भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र (टीका सहित) · अध्याय 13

13.1

न्य्स्_5,2.24: हेत्वाभासाश्च यथोक्त ॥
व्याचष्टे हेत्वाभामाश्चेति ।
यद्यनुक्तमपि किं चिदवशिष्यते निग्रहस्थानं तच्चकारेण समुच्चेयम् ।
यथोक्ता इति सूत्रावयवनिराकरणीयामाशङ्कामाह ।
किं पुनर्लक्षणान्तरयोगाद्धेत्वाभासानिग्रहस्थानतामापद्यन्ते यथा प्रमाणानि प्रमेयत्वं तेषामेव प्रत्यक्षादीनामुपलब्धिसाधनत्वेन लक्ष्यमाणानां प्रमाणत्वं प्रमाव्याप्यतया प्रमेयत्वं लक्षणान्तरेण प्रमाणानि प्रमेयत्वमापद्यन्त इति शङ्कायाः सम्भवादत आह भगवान् सूत्रकारः
यथोक्ता इति ।
सकलशास्त्रार्थमुपसंहरति ।
त इमे प्रमाणादय उद्दिष्टा लक्षिताः परीक्षिताश्चेति ।
इतिः शास्त्रपपरिसमाप्तौ ।
वार्तिककारः संगृह्णाति जातीनां सप्रपञ्चानामिति ।
निग्रहस्थानलक्षणमिति ।
समासेन जातीनामपि प्रतिवादिनिग्रहस्थाने ऽस्ति निवेश इति सूचयति ।
शास्त्रस्य चोपसंहार इति ।
त इमे प्रमाणादय उद्दिष्टा इत्यनेन कृत इत्यर्थः ॥
यदलम्भि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमग्नानाम् ।
उद्द्योतकरगवीनामतिजरतीनां समुद्धरणात्

13.2

संसारजलधिसेतौ वृषकेतौ सकलदुःखशमहेतौ ।
तस्य फलमखिलमर्पितमेतेन प्रीयतामीशः

13.3

तत्त्वज्ञानप्रसवसुरभिर्गूढबह्वर्थजाता सेयं मोक्षामृतमयफला सूक्तिमञ्जुप्रवाला ।
प्रत्यक्षाप्तागममयमहान्यायमूला मनोज्ञा टीकावीरुद्भवतु कृतिनां नन्द्रिनी षठ्पदानाम्

13.3

क्रूराः कृतो ऽञ्जलिरयं बलिरेष दत्तः कायो मया प्रहरतात्र यथाभिलाषम् ।
अभ्यर्थये वितथवाङ्मयपांशुवर्षैर्- मा माविलीकुरुत कीर्तिनदीः परेषाम्

मूल पाठ: Nyāyasūtra with Vacaspatimiśra's Nyāyavārttikatātparyaṭīkā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc