रकरणानि ।
अथ पञ्चमो ऽध्यायः ।
न्य्स्_5,1.1: साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकारणाहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः ॥
अथ प्रमाणादयः पदार्था उद्दिष्टा लक्षिताश्च तत्किमपरमवशिष्यते यदर्थं पञ्चमो ऽध्याय
आरभ्यतैत्यत आह ।
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जातिबहुत्वमिति भाष्यम् ।
तस्यार्थमाह वार्त्तिककारः ।
जातेः संक्षेपेणोक्ताया इत्यादि ।
(529।1) यद्यपि जातिनिग्रहस्थानभेदा जातिनिग्रहस्थानसामान्यलक्षणानन्तरं प्रथमे ऽध्याये युक्ता लक्षयितुं तथाप्येषां बहुत्वात्प्रमेयपरीक्षायां विलम्भोमाभूदपेक्षिता चासौ शिष्यैः ।
संशयादिपरीक्षां तु विना प्रमेयपरीक्षा न शक्यते ।
तस्मान्मुनिः शिष्यानुरोधेन परीक्षां तावद्वर्त्तयां बभूव ।
तदनन्तरमवशिष्टं जातिनिग्रहस्थानविशेषलक्षणं वर्त्तयति ।
जल्पवितण्डापरीक्षा चानन्तरं प्रवृत्ता तदङ्गं च जातिनिग्रहस्थाने इत्यवान्तरसंङ्गतिरस्तीति सर्वमदातम् ।
विशेषोपयोगि सामान्यलक्षणमाह ।
तत्र जातिर्नामेति ।
प्रतिषेधबुद्ध्या प्रयुक्त
इति शेषः ।
आह्निकारम्भमाक्षिपति ।
जातेः प्रयोगप्रतिषेधादिति ।
परिवर्जनं तु सामान्यज्ञानादिप भवन्न विशेषज्ञानमपेक्षत इति भावः ।
समाधत्ते नारम्भप्रयोजनस्योक्तत्वात् ।
एतदेव स्मारयति स्वयं च सुकरः प्रयोग इति ।
प्राश्निकैः कतमा जातिरित्युक्ते स्वयं च सुकरः प्रयोग इति ।
अथ वा सद्विद्याविद्विषा अधिक्षिप्ते तत्वे अह्नाय तन्निरासहेतावस्फुरति साक्षिणां पुरत एकान्तपराजयाद्वरं संदेहो ऽप्यस्तु कथं चित्परपराजयोवेति बुद्ध्या पांशभिरिवावकिरन्
जातिं प्रयुङ्क्ते ।
तेन हि लोके तत्त्वमवस्थापितं भवति ।
अन्यथा ऽसन्मार्गप्रवृत्तो लोकः स्यात् ।
न च नखचपेटादिभिर्विद्याविद्वेषिणो निराकरणे तदुत्थापितकुहेतुनिराकरणधीरस्ति लौकिकानाम् ।
तस्मान्न नखचपेटादय उपदेष्टव्याः शास्त्रकृतेत्यभिप्रायवानाह ।
साधुसाधननिराकरणार्थं वेति ।
अतत्त्वविषयत्वेन परमार्थतो ऽसाध्वपि साधनमह्नाय दूषणस्याप्रतिभासनात्साध्वित्युक्तम् ।
लाभपूजाख्यातिकामश्चेत्यन्वाचये चकारः ।
प्रसिद्धं तावत्तत्वपरिपालने प्रयोजनं तस्मिन्सत्येतदप्यन्वाचीयतैत्यर्थः ।
मतान्तरं निराकर्तुमुपन्यस्यति ।
असाधुसाधनेति (503।2) तत्त्वविषयमपि साधनमसाध्विति विदितवान् वादकाले चाप्रतिभयासाधुत्त्वोपपादनं न स्फुरति ।
असाध्येतदिति स्मरन्नेवासौ जातिं प्रयुङ्क्ते तदिदमुक्तमनभिज्ञतया साधनदोशस्येति ।
अथ वा जानन्नपि जातिं प्रयुङ्क्तो तस्य साधनस्य दोषप्रदर्शनार्थं प्रसङ्गव्याजेन मदीयं तावद्दूषणाभासम् एवं त्वदीयमपि साधनाभासं यदि त्वत्साधनं सम्यक् तदा मदीयमपि सम्यक् स्यादितिप्रसङ्गः तद्व्याजेन साधनं दूषयतीत्यर्थः ।
तदेतत्परमतं दूषयति ।
एतत्त्विति ।
जात्यभिधाने हि पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगश्चेति द्वयं निग्रहस्थानं तस्माद्बुद्ध्वेत्युक्तम् ।
अथ न बुध्यते तत्किमिति जातिं प्रयुञ्जीतेति ।
यो हि समादर्शनमात्रात्पूर्वाभ्यस्तमपि विस्मरति तस्य कैव कथा अननुसंहितपूर्वजात्युद्भावनस्येति भावः ।
एतेन बुद्धाबुद्धा वेति विकल्पासम्भवेनानैकान्तिके साधने प्रयुक्ते पञ्चानां साधर्म्यसमवैधर्म्यसमविकल्पसमसाध्यसमसंशयसमानां जातीनां प्रयोगः प्रत्युक्तः ।
पूर्वा परभाव
इति ।
पूर्वस्य युक्तस्य साधनस्य युक्तमुत्तरम् ।
अपरस्यायुक्तस्य साधनस्यायुक्तमुत्तरमिति ।
ननु साधर्म्यसमादीत्युच्यते ।
न च वस्तुतः साधर्म्यसमादीनां साम्यमस्ति स्थापनया तथा सत्यजातित्वप्रसङ्गादित्यत आह ।
समीकरणार्थं प्रयोग इति ।
आभिमानिकंसाम्यं न वास्तवमित्यर्थः ।
साधर्म्यमेव समं यस्मिन् प्रयोग इति शेषः ।
तदिदमुक्तं समार्थः साधर्म्यसमार्थः समीकरणार्थः प्रयोगो द्रष्टव्य इति ।
एवं वैधर्म्यमेव सममित्यत्र विग्रहे स्वरूपेण साम्यमुक्त्वा विशेषहत्वभावेन साम्यमाह विशेषहेत्वभावो वेति ।
ये त्वाहुः सर्वेष्वेवादपेशेषु सर्वासामेव जातीनां प्रयोग इति तान् प्रत्याह ।
सर्वापदेशव्याप्तिः सर्वजातिप्रयोगस्य (531।2) ।
अपदेशो हेतुवचनम् ।
ये पुनः साधर्म्यसम इत्यादौ समशब्दस्तस्य साधनवादिजातिवादिनोस्तुल्यार्थत्वाद्
यादृशो वादी तादृशः प्रतिवाद्यपि साधर्म्येण द्वौ समाविति मन्यन्ते तान्प्रत्याह न च वादिप्रतिवादिनोस्तुल्यता सुमार्थः प्रतिवादी जातिवादी विवक्षितः

11.2

न्य्स्_5,1.2: साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ॥
प्रतिषेधाविति सूत्रपूरणेन पुल्लिङ्गं समर्थयते ।
अन्यथा जातेः प्रकृतत्वात्समानाधिकरण्येन साधर्म्यवैधर्म्यसमे इति स्यात् ।
तद्धर्मविपर्ययोपपत्तेः कृते साध्यविपर्ययोपपत्त्यर्थमित्यर्थः ।
भाष्ये निदर्शनं क्रियावानात्मा द्रव्यस्य क्रियाहेतुगुणयोगादिति ।
अस्ति खल्वात्मनः क्रियाहेतुर्गुणः प्रयत्नो ऽदृष्टं वा लोष्टस्यापि क्रियाहेतुर्गुणः स्पर्शवद्वेगवद्द्रव्यसंयोग
इति ।
एवमुपसंहृते परः साधर्म्येणैव प्रत्यवतिष्ठते निष्क्रिय आत्मा विभुत्वादाकाशवदिति ।
अत्र च साधनमाभासमुत्तरं च न जातिः विभुत्वस्याक्रियत्वेपन स्वभावतः प्रतिबन्धात् ।
तेनैतदुपेक्ष्य वार्तिककार
उदाहरणान्तरमाह ।
यथा ऽनित्यः शब्द उत्पत्तिधर्मकत्वाद् ।
इदं तु सम्यक्साधनमुत्तरं त्वाभासमिति ।
साधर्म्योक्ते साधर्म्यसमः वैधर्म्योक्ते वैधर्म्यसमः ।
एवं साधर्म्योक्ते वैधर्म्यसमः वैधर्म्योक्ते साधर्म्यसम इति

11.3

न्य्स्_5,1.3: गोत्वाद्गोसिद्धिवत्तत्सिद्धिः ॥
कथं पुनरियं जातिः, अथ प्रकरणसमोद्भावनं सम्यगुत्तरमेव कस्मान्न भवतीत्यत आह ।
अनयोश्च साधर्म्यवैधर्म्यसमयोरुत्तरम् ।
गोत्वाद्गोसिद्धिवत्तत्सिद्धिः (सू. 3) ॥
भवेदेवं यद्यन्वयव्यतिरेकमात्राद्धेतोर्गमकत्वं स्यात् ततो विशेषग्रहणाभावात्प्रकरणसमत्वं भवेत् ।
न त्वेवं भवति स्वाभाविकसम्बन्धभाजो गमकत्वात् ।
स्वभावसंबद्धं च कृतकत्वमनित्यत्वेन,
न त्वमूर्त्तत्वस्य नित्यत्वेन स्वाभाविकः सम्बन्धः बुद्धिकर्मादौ व्यभिचारात् ।
तस्माद्गृह्यमाणविशेषत्वान्न प्रकरणसमः ।
यथा गोत्वाद्गौः सिध्यति स्वाभाविकप्रतिबन्धात् ।
नतु सास्नादिसंबन्धादिति भाष्यं सास्नादीत्यतद्गुणसंविज्ञनो बहुव्रीहिः ।
तेन व्यभिचारिणः शृङ्गादयो गृह्यन्ते ।
वार्त्तिकम् एकस्यानन्वयादेकस्याव्यावृत्तेः ।
(532।11) एकस्य सत्त्वस्य गवा ऽनन्वयाद् अश्वादौ व्यभिचारादनन्वयः ।
एकस्यैकशफत्वादेर्वैधर्म्यस्य गोष्वेवाव्यावृत्तेः महिषादावपि व्यावृत्तेरित्यर्थः

11.4

न्य्स्_5,1.4: साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्च उत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः ॥
साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः (सू. 4) ॥
उभयसाध्यत्वात्साध्यसमः ।
पञ्चानां जातीनां साध्यदृष्टान्तयोर्धर्मविकल्पादित्यनेन पञ्चैव लक्षणानि सूचितानि ।
तानि च जातिसमाख्याभिर्मिथो विशिष्यन्ते ।
अनित्यः शब्दः कृतकत्वाद् घटवदित्युक्ते यदैवं प्रतिवादी प्रसङ्गेन प्रत्यवतिष्ठते यदि घटसाधर्म्यात्कृतकत्वादनित्यः शब्दः
तस्मादेव घटसाधर्म्याद्रूपादिमता ऽपि शब्देन भवितव्यम् ।
न चेद्रूपादिमान्मा भूत्तथा ऽनित्यो ऽपि ।
न चास्ति विशेषहेतुः कृतकत्वादनित्येन भवितव्यं न पुना रूपादिमतेति ।
सो ऽयं साध्यदृष्टान्तयोर्द्धर्मविकल्पाद्वैचित्र्याद्यत्रोत्कर्षं प्रसञ्जयति स उत्कर्षसमः ।
एवं तदेव साध्यदृष्टान्तयोर्धर्मवैचित्र्यमपकर्षेण विशिष्यमाणमपकर्षसमस्य लक्षणम् ।
साध्यदृष्टान्तयोर्धर्मवैचित्र्यात्स्वरूपेणा साध्यासाधनत्वप्रसङ्गजनने वर्ण्यावर्ण्यसमौ ।
साध्यदृष्टान्तधर्मविकल्पहेतुकवर्ण्यत्वनिबन्धनं तु हेत्वाद्यवयवोगित्वप्रसञ्जनं साध्यसमः ।
अत एवोभयसाध्यत्त्वादिति साध्यत्वं हेतुमाहमाध्य समस्य सूत्रकारः ।
भाष्यकारो ऽपि हेत्वाद्यवयवसामर्थ्ययोगीति ब्रुवाणस्तत्प्रसञ्जनं साध्यसमं मन्यते ।
तदेतद्वार्त्तिककृदाह ।
घटा वा ऽनित्य इत्यत्र को हेतुरिति ।
(533।9) न च यदि समाख्याभेदेन विशिष्यमाणं लक्षणपदं भिन्नार्थं तर्हि समाख्यापदान्येव लक्षणानि सन्तु कृतं लक्षणपदेनेति वाच्यम् ।
लक्षणपदसहितानामेव तेषां लक्ष्यभेदप्रतिपादकत्वादिति

11.5

न्य्स्_5,1.5: किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः ॥
आसां षण्णां जातीनां प्रत्याख्यानम् ।
किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः (सू. 5) ॥
यस्य धर्मिणः साध्यधर्मेण स्वाभाविकसंबन्धः साधको धर्म उपपद्यतौपपन्नो भवति स धर्मस्तस्य साध्यधर्मस्य साधनं साध्यधर्थ्मण्युपसंह्वियते ।
तथा च शब्देनेति ।
उपनयपदेनेत्यर्थः ।
यत्पुनरेतद्विभागजाविभगजविकल्पवन्नित्यानित्यविकल्प
इति तत्राह ।
यथोत्पत्तिधम्रकत्वमन्वयव्यतिरेकि नैवं विभागजत्वम् ।
अयमर्थः विकल्पसममुत्तरं वदता हि यथा सत्युत्पत्तिमत्त्वे घटो न विभागजः इति व्यवस्थितो विकल्पः एवं सत्युत्पत्तिमत्त्वे सत्यपि विभागजवच्छब्दो ऽपि नित्यो भविष्यति घटस्त्वनित्य इत्युक्तम् ।
तत्र तावदुत्पत्तिधर्मकत्वं यथा सत्यनित्यत्वे घटादौ दृष्टम् आकाशादिषु चासत्यनित्यत्वे न दृष्टं तेनानित्यत्वेन स्वभावप्रतिबद्धमवधारितं नैवमुत्पत्तिधर्मकत्वस्य विभागजत्वेनाविभागजत्वेन वा स्वाभाविकसंबन्धो गृहीतो येनोत्पत्तिमत्किं चिद्विभागजं किं चिदविभागजं न भवेत् ।
तस्मा द्विकल्पसमं जात्युत्तरं वदता ऽतिनिर्बन्धेन विभागजत्वेन शब्दस्य नित्यत्वं वक्तव्यं तत्रदमुपतिष्ठते यथोत्पत्तिधर्मकत्वमन्वयव्यतिरेक्यनित्यत्वं प्रति नैवं विभागजत्वं शब्दनित्यत्वं प्रत्यन्वयव्यतिरेकीति ।
तद्ध्यसाधारणमित्यर्थः ।
असाधारण्यमाह ।
न हि किं चिच्छब्दादन्यद्विभागाज्जायमानं नित्यमानत्वं वा दृष्टम् ।
(534।1) ननु विभागजो विभागो ऽनित्योव दृष्ट इत्यत आह ।
थोक्तविशेषणमिति ।
कारणमात्रविभागपूर्वकः शब्दो विभागजस्तु विभागः कारणाकारणविभागपूर्वकः इति सिद्धं कारणमात्रविभागपूर्वकत्वमसाधारणमित्यर्थः

11.7

न्य्स्_5,1.6: साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥
षण्णां जातीनां प्रत्याख्यानमुक्त्वा वर्ण्यावर्ण्यसाध्यसमानामपरं प्रत्याख्यानमाह ।
साध्यातिदेशाच्च दृष्टान्तोपपत्तेः (सू. 6)
इति ।
तद्व्याचष्टे दृष्टान्तः साध्य इति ब्रुवतेति ।
चतुर्दशविधजातिवादिनामिह दूषणमुपन्यस्यति ।
यत्त्वत्रोक्तं जातीनां पौनरुक्त्यमिति ।
लक्षणभेदाभ्यां किल लक्ष्यभेदाभेदौ लक्षणं चेदमेकमिति न षड्जातयः तस्माद्विकल्पसमायामेवोत्कर्षसमादीनामन्तर्भाव
इत्यर्थः ।
दूषयति ।
न पौनरुक्त्यम् ।
तत्तल्लक्ष्यपदसहितानि पञ्च लक्षणानि उभयसाध्यत्वाच्चेत्यनेन सह लक्षणानि षडिति न केवलं लक्ष्य भेदात्प्रयोगभेददर्शनाच्च ।
शङ्कते ।
यदि लक्ष्यभेदाज्जातिभेदस्तत आनन्त्यमिति चेत् ।
निराकरोति ।
नानवधारणादिति ।
न लक्ष्याणामवधारणमस्त्येषामानन्त्यात् ।
लक्षणोपग्रहेण चतुर्विंशतिर्जातय इत्यर्थः ।
लक्ष्याणां लक्षणाभेदे ऽपि भेदे निदर्शनमाह ।
तथा हि प्रकरणसमैकेति ।
सुगममितरत्

11.8

न्य्स्_5,1.8: प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वाद् अप्राप्त्यासाधकत्वाच्च प्राप्त्यप्राप्तिसमौ ॥
प्राप्त्यप्राप्तिसमाविति लक्ष्यपदम् ।
शेषं लक्षणम् ।
असत्साध्यते न तु सत् ।
प्राप्तं सत् ।
असतः प्राप्त्यसंभवात् ।
तस्मान्न साध्यम् ।
अपि च येन यस्य प्राप्तिस्तेन गङ्गा सागरं प्राप्ता सागरेणसङ्गता सागरेणाभिन्ना तद्वदेवाभिन्ने ।
चेत्साध्यसाधने नास्ति साध्यसाधनभावः
तस्य भेदाधिष्ठानत्वादित्यपि द्रष्टव्यम् ।
अप्राप्तिसमस्तु स्फुट एवेति ।
ननु प्राप्त्यप्राप्तिसमयोर्मिलितयोः साधनप्रतिषेधस्यैकत्वात् कथं प्राप्त्यप्राप्तिसमौ भिन्नावित्यत आह ।
अनयोर्भेदोपदेशो विवक्षात इति (535।9) ।
साधनप्रतिषेधस्यैकत्वे ऽपि प्राप्य वा ऽप्राप्य वेति विकल्पभेदाद्भेदविवक्षेत्यर्थः ।
अभेदविवक्षायां त्वेकमेवोत्तरम् ।
यथा वृक्षाणां बहुत्वं विवक्षित्वा बहुवचनप्रयोगो वृक्षा इति तद्बहुत्वसंख्यायाव एकत्वं विवक्षित्वैकवचनम् एकं वनमिति ।
उदाहरणेन साधर्म्यंवैधर्म्याभ्यां प्रत्यवस्थानमिति जातिसामान्यलक्षणं मन्वानो देशयति ।
जातिलक्षणाभावादिति परिहरति ।
न सूत्रार्थापरिज्ञानादिति ।
सूत्रे नोदाहरणसाधर्म्यं विवक्षितमपि तु येन केन चिद्विद्यमानेनासाध्येन साधर्म्यम् ।
अप्राप्तेन वा हेतुना साधमर्यमिति न सामान्यलक्षणायोग
इति

11.9

न्य्स्_5,1.9: घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः ॥
प्रत्याख्यानम्---
घटादिनिष्पत्तिदर्शनादिति सूत्रं, तद्व्याचष्टे मृत्पिण्डप्राप्तानां दण्डादीनां न गङ्गासागरवदविशेषः ।
मृदवयवाः पूर्वव्यूहपरित्यागेनेति ।
(536।2) साध्यं कर्म तच्च मृदवयवास्ते च सिद्धा एवेत्यव्यभिचारः ।
घटस्तु फलं न साध्य
इति भावः ।
को ऽप्राप्त्यर्थ इति।अप्राप्तस्य साधकत्वे ऽतिप्रसङ्गः इति भावः ।
उत्तरं परस्परोपश्लेषमन्तरेण साधकत्वमिति ।
अन्यथा तूद्देशेनायं प्राप्त
एव ।
यदुद्देशेनाभिचारः श्येनादिना क्रियते तस्यैव प्रत्यवायो भवति नान्यस्येति नियमः ।
अत्रापि हेतुत्वं क्रियां प्रति दृष्टम् ।
यथा पङ्काख्यायां भुवि ।
सुगममन्यत्

11.9

न्य्स्_5,1.9: दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ॥
दृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ (सू. 9) ॥
दृष्टान्तस्य कारणं प्रमाणं तस्यानपदेशात्प्रसङ्गपसमः साध्यसमो हि दृष्टान्ते साध्यवद्धेत्वाद्यवयवं प्रसञ्जयति ।
पञ्चावयवप्रयोगसाध्यतां दृष्टान्तस्य गतस्यानित्यत्वस्य प्रसञ्जयतीत्यर्थः ।
प्रसङ्गसमस्तु दृष्टान्तगतस्यानित्यत्वस्य प्रमाणमात्रसाध्यतामित्यपौनरुक्त्यम् ।
भाष्यं साधनस्यापि ।
दृष्टान्तगतस्यानित्यत्वस्पय साधनं प्रमाणं वाच्यमिति ।
वार्त्तिकं घट एव तावदनित्य इत्यत्र को हेतुरिति ।
अत्र किं प्रमाणमित्यर्थः ।
भाष्यं प्रतिदृष्टान्त उदाह्नियते ।
किंयाहेतुगुणयुक्तमाकाशमक्रियं दृष्टं तस्मादनेन प्रतिदृष्टान्तेन कस्मात् ।
क्रियाहेतुगुणयोगो निष्क्रियत्वमेव न साधयत्यात्मन इति शेषः ।
यदि पुनरियमनैकानितकदेशना स्यात् क्रियाहेतुगुणयुक्तस्याप्यक्रियत्वं दृष्टं यथाकाशस्येति तद् एतत्सदुत्तरं स्यात् ।
न त्वेवमेतदिति जातिः ।
शङ्कते ।
वाय्वाकाशसंयोगस्येति ।
निराकरोति ।
न तत्समानधर्मोपपत्तेः ।
तत्समानधर्मणो धर्मिणः क्रियावत्त्वोपपत्तेः ।
यदि तथाभूत एवाकाशे कस्मान्न करोतीत्यत आह यस्त्वसाविति ।
(537।1) यस्तु मन्यते कार्योत्पादैक्यव्यङ्न्यमेव कारणं न दृष्टकार्यकारणसाधर्म्यव्यङ्न्यमपीति,
तस्य दूषणान्याह यदि चेति ।
न्य्स्_5,1.10: प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तद्विनिवृत्तिः ॥
यदि प्रज्ञापनार्थमुत्तरं नाप्रज्ञातो दृष्टान्तः ।
तत्र लौकिकपरीक्षकाणां बुद्धिसाम्यादिति शेषः ।
न्य्स्_5,1.11: प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥
स च कथमहेर्तुन स्यादिति (538।1) कथं हेतुः स्यादिति ।
अभ्युपगमादिति ।
मदीयस्य च दृष्टान्तस्याभ्युपगमान्न त्वदीयो दृष्टान्त इत्यर्थः ।
अथैवं प्रयुङ्क्ते यथा मदीयो न दृष्टान्तस्तथा त्वदीय इति तथापि व्याघातान्न दृष्टान्तो मदीयस्यादृष्टान्तत्वे साध्ये प्रतिदृष्टान्तेन हि तेन मदीयस्या दृष्टान्तता साध्या, स चेन्न दृष्टान्तः मदीपस्यादृष्टान्तता साध्येति व्याहतमित्यर्थः

11.12

न्य्स्_5,1.12: प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥
उदाहरणपुरःसरं भाष्यकारो व्याचष्टे अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्
घटवदित्युक्त इति ।
तदश्रावात्कारणाभावादनित्यत्वस्य कार्यस्याभावे नित्यत्वं प्राप्तम् ।
नित्यत्वानित्यत्वाभ्यां राश्यन्तराभावादिति

11.13

न्य्स्_5,1.13: तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ॥
तस्य प्रत्याख्यानम् ।
तथा भावापदुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः । (सू. 13) ॥
नित्यत्वेन हि शब्दस्य धर्मेणानुत्पत्त्या प्रत्यवस्थेयम् ।
न चानुत्पन्नः शब्द इति नित्य इति चानुत्पत्तिधर्मक
इति च सम्भवति ।
उत्पन्नस्तृत्पत्तिधर्मा च शब्दश्चानि त्यश्चेति नानुत्पत्त्या शक्यं प्रत्यवस्थातुमित्यर्थः ।
कारणोपपत्तेरिति प्रयत्नानन्तरीयकत्वस्य प्रतिषेध इत्यर्थः ।
यदुक्तं कारणाभावादनित्यत्वस्य कार्यस्याभावे नित्यत्वं प्राप्तमिति तत्राह वार्तिककारः ।
ज्ञापकश्चायं हेतुर्न कारक
इति ।
कारको हि हेतुर्निवर्तमानः स्वकार्यं निवर्तयति न तुज्ञापकस्तदभावे ऽपि भूमौ चिरनिखातानां निध्यादीनामनिवृत्तेरिति ।
ततश्च विशेषण मनर्थकं प्रागुत्पत्तेरति ।
(539।4) प्रागसतो हि सत्तासम्बन्ध उत्पत्तिः प्रागपि चेदसावभ्युपगतः प्रागिति विशेषणमनर्थकम् ।
उत्पत्तेरभावे सदैवानुत्पत्तिधर्मकत्वादित्यर्थः ।
अपरे तु प्रागुत्पत्तेः कारणाभावादित्युक्ते अर्थापत्तिसमैवेयं जातिरिति मत्वा ऽस्या उत्तरमाहुः यदैवंमुच्येत प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति तदर्थादप्रयत्नानन्तरीयकत्वे नित्यत्वमुक्तं भवतीत्यर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमैवेयं जातिरित्यभिमानः ।
एवं कृते त एवास्यां जातावुत्तरं ब्रुवते नायं नियम इति ।
तदेतत्परेषां मतं दूषयति ।
एतत्त्विति ।
शङ्कते ।
जातिलक्षणाभावान्नेयं जातिरिति चेत् ।
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः न चानुत्पत्तिसमायाः साधर्म्यं वैधर्म्यं वा ऽस्ति केन चिदित्यर्थः ।
निराकरोति ।
नानुत्पन्नैरहेतुभिः सारूप्यादिति ।
यथा ऽनुत्पन्नास्तन्तवो न पटस्य कारणं तथा शब्दोत्पत्तेः प्रागनुत्पन्नं प्रयत्नानन्तरीयकत्वं नानित्यत्वस्य कारणमिति साधर्म्येण प्रत्यवस्थानमित्यस्ति सामान्यलक्षणमित्यर्थः ।
एतावता चार्थापत्तिसमाया अनुत्पत्तिसमातो भेदो दर्शितः इहानुत्पन्नैरहेतुभिः साम्येन कार्यप्रतिषेधात् अर्थापत्तिसमायां वाक्यार्थविपरीतारोपेण प्रतिषेधादिति

11.14

न्य्स्_5,1.14: सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः ॥
दृष्टान्तः प्रयत्नानन्तरीयकत्वस्य हेतोर्घट इति ।
यथा हि विशेषदर्शनं निश्चयस्य कारणमस्तीति निश्चयोत्पत्तिरेव साधर्म्यदर्शनमात्रमस्ति संशयस्य कारणमिति संशयेनापि भवितव्यमित्यर्थः ।
सूत्रार्थप्रयोजनमाक्षेपसमाधानाभ्यां स्फुटीकरोति ।
संशयसमा साधर्म्यसमाया इति

11.15

न्य्स्_5,1.15: साधर्म्यात्संशये न संशयो वैधर्म्याद् उभयथा वा संशये ऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः ॥
अस्य प्रत्याख्यानसूत्रम् ।
साधर्म्यात्संशये न संशयो वैधर्म्यादुश्रयथा वा संशये ऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः (सू. 15) ।
न सामान्यदर्शनमात्रं संशयस्य कारणमपि तु विशेषादर्शनसहितं विशेषदर्शने तु तद्रहितं न कारणमिति सूत्रार्थः ।
उभयथा वेति ।
साधर्म्यविशेषदर्शनाभ्यामित्यर्थः ।
नित्यत्वानभ्युपगमाच्च सामान्यस्येति ।
नित्यं संशयकारणत्वानभ्युपगमात्साधर्म्यस्येत्यर्थः

11.16

न्य्स्_5,1.16: उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः ॥
उपलक्षणं चैतद् उभयसाधर्म्यादिति ।
उभयवैधर्म्यादित्यपि द्रष्टव्यम् ।
एतद्व्याचष्टे भाष्यकारः उभयेन नित्येन चानित्येन चेति ।
द्वितीयश्च नित्यसाधर्म्यात्प्रतिपक्षं प्रवर्तयति नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति ।
अथ द्वितीयसाधनप्रवृत्तौ प्रथमस्य साधनस्य किं भवतीत्यत आह ।
एवं च सति प्रयत्नांनन्तरीयकत्वादिति हेतुरनित्यसाधर्म्येणोच्यमानो न प्रकरणमतिवर्तते ।
मा ऽतिवर्त्तिष्ट प्रकरणं को दोष इत्यत आह ।
प्रकरणानतिवृत्तेर्निर्णयानतिवर्त्तनम् ।
निर्णयानिष्पत्तिरित्यर्थः ।
एवमानित्यसाधनवादिनं प्रत्युत्तरं दर्शयित्वा नित्यसाधनवादिनं प्रत्याह ।
समानं चैतन्नित्यसाधर्म्येणोच्यमान
इति ।
तदेवं साधर्म्येण प्रकरणसमद्वयमुक्तं तथा वैधर्म्येण प्रकरणसमद्वयं नित्यानित्यसाधनवादिनावेव प्रत्याह ।
समानं चैतदिति ।
उभयवैधर्म्यादिति ।
नित्याकाशवैधर्म्यात्कृतकत्वादनित्यघटवैधर्म्याच्चास्पर्शवत्त्वादिति ।
तदेवं प्रकरणसमचतुष्टयम् ।
पूर्वपक्षवार्त्तिकं संशयसमसाधर्म्यसमाभ्यामिति (540।13)परिहरति ।
नोभयपक्षसाधर्म्यात्तद्भेदोपपत्तिरिति ।
प्रकरणसमे हि स्वपक्षनिश्चयेन मया वादिपक्षसाधनं दूषणीयमिति बुद्ध्या प्रवर्त्तते ।
साधर्म्यसमसंशयसमयोस्तु वादिसाधनेन साम्यमात्रापादनेन तद्दूषणं,
न तु प्रतिपक्षनिश्चयेनेति विशेषः ।
इह तु साम्यमात्रापादनं न साधनेन, किं तु दूषणैरित्येतावता समार्थः प्रयोगः सम इति बोद्धव्यम्

11.17

न्य्स्_5,1.17: प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपतिः प्रतिपक्षोपपत्तेः ॥
अस्य प्रत्याख्यानम् ।
प्रतिपक्षात्प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः । (सू. 17) ॥
द्वयोः साधनयोस्तदानीमगृह्यमाणविशेषयोः को ऽयमभिमानः प्रतिवादिनो यन्मयास्वपक्षसाधनेनैव वादिनः साधनं दूषणीयमिति ।
समानबलयोश्चेदयमात्मीयात्साधनात्स्वपक्षसिद्धिपमिच्छति अतो ऽनिच्छन्नपि वादिनापि साधनात्सिद्धिमभ्युपगमयितव्यः ।
अन्यथा स्वसाधनात्साध्यसिद्धिमुपजीव्य व्यक्तमियं राजङ्कुलस्थितिरिति ।
एवं व्यवस्थिते सूत्रभाष्ये योजयितव्ये ।
प्रतिपक्षात्प्रतिपक्षसाधनात्प्रकरणस्य प्रक्रियमाणस्य साध्यस्येति यावत् ।
सिद्धेः समानात् स्वसाधनात् प्रतिषेधस्य प्रतिवादिसाधनस्य स्वसाध्यसिद्धिद्वारेण परकीयसाधनप्रतिषेधस्यानुपपत्तिः ।
कस्मात्प्रतिषेधानुपपत्तिरित्यत उक्तं प्रतिपक्षोपपत्तेः ।
फलतः परकीयसाधनस्य समानात्स्वसाधनात्प्रक्रियासिद्धिं स्वसाध्यसिद्धिं ब्रुवता प्रतिपक्षात्प्रक्रियासिद्धिरुक्ता भवति प्रतिवादिना ।
नन्वेवं प्रकरणसमाव्हयो हेत्वाभासो नोद्भावनीयः प्रतिवादिना जात्युत्तरप्रसङ्गादित्यत आह ।
तत्त्वानवधारणाच्च प्रक्रियासिद्धिः ।
स्वसाध्यनिर्णयेन परसाध्यविघटनबुद्ध्या प्रतिवादिना साधनं प्रयुज्यमानं प्रकरणसमजात्युत्तरं भवति ।
सत्प्रतिपक्षतया वादिनः साधनमनिश्चायकं करोमीति बुद्ध्या प्रतिपक्षसाधनं प्रयुञ्जानो न जातिवादी सदुत्तरवादित्वात् ।
सत्प्रतिपक्षताया हेतुदोषस्यानैकान्तिकादिवदुपपादितत्वात् ।
तत्त्वानवधारणादित्यनेन प्रकरणसमोदाहरणं दर्शितम् ।
वार्तिकं विरुद्धाव्यभिचार्येष
उक्तोत्तर इति ।
तुल्यबलयोरेकतरस्मात्स्वसाध्यसिद्धिमभ्युपगच्छतोर्द्वयोरपि फलतो व्यभिचारः सिध्यति ।
न च विरुद्धाव्यभिचारी सम्भवति ।
अव्यभिचारो ह्यविनाभावः स च पञ्चरूपसम्पत्तिश्चतूरूपसम्पत्तिर्वा न विरुद्धाव्यभिचारिणि सास्तीत्यर्थः

11.18

न्य्स्_5,1.18: त्रैकाल्यासिद्धेर् हेतोरहेतुसमः ॥
सूत्राभाष्यवार्तिकानि प्रमाणसामान्यपरीक्षाव्याख्यानेन व्याख्यातानि

11.21

न्य्स्_5,1.19: न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः ॥
न्य्स्_5,1.20: प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥
न्य्स्_5,1.21: अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः ॥
उदाहरणपुरःसरं सूत्रं योजयति ।
अनित्यः शब्द इति ।
अनित्यसाधर्म्यादनित्यं शब्दं ब्रुवाणो भवाननक्षरं नित्यसाधर्म्यान्नित्यत्वं शब्दस्य ब्रूतैत्यर्थः ।
न साधर्म्यसमादौ वाद्यभिप्रायवर्णनमित्यतो भेदः

11.22

न्य्स्_5,1.22: अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच्चार्थापत्तेः ॥
अस्य प्रत्यादेशसूत्रम् ।
अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्त्वाच्चार्थापत्तेः (सू. 22) ॥
तद्व्याचष्टे अनुपपाद्य सामर्थ्यमिति ।
तदेव खल्वनुक्तं वचनाल्लभ्यते यत्कल्पनमन्तेरण वचनार्थो न घटते यथा पीनो देवदत्तो दिवा न भुङ्क्तैत्युक्ते रात्रौ भुङ्क्त इति ।
यथा वा यागेन स्वर्गं भावयेदित्युक्ते ऽन्तरापूर्वं कृत्वेति वाक्यार्थोपपादने तस्य सामर्थ्यात् ।
न त्वव्यभिचारिणः साधर्म्यात्साध्ये साध्यमाने ऽर्थादुक्तं भवति व्यभिचारिणा ऽपि साधर्म्येण साधयितव्यमिति ।
तस्य वाक्यार्थोपपादने ऽसामर्थ्यात् ।
तदन्तरेण वाक्यार्थोपपत्तेः ।
यदि पुनरनुपलब्धसामर्थ्यमनुक्तमपि गम्येत ततस्त्वया नित्यत्वापादने शब्दस्योच्यमाने ऽनुच्यमानमनित्यत्वं प्रत्येतव्यम् ।
तथा च भवदभिमतस्य नित्यत्वस्य व्यावृत्तिः ।
तदिदमाह
अनित्यपक्षस्यानुक्तस्य सिद्धावर्थादापन्नं नित्यपक्षस्य हानिरिति ।
विपर्ययेणापि प्रत्यवस्थानसम्भवात् ।
अनैकान्तिकत्वमाह उभयपक्षसमा चेयमिति ।
व्यभिचाराच्चानैकान्तिकत्वमाह ।
न चेयं विपयर्यमात्रादिति ।
न हि भोजननिषेधादेवाभोजनविपरीतं सर्वत्र कल्पते ।
धनत्वं हि ग्राव्णः पतनानुकूलगुरुत्वातिशयसूचनार्थं न त्वितरेषां पतनं वारयति ।
वार्तिकं सुबोधम्

11.23

न्य्स्_5,1.23: एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेर् अविशेषसमः ॥
यदि घटसाधर्म्यात्यप्रयत्नानन्तरीयकत्वाद्
घटेनाविशेषो ऽनित्यत्वाख्यः शब्दस्य सत्त्वात्साधर्म्यात्सर्वेषां सर्वाविशेषप्रसङ्गः ।
न त्वेवं यथा प्रयनानन्तरीयकत्वादपि साधर्म्यान्न शब्दघटयोरनित्यत्वमविशेष
इति प्रतिषेधो ऽविशेषसमः ।
अविशेष
इत्यस्य विवरणमुभयोरनित्यत्व इति ।
देश्यं वार्तिकं साधर्म्यसमातो न भिद्यते इति (542।6) ।
परिहारवार्त्तिकं नैकसमस्तेति

11.24

न्य्स्_5,1.24: क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः ॥
अस्य प्रत्यादेशसूत्रम् ।
क्व चित्तद्धर्मानुपपत्तेः क्व चिच्चोपपत्तेः प्रतिषेधाभावः (सू. 24) ॥
क्व चित्साधर्म्ये प्रयत्नानन्तरीयकत्वादौ सति शब्दादेर्घटादिना सह तद्धर्मस्य घटधर्मस्यानित्यत्वस्योपपत्तेः क्व चित्साधर्म्ये शब्दस्य भावमात्रेण सह सत्त्वादौ भावमात्रधर्मस्यानुपपत्तेः प्रतिषेधाभाव
इति योजना ।
एतदुक्तं भवति अविनाभावसम्पन्नं साधर्म्यं गमकं न तु साधर्म्यमात्रमिति ।
सद्भावो पपत्तिनिमित्तमिति सद्भावव्यापकमित्यर्थः ।
अत्रान्तरे वैनाशिकः सत्ताव्यापकमनित्यत्वं मन्वानो देशयति ।
अथ मतमनित्यत्वमेव धर्मान्तरमिति ।
निराकरोति ।
एवं खलु वै कल्प्यमान इति ।
पूर्वपक्षोत्तरपक्षपवनिर्वाहस्तृतीये प्रपञ्चितः ।
अपि च सन्तः के चन प्रमाणावधृतनित्यत्वाः
यथाकाशादिगात्मपरमाणवः, के चित्प्रमाणविनिश्चितानित्यभावा यथा घटादयः तस्मात्सत्त्वमनैकान्तिकत्वादसाधकमित्याह सतश्च नित्यानित्यभावादिति ।
अपि च यत्प्रतिषेधाय प्रसङ्गापादनं तदेव प्रतिषेध्यं साधयति,
न तु निषेधतीत्याहसर्वभावानां सद्भावोपपत्तेरिति ।
वार्तिकं क्व चित्साधर्म्यमुपलभ्यत इति ।
व्याप्यतयेति शेषः ।
अथ शब्दवर्जमुच्यत
इति तत्राह व्यर्थंवा सर्वभावग्रहणम् ।
उक्तश्च विशेषो ऽन्वयव्यतिरेकसंपन्नो हेतुरिति प्रयत्नान्तरीयकत्वं न तूत्तरः सद्भावोपपत्तेरित्यन्वयव्यतिरेकसम्पन्न
इति

11.25

न्य्स्_5,1.25: उभयकारणोपपत्तेरुपपत्तिसमः ॥
यद्यनित्यत्वकारणं प्रयत्नानन्तरीयकत्वमुपपद्यते तदस्ति शब्दस्येत्यनित्यः शब्द इति ।
प्रकरणसमायां जातौ पक्षप्रतिपक्षसाधनयोः समानबलत्वे ऽपि प्रतिवादि स्वासाधनास्वपक्षसिद्ध्पवया वादिसाधनदूषणे प्रवर्त्तते, उपपत्तिसमायां तु स्वसाधनेनैवेति विशेषः

11.26

न्य्स्_5,1.26: उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ॥
अस्य प्रत्यादेशसूत्रम् ।
उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः (सू. 26) ॥
वाद्यभिमतस्य साधनस्योपपत्तौ यत्कारणं तस्वय प्रतिवादिना ऽभ्यनुज्ञानादिति भावः ।
प्रकरणसमप्रत्याख्यानवदस्यापि प्रतयाख्यानं द्रष्टव्यम् ।
सुगमे भाष्यवार्त्तिके

11.27

न्य्स्_5,1.27: निर्दिष्टकारणाभावेप्युपलम्भादुपलब्धिसमः ॥
अनित्यत्वकारणस्येति ।
ज्ञापकस्येत्यर्थः ।
ननु यद्वृत्तयोगप्राथम्ययोः साधनधर्मो विषयो न तु साध्यधर्मः स हि तद्वृत्तयोगस्य विषयः एवं प्रयुज्यते यो यः प्रयत्नानन्तरीयकः स सर्वो ऽनित्यः अनेन हि प्रयत्नानन्तरीयकत्वमनित्यादन्यतो व्यावर्त्तितम् ।
अनित्यत्वं त्वनियतं स यद्यप्रयत्नानन्तरीयके शब्दे ऽन्यत्र वा भवेत् कः प्रयत्नानन्तरीयकत्त्वस्यानित्यत्वनियमविरोधः
एवं हि स भवेद् यदि नित्यो ऽपि प्रयत्नानन्तरीयको दृश्येत न त्वेवमस्ति, तस्मादुपलब्धिसमाया उत्थानमेव नास्ति बीजाभावादित्यत आह वार्तिककारः सर्वसाध्याध्यारोपेणाव्यापकत्वं साधनस्येत्युपलब्धिसमार्थः ।
(543।7) यद्यपि वर्णात्मकः शब्दो ऽनि त्यत्वेन साध्यतया विवक्षितः प्रकरणादनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदिति तथा ऽपि शब्दमात्रमनेन पक्षीकृतमित्यारोप्य भागासिद्धत्वारोपणं साधनस्येत्युपलब्धिसमार्थः ।
समारोपमेवोदाहरणान्तरेण दर्शयति ।
सर्वमनित्यमिति ।
शब्दोनित्य इति प्रतिज्ञायामपि सर्वमनित्यमित्नपवयारोप्येति योजना ।
भाष्यकारोदाहरणापतितोपश्चोदाहरणान्तरप्रदर्शनबीजम् ।
यस्त्वनित्यः शब्द इति प्रतिज्ञायां सर्वानित्यत्वारोपो निर्बीज इति न तुष्यति तं प्रत्याह ।
श्रूयमाणेति ।
यद्यप्यनित्यः शब्द इति श्रूयते तथा ऽपि सामर्थ्थादाद्य
इति विवक्षितः ।
शब्दान्तरोत्पादकत्वं सजातीयोत्पादकत्वमिति1
एवं च नायोगव्यवच्छेदेन शब्दानित्यत्वं हेतुरव्यापकत्वात् ।
नाप्यन्ययोगव्यवच्छेदेन हेत्वन्तरस्य विद्यमानत्वादिति जातिवादिनो ऽभिसंधिरिति

11.28

न्य्स्_5,1.28: कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ॥
अस्य प्रतयाख्यानसूत्रम् ।
कारणान्तरादपि तद्धर्मोयपत्तेरप्रतिषेधः (सू. 28) तद्व्याचष्टे ।
प्रयत्नानन्तरीयकत्वादिति ब्रुवतेति ।
कारणतः प्रयत्नाच्छब्दस्योत्पत्तिनियमो विधीयते वर्णानामनित्यत्वंव साधयितुम् ।
न तु कार्यस्य कारणनियमः, प्रयत्नादेव सर्वः शब्दो जायते न तु वायुसंयोगाद्वृक्षभङ्गादिति नियम उच्यते येनाव्यापकत्वं हेतोः स्यादिति ।
सूत्रार्थस्तु कारणान्तरादपि ज्ञापकान्तरादपि तद्धर्मोपपत्तेः साध्यधर्मोपपत्तेरप्रतिषेध
इति ।
एतदेव वार्त्तिककारो व्याचष्टे अनित्यः शब्द इति ब्रुवता प्रयत्नानन्तरीयकत्वेनेति शेषः ।
साध्यान्तराणां शाखाभङ्गजशब्दानां कारणमनित्यत्वज्ञापकं न प्रतिषिध्यते ।
यद्यपक्षीकृतानामपि कारणान्तरादनित्यत्वं भवति कामं भवत्वित्यर्थः ।
नापि शब्दस्य साध्यस्यानित्यत्वे कारणान्तरं प्रतययभेदभेदित्वादि प्रतिषिध्यते ।
एकदेशिमतमाह ।
अपरे तु परिहारं ब्रुवते यदेव प्रयत्नानन्तरीयकमितञ्
तिदेतद्पव दूषयति एतत्तु नाविवादादिति ।
अयमभिसंधिः ।
प्रयत्नानन्तरीयकत्वं हि कोष्ठ्यस्य वायोः क्रियायाः सा हि प्रयत्नवदात्मसंयोगाज्जायते ।
वायोः पुनरुरःस्थानादिषु संयोगविभागादयो न प्रयत्नानन्तरीयकाः प्रागेव तु शब्दः यदा चाद्यशब्दस्येयं गतिस्तदा कैव कथ प्रयत्नानन्तरीयकत्वे ऽन्त्यस्य श्रवणविवरसमवायिनः श्रूयमाण्स्य शब्दस्य ।
तस्माद्यः प्रयत्नानन्तरीयकत्वं शब्दस्पय विना प्रमाणेन प्रतिपद्यते न तं प्रति किं चित्साध्यते प्रमाणेन ।
प्रमाणानधीनस्य प्रतिभासमात्रेण प्रमेयसिद्धेः सर्वत्र सुलभतवादिति ।
तदनेनापरितोषबीजमुक्तम् ।
अभ्युपेत्य शब्दस्य प्रयत्नानन्तरीयकत्वमाह ।
यदा तु प्रयत्नानन्तरीयकत्वमिति ।
देशयति ।
जातीति ।
परिहरति नेति

11.29

न्य्स्_5,1.29: तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः ॥
अनुपलब्धिसमप्रतिषेधस्य लक्षणं दर्शयितुं तत्प्रतिषेध्यं तावदाह भाष्यकारः ।
न प्रागुच्चारणाद्विद्यमानस्यानुपलब्धिरिति ।
तस्मादुदकादिवदावरणादिरस्यानुपलम्भकारणं भवतीत्यत आह ।
गृह्येत चैतदस्याग्रहणकारणमिति ।
प्रतिषेध्यमुत्क्वा ।
प्रतिषेधस्य जातेर्लक्षणमाह ।
तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः (सू. 29) ॥
व्याचष्टे तेषामावरणादीनामनुपलब्धिर्नोपपद्यते ।
उपलभ्यमानत्वे उपलब्धिरूपतया अनुपलब्धित्वानुपपत्तेः ।
तथा चानुपलब्धेरनुपलम्भादनुपलब्धिर्नास्तीत्यावरणाद्युपलब्धिसिद्धिरिति ।
आवरण इवावरणानुपलब्धिरप्यनुपलब्धिसमेत्यर्थः

11.30

न्य्स्_5,1.30: अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥
अस्य प्रत्यादेशसूत्रम् अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः (सू.30) ॥
आवरणाद्यनुपलब्धिरावरणादीनामभावं गमयति ।
न त्वात्मनो ऽभावमावरणाद्युपलब्धिरूपं न ह्यसावनुपलब्धिरप्यात्मनो येनात्माभावं गमयेत् ।
उपलब्धिरप्युपलभ्यविषया नात्मविषया किं पुनरनुपलब्धिः ।
तस्मादनुपलब्धिरुपलभ्याभावहेतुः
न हेतुरात्माभावस्य तथा सति सैव न स्यादिति न स्यादुपलभ्याभावो ऽपीत्यावरणं तदुपलब्धिनश्च स्यादिति ।
तदिदमाह भाष्यकारः ।
अनुपलम्भादित्ययमहेतुरिति ।
कस्मात् ।
अनुपलम्भात्मकत्वादनुपलब्धेः ।
एतद्व्याचष्टे उपलम्भाभावमात्रत्वादिति ।
मात्रग्रहणेन जातिवाद्यभिमतात्माभावरूपतां व्यवच्छिनत्ति ।
नन्वियमनुपलब्धिर्भवतूपलम्भाभावो मा च भूदुपलभ्यस्य किमायातमावरणाद्यभावस्येत्यत
आह ।
यदस्ति तदुपलब्धेर्विषय उपलब्ध्या तदस्तीति विज्ञायते ।
न पुनरनुपलब्धेरनुपलम्भात्मतया तत्प्रतिज्ञेयमिति भावः ।
अनुपलब्धेः प्रज्ञेयमाह ।
यज्ञास्ति सो ऽनुपलब्धेरिति ।
ननु ज्ञायतां किमेतावता ऽपीत्यत आह ।
सो ऽयमावरणाद्यनुपलब्धेरनुपलम्भ
इति ।
त्वया हि जातिवादिना आवरणाद्यनुपलब्धेरनुपलम्भेनावरणोपलम्भमावरणं च प्रसञ्जयता ऽनुपलम्भस्य स्वविषयलोपेन प्रतयवस्थेयम् ।
एवं चेद्वरमस्यावरणतदुपलम्भौ विषयौ एवमनेन भावाभावबुद्धिव्यपदेशव्यवहाराः सकललोकयात्रावाहिनो ऽनुकूलिता भवन्ति,
तदिदमुक्तं सो ऽयमावरणाद्यनुपलब्धेरनुपलम्भ
आवरणोपलम्भनिषेधविषयं प्रमाणमुपलब्ध्यभावे ऽनुपलब्धौ स्वविषये प्रवर्त्तमानो न स्वविषय मनुपलब्धिं प्रतिषेधति अपि तूपलब्धिमेव,
जातिवादिनस्तु निषेध्येत तथा च सर्वलोकव्यवहारः समुच्छिद्येतेति भावः ।
अप्रतिषिद्धा चावरणाद्यवनुपलब्धिरावणादीनामभावं प्रति हेतुत्वाय कल्पते ।
ननु च नानुपलम्भमात्रमभावग्रहहेतुः
मा भूच्चन्द्रमसः परभागे हरिणसदसद्भावसंशय
इत्यत आह ।
आवरणादीनि त्विति ।
उपलभ्यं वोपलब्धिर्वा नानुपलम्भमात्रान्नास्तीति सिध्यति, अपि तु दर्शनयोग्यं सदिति नातिप्रसङ्ग
इत्यर्थः ।
ननूपलब्धेः स्वविषयस्य प्रतिपादिकाया अभावादावरणादयो मा नामोपलभ्यन्ताम्
अभावस्तु तेषां कुतस्त्य इत्यत आह अनुपलम्भात्प्रतिषेधकात्प्रमाणादनुपलब्धेर्यो विषयः उपलभ्याभावः स गम्यते ।
न सन्त्यावरणादीनि शब्दस्याग्रहकारणानीति ।
तत्किमिदानीं साक्षादेवोपलम्भनिषेधकं प्रमाणमुपलभ्याभावं गमयति नेत्याह ।
अनुपलम्भात् उपलब्धिनिषेधकात्प्रमाणादनुपलब्धिरावरणस्य सिध्यति ।
कस्मादित्यत आह ।
विषयः स तस्योपलब्धिनिषेधकस्य प्रमाणस्यानुपलब्धिः ततश्चावरणाद्यभाव
इति द्रष्टव्यम्

11.31

न्य्स्_5,1.31: ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ॥
न केवलं निषेधविषयप्रमाणगम्यतानुपलब्धेरुपपत्तिगम्या,
अपि तु सर्वजनप्रत्यात्मवेदनीयेत्याह सूत्रकारः ।
ज्ञानविकल्पानां च भावाभावसंवेनादध्यात्मम् (सू. 31) ॥
व्याचष्टे अहेतुरिति वर्तते ।
शरीर इति ।
प्रागुच्चारणाच् शब्दस्यानुपलब्धेरसत्त्वे साध्यमाने ऽनैकान्तिकत्वं स्याद् यदि तु पश्चाद्विशिष्येत आवरणाद्यसंभवे सतीति ततो हेत्वन्तरं नाम निग्रहस्थानं स्यादित्याशङ्क्य वार्तिककार आह ।
आवरणाद्यसंभवे सत्त्वाभ्युपगमे च सत्यनुपलब्धेरिति प्रयोगः ।
(544।8) सत्त्वाभ्युपगमे चेत्यस्योपादानप्रयोजनमाह ।
आवरणाद्यसंभवे सत्त्वाभ्युपगमे विपर्ययस्याव्यभिचारान्नार्थापत्तिसमः ।
अयमर्थः ।
यद्यावरणासंभवे सत्यनुपलब्धेरित्युच्यमाने कश्चिदर्थापतिसमया जात्या प्रत्यवतिष्ठते आवरणाद्यसंभवे सत्यनुपलब्धेरित्युच्यमाने अर्थादापतितमावरणादिसंभवे सत्युपलब्धेरिति ।
यदा तु सत्त्वाद्यभ्युपगम इति ।
विषयविपर्ययस्सूच्यते तदावरणाद्यसभवे सत्यनुपलब्धेरसत्त्वमित्यस्य विपर्यय एवं प्रयोक्तव्यः ।
सत्त्वोपगमे चावरणाद्यसंभवे सत्युपलभ्येतेति अस्य विपर्ययस्याव्यभिचाराद् नार्थापत्तिसम
इत्यर्थः

11.32

न्य्स्_5,1.32: साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ॥
अस्ति घटेनानित्येन सर्वभावानां सत्त्वं साधर्म्यमिति

11.34

न्य्स्_5,1.33: साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात् ॥
अस्य प्रत्याख्यानसूत्रम् ।
साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च (सू. 33)
न्य्स्_5,1.34: दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथा भावान्नाविशेषः ॥
तदिदं जातिवादिना साम्यमापाद्य परमार्थप्रतिषेधमाह ।
दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथाभावान्नाविशेषः (सू. 34) ॥
साधर्म्यामात्रं चाश्रित्यसाध्या विनाभावरहितमिति ।
देश्यवार्त्तिकमविशेषसमात
इति ।
परिहरति भिद्यत इति ।
यच्चाविशेषसमौत्तरमिति ।
(545।7) सर्वानित्यत्वं हि प्रसञ्जयता न शब्दानित्यत्वं निषिद्धं भवतीति तत्रोक्तमित्यर्थः ।
अत्र शङ्कते नासाधनादिति ।
परिहरति ।
न विशेषहेतूपपत्तेरिति ।
सुगममन्यत्

11.35

न्य्स्_5,1.35: नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः ॥
धर्मस्य सर्वदा भावाद्धर्मिणो ऽपि सर्वदा भावः
न ह्यस्ति संभवः सामान्यसमवायातिरिक्तधर्मा नित्या धर्मी चानित्य इति

11.36

न्य्स्_5,1.36: प्रतिषेध्ये नित्यमनित्यभावादनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः ॥
अस्य प्रत्यादेशसूत्रम् ।
प्रतिषेध्ये नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेः प्रतिषेधाभावः (सू. 36) नित्यमनित्यभावादिति हेतोरभ्युपगमे ऽनभ्युपगमे च दोष
इत्यर्थः ।
उत्पन्नस्य निरोधादभावः शब्दस्यानित्यत्वम् ।
तत्र च परिप्रश्नानुपपत्तिः ।
यदि हि निरोधकादभावो ऽनित्यत्वं तथापि प्रश्नानुपपत्तिः ।
अथाप्यस्मन्मते समवायस्तथा ऽपि तदनुपपत्तिः अनित्यत्वं हि शब्दस्यापरान्ताव च्छिन्नसत्तासमवायः ।
न चासौ शब्दाधेयस्तस्य स्वतन्त्रत्वादेवेत्यर्थः ।
वार्तिकम् ।
पृथगधर्मत्वेनानित्यत्वस्यानभ्युपगमादिति ।
(546।8) अनात्यन्तिकसत्तासमवायो ह्यनित्यता न चासौ समवायात्पृग्रग्धर्मो न च समवायो ऽपि धर्मो ऽनाश्रितत्वात्पारतन्त्र्येण तु निरूपणात्कथं चिद्धर्मीत्युच्यत इति ।
अपि चानात्यन्तिकसत्तायोगो ऽनित्यतेत्युक्ते न युक्तः प्रश्न इति ।
न हि घटमानयेति प्रेषितः परिवृत्य पृच्छति किं घट आनेतव्य
उत पट इति तादृशमेतदित्यर्थः ।
अपि चानित्यता नित्नपया ऽनित्या वेति विकल्पो नावतरति विरोधादित्यत आह ।
आत्यन्तिकानात्यन्तिकभावयोगश्चैकस्येति ।
शङ्कते प्रतिषेध्येति ।
एवमभ्युपगच्छतो ऽयं दोष इत्येतत्परमेतद् न तु स्वपक्षोपवर्णनपरमेतदिति शङ्कार्थः ।
निराकरोति न विकल्पानुपपत्तेरिति ।
विरोधस्य चोक्तोत्तरत्वादिति ।
परिप्रश्नानुपपत्तेरित्युत्तरं विरोधस्योक्तमित्यर्थः

11.37

न्य्स्_5,1.37: प्रयत्नकार्यानेकत्वात् कार्यसमः ॥
उदाहरणवपूर्वकमस्यार्थं व्याचष्टे प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति ।
कार्यत्वानित्यत्वे च परस्परासंकीर्णे प्रथम एवाध्यायेदर्शिते ।
उदाहृत्य जातिमवतारयति ।
एवमवस्थिते प्रयत्नकार्यानेकत्वादिति प्रतिषेध
उच्यत इति ।
प्रयत्नानन्तरीयकत्वं प्रयत्नानन्तरोत्पादो वा स्यात् प्रयत्नानन्तरोपलम्भो वा ।
न तावत्पूर्वः कल्पो ऽसिद्धत्वात् ।
तस्मात्प्रयत्नानन्तरोपलम्भ आस्थेयः
तत्र कार्यसमं प्रतिषेधमाह प्रयत्नानन्तरमुपलभ्यमानानां प्रयत्नानन्तरमात्मलाभश्च दृष्टो यथा घटादीनां व्यवधानापोहाच्चाभिव्यक्तिर्व्यवहितानां मूलककीलकादीनां, तत्किं प्रयत्नानन्तरमात्मलाभः शब्दस्याहो स्विदभिव्यक्तिरिति विशेषो नास्ति ।
तदेवं कार्याविशेषेण प्रत्यवस्थानं कार्यसमः ।
येन तु कार्यसमा जातिरन्यथैवोक्ता तद्यथा ऽनित्यः शब्दः कृतकत्वाद् घटवदित्युक्ते अन्यद् मृत्पिण्डादिकार्यत्वं घटस्य अन्यच्च विवक्षाप्रयत्नवायुप्रेरणाभिघातकार्यत्वं शब्दस्य तस्माच्छब्दकृतकत्वस्य घटादिकृतकत्वाद्भेदान्न साधनं कृतकत्त्वमनित्यत्वस्येति ।
सेयं कार्यान्यत्वेन प्रत्यवस्थानात्कार्यसमेति ।
तदाह कार्यत्वान्यत्वलेशेन यत्साध्यासिद्धिदर्शनं तत्कार्यसममिति भदन्तेनोक्तम् ।
कीर्तिरप्याह ।
ऽसाध्येनानुगमात्कार्यसामान्येनापि साधने ।
सम्बन्धिभेदाद्भेदोक्तिर्देषः कार्यसमो मतऽ इति ॥
तदनेन यदीश्वरसाधननिरालरणायोक्तम्---तनुगिरिसागरादीनामन्यत्कार्यत्वम्
अन्यच्च प्रासादाट्टालगोपुरादीना मिति तदपि जात्युत्तरमेनेत्युक्तं भवति ।
न च प्रत्यक्षदृश्यमानं बुद्धिमदन्वयव्यतिरेकानुविधानं सौधादीनामिव तनुभुवनादीनां तास्तीत्येतावता भेदेन कार्यभेदे शब्दमात्राभेद इति साप्रन्तम् ।
अभूत्वा भावलक्षणस्य कृतकत्वस्य संस्थानवत्त्वस्य वा वस्तुन एवाभेदात् तस्मादेतदप्ययुक्तम् ।
ऽवस्तुभेदे प्रवृत्तेपि शब्दसाम्यादभेदिनः ।
न युक्ता ऽनुमितिः पाण्डुद्रव्यादिव हुताशनेऽ ।
न चेयं जातिरुत्कर्षापकर्षसमाभ्यां भिद्यते साध्यदृष्टान्तयोर्धर्मविकल्पेन प्रवर्तमानत्वात्तस्मात्सूत्रकारोक्त
एव कार्यसमोसंकीर्ण इति युक्तमुत्पश्यामः

11.38

न्य्स्_5,1.38: कार्यान्यत्वे प्रयत्नाहेतुत्वम् अनुपलब्धिकारणोपपत्तेः ॥
अस्य प्रत्यादेशसूत्रम् ।
कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः (सू. 38) ॥
कार्यस्योत्पत्तिर्न लक्षणस्यान्यत्वे ऽभिव्यक्तिलक्षणात्कार्यात्प्रयत्नस्याभिव्यक्तिं प्रत्यहेतुत्वं न भवतीत्यत आह ।
अनुपलब्धिकारणस्यावरणादेरुपपत्तेरभिव्यक्तिहेतुत्वं स्याद् एवं तु नास्तीति व्यतिरेकपरं द्रष्टव्यम् ।
सति कार्यान्यत्व इति भाष्यं सूत्रवद्योजनीयम् ।
यत्र प्रयत्नानन्तरमित्यत्र यत्रतत्रयोर्व्यत्यासः
तत्र प्रयत्नानन्तरमभिव्यक्तिर्यत्रानुपलब्धिकारणं व्यवधानमुपपद्यत इति ।
कस्मादनुपलब्धिकारणोपपत्तेः प्रयत्नाभिव्यङ्ग्यत्वमित्यत आह ।
व्यवधानायोगाच्चेति ।
(505।1) चो हेत्वर्थे ।
प्रयत्नानन्तरभाविन इति ।
विषयेण विषयिणमुपलक्षयति प्रयत्नानन्तरभाविन
इत्यर्थः ।
अनुपलब्धिकारणोपपत्तेरित्यस्य व्यतिरेकप्रधानतामाह ।
न तु शब्दस्यानुपलब्धीति ।
देश्यवार्तिकं संशयसमात इति ।
(547।7) परिहरति उभयसाधर्म्यादिति ।
विशेषानुपलब्धौ सत्यामुभयसाधर्म्यात्संशयसमः ।
इदं तु विशेषोपलब्धिमविवक्षित्वेति विशेषः ।
तदिदमुक्तमयं तु न तथेति ।
देशयति साधर्म्यसमात
इति ।
निराकरोति न हेत्त्वध्यारोपणादिति ।
प्रयत्नानन्तरीयकत्वादित्ययं प्रयत्नानन्तरमुपलब्धेरित्यध्यारोप्य प्रतिषिध्यते ।
साधर्म्यसमे तु नारोपणमित्यर्थः ।
तदेवं जात्युत्तरवादिनं प्रति साधनवादिना सर्वत्रैव सम्यक् समाधानं स्वसाधनस्य वक्तव्यम् ।
एवं सति तत्त्वनिर्णये कथापर्यवसानं भवति

11.39

न्य्स्_5,1.39: प्रतिषेधे ःपि समानो दोषः ॥
यदि पुनर्वाद्यपि जातिवादिनं प्रति साधनाभासेन प्रतयवतिष्ठते ततः षट्पक्ष्यां सत्यां न तत्त्वनिर्णयावसाना कथा भवेदिति शिष्यहितः सूत्रकारः समाधानाभासवादिनं प्रति षट्पक्षीमवतारयति ।
प्रतिषेधे ऽपि समानो दोषः (सू. 39) ॥
तदेतत्सूनत्रावतारपरं भाष्यं हेतोश्चेदनैकान्तिकत्वमुपपाद्यते प्रतिवादिने ऽनैकान्तिकत्वादसाधकः स्यादिति ।
यदि चानैकान्तिकत्वादसाधकं वादिनो वचनं प्रतिषेधे ऽपि समानो दोषः ।
यो ऽयं प्रयत्नकार्यानेकत्वादिति प्रतिषेधो जातिवादिननः सो ऽप्यनैकान्तिकः ।
एवं ह्यैकान्तिकः स्याद्यदि सर्वमेव प्रतिषेधेद्
यतस्तु किं चित्प्रतिषेधति किं चिच्च न, तस्मादयमनैकान्तिकः
अतो ऽसाधक इत्यर्थः ।
व्याख्यान्तरमाह ।
अथ वा शब्दस्येति ।
नित्यपक्षो ऽभिव्यक्तिर्नोत्पाद
एवमनित्यपक्षे उत्पादो नाभिव्यक्तिरित्ययं विशेषो न सिध्यत्ययं प्रतिषेधे ऽपि समानो दोष इत्यर्थः

11.41

न्य्स्_5,1.40: सर्वत्रैवम् ॥
न केवलमस्यां जातावयं समाधानाभासो वादिनो ऽपि तु सर्वत्रैव जाताविति शिष्यान् शिक्षयति सूत्रकारः ।
सर्वत्रैवम् (सू. 40) ॥ अस्मिन्समाधाने प्रयुक्ते वादिना पुनर्जातिवादी प्रत्यवतिष्ठते ।
न्य्स्_5,1.41: प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्दोषः ॥
प्रतिषेधो जातिवादिनस्तस्य विप्रतिषेधो मूलसाधनवादिनस्तस्मिंस्तुल्यो दोष
इति जातिवादिनः प्रत्यवस्थानमित्यर्थः

11.41

न्य्स्_5,1.42: प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा ॥
अथ पञ्चमं पक्षं साधनवादिनश्चतुर्थपक्षवादिनं प्रति मतानुज्ञापापादनमाह ।
प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा (सू. 42) ॥
न्य्स्_5,1.43: स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो दोषः ॥
सेयं मतानुज्ञा तृतीये पक्षे पञ्चमपक्षवादिनो ऽपि साधन वादिन
इति जातिवादी षष्ठपक्षस्थित आह ।
स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारहेतुनिर्देशे परपक्षदोषाभ्युपगमात्समानो दोषः (सू. 43) ॥
स्वपक्षणे लक्ष्यते तदुत्थानत्वाज्जातिः स्वपक्षलक्षणा अनैकान्तिकत्वोद्भावनलक्षणा तामभ्युपेत्य
अनुद्धूत्य प्रतिषेधे ऽपि जातिलक्षणे समानो ऽनैकान्तिकत्वदोष इत्युपपद्यमानं स्वपक्षे ऽपि दोषं परपक्षे जातिवादिपक्षे साधनवाद्युपसंहरति ।
तत्र चानैकान्तिकं हेतुं ब्रूते तदेवं स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्द्देशे परपक्षे यत्स्वयं दूषणं दत्तं तस्याभ्युपगमाद्वादिनो ऽपि समानोव दोष
इति ।
जातिवादिनो वचनं षष्ठे पक्षे स्थितस्य तदेवं विस्तीर्य संकलय्याह ।
तत्र खलु स्थापनाहेतुवादिन इति ।
सेयं षट्पक्षी समानदोषापादनेनानिर्णायकत्वात्पौनरुक्त्याच्च न तत्त्वनिर्णयाय पर्याप्ता, तस्मात्समाधानाभासेन जातिवादिनं प्रति न प्रत्यवस्थेयं, किं तु सम्यक् साधनेन, तथा च षट्रपक्षी उपहतानावतरति ।
तत्त्वनिर्णयपर्यवसाना च कथा भवति ।
यदि त्वस्य कदा चित्सम्यक्साधनवादिनो ऽपि प्रतिभाक्षयात्समाधानं न स्फुरति ततो ऽत्यन्तपराजयाद्वरं संशयो ऽपीति न्यायेन समाधानाभासेनापि प्रत्यवस्थेयमेवेत्याशयवानाह ।
तेषां साध्वसाधुतायामिति ।
भाष्यव्याख्यया वार्तिकमपि व्याख्यातम् ।
एतास्तु जातयो न तत्त्वविवेकमुपकुर्वन्ति प्रयुज्यमानतया निराकरणीयतया त्वासामप्युपकार इति

मूल पाठ: Nyāyasūtra with Vacaspatimiśra's Nyāyavārttikatātparyaṭīkā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc