न्यायसुधा · अध्याय 3.4
न्यायसुधा:
भक्तिपूर्वा ।
एवमिति योग्यतादेः ।
गुणैरुपेतस्य हरेः ।
॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपदवाक्यार्थविवृतौ
तृतीये ऽत्रोपासाविषयचरणः पर्यवसितः ॥
*11,1*
[======= ज्न्य्स्_3,4.इ: पुरुषार्थाधिकरण =======]
॥ अथ पुरुषार्थाधिकरणम् ॥
ज्ञानसामर्थ्यमस्मिन्पाद उच्यत इति पादप्रतिपाद्यं भाष्ये ऽभिहितम् ।
सङ्गतिस्तु प्रागुक्तैव ।
ननु च ज्ञानस्य स्वातन्त्र्येण
मोक्षसाधनत्वं सामर्थ्यम् ।
तच्च विद्यैवेत्युक्तम् ।
किमपरमवशिष्यते ।
यदर्थं पादारम्भः ।
उच्यते ।
सिद्धे(द्धं) स्वतन्त्रस्यैव ज्ञानस्य मोक्षसाधनत्वे(त्वम्) ।
विषयान्तरे तु समर्थ्यते ।
यद्यपि साधकेन मोक्षार्थमेवेदं साधितं तथापि स्वभावबलायतं तत्सामर्थ्यमुपपद्यते ।
यथा दहनार्थमुत्पादितो ऽपि दहनः स्वभाववशात्प्रकाशयत्यपीति ।
ओं पुरुषार्थो ऽतः शब्दादिति बादरायणः ओं ॥
किं कर्मानुप्रवेशेन ज्ञानं मोक्षसाधनं किं वा स्वतन्त्रमेवेति संशये स्वतन्त्रस्यैव ज्ञानस्य मोक्षसाधनत्वमनेन समर्थ्यत इति केचिद्वयाचक्षते ।
तदसत् ।
विद्यैवेत्यत्रैवास्यार्थस्य समर्थितत्वात् ।
किन्तु ज्ञानं किं मोक्षमेव साधयत्युतान्यमपि पुरुषार्थमिति संशये ज्ञानिनां पुरुषान्तरे रागाभावान्मोक्षस्यैव साधकं ज्ञानमिति प्राप्ते सतीदमुच्यत इत्याशयवान्पुरुषार्थो ऽत इत्येतावद्वयाचष्टे- एवमिति ॥
पुरुषार्थो ऽतः शब्दाद् इति बादरायणः
एवमुत्पन्ननिर्दोषभगवद्दर्शनात् सदा ।
अपेक्षितफलप्राप्तिर् ... ॥ मनुव्_3,4.1अ-च् ॥
*11,2*
न्यायसुधा:
अत इति ज्ञानपरामर्शो नोपपद्यते ।
पूर्वत्र प्राधान्येनोपासनस्यैव प्रकृतत्वादित्यत उक्तमेवमुत्पन्नेति ।
न खलूपासनं स्वातन्त्र्येण प्रकृतं किन्नाम भगवद्दशर्नार्थत्वेन ।
अतः साध्यतया तदपि प्रकृतमेवेति भावः ।
एवमुक्तरूपोपासनोत्पन्नात् ।
भगवतो निर्देषत्वसङ्कीतर्नं तदुपपादनाय पातनिकार्थं ज्ञातव्यम् ।
यद्वा भगवद्दर्शनादित्येवोक्ते दैत्यादीनां यदवतारदर्शनं तस्यापि पुरुषाथर्हेतुत्वं स्यात् ।
एवमुत्पन्नेत्यनेनैव तत्परिहृतमिति चेन्न ।
तस्य प्रकृतताप्रदर्शन एव चरितार्थत्वात् ।
तन्न तेषां बिम्बदर्शनमिति चेत् ।
मा भूत् ।
तस्य मोक्षार्थत्वात् ।
अत्र तु पुरुषार्थान्तरस्य प्रस्तुतत्वात् ।
अतो निर्देषाद्भगवद्दर्शनादित्युक्तम् ।
भगवद्ग्रहणेनाद्वैतज्ञानमत्र गृह्यत इति निराचष्टे ।
साद ज्ञानोदयक्षणादारभ्य स्वोदयात्फलदं ज्ञानमिति वचनात् ।
अपेक्षितफलप्राप्तिर्भवतीति मोक्षमात्रं व्यावतर्यति ।
*11,4*
नन्वेतदसत् ।
ज्ञानिनामप्यभिप्रायस्य कदाचिन्मोघत्वदर्शनादित्यत आह- आरब्धस्येति ॥
... आरब्धस्यानतिक्रमात्
न्यायसुधा:
प्रारब्धकर्मणो ऽतिक्रममविधायेति पूर्वेणैव सम्बन्धः ।
प्रारब्धप्रतिबद्धं हि ज्ञानं मोक्षमपि न करोति ।
अतस्तत्प्रतिबन्ध(क)वशाज्ज्ञानिनामाप्यभिप्राया मोघाः स्युः ।
ज्ञानस्य पुरुषार्थहेतुत्वे ऽपि विशेषो ऽस्तीत्याह- देवेति ॥
देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः
न्यायसुधा:
जातिशब्देनात्र योग्योच्यते ।
अपेक्षितफलप्राप्तिर्भवतीति सम्बन्धः ।
एतेन नाविशेषादित्यस्यापि तात्पर्यमुकतं भवति ।
*11,5*
अत्र न ज्ञानं स्वतन्त्रमेव स्वर्गादिसाधनं किन्तु कर्मैव ।
ज्ञानं तु कर्मशेषत्वात्तत्साधनत्वेनोच्यते ।
शेषत्वं च कर्मणैव सिद्धयति पुरुषार्थे ऽतिशयाधायकत्वमिति शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिरित्यादिसूत्रैः पूर्वपक्षयित्वाधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनादित्यादिना स्वतन्त्रस्यैव ज्ञानस्य स्वर्गादिसाधनत्वं पुनः सिद्धान्तितम् ।
तत्र पूर्वपक्ष्युपन्यस्तप्रमाणनिरासः स्फुटो भाष्ये ।
जैमिनिमतविरोधपरिहारस्तु कथमित्यत आह- जैमिन्युक्तमिति ॥
जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन
न्यायसुधा:
ज्ञानशेषस्य कर्मण एव स्वर्गादिसाधनत्वं मानुषज्ञानिविषयम् ।
न केवलं जैमिन्युक्तं किन्तु स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः ।
"अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते ।
इति केचिद्विदः प्राहुःऽ; इत्यादिनोक्तास्तद्विशेषा जैमिनिमतैकदेशा ये केचन ते ऽपि मानुषाणाम् ।
कथमेतेषां जैमिनिमतैकदेशत्वमिति चेत् ।
स्वतन्त्रस्य ज्ञानस्य च स्वर्गादिसाधनत्वमित्येतावत्यंशे साम्यादिति ब्रूमः ।
मानुषा अप्युत्तममध्यमाधमभेदभिन्ना इति यथायोग्यं विचित्रमतविषया भवन्येव ।
*11,8*
एवं जैमिनिमतविषयमुक्त्वा सूत्रकारमतविषयं दर्शयति- सामान्यमिति ॥
सामान्यं भगवत्प्रोक्तं ...
न्यायसुधा:
ज्ञानं सकलपुरुषार्थसाधनं भवतीति सामान्यमेव भगवता प्रोक्तम् ।
नतु पुरुषविशेषनिष्ठं ज्ञानमिति ।
अतः सामान्यविशेषनियतत्वान्नैतयोर्मतयोर्विरोधः ।
ननु सामान्येनापि क्वचिद्विशेषे ऽवस्थातव्यम् ।
तदिदमपि क्वावतिष्ठत इत्यत आह- देवादीनामिति ॥
... देवादीनां विशेषतः
न्यायसुधा:
भगवन्मतं विशेषतो ऽपवादैरपोदितं देवादिविषयं व्यवतिष्ठते ।
यद्यप्ययमर्थो लोकत एव सिद्धः ।
यदपवादविषयं परित्यज्य सामान्यं व्यवतिष्ठत इति ।
तथापि मन्दप्रबोधनायाचार्यैरभिहितः ।
*11,9*
प्रकारान्तरेण मतयोर्विषयभेदं दर्शयति- बलवदिति ॥
बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते
न्यायसुधा:
अत्रापि सामान्यं भगवत्प्रोक्तमिति वर्तते ।
भगवता ज्ञानं सकलपुरुषार्थसाधनमिति सामान्येनोक्तम् ।
जैमिन्यादयस्तु बलवत्प्रतिबन्धककर्मसद्भावे ज्ञानस्य पुरुषार्थासाधनत्वमभिप्रेत्य न स्वतन्त्रज्ञानात्स्वर्गादिप्राप्तिर्भवतीत्युक्तवन्तः ।
ततश्च सामान्यविशेषविषयत्वान्न विरोधः ।
तथा चाप्रतिबद्धज्ञानविषयं भगवन्मतं व्यवतिष्ठते ।
यथोक्तम् ।
आरब्धस्यानतिक्रमादिति ।
ननु नायं जैमिन्यादिमतस्य विषयो वक्तुं शक्यते ।
बलवद्विरोधसद्भावे कर्मणो ऽपि स्वर्गादिसाधनत्वानुपपत्तेः ।
मैवम् ।
नहि यज्ज्ञानस्य प्रतिबन्धकं कमर् तत्कर्मणो ऽपीत्यस्ति नियमः ।
लोके ऽन्यथा दर्शनात् ।
फलप्रतिबन्धककर्मसद्भावे कथमिति चेत् ।
तदा स्वर्गादिसाधनं कर्मैव नोत्पद्यते ।
उत्पन्नं वा प्रतिबद्धं तिष्ठतीति को विरोधः ।
नहि बलवद्विरोधिसद्भावे सर्वत्रैव
जैमिन्याद्युक्तिरिष्यत इत्युक्तम् ।
इयं च व्यवस्था पूर्वव्यवस्थयोपस्कतर्व्या ।
अन्यथा विरोधापत्तेरिति ।
॥ इति पुरुषार्थाधिकरणम् ॥
*11,12*
[======= ज्न्य्स्_3,4.इइ: कामचाराधिकरण =======]
॥ अथ कामचाराधिकरणम् ॥
॥ ओं स्तुतये ऽनुमतिर्वा ओं ॥
अत्राधिकरणे ज्ञानिनः सदसत्प्रवृत्तिभ्यां विशेषसद्भावः समर्थ्यते ।
तथा चाज्ञानिसामान्यसमर्थनार्थस्यास्य न ज्ञानसामर्थ्यप्रतिपादनार्थे ऽस्मिन्पादे ऽन्तर्भावः सम्भवतीत्यतो ऽधिकरणस्य तात्पर्यमाह- विकर्मेति ॥
स्तुतये ऽनुमतिर् वा
विकर्मलेपो नैवास्ति सम्यग्दृष्टिमतां क्वचित्
न्यायसुधा:
यद्यप्यत्र मुखतो ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेषसद्भावः प्रतिपाद्यते ।
तथापि सम्यग्दृष्टिमतां क्वचिदपि विकर्मलेपो वक्ष्यमाणरूपो नैवास्तीत्यस्यार्थस्य फलतो लाभाद्युक्तो ऽस्यान्तर्भावः ।
न ह्यज्ञानिनां विकर्मलेपाभावो ऽस्तीति भावः ।
यथोक्तम्"कामचारेण चैकेऽ; इति ।
विकर्मलेपाभावे कथमसत्प्रवृत्त्या विशेषसद्भावो ऽङ्गीक्रियत इति चेत् ।
आनन्दादिगुणहानोविर्कर्मकर्तुर्विशेषस्य स्वीकारात् ।
अलेपस्त ततो ऽन्य इति वक्ष्यते ।
*11,13*
किं सर्वेषामपि ज्ञानिनां विकर्मसम्भवो गुणहानिश्चास्तीत्यपेक्षायामाह- गुणहानिश्चेति ॥
गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः
देवानामपि न प्रायः ...
*11,13f.*
न्यायसुधा:
ब्रह्मणस्तु सर्वथा विकर्म नास्ति ।
"न भारती मे ऽङ्ग मृषोपलक्ष्यतेऽ; इत्यादिवचनात् ।
अविकर्मतो गुणहानिश्च नैवास्ति ।
हिरण्यगर्भेतरदेवानामपि प्रायो विकर्मगुणहानी न स्तः ।
ईषद्विकमर्तन्निमित्ता गुणहानिश्चास्तीत्यर्थः ।
*11,14*
यदि देवानां विकर्म सम्भवति तेन चानन्दादिगुणहानिः स्यात्तदायमस्मादेतावता न्यूनो ऽस्मादेतावताधिको ऽनेन समान इति शास्त्रीयनियमो भज्येत ।
तथाच शास्त्रस्याप्रामाण्यं स्यात् ।
नच तदैव प्रतियोगिपरम्परा विकृतिः प्रमाणवतीत्यत आह- कॢप्तस्येति ॥
... कॢप्तस्य तु कथञ्चन
न्यायसुधा:
हानिर्नेति वर्तते ।
यस्या देवस्य यावद् गुणत्वं कॢप्तं तस्य तु कथञ्चन केनापि विकर्मणा हानिर्न भवतीत्यर्थः ।
*11,16*
तर्हि देवनां विकर्मणेषद्गुणहानिर्भवतीत्यस्य को ऽथर् इत्यत आह- प्राप्तेति ॥
प्राप्तह्रासो भवेत् क्वापि महता तु विकर्मणा
न्यायसुधा:
प्राप्तशब्देन प्रसक्तमुच्यते ।
देवानामल्पेन विकर्मणा न किञ्चिद्धीयते ।
क्वापि प्राप्तेन महता तु विकर्मणा प्राप्तस्यैव गुणस्य ह्रासो
भवेत् ।
स्वयोग्यपरिपूर्तये यावत्साधनमनुष्ठेयं ततो ऽतिरिक्तेन साधनेनानुष्ठितेन यदानन्दादिकं प्रसक्तं तस्याभावो भवेत् ।
यदि स्वयोग्यपरिपूर्त्यर्थं साधनातिरिक्तमपि साधनं देवैरनुष्ठीयते तदा तारतम्यनियमो भज्येत ।
यो हि देवो ऽरतिरिक्तसाधनमनुष्ठाय न महद्विकर्म करोति तस्योत्पत्तव्यमेव तेन गुणेन ।
ईश्वराराधनस्य वैफल्यानुपपत्तेः ।
नच तदैवान्येषां विक्रियायां प्रमाणमस्ति ।
ततश्च शास्त्रस्याप्रामाण्यमित्यत आह- तथापीति ॥
तथापि तत् कॢप्तमेव ...
न्यायसुधा:
यद्यपि देवैः स्वयोग्यपरिपूर्त्यर्थं साधनातिरिक्तमपि साधनमनुष्ठीयते ।
तथापि तेषां तद्विघातकं तद्विकर्म महत्कॢप्तं नियतमेव ।
"स्वाधिकाराधिको यत्नः कथञ्चिन्नोपपद्यते ।
कथञ्चिदधिके यत्ने दोषः कश्चित्समापतेत्ऽ; इति वचनात् ।
"कॢप्तस्य तु कथञ्चनऽ"तथापि तत्कॢप्तमेवऽ; इत्युक्तम् ।
द्वयस्यापि साध्यमाह- तस्मादिति ॥
... तस्मान्न नियमोज्खितिः
न्यायसुधा:
कॢप्तहायभावादधिकानुष्ठाने विकर्मपत्तिनियमाच्च ।
श्रौततारतम्यनियमभङ्गो नास्तीत्यर्थः ।
उक्तार्थमुदाहरति- चन्द्रेति ॥
चन्द्रसुग्रीवयोश्चैव स्वोच्चदारपरिग्रहात् ।
प्राप्तहानिरभून्नैव कॢप्तहानिः यथञ्चन
न्यायसुधा:
चशब्दो यथेत्यर्थे ।
एवशब्दस्य प्राप्तहानिरेवेत्यन्वयः ।
ह्रासो ऽपि मानुषादीनामानन्दस्य विकर्मणा ।
भवेन्मुक्तौ विशेषेण स्वोच्चानामपराधतः
न्यायसुधा:
देवानां विकर्मणा प्रसक्तहानिरेव भवति न तु कॢप्तहानिरित्युक्तम् ।
तदतिरिक्तानां तु कथमित्यपेक्षायामाह- ह्रासो ऽपीति ॥
कॢप्तस्यापीत्यपेरर्थः ।
आनन्दस्येत्युपलक्षणम् ।
ह्रासोनामानभिव्यक्तिः ।
सा चेश्वरेच्छाधीना ।
प्रकृत्याद्यावरणानामपास्तत्वात् ।
विकर्मस्वप्यधिकं निर्धारयन्नाह- विशेषेणेति ॥
स्वोत्तमविषयापराधाद्विशेषेणानन्दह्रासो भवति ।
॥ ओं कामचारेण चैके ओं ॥
स्यादेतत् ।
अत्राधिकरणे कामचारेण चैक इति सूत्रेण ज्ञानोत्तरकालं कृतेन विकर्मणा ज्ञानिनो लेपाभावो ऽभिधीयते ।
तथोपमर्दं चेति सूत्रेण ज्ञानात्पूर्वेषां कर्मणां ज्ञानेन विनाशः ।
एतदुभयं चतुर्थे ऽध्याये तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशाविति सूत्रेणोच्यते ।
तत्कथं च पुनरुक्तिदोष इत्यतस्तावत्कामचारेण चैक इत्यस्य पुनरुक्तिदोषं परिहरति- ज्ञानोत्तरस्येति ॥
कामकारेण चैके
*11,20*
ज्ञानोत्तरस्य पापस्य चतुर्थे ऽलेप उच्यते
न्यायसुधा:
चतुर्थे ऽध्याये उत्तराघस्याश्लेष इत्यनेन ज्ञानोत्तरस्य पापस्यालेपस्तत्फलनराकादिप्राप्त्यभाव उच्यते ।
विषयान्तरमाह- अशुचित्वादिकं चेति ॥
अशुचित्वादिकं तस्य न भवेदिति तत्फलम्
न्यायसुधा:
अस्य ज्ञानिनरस्तत्फलं ज्ञानोत्तरपापफलमशुचित्वासम्भाष्यत्वादिकं न भवेदिति चोत्तराघस्याश्लेष इत्यनेनोच्यते ।
ततः किमित्यत आह- अत्रेति ॥
अत्र ज्ञानफलस्यैव मुक्तेर्नियततोच्यते
न्यायसुधा:
अत्र तृतीये ऽध्याये कामचारेण चैक इत्यनेन ज्ञानफलस्य मुक्तेर्नियतता ।
ज्ञानिना कृतानि पापानि ज्ञानफलं मोक्षं न विहन्तुमलभित्येषो ऽर्थ उच्यते ।
अतो न पुनरुक्तिदोष इति ।
॥ ओं उपमर्दं च ओं ॥
द्वितीयां पुनरुक्तिं परिहर्तुमुपमर्दं चेत्यस्य प्रतिपाद्यमाह- प्रारब्धेति ॥
उपमर्दं च
प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव ।
प्राप्तस्याप्यनिवर्त्यस्य किञ्चिद् भुक्तस्य संविदा ।
उपमर्द इह प्रोक्तो ... ॥ मनुव्_3,4.9अ-ए ॥
*11,20f.*
न्यायसुधा:
चतुर्थे ऽध्यायो पूर्वार्धस्य स्वरूपविनाशः कथ्यते ।
अनारब्धकार्ये एवेति वचनात् ।
इह तृतीये ऽध्याये तूपमर्दं चेति सूत्रेण प्रारब्धकर्मजस्य फलस्यैव संविदोपमर्दः प्रोक्तः ।
नतु प्रारब्धस्याप्रारब्धस्य वा कर्मणो नाश इति न पुनरुक्तिदोषः ।
नन्वत्र प्रारब्धकर्मण इत्येव कस्मान्नोक्तं किं तज्जनितफलग्रहणेन ।
नैवंय शङ्कयम् ।
"भोगेन त्वितरेऽ; इति प्रारब्धस्य कर्मणो भोगविनाश्यत्वोक्तेः ।
संविद्विनाश्यत्वाङ्गीकारे तद्विरोधात् ।
ईषद्विनाशस्तु फलद्वारेणैव ।
कर्मणां निर्भागत्वात् ।
ननु च फलोपमर्दे कर्मोपमर्द एवोक्तो ऽर्थतः स्यात् ।
तथाच भोगेनेति सूत्रविरोधस्तदवस्थ इत्यत उक्तं किञ्चिद् भुक्तस्येति ।
न सर्वस्य प्रारब्धकर्मफलस्योपमर्दः संविदोच्यते ।
किन्नाम किञ्चिद्भुक्तस्यातो न सूत्रविरोधः ।
कर्माणि ज्ञानिनं न तावत्स्वफलं भोजयन्ति यावदज्ञानिनमिति भावः ।
यथोक्तम् ।
"न वै जनो जातु कथञ्चनाव्रजेन्मुकुन्दसेव्यन्यवदङ्ग संसृतिम्ऽ; इति ।
ननु"अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम्ऽ; इति ।
प्रारब्धकर्मफलोपभोगस्यापरिहायर्त्वस्मरणात्कथमेतदित्यत उक्तम् अनिवर्त्यस्य प्राप्तस्यापीति ।
अपरिहार्यतया प्रसक्तस्यापीत्यर्थः ।
अनिवर्त्यतया प्रसक्तस्यापीत्यर्थः ।
अनिवर्त्यस्यापीत्येतावत्येव वक्तव्ये प्राप्तस्येत्यनेन विरोधपरिहारं सूचयति ।
अत्र दृष्टान्तमाह- विषेति ॥
*11,21*
यथा विषभक्षणान्मृत्तिरनिवर्त्यतया प्रसक्तैव न पुनरतिवर्त्यैव ।
विषहरमन्त्रौषधादिना निवृत्तेर्दर्शनात् ।
तथा प्रारब्धकर्मफलभोगो ऽप्यनिवर्त्यतया प्रसक्त एव न त्वनिवर्त्य एव ।
ज्ञानादिना निवृत्तेरुपपादयिष्यमाणत्वात् ।
तथाच विषभक्षणान्मरणमवश्यं भावीति वचनवदवश्यमनुभोक्तव्यमिति वचनस्याप्यर्थो ऽवगन्तव्यः ।
उत्सर्गतः प्रारब्धकर्मफलानि भोक्तव्यान्येव ।
अपवादेन तूपमृद्यन्त इति ।
किं सर्वेषां ज्ञानिनां प्रारब्धकर्मफलोपमर्द एकविध एवोत नानाविध इत्यपेक्षायामाह- देवादीनामिति ॥
*11,22*
किं सर्वेषां ज्ञानिनां प्रारब्धकर्मफलोपमर्द एकविध एवोत नानाविध इत्यपेक्षायामाह देवादीनामिति ।
... देवादीनां यथाक्रमम्
न्यायसुधा:
येषामधिकं ज्ञानं तेषामधिक इत्यादि ।
एतेन"नाविशेषात्ऽ; इति मध्ये पठितस्य सूत्रस्य पूर्वत्रोत्तरत्र चोपयोग
इत्युक्तं भवति ।
प्रारब्धकर्मणां भोगेन विना न क्षयः ।
किन्तु ब्रह्मज्ञानेन फलह्रासो भवतीत्युक्तम् ।
तत्रैके मन्यन्ते ।
अचिन्त्यो हि ब्रह्मज्ञानस्य महिमा ।
अतस्तत्सामर्थ्यादप्रारब्धानीव प्रारब्धान्यपि कर्माण्यभुक्तफलानि क्षीयन्ते ।
नाभुक्तं क्षीयते कर्मेत्यादिवाक्यानि त्वज्ञानिविषयाणि ।
ततश्च ज्ञानाग्निः सर्वकर्माणीति सर्वशब्दो ऽयपीडितः स्यादिति ।
अन्ये तु परमेश्वरेच्छोपोद्बलितानि प्रारब्धानि भोजयन्त्येव सर्वं स्वफलम् ।
न कश्चिदपि फलह्रासो ऽस्तीति ।
तत्राद्यं मतं तावदपाकरोति- सर्वात्मनेति ॥
सर्वात्मना त्वभोगो हि प्रारब्धस्यैव कर्मणः ।
न ब्रह्मदर्शिनो ऽपि स्यात् ... ॥ मनुव्_3,4.10अ-च् ॥
*11,23*
न्यायसुधा:
ब्रह्मदर्शिनो ऽपि प्रारब्धस्य कर्मणः सर्वात्मना त्वभोगो न स्यादेव ।
विना भोगेन ब्रह्मज्ञानादेव प्रारब्धान्यपि कर्माणि क्षीयन्त इति मतमनुपपन्नमित्यर्थः ।
तथा सति ब्रह्मविदां संसारावस्थानं न स्यात् ।
निर्बीजत्वात् ।
लोकानुग्रहार्थमेव विग्रहांस्ते बिभ्रतीति चेन्न ।
शापादिनिमित्तानामापादामपीतिहासपुराणेषु बहुलमुपलम्भात् ।
तस्य तावदेव चिरमित्यादिश्रुत्या चावगम्यते कर्मावस्थानमिति हिशब्दार्थः ।
द्वितीयं मतमपाकर्तुमाह- फलेति ॥
... फलह्रासस्तु विद्यते
न्यायसुधा:
प्रारब्धस्य कमर्ण इति वर्तते ।
ओंमित्यच्चार्यान्तरिममात्मानमभिपश्योपमृद्य पुण्यं च पापं च काममाचरन्तो ब्रह्मानुव्रजन्तिऽ; इत्यागमादिति भावः ।
यस्त्वागमप्रारब्धविषयं व्याख्याय प्रारब्धकर्मफलस्येषदपि ह्रासो नास्तीति ब्रूयान्तं प्रत्याह- सर्वात्मनेति ॥
सर्वात्मना फलह्रासो यदि नारब्धकर्मणः ।
स्यात् काम्यविधिवैयर्थ्यम् ... ॥ मनुव्_3,4.11अ-च् ॥
न्यायसुधा:
ईषदपीत्यर्थः ।
ब्रह्महत्यादिकर्मविपाकक्षयरोगादिनिवृत्त्यर्थाः प्रायश्चित्तविधयो ऽत्र काम्यविधयो विवक्षिताः ।
*11,24*
अयमत्रोत्तरक्रमः ।
"ब्रह्महा क्षयरोगी स्यात्ऽ; इति स्मरणात्क्षयादिकं तावद्ब्रह्महत्यादेः फलम् ।
तत उत्पादितक्षयादिकं ब्रह्महत्यादिप्रारब्धमेव ।
तस्य च प्रारब्धकर्मफलस्य क्षयादेः प्रायश्चित्तकरणे निवृत्तिर्दृश्यते ।
तत्कथं प्रारब्धकर्मकफलस्य सर्वथाप्यनुपमर्दः ।
अथ मन्येत ।
प्रायश्चित्तं न क्षयनिवृत्तिहेतुः किन्तु भोगनिमित्तकर्मक्षय एवेति ।
तदा प्रायश्चित्तविषयो व्यर्थाः स्युः ।
गृहदाहेष्ययादिवत्प्रायश्चित्तानां नैमित्तिकत्वं भविष्यतीति चेन्न ।
क्षयादिसंयोगेन विधीयमानानामेषां तद्विघातफलसम्भवे फलान्तरकल्पनानुपपत्तेः ।
किञ्चात्र नियतपश्चाद्भावित्वमसमाहितमेव ।
तदिदमुक्तं काम्येति ।
तथापि ब्रह्मज्ञानं न तदर्थं विहितमिति चेन्न ।
फलश्रयणेनैव विधिकल्पनात् ।
अनेनैव न्यायेन प्रायश्चित्तानां कमर्क्षयहेतुत्वाभावो ऽपि निरस्तः ।
तथा सति प्रायश्चित्तविधीनां वैयर्थ्यापत्तेः ।
नैमित्तिकत्वपक्षस्य च दृष्टादृष्टहानोपादानप्रसङ्गेन निरस्तत्वात् ।
अथ कर्मणो द्वयी शक्तिः ।
एका तावत्फलजननी अपरा त्वसंव्यवहार्यत्वहेतुः ।
प्रायश्चित्तैर्द्वितीयापाक्रियत इति चेत् ।
एवं तर्हि कर्मविपाकप्रायश्चित्तानामपीयमेव गतिरिति कथं नोपमर्दः ।
किञ्च न सर्वो रोगः सर्वं च दुरितमसंव्यवहार्यताहेतुरिति तत्र प्रायश्चित्तवैयर्थ्यमेव स्यात् ।
अपि च क्षयकुष्ठाद्युपहतो ऽपि न प्रायश्चित्ताचरणमात्रेण संव्यवहार्यः ।
किन्तु क्षयाद्यपगम एवेति तत्कारणत्वमेव प्रायश्चित्तानामङ्गीकार्यम् ।
मरणान्तिकप्रायश्चित्तानामानर्थक्यं च स्यात् ।
श्राद्धादिव्यवहारसिद्धयर्थं तदिति चेन्न ।
परिव्राजकानां तदभावापातादित्यलम् ।
उपसंहरति- इत्युक्तेति ॥
... इत्युक्तनियमो भवेत्
*11,25*
न्यायसुधा:
इतिशब्दस्तस्मादित्यर्थे ।
प्रारब्धकर्मणां भोगादेव क्षयस्तथापि फलह्रासो ऽपि विद्यत इत्युक्तनियमो भवेदुपपन्न इति शेषः ।
जोस्हि-27
*11,30*
एवमुत्पन्ननिर्देषःऽ; इत्यादिनोक्तार्थे स्मृतिसम्मतिमाह- एवमादीति ॥
एवमद्यापि सम्प्रोक्तं तन्त्रभागवते स्फुटम्
न्यायसुधा:
आदिपदेनैतदुपयुक्तमन्यत् ।
भाष्यादावुदाहृतैवर्चनैरपीत्यपेरर्थः ।
यद्वैवमादीत्येतदधिकरणप्रमेयं तदुपयुक्तं च गृह्यते ।
अपिपदेन प्रथमाधिकरणप्रमेयस्य समुच्चयः ।
अथवाधिकरणप्रमेयस्य समुच्चयः ।
अथवाधिकरणद्वयाथर् एवमादीत्यनेन गृहीतः ।
द्वितीयाद्यधिकरणार्थग्रहणायापिशब्दः ।
पुरुषार्थाधिकरणे स्तुत्यधिकरणे च ज्ञानफलस्य तारतम्यमभिहितम् ।
तत्संसारिकफलस्य न विप्रतिपन्नमिति मुक्तिगतस्य साधयितुमुत्तरो ग्रन्थः ।
ये मोक्षे भेदमेव नाङ्गीकुवर्ते ये चाङ्गीकृत्यापि भेदमानन्दादिकं नाभ्युपयन्ति न तान्प्रति तारतम्यसाधनस्यावकाशः ।
किन्तु भेदादिसाधनमेव कतर्व्यम् ।
करिष्यते च चतुर्थे ऽध्याये ।
ये पुनर्भेदमानन्दादिकं चाङ्गीकृत्यापि तारतम्यं न मन्यन्ते तान्प्रत्यय प्रयत्नः क्रियते ।
यावदधिकारमित्यधिकरणार्थस्यैवायं प्रपञ्च इति न दोषः ।
*11,31*
तत्र तावच्छत्या मुक्तावानन्दतारतम्यमुपपादयति- तारतम्यमिति ॥
तारतम्यं फले नो चेद् ब्रह्मादीनां कथं श्रुतिः ।
अवृजिनो ऽकामहत इति मुक्तिं निगद्य च ।
आनन्दतारतम्यं च तेषां ब्रूयात् पृथक् पृथक्
*11,32*
न्यायसुधा:
ब्रह्मादीनां ज्ञानफले मुक्तिगामित्यानन्दे यदि यदि तारतम्य नो भवेत्तर्हि कथं"स यो हवै मनुष्याणां राद्धऽ; इत्यादिका वाजसनेयिनां सैषाऽनन्दस्य मीमांसा भवतिऽ; इत्यादिका तैत्तिरीयाणां च श्रुतिस्तेषां ब्रह्मादीनामानन्दस्य तारतम्यं ब्रूयात् ।
सर्वे ऽप्युत्तरोत्तरं शतगुणनन्दा इत्यनभिधाय पृथक्पृथगेव ब्रवीति ।
तेन तत्र तात्पर्यसद्भावश्चावगम्यते ।
ब्रह्मादीनामानन्दस्य यश्च श्रुतिर्ब्रवीति मुक्तानां तु तत्साध्यत इति किं केन सङ्गतमित्यत उक्तमवृजिन इति ।
यश्च श्रोत्रियो ऽवृजिनो ऽकामहत इत्याद्या ।
श्रोत्रियस्य चाकामहतस्येति द्वितीया ।
यद्यपि श्रोत्रियत्वमपि मुक्तिज्ञापकमित्यन्यत्रोक्तम् ।
तथापि बहुसंविधानसाध्यं तदिति न सङ्कीतिर्तम् मुक्तिं च निगद्य तेषां मुक्तानामानन्दतारतम्यं च ब्रवीति ।
चशब्दौ मिथः समुच्चये ।
तैत्तिरीयश्रुतिरप्यत्रोपलक्षितेत्युत्तरत्र ज्ञास्यते ।
*11,33*
श्रुतिद्वयोक्तमानन्दतारतम्यं संसारविषयमेव न मुक्तिविषयमित्याशङ्कय परिहरति- संसार इति ॥
संसार एव चेदेतत् तारतम्यं न मुख्यतः ।
अकामहतशब्दार्थो ऽवृजिनत्वं च नो भवेत्
न्यायसुधा:
एतच्छत्युक्तं तारतम्यं संसार इत्येवोक्ते सिद्धान्तिनो नानिष्यम् ।
मुक्तामुक्तविषयताया वक्ष्यमाणत्वात् ।
अत एवेत्युक्तं तस्यैव विवरणं न मुख्यत इति ।
सप्तम्यर्थे तसिः ।
एतत्तारतम्यं संसार एव न तु मुख्ये पुरुषार्थे मोक्षे इति चेदित्यर्थः ।
तर्ह्यकामहतशब्दार्थो ऽकामहतत्वमवृजिनत्वं च नो भवेत् ।
युक्तमिति शेषः ।
तथाहि ।
यश्च श्रोत्रियो ऽवृजिनो ऽकामहत इति श्रोत्रियस्य चाकामहतस्येति चोक्ताकामहतत्वादिकं किं प्रकृतानां संसारिणामेव विशेषणमुत संसार्यन्तरसमुच्चयार्थम् ।
नाद्यः ।
यतः सम्भवे व्यभिचारे च विशेषणमर्थवत् ।
नच ब्रह्मादयः केचिदश्रोत्रियत्वादिगुणाः सन्ति ।
येन व्यभिचारनिवारणार्थमेतत्स्यात् ।
नापि संसारिष्वकामहतत्वादिकं सम्भवति ।
अत एव द्वितीयो ऽपि परास्तः ।
*11,34*
ननु संसारिष्वप्यकामहतत्वादिकं कथञ्चित्सम्भवति ।
सत्यम् ।
मुख्यतो न सम्भवतीति ब्रूमः ।
नच विना बाधकेनामुख्याङ्गीकारो युक्तः ।
एतेनावृजिनो ऽकामहत इति मुक्तिं निगद्येत्येतद्विवृतं भवति ।
कथमकामहतत्वादेः संसारिष्वसम्भव इत्यतो ऽकामहतत्वस्य तावदुपपादयति- कामस्येति ॥
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ।
इति यल्लक्षणं मुक्तेः श्रुतिराह बलीयसी
कामाहतिः कुतो ऽन्यत्र ...
न्यायसुधा:
यत्र लोके कामस्येच्छायाः कामा विषया आप्ताः पर्याप्तास्तत्र माममृतं मुक्तं अपि कुर्विति वायुं प्रति प्रार्थनम् ।
यद्यस्मादिति श्रुतिरित्याप्तकामत्वं मुक्तेर्लक्षणत्वेनाह ।
विशेषणस्येतरव्यावृत्त्यर्थत्वात् ।
निरवकाशत्वादिना बलीयसाः श्रुतेरन्यथयितुमशक्यत्वात् ।
तस्मात्कामाहतिरकामहतत्वं मुक्तादन्यत्र कुतः सम्भवेत् ।
आप्तकामत्वस्य मुक्तलक्षणत्वेन श्रुत्युक्तत्वे तदेवं संसारिष्वसम्भवि स्यात् ।
अकामहतत्वं तु कथमसम्भवीत्यत आह- प्राप्तेति ॥
... प्राप्तकामस्य सा भवेत्
न्यायसुधा:
सा कामहतिः ।
अकामहतत्वस्याप्तकामत्वं हेतुः ।
नच निमित्ताभावे नैमित्तिकस्य सम्भवो ऽस्ति ।
तत्र निमित्तं चाप्तकामत्वं संसारिषु न सम्भवतीत्युक्तम् ।
ततो नैमित्तिकमकामहतत्वमपि तत्रासम्भवीति ।
*11,36*
आप्तकामत्वस्याकामहतत्वं प्रति निमित्तत्वं विवृणोति- अप्रयत्नेनेति ॥
अप्रयत्नेन कामानामवाप्तिः सा यदा भवेत् ।
तदैवाकामहतता कुत एवान्यथा भवेत् ॥ मनुव्_3,4.15च्-f ॥
न्यायसुधा:
साकामहतेति सम्बन्धः ।
याकामहतशब्दात्प्रतीयते सेत्यर्थः ।
अन्यथाप्रयत्नेन कामानामवाप्त्यभावे कुत एव कारणात्साकाशमहतया भवेन्न कुतो ऽपीत्यन्वयव्यतिरेकावुक्तौ ।
एतदुक्तं भवति ।
कामेनोपद्रवो हि कामहतता तदभावश्चाकामहतता ।
कामनिमित्तोपद्रवाभावश्चानायासेन तत्तद्विषयप्राप्तावेव भवति नान्यथेत्यनुभवसिद्धम् ।
अतः प्राप्तकामत्वाकामहतत्वयोर्निमित्तनैमित्तिकभावो युक्त एवेति ।
नायमस्ति नियमः, यदाप्तकामस्यैव, कामनिमित्तोपद्रवाभावो नान्यथेति ।
कामभावे ऽपि तन्निमित्तोपद्रवाभावसम्भवादिति चेत् ।
किमनेनोक्तस्य व्यभिचारमात्रं चोद्यते किं वा प्रकृतेषु संसारिष्वप्याप्तकामत्वाभावे ऽप्यकामत्वेनाकामहतता सम्भवतीत्याशास्यते ।
नाद्यः ।
वक्ष्यमाणन्यायेन विशेषणप्रक्षेपात् ।
न द्वितीयः ।
ब्रह्मादयो न कामरहिता असुप्तामूढचेतनत्वाद्देवदत्तवदित्यनुमानविरोधादित्याशयवाननुमानस्य व्याप्तिमुपपादयति- चेतनस्येति ॥
चेतनस्य त्वसुप्तस्य कुत्र दृष्टा ह्यकामता
*11,36f.*
न्यायसुधा:
घटादौ व्यभिचारपरिहाराय चेतनस्येत्युक्तम् ।
सुप्तमुग्धयोस्तत्परिहारायासुप्तस्येति ।
अमुग्धस्येत्यपि द्रष्टव्यम् ।
ननु सुप्तौ मोहे च न चेतयत एव ।
अतश्चेतनस्येत्यनेनैव तद्वयवच्छेदसिद्धेर्व्यर्थं विशेषणमिति ।
मैवम् ।
चेतनशब्देनात्मत्वमात्रस्य विवक्षितत्वात् ।
चैतन्ययोगे हि विवक्षिते कामाभावाङ्गीकारसाहसादबिभ्यत्परश्चैतन्याभावमपि ब्रह्मादीनामङ्गीकुर्यादित्यसिद्धिः स्यात् ।
तदिदमुक्तं तुशब्देन ।
कुत्रेत्याक्षेपे ।
हिशब्दो यस्माद्वयाप्ति सिद्धेति शेषः ।
नोपादेयमेव वा हेतावसुप्तत्वादिविशेषणम् ।
नच तथा सति व्यभिचारापातः ।
सुप्त्यादावप्यात्मनः कामसद्भावात् ।
नचैवं सति यत्र सुप्तो न कञ्चन कामं कामयत इत्यादिश्रुत्यानुपलम्भेन च विरोधः ।
विद्यमानानामपि कामानां तदानीमव्यक्तत्वेन श्रौताभावव्यवहारस्यानुपलम्भस्य चोपपत्तेः ।
*11,38*
व्यक्तकामाभिप्रायेण प्राग्विशेषणमुपात्तमित्याशयवानाह- अव्यक्तिरेवेति ॥
अव्यक्तिरेव कामानां न नाशो मोहसुप्तयोः
न्यायसुधा:
नाशो ऽभावः ।
सुप्तं सुप्तिः ।
नपुंसके भावे क्तः ।
*11,39*
स्यादेतत् ।
सुप्त्यादौ कामसद्भावे सिद्धे युक्तमव्यक्तिकल्पनम् ।
स एव तु कुतः सिद्ध इत्यत आह- यत्काम इति ॥
यत्कामः स्वापमाप्नोति तदेवोत्थापितः कुतः ।
अवशो ऽपि व्याहरति कुतः सुप्तावकामता
न्यायसुधा:
मोहो ऽत्रापि ग्राह्यः ।
व्याहरतीत्यतः परं यतस्तस्मादित्यध्याहार्यम् ।
यद्भोजनादिकं कामयमानो देवदत्तः स्वापादिकमाप्नोत्युत्थापितः पुनस्तदेव कदाचिद्वयाहरतीति तावदनुभवसिद्धम् ।
तस्माद्वयाहरणविशेषाच्च तस्य तदा तत्र कामो ऽस्तीत्यनुमीयते ।
स च न तावदुत्थानानन्तरमुत्पन्नः ।
तदा देवदत्तस्यावाशत्वात् ।
वस्तुदर्शने ऽनुमानादिनेष्यसाधनताज्ञाने च सति खलु कामोदयः स्यात् ।
नचावशस्यैषा कामसामग्री कल्पयितुं शक्यते ततः प्राक्तन एव कामः सुप्त्यादौ सन्नतरो(व्यक्तो)ऽनुवर्तमानः पुनः सहकारिलाभक्रमेण व्यज्यत इत्येवाङ्गीकार्यम् ।
तथाचाह पतञ्जलिः ।
अविद्याक्षेत्रत्वमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणामिति ।
यत एवं तस्मात्कुतः सुप्त्यादावात्मनो ऽकामता स्यात् ।
*11,41*
नन्वयं केवलो विशिष्यो वा चेतनत्वहेतुर्मुक्तेष्वनैकान्तिकः ।
तेषां कामाभावादित्यत आह- सर्वेति ॥
सर्वकामानवाप्नोति ब्रह्मणा सह मुक्तिगः ।
पर्येति तत्र जक्षंश्च क्रीडन् रतिमवाप्नुवन्
कामान्नी कामरूपी सन्निमान् लोकांश्च सञ्चरन् ।
आस्ते गायन् साम मुक्त इत्यादिश्रुतिसद्बलात्
अकामः स्यात् कथं मुक्तः ...
न्यायसुधा:
अनेन"सो ऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिताऽ; इति श्रुतिमुपादत्ते ।
पर्येतीत्यनेन"स तत्र पर्येति जक्षन्क्रीडन्रममाणःऽ; इति ।
जक्षन्निति वैदिकत्वात्साधुः ।
कामान्नीत्यनेन"इमांल्लोकान्कामान्नी कामरूप्यमनुसञ्चरन् ।
एतत्साम गायन्नास्तेऽ; इति ।
आदिपदेन"स एकधा भवतीत्यादेः सङ्ग्रहः ।
बलात्कामसद्भावावगतेरिति शेषः ।
यद्येप्येताः श्रुतयो न साक्षान्मुक्तस्य कामसद्भावमाचक्षते ।
तथापि सामर्थ्यात्तं गमयन्त्येव ।
तदिदमुक्तं श्रुतिबलादिति ।
तच्च सामर्थ्यमव्यभिचरितमेव न तु सम्भावनामात्रमिति सच्छब्देनाह ।
तथाहि ।
कामकर्मत्वाद्धि विषयाः कामाः ।
कर्मणि घञो विधानात् ।
तया च सो ऽश्नुते सर्वान्कामानित्यत्र सन्निधेस्तत्कामकर्मभूतान्विषयानश्नुत इत्युक्तं स्यात् ।
निष्कामस्य शिलासमस्य कामावाप्तिः कीदृशी स्यात् ।
पर्यटनादिकं च कामकार्यं न विनान कामेन सम्भवति ।
स्त्रीभिर्निष्कामस्य स्मरणमत्यन्तासम्भावितम् ।
अन्नादीनां च कामत्वं काम्यतयैवेति पूर्ववत्कामावगतिः ।
यद्यपि स यदि पितृलोककामो भवतीत्याद्या विस्पष्टाः श्रुतयो ऽत्र सन्ति तथापि शिष्यैर्न्यायमनुसन्दधानैर्भाव्यमित्येतासामुदाहरणम् ।
मुक्तस्याकामत्वाभावान्नानैकान्त्यं हेतोरिति ।
*11,43*
ननु मुक्तानां कामाभावे ऽपि"यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः ।
अथ मर्त्यो ऽमृतो भवत्यत्र ब्रह्म समश्नुतेऽ; इत्याद्या श्रुतिरस्ति ।
तत्कथं कामवत्त्वनिश्चय इत्यत आह- कामा ये ऽस्येति ॥
... कामा ये ऽस्य हृदि श्रिताः ।
इत्यन्तःकरणस्थानां कामानां मोक्षमेव हि ।
आह श्रुतिर् ... ॥ मनुव्_3,4.20ब्-ए ॥
न्यायसुधा:
इति श्रुतिरित्यन्वयः ।
अन्तःकरणस्थानामेवेति च ।
नतु सर्वथापीत्येवार्थः ।
हिशब्दो यस्मादित्यर्थे ।
तस्मादकामः स्यात्कथं मुक्त इति सम्बन्धः ।
कुतः श्रुतेरर्थसङ्कोचः क्रियत इत्यत आह- हृदीत्येवेति ॥
... हृदीत्येव न चेद् व्यर्थं विशेषणम्
न्यायसुधा:
नचेदेषा श्रुतिरुक्तरीत्या व्याख्यायेत ।
सर्वथापि कामाभावपरेति व्याख्यायेतेति यावत् ।
तदा हृदि श्रिता इति कामानां विशेषणं व्यर्थमेव स्यात् ।
व्यावर्त्याभावात् ।
अतो विशेषणं प्रयुञ्जाना श्रुतिरन्तःकरणपरिणतीनां कामानामेव मुक्तावभावो ऽन्तःकरणस्यैवाभावान्न तु सर्वेषां स्वरूपभूतानां कामानामवस्थानादित्येतमर्थं गमयतीति ।
*11,44*
भवेदेतत् ।
यदीदं विशेषणं स्यात् ।
नचैवम् ।
व्यावर्त्याभावात् ।
एतत्सर्वं मन एवेति श्रुत्या सर्वेषामपि कामानां मनःपरिणाम(व)त्वमेव न त्वात्मधर्मः कामो ऽस्तीत्यवगमात् ।
अतो हृदि श्रिता इत्येतत्स्वरूपकथनमात्रमित्याशयेनाशङ्कय निषेधति- हृद्येवेति ॥
हृद्येष तेषां श्रयणमिति पक्षो न भासते
न्यायसुधा:
अन्तःकरण एव ।
तेषां कामानाम् ।
भासते शोभते ।
कुतो न भासत इत्यत आह- मुक्तनामिति ॥
मुक्तानां कामितामाह पृथक्छाखासु यच्छ्रुतिः
न्यायसुधा:
अन्तःकरणविधुराणामपीत्यर्थः ।
यद्यस्मात्तस्मान्न शोभत इति सम्बन्धः ।
श्रुतिः पूर्वोदाहृता ।
नन्वेतदयुक्तम् ।
प्रागुदाहृतश्रुतेः प्रतिपक्षतयोद्भाविताया अस्याः श्रुतेस्तथैव बाधस्योच्यमानत्वात् ।
मैवम् ।
प्रागुदाहृतश्रुतेः प्रबलत्वेन बाधकत्वोपपत्तेः ।
तथाहि ।
कामश्रुतिस्तावन्निरवकाशा ।
तदभावश्रुतिस्तूक्तरीत्या सावकाशा ।
विशेषणस्वरूपकथनत्वसन्देहे ऽपि न निरवकाशत्वम् ।
एतत्सर्वं मन एवेत्यपि सावकाशश्रुतिरिति साङ्खयाधिकरणे ऽभिहितम् ।
किञ्च कामश्रुतिः सर्वास्वपि शाखास्वस्ति ।
तथैवोदाहृतत्वात् ।
तदभावश्रुतिस्तु क्वचिदेवेति कथं न बाध्यबाधकभावः ।
तदिदमुक्तं पृथक्शाखास्विति ।
*11,45*
कामस्य यत्रेत्यादिनोक्तमर्थमुपसंहरति- अत इति ॥
अतो ऽकामहतत्वं तु मुक्तानामेव मुख्यतः
*11,45f.*
न्यायसुधा:
कामनिमित्तोपद्रवाभावस्याकामहतत्वस्याकामत्वाप्तकामत्वाभ्यामेवोपपत्तेरकामत्वस्य चेतनमात्रे ऽसम्भवादाप्तकामत्वस्य च मुक्तलक्षणत्वेन तत्रैव सम्भवादमुक्तेष्वसम्भवादित्यर्थः ।
मुक्तानामेव धर्म इति सिद्धमिति शेषः ।
*11,46*
सत्यम् ।
मुख्यया वृत्त्याकामहतत्वं मुक्तेष्वेव सम्भवति ।
तथापि कामनिमित्तबहुतरोपद्रवाभावाद्ब्रह्मादिष्वप्यमुख्यं युज्यत एव ।
अतः संसारिण एव श्रुतिप्रतिपाद्याः किन्न भवन्तीति चेत् ।
किं मुख्यार्थपरिग्रहे बाधकसद्भावात्तत्परित्यागः क्रियते किंवा वृथैव ।
नाद्यः ।
तदभावात् ।
बाधकाभासानां च निराकरिष्यमाणत्वात् ।
द्वितीयं दूषयति- मुख्यार्थस्येति ॥
मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम्
न्यायसुधा:
अपरीक्षका एव मायावादिप्रभृतयो विना बाधकेन मुख्यार्थं त्यजन्ति ।
वाच्यार्थपरमेश्वरपरित्यागेन निर्गुणलक्षणाङ्गीकारात् ।
नतु न्यायविद इति ।
अपापत्वमदुःखत्वं चावृजिनत्वमिहोदितम्
न्यायसुधा:
एवमकामहतत्वस्यामुक्तेष्वसम्भवमभिधायावृजिनत्वस्याप्यभिधास्यन्नवृजिनत्वं तावद्वयाख्याति- अपापत्वमिति ॥
इहोदितमवृजिनत्वं तावदपापत्वमदुःखत्वं चेति योजना ।
कुत एतदित्यत आह- अप्रियमिति ॥
अप्रियं वृजिनं दुःखमकं तोद इतीयर्ते
तत्कारणत्वात् पापं वा वृजिनं नाम कथ्यते ।
इत्युक्तः स्वयमीशेन नामार्थः शब्दनिर्णये
न्यायसुधा:
दुःखमप्रियमित्यादिशब्दैरीर्यत इति सम्बन्धः ।
तत्कारणत्वाद् दुःखकारणत्वात् ।
दधित्रपुसं प्रत्यक्षो ज्वर इति यथा ।
एतेन वृजिनशब्दो दुःखे मुख्यः ।
पापे तादर्थ्यात्ताच्छब्द्यमित्युक्तं भवति ।
अत एव वाशब्दः ।
नामार्थो वृजिननामार्थः ।
वृजिनशब्दस्य दुःखाद्यर्थत्वे ऽवृजिनशब्दस्यादुःखाद्यर्थत्वं सिद्धमेवेति भावः ।
*11,49*
ततः किं यद्यपापत्वादिकमवृजिनशब्दार्थ इत्यत आह- अपापत्वं चेति ॥
अपापत्वं च नैवास्ति यावत्संसारमस्य हि ।
आरब्धपापमस्त्येव दुःखं च ज्ञानिनो ऽपि हि
न्यायसुधा:
चशब्दो वक्ष्यमाणसमुच्चयार्थः ।
अस्य जीवस्य ।
हिशब्दः संसारित्वादिति हेतुसूचनार्थः ।
तद्यथा इषीकातूलमित्यादिश्रौतेर्ज्ञानिनः पापाभावात्कथमेतदित्यत उक्तमारब्धेति ।
अनारब्धविषया श्रुतिरिति भावः ।
ज्ञानिनो ऽप्यारब्धपापमस्त्येवेति सम्बन्धः ।
दुःखं चास्त्येव पापसद्भावादिति हिशब्दार्थः ।
तस्मादवृजिनत्वमपि मुक्तेभ्यो ऽन्यत्रासम्भवीति सिद्धम् ।
*11,50*
केचिदेतां श्रुतिं अन्यथा व्याचक्षते ।
यश्च श्रोत्रियो ऽवृजिनो ऽकामहत इति श्रोत्रियस्य चाकामहतस्येति च वाक्यं न मुक्तसङ्ग्रहार्थम् ।
किन्नाम प्रकृतमनुष्यगन्धर्वादिविषयमेव ।
नच तत्रासम्भवः ।
श्रोत्रियञ्छन्दोधीत इति स्मरणाच्छ्रोत्रियशब्दस्य छन्दो ऽधिगतिनिमित्तत्वात् ।
मनुष्यगन्धर्वादीनां च सर्वज्ञकल्पत्वात्प्रारब्धपापसद्भावे ऽपि न ते तदा पापमाचरन्तीत्यवृजिना एवोच्यन्ते ।
विषयवैराग्योपेतत्वादकामहताश्च भवन्तीति ।
नच व्यावर्त्याभावेन वैयर्थ्यमिति युक्तम् ।
नहि वयं श्रोत्रियत्वादिकं विशेषणत्वेन ब्रूमः ।
किन्तु मनुष्येभ्यो मनुष्यगन्धर्वाणां शतगुणानन्दत्वे ऽभिहिते तत्र हेत्वाकाङ्क्षायामिदमुच्यते ।
एवं मनुष्यगन्धर्वेभ्यो देवगन्धर्वाणां शतगुणानन्दाभिधाने कुत इत्याकाङ्क्षायां श्रोत्रियत्वादिहेतुरुच्यते ।
एवमुत्तरत्रापि ।
नच वाच्यं सर्वेष्वपि विद्यमानं श्रोत्रियत्वादिकमानन्दातिशये कथं हेतुः स्यादिति ।
मनुष्यादप्यतिशयेन मनुष्यगन्धर्वः श्रोत्रियो ऽवृजिनो ऽकामहतश्च यतः ।
एवं पूर्वपूर्वनिर्दिष्यादप्यतिशयेनोत्तरोत्तरः श्रोत्रियत्वादिमान् यस्मादिति व्याख्यानादिति ।
तदेतन्न्निराचष्टे तस्मादिति ।
तस्मात् तस्मादकामत्वमिति चाश्रुतकल्पना
न्यायसुधा:
चस्त्वर्थः ।
तस्मात्तस्मात्पूर्वपूर्वनिर्दिष्यादतिशयेनोत्तरोत्तरस्याकामत्वम् ।
उपलक्षणमेतत् ।
श्रोत्रियादिकं चेति व्याख्याने त्वश्रुतकल्पनं स्यात् ।
तस्मादित्यतिशयेनेति चाश्रुतस्य कल्पनीयत्वात् ।
अन्यथा विवक्षितार्थस्यालाभात् ।
दोषान्तरमाह- अकामेति ॥
अकामहत इत्युक्तेः श्रुतहानिरपि स्फुटा
न्यायसुधा:
श्रुतावकामहत इत्युक्तेः परेण चाकाम इति व्याख्यातत्वाच्छतस्य हतशब्दस्य हानिरपि स्फुटाऽपद्यते ।
नहि हतशब्दस्य किञ्चित्प्रयोजनमस्ति ।
अतः श्रुताश्रुतत्यागोपादानप्रसङ्गादयुक्तमिदं व्याख्यानमिति ।
*11,52*
अपरे तु व्याचक्षते ।
यश्चो श्रोत्रिय इति श्रोत्रियस्य चेति च न मुक्तविषयं नापि प्रकृतमनुष्यगन्धर्वादिविषयं किन्तु पुरुषान्तरविषयम् ।
तथाहि ।
मनुष्येभ्यो मनुष्यगन्धर्वाणां शतगुणस्तावदानन्दः ।
यश्चापरः श्रोत्रियो ऽवृजिनो मनुष्यगन्धर्वपदे कामरहितश्च ।
तस्यापि मनुष्येभ्यः शतगुणो मनुष्यगन्धर्वसमान एवानन्दो भवतीत्येवं तेषु तेषु पदेष्वकामस्य तत्तत्समानानन्दत्वमत्रोच्यते ।
नच वाच्यं विरक्तानां सर्वत्र कामाभावात्कथमियं तारतम्योक्तिरिति ।
तदतिरिक्तपदेषु कामसद्भावस्य विवक्षितत्वात् ।
यो यो यावदायासान्मुक्तो ऽसावसौ तावदानन्दवानित्यर्थो ह्यत्र प्रतिपिपादयिषित इति ।
एतदपि श्रुतहानाश्रुतकल्पनाप्रसङ्गादेव निरस्तम् ।
अत्रापि हतशब्दस्य प्रयोजनाभावेन ह्यातव्यत्वात् ।
तस्मिन्पद इत्यस्यान्यत्र सकाम इत्यस्य च कल्पनीयत्वात् ।
अधिकं दोषमाह- कुत्रचिदिति ॥
कुत्रचित् कामिनः पुंसः कामाभावात् क्वचित् क्वचित् ।
इन्द्रादिसुखभोगो ऽस्तीत्यनुभूतिर्हि कुप्यति
*11,53*
न्यायसुधा:
कुत्रचिदिन्द्रादिपदव्यतिरिक्ते कामिनः पुंसः क्वचित्क्वचिदिन्द्रादिपदे कामाभावादिन्द्रादिसमानसुखानुभवो ऽस्तीति व्याख्याने ऽनुभवविरोधः स्यात् ।
राज्यमकामयमानस्य राजसमानसुखानुभूतेरनुभवबाधितत्वस्य स्पष्टत्वात् ।
वैराग्यप्रशंसातो न तत्त्वं मार्गणीयमिति चेन्न ।
निरवधिकानन्दस्वरूपो ऽयमात्मा कामाद्युपद्रवावरणात्तु तथा न भासते ।
अतो यावद्यावत्कामक्षयस्तावत्तावदानन्दोत्कर्षो दृश्यत इत्यस्यार्थस्य प्रदर्शनार्थमस्य प्रकरणस्यावतारितत्वात् ।
आनन्दोत्कर्षे(ऽत्र)तु तात्पर्यं शतगुणत्वे तु न निर्भरः कार्य इति चेन्न ।
देवपदाकामादिन्द्रपदाकामस्यानन्दविशेषादर्शनादिति ।
*11,56*
तर्हि कः श्रुत्यर्थ इत्यत आह- तस्मादिति ॥
तस्मादमुक्तसुखगं तारतम्यं पृथक् पृथक् ।
उक्त्वा यश्चेति मुक्तानां तारतम्यं सुखे श्रुतिः ।
आहेति पेशलं ... ॥ मनुव्_3,4.28अ-ए ॥
न्यायसुधा:
अर्थान्तरप्रतीतेर्निरस्तत्वात् ।
अमुक्तमनुष्यादिसुखसम्बन्धितारतम्यं ते ये शतमित्यादिवाक्यैः पृथक् पृथगुक्त्वा यश्चेति श्रोत्रियस्य चेति च वाक्येन मुक्तानां मनुष्यगन्धर्वादीनां सुखे तारतम्यं श्रुतिरतिदेशेनाहेति व्याख्यानमेव पेशलम् ।
नन्वेवं सति वाक्यभेदो दोषः स्यात् ।
मैवम् ।
ज्ञापकसद्भावादित्याह- तच्चेति ॥
... तच्च चशब्दादेव गम्यते
*11,56f.*
न्यायसुधा:
यश्चेति वाक्यस्य प्रकृतादन्यो विषय इत्येतच्च चशब्देनैव गम्यते ।
किमुतैकवाक्यगतायामुक्तानुपपत्त्येत्येवार्थः ।
चशब्दो ह्ययं समुच्चयस्य द्योतकः प्रतीयते ।
देवदत्तो धनिको यज्ञदत्तश्चेति तथा ।
नचैकविषयतायामेवं युज्यते ।
नहि भवति वसिष्ठो ब्रह्मिष्ठो ऽरुन्धतीपतिश्च तथेति प्रयोगः ।
विशेषणसमुच्चये चशब्दः किन्न स्यादिति चेन्न ।
मुख्यार्थे बाधकाभावेन त्यागायोगात् ।
वचनव्यत्ययश्चैकवाक्यतायां स्फुट एव ।
तथात्वे खलु ते ये शतं कर्मदेवानामानन्दाः ।
स एक आजान(ज)देवानामानन्दो ये श्रोत्रिया अवृजिना अकामहताश्चेति स्यात् ।
तथा तेत ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियाणामकामहतानामिति भवेत् ।
*11,57*
नन्वेवं तर्हि कथं बृहदारण्यकवाक्यं भाष्ये मुक्तमात्रविषयं व्याख्यातम् ।
यश्चेति विशेषणसमुच्चयपरमुक्तम् ।
अयमभिप्रायो भाष्यकारस्य ।
सर्वथा वाक्यद्वयमेवेदं भिन्नविषयम् ।
एकवाक्यताश्रद्धायामपि मुक्तमात्रविषयमस्तु ।
तत्रानुपपत्तीनामल्पत्वात् ।
नामुक्तमात्रविषयम् अनुपपत्तिबाहुल्यादिति ।
*11,58*
मानुषादिहिरण्यगर्मान्तानाममुक्तानां मुक्तानां चोत्तरोत्तरं शतगुणानन्दत्वं श्रुतिद्वयमाहेत्ययुक्तम् ।
मानुषानन्दनिर्देशो मुक्तज्ञापकाभावात् ।
नहि तत्राकामहतत्वादिकमन्यद्वा किमपि श्रूयते इत्याशङ्कां निराकुर्वन् श्रुत्यर्थं विवृणोति ।
राद्ध इतयादिनाभिवीक्षत इत्यन्तेन ।
तत्र तावत् बृहदारण्यके मनुष्यमुक्तस्य ज्ञापकं दर्शयति- राद्ध इति ॥
राद्धः संसिद्ध इत्येव मुक्त एवावगम्यते ।
साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः
*11,59*
न्यायसुधा:
स यो मनुष्याणां राद्धः समृद्धो भवतीत्युपक्रमवाक्ये राद्ध इति पदेन मुक्त एव गृह्यते नामुक्तः ।
कया वृत्त्याभिधयैव न तूपचर्यते ।
येन मुख्यार्थानुपपत्त्यादिकं व्युत्पादनीयं स्यात् ।
कथम्? संसिद्ध इति ।
एतदुक्तं भवति ।
राध साध संसिद्धाविति पठ्यते ।
राधधातोश्च"गत्यर्थाकर्मकश्लिषशीङ्स्थाऽसवसजनरुहजीर्यतिभ्यश्चऽ; इत्यकर्मकत्वात्कर्तरि क्तः ।
ततो राद्धः संसिद्ध इत्युक्तं भवति ।
संसिद्धिश्च मुक्तिरेव नित्यत्वेन दुःखासम्भिन्नत्वेन च समीचीनसिद्धित्वात् ।
नेतरा, अनित्यत्वेन दुःखसम्भिन्नत्वेन चासमीचीनत्वात् ।
नच मुख्ये सम्भवत्यमुख्यार्थो ऽङ्गीकर्तुं शक्यत इति ।
एवं समृद्धशब्दो ऽपि मुक्तस्यैव वाचकः ।
मुक्तिं विना सम्यगृद्धेरभावात् ।
अन्येषामधिपतिरित्यादिकं तु मुक्तामुक्तसाधारणम् ।
यथा च मुक्ते सम्भवति तथोक्तं भाष्ये ।
*11,60*
इदानीं तैत्तिरीयश्रुतौ मुक्तमनुष्यज्ञापकं दर्शयन्युवा स्यादित्यादीनि पदानि व्याचष्टे- साधुनेति ॥
साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः
यौवनं नित्यमेतस्य मुक्तस्येति युवा स च ।
फलमध्ययनस्याप्तं तेनाध्यायक ईरितः
निर्ह्रासानन्दसम्प्राप्त्या चाशिष्ट इति गीयते ।
स्थितस्यानन्यथा प्राप्तेर्दृढिष्ठ इति चोदितः
बलिष्ठश्च स्वभावेन मुक्तो भवति केवलम्
*11,60f.*
न्यायसुधा:
निर्देषो हि साधुरित्युच्यते ।
नच विष्णोरितरो निर्देषो ऽस्ति ।
अतः साधुना विष्णुनेत्युक्तम् ।
तृतीयान्ते साधुशब्द उपपदे यु मिश्रण इत्यसमात्"अन्येभ्यो ऽपि दृश्यन्तेऽ; इति क्वनिप्प्रत्यये कृते साधुयुवेति भवति ।
यद्वा युजिर् ।
योग इत्यस्येदं रूपम् ।
दृशिग्रहणसामर्थ्याद्धातोरन्तलोपः ।
तथाच भगवत्सामीप्यलक्षणमोक्षवानित्युक्तं भवति ।
युवशब्दादप्यतिशयेन साधुयुवशब्दो मुक्तस्य ज्ञापक इति क्रममतिलङ्घयादौ व्याख्यातः ।
यद्यपि युवशब्दो यौवननिमित्तस्तथापि मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय इति नित्ययौवनमङ्गीकार्यम् ।
तच्चैतस्य मनुष्यस्य मुक्तस्यैव युज्यते न संसारिण इति हेतोर्युवा च स मुक्त एव ।
अध्यायकशब्दो यद्यप्याङधिपूर्वादिङध्ययन इत्यस्मात् ण्वुलि प्रत्यये सति निष्पन्नः सम्यगध्ययनस्य कर्तारमाह ।
तथाप्यत्र पुरुषार्थप्रसङ्गादध्ययनस्यापुरुषार्थत्वादध्ययनफलप्राप्तेर्लक्षको वर्णनीयः ।
अध्ययनस्य फलं च तेन मुक्तेनैवाप्तम् ।
मुक्तेरेव तत्फलत्वात् ।
तेन कारणेन मुक्त एवाध्यापक ईरितः ।
आ सम्यक् समन्ताच्च शमस्येत्याशः ।
अतिशयेनाश आशिष्ठः ।
सम्यक्त्वादि च ह्रासाभावादिकमेव ।
ततो निर्ह्रासस्य योग्यतानुसारेण पूर्णस्यानन्दस्य सम्प्राप्त्या कारणेन मुक्त एवाशिष्ठ इति च गीयते ।
अविकारो हि दृढो नाम ।
अतिशयेन दृढो दृढिष्ठः ।
छान्दसत्वात्"र ऋतो हलादेर्लघोःऽ; इत्येतन्न भवति ।
मुक्त एव स्थितस्यानन्यथाप्राप्तेः अतिशयेन निर्विकारत्वात् दृढिष्ठ इति चोदितः ।
बलमस्यास्तीति बली ।
अतिशयेन बली बलिष्ठः ।
अतिशयश्च स्वाभाविकत्वम् ।
स्वभावेन बलिष्ठश्च केवलं मुक्तो भवति ।
नामुक्तः ।
अतो बलिष्ठ इति स एवोच्यत इति ।
*11,65*
ननु मुक्तस्य"तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्ऽ; इति वित्तपरिपूर्णपृथिवीपतित्वमुच्यमानं कथं युज्यत इत्यत आह- तस्येति ॥
तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया
न्यायसुधा:
पूर्वभावो ऽमुक्तत्वं मुक्तामुक्तमनुष्ययोर्विवक्षया हि युवा स्यादित्यादिकमारब्धम् ।
तत्र युवा स्यादित्यादिका मुक्तं प्रतिपाद्यामुक्तविवक्षया तस्येत्यादिवाक्यं प्रवृत्तमित्यर्थः ।
अनेनैव न्यायेनान्येषामधिपतिरित्यादिकममुक्तविषयं प्रतिपत्तव्यम् ।
नन्वेवं युवा स्यादित्यादेर्मुक्तामुक्तविषयताङ्गीकृतावेकविषयताप्रतीतिविरोध इत्याशङ्कानिरासायामुक्तेति वक्तव्ये पूर्वभावेत्युक्तम् ।
एक एव चेतनो युवादिशब्दैः प्रतिपाद्यते ।
तस्य चावस्थाभेदेन विशेषणानि व्यवस्थाप्यते ।
एक एव चेतनो युवादिशब्दैः प्रतिपाद्यते ।
तस्य चावस्थाभेदेन विशेषणानि व्यवस्थाप्यन्ते ।
तस्मादेकविषयताप्रतिभासो नानुपपन्न इति ।
*11,66*
एवं वाजसनेयश्रुतौ"स यो ह वै मनुष्याणामित्यादेः सम्पन्नतम इत्यन्तस्य, तैत्तिरीयश्रुतौ च युवा स्यादित्यादेः पूर्णा स्यादित्यन्तस्यऽ; मुक्तामुक्तपरत्ववर्णनेन स मनुष्याणां परम आनन्दो ऽथ(ते)ये शतं मनुष्याणामानन्दा इत्येतत्स एको मानुष आनन्दस्ते ये शतं मानुषा आनन्दा इत्येतच्च मुक्तामुक्तविषयमिति सिद्धे तैत्तिरीयश्रुतिगतं स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्येत्येतावद्वयाचष्टे- स एक इतीति ॥
स एक इति संसारगतमुक्तवा सुखं पुनः ।
श्रोत्रियस्येति वदति मुक्ताच्छतगुणात्मताम्
न्यायसुधा:
संसारगतं सुखमुक्त्वेति संसारिमनुष्यसुखाच्छतगुणं संसारिणो मनुष्यगन्धर्वस्य सुखमुक्त्वेत्यर्थः ।
मुक्ताच्छतगुणात्मतामिति मुक्तमनुष्यस्य सुखान्मुक्तमनुष्यगन्धर्वस्य शतगुणसुखात्मतां वदतीत्यर्थः ।
श्रुतिरिति शेषः ।
स एक इति वाक्येन श्रोत्रियस्येति वाक्येन ।
*11,67*
अनेनैव न्यायेन ते ये शतं मनुष्यगन्धर्वाणामानन्दा इत्यादिकं व्याख्येयमित्याशयवानाह- संसारगादिति ॥
संसारगाच्च संसारगतस्यैव शताधिकम् ।
मुक्तान्मुक्तस्य ... ॥ मनुव्_3,4.34अ-च् ॥
न्यायसुधा:
संसारिमनुष्यगन्धर्वादिसुखादित्यर्थः ।
संसारगतस्य देवगन्धर्वादेः शताधिकं शतगुणाधिकं सुखमुक्त्वेति वर्तते ।
मुक्तान्मुक्तस्येति मुक्तमनुष्यगन्धर्वादिसुखाच्छतगुणं मुक्तदेवगन्धर्वादेः सुखं वदतीत्यर्थः ।
अनेन ते ये शतमित्युभयमेकोक्त्या परामृश्य स एक इति श्रोत्रियस्येति च यथायोग्यं पृथक् शतगुणानन्दत्वमुच्यत इत्युक्तं भवति ।
अनयैव रीत्या स एकः पितॄणामित्यादि वाजसनेयश्रुतिवाक्यमपि व्याख्येयम् ।
उपक्रमे मुक्तश्रवणादाजान(ज)देवादौ यश्च श्रोत्रिय इत्यादिना तच्छ्रवणान्मध्ये ऽपि यश्च श्रोत्रिय इत्यनुवर्तनीयम् ।
श्रुतिद्वयविसंवादस्तु भगवत्पादैरन्यत्र परिहृत इति ।
*11,70*
श्रुतिद्वयव्याख्यानमुपसंहरति- युक्तं स्यादिति ॥
... युक्तं स्याच्छ्रुत्युक्तमभिवीक्षितः
न्यायसुधा:
श्रुत्युक्तमभिवीक्षतो ऽभिवीक्षमाणस्य सम्यग्विचारयतो मतेनैतदेव व्याख्यानं युक्तं स्यात् ।
अथवाभिवीक्षो ऽभिवीक्षणं सम्यग्विचारस्तस्मादिदमेव श्रुत्युक्तं युक्तं स्यादिति ।
*11,71*
एवं श्रुत्या मुक्तौ तारतम्यमुपपाद्य युक्त्याप्युपपादयति- युक्तं चेति ॥
युक्तं च साधनाधिक्यात् साध्याधिक्यं सुरादिषु
न्यायसुधा:
सुरादिषु मानुषादिभ्यः साध्याधिक्यं मुक्तिगतफलाधिक्यं साधनाधिक्याद्धेतोर्युक्तमनुमितं चेत्यर्थः ।
देवादयो मानुषादिभ्यो ऽधिकमौक्तफलभाजस्तदपेक्षयाधिकतत्साधनवत्त्वादित्युक्तं भवति ।
विपक्षे बाधकाभावंदप्रयोजको ऽयं हेतुरित्यत आह- नाधिक्यमिति ॥
नाधिक्यं यदि साध्ये स्यात् प्रयत्नः साधने कुतः
न्यायसुधा:
सुरादिष्विति वर्तते ।
मानुषादिभ्य इति च ।
साधने साधनाधिक्ये ।
यदि देवादयो मानुषादिभ्यो ऽधिकमौक्तफलभाजो न स्युस्तदा तदधिकतत्साधनार्थप्रयत्नवन्तो न स्युः ।
अनधिकफलाय चाधिकं प्रयत्नमातिष्ठमाना न प्रेक्षावन्तो भवेयुरिति विपक्षे बाधकान्नाप्रयोजको हेतुः ।
*11,73*
प्रमाणाभावात्स्वरूपासिद्धो ऽस्त्वित्यत आह- यत्नश्चेति ॥
यत्नश्च दृश्यते तेषां महानेव महात्मनाम्
न्यायसुधा:
महात्मनां महाफलभाक्त्वेनानुमेयानां तेषां देवादीनां मानुषादिभ्यो महान्यत्नो ऽधिकं मोक्षसाधनानुष्ठानं च दृश्यत एव प्रमाणैः ।
तान्यपि वक्ष्याम इति भावः ।
व्याप्तिमुपपादयति- यत्रेति ॥
*11,74*
यत्र साधनबाहुल्यं साध्यबाहुल्यमत्र च ।
दृष्टं नियमतो ... ॥ मनुव्_3,4.36च्-ए ॥
न्यायसुधा:
यत्र पुरुषे यदपेक्षया साधनाधिक्यमस्त्यत्र तदपेक्षया साध्याधिक्यं च नियमेन दृष्टम् ।
कर्षकवाणिग्राजपुरुषादिषु लोके, वेदे चाग्न्याहितादिषु, यो यदधिकसाधनवानसौ तदधिकसाध्यवानिति नियमेन तत्तत्प्रमाणैरुपलब्धमेवेत्यर्थः ।
यस्त्वग्न्याधानादिफलानां तारतम्यमजानानः कृष्टादिस्थले च धान्यादौ तारतम्यं कारणान्तरायत्तं न कृष्टादिसाधनतारतम्याधीनमिति मन्यमानो दृष्टान्तेष्वपि विप्रतिपद्यते तं प्रत्याह- नो चेदिति ॥
... नो चेन्न यत्नं कुर्यरञ्जसा
न्यायसुधा:
यदि लोके वेदे च साधनाधिक्यात्साध्याधिक्यं नो भवेत् ।
तदा के ऽप्यञ्जसा यत्नं साधनातिशयानुष्ठानं न कुर्युः किन्तु सममेव कुर्युः ।
इतरथा प्रेक्षावन्तो न भवेयुः ।
न ह्यग्न्याधानेन यावान्स्वर्गो ऽश्वमेधेनापि तावत एव लाभे ऽश्वमेधे कश्चित्प्रवर्तेत ।
प्रवर्तमानो वाबुद्धिमान्भवेत् ।
द्रो(णावा)णवापमात्रकर्षणेन यावान्धान्यलाभस्तावत एव स्वार्(यावा)रीवापकर्षणेन भावे न कश्चित्तत्र प्रवर्तेत ।
तथात्वे च मन्दः स्यात् ।
दृष्टं वृष्टयादिकमदृष्टं धर्मादिकं च साधनान्तर्भूतमेवेति न व्यभिचारः शङ्कनीयः ।
एवं मानुषादयो देवादिभ्यो ऽल्पमुक्तिफलभाजस्तदपेक्षयाल्पसाधनवत्त्वाद्यो यदपेक्षयाल्पसाधनवान्स ततो ऽल्पफलवान्दृष्टः यथा सम्मतः ।
देवादयो मानुषान्ता मुक्तौ फलतारतम्यवन्तः साधनतारतम्योपेतत्वाद्ये यत्साधनतारतम्यवन्तस्ते तत्साध्यतारतम्यवन्तो यथा सम्मताः ।
ब्रह्मादीनां मानुषान्तानां मोक्षफलानि तारतम्यवन्ति तारतम्यवत्साधनसाध्यत्वात्सम्मतवदित्यनुमानान्यप्यत्र द्रष्टव्यानि ।
अनुकूलतर्कादिकं च पूर्ववदूहनीयमिति ।
जोस्हि-28
*11,76*
स्यादेतत् ।
मुक्ता अप्युपासनं कर्म चानुतिष्ठन्तीति गुणोपसंहारपादे समर्थितम् ।
न चैकप्रकारमेव तेषामनुष्ठानमिति नियामकमस्ति ।
तथाच तेषामुपासनादितारतम्ये सत्यपि तत्प्रयुक्तफलतारतम्याभावादयुक्तान्येव सतर्काण्यनुमानानि ।
मुक्तैरनुष्ठितं साधनमेव न भवति साध्याभावादिति चेत् ।
अमुक्तै(मुमुक्षुभि)रनुष्ठितस्याप्यधिकस्य तथात्वोपपत्तेः ।
अनुष्ठानं च मुक्तवल्लीलात्मकं भविष्यतीत्यत आह- कृच्छ्रेणेति ॥
*11,77*
कृच्छ्रेण साधनादेव न मुक्तवदुदीर्यते
न्यायसुधा:
मुमुक्षुभिः कृच्छ्रेणैव साधनानां साधनादनुष्ठानात्कारणान्मुक्तवन्मुक्तानामिवलीलयानुष्ठानं न भवति ।
अनेन विशेषणप्रक्षेपादनैकान्त्यादि परिहृतम् ।
मुक्तानां कृच्छ्राभावाल्लीलावैलक्षण्यदर्शनादन्यथासिद्धिरप्यपास्ता ।
नहि कृच्छ्रवती लीला भवतीत्युक्तं भवति ।
कृच्छ्रेण मुमुक्षूणां साधनानुष्ठाने किं प्रमाणमित्यत आह- उदीर्यत इति ॥
एतदागमेनोदीर्यत इत्यर्थः ।
तदागमं पठति- दशकल्पमिति ॥
*11,78*
दशकल्पं तपश्चीर्णं रुद्रेण लवणार्णवे ।
त्यक्तवा सुखानि सर्वाणि क्लिष्टेन लवणाम्भसा ॥ मनुव्_3,4.37च्-f ॥
शक्रेण वर्षकोटिश्च धूमः पीतो ऽतिदुःखतः ।
वर्षायुतं च सूर्येण तपो ऽवाक्छिरसा कृतम्
सुदुःखेन सुखं त्यक्तवा धर्मेणाकाशशायिना ।
पीता मयीचयो वर्षसाहस्रमतिसादरम्
अतिकृच्छ्रेण कुर्वन्ति यत्नं ब्रह्मविदो ऽपि हि ।
इत्य् ... ॥ मनुव्_3,4.40अ-च् ॥
न्यायसुधा:
कल्पो ब्रह्मणो दिवसः ।
पात्रादित्वान्नपुंसकम् ।
कालाध्वनोरत्यन्तसंयोग इति द्वितीया ।
यद्वा दशकल्पमिति बहुव्रीहिः ।
तपसो विशेषणम् ।
सहस्रं परिमाणमस्येति साहस्रः सङ्घः ।
तदस्य परिमाणमित्यर्थे शतमानविंशतिकसहस्रवसनादणित्यणो विधानात् ।
अन्ये ऽप्यतिकृच्छ्रेण यत्नं कुवर्न्ति किमैहिकफलार्थं नेत्युच्यते ब्रह्मविदो ऽपीति ।
विषयवैराग्यमनेनोपलक्ष्यते ।
ब्रह्मज्ञानोत्त(र)रं साधनानुष्ठानेन मोक्षतारतम्यस्योपरि साधयिष्यमाणत्वादत्र सामान्यमात्रं विवक्षितम् ।
इतिशब्दो वाक्यसमाप्तौ ।
*11,86*
अनुमानमुपसंहरति- एतदिति ॥
... एतदखिलं मोक्षविशेषाभावतः कथम्
न्यायसुधा:
एतदखिलं कृच्छ्रेण साधनानुष्ठानम् ।
विशेषो वैचित्र्यम् ।
सप्तम्यर्थे तसिः ।
कथं युज्यते ।
ततो ऽनेन मोक्षविशेषः सिद्ध इति शेषः ।
स्यादेतत् ।
मुक्तौ तारतम्यानुमानं कालात्ययापदिष्यम् ।
परमं साम्यमुपैतीत्यादिश्रुतिविरुद्धत्वादिति ।
मैवम् ।
श्रुतेः श्रुतिस्मृतिबाधितत्वेन बाधकत्वासम्भवादित्याशयवान्मोक्षतारतम्यवादिनीः श्रुतिस्मृतीस्तावत्पठति- दैवीति ॥
दैवी सम्पद् विमोक्षाय निबन्धायासुरी मता ।
इति मोक्षविशेषश्च स्वयं भगवतोदितः
*11,87*
न्यायसुधा:
तमेव यूयं भजतात्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः ।
अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धये
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।
आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे
इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम् ।
व्यक्तं वदन्ति ...
न्यायसुधा:
सम्पद्योग्यता ।
विमोक्षो विशिष्यमोक्षः ।
निबन्धो नीचस्थाने ऽन्धे तमसि बन्धः ।
तादर्थ्ये चतुर्थी ।
चशब्द एवार्थे ।
भगवता स्वयमेवोक्त इति सम्पद्यते ।
अन्यथा वीत्युपसर्गस्य वैयर्थ्यापत्तेः ।
तमेवेति मुनीन्प्रति पृथोर्वाक्यम् ।
तं विष्णुमेव ।
आत्मवृत्तिभिरित्यस्यैव विवरणं मनोवचःकायकार्यैः स्वकर्मभिरिति ।
अमायिनश्छद्मरहिता निष्कामाः ।
यथाधिकारं योग्यतानुसारेणावसितस्य निश्चितार्थस्य मोक्षस्य सिद्धय इति मोक्षतारतम्योक्तिः ।
अमायिन इत्युक्तत्वादर्थशब्देन मोक्षस्यैवोक्तेः ।
अक्षण्वन्तो ऽक्षिमन्तः ।
अनो नुडिति नुट् ।
कर्णवन्तः प्राप्तसमस्तेन्द्रियफलाः ।
परस्परं सखायो मुक्ता ।
मनोजवेषु मनोजवः प्रज्ञातिशयो बहुवचनमाद्यर्थे ज्ञानादिगुणेषु असमास्तारतम्योपेता बभूवुः ।
भगवत्सामीप्ये च तारतम्यमुच्यते ।
तेषु केचिदादध्नास आस्यशब्दस्याऽभावः ।
आस्यं परिमाणस्येत्यादध्नममृतं तदेतेषामस्ति स्थानमित्यर्शआदिभ्यो ऽच् ।
आस्यपरिमाणे सुधानिधौ विहरन्त इति दूरत्वमुच्यते ।
यद्वा तरतमशब्द इव दध्नशब्दो ऽप्रत्ययो ऽप्यस्ति ।
ततश्च सम्यग्दध्ना मग्ना इत्यर्थः ।
त्वे केचिदुपगताः कक्षं वनमुपकक्षाः ।
उशब्द एवार्थः ।
श्वेतद्वीपगतवनक्रीडारता एवेति मध्यत्वमुच्यते ।
आञ्जसेरसुगित्यसुक् ।
त्वे(एव)एके स्नात्वाः स्नातव्याः ।
कृत्यर्थे"तवैकेन् केन्यत्वनऽ; इति त्वन् ।
हृदा इव गम्भीराः परमेश्वरं ददृश्रे ददृशुः ।
हरयोरे ।
अनेनातिसामीप्यमुच्यते ।
"श्रुत्वा विष्णुं कर्णफलम्ऽ; इत्यादिस्मृत्यास्य मन्त्रस्यैव व्याख्यातत्वान्नार्थान्तरं कल्पनीयम् ।
इत्यादीनि चेति चशब्देन प्रागुदाहृतकाण्वतैत्तिरीयश्रुती समुच्चिनोति ।
व्यक्तं निरवकाशम् ।
ततः किमित्यत आह- तत्केनेति ॥
*11,88*
... तत् केन साम्यं मुक्तेषु गम्यते
न्यायसुधा:
तत्तस्मान्निरवकाशश्रुतिस्मृतिबाधितत्वात्केन न केनापि ।
यदुदाहृतं वाक्यं तन्न तत्परमिति भावः ।
*11,97*
तर्हि कस्तस्यार्थ इत्यत आह- दुःखादीति ॥
दुःखाद्यभावसाम्यं च साम्यवाक्यार्थ ईयते
न्यायसुधा:
चशब्दो ऽवधारणे परमानन्दसाम्यसमुच्चये वा ।
यथोक्तम् ।
"दुःखाभावः परानन्दो लिङ्गभेदः समा मताऽ; इति ।
किञ्चनेदमनुमानमुत्प्रेक्षितम् ।
किन्त्वागमसिद्धम् ।
तत्र कथं कालातीताशङ्केत्याशयेनाह- भक्त्यादीति ॥
भक्तयादिगुणसद्भावे ह्यतुल्यत्वं च भारते ।
उक्तं ... ॥ मनुव्_3,4.45च्-ए ॥
*11,97f.*
न्यायसुधा:
तारतम्येन भक्त्यादिगुणसद्भावे सति भक्त्यादिसाधनगुणानां तारतम्येन हेतुनेति यावत् ।
अतुल्यत्वं मोक्षफलस्य ।
न केवलमस्माभिः किन्तु भारते चोक्तम् ।
हीति तद्वाक्यस्य प्रसिद्धानां सूचयति ।
यथा सति हि गुणे प्रवदन्त्यतुल्यतामिति ।
सति साधौ गुणष भक्त्यादावतुल्ये सति फलस्याप्यतुल्यतां वदन्ति हीत्यर्थः ।
साधनतारतम्यं प्रमाणैर्दृश्यत इत्युक्तम् ।
कानि तानीत्यतः कृच्छ्रेणानुष्ठानं प्रदर्शयितुमुदाहृतं तावदेकं वाक्यम् ।
अन्यान्यपि सन्तीत्याह- साधनेति ॥
... साधनवैशेष्यमपि सर्वत्र कथ्यते
न्यायसुधा:
साधकानां साधनवैचित्र्यं सर्वत्रापि ग्रन्थेषु ।
*11,99*
तानि वाक्यानि पठति- दुर्ज्ञेयमिति ॥
दुर्ज्ञेयं घोररूपस्य त्रैलोक्यध्वंसिनः प्रभोः ।
दैवतैर्मुनिभिः सिद्धैर्महायोगिभिरेव च
न्यायसुधा:
प्रभोर्नृसिंहस्य ध्यानचक्रं देवतादिभिर्दुर्ज्ञेयम् ।
कुतो घोरं भयङ्करं रूपमस्येति तथोक्तः ।
त्रैलोक्यं ध्वंसितुं शीलमस्येति ।
एवशब्देन न संज्ञामात्रेण महायोगिनः किन्त्वर्थत एवेत्याह- तदेवोक्तं नित्यमुक्तैरित्यादिना ॥
नित्ययुक्तैर्महाभागैर्विमुक्तक्लेशसाध्वसैः ।
महोत्साहैर्महाधैर्यैः सत्त्वस्थैर्व्यवसायिभिः
अतीतानागतज्ञानप्रभवाप्ययवेदिभिः ।
शौचस्वाध्यायसन्तोषतपस्सत्यदयान्वितैः
किमु मर्त्यैर्भयभ्रान्तिध्वंसमोहरुजान्वितैः ।
अल्पायुर्वीर्यधीसत्त्वव्यवसायश्रुतिव्रतैः
न्यायसुधा:
सर्वदा ध्यानाद्युद्योगवद्भिः ।
भागो भाग्यमिन्द्रियजयादि ।
मोहो मिथ्याज्ञानम् ।
क्लेशा अविद्यायाः ।
साध्वसं विघ्नादिभयम् ।
न केवलं सदोद्युक्ताः किन्तु स चोद्योगो महानित्युच्यते महोत्साहैरिति ।
सत्त्वस्यैः सदा सत्त्वगुणप्रचुरैः ।
व्यवसायो निश्चयः ।
ज्ञानशब्देन ज्ञेयमुपलक्ष्यते ।
अतीतानागतानि ज्ञानानि प्रभावाप्ययौ सृष्टिसंहारौ च वेत्तुं शीलमेषामिति तथोक्ताः ।
प्रभावाप्ययज्ञानस्य महाफलत्वात्पृथगुक्तिः ।
मर्त्यैर्दुर्ज्ञेयमिति किमु वक्तव्यम् ।
ध्वंसो मनोविशरणम् ।
मोहो ऽज्ञानम् ।
श्रुतिः श्रवणम् ।
अत्र वैहायससंहितावाक्ये देवादिभ्यो मनुष्याणामल्पं साधनमिति स्फुटं प्रतीयते ।
मानुषत्वापगमानन्तरमाधिकं भविष्यतीति चेन्न ।
मानुषत्वादेरनपगमस्यानन्तरमेव वक्ष्यमाणत्वात् ।
*11,101*
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ।
ब्रह्मैव किञ्चिज्जानाति न तदन्यो हि कश्चन
न्यायसुधा:
कस्तामिति श्रुतिर्यमवाक्यम् ।
सुरासुराणां सुखदुःखहेतुत्वान्मदामदः ।
अनेन यमस्यान्येभ्यो ज्ञानाधिक्यमुच्यते ।
ब्रह्मैवेत्यनेन ब्रह्मणः ।
अत एव मदन्य इति ब्रह्मादीन्विनेति व्याख्येयम् ।
मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते
न्यायसुधा:
मुक्तानामिति भागवतवाक्ये मुक्तानां शरीराद्यभिमानरहितानां सिद्धानां ज्ञानिनां कोटिष्वपि नारायणपरायणः प्रशान्तात्मा सुदुर्लभः कश्चिदेव ।
"नारायणायनाः शान्तात्मानस्तु सर्वे ऽपीतिऽ; स्फुटं साधनतारतम्यं प्रतीयते ।
अत्र विशेषणद्वयेन वैराग्यभक्ती कथ्येते ।
इयं विसृष्टिर्यत आ बभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन् त्सो अङ्ग वेद यदि वा न वेद
*11,102*
न्यायसुधा:
इयं विसृष्टिरिति मन्त्रस्यायमर्थः ।
इयं प्रत्यक्षादिसिद्धा विविधा सृष्टिर्यतो हिरण्यगर्भादा समन्ताद्बभूव ।
यश्चास्य प्रपञ्चस्याध्यक्षो ऽधिपतिः सो ऽपि परमात्मानं परमे व्योमन् व्याम्नि हृदयाकाशे यदि वा दधे यदि वा न तथा वेद यदि वा न ।
अङ्गेति कस्यचित्सम्बुद्धिः ।
इतरापेक्षयाऽधिक्येन ध्यायति जानाति च कार्त्स्येन तु न ध्यायति न जानाति चेति ।
व्योमन्निति सप्तम्या लुक् यो अस्य सो अङ्गेति प्रकृत्यान्तःपादमव्यपर इति प्रकृतिभावः ।
यः स्वात्ममायाविभवं स्वयं गतो नाहं नभस्वांस्तमथापरे कुतः ।
ब्रह्मापि यं वेत्ति नैवेह सम्यगन्ये कुतो देवमुनीन्द्रमर्त्याः
न्यायसुधा:
यः स्वात्ममायेत्यादिषु भागवतवचनेषु कैमुत्योक्त्या ज्ञानतारतम्यमवगम्यते ।
यो भगवान्स्वात्ममायाया विभवं स्वरूपमहिम्नो विस्तरं स्वयमेव गतो ज्ञानवान् ।
ब्रह्मवाक्यमिदम् ।
यं हरिमिह जीवेषु ।
नमस्ते ऽमिततत्त्वाय धर्मादीनां च सूतये ।
निर्गुणाय च सत्काष्ठां नाहं वेदापरे कुतः
न्यायसुधा:
तत्त्वं स्वरूपम् ।
सूतिः कारणम् ।
यस्य सत्काष्ठां सम्यग्दिङ्मात्रम् ।
ब्रह्मवाक्यमिदम् ।
नाहं परायुर् ऋषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसङ्गाः ।
यन्मायया मुषितचेतस ईशदैत्यमर्त्यादयः किमुत शश्वदभद्रवृत्ताः
न्यायसुधा:
नाहं परायुरिति शिववचनम् ।
यद्विरचितं यस्य चरित्रम् ।
ईशेति भगवत्सम्बुद्धिः ।
*11,102f.*
अहं महेन्द्रो निरृतिः प्रचेताः सोमो ऽग्निरीशः पवनो ऽर्को विरिञ्चः ।
आदित्यविश्वे वसवो ऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः
अन्ये च ये विश्वसृजो ऽमरेशा भृग्वादयो ऽस्पृष्टरजस्तमस्काः ।
यस्येहितं न विदुः स्पृष्टृमायाः सत्त्वप्रधाना अपि किं ततो ऽन्ये
सवर्स्यादौ स्मृतो ब्रह्मा तस्माद् देवादनन्तरः ।
जानाति देवप्रवरं भूयश्चातो ऽधिकं नृप
*11,103*
न्यायसुधा:
अहमिति यमवचनम् ।
ईहितं चेष्यितम् ।
सर्वस्य प्रपञ्चस्यादौ स्मृतः ।
आद्यतया प्रमितः ।
अतो ज्ञानिवर्गात् ।
भूयो ऽधिकमतिशयेनाधिकम् ।
न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन ।
मद्भक्तियोगाज्ज्ञानाच्च सर्वानतिशयिष्यसि
यथा भक्तिविशेषो ऽत्र दृश्यते पुरुषोत्तमे ।
तथा मुक्तिविशेषो ऽपि ज्ञानिनां लिङ्गभेदने
सायुज्यं समनुप्राप्ता अपि देवादयो ऽखिलाः ।
तारतम्याद्धि तिष्ठन्ति तारतम्यं हि साधने
मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः
न्यायसुधा:
न त्वामिति ब्रह्माणं प्रति भगवद्वाक्यम् ।
अत्र संसारे ।
लिङ्गभेदने लिङ्गशरीरभङ्गे जाते सति ।
सिद्धये ज्ञानस्य ।
यततामपि मध्ये केचित्सिद्धा भवन्ति ।
सिद्धानां मध्य इति योज्यम् ।
तत्त्वतः प्राचुर्येण ।
एकं च तत्त्वतो ज्ञातुमिति यथा ।
*11,103f.*
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः
श्रद्धावाननसूयुश्च शृणुयादपि यो नरः ।
सो ऽपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणाम्
*11,104*
न्यायसुधा:
(य)इममिति व्याख्यातुरध्येतुः श्रोतुश्च तारतम्यमुच्यते ।
व्याख्यानादिप्राचुर्यं च प्रत्येकं मोक्षसाधनमित्यन्यत्रोक्तम् ।
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्खयेन योगेन कर्मयोगेन चापरे
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
ते ऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः
न्यायसुधा:
ध्यानेनेत्यस्य भगवत्पादकृतं गीतातात्पर्यगतं व्याख्यानं द्रष्टव्यम् ।
सुसूक्ष्मैरप्यशेषैश्च विशेषैः सह पश्यति ।
स्वात्मानं भगवान् विष्णुः सर्वरूपो ऽपि सर्वदा
सवर्त्र चान्यदप्येवं तेनादृष्टं न हि क्वचित् ।
सर्वत्र सर्वदैवेशं पश्यत्येव रमापि तु
नतु सर्वैर्विशेषैस्तं पश्यन्त्यप्यन्यतो ऽधिकम् ।
स्वात्मानमन्यच्चाशेषं पश्यत्येव हि सर्वदा
ब्रह्मा तु सर्वगं पश्येद् गुणानप्यतो ऽधिकम् ।
नतु सर्वेषु कालेषु तथा पश्यत्यमुक्तिगः
मुक्तस्तु सर्वदा पश्येत् सर्वगत्वेन चापि तु ।
न रमावद् विशेषाणां दर्शनं शक्नुयात् क्वचित्
स्वात्मानमन्यच्च सदा विशेषैरखिलैरपि ।
पश्यन्त्यञ्जस्तथा वाणी विशोषांस्तावतो नतु ।
त्रैगुण्यात् परतः पश्येद् व्याप्तं शतगुणं हरिम्
*11,104f.*
न्यायसुधा:
सुसूक्ष्मैरित्यादिना सर्वेषां ज्ञानतारतम्यमुच्यते ।
स्वतो ऽन्यद्विश्वमप्येवं पश्यति ।
अपि तु किन्तु ।
तर्हि भगवत्समाना किमिति प्रश्नार्थः ।
अन्यतो ज्ञानवर्गादधिकं पश्यन्त्यपि सर्वैर्विशेषैर्युक्तं तं नैव पश्यति विष्णोः स्वस्माच्चान्यदशेषम् ।
अन्यतः सरस्वत्यादेरधिकं पश्येत् ।
ब्रह्मणो ऽप्यवस्थाभेदेन विशेष उच्यते नतु सर्वेष्विति ।
तथा सर्वगतत्वेन सरस्वत्यादिदृष्टाधिकगुणत्वेन सवर्गतत्वेन चेति ।
चशब्देनोक्तगुणवत्त्वं समुच्चिनोति ।
तर्हि मुक्तस्य ब्रह्मणो रमासाम्यं किमिति प्रश्नः- अपि त्विति ॥
दर्शनं कर्तुम् ।
अन्यत् भगवतः ।
यथ ब्रह्म रमादृष्टान्न पश्यति तथा ।
यावन्तो ब्रह्मदृष्टास्तावतः ।
*11,105*
गिरिशो गरुडश्चैव तमोमात्रगतं हरिम् ।
पश्येद् विशेषानपि हि वाणीदृष्टान् न पश्यति
उमा सुपर्णी च महत्तत्त्वं यावत् प्रपश्यति ।
रुद्रदृष्टान् विशेषांश्च नैव पश्येत् कदाचन
स्वरूपमन्यरूपं च मुक्ता देवाः समस्तशः ।
जानन्तीन्द्रश्च कामश्च ब्रह्म यावदहङ्कृतिः
पश्यन्तो मनुदक्षाद्या बुद्धितत्त्वस्थितं हरिम् ।
पश्यन्ति सोमसूर्यौ तु मनस्थं परमेश्वरम्
अन्ये भूतस्थितं विष्णुं देवाः पश्यन्ति सर्वदा ।
बहुसाहस्रवर्षेण महत्तत्त्वे क्वचित् क्वचित्
अन्ये चैव यथायोग्यमण्डान्तर्वर्तिनं हरिम् ।
श्वेतद्वीपपतिं चैव हृद्येवान्ये तु केचन ।
कदाचिदेव तत्रापि केचित् पश्यन्ति केशवम्
न्यायसुधा:
तमोगुणमात्रगतमेवेति सम्बन्धः ।
पश्येदित्यादेः प्रत्येकं सम्बन्धः ।
अन्यरूपं स्वाधमरूपम् ।
बहुसाहस्रवर्षेणेति ।
बहुसहस्रवर्षानुष्ठितसाधनेन ।
क्वचित्क्वचिदिति महत्तत्त्वप्रविभागानभिप्रैति ।
यथायोगमेव केचन (तु) श्वेतद्वीपपतिमेव ।
तत्राप हृद्यपि ।
*11,116*
परिमाणदर्शनवद्विशेषदर्शने तारतम्यं न विस्पष्टमुक्तमत आह- उमेति ॥
उमा यावदनन्तांशान् पूर्वदृष्टेभ्य एव तु ।
विशेषान् वासुदेवस्य पश्चादुक्ता विचक्षते
शक्रकामादयश्चैव विशेषान् ब्रह्मणि स्थितान् ।
उमादिभिः प्रबुद्धेभ्यः शतांशानेव चक्षते
न्यायसुधा:
उमापर्यन्तं तु पश्चात्पश्चादुक्ताः पूर्वपूर्वैर्दृष्टेभ्यो दृष्टानामनन्तांशानेव वासुदेवस्य विशेषशन्विचक्षते ।
शक्रकामादयश्चेति चस्त्वर्थः ।
एवशब्दस्योमादिभिरेवेत्यन्वयः ।
प्रबुद्धेभ्य इति पूर्ववत् षष्ठयर्थे ।
चक्षते पश्यन्ति ।
*11,121*
उदाहृतानां वचनानां प्रयोजनमाह- इत्यादीति ॥
इत्यादिवेदस्मृतिगवचनेभ्यो यथार्थतः ।
तारतम्यं विमुक्तानां साधनानां च दृश्यते
न्यायसुधा:
यथार्थत इति ॥
न परमतानुवादरूपेणेत्यर्थः ।
मुक्तानां च साधनानां चेति योजना ।
साधनतारतम्यप्रतिपादनायोदाहृतेष्वेवे केषुचिद्वाक्येषु मुक्तानां तारतम्यं प्रतीयते ।
तदपि प्रकृतत्वाद् ग्राह्यमित्यर्थः ।
*11,122*
अस्तु मुमुक्षूणां साधनेषु तारतम्यं मा च भूम्नोक्षे तारतम्यमित्याशङ्कायां प्राग्बाधकमुक्तम् ।
इदानीं शङ्कैवैषा नोपपद्यते दूरे दूषणाभिधानमित्याह- साध्येति ॥
साध्यसाधनवैरूप्यम् ...
न्यायसुधा:
साध्यमविचित्रं साधनं विचित्रमिति साध्यसाधनयोर्वैरूप्यं केन बीजेन कल्प्यते शङ्कयते न केनापि ।
अयमभिसन्धिः ।
पक्षे विपक्षत्वशङ्का खलु केनचिद्बीजेन स्यात् ।
निर्बीजं शङ्कमानो न लौकिको नापि परीक्षक इत्युन्मत्त इवोपेक्षणीयः ।
बीजं च व्यभिचारदर्शनं वोपाधिदशर्नं वा तयोरन्यतरशङ्का वा ।
तत्राद्यं तावदिह नास्ति ।
तदिदमाह- अदृष्टमिति ॥
... अदृष्टं केन कल्प्यते
न्यायसुधा:
नापि द्वितीयम् ।
पक्षे साध्यसद्भावस्य श्रुत्यादिसिद्धत्वेन यस्य कस्यचिदाशङ्कयमानस्यावश्यं साध्यव्यापकत्वाभावेनोपाधित्वासम्भवात् ।
पक्षे ऽपि तद्वृत्तौ साधनव्यापकत्वात् ।
अत एवोपाधिशङ्कापि निरस्ता ।
ततो व्यभिचारशङ्कापि ।
उदाहृतवाक्यैर्व्याप्तेरुक्तत्वात् ।
अतो बीजाभावाच्छङ्कैवैषानुपपन्नेति ।
*11,123*
ईश्वरो मुमुक्षुभ्यो विचित्रं फलं ददाति विचित्रसाधनैराराधितत्वात् ।
विचित्रसाधनान्यपेक्ष्य फलदातृत्वादित्यनुमानान्तरं हृदि निधायान्यथासिसिद्धिनिरासार्थं विपक्षे बाधकमाह- वैषम्यमिति ॥
वैषम्यं निर्घृणत्वं च तेन स्यातां परस्य च
न्यायसुधा:
तेन साध्यसाधनवैरूप्येण ।
द्वितीयश्चशब्दः प्रमाणान्तरसूचनार्थः ।
यदीश्वरो ऽनुष्ठिताल्पसाधनायानुष्ठितमहासाधनसमानफलं दद्यात् ।
तदासौ विषमः प्रसज्येत ।
यदि वानुष्ठितमहासाधनायानुष्ठिताल्पसाधनसमानफलं दद्यात् ।
तदा निर्घृणः स्यादित्यर्थः ।
ईश्वरस्य वैषम्याद्यापत्तिर्नानिष्या ।
दुःखाद्यहेतुत्वादित्यत आह- सापेक्षत्वादिति ॥
*11,124*
सापेक्षत्वादिति च तौ विद्याधीशेन वारितौ
न्यायसुधा:
अनेन"वैषम्यनैर्घण्ये वा सापेक्षत्वात्ऽ; इति सूत्रमुपादत्ते ।
तौ चेति सम्बन्धः ।
तौ वैषम्यनैर्घण्यलक्षणौ दोषौ ।
यद्धि प्रमाणविरुद्धमप्रामाणिकं वा तदुच्यते ऽनिष्यमिति ।
वैषम्यं(म्यादिकं)चे(मी)श्वरस्य सूत्रकारेण वारितत्वात्प्रमाणविरुद्धमिति कथं नानिष्यम् ।
अङ्गीकृतसूत्रप्रामाण्यान्प्रत्ययं यत्न इति नासङ्गतिः ।
ये तु सूत्रप्रामाण्यमनङ्गीकृत्येश्वरस्य वैषम्याद्यापत्तेरिष्टत्वं मन्यन्ते ।
तान्प्रति वेदाप्रामाण्यहेतुत्वेन वैषम्यादेर्देषत्वं सूचयितुं पुल्लिङ्गनिर्देशः ।
अन्यथा प्रकरणात्ते वारिते इत्यवक्ष्यत् ।
नपुंसकप्रयोगे ऽपि दूषणे इति शक्यते ज्ञातुमिति चेन्न ।
ते वैषम्यनैर्घृण्ये इति निराकाङ्क्षत्वात् ।
*11,127*
प्रसङ्गस्य विपर्यये पयर्वसानमुपपादयति- तारतम्यादिति ॥
तारतम्यात् साधनानां साध्यतादृक्तवमीशतः ।
अवैषम्यादिहेतुः स्यात् सदैव परमेश्वरे
न्यायसुधा:
साधनानां तारतम्यात्सदैव नियमेनेशतो भवतः साध्यस्य तारतम्यं परमेश्वरे ऽवैषम्यादिहेतुः स्यात् ।
आपादकविपर्ययस्य खल्वापाद्यविपयर्यं प्रति निर्वाहकत्वे भवेत्प्रसङ्गस्य विपर्ययपर्यवसानम् ।
निरग्निकत्वविपर्ययो हि निर्धूमत्वविपर्ययं घटयति ।
अस्ति चैतत्प्रकृत इति ।
यद्वा कथं वैषम्यादि सूत्रकारेण वारितमित्यतः सापेक्षत्वस्य वैषम्याद्यभावेन सह हेतुहेतुमद्भावं व्युत्पादयति- तारतम्यादिति ॥
पूर्वैव योजना ।
*11,128*
व्यर्थमिदं सूत्रकारस्य साधनसंस्कारपूर्वकर्मापेक्षाङ्गीकारेण वैषम्यादिनिवारणम् ।
फले तत्परिहारे ऽपि साधनादौ परिहर्तुमशक्यत्वात् ।
तथाहि ।
साधनादौ परमेश्वरस्य प्रयोजकत्वमस्ति न वा ।
नेति पक्षे परमेश्वरत्वहानिः ।
आद्ये निर्निमित्तं विचित्राणि साधनानि प्रयोजयतः कथं न वैषम्यादीत्यतो ऽनुपपन्नस्य सूत्रस्य कथं बाधकत्वमिति ।
मैवम् ।
अस्याक्षेपस्य सूत्रकृतैव निरस्तत्वादित्याह- स्वातन्त्र्य इति ॥
स्वातन्त्र्ये विद्यमाने ऽपि साधनादौ परेशितुः ।
अपेक्ष्यानादिवैचितृयं न दोष इति तद्वचः ॥ मनुव्_3,4.86अ-द् ॥
न्यायसुधा:
स्वातन्त्र्यं प्रयोजककर्तृत्वात् ।
वैचित्र्यं साधनादेः ।
अपेक्ष्य प्रेरणादिति शेषः ।
दोषो वैषम्यादिः ।
तद्वचः सूत्रकृतो वचो ऽस्ति ।
*11,129*
नन्वेवं सवर्त्र सापेक्षस्य हरेः स्वातन्त्र्यहानिर्देषः स्यादित्यत आह- स्वतन्त्र्य इति ॥
अयमपि दोषो नास्ति ।
कथम् ।
परेशितुः साधनादौ स्वातन्त्र्ये विद्यमाने ऽपि स्वेच्छयानादिवैचित्र्यमपेक्ष्य प्रेरकत्वमित्येतदर्थप्रतिपादकं तद्वचो ऽस्ति यत इति ।
किं तद्वच इत्यतः क्रमेण सूत्रद्वयं पठति- नानादित्वादिति ॥
नानादित्वादिति ह्युक्तमुपपद्यत इत्यपि
न्यायसुधा:
तत्राद्यदोषपरिहाराय"न कर्माविभागादिति चेन्नानादित्वात्ऽ; इत्रत सूत्रं(मनेनो)उपादत्ते ।
द्वितीयपरिहाराय"उपपद्यते चऽ; इति ।
एवमनुमानस्यान्यथासिद्धिं निरस्य बाधकप्रतिरोधौ निराकरोति- अपेक्ष्येति ॥
अपेक्ष्योपायवैषम्यमुपेयस्य तथा स्थितिः ।
मया कया विरुद्धा स्याद् ... ॥ मनुव्_3,4.87अ-च् ॥
*11,129f.*
न्यायसुधा:
तथास्थितिर्विषमतेश्वरेण क्रियत इति साध्यमानेति शेषः ।
मया प्रमाणेन ।
कया न कयापि ।
परमं साम्यमित्यादेरन्यथाव्याख्यातत्वदिति भावः ।
अनुमानादेर्व्याप्तिप्रतिपत्तये दृष्टान्तमाह- राजादाविति ॥
*11,130*
... राजादावपि दृश्यते
न्यायसुधा:
प्रेक्षावति राजादौ सेवानुरूपफलदानं वैपरीत्यकर्तर्यप्रेक्षावति वैषम्यादिकं च दृश्यत इत्यर्थः ।
साध्यसाधनवैरूप्यकल्पने बाधकान्तरमाह- त्याग इति ॥
त्यागो दृष्टस्य चादृष्टकल्पनेति सुदुष्करौ ।
मायिभ्यो ऽन्येन केनापि ... ॥ मनुव्_3,4.88अ-च् ॥
न्यायसुधा:
सर्वत्र साध्यसाधनैकरूप्यस्य दृष्टत्वात्तद्वैरूप्यस्य क्वाप्यदृष्टत्वात्प्रकृतवैरूप्यं शङ्कमानस्य दृष्टत्यागो ऽदृष्टकल्पना चेति दोषौ प्रसज्येते ।
नच स्यातां ताविति शक्यते वक्तुम् ।
प्रेक्षावता केनाप्यनङ्गीकृतत्वादित्याह- सुदुष्करमिति ॥
मायावादिनो दृष्टं प्रपञ्चस्य सत्यत्वादिकं त्यजन्ति ।
अदृष्टमनिर्वाच्यादिकं कल्पयन्ति ।
अतो मायिभ्यो ऽन्येनेत्युक्तम् ।
अस्य चोत्तरत्रोपयोगः ।
अन्यैरकृतमपि दृष्टत्यागादिकं कुर्वतां को दोष इत्यत आह- तत्किमिति ॥
... तत् किमन्यैश्च वादिभिः
मायिनो ऽत्रानुगम्यन्ते ...
न्यायसुधा:
तत् तर्हि ।
किमिति गूढाभिप्रायः प्रश्नः ।
अत्र दृष्टत्यागाद्यनुष्ठानविषये ।
अनुगम्यन्ते अनुस्रियन्ते ।
एतदुक्तं भवति ।
दृष्टत्यागादिप्रसङ्गेन मायावादिनो दूषयतां पुनरत्र दृष्टत्यागादिकं स्वयं कुर्वतां व्याहतिः स्यादिति ।
*11,132*
साध्यसाधनयोर्वैरूप्यं शङ्कमानस्यानिष्यान्तरमाह- श्रुतेति ॥
उक्तविधया साध्यसाधनसारूप्यस्य श्रुतत्वादन्यथा चाश्रुतत्वादत्र वैरूप्याङ्गीकारे श्रुतहान्यश्रुतग्रहावपि स्याताम् ।
मायिनां लिङ्गे इति तयोर्विशेषणं प्रयुञ्जानस्योक्त एवाभिसन्धिः ।
मायावादिनो हि श्रुतं सार्वज्ञाद्युपेतं ब्रह्म परित्यज्याश्रुतं निर्गुणमुपयन्ति ।
दृष्टत्यागादिचतुष्ययं कुर्वतां बाधकान्तरमाह- तदिति ॥
... श्रुतहान्यश्रुतग्रहौ ।
अप्यत्र मायिनां लिङ्गे तत् के दोषास्ततो ऽधिकाः ॥ मनुव्_3,4.89ब्-द् ॥
न्यायसुधा:
तत् तत्र प्रकृतदोषेषु ।
ततो दृष्टत्यागादेषः ।
अधिका बहिर्भूताः ।
दृष्टत्यागादिकं कुर्वाणेनान्यदपि प्रमितं त्याज्यं स्यात् ।
अदृष्टकल्पनादिकं च कुर्वताप्रामाणिकमन्यदपि कल्पनीयं भवेदिति(त्यर्थः) भावः ।
*11,133*
स्यादेतत् ।
यदि मुक्तास्तारतम्योपेताः स्युस्तदा परस्परं द्वेषवन्तः स्युरिति प्रतिकूलतर्कपराहतं मुक्ततारतम्यानुमानमित्यत आह- निश्शेषेति ॥
निश्शेषगतदोषाणां बहुभिर्जन्मभिः पुनः ।
स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादिस्ततः कुतः
*11,133f.*
न्यायसुधा:
निश्शेषेण गता अपगता दोषा येभ्यास्ते तथोक्ताः ।
पुनः श्रवणादिमतामिति शेषः ।
तेषां हरेरापरोक्ष्यमिति तान्प्रति हरेरापरोक्ष्य(रपरोक्षत्व)मित्यर्थः ।
अनुबन्धादिभ्य इत्यत्र प्रतिपादितो ऽयमर्थ इति हिशब्दः ।
यस्मादित्यर्थे वा ।
द्वेषेर्ष्यादिदोषस्ततस्तस्मात्कुतो मुक्तानां नापादयितुं शक्यत इत्यर्थः ।
*11,134*
एतदुक्तं भवति ।
ये तारतम्योपेतास्ते द्वेषादिमन्तो दृष्टा यथा लौकिकाः पुरुषा इति खल्वत्र व्याप्तिरभिधातव्या ।
नचैवम् ।
लौकिकानां द्वेषादिमत्त्वे दोषित्वस्यैव प्रयोजकत्वात् ।
यत्र द्वेषादिमत्त्वं तत्र दोषित्वमित व्याप्तेर्दर्शनम् ।
नच दोषित्वं मुक्तेषु सम्भवति ।
औपाधिका हि तेषु दोषा वक्तव्याः ।
स्वाभाविकानां शङ्कितुमशक्यत्वात् ।
ते च भगवत्साक्षात्कारोदयात्प्रागेव प्राचुर्येण गताः ।
साक्षात्कारेण च समूलघातं हताः ।
मुक्तौ चोपाधेरेवापगतत्वान्नेषदपि स्थातुमर्हति ।
अतो व्यापकाभावाद्वयाप्यस्याप्यभाव इति ।
ननु परेणापि न मुक्तेषु द्वेषादिमत्त्वं साध्यते किन्त्वापाद्यत इति ।
ततस्स्तेभ्यस्तद्वयावृत्तिसाधनमसङ्गतम् ।
मैवम् ।
तर्कमूलभूतव्याप्तावुपाधिः खल्वत्र कथितः ।
तस्य च पक्षाद्वयावृत्तिः स्वव्यावृत्त्या विवक्षितधर्मव्यावर्तनशक्तिश्चावश्यकेति तद्व्युत्पादनस्य क्रियमाणत्वात् ।
अत्र द्वेषेर्ष्यासन्तापपरेष्यप्रतिघातप्रयत्नेच्छा व्याप्याः ।
अविद्याहङ्काराद्या व्यापका इति विवेकः ।
*11,136*
दोषाणामेव द्वेषादौ प्रयोजकत्वमित्येतमर्थं परेणापि स्वीकारयितुं प्रतिबन्दी गृह्णाति- भवेयुरिति ॥
भवेयुर्यदि चेर्ष्याद्याः समेष्वपि कुतो न ते
न्यायसुधा:
तारतम्ये ऽङ्गीकृते मुक्तानामीर्ष्यादयो यदि भवेयुर्यद्यापाद्यन्ते ।
तदा मुक्तेषु समेष्वङ्गीकृतेष्वपि कुतो न भवेयुः ।
यदि मुक्तास्तारतम्योपेतास्तदा द्वेषादिमन्तः स्युरिति वदता न द्वेषादिमन्तस्तस्मात्समा एवेति वाच्यम् ।
नच साम्यमप्यङ्गीकर्तुं शक्यते ।
यदि मुक्ताः समाः स्युस्तदा द्वेषादिमन्तः स्युरिति तत्राप्यनिष्यप्रसङ्गादित्यर्थः ।
साम्ये कथं द्वेषादिप्रसङ्ग इत्यत परप्रसङ्गवत्साम्यस्यापि द्वेषादिसाहचर्यं दृष्टमित्याह- तप्यमाना इति ॥
तप्यमानाः समान् दृष्ट्वा द्वेषेर्ष्यादियुता अपि ।
दृश्यन्ते बहवो लोके दोषा एवात्र कारणम् ॥ मनुव्_3,4.91च्-f ॥
न्यायसुधा:
समसत्तामात्रं नापादकत्वेन विवक्षितम् ।
अतिप्रसङ्गात् ।
किन्तु समदर्शनमेवेत्याशयेनोक्तम्- समान्दृष्ट्वेति ॥
प्रतिबन्दीग्रहणस्य प्रयोजनमाह- दोषा इति ॥
दोषाणां समुदितानामेव कारणत्वमित्येकवचनम् ।
एवमस्माभिः साम्यवादिनं प्रत्यतिप्रसङ्गे ऽभिहिते तेनैतदेव वक्तव्यम् ।
अत्र लोके दोषा एव द्वेषादेः कारणम् ।
अन्वयव्यतिरेकाभ्यां तन्निश्चयात् ।
नतु साम्यम् ।
सत्यपि साम्ये सखिष्वभावात् ।
असत्यपि क्वचिद्भावात् ।
नच मुक्तेषु दोषास्सन्ति ।
अतः साम्ये ऽपि न (द्वै)दोषादिप्रसङ्ग इति ।
*11,137*
अतः किमित्यत आह- यदीति ॥
यदि निर्दोषता तत्र किमाधिक्येन दूष्यते
न्यायसुधा:
यद्येवं दोषाणामेव द्वेषादिकारणत्वम् ।
तत्र मुक्तेषु ।
निर्देषता चाङ्गीकृता ।
तदा आधिक्येन हीनाधिकभावेनाङ्गीकृतेन ।
किं दूष्यते न किमपि ।
साम्यमङ्गीकुर्वाणेनापि निर्देषतयैव द्वेषादिप्रसङ्गो वारणीयः ।
तारतम्यमङ्गीकुर्वाणैरस्माभिरपि तथैव निराकरिष्यते ।
इयांस्तु विशेषः ।
यत्तारतम्यं प्रमितं न साम्यमिति समुदायार्थः ।
शङ्कते- यदीति ॥
यद्यन्यदर्शनाभावादीर्ष्यादिर्विनिवार्यते
*11,138*
न्यायसुधा:
भवेदेतद्यदि साम्येन प्रसक्तं द्वेषादिकं निर्देषतया निवारयामः ।
नचैवम् ।
किन्नाम समसत्तामात्रं हि न द्वेषादिकारणमतिप्रसङ्गात् ।
अपि तर्हि समदर्शनम् ।
नच मुक्तः समं मुक्तान्तरं पश्यत्यतो न द्वेषादीति ।
एवं तर्हि न तारतम्यसत्तामात्रं द्वेषादिकारणं किन्तु स्वतो ऽधिकदर्शनमेव ।
नच मुक्तः स्वतो ऽधिकं मुक्तान्तरं पश्यति ।
तस्मात्सत्यपि तारतम्ये न द्वेषादिप्रसङ्ग इति कुतो न सन्तोष्यव्यमिति परिहारो ऽत्र शक्यते वक्तुम् ।
तथापि नासौ तात्त्विक इत्यन्यदर्शनाभावमेव दूषयति- अदर्शनादिति ॥
अदर्शनादरत्यादिः कथं तेन निवार्यते
न्यायसुधा:
एवमन्यदर्शनाभावेन द्वेषादिकं निवारयता तेनादर्शनात्प्रसक्तमरत्यादिकं कथं निवार्यते ।
अरतिः सुखाभावः ।
आदिपदेन तन्द्री भयं च गृह्यते ।
एतदुक्तं भवति ।
स्यादयं परिहारो यदि मुक्तस्यान्यदर्शनाभावः सम्भवेत् ।
नचैवम् ।
मुक्तो हि न तावदचेतनः ।
अपसिद्धान्तप्रसङ्गात् ।
ततश्चेतनस्य सतो ऽन्यदर्शनाभावे ऽरत्यादिकं प्रसज्यत इति ।
ननु बहिर्मुखा एवान्यदर्शनाभावे ऽरत्यादिकं प्राप्नुवन्ति नच मुक्तास्तथातो नारत्यादिप्रसङ्ग इत्यत आह- ब्रह्मणो ऽपीति ॥
ब्रह्मणो ऽप्यरतिर्दृष्ट्वा पूर्वमेकाकिनः श्रुतौ
न्यायसुधा:
"ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्ययम्ऽ; इत्येवं प्रमितस्यापीत्यर्थः ।
पूर्वम् आदिकाले ।
श्रुताविति जातावेकवचनम् ।
ताः श्रुतीरर्थतः पठति- नैवेति ॥
*11,139*
नैव रेमे स चैकाकी तसमान्न रमते क्वचित् ।
द्वितीयमैच्छत् तेनासाविति श्रुतय ऊदिरे ॥ मनुव्_3,4.93च्-f ॥
न्यायसुधा:
अनेन स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छदिति वाक्यमुपादत्ते ।
स्यादेतत् ।
यद्यन्यदर्शनाभावमात्रमरत्यादेः कारणं स्यात् ।
नचैवम् ।
किन्त्वन्यदर्शनेच्छायां तदभावः ।
मुक्तस्य त्विच्छैव नास्त्यतो ऽन्यदर्शनाभावे ऽपि नारत्यादिकं प्रसज्यत इत्याशङ्कयाह- यदीति ॥
यदीच्छा तत्र नैवास्तीत्येव तत् कल्प्यते मृषा ।
श्रुत्युक्तनिर्दोषतैव किं नाङ्गीक्रियते स्वयम्
न्यायसुधा:
तत् तत्र मुक्तौ ।
तत्र अन्यदर्शनविषये ।
इच्छा नैवास्तीति मृषैव कल्प्य तेयदीति योजना ।
भिद्यते हृदयग्रन्थिरित्यादिश्रुत्युक्ता ।
स्वयं साक्षाच्छत्युक्तेति सम्बन्धः ।
तर्हीति शेषः ।
तच्छब्दो वा तर्ह्यर्थः ।
इदमुक्तं भवति ।
मुक्तानां साम्यमङ्गीकृत्यान्यदर्शनाभावेन द्वेषादिपरिहृत्यान्यदर्शनेच्छाभावेन चारत्यादिकं परिहरतो ऽप्रामाणिकानेककल्पनं प्रामाणिकपरित्यागश्च स्याताम् ।
*11,140*
सामान्यदर्शनाभावेनाभाववतदिच्छाभावानामप्रामाणिकत्वात् ।
तारतम्यादेः प्रामाणिकत्वात् ।
ततो वरं तारतम्यमङ्गीकृत्य द्वेषादिनिरासाय श्रौतनिर्देषतास्वीकार इति ।
एतेन तारतम्यं साम्यं वाङ्गीकृत्य निर्देषत्वेन द्वेषादिसमाधानं विधातव्यमिति सन्देहो ऽपि निरस्तो वेदितव्यः ।
उक्तमेव स्पष्टमाह- तारतम्यं चेति ॥
तारतम्यं च कामं च श्रुतमेवातिहाय तु ।
अश्रुता समता केन कल्प्यते युक्तिमानिना
*11,141*
न्यायसुधा:
अन्यदर्शनं चेत्यपि ग्राह्यम् ।
"स यो मनुष्याणां राद्धः ।
कामस्य यत्राप्ताः कामाः ।
अक्षण्वन्तः कर्णवन्तः सखायःऽ; इत्याद्यौ श्रुतम् ।
न ह्यन्यदर्शनाभावे सख्यं सम्भवति ।
समतेत्यन्यदर्शनाभावेच्छाभावयोरप्युपलक्षणम् ।
युक्तिं मन्यत इति युक्तमानी ।
युक्तौ बहुमानवता केनाप्येवं न कल्प्यत इत्यर्थः ।
प्रामाणिकपरित्यागाप्रामाणिकस्वीकारप्रसङ्गो हि तर्कापरनामिका युक्तिः ।
ननु समताया अश्रुतत्वे ऽपि नाप्रामाणिकत्वम् ।
नहि श्रुतिरेव प्रमाणमित्यत आह- किं तदिति ॥
किं तन्मानं समत्वे ते मुक्तानामुपलभ्यते
न्यायसुधा:
न किञ्चित्तच्छतेरन्यत् ।
अतः प्रमाणान्तराभावे ऽश्रुतत्वेनाप्रामाणिकत्वमेव सिद्धयति ।
यद्यन्यदर्शनाभावादित्यादिनोक्तमुपसंहरति- वृथेति ॥
वृथायमाग्रहः केन श्रुतहान्यश्रुतग्रहे
न्यायसुधा:
केन न केनापि कारणेन ।
श्रुतहान्यश्रुतग्रह इति द्वन्द्वैकवद्भावः ।
श्रुतहानिसहितो ऽश्रुतग्रह इति वा ।
विषयसप्तमीयम् ।
ततो न कार्य इति भावः ।
मुक्तानां तारतम्ये ऽनुमानान्तरमाह- मोक्षे ऽपीति ॥
*11,142*
मोक्षे ऽपि तारतम्येतश्चेतनत्वात् पुरा यथा
न्यायसुधा:
तारतम्येनेतः प्राप्तस्तारतम्यवानिति यावत् ।
पुरा संसारे ।
नन्वत्र संसारे वर्तमानं कमपि पक्षीकृत्यायं तारतम्येत इति साध्यते तत्र च मोक्षे ऽपीति सिद्धसाधनतापरिहाराय विशेषणमुपादीयत इति वा ।
मोक्षे ऽपीत्यनेन मुक्तं पक्षीकृत्य तारतम्येत इति वा ।
मुक्तं पक्षीकृत्य तारतम्येत इति साध्यते ।
तत्र प्राचीनेन तारतम्येन सिद्धसाधनतापरिहाराय मोक्षे ऽपीति विशेषणमुपादीयत इति वा ।
नाद्यः ।
तस्य नित्यसंसारित्वस्यापि सम्भवेन बाधापत्तेः ।
निश्चितमोक्षपुरुषविशेषपक्षीकारे ऽपि दृष्टान्तस्य साध्यविकलत्वात् ।
नहि संसारी मुक्तिगततारतम्योपेतः ।
द्वितीये अपिपदवैयर्थ्यम् ।
प्राक्तनतारतम्योपेतत्वेन सिद्धसाधनता च ।
तृतीये ऽपि दृष्टान्तस्य साध्यविकलतैव ।
तारतम्योपेतत्वं च हीनाधिकसद्भावो वान्यतरसद्भावो वा ।
*11,143*
आद्ये परमेश्वरे ऽनैकान्त्यम् ।
द्वितीये सिद्धसाधनता ।
मुक्तानामप्यमुक्तेभ्यो ऽधिकत्वस्य परेणाङ्गीकृतत्वात् ।
मुक्ताधिकत्वसाधने देवदत्ते व्यभिचारस्तत्कथमेतत् ।
उच्यते ।
मुक्तास्तदानीन्तनेन परस्परं तारतम्येनोपेताश्चेतनत्वात्संसारिणो यथेत्ययमर्थो ऽत्र विवक्षितः ।
तारतम्यं च कुतश्चिद्धीनत्वं कुतश्चिदधिकत्वमित्येतयोरन्यतरदिति नोक्तदोषः ।
सामान्यस्य च विशेषनिरासेनापाकरणे चातिप्रसङ्गः ।
यद्वा मक्त्युत्तरक्षणवर्ती मुक्तः प्राग् यतो ऽधिकत्वहीनत्वाभ्यामुपेतस्वरूपो ऽभूदिदानीमपि ताभ्यामुपेत इति प्रतिज्ञार्थो वणर्नीयः ।
सामान्यत एव व्याप्तिरभिधातव्येति ।
*11,147*
आभासानुद्धरति- इत्युक्त इति ॥
इत्युक्त उत्तरं किं ते ...
न्यायसुधा:
उक्ते प्रत्युक्ते ।
व्याप्तिपक्षधर्मत्वयोः प्रमितत्वान्न किमप्युत्तरमस्तीति भावः ।
बाधितविषयमनुमानमित्यत आह- कल्पनेति ॥
... कल्पनामात्रवादिनः
न्यायसुधा:
कल्पनामात्रेण वदतीति तथोक्तः ।
पूर्वेणैव सम्बन्धः ।
श्रुतीनामन्यार्थत्वात्प्रमाणान्तरस्य चाभावात्स्वोत्प्रेक्षयैव मुक्तानां तारतम्याभावं वदतस्तवोत्तरं किमिति ।
यद्येवमनुमीयेत तदा मुक्ता दुःखाद्युपेताश्चेतनत्वात्संसारिवदित्यप्यनुमीयेतेत्यतिप्रसङ्गपराहतमनुमानमित्यत आह- नचेति ॥
न च दुःखादिकं कल्प्यं ...
न्यायसुधा:
कल्प्यं अनुमेयं मुक्तस्य ।
आदिपदेनापरिपूर्णानन्दत्वादेः सङ्ग्रहः ।
कुत इत्यत आह- निर्दुःखत्वेति ॥
... निर्दुःखत्वश्रुतेर्बलात्
न्यायसुधा:
अत्राप्यादिपदं ग्राह्यम् ।
अयमभिसन्धिः ।
समानयोगक्षेमत्वाभिप्रायेण खल्वयमतिप्रसङ्गो वाच्यो नान्यथा व्याप्त्यभावात् ।
नच प्रकृते तदस्ति ।
दुःखादिसाधकस्य निर्दुःखत्वादिकं प्रतिपादयन्त्या श्रुत्या बाधितत्वात् ।
श्रुतेरपौरुषेयत्वेन धर्मिग्राहकत्वेन चानुमानतो बलवत्त्वात् ।
तारतम्यानुमानस्य चाबाधितत्वादिति ।
*11,148*
एतदेव विवृण्वन्मुक्तस्य निर्दुःखत्वादि प्रतिपादयन्तीः श्रुतीस्तावत्पठित्वा तासां तात्पर्यमाह- शोकमिति ।
*11,149*
शोकं तरत्यात्मवेत्ता तीर्णः सर्वानदुःखभाक्
येनानन्द्येव भवति न शोचति कदाचन ।
किल्बिषस्पृत् पितुषणिररं हित इहेश्वरः
यं यमन्तमभिप्रेप्सुः स सङ्कल्पाद् भवेदिह ।
इत्यादिश्रुतयो मानं निर्दुःखत्वादिसम्पदि
न्यायसुधा:
अनेन तरति शोकमात्मविदिति श्रुतिमुपादत्ते ।
वेत्ता वेदिता ।
विचारणार्थस्य विन्दतेर्वा रूपमेतत् ।
तीर्णः सर्वानित्यनेन तीर्णो हि तदा सर्वाञ्छोकानिति ।
अदुःखभागित्यनेन नानानन्दं कञ्चिदुपस्पृशतीति ।
येनेत्यनेन तद्वै जैवं मनो येनानन्द्येव भवतीत्यथो न शोचतीति ।
एवशब्देन शोकाभावे लब्धे ऽपि यत्पुनः"न शोचतिऽ; इत्युक्तं तस्याभिप्रायः कदाचनेति ।
किल्पिषस्पृदित्यनेन सर्वे नन्दन्ति यशसाऽगतेन सभासाहेन सख्या सखायः ।
किल्बिषऽस्पृत्पितुऽषणिर्ह्येषामरं हितो भवति वाजिनायेति मन्त्रम्(ऋ 10-71010) परस्परं सखायः सर्वे मुक्ता आगतेन स्वागतेन यशसा (यशस्वता)(शस्विना) यशोवता सभां सहत इति सभासहः कर्मण्यण् ।
तेन सख्या परमेश्वरेण निमित्तेन नन्दन्ति ।
कथम् ।
हि यस्मादीश्वर एषां मुक्तानां किल्बिषस्पृद् ।
दुःखं न सहते ।
स्पर्धतेरर्थे स्पर्धेति धात्वन्तरं ततः क्विप् ।
पितुषणिः अन्नस्य दाता ।
अन्नं वै पितुरिति श्रुतेः ।
षणु दाने ।
अस्मादिकारप्रत्ययः ।
अर(मलं) मत्यर्थम् ।
वाजिनायेन्द्रियाय हितो भवति ।
इन्द्रियं वै वाजिनमिति श्रुतेः ।
इह मुक्तविषये ।
यं यमित्यनेन यं यमन्तमभिकामो भवति सो ऽस्य सङ्कल्पादेव भवतीति ।
अन्तं स्थानम् ।
इह मुक्तौ ।
निर्दुःखत्वादिसम्पदि मुक्तानाम् ।
जोस्हि-29
*11,154*
ततः किमित्यत आह- अत इति ॥
अतो दुःखाद्यनुमया नावकाशो ऽत्र लभ्यते
न्यायसुधा:
श्रुतिबाधितत्वादित्यर्थः ।
अत्र मुक्तेषु ।
मुक्ता दुःखाद्युपेता इति प्रतिज्ञायाः स्वव्याहतत्वाच्चेत्यपि द्रष्टव्यम् ।
ततो ऽपि किमित्यत आह- तारतम्येति ॥
तारतम्यानुमा तेन भवेन्नातिप्रसङ्गिनी
न्यायसुधा:
तस्मात् बाधाभावेन समानयोगक्षेमत्वाभावात् ।
*11,155*
मुक्ततारतम्यसाधनमुपसंहरति- श्रुतीति ॥
श्रुतियुक्तिबलादेवं तारतम्यं विभाव्यते ।
मुक्तावपि ततः के ऽत्र विरोधं कर्तुमीशते
न्यायसुधा:
विभाव्यते सम्यगनुभूयते ।
के वादिनो न केऽपि ।
अत्र मुक्ततारतम्यविषये ।
॥ इति कामचाराधिकरणम् ॥
[======= ज्न्य्स्_3,4.इइइ: उभयलिङ्गाधिकारिकाधिकरणे =======]
॥ अथ उभयलिङ्गाधिकारिकाधिकरणे ॥
॥ ओं सर्वथापि तु त एवोभयलिङ्गात् ओं ॥
ओं न चाधिकारिकमपि पतनानुमानात्तदयोगात् ओं ॥
अत्र प्रथमाधिकरणे ऽनादिज्ञानयोग्यतावतामेवज्ञानप्राप्तिर्नान्येषामित्युक्तम् ।
द्वितीये च देवतादिपदप्राप्तिरनादितद्योग्यतोपेतानामेव नेतरेषामित्यभिहितम् ।
सेयं जीवानां नानाविधानादियोग्यता प्रसिद्धैस्तैस्तैः कारणैरुत्कर्षापर्कप्राप्तिर्भवतीति वदद्भिर्वादिभिर्नाभ्युपगम्यते ऽतस्तां साधयितुमाह- अनादीति ॥
सर्वथापि त एवोभयलिङ्गात्
न चाधिकारिकम् अपि पतनानुमानात् तदयोगात्
अनादियोग्यतां चैव कलिवाणीश्वरावधिम् ।
को निवारयितुं शक्तो युक्तयागमबलोद्धताम्
*11,156*
न्यायसुधा:
न केवलं मुक्तानां तारतम्यमिति चार्थः ।
अनेन मुक्ततारतम्यस्यापीदं साधकमित्युक्तं भवति ।
अनादेर्नित्यत्वात् ।
एवशब्दस्य क एवेति सम्बन्धः ।
कलिवाणीश्वरावधी यस्याः सा तथोक्ता ।
योग्यतापकर्षपरम्परायाः कलिरवधिस्तदुत्कर्षपरम्पराया वाणीश्वरः ।
उद्धतां अप्रतिहताम् ।
कथं युक्त्यागमसिद्धेत्यत आगमानां सावकाशत्वाभिमानेन युक्तावेव बहुमानवन्तं प्रत्यादौ तामाह- ब्रह्मण इति ॥
ब्रह्मणो ऽन्यत्र आधिक्ययुक्तः कालो विवादवान् ।
कालो ह्ययं यथेत्यादि मानुमामानिनो भवेत्
न्यायसुधा:
वर्तमानकाले ब्रह्मा सर्वाधिक इति सम्प्रतिपन्नम् ।
अतो विवादवान्विवादविषयः काल इत्युक्तम् ।
वर्तमानमहाकल्पव्यतिरिक्तो ऽतीतो ऽनागतश्च काल एतस्य ब्रह्मणो यदन्यत आधिक्यं तेन युक्तः ।
कालो हीति कालत्वादित्यर्थः ।
अयं वर्तमानः कालो यथा ।
आदिपदेनायं ब्रह्मातीतादिकाले ऽप्यन्यतो ऽधिको ब्रह्मत्वात्तत्कालवर्तिब्रह्मवदित्यादेः सङ्ग्रहः ।
अनुमामानिनो ऽनुमायां बहुमानवतो बोधाय प्रयोक्तव्या भवेत् ।
अनुमामानिनः प्रतीतिं वा ।
ब्रह्मगतेनाधिक्येन कालस्य सम्बन्धाभावात्कथमनुमानमिति चेन्न ।
परम्परासम्बन्धेनानुमानप्रामाण्यवादिभिरयं कालो वेदव्यतिरिक्तेदानीन्तनत्वरहितपौरुषेयवानित्याद्यनुमानाप्रवृत्तेः अङ्गीकृतत्वात् ।
तदिदमुक्तमनुमामानिन इति ।
ब्रह्मण पदाद्यभावकाले ऽपि सर्वोत्कर्षसिद्धौ योग्यतैव सर्वोत्कृष्टानादिनित्या सिद्धा भवति ।
*11,159*
स्यादेतत् ।
प्रमाणबाधितेयं प्रतिज्ञा ।
दृष्टान्तश्च साध्यविकलः ।
अन्यशब्दो ह्ययं प्रकरणाद्ब्रह्मव्यतिरिक्तं सर्वमाह ।
तत्र हरेर्महालक्ष्म्या ऋजुभ्यश्चाधिक्यं ब्रह्मणः कालत्रये ऽपि नास्ति ।
हरेःश्रियश्चाधिकत्वेन ऋजूनां समत्वेन प्रमितत्वादित्यत आह- अन्यशब्द इति ॥
अन्यशब्दो हरिश्रीस्वसमेभ्यो ऽन्यविवक्षया ।
प्रयुक्तो नैव दोषाय ...
न्यायसुधा:
स्वशब्देन ब्रह्मोच्यते ।
स चावर्तनीयः ।
स्वश्च स्वसमाश्चेति ।
यदा वक्ता स्वविवक्षां स्वयमेव व्याख्याति कात्र प्रकरणाद्यपेक्षा ।
तदभावे तस्योपयोगात् ।
कथायां तु व्यक्तमेव वक्तव्यम् ।
अन्यथा प्रतिज्ञान्तरादीनामप्येवं परिहारप्रसङ्गात् ।
नैव दोषाय बाधादिहेतुर्नैव भवति ।
*11,161*
उक्तन्यायमन्यत्राप्यतिदिशति- रुद्रादिषु चेति ॥
... रुद्रादिषु च युक्तितः
न्यायसुधा:
अनयैव रीत्या रुद्रादिष्वपि सानादियोग्यता युक्त्या साधनीयेत्यर्थः ।
विमतः कालो ऽस्य रुद्रस्येश्वरादिव्यतिरिक्ताद्यदाधिक्यं तेन युक्तः कालत्वादेतत्कालवदित्यादि ।
(ननु) मुक्तास्तावत्सर्वे ऽपि ब्रह्मणो ऽधिकास्तेषां मुक्तत्वादस्य संसारित्वात् ।
अतो ऽन्यशब्दव्याख्याने ते ऽपि कुतो न गृह्यन्त इत्यत आह- उत्तमत्वं त्विति ॥
उत्तमत्वं तु मुक्तानामपि न ब्रह्मणो भवेत्
न्यायसुधा:
अतस्तदग्रहे न दोष इति शेषः ।
तत्कथमित्यत आह- व्यक्तिरिति ॥
व्यक्तिः सुखस्य तु भवेन्नत्वाधिक्यं सुखस्य च
न्यायसुधा:
आद्यस्तुशब्दो ऽवधारणाथर्ः ।
व्यक्तिरेवेति सम्बद्धयते ।
चशब्दो गुणान्तरसमुच्चयाथर् उभयत्रान्वेति ।
प्राग्विद्यमानस्यैव स्वरूपसुखादेर्मुक्तावविद्याद्यावरणापायेन व्यक्तिरनुभवलक्षणा भवेन्न तु किमप्यधिकमुत्पद्यते ।
तथा सत्यनित्यत्वप्रसङ्गात् ।
नच ब्रह्मणः स्वरूपादितरेषां स्वरूपमधिकम् ।
नच निर्णिक्तं कांस्यमनिर्णिक्तात्सुवर्णादधिकं भवति ।
एतेन मुक्तत्वहेतुरपि प्रत्युक्तः ।
*11,162*
न केवलं मुक्तानां ब्रह्मणो ऽधिकत्वं नास्ति किं तर्हीत्यत आह- बलेति ॥
बलज्ञानाधिकत्वं च तेभ्यो हि ब्रह्मणः सदा
न्यायसुधा:
गुणान्तरोपलक्षणमेतत् ।
सदा संसारे मुक्तौ च ।
एतेन समशब्देनापि तत्परिग्रहो निरस्तः ।
*11,163*
नन्वेवमनुमाने विमतः कालो ऽस्य राज्ञः सम्प्रतिपन्नाधिक्येन युक्तः कालत्वात्सम्प्रतिपन्नकालवदित्यप्यनुमानप्रसङ्ग इत्यत आह- आधिक्यस्येति ॥
आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते
न्यायसुधा:
ब्रह्मण इति शेषः ।
अनित्यत्व इति सादित्वस्याप्युपलक्षणम् ।
तुशब्दो राजाद्याधिक्यस्य व्यावर्तकः ।
बाधकभावाभावाभ्यां विशेषान्नातिप्रसङ्ग इति भावः ।
*11,164*
एवं ब्रह्मादिजीवेष्वनादिनित्यं नानाविधां योग्यतां प्रसाध्येदानीमागमेनापि साधयन्नादौ तावत् श्रुतीः पठति- शृण्वे वीर इति ॥
शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।
एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्
न्यायसुधा:
वीरो ऽध्यवसितान्तगामी ।
इन्द्रः परमेश्वरः ।
उग्रमुग्रं सर्वान्दुष्यप्रकृतीन्दमयन्नित्यनरकं प्रापयन्नन्यमन्यं सर्वान्सत्स्वभावानतिनेनीयमानः संसारं भृशमतिक्रामयन् स्वयोग्यतातिरेकेणैधमानं द्वेष्यीत्येधमानद्विट् ।
शृण्वे श्रूयते ।
कुत उभयस्य देवतासुरवर्गस्य राजा यतः ।
किञ्च मनुष्यान्विशः प्रजाश्चोष्कूयते नित्यं परिवर्तयति ।
परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।
अनानुभूतीरवधून्वानः पूर्वीतिन्द्रः शरदस्तर्तरीति
न्यायसुधा:
परा पूर्वेषाम् ।
अतीतमन्त्रे पूर्वेषां पूर्वनिर्दिष्यानामुग्राणां सख्या सख्यानि परावृणक्ति परित्यजति ।
अपरेभिरपरैः साधुभिः सह सख्यानि वितर्तुराणो ऽतिशयेन त्वरमाण एत्यानानुभूतीः सम्यगनुभवरहितानवधून्वानो ऽवमे संसारे वर्तयन्निन्द्रः पूर्वीः शरदो ऽतीतान्संवत्सरांस्तीर्णो वर्तमानांश्च तर्तरीति ।
आगामिनश्च तरिष्यतीति ।
अत्र मन्त्रद्वये ऽसुराणामनादितो भगवद्भजनाभावो नित्यनरकावाप्तिश्च श्रूयते ।
देवानां सदा भगवद्भजनं मोक्षावाप्तिश्च ।
मनुष्याणां सर्वदा संसार इति ।
दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः ।
अहन् दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च
न्यायसुधा:
दिवे दिवे वर्षणाद्वृषभः परमेश्वरो दिवे दिवे सर्वदा सदृशीश्चेतनत्वमात्रेण कृष्णास्तमोमयीर्जाः प्रजाः कास्ता देवेभ्यो ऽन्यमर्धं स्वीयात्सद्मनोपासेधत् ।
निवर्तयति ।
किञ्च दासौ दस्यू वस्नयन्ता जगच्छायदन्तौ वर्चिनं शम्बरं चोदव्रजे जलराशौ समुद्रतीरे ऽहन्हिंसितवानिति ।
अत्र दैत्यानां कदापि न मोक्ष इति प्रतीयते ।
*11,164f.*
तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूभ्रूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः
तद् यथा पेशस्करी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुत एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयितवान्यन्नवतरं कल्याणतरं रूपं कुरुते पितृयं पितृयं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम्
*11,165*
न्यायसुधा:
तं भूतिरिति ।
तं परमेश्वरम् ।
भूतिरैश्वर्यरूपः ।
बभूवुर्मुक्ता इति शेषः ।
एतर्हीदानीं सुप्तः सुप्तस्थो वायुः ।
पराबभूवुर्नित्यनिरयं प्राप्ताः ।
अत्र देवासुराणां सम्यग्विपरीतोपासनाभ्यां मोक्षतमसोः प्राप्तिः श्रूयते ।
तेन देवत्वमसुरत्वं च सहजमिति ज्ञायते ।
तद्यथा तद्वक्ष्यमाणं निदर्शनं यथा ।
पेशस्कारी सुवर्णकारः पेशसः सुवर्णस्य मात्रामंशम् ।
अन्यदिव नवतरं प्रागननुभवात् ।
कल्याणतरं मलापकर्षात् ।
रूपं रुचकादिकम् ।
आत्मा परमात्मा ।
अन्येषां भूतानां मनुष्योत्तमानाम् ।
अत्र सुवर्णस्यैव यथा रुचिकादिभावः सुवर्णकारेण क्रियते न यस्य कस्यचिद्द्रव्यस्य तथा मुक्तियोग्यानामेवेश्वरेण मुक्तत्वं क्रियते नान्येषामिति प्रतीयते ।
*11,170*
अधुनात्रैव स्मृतीः पठति- प्रयान्तीति ॥
प्रयान्ति परमां सिद्धिमैहिकामुष्मिकीं द्रुतम् ।
या न प्राप्यासुरैः सर्वैरक्षया क्लेशवर्जिता ।
न तां गतिं प्रपद्यन्ते विना भागवतान् नरान्
न्यायसुधा:
पुरा सत्ये युग इति प्रकृतानां देवतास्वभावानां प्रयान्तीत्यनेन मोक्षादिफलप्राप्तिमुक्त्वा या न प्राप्येत्यसुराणां न तां गतिमिति मनुष्याणां च कदाचित्तत्प्राप्तिर्नास्तीत्युच्यते ।
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम्
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः
*11,171*
न्यायसुधा:
अवजानन्तीत्यनेन भगवदवज्ञादिलक्षणराक्षसादिस्वभाववतां कदापि पुरुषार्थावाप्तिर्नास्तीवति कथ्यते ।
प्रकृतिः स्वभावः ।
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्
न्यायसुधा:
महात्मन इत्यत्र भगवद्भजनादिलक्षणदेवत्वं स्वभाव इति प्रतीयते ।
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम्
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत
डम्भो दर्पो ऽतिमाश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्
न्यायसुधा:
अभयमित्यनेनाभयादिलक्षणं देवत्वं दम्भादिलक्षणं चासुरत्वं स्वभाव एवेति ज्ञायते ।
मामात्मपरदेहेषु प्रद्विषन्तो ऽभ्यसूयकाः ।
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्
न्यायसुधा:
मामात्मेत्यनेनासुरस्वभावानामन्धतमसावाप्तिपर्यवसानमभिधीयते ।
द्विविधो भूतसर्गो ऽत्र दैव आसुर एव च ।
विष्णुभक्तिपरो दैवो विपरीतस्तथाऽसुरः
*11,172*
न्यायसुधा:
देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः ।
स्वाध्यायस्तत्त्ववेदित्वं विष्णुपूजारतिः स्मृतिः
दैत्यानां बाहुषाळित्वं मात्सर्यं युद्धसत्क्रिया ।
नीतिशास्त्रप्रवेदित्वं शिवपूजारतिः स्मृतिः
वर्णाश्रमाचारवत्त्वं स्वाध्यायो भक्तिरच्युते ।
शिवे सूर्ये तथा देव्यां स्वभावो मानुषः स्मृतः
अनादिवैष्णवा एव देवतास्तु स्वभावतः ।
विपरीतास्ततो दैत्याः सदैवानादिकालतः
मानुषा मिश्रमतयो विमिश्रगतयो ऽपि च
न्यायसुधा:
द्विविध इति स्पष्टं देवासुरत्वयोः स्वभावत्वमाख्यायते ।
सर्गशब्दस्य स्वभाववाचित्वात् ।
द्विविध एवेति सम्बन्धः ।
सर्गाणां सुबहुत्वे ऽपि"शुभाशुभफलाधिकौ ।
देवासुराख्यौ द्वावेव गन्धवद्यास्तदन्तरा इति वचनादवधारणोपपत्तिः ।
स्वभाव इत्येतद्देवानां दैत्यानामित्यत्रापि सम्बद्धयते ।
परमो धर्म इति यज्ञादिकानां क्रियाणां विशेषणम् ।
भगवदर्पणादिना परमधर्मरूपयज्ञादिकाः क्रिया इति ।
रतिः स्मृतिश्च विष्णोः शिवस्य चेति शेषः ।
बहुशालित्वमित्यस्थाने बाहुबलप्रयोगो ऽभिप्रेयते ।
युद्धसत्क्रिया युद्धकौशलम् ।
वर्णाश्रमेति तदनुष्ठानमात्रपर्यवसायित्वमाचष्टे ।
अच्युतादौ साम्येन भक्तिरित्यर्थः ।
अनादीति स्पष्टम् ।
अनादित्वादेव स्वभावतो ऽनादिकालत इत्येतन्मानुषा इत्यनेन सम्बद्धयते ।
मिश्रमतयः सम्यगसम्यग्ज्ञानाः ।
विमिश्रगतयः सुखदुःखात्मकसंसारफलाः ।
देवादीनामप्येवं फलं ज्ञातव्यम् ।
श्रुतिस्मृत्युदाहरणफलं दर्शयति- इत्यादीति ॥
इत्यादिवाक्यसन्दर्भे ज्ञायते ऽनादियोग्यता
न्यायसुधा:
सन्दर्भैरित्यतिबहूनि वाक्यान्यत्रार्थे ऽन्यत्रोदाहृतानि द्रष्टव्यानीति सूचयति ।
*11,176*
उक्तानामनुमानानां व्याप्त्यवधारणाद्यर्थमागमानां चान्यार्थव्याख्याननिरासार्थमनुग्राहकं तर्कमाह- यदीति ॥
यद्यनादिर्विशेषो न साम्प्रतं कथमेव सः
न्यायसुधा:
विशेषः स्वरूपगतो योग्यतालक्षणो ऽतिशयः ।
स विशेषः परिदृश्यमानो ऽतिशयः ।
एतदुक्तं भवति ।
यदि हिरण्यगर्भस्यानादिः सर्वोत्कृष्टो योग्यतालक्षणो विशेषो न स्यात्तदा साम्प्रतं दृश्यमानं सर्वोत्कृष्टत्वं न स्यात् ।
तस्यैतद्बीजत्वात् ।
कारणाभावे च कार्याभावस्य नियमत्वात् ।
अन्यथा सर्वेषामपि सर्वोत्कृष्टत्वापत्तेः ।
एवमन्यत्रापि वक्तव्यमिति ।
*11,177*
ननु ब्रह्मादीनां योग्यतालक्षणानादिविशेषाभावे ऽपि सादिनो विशिष्यादृष्टादेव सर्वोत्कृष्टत्वादिकं भविष्यति ।
तथाच स्मृतिः"स्वधर्मनिष्ठः शतजन्मभिः पुमान्विरिञ्चतामेतिऽ; इत्यादिकेति चेत् ।
अत्र वक्तव्यम् ।
किं तद्विरिञ्चस्य सर्वोत्कर्षबीजं विशिष्यमदृष्टं ततः प्राक्तनतथाविधमदृष्टमनपेक्ष्यैव जायते ।
उतापेक्ष्येति ।
आद्यं दूषयति- अदृष्टादेव चेति ॥
अदृष्टादेव चादृष्टं स्वीकृतं सवर्वादिभिः
न्यायसुधा:
तानि तानि द्रव्यादीनि खल्वदृष्टोत्पत्तौनिमित्तानि श्रुतिस्मृतिभ्यामुपलभ्यन्ते ।
तत्सम्पत्तिश्चादृष्टनिमित्तैव ।
तस्मान्न केवलं फलं किन्नामोत्तरोत्तरमदृष्टं च पूर्वपूर्वादृष्टाद्भवतीति चार्वाकव्यतिरिक्तसर्ववादिभिः स्वीकृतम् ।
अतः सर्वोत्कर्षहेतोर्विशिष्यादृष्टस्य तथाविधप्राक्तनादृष्टानपेक्षोत्पत्तिकत्वाभ्युपगमे ऽपसिद्धान्तः स्यात् ।
भवत्वन्येषां वादिनामित्थं सिद्धान्तो मम तु सर्वोत्कर्षादिफलोत्पत्तावेव विशिष्यादृष्टापेक्षा नतु तदुत्पत्तावपीति ।
यद्वा यद्विरिञ्चस्य सर्वोत्कर्षनिमित्तं विशिष्यमदृष्टं तस्य तथाविधादृष्टकार्यत्वे ऽपि तस्य नादृष्टकार्यत्वमिति ।
*11,178*
सर्वस्यापि प्रवाहस्य तथात्वे हि भवतामिष्यसिद्धिरिति वदन्तं प्रत्यतिप्रसङ्गमाह- आकस्मिक इति ॥
आकस्मिको विशेषश्चेददृष्टे क्वचिदिष्यते ।
सर्वत्राकस्मिकत्वं स्यान्नादृष्टापेक्षता भवेत् ॥ मनुव्_3,4.130अ-द् ॥
न्यायसुधा:
क्वचिद्विरिञ्चोत्कर्षहेतौ तद्धेतौ वादृष्टे विशेषो ऽतिशयो यद्याकस्मिको ऽदृष्टनिरपेक्ष एवेष्यते, यदि किमपि विशिष्यमदृष्टं तथाविधादृष्टनिरपेक्षमेवोत्पद्यते इत्यङ्गीक्रियत इति यावत् ।
तर्हि सर्वत्र फलादावप्याकस्मिकत्वमङ्गीकार्यं स्यादविशेषात् ।
आपाद्यं विवृणोति- नेति ॥
सर्वत्रेत्यनुवर्तते ।
यद्येवं न विव्रीयेत तर्हि परेणादृष्टस्य निष्कारणताया अनङ्गीकृतत्वादसङ्गतो ऽयं प्रसङ्गः स्यात् ।
एवमेवापदाकमपि व्याख्येयमिति भावः ।
*11,178f.*
अस्तु विरिञ्चोत्कर्षस्याप्यदृष्टानपेक्षतेति चेन्न ।
प्राग्भवीयस्य दृष्टकारणकलापस्य नष्टत्वेन निष्कारणतापातात् ।
किञ्च विशिष्यो दृष्टकारणकलापो ऽपि तस्य कुत इति वाच्यम् ।
निर्निमित्तश्चेदतिप्रसङ्गः ।
स्वभावनिमित्तश्चेत्सिद्धं नः समीहितम् ।
एतेन दृष्टव्यापारपरितुष्यादीश्वराद्विरिञ्चस्य सर्वोत्कर्षसम्पत्तिरित्यपि निरस्तम् ।
अनादियोग्यतापरिहारादिति ।
*11,181*
अस्तु तर्हि द्वितीयः पक्ष इति तत्राह- अदृष्टाच्चेदिति ॥
अदृष्टाश्चेद् विशेषो ऽयमनादित्वं कुतो न तत्
न्यायसुधा:
भवतीति शेषः ।
विशिष्यत इति विशेषो विशिष्यमदृष्टमित्यर्थः ।
अयमिति विरिञ्चस्य सर्वोत्कषर्हेतुः ।
अनादित्वं तथाविधादृष्टपरम्परायाः ।
अनादियोग्यतावत्त्वमिति च ।
तत्तर्हि ।
इदमुक्तं भवति ।
यथा विरिञ्चस्य सर्वोत्कर्षे कारणं विशिष्यमदृष्टं तथा(विधादृष्टपूर्वकं)विधपूर्वादृष्टहेतुकम् ।
तथा तदपि तदपीति स्वीकार्यम् ।
समानन्यायत्वात् ।
तथा चानादिविशिष्यादृष्टप्रवाहाश्रयत्वं तस्यैव कुत इत्यनुयोगस्य नान्यदुत्तरमनादेर्विशिष्यस्वभावात् ।
तत्तत्फलप्राप्त्युपाययोः प्रयत्नादृष्टयोरागन्तुकयोर्बीजभूतो ऽनागन्तुकस्वभावविशेष एवानादियोग्यतोच्यते ।
यथोक्तम् ।
*11,182*
"स्वभावाख्या योग्यता या हठाख्याऽ; इत्यादि ।
अतः सिद्धा ब्रह्मादिकलिपर्यन्तेषु जीवेष्वनादियोग्यतेति ।
*11,182f.*
भगवान्निर्देष इति यत्प्रागुक्तं तत्समर्थनार्थमुत्तरो ग्रन्थः ।
ननु"न स्थानतो ऽपिऽ; इत्यादिनैव समर्थितमेतत् ।
सत्यम् ।
युक्त्यादिना प्राप्तं सदोषत्वं तत्रापाकृतम् ।
अत्र तु प्रत्यक्षप्राप्तमिति भेदात् ।
एतदपि तत्रैव कुतो न दूषितमिति चेत् ।
विश्वादिषु प्रत्यक्षस्याप्रवृत्तेः ।
प्रासङ्गिकं तु निराकरणं तत्र वात्र वा न कश्चिद्विशेषः ।
प्रागुक्तार्थप्रपञ्चश्चात्रानुभाष्यकृता क्रियते ।
मुक्ततारतम्यादेः प्रपञ्चनादेः ।
अतो ऽत्रैव निर्देषताप्रपञ्चनं युक्तम् ।
किञ्चात्र ज्ञानस्वरूपनिरूपणं भविष्यति तत्प्रसङ्गश्च ज्ञानपादे समुचितः ।
अपि च न भगवत्साक्षात्कारमात्रेणाशेषपुरुषार्थप्राप्तिः किन्तु निर्देषाद्भगवद्दर्शनादित्युक्तम् ।
तच्चानेन निर्देषभगवद्दर्शनमुपदर्शितं भवति ।
तर्हि तत्रैवायं ग्रन्थसन्दर्भः कुतो न निवेशित इति चेत् ।
देवदानवमानवस्वभावप्रपञ्चनस्यात्रोपयुक्तत्वेन तदानन्तर्योपपत्तेः ।
तथाच वक्ष्यामः ।
*11,184*
इदमत्र शङ्कयते ।
रामकृष्णादयो भगवदवतारा भगवतात्यन्ताभिन्ना इति तावत्समर्थितम् ।
तेषां च परस्परं भेदस्तकालवर्तिनां पुरुषाणां प्रत्यक्षेण दृश्यते ।
नच ते देहवन्त इति चोक्तम् ।
ततो देहगत एव भेद इत्यनवकाशात् ।
ततश्च सर्वेषां स्वातन्त्र्यानुपपत्तेः ।
केषाञ्चित्पारतन्त्र्यम् ।
एवमन्ये ऽपि भेदानुषङ्गिणो दोषा द्रष्टव्याः ।
समानन्यायत्वात् ।
वेदाधिदोषाश्च प्रत्यक्षेणेक्ष्यन्त इति न भगवतो निर्देषत्वमिति ।
तत्र तावद्भेदस्य प्रत्यक्षसिद्धतां निराकर्तुमागमवाक्यं पठति- नचेति ॥
नचान्यभेदवद् विष्णौ भेदस्तद्दर्शिनामपि ।
दृश्यते ... ॥ मनुव्_3,4.130अ-च् ॥
*11,185*
न्यायसुधा:
चो ऽवधारणे ।
अन्यभेदवदिति व्यतिरेकदृष्टान्तः ।
अन्येषां घटादीनां यथानेकत्वातिरिक्तो ऽन्योन्याभावलक्षणो भेदो दृश्यते न तथेति ।
विष्णौ भेदो न दृश्यत इत्येवोक्ते ऽनेकत्वस्याप्यदर्शनं प्रतीयेत तदर्थमिदं वचनम् ।
यद्वा यथा विष्णावन्यप्रतियोगिको भेदो दृश्यते न तथा स्वप्रतियोगिक इति योजना ।
अन्यथा घटादिप्रतियोगिको ऽपि भेदो न दृश्यत इत्यपि प्रतीयेत ।
अथवान्यप्रतियागिकभेदवति विष्णावित्यैकपद्येन व्याख्येयम् ।
प्रयोजनं तूक्तमेव ।
विष्णौ रामकृष्णादिरूपे ।
अधुनातनैर्भेदो न दृश्यत इति परस्यापि सम्मतम् ।
अतस्तद्दर्शिनामपीत्युक्तम् ।
तृतीयार्थे षष्ठी ।
अवतारदर्शिभिरपीत्यर्थः ।
तद्दर्शिनां प्रत्यक्षेणापीति वा ।
स्वभावत एव जीवास्त्रिविधाः ।
देवदानवमानवभेदात् ।
तत्र दैवं प्रत्यक्षं तावदवताराणां परस्परं न भेदं गोचरयतीति भावः ।
*11,186*
न केवलमेतावत्किं तर्हीत्यत आह- प्रत्यभिज्ञैवेति ॥
... प्रत्यभिज्ञैव बहुरूपेषु दृश्यते
न्यायसुधा:
उत्तमानां पुरुषाणां भगवतो बहुरूपेषु तदेवेदमित्यभेदविषया प्रत्यभिज्ञैव पुराणादौ दृश्यते ।
यथा जाम्बवतः स राम एवायं कृष्ण इति प्रत्यभिज्ञा ।
तथाच कुतो भेदज्ञानस्यावकाश इति भावः ।
ननु बहुत्वं भेदेन विनाऽनुपपद्यमानं तमाक्षिपति ।
तथा च बहुरूपेषु प्रत्यभिज्ञा न सम्भवत्येव ।
सम्भवन्ती वा भ्रान्तिः स्यादित्यत आह- बहुत्वं चेति ॥
बहुत्वं च विशेषेण ...
न्यायसुधा:
भगवद्रूपाणामिति शेषः ।
अन्यथोपपत्तिकुण्ठितार्थापत्तिर्न भेदं प्रमापयतीत्यर्थः ।
अन्यथाप्युपपत्तिपक्षे भेदसन्देहः स्यात्सो ऽप्यनिष्य इत्यन्यथैवोपपत्तिं सूचयति- न भेदेनेति ॥
... न भेदेन कथञ्चन
न्यायसुधा:
उपपद्यत इत्युभयत्र शेषः ।
कुतः ।
भगवद्रूपाणां भेदे निरवकाशप्रमाणाभावात्तद्विरोधाच्च ।
तदिदमाह- कथञ्चनेति ॥
*11,187*
एवमुत्तमानां पुंसां भगवदेकरूपदर्शनसमये रूपान्तरप्रतीतावसत्यां ततो भेदज्ञानमसम्भावितम् ।
प्रतियोगिज्ञानाभावे भेदज्ञानाभावस्य नियतत्वात् ।
सत्यामपि तथा विरोधिन्याः प्रत्यभिज्ञाया भावादित्युक्तम् ।
तथापि मध्यमादिजनानां प्रत्यक्षं भगवद्रूपभेदे प्रमाणं भविष्यति ।
एकरूपदर्शनसमये रूपान्तरप्रतीत्यभावे भेददर्शनानुपपत्तावपि तद्भावे सम्भवत्येव ।
नच तेषामपि प्रत्यभिज्ञा भवद्भिरभ्युपेतुं शक्यते ।
उत्तमत्वप्रसङ्गादित्यतो मध्यमानपेक्ष्य तावदाह- प्रत्यभिज्ञा चेति ॥
प्रत्यभिज्ञा च येषां न ते ऽपि तन्मुष्यदृष्टयः
न्यायसुधा:
चस्त्वर्थः ।
येषां तु मध्यमानां जनानां प्रत्यभिज्ञा भगवद्रूपेषु नास्ति ते ऽपि तत्र भेदं नैव पश्यन्तीति योजना ।
प्रत्यभिज्ञाभावे कारणं तेन भगवता मुष्यापहता दृष्टिरेषामिति ।
तेन बहुत्वेनेति वा ।
भगवदिच्छाया तेषां योग्यतया चोपोद्बलितं बहुत्वमुपलभ्यमानं प्रतीयमाने(ऽपि) वस्तुनि विद्यमानस्याप्यभेदस्य ज्ञानं प्रतिबध्नाति ।
अत्र तन्मुष्यदृष्टयस्ते ऽपीत्यनुवादात्तन्मुष्यदृष्टित्वात्प्रत्यभिज्ञैषां नास्तीति लभ्यते ।
*11,188*
भगवद्रूपे भेदं नैव पश्यन्तीत्युक्ते घटादिभ्यो ऽपि भेदं न पश्यन्तीति मन्दस्य प्रतीतिः स्यात्तां निवारयितुमाह- भेदमिति ॥
भेदं नैव प्रपश्यन्ति भेदमन्येभ्य एव च ।
पश्यन्त्येवं हरिस्तेषां सन्दर्शयति नान्यथा
न्यायसुधा:
अन्येभ्यो भेदं पश्यन्त्येव चेति योजना ।
ननु प्रतीयमानं वस्तुद्वयं भेदेन वा प्रतीयते ऽभेदेन वा ।
भेदाभेदोदासीनतया तु प्रतीतिः कथमित्यत आह- एवमिति ॥
एवं बृहत्संहितायां वचनं ...
*11,188f.*
न्यायसुधा:
तेषां योग्यतेति शेषः ।
अन्यथा गतिबुद्धीत्यादिना कर्मसंज्ञायां द्वितीया स्यात् ।
विभक्तिव्यत्ययो वा छान्दसः ।
अन्यथा भेदेनाभेदेन च दर्शयति ।
यथा खल्वख्यातवादिनां सहकारिसामर्थ्याद्भेदाभेदौदासीन्येन वस्तुप्रतीतिः ।
यथा वान्येषां शुक्तिकाशकलदर्शनानन्तरं व्यासक्तौ ।
तथा परमेश्वरशक्त्यात्रापि तथा प्रतीतौ को विरोधः ।
अधमजीवप्रत्यक्षस्य त्वन्या गतिर्भविष्यति ।
एवमीश्वररूपभेदे प्रत्यक्षं निराकुर्वतानुमानमपि निराकृतम् ।
बहुत्वस्यान्यथासिद्धेरुक्तत्वात् ।
तन्न्यायेन चाकारविशेषादीनामन्यथासिद्धत्वादिति ।
वचनम् अस्तीति शेषः ।
*11,191*
मा भूद्भगवद्रूपभेदः प्रत्यक्षानुमानसिद्धः ।
आगमसिद्धस्तु भविष्यति ।
पुराणेषु तत्र तत्रान्यादिशब्दश्रवणादिति चेन्न ।
नेह नानास्ति किञ्चनेत्यादिवेदवाक्यविरोधात् ।
पुराणमेव वेदस्य किन्न बाधकं भवतीत्यत आह- नेति ॥
... न पुराणगम् ।
लोकदर्शनवाद्येव वेदरोधाय शक्नुयात् ॥ मनुव्_3,4.134ब्-द् ॥
न्यायसुधा:
वचनमिति वर्तते ।
पुराणवचनं खलु लोकानां यद्भगवद्रूपेषु भेददर्शनं तदनुवादपरमेव ।
न वस्तुनिष्ठम् ।
उपक्रमादिना तथावगमात् ।
वेदस्तु वस्तुतथात्वे तात्पर्यवान् ।
लिङ्गैः तथाध्यवसायात् ।
अतो न तत् तद्बाधनाय शक्नोति ।
नन्वेतद्वयाहतम् ।
यत्प्राग्भगवद्रूपभेदविषयं प्रत्यक्षं नास्तीत्युक्तम् ।
इदानीन्तु तदस्तीति ।
तस्यैवाभावे पुराणवचनस्य तदनुवादित्वानुपपत्तेः ।
मैवम् ।
बहुत्वाद्यनुमानाभासजनितभेददशर्नानुवादित्वोपपत्तेः ।
किञ्चोत्तममध्यमानां भेदविषयं प्रत्यक्षं नास्तीत्यभिहितम् ।
अधमानां तु तदस्तीत्यधुना अङ्गीक्रियते ।
तर्हि तदेव भगवद्रूपभेदे प्रमाणं भविष्यतीत्यपि न वाच्यम् ।
उत्तमानामभेदविषयेण प्रत्यक्षेण बाधितत्वात् ।
नच तदेव नास्ति ।
प्रत्यभिज्ञैव बहुरूपेषु दृश्यत इत्यागमोक्तत्वात् ।
तथाच भीष्मवाक्यम् ।
"तमिममहमजं शरीरभाजां हृदि हृदि विष्ठितमात्मकल्पितानाम् ।
प्रतिदृशमिव नैकधार्कमेकं समधिगतो ऽस्मि विधूतभेदमोहः ॥
ऽ; इति ।
*11,193*
अथ भेददर्शनमेवाभेददर्शनस्य बाधकं कुतो न भवतीत्यत आह- अपरीक्षितेति ॥
अपरीक्षितदृष्टिश्च परीक्षापूर्वदर्शनम् ।
निषेद्धुं शक्नुवात्क्वापि ... ॥ मनुव्_3,4.135अ-च् ॥
न्यायसुधा:
अपरीक्षिता परीक्षया प्रमाणत्वेनानिश्चिता ।
नेत्यस्यानुकर्षणार्थश्चशब्दः ।
परीक्षापूर्वः प्रामाण्यनिश्चयो यस्य दर्शनस्य तत्परीक्षापूर्वदर्शनम् ।
परीक्षापूर्वं दर्शनं प्रामाण्यनिश्चयो यस्य प्रत्यक्षस्येति वा ।
क्वापीत्यनेन नियममाह ।
तदनेन यत्परीक्षया न निश्चितप्रामाण्यं ज्ञानं न तन्निमित्तप्रामाण्यं ज्ञानान्तरं बाधत इति व्याप्तिरुक्ता ।
परीक्षाग्रहणं प्रामाण्यनिश्चयोपलक्षणमेव, नतु नियमार्थमित्युत्तरत्र स्फुटीभविष्यति ।
*11,194*
अत्र दृष्टान्तमाह- देवदत्तेति ॥
... वेददत्तादिदृष्टिवत्
न्यायसुधा:
यथा यज्ञदत्तादावनिश्चिप्रामाण्या देवदत्तादिदृष्टिर्न निश्चितप्रामाण्यां यज्ञदत्तादिदृष्टिं बाधते तथेत्यर्थः ।
ततः किं यद्येवं व्याप्तिरिति चेत् ।
भेददर्शनमनिश्चितप्रामाण्यमभेददशर्नं तु निश्चितप्रामाण्यम् ।
अतो न तत्तस्य बाधकं किन्तु वैपरीत्यमेवेति वदामः ।
कुतो भेददर्शनमनिश्चितप्रामाण्यमित्यत आह- न चेति ॥
न च निश्चितभेदस्य दर्शने ऽस्ति पुराणगम् ।
वाक्यं क्वचिद्धि ... ॥ मनुव्_3,4.136अ-च् ॥
न्यायसुधा:
चो ऽवधारणे ।
क्वचित्प्रदेशे ।
हिशब्दो हेतौ ।
परमेश्वररूपभेदविषयं प्रत्यक्षं तावदस्माकं पुराणवाक्यादेव सिद्धम् ।
पुराणवाक्यं च केचिद्भेदं पश्यन्तीति वा प्रतिपादयतु ।
अनुवादकतया लिङ्गत्वेन वा ।
अतस्तत्प्रामाण्यनिश्चयस्तत एवान्वेष्यव्यः ।
नच भेददर्शनस्य प्रामाण्यं निश्चाययत्पुराणवाक्यमस्ति ।
अतः प्रमाणाभावान्न भेददशर्नस्य प्रामाण्यनिश्चय इति भावः ।
*11,195*
प्रामाण्यनिश्चयो द्वाभ्यां प्रकाराभ्यां भवति ।
अर्थतथात्वनिश्चयेन वा ज्ञानपरीक्षया वा ।
आद्याभिप्रायेणोक्तं सत्यतया निश्चितभेदस्येति ।
द्वितीयाभिप्रायेण तु भेदस्य दर्शन इति समासः ।
षष्ठया आक्रोश इत्यलुक् ।
निश्चितं परीक्षितं च तद्भेदस्यदर्शनं चेति तथोक्तम् ।
तत्र स्वाभिप्रायेणाक्रोशः पराभिप्रायेण निश्चितत्वमित्यविरोधः ।
*11,196*
यदि पुराणवाक्या(देव)न्निश्चितप्रामाण्यं भेददर्शनं न प्रतीयेत तर्हि कीदृशं तत्प्रतीयत इत्यत आह- सम्मुग्धमिति ॥
... सम्मुग्धदर्शनं तत्र गम्यते
न्यायसुधा:
प्रमाणत्वाप्रमाणत्वाभ्यां सन्दिग्धम् ।
दशर्नं भेदस्य ।
तत्र पुराणवाक्ये ।
एतदुक्तं भवति ।
पुराणवाक्यं भेददर्शनमात्रं गमयति ।
न तु तस्य प्रामाण्यमप्रामाण्यं वा ।
ततः प्रागभेददर्शनावगमात्तत्र प्रामाण्याप्रामाण्यसन्देह एव युक्तः ।
अवगते त्वभेददर्शने तस्याप्रामाण्यमेव निश्चीयते ।
पुराणवाक्यादेव तत्प्रामाण्यस्य निश्चितत्वात् ।
समधिगतोस्मीति संशब्दश्रवणात् ।
हृदि हृदि नैकधा स्थितमपीत्यनुमानानामाभासत्वस्योक्तत्वात् ।
विधूतभेदमोह इति भेदज्ञानस्य मोहत्वाभिधानाच्चेति ।
एवं भगवद्रूपेषु भेदाभावः सिद्धः ।
तथा वेधादिदोषाभावश्च ।
प्रमाणाभावात् ।
*11,197*
नन्वस्ति तद्दर्शिता प्रत्यक्षमत्र प्रमाणम् ।
मैवम् ।
महतां प्रत्यक्षेण वेधाद्यभावग्राहिणा बाधितत्वात् ।
इदमेव तस्य बाधकं किन्न स्यादित्यत आह- अपरीक्षितमेवेति ॥
अपरीक्षितमेवात्र वेधादिकमधीशितुः ।
परीक्षादर्शने नैव दृश्यते केनचित् क्वचित्
न्यायसुधा:
अत्र वेधादि(दोष)तदभावयोर्मध्ये ।
अधीशितुरत्रावतारेष्विति वा ।
दृश्यत इति सम्बन्धः ।
यद्वा वेधादिकमिति तद्दर्शनमुपलक्ष्यते ।
परीक्षया युक्तं दर्शनं परीक्षादर्शनम् ।
यद्वा परीक्ष्यत इति परीक्षा ।
गुरोश्च हल इत्यकारप्रत्ययः ।
परीक्षा च तद्दशर्नं च तस्मिन् ।
दृश्यते वेधादिकं क्वचित् ।
दोषदर्शनमपरीक्षितं निर्देषत्वदर्शनं तु परीक्षितमिति भावः ।
*11,198*
ननु दोषाभावविषयं महतां प्रत्यक्षं तावत्कुतः सिद्धमित्यत आह- निर्देषमेवेति ॥
निर्दोषमेव तं ब्रह्मा ददर्शाशेषरूपिणम् ।
निर्दोषमेव रुद्रो ऽद्राङ् निर्दोषं तं पुरन्दरः
निर्दोषाण्यस्य रूपाणि दृष्टान्येवं सुरोत्तमैः ।
अन्ये सदोषाः सर्वे ऽपि निर्दोषो हरिरेकलः ।
इति बर्कुश्रुतेश्चैव सदोषं नास्य दर्शनम्
न्यायसुधा:
अद्राक् अद्राक्षीत् ।
अनित्यमागमशासनमिति वचनात् ।
पुरन्दरो ऽद्राक्षीत् ।
अन्यैरपि सुरोत्तमैः ।
सदोषा दृष्टाः ।
तस्मान्निर्देषो हरिरेक एव ।
चशब्दः श्रुत्यन्तरसमुच्चयार्थः ।
अस्य परमेश्वरस्य विषये महतां दर्शनं सदोषं दोषग्राहि नैव, किन्तु निर्देषमेव गृह्णातीति ।
*11,200*
दोषदशर्नमपरीक्षितं तदभावदर्शनं तु परीक्षितमेतत्कुत इत्यत आह- अविद्ध इति ॥
अविद्धो विद्धवद् विष्णुरजातो जातवन्मृषा ।
अबद्धो बद्धवच्चैव दर्शयत्यमितद्युतिः ।
इति पैङ्गिश्रुतिश्चैव प्राह निर्दोषतां हरेः
*11,201*
न्यायसुधा:
अविद्धमिव विद्धवत् ।
छान्दसो द्वितीयान्ताद्वतिः ।
एवशब्दस्याविद्ध इत्यादिना सम्बन्धः ।
दर्शयत्यात्मानम् ।
पूर्वश्रुत्याप्ययमर्थो ऽर्थात्सिद्धयतीति पैङ्गिश्रुतिश्चेत्युक्तम् ।
निर्देषतामिति फलोक्त्या विवक्षितमर्थमुपलक्षयति ।
अत्रैव स्पष्टां श्रुतिमुदाहरति- अपरीक्षितेति ॥
अपरीक्षितदृष्टयैव सदोषो दृश्यते हरिः ।
परीक्षादर्शने नैव दृश्यो दोषो हरेः क्वचित् ।
इति पैङ्गिश्रुतिश्चाह ... ॥ मनुव्_3,4.141अ-ए ॥
न्यायसुधा:
आह दोषदर्शनस्यापरीक्षितत्वं निर्देषतादर्शनस्य परीक्षितत्वं च ।
ततः किमित्यत आह- प्रमाणं हीति ॥
... प्रमाणं हि परीक्षितम्
न्यायसुधा:
यत्परीक्षितं परीक्षया प्रमाणत्वेनावधृतं तदेव प्रमाणम् ।
अपरीक्षितं त्वापाततः सन्दिग्धम् ।
निश्चितविरोध्युपनिपाते त्वप्रमाणमेव ।
अतः परीक्षितेन निर्देषतादर्शनेनापरीक्षितं दोषदर्शनमेव बाध्यते ।
नतु विपर्ययः ।
प्रामाण्यनिश्चये परीक्षोपयोगः प्रमाणसिद्ध इति हिशब्दः ।
तथाच वक्ष्यते ।
*11,205*
अत्र केचिदाहुः ।
स्वत एव ज्ञानानां प्रामाण्यं (गृह्यते) नतु परीक्षाधीनम् ।
सकलमपि ज्ञानं स्वप्रकाशं यथार्थं च ।
अतः स्वेनैव स्वयं स्वप्रामाण्यं च सिद्धयति का तत्र परीक्षापेक्षेति ।
अन्ये तु ब्रुवते ।
ज्ञानं तत्प्रामाण्यं चानुमानेनैव गृह्यत इति ।
अपरे तु वदन्ति ।
ज्ञानं तत्प्रामाण्यं च साक्षिणैव ज्ञायत इति ।
यदि च स्वतःप्रामाण्यग्रहो न स्यात्तर्हि न स्यादेव ।
तस्य परीक्षाधीनत्वे ऽनवस्थाप्रसङ्गात् ।
अनुमानविशेषः खलु परीक्षा नाम ।
तत्प्रामाण्यावधारणं च परीक्षान्तरेणेति कथं नानवस्था स्यादिति ।
तत्र पामाण्यग्रहस्य परीक्षाधीनत्वे ऽनवस्थाप्रसङ्गं तावत्परिहरति- नेति ॥
न परीक्षानवस्था स्यात् ...
न्यायसुधा:
प्रामाण्यग्रहणस्य परीक्षाधीनत्वाङ्गीकारे ऽपीति शेषः ।
तत्र हेतुमाह- साक्षीति ॥
... साक्षिसिद्धे त्वसंशयात्
न्यायसुधा:
द्विविधं खलु ज्ञानमन्तःकरणपरिणामरूपं साक्षिरूपं चेति ।
तत्राद्याद्विशेष्युं तुशब्दः ।
एतदुक्तं भवति ।
स्यादियमनवस्था यदि सवर्त्र परीक्षापेक्षा स्यात् ।
न चैवम् ।
सन्दिग्धे खल्वर्थे परीक्षापेक्ष्यते न त्वसन्दिग्धे ।
संशयश्च मनोवृत्तिविषये पानीयादौ भवति न पुनः साक्षिसिद्धे सुखादौ ।
अतस्तावदेव परीक्षा यावत्साक्षिगृहीतेषु सुखादिष्ववतार इति कुतो ऽनवस्थेति ।
प्रपञ्चितश्चायमर्थो ऽस्माभिः प्रकृत्यधिकरणे ।
*11,207*
मनोवृत्तिविषय एव संशयो न साक्षिसिद्ध इत्यत्र किं कारणमित्यत आह- मानस इति ॥
मानसे दर्शने दोषाः स्युर्नवै साक्षिदर्शने
*11,207f.*
न्यायसुधा:
मनःपरिणतिरूपे दोषाः कारणतया सम्भाविताः स्युः ।
वैशब्दस्तुशब्दार्थे ।
अयमर्थः ।
द्विविधो हि संशयो भवति ।
एकस्तावदादित एव ।
यथा स्थाणुर्वाऽयं पुरुषो वेति ।
अपरस्तु निश्चयपृष्ठभावी ।
यथा स्थाणुतया(वदयं) प्रतीयते स्थाणुर्भवति न वेति ।
तत्राद्यो विशेषादर्शनादिदोषमूलः ।
द्वितीयो ऽपि प्रथमज्ञानस्य दोषजन्यत्वशङ्कामूलः ।
दोषाश्च मानस एव दर्शने सम्भवन्ति ।
अतस्तत्संशयात्मकं वा जायते निश्चयतया जातस्य विषये वा आहायर्ः संशयो भवति ।
नतु साक्षि(सिद्धे)दर्शने दोषसम्भवः ।
अतो न तत्संशयात्मकं नापि (साक्षिसिद्धे)तत्सिद्धे ऽर्थे संशय इति ।
*11,208*
मानसे दर्शने दोषाः सम्भवन्तीति स्फुटम् ।
साक्षिदर्शने न सम्भवन्तीत्येतत्कुत इत्यत आह- सुदृढ इति ॥
सुदृढो निर्णयो यत्र ज्ञेयं तत् साक्षिदर्शनम्
न्यायसुधा:
सुदृढः कदापि बाधरहितः ।
निर्णयो ऽवधारणात्मकः प्रत्ययः ।
यत्रेति निपातो य इत्यर्थे ।
इदमुक्तं भवति ।
दोषास्तावज्ज्ञानस्य डोलायमानतादर्शनेन बलवद्बाधकोपनिपातेन वा कल्प्याः ।
यथोक्तम् ।
"बलवत्प्रमाणतश्चऽ(श्चैव ज्ञेया दोषा न चान्यताऽ) इति ।
साक्षिदर्शनं च निर्णयात्मकमेव भवति न च बाध्यत इत्युपपादितं पृथगधिकरणे ।
अतः प्रमाणाभावान्न तत्र दोषः सम्भवति ।
*11,209*
साक्षिसिद्धे ऽर्थे संशयो नास्तीत्युक्तं तदनुभवारूढं कर्तुं साक्षिसिद्धमर्थं तावदाह- इच्छेति ॥
इच्छा ज्ञानं सुखं दुःखभयाभयकृपादयः ।
साक्षिसिद्धा ... ॥ मनुव्_3,4.143अ-च् ॥
न्यायसुधा:
आदिपदेन प्रयत्नद्वेषावेतदभावाश्च गृह्यन्ते ।
ततः किमित्यत आह- नेति ॥
... न कश्चिद्धि तत्र संशयवान् क्वचित्
न्यायसुधा:
तत्र क्वचिदिति सम्बन्धः ।
न जातु मम सुखमस्ति न वेति संशयो नापि प्रतीयमानमिदं सुखं सदसद्वेति संशय इति हिशब्देनाह ।
साक्षिदर्शनमबाधितमेवेति न युज्यते शुक्तिरजतादौ बाधदर्शनात् ।
नहि प्रतीतिसमयमात्रवर्तिनि तत्रान्यज्ञानं सम्भवतीत्यत आह- यदीति ॥
*11,210*
यत् क्वचिद् व्यभिचारी स्याद् दर्शनं मानसं हि तत्
न्यायसुधा:
यद्दर्शनं क्वचिच्छुक्तिरजतादौ विषये व्यभिचारि बाधितं स्यात्तच्चक्षुरादिकरणकं मनःपरिणतिरूपमेव न साक्षिरूपम् ।
कुत एतत् ।
मानसदर्शनस्य बाध्यत्वाङ्गीकारे ऽनिष्याभावात् ।
साक्षिणस्तु तथात्वे सर्वव्यवहारविलोपप्रसङ्गस्योक्तत्वात् ।
तदिदमुक्तं हिशब्देन ।
सम्भवति चास्य मानसत्वमन्यथाख्यातिसमर्थनादिति ।
*11,211*
मानसस्य दर्शनस्य दोषबाधसम्भवो ऽभिहितः ।
कीदृशस्य तर्हि प्रामाण्यमित्यत आह- मन इति ॥
मनश्चक्षुर्दर्शनादेरपि यत्रैव साक्षिणा ।
प्रामाण्यं सुगृहीतं स्यात् तत् परीक्षितदर्शनम्
न्यायसुधा:
मनश्चक्षुश्शब्दौ श्रोत्रादेरुपलक्षकौ ।
दर्शनं साक्षात्कारः ।
आदिपदेन लैङ्गिकशब्दज्ञानसङ्ग्रहः ।
इन्द्रियलिङ्गशब्दकरणकस्य मनोवृत्तेर्ज्ञानस्येत्यथर्ः ।
निर्धारणे षष्ठी ।
सम्भावितदोषबाधस्यापीत्यपेरर्थः ।
यत्र ज्ञाने सुगृहीतं परीक्षया निश्चितं तत्परीक्षितदर्शनं प्रमाणमिति शेषः ।
प्रत्यक्षागमज्ञानप्रामाण्यग्रहण एव परीक्षोपयोगः, धर्मिज्ञानानुमानोपमानानुव्यवसायानां तु प्रामाण्यग्रहणं न परीक्षापेक्षमिति केचिन्मन्यन्ते ।
तन्निरासाय सर्वमानससङ्ग्रहार्थं मनश्चक्षुर्दर्शनादेर्मध्य इत्युक्तम् ।
अन्यथा यत्र ज्ञान इत्यादिकमेवावक्ष्यत् ।
तदेवे प्रमाणमित्येतावता पूर्णे परीक्षितदर्शनमित्यनुवादेन सुगृहीतमित्येतद्विवृणोति ।
*11,212*
एवं मानसप्रत्यक्षादिज्ञानप्रामाण्यग्रहस्य परीक्षाधीनत्वे ऽपि साक्षिप्रामाण्यग्रहस्य तदनपेक्षत्वान्न परीक्षानवस्थेत्युक्तम् ।
तत्र किमनया द्विविधकल्पनया ।
साक्षिवत्प्रत्यक्षादिज्ञानस्यापि प्रामाण्यग्रहः परीक्षानपेक्ष एवोक्तविधया स्वतः किन्न स्यादित्याशङ्कां परिहरति- नेति ॥
न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते
न्यायसुधा:
ज्ञानस्य दृष्टिर्ज्ञानदृष्टिः ।
तस्य ज्ञानस्य ।
*11,213*
एतदुक्तं भवति ।
वृत्तिज्ञानानां स्वप्रकाशत्वमेव तावदसत् ।
प्रमाणाभावात् ।
ज्ञानव्यवहारस्य साक्षिवेद्यत्वेनैवोपपत्तेः ।
इदमहं जानामीत्यनुभवस्य साक्षिरूपत्वात् ।
विमतं ज्ञानं न स्वप्रकाशमनात्मत्वात्कार्यत्वादनित्यत्वान्मनोरूपत्वात्सुखादिवदित्यादिप्रमाणविरोधाच्च ।
भवतु वा ज्ञानं स्वप्रकाशं तथापि स्वरूपमात्र एव न तु स्वधर्मे प्रामाण्ये ऽपि ।
तथा हि ।
वेदवाक्यश्रवणे सति बाह्यस्य वाक्यार्थज्ञानमुत्पद्यते न वा ।
न द्वितीयः ।
सत्यां सामग्षां कार्यानुदयानुपपत्तेः ।
अन्यथा मीमांसकस्यापि तदनुदयप्रसङ्गात् ।
आद्ये ऽपि तत्प्रकाशते न वा ।
नेति पक्षे ऽपसिद्धान्तः ।
प्रथमे तत्प्रामाण्यं प्रकाशते न वा ।
नाद्यः ।
तन्निरा(सस्यानु)सानुपपत्तेः ।
ततो ज्ञानदृष्टिमात्रेण न ज्ञानप्रामाण्यं दृश्यत इति द्वितीय एवाङ्गीकार्यः ।
तथाच स्वप्रकाशज्ञानेनैव प्रामाण्यग्रह इति कथं स्यात् ।
अपौरुषेयत्वादियुक्तिभिः प्रबोधितो बाह्यः प्रतिपद्यते च तत्प्रामाण्यमिति कथं न परीक्षापेक्षत्वम् ।
अन्यथा वैदिकज्ञानप्रामाण्ये विप्रतिपत्तिरेव न स्यात् ज्ञानस्वरूपवत् ।
किञ्चैवंवादिनो मते शुक्तिरजतादिविभ्रमो न स्यात् ।
इदमनुभवस्य रजतस्मरणस्य च भेदाग्रहो हि विभ्रमः ।
तत्र प्रामाण्यवद्भेदस्यानुभवत्वस्मरणत्वयोश्च प्रकाशो ऽवश्यम्भावीति कथं विभ्रमावकाशः ।
नहि प्रामाण्यस्य भेदादेश्च कश्चिद्विशेषो ऽस्तीति ।
जोस्हि-30
*11,215*
ज्ञानप्रामाण्ये सहैवानुमेये इत्यप्यसत् ।
ज्ञानस्या(प्य)नुमेयत्वे प्रमाणाभावात् ।
तद्वयवहारस्यान्यथैवोपपत्तेः ।
आशुतरविनाशिनो ज्ञानस्य जानामीति वर्तमानतया प्रतिभा(सा)ऽनुपपत्तेश्च ।
अपरोक्षावभासविरोधाच्च ।
अनुमेयत्वे ऽपि ज्ञानस्य न ज्ञानानुमितिमात्रेण प्रामाण्यं तस्य दृश्यते ।
तद्धि ज्ञाततया व्यवहारेण कार्येण वानुमातव्यम् ।
नच तावता प्रामाण्यमनुमातुं शक्यते ।
व्यभिचारात् ।
ततो ज्ञाततादिमात्रेण प्रतीते ज्ञाने बाधाभावादिना प्रामाण्यमनुमेयम् ।
अन्यथा बाह्यानामपि वैदिकज्ञानप्रामाण्यानुमानप्रसक्तेः ।
प्रसक्तमप्यपोद्यत इति चेत् ।
तर्ह्यपवादनिरासाय परीक्षापेक्षावश्यम्भाविनीत्यागतम् ।
इदमेव चास्माभिरभिधास्यते, सर्वथा परीक्षानपेक्षेति तु न क्षम्यते ।
*11,216*
एतेन साक्षिवेद्यतापक्षो ऽपि प्रतिक्षिप्तः ।
औपनिषदज्ञानदृष्टिमात्रेण बाह्यैस्तत्प्रामाण्यस्यादर्शनात् ।
*11,217*
चतुर्थपक्षस्त्वतिमन्दः ।
अनुमानादिज्ञानदृष्टिमात्रेण तत्प्रामाण्यस्य चार्वाकादिभिरदृष्टत्वात् ।
विभागे मानाभावाच्च ।
धर्मिज्ञानादिप्रामाण्ये विगानाभावादिति चे(त्)न्न ।
निरालम्बनादिमतदर्शनात् ।
उपपत्तिबाधितं तदिति चेत् ।
तर्हि स्वीकृताऽप्युष्मतैव परीक्षापेक्षेत्यलं पल्लवेनेति ।
*11,218*
एवं तर्हि प्रत्यक्षादिवत्साक्षिणो ऽपि प्रामाण्यं परीक्षापेक्षग्रहणमेवाङ्गीक्रियताम् ।
द्विधा कल्पनस्यान्याय्यत्वादित्यत आह- नियमेनेति ॥
नियमेन सुखाद्येषु प्रामाण्यं साक्षिगोचरम्
*11,219*
न्यायसुधा:
दृश्यत इति वर्तते ।
साक्षी गोचरो यस्य तत्तथोक्तम् ।
गोचरत्वं चाश्रयतया विवक्षितम् ।
सुखादिविषये यत्साक्षिगतं प्रामाण्यं तन्नियमेन दृश्यते ।
एतदुक्तं भवति ।
यदि वृत्तिज्ञानानामिव साक्षिज्ञानस्यापि प्रामाण्यं तद्दर्शनमात्रेण न दृश्यते तदाधिकमपि कारणं कल्पयामः ।
नचैवम् ।
सुखज्ञाने दृष्टे तत्प्रामाण्याज्ञानसंशयविपर्ययाणां कदाप्यदर्शनाद् ।
कल्पकसद्भावे द्विधा कल्पनस्यादूषणत्वादिति ।
*11,220*
किञ्च साक्षिप्रामाण्यस्यापि परीक्षापेक्षग्रहणत्वे ऽनवस्था च स्यात् ।
ननु प्रामाण्यग्रहणमभिलषता नानवस्थातो भेत्तुं युक्तम् ।
परीक्षानवस्थाभावे ऽपि ग्राहकानवस्थाया दुष्परिहरत्वादित्यत आह- स्वप्रामाण्यमिति ॥
स्वप्रामाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात्
न्यायसुधा:
साक्ष्येवेति सम्बन्धः ।
सदा सुनिश्चयादिति ।
परीक्षानपेक्षमेवेति यावत् ।
एतच्चानुभवान्यथानुपपत्तिभ्यां कल्प्यते ।
*11,221*
नन्वेवं सति वृत्तिज्ञानानां परतःप्रामाण्यमुक्तं स्यात् ।
ज्ञानस्वरूपस्य साक्षिवेद्यत्वात् ।
प्रामाण्यस्य परीक्षागम्यत्वात् ।
तथाच न विलक्षणत्वादिति यत्स्वतः प्रामाण्यमिष्यं तत्त्यक्तं स्यादित्यत आह- ज्ञानस्येति ॥
ज्ञानस्य ग्राहकेणैव साक्षिणा मानतामितेः
न्यायसुधा:
ज्ञानस्य ग्राहकेण साक्षिणैव ज्ञानस्य मानताया मितेः कारणात्स्वतःप्रामाण्यमिष्यत एवेति सम्बन्धः ।
भवेत्स्वतःप्रामाण्यत्यागो यदि ज्ञानमेव साक्षिवेद्यं न प्रामाण्यमिति ब्रूमः ।
न चैवम् ।
ज्ञानवत्तत्प्रामाण्यस्यापि साक्षिवेद्यत्वाभ्युपगमादिति ।
किमर्थं तर्हि परीक्षावश्यम्भावो ऽभ्युपगम्यत इत्यत आह- दोषेति ॥
दोषाभावे प्रमाणत्वं ...
न्यायसुधा:
साक्षिणा निश्चितत्वमिति वक्ष्यमाणमिहापि योज्यम् ।
इति प्रामाण्यस्येति पदद्वयमध्याहार्यम् ।
ज्ञानं गृह्णन्साक्षी करणदोषाभावे ऽस्य प्रामाण्यमित्येव प्रामाण्यं निश्चिनोति ।
नतु प्रमाणमेवेदमिति ।
ततः किमित्यत आह- दोषाभावस्येति ॥
... दोषाभावस्य साक्षिणा ।
निश्चितत्वं क्वचिच्चैव स्वतः प्रामाण्यमिष्यते ॥ मनुव्_3,4.147ब्-द् ॥
न्यायसुधा:
परीक्षयेति शेषः ।
चो ऽवधारणे ।
क्वचिदेव प्रयोजनवशाज्जिज्ञासायां जातायां परीक्षालाभे चेत्यर्थः ।
दोषाभावनिश्चयार्था परीक्षा न तु प्रामाण्यग्रहणार्था ।
तत्पुनर्ज्ञानमिव साक्षिवेद्यमेव ।
अतो न स्वतःप्रामाण्यपरित्याग इति भावः ।
*11,222*
स्यादेतद्यदीयं प्रक्रिया प्रमाणवती स्यान्न च तदस्तीत्यत आह- अत इति ॥
अतो न सर्वमानानां प्रामाण्यं निश्चितं भवेत् ।
साक्षिणा निश्चितं यत्र तत् प्रामाण्यस्वलक्षणम्
*11,223*
न्यायसुधा:
अत एव हि सर्वेषां ज्ञानानां प्रामाण्यं प्रथमतो न निश्चितं भवेत् ।
किन्नाम यत्र यदा परीक्षासहकृतेन साक्षिणा प्रामाण्यं निश्चितं भवति तत्तदैव प्रामाण्यं स्वलक्षणं प्रामाण्यस्वरूपमप्रामाण्यविविक्तं प्रामाण्यं सिद्धयति ।
इदमुक्तं भवति ।
यदि साक्षी दोषाभावे प्रमाणमेतदिति प्रथमं सम्मुग्धं प्रामाण्यं गृहीत्वा पश्चाज्जिज्ञासायां सत्यां परीक्षया प्रमाणमेवेत्यवधारयतीत्येषा प्रक्रिया नाङ्गीक्रियेत तदानभ्यस्तविषयाणां शब्दादिना जातानां सर्वेषामपि ज्ञानानां प्रथममेव प्रामाण्यमवधार्येत ।
नचैतदस्ति ।
तेन जानीमो ऽस्तीयं प्रक्रियेति ।
उक्तमर्थं बुद्धयारोहाय सङ्क्षिप्याह- नहीति ॥
न हि कश्चित् सुखाद्येषु संशयं कुरुते जनः ।
नचैवाखिलमानानि निश्चिनोत्यखिलो जनः
तस्मादनुभवारूढं किमर्थमुपलप्यते
न्यायसुधा:
यस्मात्सुखाद्येषु कश्चित्संशयं न करोति यस्माच्चाखिलानि वृत्तिज्ञानानि दर्शन एव प्रमाणतयाखिलो जनो न निश्चिनोति तस्मात्साक्षिप्रामाण्यं परीक्षानपेक्षेण साक्षिणैव गृह्यते ।
वृत्तिज्ञानानां तु तत्सापेक्षेणेत्यनुभवारूढं प्रमेयं किमर्थमपलप्यते ।
निर्निमित्तमपलपितुं न शक्यत इति ।
*11,224*
"न परीक्षानवस्था स्यात्ऽ; इत्युक्तमुपसंहरति- दोषाभावादिकं चेति ॥
दोषाभावादिकं चैव साक्षी सम्यक् प्रपश्यति
न्यायसुधा:
साक्ष्येवेति सम्बन्धः ।
स्वस्य परीक्षायाश्च दोषाभावं प्रामाण्यं च परीक्षानिरपेक्षः साक्ष्येव सम्यक् प्रपश्यति ।
तस्मान्न काप्यनवस्थेति ।
"अपरीक्षितमेवऽ; इत्यादिनोक्तमुपसंहरति- तदिति ॥
तत् परीक्षितमानेन न दोषो विष्णवि क्वचित्
न्यायसुधा:
तत्तस्मात्परीक्षितमेव मानम् ।
तेन च भगवति क्वचिदपि दोषो नास्तीति सिद्धम् ।
तद्विरोधादपरीक्षितं दोषदर्शनमप्रमाणमेवेत्यर्थः ।
एवमपरीक्षितं दोषदर्शनं परीक्षितेन निर्देषतादर्शनेन बाधितं न भगवतो दोषित्वं साधयितुं शक्तमित्युक्तम् ।
इदानीं तादृशस्यापि साधकत्वे ऽतिप्रसङ्गं सूचयति- अपरीक्षितेति ॥
अपरीक्षितदृष्टिस्तु कस्मिन्नर्थे न विद्यते
न्यायसुधा:
शुक्त्यादीनां रजतत्वादावपि विद्यत एव ।
ततश्च तथा तदपि सिद्धयेदविशेषादिति भावः ।
*11,225*
तदेवं दोषदर्शनं परीक्षितप्रत्यक्षविरोधादप्रमाणमित्यभिहितम् ।
निरनिष्यो निरवद्य इत्याद्यागमविरोधाच्च ।
स्यादेतत् ।
प्राक् तत्त्वमस्याद्यागमस्य प्रत्यक्षविरुद्धत्वात्प्रतीतार्थे न प्रामाण्यमित्युक्तम् ।
तत्कथं तद्विपरीतं प्रत्यक्षस्यागमविरोधेनाप्रामाण्यमिदानीमुच्यत इत्याशङ्कां परिहर्तुमाह- तदिति ॥
तत् प्रत्यक्षविरुद्धार्थे नागमस्यापि मानता ।
उपजीव्यमक्षजं यत्र तदन्यत्र विपर्ययः
न्यायसुधा:
यत्र यदाक्षजमागमस्योपजीव्यं तत् तदा प्रत्यक्षविरुद्धार्थे जात्या प्रबलस्याप्यागमस्य मानता नास्ति ।
तस्मादु(क्तादु)पजीव्योपजीवकभावादन्यत्र विपरीतोपजीव्योपजीवकभावे बाध्यबाधकभावस्यापि विपर्ययः ।
यदाऽगमः प्रत्यक्षस्योपजीव्यस्तदाऽगमविरुद्धार्थे प्रत्यक्षस्य न मानतेत्यर्थः ।
*11,226*
ततः किमित्यत आह- लौकिक इति ॥
लौकिके व्यवहारे ऽत्र प्रत्यक्षस्योपजीव्यता ।
अवतारादिदष्टौ स्यादागमस्योपजीव्यता
न्यायसुधा:
लौकिके प्रत्यक्षसिद्धजीवादिविषये ब्रह्मात्मकत्वादिबोधनरूपे व्यवहारे तत्त्वमस्याद्यागमेन क्रियमाणे अत्र आगमे आगमं प्रति प्रत्यक्षस्योपजीव्यता ।
अवताराणां विश्वादीनां च दोषदृष्टौ प्रत्यक्षादिकं प्रत्यागमस्योपजीव्यता स्यात् ।
एतदुक्तं भवति ।
प्राक् प्रत्यक्षविरोधेनागमस्याप्रामाण्यमभिधायेदानीमागमविरोधेन प्रत्यक्षस्याप्रामाण्याभिधानं न विरुद्धम् ।
नहि निर्विशेषणयोः प्रत्यक्षागमयोः परस्परं बाध्यबाधकभावो ऽभिहितः ।
किन्तूपजीवकत्वेन बाध्यत्वमुपजीव्यत्वेन बाधकत्वम् ।
तच्च तत्रान्यथात्रान्यथेति कथं विरोध इति ।
अनेन दोषविषयप्रत्यक्षविरोधादागमस्यैवाप्रामाण्यं किन्न स्यादिति चोद्यं गर्भस्रावेणैव गतम् ।
आगमस्योजीव्यतया प्रत्यक्षतः प्राबल्यस्योक्तत्वात् ।
*11,227*
कथं प्रत्यक्षं प्रत्यागमस्योपजीव्यत्वमित्यत आह- आगमेनेति ।
आगमेन हि विष्णुत्वं ज्ञात्वा दोषो ऽत्र कल्प्यते
न्यायसुधा:
अत्र विष्णौ ।
वस्तुतः कल्पनैवैषा न प्रमितिरितिभावेन कल्प्यत इत्युक्तम् ।
भवेदागमस्योपजीव्यत्वं यदि
विष्णुत्वं ज्ञातव्यं भवेत् ।
तदेव न ज्ञातव्यमित्यत आह- न चेदिति ॥
न चेत् स्यात् दोषवानन्यः ...
न्यायसुधा:
यदि विष्णुत्वं रामकृष्णादौ न ज्ञातं तदा दोषग्राहिणा प्रत्यक्षेण विष्णोरन्यो दोषवानिति गृहीतं स्यात् ।
नतु विष्णुर्देषवानिति ।
नहि देवदत्ते देवदत्तत्वाज्ञाने देवदत्तो ऽयमागत इत्याकारं ज्ञानमुत्पत्तुमर्हतीति ।
तथापि नागमस्योपजीव्यत्वम् ।
यतः श्रीवत्सकौस्तुभादिलक्षणेन विष्णुत्वमनुमाय विष्णुर्देषवानिति प्रत्यक्षेण ज्ञास्यत इत्यत आह- शास्त्रेति ॥
... शास्त्रसिद्धं हि लक्षणम्
न्यायसुधा:
श्रीवत्सादिकं लक्षणं विष्णुत्वेन व्याप्तमित्येतच्छास्त्रेणैव सिद्धम् ।
यद्यप्यस्मिन्पक्षे साक्षादागमो नोपजीव्यः ।
तथाप्यनुमानमूलव्याप्तिग्रहणाय तदुपजीवनमपरिहार्यमेवेति भावः ।
ननु विष्णुत्वाज्ञाने विष्णोरन्यो दोषवानिति ज्ञानेन कुतो भाव्यम् ।
विष्णुत्ववत्तदन्यत्वस्याप्यज्ञातत्वादिति चेत् ।
एवं तर्ह्यज्ञातं प्रसज्यत इत्याह- कस्यचिदिति ॥
कस्यचिद् दोषवत्त्वं स्यादितिमात्रे ऽक्षजं भवेत्
न्यायसुधा:
इतिमात्रे एतावत्येव विषये ।
विष्णुर्देषवानिति ज्ञाना(स्या)नुत्पादनप्रसङ्ग एव तात्पर्यमिति भावः ।
ननु यथा पटो ऽयं छिन्नो दग्धो मलिन इति परानुपजीविना प्रत्यक्षेणैव गृह्यते ।
तथाऽगमादिकमनुपजीव्य प्रत्यक्षेणैव विष्णुर्देषवानिति ज्ञास्यत इत्यत आह- नेति ॥
न विष्णोर्देषवत्त्वे हि प्रत्यक्षं वर्तते स्वतः
न्यायसुधा:
स्वतः परानुपजीवनेन ।
अयमभिसन्धिः ।
पटत्वमवयवसन्निवेशव्यङ्घयं प्रत्यक्षमेवेति युज्यते तथा ज्ञानम् ।
विष्णुत्वं तु समस्तगुणपरिपूर्णत्वनिर्देषत्वजगज्जन्मादिकारणत्वलक्षणं न प्रत्यक्षम् ।
अतो न तथाविधं ज्ञानमुपपद्यते ।
यथा पञ्चपलपरिमितो ऽयं पटो मलिन इति ज्ञानमिति ।
*11,228*
अयं समुदायार्थः ।
रामकृष्णादिदोषग्राहिणा प्रत्यक्षेण त्रेधोत्पत्तव्यम् ।
विष्णुरयं दोषवानिति वा विष्णोरन्यो ऽयं दोषवानिति वा कश्चिदयं दोषवानिति वा ।
प्रकारान्तराभावात् ।
तत्र द्वितीयतृतीययोर्न विष्णोर्देषवत्त्वे तदुद्भावयितुं (शक्यते) शक्यम् ।
विष्णुर्देषवानिति तेनानवगाहनात् ।
वस्तुवृत्त्यासौ विष्णुरेवेति चेत् ।
किं ततः ।
नहि वस्तुवृत्तिसहितं यत्किञ्चिज्ज्ञानं विवक्षितविशे(षणं सा)षं साधयति ।
अतिप्रसङ्गात् ।
आद्ये विष्णुत्वं सर्वथा ज्ञातव्यम् ।
नचैतत्प्रत्यक्षवेद्यं नाप्यनुमेयमित्युक्तं शास्त्रयोनिसूत्रे ।
तस्माद्"देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः ।
आविरासीद्ऽ; इत्यागमेन वाऽगमावगतव्याप्तिकानुमानेन वावगन्तव्यम् ।
ततः सर्वथा प्रत्यक्षस्यागमोपजीव्यत्वमङ्गीकार्यम् ।
सर्वो ऽप्यागमस्तावदेकमेव वाक्यम् ।
स च सर्वरूपोपेतस्य विष्णोर्निर्देषत्वं प्रतिपादयतीति तद्विरोधादप्रमाणमेव दोषविषयं प्रत्यक्षमिति ।
*11,229*
इतश्च तदप्रमाणमिति दर्शयितुमाह- केचिदिति ॥
केचित् पश्यन्ति दोषानित्यत्रापि स्यान्नचाक्षजम्
*11,230*
न्यायसुधा:
न केवलं दोषेष्वित्यपिशब्दः ।
चशब्दो ऽनुमानादिसमुच्चयार्थः ।
प्रत्यक्षं भगवद्रूपाणां दोषित्वे प्रमाणमिति वदन्प्रष्टव्यः ।
केचित्तत्कालवर्तिनः पुरुषा भगवद्रूपेषु दोषान्पश्यन्तीत्यत्रार्थे ऽस्माकं किं प्रमाणम् ।
प्रत्यक्षमनुमानमागमो वेति ।
न तावत्प्रत्यक्षम् ।
परपुरुषवर्तिनि प्रत्यक्षे परेषां प्रत्यक्षायोगात् ।
दूरे कालभेदे ।
नाप्यनुमानं लिङ्गाभावात् ।
आगमो ऽपि वेदः पुराणादिर्वा ।
नाद्यः ।
तस्यादर्शनात् ।
तस्माद्द्वितीय एवाङ्गीकार्य इत्याह- पौराणमिति ॥
पौराणं वाक्यमेवात्र ...
न्यायसुधा:
अत्र भगवद्रूपदोषग्राहिप्रत्यक्षसद्भावे ।
वक्तव्यमिति शेषः ।
ततः किमिति चेत् ।
तत्पुराणवाक्यं तद्दोषदर्शनं किं प्रत्यक्षलक्षणं प्रमाणतया मन्यते, उतापरीक्षितप्रमाणाप्रमाणाभावप्रतीतिमात्रतया, अथाप्रमाणतया ।
*11,231*
आद्ये दोषमाह- तदिति ॥
... तच्छ्रुत्यैव विरुद्धयते
न्यायसुधा:
भगवद्रूपेषु दोषग्राहिणीं प्रतीतिं प्रमाणतया प्रतिपादयत्पुराणवाक्यं दोषसद्भावं मन्यत एव ।
न हि सम्भवति तद्ग्राहिणः प्रामाण्यमङ्गीकरोति नाङ्गीकरोति च तदिति ।
दोषसद्भावं मन्यमानं च तत्प्रागुदाहृतया श्रुत्यैव विरुद्धयत इति ।
पुराणवाक्यस्य श्रुतिविरुद्धत्वे को दोष इत्यत आह- पुराणस्येति ॥
पुराणस्योपजीव्यश्च वेद ...
न्यायसुधा:
पौरुषेयेण खलु वाक्येन समूलेन भाव्यम् ।
यतः केनचित्कारणेन कञ्चिदर्थं बुद्धिस्थीकृत्य वाक्यं प्रयुञ्ज्महे ।
अन्यथोत्पत्तेरेवासम्भवः ।
पुराणवाक्यस्य च वेद एव मूलं कुत इत्यत आह- नचेति ॥
... एव नचापरः
न्यायसुधा:
अपरः पौरुषेयो ग्रन्थः ।
चशब्दः प्रत्यक्षा(गमा)दिसमुच्चयार्थः ।
पौरुषेयस्तावदागमो न पुराणस्य मूलम् ।
तस्यापि मूला(न्तरा)पेक्षायामन्धपरम्परापातात् ।
न(च) प्रत्यक्षानुमाने ।
तदर्थस्य तदगोचरत्वात् ।
नाप्युत्प्रेक्षा ।
प्रतारकवाक्यवदप्रामाण्यप्रसङ्गात् ।
अतः परिशेषाद्वेद एव पुराणस्योपजीव्य इति सिद्धम् ।
ततः किमित्यत आह- तद्विरोध इति ॥
तद्विरोधे कथं मानं तत् तत्र च भविष्यति
न्यायसुधा:
उपजीव्यवेदविरोधे ।
तत् पुराणवाक्यम् ।
तत्र भगवतः सदोषत्वे ।
उपजीव्यविरुद्धस्योपजीवकस्याप्रामाण्यावश्यम्भावादिति चार्थः ।
*11,231f.*
नन्वीश्वरप्रणीतानां पुराणानां तदीयं निजं ज्ञानमेव मूलं न वेदः ।
अनीश्वरप्रणीतानामपि योगिप्रत्यक्षमेव ।
अतो वेदविरोधे ऽपि को दोषः ।
उच्यते ।
वेदस्तावत्प्रमाणमेवेति निष्यङ्कितम् ।
नच प्रमाणयोर्विरोधो ऽस्ति ।
वस्तुविकल्पप्रसङ्गात् ।
ततो वेदविरोधे निजज्ञानादिमूलत्वमेवापनीयते ।
तथापि वेद एव पुराणस्योपजीव्य इति कथम् ।
अमीश्वरप्रणीतपुराणाभिप्रायेणेति न दोषः ।
अनीश्वरा हि स्वयंप्रतिभाते ऽप्यर्थे (समाश्वा) आश्वासार्थं वेदमुपजीवन्ति ।
यथोक्तम्"यत्स्वयंप्रतिभातस्य संशयार्तं गुरोर्वचःऽ; इति ।
यद्वेश्वरप्रणीतपुराणानामपि प्रामाण्यावधारणाय वेदसंवादो ऽपेक्षितः ।
अन्यथोत्प्रेक्षामूलत्वशङ्कनात् ।
तदभिप्रायेण"पुराणस्योपजीव्यश्च वेद एवऽ; इत्युक्तम् ।
*11,234*
द्वितीयं निराकरोति- अपरीक्षितेति ॥
अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत्
न्यायसुधा:
अक्षजं कथमेव भवेदिति प्रत्यक्षं प्रमाणतयाभिलषितार्थे नोद्भावयितुं शक्यते ।
नहि प्रमाणत्वेनानवधारितं प्रमाणत्वेनोद्भावयन्परीक्षकः स्यादिति भावः ।
विपक्षे बाधकमाह- यद्येवमिति ॥
यद्येवं देवदत्तादिभ्रमः किं नाक्षजं भवेत्
न्यायसुधा:
प्रमाणत्वेनापरीक्षितमपि यदि प्रत्यक्षतयोद्भाव्यत इत्यर्थः ।
देवदत्तादिभ्रम इति ।
यज्ञदत्तशुक्त्यादौ देवदत्तरजतादिभ्रम इत्यर्थः ।
बाधितत्वात्तन्नाक्षजं प्रमाणमिति चेत् ।
तत्किं बाधाभावमात्रं वस्तुव्यवस्थाहेतुः ।
तथात्वे निश्चायकप्रमाणवैयर्थ्यापत्तेः ।
अस्ति च प्रकृते वेदबाध इति ।
*11,236*
उपजीव्यवेदविरोधादुपजीवकयोः प्रत्यक्षपुराणवाक्ययोरप्रामाण्यमित्युक्तम् ।
तदसत् ।
उपजीवकमुपजीव्यविरोधेन बाध्यत इति नियमाभावात् ।
दृश्यते ह्युपजीव्यस्यापीदं रजतमिति ज्ञानस्योपजीवकेन नेदं रजतमिति ज्ञानेन बाध इति चेत् ।
कथमत्रोपजीव्योपजीवकभाव इति वक्तव्यम् ।
अप्राप्तस्य प्रतिषेधायोगात्प्राप्तिरूपमिदं रजतमिति ज्ञानमाद्यमुपजीव्यं, प्रतिषेधात्मकं तु नेदं रजतमिति ज्ञानमुपजीवकमिति वा, असिद्धे धर्मिणि प्रतिषेधासम्भवाद्धर्मिज्ञानमाद्यमुपजीव्यं द्वितीयं तूपजीवकमिति वा ।
आद्ये समाधिमाह- यावच्छक्तीति ॥
यावच्छक्ति परीक्षायामुपजीव्यस्य बाधने ।
दोषो नाशोधिते दोष उपजीव्यत्वमस्वलम्
न्यायसुधा:
परीक्षायां सत्यां प्रमाणतया प्रतीतस्येति शेषः ।
बाधने उपजीवकेन कुत इति शेषः ।
दोषो ऽस्मदभिमत(तो)नियमभङ्गः स्यात् ।
उपजीव्ये ऽशोधिते परीक्षयाप्रमाणादविविक्ते उपजीवकेन बाधिते न दोषः ।
उपजीव्यत्वमस्त्वलमिति ।
प्रकृतोदाहरणे प्रथमपुपजीव्योपजीवकभावमभ्युपैति ।
उपजीव्यत्वमित्युपलक्षणम् ।
उपजीवकत्वं चेत्यपि द्रष्टव्यम् ।
पूर्वोत्तरज्ञानयोरिति शेषः ।
अलंशब्दो ऽवधारणे ।
*11,236f.*
इदमुक्तं भवति ।
(अस्त्वेव) अस्त्येवेदं रजतं नेदं रजतमिति ज्ञानयोरुपजीव्योपजीवकभाव उपजीव्यस्योपजीवकेन बाधश्च ।
तथाप्युपजीव्यविरोधेनोपजीवकं बाध्यत इति नियमभङ्गो नास्ति ।
अयं खल्वस्य नियमस्यार्थः ।
परीक्षया शोधितमुपजीव्यं विरोध्युपजीवकं बाधते स्वयं तेन न बाध्यत इति ।
नतु यथाश्रुतः ।
अस्य तु तदा भङ्गः स्यात् ।
यदि परीक्षितमुपजीव्यं विरोधिनोपजीवकेन बाध्यं (बाधितं) क्वचिदुपलभेमहि ।
नचैवम् ।
इदं रजतमिति ज्ञानं तु न शोधितम् ।
ततस्तस्मिन्नुपजीवकेन बाधिते न नियमभङ्गः ।
नहि निर्विशेषणस्य व्यभिचारे विशिष्यं व्यभिचरत्यतिप्रसङ्गात् ।
नच वाच्यं विशिष्यस्य प्रयोजकताकल्पनं निर्मूलमिति ।
उभयथा(पि) बाध्यबाधकभावदर्शनात् ।
विशेषणानपेक्षायामव्यवस्थापातात् ।
ननु परीक्षायामङ्गीकृतायां तयैवालम् ।
परीक्षितेनापरीक्षितं बाध्यत इत्येतावतः क्वचिद्वयभिचाराभावात्किमुपजीव्योपजीवकभावेन ।
उच्यते ।
भवेदेवं यद्यात्यन्तिकीं परीक्षामत्राङ्गीकुर्मः ।
नचैवम् ।
किन्तु यावच्छक्तिपरीक्षामेव ।
नच तावन्मात्रस्य बाधकत्वनियमो ऽस्ति ।
यावच्छक्तिपरीक्षितस्यापि बाधदर्शनात् ।
अतो युक्तं विशिष्यस्योपादानम् ।
आत्यन्तिकपरीक्षैव बाधकत्वोपयोगिनी भवतु किमुपजीव्यत्वेनेत्यपि न वाच्यम् ।
तस्यापि सांव्यावहारिकत्वात् ।
यथोक्तम् ।
"सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्यऽ; इति ।
प्रकृते तु वेदः परीक्षित उपजीव्यश्चेति ।
*11,241*
द्वितीये परिहारमाह- भ्रमे ऽपीति ॥
भ्रमे ऽप्यभ्रमभागो ऽस्ति ...
न्यायसुधा:
हीति वक्ष्यमाणमत्रापि सम्बद्धयते ।
यद्यप्येकमेवेदं रजतमिति ज्ञानं तथापि विषयोपाधिवशाद् विभागम् ।
तत्र प्रकारे भ्रमत्वे ऽपि स्वरूपे ऽभ्रमत्वमेव ।
तत्र कदापि बाधाभावात् ।
तथान्येप्याहुः ।
सर्वं ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्यय इति ।
भागाभ्युपगमादेव न विरोधचोदनावकाशः ।
ततः किमित्यत आह- तन्मात्रमिति ॥
... तन्मात्रमुपजीव्य हि ।
बाधकज्ञानवृत्तिः स्यान् ...
न्यायसुधा:
अभ्रमभागमात्रम् ।
तेनैव धर्मिणः सिद्धेः ।
रजताकारस्य निषेध्यत्वेन धर्मित्वाभावादिति हिशब्दार्थः ।
एतदुक्तं भवति ।
अस्मिन्पक्षे यदुपजीव्यं न तदुपजीवकेन बाध्यते यच्च बाध्यते न तदुपजीव्यमित्यतो नेदमस्मदीयनियमभङ्गस्योदाहरणमिति ।
*11,241f.*
अत्रान्तरे मायावादिनश्चोदयन्ति ।
यदुक्तमुपजीव्यविरोधादद्वैतश्रुतीनामप्रामाण्यमिति ।
तदसत् ।
तत्राप्यस्य समाधानस्य सुवचत्वात् ।
तथाहि ।
यः सर्वज्ञ इत्यादीनां तत्त्वमस्यादीनां च कथमुपजीव्योपजीवकभाव इति वक्तव्यम् ।
सिद्धं न निवर्तकत्वादित्यादिवचनात् ।
तत्त्वमस्यादिवाकयमैक्यविरोधिनां सावर्ज्ञादीनां दुःखादीनां च प्रतिषेधकमङ्गीकृतम् ।
नच प्राप्तिं विना प्रतिषेधो ऽस्तीति प्राप्तिरूपं यः सर्वज्ञ इत्यादिकमुपजीव्यम्, तत्त्वमस्यादिकं तूपजीवकमिति वा, असिद्धे धमिर्णि प्रतिषेधानुपपत्तेर्धर्मिप्रतिपादकमाद्यमुपजीव्यमुपजीवकं चोत्तरमिति वा ।
आद्ये रजतज्ञानस्येवापरीक्षितत्वादुपजीव्यस्यापि प्रथमस्योत्तरेण बाधे न काप्यनुपपत्तिः ।
द्वितीये शुक्तिस्वरूपमात्रमिव ब्रह्मस्वरूपमात्रमुपजीव्यं न सार्वज्ञादिविशिष्यम् ।
तथाच यदुपजीव्यं न तदुत्तरेण बाध्यते ।
यद्बाध्यते सार्वज्ञादिकं न तदुपजीव्यमिति न कश्चिद्विरोध इति ।
*11,242*
अत्र परिहारद्वयमपि प्रतिषेधति- नचैवमिति ॥
... नचैवं ...
न्यायसुधा:
प्रसिद्धयोर्भ्रान्तिबाधयोरिवात्र समाधानं न वक्तुं शक्यते ।
वैषम्यादिति भावः ।
*11,244*
तत्कथमित्यतः प्रथमपक्षे तावद्वैषम्यं दर्शयति- सुपरीक्षित इति ॥
... सुपरीक्षिते
न्यायसुधा:
प्रथमप्रमाणे सुपरीक्षिते सति न चैवमिति सम्बन्धः ।
एतदुक्तं भवति ।
इदं रजतमिति ज्ञानमुपजीव्यमप्यपरीक्षितत्वादुपजीवकेन नेदं रजतमति ज्ञानेन बाध्यते ।
उपजीव्योपजीवकन्यायस्य यावच्छक्तिपरीक्षाविषयत्वाति ह्यस्माभिरभिहितम् ।
अस्मन्न्यायेन च परेण प्रत्यवस्थायते ।
नच तद्युक्तम् ।
यः सर्वज्ञ इत्यादीनामहं दुःखीत्यादीनां च सुपरीक्षितत्वात् ।
उपपादितं खलु यः सर्वज्ञ इत्यादिश्रुतीनां तत्त्वावेदकत्वं साक्षिणश्च नियमेनाव्यभिचारित्वमिति ।
द्वितीयपक्षे वैषम्यं दर्शयति- सर्वमिति ॥
सर्वं तदुपजीव्यैव प्रमाणं वर्तते यतः
*11,244f.*
न्यायसुधा:
यतः कारणात्तत्सर्वं सार्वज्ञादिकमुपजीव्यैव तत्त्वमसीत्यादिकं प्रमाणं प्रवर्तते ऽतो न चैवमिति सम्बन्धः ।
इदमुक्तं भवति ।
यथा नेदं रजतमिति ज्ञानं पुरोवर्तिनः स्वरूपमात्रं धर्मीकृत्य प्रवर्तते न तु रजतत्वविशिष्यं न तथा तत्त्वमस्यादिवाक्यं प्रवर्तितुमर्हति ।
किन्तु सर्वज्ञत्वादिविशिष्यं ब्रह्मस्वरूपं दुःखादिविशिष्यं जीवस्वरूपं च धर्मीकृत्यैव ।
तथाच धर्मिग्राहकविरोधो ऽपरिहार्य इति ।
अत्र सर्वमिति सर्वज्ञत्वाद्यन्यतमस्योपलक्षणम् ।
*11,247*
ननु तत्त्वमस्यादिवाक्यमपि यदि स्वरूपमात्रमुपजीव्य प्रवर्तेत तदा कीदृशो दोष इत्यत आह- कथमिति ॥
कथं ब्रह्मेति तज्ज्ञेयं सर्वज्ञत्वादिलक्षणम् ।
विहाय यस्मात्कस्माच्चित् स्वरूपस्यैव चेद् यदि
उपजीव्यत्वम् ...
न्यायसुधा:
वाक्यद्वयमेतत् ।
तत्रैकस्यार्थः ।
धर्मान्विहाय स्वरूपस्यैवोपजीव्यत्वं चेत्तर्हि तत्कथं ज्ञेयं यत्तत्त्वमसीति बोध्यते ।
एतदुक्तं भवति ।
शब्देनानूद्य हि स्वरूपं तत्त्वमसीति वक्तव्यम् ।
नच निर्धर्मस्य प्रतिपादकः शब्दो ऽस्ति ।
अतः स्वरूपमात्रस्य बुद्धावनारोहाद्बोधनमेवानुपपन्नमिति ।
न ब्रूमः स्वरूपमात्रस्योपजीव्यत्वम् ।
किन्तु भेदकान्सर्वज्ञत्वादिधर्मान्विहाय तत्त्वादिना विशिष्यस्य ।
तथाच न कश्चिद्दोष इत्यतः शिष्यं वाक्यम् ।
यदि तत्त्वादिधर्मोपेतस्योपजीव्यत्वं तर्हि सर्वज्ञत्वादिकं विहाय यस्मात्कस्माच्चित्तत्त्वादेस्तद्ब्रह्मेति कथं ज्ञेयम् ।
यद्यप्यस्मिन्पक्षे नोक्तदोषस्तथापि बोध्यस्य ब्रह्मास्मीति ज्ञानमनुपपन्नमेव ।
सर्वज्ञत्वादेर्ब्रह्मलक्षणत्वेन तदनुपादाने ब्रह्मणो बुद्धावनारोहात् ।
तत्त्वादेर्घटादिसाधारणत्वादिति भावः ।
सर्वज्ञत्वादिपरित्यागेनोपजीवने बाधकमभिधाय विपर्यये पर्यवसानमाह- एतस्मादिति ॥
... एतस्माद् व्यावृत्तं यावता भवेत् ।
तावतैवोपजीव्यत्वं ... ॥ मनुव्_3,4.162अ-च् ॥
न्यायसुधा:
अपरथा ज्ञानासम्भवात् ।
यावता धर्मेण ।
तावतोपेतस्यैव ।
ननु नेदं रजतमिति ज्ञानं यथा स्वरूपमात्रमुपजीव्य प्रवृत्तम् ।
तथेदमपि प्रवर्त्स्यति को दोष इत्यत आह- स्वरूपस्यैवेति ॥
... स्वरपस्यैव न क्वचित्
न्यायसुधा:
उपजीव्यत्वमिति वर्तते ।
उक्तानुपपत्तेरेव दृष्टान्तो ऽपि न समस्त इत्यर्थः ।
*11,249*
ननु यत्सर्वज्ञं तत्त्वमसीति न बोधनीयम् ।
किन्तु तत्त्वमसीत्येव ।
न चोक्तदोषः ।
तच्छब्दो ब्रह्म वदति ।
योग्यान्विताभिधायिनश्चशब्दाः ।
लक्षणं च ब्रह्मणान्वेतुं योग्यम् ।
ततश्च तच्छब्देनैव व्यावृत्तस्य प्रतीतेरित्याशयवानाशङ्कते- सर्वेति ॥
सर्वलक्षणयुक्तं तु स्वरूपं यदि भण्यते
न्यायसुधा:
चशब्दो ऽवधारणे ।
भण्यते तच्छब्देन इति यदि भण्यते इत्यावृत्त्या योज्यम् ।
सम्प्रतिपत्तिमुत्तरमाह- अस्त्विति ॥
अस्तु ...
न्यायसुधा:
यत्परेणोक्तं तदस्त्वित्यर्थः ।
प्रतिवाद्युक्तार्थाङ्गीकारे प्रतिज्ञाहानिः कथं न भवेदित्यत आह- न इति ॥
... नो नैव हानिः स्यात् ...
न्यायसुधा:
अनभिमतप्रमेयाङ्गीकारे हि प्रतिज्ञाहानिः स्यात् ।
अनेन चाङ्गीकृतेन नो ऽस्माकं (न प्रतिज्ञाहा)नैव हानिः स्यात् ।
परस्य धर्मिग्राहिविरोधो ह्यस्माभिरुच्यते ।
तत्परिहाराय परेण चेदमुदितम् ।
नचानेन तत्परिहारम् ।
प्रत्युत दृढीकृतमिति भावः ।
किं प्रकृतप्रमेयाविरोधित्वमात्रेणेदमङ्गीक्रियते उत तथाभूतत्वेनेति जिज्ञासायामाह- स्वपक्षश्चेति ॥
... स्वपक्षश्चायमञ्जसा
न्यायसुधा:
अञ्जसेति नाभ्युपगममात्रेणेत्यर्थः ।
तदुपपादयति- यस्मादिति ॥
यस्मादन्वित एवार्थः शब्दानामपि सर्वशः
न्यायसुधा:
सर्वशो ऽपीति सम्बन्धः ।
इत्येतत्सूत्रसामर्थ्येन प्रागुपपादितमिति शेषः ।
*11,251*
किञ्चास्मिन्नपि पक्षे ब्रह्मणो बुद्धावनारोहस्तदवस्थ एव ।
यतस्तदादिशब्दाः सामान्यत एव योग्यान्वितं ब्रुवते ।
सर्वज्ञादिशब्दा एव विशेषतः ।
तथानुभवात् ।
नच सामान्यतो ऽन्विताभिधायिना व्यावृत्तप्रतीतिरित्याशयवानाह- विशेषेति ॥
विशेषसामन्यतया स्वरूपमखिलं भवेत्
न्यायसुधा:
अखिलं योग्यान्वितं स्वरूपं विशेषसामान्यतया शब्दबोध्यं भवेत् ।
*11,252*
अन्विताभिधानमात्रमङ्गीक्रियत एव ।
तच्चैकस्य पदस्य सामान्यत एव न विशेषत इति न बुद्धौ ब्रह्मारोहः ।
यदि च विशेषस्तदा धर्मिग्राहिविरोधस्तदवस्थ एवेति समुदायार्थः ।
केचिन्मायावादिनो ऽन्विताभिधानमङ्गीकुर्वते विज्ञानघनादय सति नाप्राप्तशङ्केयम् ।
*11,253*
व्यावर्तकधर्मैर्व्यावृत्तस्यैवोपजीव्यत्वमिति यदुक्तं तन्नास्ति ।
बाधकज्ञानेषु तदभावात् ।
नच तत्रापि व्यावृत्तस्यैवोपजीव्यत्वं न स्वरूपमात्रस्येत्युक्तमिति वाच्यम् ।
पूर्वस्मिन्भ्रमज्ञाने व्यावृत्तत्व(स्य)स्यैवासिद्धत्वात् ।
सिद्धौ च भ्रमत्वानुपपत्तेः ।
"तन्मात्रमुपजीव्य हिऽ; इत्युक्तविरोधाच्चेत्यत आह- पुरोवर्तित्वेति ॥
पुरोवर्तित्वपूर्वाणि देवदत्तादिकभ्रमे ।
व्यावर्तयन्ति तद्रूपं चैत्रमात्रद् विनैव हि
न्यायसुधा:
देवदत्तादौ यश्चैत्रादिभ्रमस्तत्र पुरोवर्तित्वपूर्वाणि विशेषणानि देवदत्तादिस्वरूपं देवदत्तादेरविदितत्वाच्चैत्रमात्राद्विनैवापुरोवर्त्यादिभ्यो व्यावर्तयन्ति यस्मात्तस्माद्बाधकज्ञानं व्यावृत्तमेवोपजीवतीति नियमो नानुपपन्नः ।
नापि भ्रमानुपपत्तिः ।
आरोप्यव्यावृत्तेरनङ्गीकरणात् ।
तन्मात्रशब्देन चारोप्यमात्रव्यावर्तनान्नोक्तविरोधो ऽपीति भावः ।
*11,254*
नन्वनेन नात्यन्तव्यावृत्तिरु(पजीव्यत्वो)पयोगिनी ।
किन्तु व्यावृत्तिमात्रमित्युक्तं भवति ।
तत्प्रकृते ऽप्यस्ति ।
तत्त्वादिना ब्रह्मणो ऽपि व्यावृत्तत्वेनोपजीव्यत्वसम्भवादिति चेन्न ।
तावन्मात्रेण बोध्यस्यापि ब्रह्मास्मीति ज्ञानानुपपत्तेरुक्तत्वात् ।
*11,255*
दोषान्तरं चाह- ब्रह्मण इति ॥
ब्रह्मणो निर्विशेषत्वाद् व्यावर्तयति किं पुनः
न्यायसुधा:
ब्रह्मणः पुनरिति सम्बन्धः ।
किं कर्तृ, ब्रह्म व्यावर्तयति, न किमपि ।
तत्त्वादीनामङ्गीकारे ऽपि दोषमाह- यस्मादिति ॥
यस्मात्कस्माच्चिदप्यर्थात् तावच्चेत् सिद्धसाधनम्
न्यायसुधा:
तत्त्वादि विशेषणेन यस्मात्कस्मादप्यर्थात्तत्त्वादिरहितम् ।
तावद्वयावृत्तं चेदुपजीव्यत्वमस्तीति बोध्यते ।
तदेदं वाक्यं सिद्धसाधनं ज्ञातस्यैव ज्ञापकं स्यात् ।
बोध्येनास्यार्थस्य प्रागेव विदितत्वात् ।
तथा चाशास्त्रं स्यात् ।
*11,256*
मा भूत्तत्त्वादिना व्यावृत्तं ब्रह्मोपजीव्यम् ।
विज्ञानमानन्दं ब्रह्मेत्यादिश्रुत्या ब्रह्मलक्षणत्वेनोक्तेन चिन्मात्रत्वादिना तु भविष्यतीत्यत आह- चिन्मात्रत्वं चेति ॥
चिन्मात्रत्वं च नैवेष्यमविशेषत्ववादिनः
न्यायसुधा:
मात्रशब्देन चितः सर्वविषयत्वादिकं व्यावर्तयति ।
आनन्दत्वादेरप्युपलक्षणमेतत् ।
ब्रह्मण इति शेषः ।
चिन्मात्रत्वादिकं न ब्रह्मणो भिन्नम् अतो निर्विशेषत्वाविरोधात्तदङ्गीक्रियत इत्यत आह- तावन्मात्रमिति ॥
तावन्मात्रं यदीष्यं स्यात् सर्वज्ञत्वं कुतो न तत्
न्यायसुधा:
तत्तर्हि तस्यापि श्रुतत्वादभिन्नत्वाच्चेति भावः ।
अभेदे कथं लक्षणत्वमिति चेत् ।
समं विज्ञानादावपि ।
उक्तश्च लक्ष्यलक्षणप्रकारो लक्षणसूत्र इति ।
*11,257*
श्रुतत्वसाम्ये ऽपि चिन्मात्रत्वादिकमेव धर्मिणि निवेश्यते ।
अविरुद्धत्वात् ।
न सर्वज्ञत्वादिकं विरुद्धत्वात् ।
यथा नेदं रजतमिति ज्ञाने ऽविरुद्धपुरोवर्तित्वाद्युपेतस्य धर्मित्वं न विरुद्धरजतत्वाद्युपेतस्येत्यत आह- चिन्मात्रेति ॥
चिन्मात्राभेदसाध्ये ऽपि ...
न्यायसुधा:
चिन्मात्रेणाभेदश्चिन्मात्राभेदः सः साध्यः प्रतिपाद्यो यस्य तत्तथोक्तम् ।
तत्त्वमस्यादिवाक्ये चिन्मात्राभेदसाध्ये ऽङ्गीकृते ऽपि तद्वाक्यं सिद्धसाधनं भवेदित्यन्वयः ।
तत्कथमित्यत आह- सिद्धमिति ॥
... सिद्धं तत् प्रतिवादिनः
न्यायसुधा:
तच्चिदैक्यं प्रतिवादिनो बोध्यस्य यत इति शेषः ।
कथं सिद्धमित्यत आह- स्वेति ॥
स्वाभेदाङ्गीकृतेरेव ...
न्यायसुधा:
स्वस्य स्वेनाभेदाङ्गीकृतेः ।
एवशब्दस्य सिद्धमिति पूर्वेण सम्बन्धः ।
स्वाभेदाङ्गीकृतौ चिदभेदः कथं सिद्ध इत्यत आह- चित्त्वमिति ॥
... चित्त्वं स्वस्यापि यन्मतम्
*11,258*
न्यायसुधा:
स्वस्य बोध्यस्य यद्यस्मान्मतं सम्मतम् ।
एतदुक्तं भवति ।
विरोधभयात्सर्वज्ञत्वादिविशिष्यं न धर्मीक्रियते इति वदता चिदानन्दरूपमपि न धर्मीकर्तव्यम् ।
ज्ञातज्ञापनप्रसङ्गात् ।
विरोध इव ज्ञातज्ञापनस्याप्यशास्त्रताहेतुत्वे विशेषाभावात् ।
चिन्मात्रं त्वदतिरिक्तं नास्तीति वाक्यार्थ इति चेन्न ।
अप्रतिभासनात् ।
गत्यन्तराभावादित्थं कल्प्यत इति चेत्(न्न) ।
सूत्रकृतैवार्थान्तरस्योक्तत्वात् ।
*11,259*
न विरोधभयाद्वयं सार्वज्ञादिकं धर्मिणि न निवेशयामः ।
किन्तु सर्वज्ञत्वादिकं (हि) न ब्रह्मणो भिन्नम् ।
नेह नानेत्यादिश्रुतिविरोधात् ।
नापि स्वरूपम् ।
तस्य वियदादिसर्वसापेक्षत्वात् ।
सर्वस्य च मिथ्यात्वात् ।
नहि तथाभूतस्य सत्यस्वरूपता सम्भवति ।
चिदानन्दादेस्तु ब्रह्मस्वरूपत्वे न क्वाप्यनुपपत्तिरित्याशयवानाशङ्कते- सर्वेति ॥
सर्वापेक्षतया सर्वज्ञत्वमित्येव तन्नहि ।
इति चेच् ... ॥ मनुव्_3,4.169अ-च् ॥
न्यायसुधा:
सर्वज्ञत्वं वर्तत इति शेषः ।
इतिशब्दो हेतौ ।
एवशब्दस्य तदेवेत्यनेन सम्बन्धः ।
नहि मिथ्येत्यर्थः ।
परिहरति- चेतनत्वं चेति ॥
... चेतनत्वं च ...
न्यायसुधा:
यत्परसापेक्षं तन्न सदित्यङ्गीकारे ब्रह्मणश्चेतनत्वं च न स्यादित्यर्थः ।
कुत इत्यतो (ल्युट् प्रत्य)युप्रत्ययस्यानेकार्थत्वात्कर्तृवाचितां तावदुपादाय व्याचष्टे- ज्ञत्वमिति ॥
... ज्ञत्वं ...
न्यायसुधा:
चेतनत्वं नाम तावज्ज्ञत्वमित्यर्थः ।
ततः किमित्यत आह- नेति ॥
... न ज्ञेयवर्जितम्
न्यायसुधा:
ज्ञत्वमिति वर्तते ।
किन्तु ज्ञेयसापेक्षमेव ।
ज्ञानक्रियां प्रति कर्तृत्वं खलु ज्ञत्वम् ।
सकर्मकक्रियावचनश्च जानातिः ।
अतः कर्मापेक्षक्रियाकर्तृत्वमपि सापेक्षमेव ।
*11,261*
तथापि कुतश्चेतनत्वं न स्यादिति चेत् ।
ज्ञस्य ब्रह्मणो ज्ञेयं स्वयमेव वा स्यात्परं वा ।
नाद्य इत्याह- स्वेति ॥
स्वज्ञेयत्वं च नैवासौ मन्यते सविशेषतः
न्यायसुधा:
चस्त्वर्थः ।
असौ मायावादी ।
कुतो न मन्यत इत्यत आह- सविशेषत इति ॥
सविशेषत्वप्रसङ्गात् ।
प्रत्यक् पराग्भावलक्षणो हि कर्तृकर्मभावो नैकत्रैकस्य युज्यते ।
यदि च स्यात्तदा भेदप्रतिनिधिना विशेषेण घटनीयः ।
अतो ब्रह्मणो ज्ञत्वज्ञेयत्वयोरङ्गीकारे विशेषो ऽङ्गीकर्तव्यः स्यात् ।
निविर्शेषं च ब्रह्माङ्गीकृतमिति स्वज्ञेयत्वं न मन्यते ।
ततश्च परमेव ज्ञेयं वक्तव्यम् ।
तच्च मिथ्याभूतमिति कथं तदपेक्षं चेतनत्वं सत्स्यादिति ।
एवं ज्ञत्वस्य ज्ञानसापेक्षत्वमपि वक्तव्यम् ।
*11,262*
किञ्चैवं वदता स्वरूपमात्रमुपजीव्यमित्यपि वक्तुं न शक्यते ।
तस्यापि स्वशब्देन परापेक्षताप्रतीतेरित्याह- स्वशब्दो ऽपीति ॥
स्वशब्दो ऽपि परापेक्षस् ...
न्यायसुधा:
परेपेक्षः परापेक्षस्यार्थस्य प्रतिपादकः ।
कथमित्यत आह- तस्मादिति ॥
... तस्माद् व्यावृत्तिरेव हि ।
स्वशब्दार्थ इति प्रोक्तः ...
न्यायसुधा:
परस्मात् ।
हिशब्दो हेतौ ।
अर्थः प्रवृत्तिनिमित्तम् ।
इति प्रोक्तः शब्दशक्तिज्ञैः ।
स्वं च तद्रूपं चेति हि स्वरूपम् ।
रूपशब्दश्च स्वपरसाधारणः ।
तेन स्वस्मिन्प्राप्ते ऽप्युच्यमानः स्वशब्दः परिसङ्खयान्यायेन परव्यावृत्तिमेव प्रतिपादयतीति ज्ञायते ।
जोस्हि-31
*11,264*
सत्यमेतदेवं व्याख्याने ।
नचैवमित्यत आह- स्वरूपमिति ॥
... स्वरूपं नाम किं न चेत्
न स्वरूपाभिधायि स्याद् वैयर्थ्यं स्वरवस्य यत् ।
रूपशब्देन पूर्णत्वात् तच्च सामान्यतावचः
न्यायसुधा:
अस्मदभिप्रेतं व्याख्यानं न चेदङ्गीक्रियते तदा स्वरूपं नाम किं, न किमपि ।
स्वरूपशब्दो निरर्थकः स्यादित्यर्थः ।
रूपशब्दसमानार्थः स्वरूपशब्द इत्यतः कथमेतदिति चेदत्र वक्तव्यम् ।
स्वं च तद्रूपं चेति व्युत्पत्तिमङ्गीकृत्यैवमुच्यते ।
उताखण्ड एवायं शब्द इत्युपेत्य ।
आद्ये दोषमाह- वैयथ्यर्मिति ॥
यस्मादस्मिन्पक्षे स्वशब्दस्य वैयर्थ्यं तस्मात्स्वरूपं नाम किमित सम्बन्धः ।
कुतो वैयर्थ्यमित्यत आह- रूपेति ॥
स्वरूपशब्दे यो रूपशब्दस्तेनैव रूपशब्दार्थाभिधानस्य पूर्णत्वात् ।
नहि रूपशब्दो रूपशब्दार्थं नाभिधव इति सम्भवति ।
अन्यथोत्पलनीलोत्पलशब्दावप्येकार्थौ स्याताम् ।
द्वितीयं निराकरोति- तच्चेति ॥
तत् रूपपदम् ।
चो यस्मादित्यर्थे ।
सामान्यतावचः सामान्याकारस्य वाचकम् ।
चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः ।
एतदुक्तं भवति ।
प्रतीतिप्रमाणक एव शब्दार्थनिश्चय इति हि शाब्दाः ।
तत्र रूपशब्दः सामान्याकारस्याभिधायकः ।
सर्वेषां ततस्तत्प्रत्ययात् ।
स्वरूपशब्दश्चासाधारणाकारस्य ।
तस्मात्तत्प्रतीतेः ।
तस्मान्न तयोरेकार्थत्वमिति ।
*11,266*
यदुक्तं चेतनत्वं ब्रह्मणो न स्यादिति तदिष्यापादनम् ।
न हि वयं ब्रह्मणश्चेतनत्वमङ्गीकुर्मः ।
क्रियावेशलक्षणस्य कर्तृत्वस्य निर्विकल्पके ऽभावात् ।
किन्तु चैतन्यमेव ब्रह्म ।
तदर्था एव चेतनत्ववादा व्याख्यातव्या इत्यतश्चैतन्यमपि न परेण शक्याङ्गीकारमिति भावेन तद्वयाख्याति- चेतनस्येति ॥
चेतनस्य स्वभावो हि चैतन्यमिति गीयते
न्यायसुधा:
भावः शब्दप्रवृत्तिनिमित्तम् ।
तस्यात्रानागन्तुकत्वं ज्ञापयितुं स्वशब्दः ।
इति हि गीयत इत्यनेन गुणवचनब्राह्मणादिभ्यः कर्मणि चेति स्मृतिं सूचयति ।
चेतनशब्दप्रवृत्तिनिमित्तं च ज्ञानम् ।
चिती संज्ञान इति पाठात् ।
ततश्च ज्ञानं ब्रह्मेत्युक्तं भवति ।
*11,267*
ततः किमित्यत आह- तस्मादिति ॥
तस्माद् विशेषबाहुल्यं चैतन्यस्य विशेषतः
न्यायसुधा:
यस्माच्चैतन्यं नाम ज्ञानं तस्माच्चैतन्यस्य ब्रह्मणो, विशेषतो ऽतिशयेन, विशेषबाहुल्यं प्रसज्यते ।
ज्ञानं हि ज्ञेयज्ञातृकरणसापेक्षं भवति ।
ज्ञानत्वादिधर्माश्चानिवार्याः ।
नच सविशेषं ब्रह्म परेणाङ्गीक्रियते ।
ज्ञेयादिकं च न स्वयम् ।
विरोधात् ।
परन्तु मिथ्येति तत्सापेक्षं ज्ञानं कथं सत्स्यात् ।
ब्रह्मणो ज्ञानत्वे ज्ञेयाद्युपेतता कुत इति चेत् ।
ज्ञानत्वात् ।
प्रसिद्धज्ञानवत् ।
नच ज्ञानत्वमसिद्धमिति युक्तम् ।
अङ्गीकारविरोधात् ।
व्याप्तिमुपपादयति- नेति ॥
न ज्ञेयज्ञातृहीनं हि ज्ञानं नाम क्वचिद् भवेत्
न्यायसुधा:
यदुक्तं प्राग्ब्रह्मणश्चेतनत्वे ज्ञेयज्ञानोपेतत्वेन भाव्यमिति, तत्रापि ज्ञत्वात्सम्मतवदिति नियामकमभिप्रेतम् ।
प्रसङ्गात्तस्यापि व्याप्तिमुपपादयति- ज्ञेयेति ॥
ज्ञेयज्ञानविहीनश्च ज्ञ इत्यत्र च न प्रमा
न्यायसुधा:
आद्यश्चशब्दो ज्ञेयादिराहित्यज्ञत्वयोः समुच्चये ।
द्वितीयस्तु व्यभिचारद्वयसमुच्चये ।
*11,268*
ननु प्रसिद्धस्य ज्ञानस्य ज्ञेयाद्युपेतत्वे ऽपीदं ब्रह्मस्वरूपं ज्ञानं तद्रहितं भवतु किं बाधकमित्यत आह- ज्ञातृज्ञेयेति ॥
*11,269*
ज्ञातृज्ञेयविहीनं च ज्ञानं चेद् भोक्तृभोज्यतः ।
हीनं भोजनमेव स्यात् ताडनं कर्तृताड्यतः
न्यायसुधा:
हीनमेवेति सम्बन्धः ।
कर्तृ ताड्यत इति ताडयितृताड्याभ्यां हीनं स्यादित्यर्थः ।
धात्वर्थो ऽपि ज्ञानं यदि कर्तृरहितं स्यात् ।
आकाङ्क्षावशात्सकर्मकतया प्रतीयमानमपि च यदि निष्कर्मकं स्यात्तदोक्तो बहुतरो ऽतिप्रसङ्गः, विशेषाभावादिति ।
ज्ञविषये ऽप्येवं भोज्यभोजनविहीनो भोक्तापि स्यादित्यादिरतिप्रसङ्गो वाच्यः ।
नहि सकर्मकक्रियायाः कर्ता क्रियादिरहितो युक्त इति ।
*11,270*
ज्ञाता ज्ञेयमिति च कारकाभिधानमेतत् ।
कारकमुत्पादकमिति च पर्यायावेतौ ।
कार्यमेव चोत्पादकमपेक्षते ।
अकार्यं च ब्रह्माख्यं ज्ञानमिति न तस्य कर्त्राद्यपेक्षेत्याशयवान् शङ्कते- नित्यत्वादिति ॥
नित्यत्वात् तादृशं च स्यादिति चेन् ...
न्यायसुधा:
नित्यत्वमकार्यत्वस्योपलक्षणम् ।
अनित्यस्य भोजनादेर्भोक्त्राद्यपेक्षायामपीदं नित्यत्वात्तादृशं ज्ञात्रादिरहितं च स्यादित्यनेन व्यापकविरुद्धोपलब्ध्या व्याप्यविपर्ययः शङ्कितः ।
नोत्पादकमेव कारकम् ।
तथा सत्यस्ति गगनमित्यादौ गगनादीनामकारकत्वप्रसङ्गात् ।
किन्तु धात्वर्थाश्रयः कर्ता, तद्विषयः कर्मेत्यादि ।
आकाङ्क्षानाकाङ्क्षे एव च तदन्वितत्वानन्वितत्वयोः प्रयोजके ।
नतु कार्यत्वाकार्यत्वे ।
अत एव कश्चिद्धात्वर्थः कर्माद्यन्वितः कश्चिन्नेति युज्यत इत्याशयवानाकाङ्क्षामप्रयोजकीकृत्य कार्यत्वाद्येव प्रयोजकीकुर्वाणस्यातिप्रसङ्गमाह- नित्येति ॥
... नित्यवागपि ।
वाच्यवक्तृविहीना स्यान् ...
न्यायसुधा:
अकार्यस्य कारकानन्वितत्वे ऽकार्या वेदवाक् वाच्यवक्तृविहीना स्यात् ।
कार्यस्य च कारकान्वितत्वे कर्माद्यन्विततानियमो ऽपि स्यादित्यपेरर्थः ।
विपर्यये पर्यवसानमाह- नहीति ॥
... नहि सा चैव तादृशी
न्यायसुधा:
सा तादृशी नैव हीति सम्बन्धः ।
द्वितीयप्रसङ्गस्य विपर्ययपर्यवसानं चशब्देनाह ।
कथं न सा तादृशीत्यत आह- द्रष्टार इति ॥
*11,271*
द्रष्टारो वेदवाचो हि सन्ति वाच्यानि चाञ्जसा
न्यायसुधा:
वक्तार इति वक्तव्ये द्रष्टार इत्युक्तमपौरुषेयत्वाविघातार्थम् ।
अञ्जसेति वाच्यसद्भावे न काचिदनुपपत्तिरित्युक्तम् ।
*11,272*
ननु सन्ति स्थितिसमये वेदवाचो वसिष्ठादयो द्रष्टार इन्द्रादयश्च वाच्याः ।
नतु महाप्रलय इत्यत आह- नित्य इति ॥
*11,273*
नित्यो द्रष्टा च वाच्यश्च भगवानेव च स्वयम्
न हि वक्तृविहीना च वाच्यहीनापि वाक् क्वचित्
न्यायसुधा:
द्वौ चशब्दावन्योन्यसमुच्चये ।
तृतीयो यस्मादित्यर्थे वेदवाच इति वर्तते ।
हिशब्दः तस्मादित्यर्थे ।
वाक् वेदवाक् ।
क्वचित् प्रलये ऽपि ।
यथा वेदवाग्वाच्याद्युपेतापि क्वचित्तद्रहिता तथा ब्रह्म (स्व)रूपं ज्ञानं व्यवहारे ज्ञेयाद्यन्वितमपि परमार्थतस्तद्रहितं भविष्यतीति प्रत्याशां वारयितुमिदं वचनम् ।
यस्मादेवं कार्यत्वादिकमप्रयोजकं किन्त्वाकाङ्क्षानिमित्तो नियतसम्बन्ध एव ।
तस्मान्नित्यवागिव नित्यमपि ज्ञानं ज्ञेयाद्युपेतमेवाङ्गीकार्यमित्युपसंहरति-ज्ञातृज्ञेयेति ॥
ज्ञातृज्ञेयविहीनं च ज्ञानमेवं न तद् भवेत्
न्यायसुधा:
ननु वाङ् न धात्वर्थः ।
अपि तु धात्वर्थं प्रति कर्म ।
तत्कथमत्रोदाहरणम् ।
उच्यते ।
आकाङ्क्षानिमित्तं प्रतिसम्बन्ध्यन्वितत्वं नित्यत्वेन न हीयत इत्येतावन्मात्रे(ण) वागुदाहरणस्य गृहीतत्वान्न दोषः ।
वागित्युक्ते हि किंवक्तृका किंवाच्येत्याकाङ्क्षा भवत्येव ।
वर्णानामप्यथर्वत्त्वस्य स्थितत्वान्न नित्यत्ववाच्यवत्त्वयोर्व्यधिकरणत्वम् ।
*11,275*
ज्ञस्यापि नित्यत्वेन ज्ञेयादिरहितत्वशङ्कैवमेव परिहार्येत्याह- नहीति ॥
न हि नित्यो ऽपि वक्तास्ति वाक्यवाच्यविवर्जितः ।
ज्ञानज्ञेयविहीनश्च ज्ञो ऽप्येवं नैव विद्यते
न्यायसुधा:
नित्यो ऽपि वक्ता परमेश्वरो वाक्यवाच्यविवजिर्तो नास्ति ।
यस्मात्तस्मादेवं नित्यो ऽपि ज्ञो ज्ञानज्ञेयविहीनो नैव विद्यते ।
शक्तिः कारकमिति पक्षस्य स्थित्वान्नित्यो वक्तेति युज्यते ।
अनेनोभयत्र व्याप्त्यभावेन व्यापकविरुद्धोपलब्धिरसिद्धेत्युक्तं भवति ।
*11,283*
मिथ्याभूतपरसापेक्षस्य सार्वज्ञस्यापि मिथ्यात्वमङ्गीकुर्वाणस्य चेतनत्वाद्यभावप्रसङ्गो ऽभिहितः ।
इदानीं प्रपञ्चमिथ्यात्वं चाप्रामाणिकमित्याह- किञ्चेति ॥
किञ्च सर्वविलोपश्च केन मानेन गम्यते
*11,284*
न्यायसुधा:
सर्वविलोपः सर्वस्य मिथ्यात्वम् ।
न तावत्प्रत्यक्षेण, तस्य सत्यताग्राहित्वात् ।
नाप्यनुमानेन, प्रत्यक्षबाधितस्य तस्य प्रामाण्याभावात् ।
नचागमेन ।
प्रपञ्चमिथ्यात्वं प्रतिपादयतः तस्याभावादित्याक्षेपार्थः ।
ननु नेह नानास्ति किञ्चनेत्यागमस्य सद्भावात्कथं विश्वमिथ्यात्वे मानाभाव इति चेदत्र पृच्छामः ।
अत्र सर्वस्य मिथ्यात्वं प्रतिपादयति वाक्ये सर्वान्तर्गतत्वेनेदं वाक्यमेतद्वाक्यार्थश्च गृह्यते न वेति ।
आद्यमनूद्य दूषयति- सर्वेणेति ॥
सर्वेण सह तद् वाक्यामर्थश्च यदि गृह्यते ।
तदभावेन सर्वस्य नापलापो भवेत् तदा ॥ मनुव्_3,4.179च्-f ॥
न्यायसुधा:
तदभावेन वाक्यवाक्यार्थयोर्मिथ्यात्वेन कारणेन ।
वाक्याभावे प्रतिपादकाभावाद्वाक्यार्थस्य सर्वमिथ्यात्वस्याभावे च व्याघातात् ।
द्वितीयमनूद्य दूषयति- न गृह्यते चेदिति ॥
न गृह्यते चेद् तन्न्यायादपलापो न हि क्वचित्
न्यायसुधा:
क्वचिद्वियदादिविषये ऽप्यपलापो निषेधो न युज्यते ।
तन्न्यायाद्वाक्यादिन्यायात् ।
अयमर्थः ।
वाक्यवाक्यार्थौ कुतः सर्वस्माद्बहिष्क्रियेते इति वाच्यम् ।
अनुपपत्तेरिति चेत् ।
किमनुपपन्नं न प्रतिपादनीयम् ।
अद्धेति चेत ।
एवं तर्हि वियदादिमिथ्यात्वमप्यनुपपन्नत्वान्न प्रतिपादनीयमिति ।
*11,285*
ननु वाक्योदाहरणे कृते नैवंविधं वाक्यमस्तीति वा (ए)नैषां पदानामत्र शक्तिरर्(ना)स्तीति वा नास्य वाक्यस्यात्र तात्पर्यमस्तीति वा वक्तव्यम् ।
अनेन विकल्पनिराकरणेन तु किं कृतं स्यादित्यत आह- उपपत्तीति ॥
उपपत्तिविहीनस्य वाक्यस्यार्थो न गम्यते
न्यायसुधा:
विहीनस्य विरुद्धस्य ।
अर्थस्तात्पर्यम् ।
एतदुक्तं भवति ।
न ब्रूमो वयं नास्तीदं वाक्यमिति ।
नाप्येषां पदानामत्र शक्तिर्नास्तीति ।
किन्त्वस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यं नास्तीति ।
उपपत्तिविरोधाभावो हि प्रतीतार्थे तात्पर्यस्य ज्ञापकः ।
अत्र चास्त्युपपत्तिविरोध इति ज्ञापनाय विकल्प्य दूषणाभिधानं कृतमिति ।
स्यादेतत् ।
उपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्तयः श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याश्च तात्पर्यलिङ्गानि ।
तत्रोपपत्तिविरोधे ऽप्यन्यैर्लिङ्गैरस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यमवगम्यतामित्यत आह- उपक्रमादीति ॥
उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम् ।
श्रुत्यादौ पूर्वपूर्वं च ... ॥ मनुव्_3,4.181अ-च् ॥
*11,285f.*
न्यायसुधा:
उपक्रमादिलिङ्गानां मध्ये यद्यदुत्तरं तत्तद्बलीय इत्युपपत्तिरेव बलीयसी ।
श्रुत्यादौ लिङ्गसमूहे च यद्यत्पूर्वं तत्तद्बलीय इति ।
तत्रापि लिङ्गशब्दोदितोपपत्तिरेव बलवती ।
ततो बलवद्विरोधे सतामन्येषां लिङ्गानां न तात्पर्यनिश्चायकत्वं युक्तम् ।
कुत एतदित्यत आह- ब्रह्मतर्केति ॥
*11,286*
... ब्रह्मतर्कविनिर्णयात्
न्यायसुधा:
ब्रह्मतर्काख्ये तर्कशास्त्रे तथा निर्णीतत्वात् ।
एतेनोपक्रमस्योपसंहारात्प्राबल्यं वदन्तो निरस्ताः ।
यथा चैतत्तथोक्तं न्यायविवरणे ।
*11,287*
इतश्च नाप्यस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यमाह- प्रत्यक्षमिति ॥
*11,287f.*
प्रत्यक्षमुपपत्तिश्च बहवश्चागमा यदा ।
विरुद्धयन्ते नचार्थो ऽस्ति यत्र लिङ्गविरोधिता
स एवार्थः कथं ग्राह्य ...
*11,288*
न्यायसुधा:
सद्गगनमित्यादि प्रत्यक्षम् ।
तच्च साक्षिरूपत्वाद्बलवत् ।
उपपत्तिश्चार्थक्रियाकारित्वादिका ।
सा च व्याप्त्यादिमत्त्वाद्बलवती ।
आगमाश्च विश्वं सत्यमित्याद्याः ।
तेषा प्राबल्यव्युत्पादनाय बहव इत्युक्तम् ।
निरवकाशत्वाद्युपलक्षणमेतत् ।
यदा यस्मिन्नर्थे ऽङ्गीकृते ।
यत्र यदर्थप्रतिपादने ऽर्थः प्रयोजनं च नास्ति ।
ब्रह्मणो ऽद्वितीयतासिद्धिः प्रयोजनमिति चेन्न ।
तस्या एवाप्रामाणिकत्वात् ।
आत्मनो मुक्तिसिद्धिरिति चेन्न ।
विनाशेनापि तत्सिद्धेः ।
बहुजीववादिनामिवादर्शनेनाप्युपपत्तेः ।
वैराग्यार्थमिति चेन्न ।
दुःखसाधनताज्ञापनेन तत्सिद्धेः ।
अर्थग्रहणमुपलक्षणम् ।
उपक्रमादीनामप्यानुकूल्यं नास्तीति च द्रष्टव्यम् ।
न केवलं लिङ्गानुकूल्याभावः ।
किन्नाम यत्र लिङ्गविरोधिता च ।
एतद्द्वयं ग्रन्थान्तरे तत्र तत्रोक्तं ज्ञातव्यम् ।
*11,289*
तर्हि निरवकाशं वाक्यमप्रमाणं प्रसज्यत इत्यत आह- उपपन्न इति ॥
... उपपन्ने ऽविरोधिनी
न्यायसुधा:
प्रत्यक्षादिप्रमाणोपक्रमादिलिङ्गाविरोधिनि तदानुकूल्योपपन्ने च भगवति स्वगतभेदाभावे ऽर्थे वाक्यस्य सति स एवार्थः कथं ग्राह्यः ।
नेह नानेति वाक्यस्यापव्याख्याने निराकृते लब्धमाह- मुख्यार्थ इति ॥
मुख्यार्थे विद्यमाने तु क्व सावर्ज्ञ्यं निषिद्धयते
न्यायसुधा:
प्रतिषेधस्य सङ्कोचे कारणाभावेन प्रपञ्चमिथ्यात्वं मुख्यो ऽर्थः ।
तस्मिन्नविद्यमाने तु सावर्ज्ञं न प्रतिषेद्धुं शक्यते ।
मिथ्यार्थसापेक्षतया हि तन्निषेध्यम् ।
यद्वोपपन्न इत्यादिकमेकं वाक्यम् ।
उपपन्ने ऽविरोधिनि च ।
अत एव मुख्यार्थे वाक्यस्य विद्यमाने सति ।
अनेन प्रपञ्चमिथ्यात्वासिद्धेः क्व सार्वज्ञं निषिध्यत इति योजना ।
सङ्गतिस्तूक्तसङ्गतिसमाहारेण द्रष्टव्या ।
*11,290*
सर्वं तदुपजीव्यैवेत्यादिनोक्तमर्थमुपसंहरति- अत इति ॥
अतः सर्वगुणैर्युक्तं ब्रह्माङ्गीकायर्मेव हि
न्यायसुधा:
अङ्गीकार्यम् धर्मितयेति शेषः ।
तथा चोपजीव्यविरोधस्तत्त्वमस्यादिवाक्यस्य दुर्वार इति हेरर्थः ।
*11,291*
स्यादेतत् ।
सार्वज्ञादिगुणोपेतमेव ब्रह्म धर्मीकुर्मः ।
किन्तु तेषां मिथ्यात्वान्नोपजीव्यविरोधो ऽद्वैतागमस्य ।
यथा यः पुरुषः स स्थाणुरित्यत्रारोपितेन पुरुषत्वेन व्यावृत्तं वस्तु धर्मीकृत्य प्रवृत्तावपि नोपजीव्यविरोध इत्यत आह- अपलापो ऽपीति ॥
अपलापो ऽपि सर्वस्य न कथञ्चन युज्यते
न्यायसुधा:
मिथ्यात्वाभिधानम् ।
अपिशब्दः पूर्ववाक्यार्थसमुच्चये ।
सर्वशब्देन प्रकृतं गुणजातमुच्यते ।
कथञ्चनेति प्रमाणाभावात् श्रुत्यादिप्रमाणविरुद्धत्वाच्च ।
अप्राप्तत्वेनानुवादत्वाभावस्य चोक्तत्वादित्यर्थः ।
*11,292*
ननु च तत्त्वमस्यादिवाक्यमेव जीवब्रह्मणोरेकतां प्रतिपादयत्सार्वज्ञादिगुणजातस्य मिथ्यात्वं गमयति ।
नहि तस्य सत्यत्वे जीवब्रह्मैकत्वमुपपद्यते ।
तत्कथं गुणानां मिथ्यात्वे प्रमाणाभाव इति चेन्न ।
सिद्धे तत्त्वमस्यादिवाक्यस्य जीवब्रह्मैकत्वनिष्ठत्वे गुणानां मिथ्यात्वसिद्धिः ।
तत्सिद्धौ च तत्सिद्धिरिति परस्पराश्रयतादोषात् ।
दोषान्तरं चाह- अनादीति ॥
अनादियोग्यता चोक्ता तेन ग्राह्यैव सर्वथा
न्यायसुधा:
यस्माज्जीवानामनादियोग्यतोक्ता प्रमाणैरुपपादिता ।
तेन कारणेन सा ग्राह्यैव सर्वथा ।
एतदुक्तं भवति ।
यदा देवमानवदानवरूपा तदवान्तरभेदरूपा च जीवानां योग्यतानादिनित्या प्रमिता तदा का वार्ता जीवब्रह्मणोरेकत्वस्य ।
तथा च कथं तत्सिद्धये गुणानां मिथ्यात्वकल्पनमिति ।
अत्रैव हेत्वन्तरमाह- मुक्तानामिति ॥
मुक्तानां तारतम्यं च मानैरुक्तैर्न चाल्यते
न्यायसुधा:
मानैरुक्तैरिति मानानामुक्तत्वादित्यर्थः ।
न चाल्यते नान्यथयितुं शक्यते ।
यदा मुक्तावपि तारतम्यं प्रमितम् ।
तदा का जीवब्रह्मैक्यप्रत्याशा ।
कथं च तत्त्वमस्यादिवाक्यस्य तत्परत्वम् ।
यतो गुणानां मिथ्यात्वकल्पनं युक्तं स्यादिति ।
*11,293*
मुक्तानां तारतम्ये प्रमाणान्तरमाह- ज्ञानिनो ऽपीति ॥
ज्ञानिनो ऽपि यतो नित्यं कुर्वन्ति शुभमेव हि ।
तारतम्यं तु मुक्तौ च तेनैवाध्यवसीयते
न्यायसुधा:
एवशब्देन पापं परिहरन्ति चेति सूचयति ।
तुशब्देन शुभाशुभकरणपरित्यागयोः तारतम्यं द्योतयति ।
हिशब्देन तत्र प्रमाणप्रसिद्धिम् ।
प्रमाणानि तु दशकल्पमित्यादीनि प्रागुदाहृतान्येव ।
तेनैवेत्यस्य प्रमाणस्य निरवकाशतामाह ।
प्राङ्मोक्षसाधनानां तारतम्यान्मोक्षतारतम्यमुक्तम् ।
इदानीं तु ज्ञानेन निश्चितमोक्षाणामपि शुभाशुभकरणपरित्यागतारतम्यादुच्यत इति भेदः ।
विपक्षे बाधकमाह- तारतम्यमिति ।
*11,294*
तारतम्यं न चेन्मुक्तौ कुतः कुर्युः शुभं पुनः
न्यायसुधा:
पुनरिति ज्ञानोत्तरम् ।
यदि ब्रह्माद्या मुक्तौ तारतम्यवन्तो न स्युस्तदा ज्ञानमात्रेण मोक्षस्य प्राप्तप्रायत्वाज्ज्ञानोत्तरकालं शुभं न कुर्युः ।
अशुभं च न परित्यजेयुरित्यथर्ः ।
विपर्ययपर्यवसानमाह- कृच्छ्रेणेति ॥
कृच्छ्रेणापि तपो ज्ञानं कर्माप्येते चरन्ति हि
बिभ्यति स्माशुभान्नित्यं सकामाश्च शुभे सदा
न्यायसुधा:
तपो ज्ञानं कर्मापीत्यनेन शुभमित्युक्तं भवति ।
ज्ञानमिति श्रवणादिकमुच्यते ।
कर्मेति यज्ञादि एते ज्ञानिनः कृच्छ्रेणापीत्यादिविशेषणानां फलमनुपदमेव ज्ञास्यते ।
सकामाश्च शुभे सदेत्येकस्य तपआदेश्चरणकाले तपआद्यन्तरं कामयन्त इत्यर्थः ।
तस्माज्ज्ञानोत्तरकालानुष्ठितेन विचित्रेण शुभेन विचित्रामानन्दबुद्धिं प्राप्नुवन्तीति शेषः ।
*11,295*
भवेदेतद्यदि ज्ञानोत्तरकालकृतानां शुभानां फलवत्त्वं स्यात् ।
न चैवम् ।
तेषां कर्मस्वनधिकारात् ।
अनधिकारिणा च कृतं विफलमिति प्रसिद्धमेव ।
अनुष्ठानं त्वन्यथाप्युपपद्यते ।
ते हि प्राग्ज्ञानोदयादादरनैरन्तर्याभ्यां शुभान्यनुष्ठितवन्तस्तत्स्वाभाव्यमापन्ना ज्ञानोदयानन्तरमप्यनुतिष्ठन्तीत्याङ्कय परिहरति- नचेति ॥
न च स्वभाव एवायं भयपूर्वप्रवृत्तितः
न्यायसुधा:
अयं ज्ञानिनां शुभाचरणरूपः ।
अकरणे प्रत्यवायो भविष्यतीत्येवं भयपूर्वप्रवृत्तितः कृच्छ्रेणैवाचरणाच्च, शुभस्यैवेति प्रेक्षापूर्वमशुभपरित्यागेनेत्यर्थः ।
*11,296*
कृच्छ्रेणाचरणाच्चैव शुभस्यैव पुनः पुनः
न्यायसुधा:
एतेन कृच्छ्रेणापीत्यादिविशेषणफलमुक्तं भवति ।
नहि स्वभावकृता प्रवृत्तिरेवं भवितुमर्हति ।
*11,297*
नन्वेते प्रागनुष्ठानकाले भयपूर्वं कृच्छ्रेणाशुभपरित्यागेनैवानुष्ठितवन्तः ।
अतः तत्स्वभावा एव संवृत्तार इदानीमपि तत्स्वाभाव्येन तथैव कुर्वन्तीत्यङ्गीकारे को दोष इत्याशङ्कयाह- तादृशो ऽपीति ॥
तादृशो ऽपि स्वभावश्चेदज्ञस्यापि भवेत् तथा
न्यायसुधा:
भयपूर्वप्रवृत्त्यादिरूपो ऽपि ।
ज्ञानिनस्तावदनुष्ठाने ऽज्ञेभ्यो न विशिष्यन्ते ।
तत्र ज्ञानिनां शुभप्रवृत्तिः पूर्वतरपूर्वतमस्वभावबलायातैव नतु फलवतीत्यङ्गीकुर्वाणं प्रति यदि कश्चिद् ब्रूयात् अज्ञानिनामपि शुभा प्रवृत्तिः पूर्वतरपूर्वमस्वभावगतैव न तु फलवती विशेषाभावादिति, तदा किं वाच्यमिति ।
प्रतिबन्दीं मोचयितुमाशङ्कते- फलवत्त्व इति ॥
फलवत्त्वे प्रमाणं चेत् तत्र ज्ञस्य समं हि तत्
न्यायसुधा:
अज्ञानिनां कर्मणो ऽस्तीति शेषः ।
साम्ये हि प्रतिबन्दीग्रहः ।
नच तदत्रास्ति ।
यतो ऽज्ञानिकृतकर्मणां सफलत्वे"कर्मजं बुद्धियुक्ता हिऽ; इत्यादिकं प्रमाणमस्ति ।
उपलक्षणं चैतत् ।
अधिकारिणश्चैते विधिगोचराश्चेत्यपि द्रष्टव्यम् ।
नह्येवं सति स्वभावकल्पनावकाशो ऽस्तीति ।
एवं तर्हि ज्ञानिष्वपि न स्वभावकल्पना युक्तेत्याशयवानाह- तत्रेति ॥
तत्र कर्मणः फलवत्त्वे ।
तत् प्रमाणम् ।
अत्राप्यधिकारादिकमुपलक्षणीयम् ।
*11,298*
किं तत्प्रमाणमित्यतस्तद्दर्शयति- निष्काममिति ।
निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते ।
निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्
न्यायसुधा:
इह प्रवृत्तनिवृत्तयोर्मध्ये ।
अभ्येति अतिशयेनैति ।
आनन्दोद्रेकसाहित्येन मुक्तो भवतीत्यर्थः ।
एतत्स्मृतिवाक्यार्थविवरणाय वाक्यान्तरं पठति- शुभेनेति ॥
शुभेनानन्दवृद्धि स्याद्घ्रासश्चैवाशुभेन हि ।
ज्ञानिनो ऽपि यतस्तेन कर्तव्यं शुभमेव तैः
न्यायसुधा:
ह्यासश्चानन्दस्य ।
शुभमेव कर्तव्यमशुभं त्याज्यं च ।
अनेन विधिसद्भावो ऽपि सिद्धः ।
ततो ऽधिकारश्च ।
अत्र श्रुतिमप्याह- उपास्त इति ॥
उपास्ते स य आत्मानं क्षीयते नास्य कर्म ह ।
अस्माद्धयेवात्मनो यद्यत् कामयेत् सृजते च तत्
*11,298f.*
न्यायसुधा:
अनेन"स य आत्मानमेव लोकमुपास्ते न ह्यस्य कर्म क्षीयते ऽस्माद्धयेवात्मनो यद्यत्कामयते तत्तत्सृजतेऽ; इति श्रुतिमुपादत्ते ।
आत्मानं परमात्मानम् ।
लोकं सर्वाश्रयम् ।
उपास्ते कारणेन कार्योपलक्षणं पश्यतीत्यर्थः ।
स विद्वान्मुक्तो भूत्वा यद्यत्कामयते तत्तत्कर्मास्माद्धयेवात्मनो ऽस्यात्मनः प्रसादेन सृजते ।
*11,299*
अविद्वान् बहुकर्मापि ह्यन्तवत् फलमाप्नुयात्
न्यायसुधा:
अविद्वानित्यनेन"यद्यप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवऽ; इति श्रुतिमुपादत्ते ।
अनया चार्थाज्ज्ञानिकर्मणः साफल्यं सिद्धयति ।
उपरि चोपयोगो भविष्यति ।
यदेव विद्यया कुर्यात् तदेव ह्यतिवीर्यवत् ।
इत्यादिवाक्यसामर्थ्यात् तारतम्यं विमुक्तिगम् ॥ मनुव्_3,4.193च्-f ॥
न्यायसुधा:
यदेवेत्यनेन"यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ; इति श्रुतिमुपादत्ते ।
विद्यया ब्रह्मसाक्षात्कारपूर्वकमुपनिषदा स्वयोग्य(म्)या वीर्यवत्तरमधिकफलमित्यादिवाक्यसामर्थ्याज्ज्ञानिकृतकर्मणां फलवत्त्वं तावत्प्रतीयते ।
ततस्तेषां वैचित्र्याद्विमुक्तिगं तारतम्यं च सिद्धमित्यर्थः ।
*11,300*
स्यादेतत् ।
नैतानि वाक्यानि ज्ञानिकर्मणां साफल्यं प्रतिपादयन्ति ।
स य आत्मानमित्यत्र तावदुपासककर्मणामक्षयफलत्वश्रवणात् ।
इतरत्र च ज्ञानविद्याशब्दयोः परोक्षज्ञानार्थत्वस्याप्युपपत्तेरित्याशङ्कां परिहरति- नचेति ॥
नचात्रोपासकस्यैव फलमक्षयमुच्यते
न्यायसुधा:
अत्र वाक्येषु ।
फलं कर्मणाम् ।
तथा ज्ञानादिपदं परोक्षज्ञानार्थतया न व्याख्येयमित्यपि ग्राह्यम् ।
कुतो नेत्यत आह- नहीति ॥
न हि ज्ञानं विना क्वापि फलस्याक्षयता भवेत्
न्यायसुधा:
ज्ञानं ब्रह्मसाक्षात्कारम् ।
क्वापि मोक्षे ऽन्यत्र च ।
फलस्य कर्मणाम् ।
इदमुक्तं भवति ।
ब्रह्मसाक्षात्काररहितेनोपासकेन कृतानि कर्माण्यक्षयफलानि केन प्रकारेणेति चिन्त्यम् ।
किमक्षयं मोक्षं कुर्वन्तीति ।
उत स्वर्गादिकम् ।
नाद्यः ।
नान्यः पन्था इति श्रुतिविरोधात् ।
न द्वितीयः ।
पुण्यचितो लोकः क्षीयत इति स्वर्गादिफलानां क्षयित्वश्रवणात् ।
"अनेवंविन्महत्पुण्यं कर्म करोतिऽ"तदेव वीर्यवत्तरं भवतिऽ; इत्युदाहृतश्रुतिविरोधश्च पक्षद्वये ऽपि ।
तदेवमज्ञपक्षे वाक्यार्थानुपपत्तेरुपासकपदस्य ज्ञान्युपलक्षकत्वमेव युक्तम् ।
तथा ब्रह्माभ्येतीति श्रवणाज्ज्ञानपदस्य साक्षात्कारवाचित्वमेव युक्तमिति ।
अत एव वाक्यसामर्थ्यादित्युक्तम् ।
यद्यपि पश्यन्नपीममात्मानमित्याद्याः स्पष्टार्थाः श्रुतयो ऽत्र सन्ति ।
तथापि मीमांसार्थमेतासामुदाहरणम् ।
*11,301*
नन्वज्ञपक्षे ऽपि नानुपपत्तिः ।
उपासकेन कृतानि खल्वसङ्कल्पितफलानि कर्माणि ज्ञानमुपजनयन्ति ।
कर्मणा ज्ञानमातनोतीति श्रुतेः ।
ज्ञानेन मोक्षो भवतीत्यज्ञकृतकर्मणामपि ज्ञानद्वारेणाक्षयफलत्वोपपत्तेरित्याशङ्कयाह- ज्ञानेति ॥
ज्ञानद्वारेण चेत् तस्य नास्मत्पक्षप्रतीपता
न्यायसुधा:
कर्मफलस्याक्षयतेति वर्तते ।
तस्य परकृतव्याख्यानस्य ।
अस्मत्पक्षप्रतीपता मुक्ततारतम्यविरोधिता ।
प्रत्युत तदनुकूलतैव ।
मुक्तौ तारतम्यमसहमानेन खल्वेवमन्यथा व्याख्यानं क्रियते तन्मुक्ततारतम्यमेव साधयति ।
कर्माणि हि जिज्ञासवो विचित्राणि कुर्वन्ति ।
तैश्च जायमानेन ज्ञानेन विचित्रेणैव भाव्यम् ।
अन्यथा कृतविप्राणाकृताभ्यागमापत्ते ।
विचित्रेण ज्ञानेन विचित्र एव मोक्षो भावनीयः ।
पूर्वोक्तादेव हेतोरिति ।
तदेवं स्वमतविरोधिपरानुकूलमन्यथाव्याख्यानं न कार्यमेव ।
तथा चास्मद्वयाख्याने स्थिते प्रकृतं युक्तमिति ।
*11,302*
अस्तु वान्यथाव्याख्यानं युक्तम् ।
ततश्चैतेषां वाक्यानां प्रकृतासाधकत्वम् ।
एवमपि ज्ञानोत्तरकर्मणो मोक्षान्तर्गतफलहेतुतायाः प्रमाणान्तरेण सिद्धेर्मुक्ततारतम्यं न हातुं शक्यमित्यभ्युपगमवादेनाह- ज्ञानोत्तरस्येति ॥
ज्ञानोत्तरस्यैवमपि ह्यक्षयत्वं ...
न्यायसुधा:
कर्मणो ऽक्षयत्वमक्षयमोक्षानुप्रवेशिफलत्वं सिद्धयति ।
कथमित्यत आह- नचेति ॥
... नचान्यथा
न्यायसुधा:
प्रकारान्तराभावात् ।
परिशेषप्रमाणादिति यावत् ।
एतेन ज्ञानोत्तरस्य कर्मणः साफल्ये ऽपि तस्य फलस्य मोक्षानुप्रवेशितायां प्रमाणाभावान्न मोक्षतारतम्यसिद्धिरित्यपि प्रत्युक्तम् ।
*11,303*
परिशेषमेव दर्शयति- पूर्वेति ॥
पूर्वभाविशुभानां हि ज्ञानेनैव कृतार्थता
प्रारब्धानां तु भोगेन तज्ज्ञानोत्तरकर्मणाम् ।
मुक्तावनुप्रवेशः स्यादन्यथा तत्कृतिर्नहि
न्यायसुधा:
ज्ञानिकृतेषु कर्मस्वेता विधास्तावत्सम्भवन्ति ।
ज्ञानार्थत्वं वा भोगार्थत्वं वा व्यर्थत्वं वेति ।
तत्र ज्ञानिकर्मणां ज्ञानार्थत्वं तावन्नोपपद्यते ।
पूर्वभाविशभैरेव ज्ञानस्य कृतत्वात् ।
तत्र हेतुः पूर्वभावीति ।
ज्ञानात्पूर्वभाविनां शुभानां यसमाज्ज्ञानेनैव कार्येण कृतार्थता नान्येन ।
तेषां कार्यान्तराभावात् ।
ज्ञानार्थत्वाभावे वैयर्थ्यं स्यादित्यर्थः ।
पूर्वजातं प्रति पश्चाद्भाविनः कारणत्वायोगाच्च ।
नापि भोगार्थत्वम् ।
प्राचीनप्रारब्धकर्मभिरेव भोगस्य जायमानत्वात् ।
तत्र हेतुः प्रारब्धानां च कर्मणां भोगेनैव कृतार्थतेति ।
पूर्ववत्तात्पर्यम् ।
वैयर्थ्यनिरासहेतुरन्यथेति ।
ज्ञानिकर्मणां व्यर्थत्वे तदनुष्ठानं न स्यात् ।
नहि प्रेक्षावन्तो व्यर्थं (कर्म) कुर्वन्ति ।
करणस्वाभाव्यादिति चेत् ।
अबुद्धिपूर्वताप्रसङ्गात् ।
लोकसङ्ग्रहार्थमिति चेन्न ।
तत्प्रयोजनस्यापि वाच्यत्वात् ।
ईश्वरवदिति चेन्न ।
मुक्तावपि प्रसङ्गात् ।
परिशेषफलकथनं तत्तस्माज्ज्ञानोत्तरकर्मणां मुक्तावनुप्रवेशो मुक्तिगतानन्दवृद्धयर्थत्वं स्यादिति ।
*11,304*
पूर्वभाविशुभानि ज्ञानार्थानीत्युक्तम् ।
तत्र सर्वेषां ज्ञानार्थतायां प्रसक्तायां विशेषमाह- ज्ञानादीति ॥
ज्ञानात् पूर्वाणि सर्वाणि शुभानि ज्ञानसिद्धये ।
अकाम्यानि ... ॥ मनुव्_3,4.197अ-च् ॥
न्यायसुधा:
ज्ञानात्पूर्वाण्यकाम्यान्येव शुभानि कर्माणि पुण्यकर्माणि ज्ञानसिद्धये भवन्ति न तु काम्यानि ।
शुभानीति विशेषणस्य कृत्यमाह- निषिद्धानीति ॥
... निषिद्धानि ज्ञानरोधाय भुक्तये
*11,305*
न्यायसुधा:
ज्ञानानुत्पाद उत्पन्नस्याप्यभिभवो वा ज्ञानरोधः ।
भुक्तये दुःखस्य ।
एवं काम्यस्यापि विनियोगो ज्ञातव्यः ।
एतच्च(च)तुर्थे व्युत्पादनीयम् ।
*11,306*
ननु यथाकाम्यानि शुभानीति च विशेषणमुपादीयते तथा नित्यनैमित्तिकव्यतिरिक्तानीत्यपि विशेषणमुपादेयम् ।
नित्यादेरपि प्रत्यवायपरिहाराथर्त्वेन ज्ञानकारणत्वाभावादित्यत आह- योग्यताया इति ॥
योग्यताया बलाद् यच्च शुभबाहुल्यमादितः ।
ज्ञानबाहुल्यमेवैतत् कुर्यान्नान्यस्य ... ॥ मनुव्_3,4.198अ-द् ॥
न्यायसुधा:
योग्यात ब्राह्मणत्वादिरूपा पितृमरणादिरूपा च ।
आदितो ज्ञानात्पूर्वं कृतम् ।
अन्यस्य प्रत्यवायमात्रपरिहारस्य ।
"आध्यानाय प्रयोजनाभावात्ऽ; इत्यत्रास्यार्थस्य समर्थितत्वान्नेह हेतुरुक्तः ।
अत्र योग्यताया बलाच्छुभमादितः कृतमेतच्च ज्ञानमेव कुर्यादिति च वक्तव्ये यदुभयत्र बाहुल्यग्रहणं कृतं तत्तस्य नास्मत्पक्षप्रतीपतेत्युक्तप्रपञ्चनार्थमिति ।
*11,308*
अत्र"पुरुषार्थो ऽतःशब्दाद्ऽ; इत्यादिना ज्ञानस्य मोक्षसाधनत्वमुक्तम् ।
अत्र च कर्मतारतम्याज्ज्ञानतारतम्यं ज्ञानतारतम्यान्मोक्षतारतम्यमिति वदता च सूचितम् ।
ज्ञानपदं चावबोधमात्रस्य प्रतिपादकमिति प्रतीतिनिरासार्थमाह- ज्ञानस्येति ॥
ज्ञानस्य भक्तिभागत्वाद् भक्तिर्ज्ञानमितीर्यते
न्यायसुधा:
अस्मिञ्छास्त्रे यत्र यत्र ज्ञानस्य मोक्षसाधनत्वमुच्यते तत्र तत्र ज्ञानमिति पदेन भक्तिरीर्यते लक्ष्यते ।
कुतः ।
सम्बन्धात् ।
ज्ञानस्य भक्तिभागत्वात् ।
माहात्म्यज्ञानस्नेहसमुदायो हि भक्तिरित्युक्तम् ।
ततो ज्ञानं भक्तेर्भाग एकदेशः ।
तथा चैकदेशैकदेशित्वलक्षणात्सम्बन्धादित्युक्तं भवति ।
एकदेशेनैकदेशिलक्षणा च द(शम)शामात्रं दत्तमित्यादौ प्रसिद्धैव ।
*11,311*
प्रकारान्तरमाह- ज्ञानस्यैवेति ॥
ज्ञानस्यैव विशेषो यद् भक्तिरित्यभिधीयते
न्यायसुधा:
यद्यदा ज्ञानस्यैव विशेषः स्नेहादिसाहित्यलक्षणो धर्मो भवति तदा स पिण्डो भक्तिरित्यभिधीयते ।
एतदुक्तं भवति ।
ज्ञानं स्नेहश्च भक्तेरंशौ ।
तत्रैकेनांशेनांशान्तरस्योपलक्षणम् ।
तथाचाहजल्लक्षणया भक्तिरेव सिध्यतीति ।
एकदेशान्तरेणैकदेशान्तरस्योपलक्षणे दृष्टान्तमाह- परोक्षत्वेति ॥
परोक्षत्वापरोक्षत्वे विशेषौ ज्ञानगौ यथा
न्यायसुधा:
यथा ज्ञानस्य परोक्षत्वापरोक्षत्वलक्षणौ द्वौ धर्मौ ।
तत्र तमेवं विद्वानिति परोक्षज्ञानस्य मोक्षसाधनत्वे ऽभिहिते परोक्षत्वेनापरोक्षत्वं लक्ष्यत इत्यर्थः ।
दार्ष्यान्तिकं दशर्यति- स्नेहयोगो ऽपीति ॥
स्नेहयोगो ऽपि तद्वत् स्याद् विशेषो ज्ञानगोचरः
न्यायसुधा:
स्नेहश्चासौ योग उपायश्चेति स्नेहयोगः ।
स्नेहेन योगः सम्बन्ध इति वा ।
तत ए(केनै)कदेशेनैकदेशान्तरलक्षणा च स्यादिति शेषः ।
*11,313*
लाक्षणिकप्रयोगे सूत्रकारस्य किं प्रयोजनमित्यत आह- इत्यभिप्रायत इति ॥
इत्याभिप्रायतः प्रायो ज्ञानमेव विमुक्तये ।
वदन्ति श्रुतयः ... ॥ मनुव्_3,4.201अ-च् ॥
न्यायसुधा:
द्विविधलक्षणाभ्किमयेण श्रुतयः तरति शोकमात्मविदित्याद्याः ।
इदमुक्तं भवति ।
द्विविधा लक्षणा भवति रूढारूढभेदात् ।
तत्र द्वितीयायां प्रयोक्तुः प्रयोजनानुसन्धानेन भाव्यम् ।
न त्वाद्यायामभिधातुल्यायाम् ।
इयं च रूढलक्षणा ।
श्रुतिषु प्रायिकव्यवहारादर्शनात् ।
अतः किं प्रयोजनान्वेषणेनेति ।
*11,314*
भक्तिशब्दो माहात्म्यज्ञानपूर्वकस्य स्नेहस्य वाचक इत्युक्तं तथा ज्ञानशब्दो भक्त्यर्थ इति ।
तदुभयमप्यनुपपन्नम् ।
भक्तिज्ञानाभ्यां मोक्षो भवतीत्यपि दर्शनात् ।
तत्र भक्तिशब्दस्योक्तार्थत्वे ज्ञानग्रहणवैयर्थ्यात् ।
(तस्य तत्रान्तर्भूतत्वात्) ।
ज्ञानपदस्य चोभयार्थत्वे भक्तिग्रहणवैयर्थ्यादित्यत आह- सो ऽयमिति ॥
... सो ऽयं विशेषो ऽपि ह्युदीर्यते
भक्तिर्ज्ञानमिति क्वापि ...
न्यायसुधा:
क्वापि भक्तिर्ज्ञानमिति पदाभ्यां सो ऽयं स्नेहलक्षणो बोधलक्षणश्च विशेषो ऽप्युदीर्यते ।
न तूक्त एवार्थ इति नियमस्तस्मान्नानुपपत्तिः ।
यत्र भक्तिज्ञाने(ज्ञानं) सहोच्यते तदा पुनरुक्तिप्रसङ्गाद्भक्तिपदं स्वार्थैकदेशत्यागेन स्नेहांशस्य लक्षकम् ।
नतु मुख्यार्थनिष्ठम् ।
ज्ञानपदं चानुपपत्त्यभावान्मुख्यार्थमेव नतु लक्षकमिति भावः ।
ननु विना स्नेहाज्ज्ञानमात्रेण यदि मुक्तिरनुपपन्ना स्यात् ।
तदा ज्ञानपदस्य लक्षकत्वमाश्रयणीयम् ।
नचैवम् ।
पुरुषार्थस्य भक्त्येकसाध्यत्वे प्रमाणाभावात् ।
द्वेषिणामपि शिशुपालादीनां मोक्षदर्शनाच्च ।
द्वेषिणः स्निग्धा इत्यस्य च विप्रतिषिद्धत्वात् ।
अतो ऽनुपपन्नं लक्षणाश्रयणमित्यतो द्वेषस्य मोक्षसाधनत्वं तावन्निराकरोति- न हीति ॥
... न हि द्वेषयुता दृशिः ।
पुरुषार्थाय भवति सर्वश्रुतिविरोधतः ॥ मनुव्_3,4.202ब्-द् ॥
*11,315*
न्यायसुधा:
अत्र द्वेषस्य पुरुषार्थसाधनत्व निषिद्धयते ।
दृशिरिति तु प्रसङ्गादुक्तम् ।
ज्ञानस्यावश्यकतामुपादाय स्नेहनिरासाय हि परः प्रत्यवस्थितः ।
कैमुत्यार्थं वा ।
माहात्म्यज्ञानमपि न द्वेषयुक्तं मोक्षहेतुः ।
किमुत केवलो द्वेष इति ।
यथोक्तम् ।
"नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं विरञ्जनम्ऽ; इति ।
*11,316*
द्वेषस्य मुक्तिसाधश्रत्वाङ्गीकारे कथं सर्वश्रुतिविरोध इत्यतस्तावदेकां श्रुतिं पठति- चेतनस्येति ॥
चेतनस्य द्वयं भोग्यं संसारो मुक्तिरेव च ।
संसारस्त्रिविधस्तत्र स्वर्गो मध्यमधस्तथा
मुक्तिश्च द्विविधा तत्र सुखं नित्यं तथापरम् ।
नित्यदुःखमिति ज्ञेयं साधनं संसृतावपि ।
काम्यं कर्म निषिद्धं च साज्ञानमिति निश्चयः
द्वेषो भक्तिश्च मुक्तौ तु मुक्तिद्वयविधायकम् ।
इति पैङ्गिश्रुतेर्द्वेषो नैव सन्मुक्तिकारणम्
न्यायसुधा:
जीवजातस्य ।
द्वयमेव ।
तत्र मुक्तिसंसारयोर्मध्ये ।
मध्यं मानुषत्वम् ।
अधो नरकादि ।
नित्यं सुखमेकं मुक्तित्वेन ज्ञेयम् ।
तथा नित्यदुःखमपरमिति ज्ञेयम् ।
संसृतौ संसृतिविषये, साधनमपि द्वेषो भक्तिश्चेति योग्यतया सम्बन्धः ।
विधायकं कारकम् ।
नित्यसुखरूपा सन्मुक्तिः ।
इति ज्ञायत इति शेषः ।
*11,317*
सन्मुक्तिकारणत्वस्याप्रतिषेधात्कथमेवमुच्यत इत्यत आह- असदिति ॥
असन्मुक्तेः कारणं च ...
न्यायसुधा:
नित्यदुःखस्वरूपाणां मुक्तेः कारणत्वेन तावद् द्वेष उक्तः ।
तेन सन्मुक्तिकारणं न भवतीति ज्ञायते विरोधादिति ।
नन्वस्यां श्रुतौ मुक्तिविषयौ भक्तिद्वेषौ सदसन्मुक्तिकारणत्वेनोच्येत ।
विष्णुविषयौ तु प्रकृतौ ।
अतः किं केन सङ्गतमित्यत आह- मुक्ताविति ॥
... मुक्तावित्यत्र केशवः ।
मुक्तिशब्दोदितो ...
*11,318*
न्यायसुधा:
मुक्तावित्यत्र सप्तम्यन्ते पदे मुक्तीति प्रातिपदिकेनोदितः ।
केवलं मुक्तिशब्दोदित इत्युक्ते मुक्तिद्वयेत्यत्रापि प्राप्तिः ।
अतो मुक्तावित्यत्रेत्युक्तम् ।
केन निमित्तेनेत्यत आह- मोक्षमिति ॥
... मोक्षं स्वभक्तानां करोति यत्
न्यायसुधा:
मुचॢ मोक्षण इत्यस्मात्स्त्रयां क्तिनिति क्तिन्प्रत्ययः ।
स च बहुलग्रहणात्कर्तर्यपि भवति ।
यद्वा करोतीति करणे कर्तृत्वोपचारः ।
मुच्यते ऽनेनेति मुक्तिरित करणे क्तिन्प्रत्ययः ।
जोस्हि-32
*11,319*
द्वेषस्य मोक्षसाधनत्वाङ्गीकारे युक्तिविरोधं चाह- द्वेषतो ऽपीति ॥
द्वेषतो ऽपि विमुक्तिश्चेन्महातात्पर्यरोधनम्
न्यायसुधा:
न केवलं भक्त्या किन्तु द्वेषतो ऽपि विशिष्या मुक्तिश्चेदङ्गीक्रियते तदा यत्सर्वश्रुत्यादीनां भगवद्गुणोत्कर्ष एव महातात्पर्यं तद्विरुद्धमापद्येत ।
कथमित्यत आह- भक्त्येति ॥
भक्तया प्रसन्नतो देवान्मुक्तिरित्येव तद्गुणान् ।
वदन्ति श्रुतयः सर्वाः पुराणान्यागमा अपि ॥ मनुव्_3,4.207च्-f ॥
न्यायसुधा:
अन्ये ऽप्यागमाः ।
श्रुत्यादयो मुक्तिप्रयोजनाः परमेश्वरगुणविषयाश्चेति तावत्प्रसिद्धम् ।
तत्र सम्बन्धो ऽयमेव ।
यद्भगवत एव जीवानां मुक्तिः ।
सा च प्रसन्नादेव ।
प्रसादश्च भक्त्यैव ।
भक्तिश्च गुणज्ञा(नादेवे)न एवेत्येवं श्रुत्याद्यास्तद्गुणान्वदन्तीति ।
तथाच कथं द्वेषतो मुक्त्यङ्गीकारे न महातात्पर्यविरोधः ।
*11,320*
भक्तेर्मोक्षसाधनत्वमनेन गम्यते ।
नच तदस्माभिरपाक्रियते ।
किन्तु भक्तिवद् द्वेषस्यापीत्यत आह- यदीति ॥
यदि द्वेषेण मुक्तिः स्याद् वक्तव्यो दोषसञ्चयः
न्यायसुधा:
तदा द्वेषोत्पादनार्थमिति शेषः ।
नचैवम् ।
गुणमात्रप्रतिपादनस्य प्रतिपादितत्वात् ।
ततो मोक्षार्थं प्रवृत्तो वेदादिर्गुणानेव प्रतिपादयन्मोक्षस्य भक्तिमात्रसाध्यत्वमभिप्रैतीति गम्यत इति भावः ।
ननु द्वेषाच्चैद्यादयो नृपा इत्यादीनि द्वेषस्यापि मोक्षसाधनतां प्रतिपादयन्ति वाक्यानि सन्ति ।
तत्कथं द्वेषस्य मुक्तिसाधनत्वाभाव इत्यत आह- स्मर्तव्य इति ॥
स्मर्तव्यो भगवान् नित्यमित्यर्थेनैव हि क्वचित् ।
द्वेषादिव गुणानाह पुराणे क्रुद्धवाक्यवत् ॥ मनुव्_3,4.208च्-f ॥
न्यायसुधा:
पुराणे क्वचित्प्रदेशे ।
भगवान्नित्यं स्मर्तव्य इत्यभिप्रायेणैव द्वेषान्मुक्तिमाहेव पुराणकृदिति सम्बन्धः ।
तस्मान्नोक्तविरोध इति हेरर्थः ।
*11,320f.*
इदमुक्तं भवति ।
पुराणवाक्यं द्वेषस्य मुक्तिसाधनत्वं प्रतिपादयदिवापाततो यद्यपि प्रतीयतेत ।
तथापि तन्न तदभिप्रायम् ।
किन्तु मुमुक्षुणा भगवन्सर्वदा स्मर्तव्य इति तस्याभिप्रायः ।
यथा"वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्ऽ; इत्यत्र नाकार्यकरणे तात्पर्यं किन्तु सर्वथा भर्तव्यत्वे, तथेहापीति ।
गुणानाहेति तात्पर्यान्तरम् ।
चैद्यादीनां द्वेषतो मुक्तिं प्रतिपादयद्वाक्यं भगवतः कृपालुत्वादीन्गुणानाहेति ।
शापादिना द्वेषिणो ऽपि चैद्याद्यास्तात्कालिकद्वेषमनिरूप्य पूर्वतनीं भक्तिमेवापेक्ष्य भगवता सूचिताः ।
अहो कृपालुत्वं निर्विकारत्वं सत्यसङ्कल्पत्वं च तस्येत्यत्र तात्पर्यं तेषां वाक्यानामित्यर्थः ।
द्विविधानि वाक्यानि, वैरेण यन्नृपतय इत्यादीनि स्मरणप्रधानानि तेषां प्रथमा गतिः ।
द्वेषाच्चैद्यादय इत्यादीनि द्वेषप्रधानानि तेषां द्वितीयेति हृदयम् ।
प्रथमव्याख्याने लौकिकदृष्टान्तमाह- क्रुद्धवाक्यवदिति ।
क्रुद्धवाक्यस्य यथा न प्रतीत एवार्थप्रमाण्यम् किन्त्वन्यत्र, तथैवेत्यर्थः ।
*11,323*
एतद्विवृणोति- यथेति ॥
यथा क्रुद्धः पिता पुत्रं मरेत्याक्षेपपूर्वकम् ।
प्रोक्तस्यान्यस्य कृत्यर्थं वदत्येवं पुराणगम्
वाक्यं ...
न्यायसुधा:
मरेति प्रकृत्यन्तरस्यैतद्रूपम् ।
"जीव वा मर वा साधो व्याध मा जीव मा मरऽ; इति प्रयोगदर्शनात् ।
आक्षेपो निन्दा ।
स्वेन प्रोक्तस्यान्यस्य कार्यस्य ।
पिता किञ्चित्पुत्रं प्रति विधत्ते इदं कुर्वीति ।
स तु श्रमादिभीरुरकुर्वाण एवावतिष्ठते ।
तदा क्रुद्धः पिता ब्रवीति ।
अरे जाल्म वैधवेय म्रिअयस्वेति ।
तस्य वाक्यस्य यथा न पुत्रमरणविधाने तात्पर्यं किन्तु स्वविहितकरणे ।
तथाच द्वेषेण स्मरणे मुक्तिर्भवतीति पुराणवाक्यस्यापि न द्वेषस्य मुक्तिसाधनत्वे तात्पयर्म् ।
किन्तु स्मरणस्य कर्तव्यतायामिति ।
*11,324*
इयं च व्यञ्जनावृत्तिरिति केचित् ।
तात्पर्यवृत्तिरित्यपरे ।
वाक्यलक्षणा(अ)नुमा(नमित्या)नं चेत्याचार्याः ।
प्रतीत एवार्थः किन्न स्यादित्यत आह- श्रुतीति ॥
... श्रुतिविरोधेन स्वविरोधेन चाञ्जसा ।
बह्वागमविरोधाच्च न द्वेषान्मुक्तिवाचकम् ॥ मनुव्_3,4.210अ-द् ॥
न्यायसुधा:
पुराणगं वाक्यमिति वर्तते ।
श्रुतयो ऽतीतपादे ऽत्र चोदाहृताः ।
यत्र द्वेषस्य मुक्तिसाधनत्वमुच्यते तत्रैव तद्विरुद्धमुच्यत इति स्वविरोधः ।
सो ऽपि हिरण्यकशिपुश्चेत्यादिभागावतवाक्यानां पठितत्वात्प्रदर्शित एव ।
अञ्जसा मुख्यया वृत्त्या ।
द्वेषान्मुक्तिं प्रतिपादयन्न भवति ।
*11,329*
आगमविरोधं दर्शयति- तम इति ॥
तमो द्वेषेण संयान्ति भक्तया मुक्तिं तथैव च ।
विष्णौ विष्णुप्रसादेन विलोमत्वेन चाञ्जसा ।
इति षाड्गुण्यवचनमप्युक्तार्थनियामकम्
न्यायसुधा:
विष्णौ भक्त्या जातेन विष्णुप्रसादेनैव मुक्तिं संयान्ति ।
तथा विष्णौ द्वेषेण जातेन विलोमत्वेन विष्णुकोपेनाञ्जसा तमः संयान्तीति योजना ।
चशब्दौ समुच्चयार्थौ ।
उक्तार्थनियामकं विष्णुभक्तिरेव मुक्तिसाधनं न द्वेष इत्यस्यार्थस्य नियामकम् ।
एतद्वाक्यसमाख्यया चेतनस्येति श्रुतौ मुक्तावितिशब्दो विष्णोर्वाचक इति सिद्धयति ।
तथाच द्वेषो भक्तिश्चेत्येतद् द्वयं सन्मुक्तेः केवलो द्वेषस्त्वसन्मुक्तेः कारणमित्यन्यथाप्रतीतिरपास्ता भवति ।
इतश्च नैतद्वाक्यं पतीतार्थपरमित्याह- महातात्पर्येति ॥
महातात्पर्यरोधे च कथं वाक्यं प्रमाणताम् ।
याति ... ॥ मनुव्_3,4.212अ-च् ॥
*11,330*
न्यायसुधा:
मोक्षप्रयोजनानां सर्वागमानां भगवद्गुणेष्वेव यन्महातात्पर्यं तदन्यथानुपपत्त्या भक्तिरेव मुक्तिसाधनं न द्वेष इत्यवगम्यते ।
अतो महातात्पर्यविरोधेन च द्वेषवाक्यं प्रतीतार्थे कथं प्रमाणतां याति ।
ननु श्रुत्यादीनां कथं प्राबल्यम् ।
येन तद्विरोधादिदं वचनं स्वार्थात्प्रच्याव्यते ।
उच्यते ।
श्रुतेः श्रुतित्वाद् एव प्राबल्यम् ।
स्ववाक्यस्य निरवकाशत्वात् ।
अत एव तत्रोक्तमञ्जसेति ।
इतरागमानां च बहुत्वेन ।
अत एव बह्वागमेत्यभिहितम् ।
महातात्पर्ययुक्तेर्वाक्यतः प्राबल्यमुपपादयितुमाह सर्वेति ।
... सर्वार्थरूपं हि महातात्पर्यमिष्यते
न्यायसुधा:
सर्वेषां शास्त्राणामनन्यार्थतया यदेकार्थप्रतिपादकत्वं तद्रूपमित्यर्थः ।
*11,331*
कथमिदं लभ्यते ।
अर्थशब्दो मुख्यं प्रतिपाद्यमाह ।
"सत एव पदाथर्स्यऽ; इति यथा ।
स चैकवचनान्तः ।
तेन च तत्प्रतिपादकत्वं लक्ष्यत इति ।
कथमयं महातात्पर्यशब्दार्थ इत्यत आह- वाचकत्वं हीति ॥
वाचकत्वं हि तात्पर्यं ...
न्यायसुधा:
तत् परं प्रतिपाद्यं यस्य तत्तत्परम् ।
तस्य भावस्तात्पर्यमित्ये(वमर्थवा)वं वाचकत्वं प्रतिपादकत्वं हि तात्पर्यमुच्यते ।
तस्य च महच्छब्देन विशेषणे योग्यतयैषो ऽर्थो महातात्पर्यशब्दस्य भवतीति भावः ।
ततः किमित्यत आह- यदर्था इति ॥
... यदर्था अखिला रवाः ।
सो ऽर्थः कथं परित्याज्य एकशब्दस्य संशये ॥ मनुव्_3,4.213ब्-द् ॥
न्यायसुधा:
यो ऽर्थो येषां ते यदर्थाः ।
रवा आगमाः ।
एकशब्दस्य संशये एकवाक्यसम्बन्धिनि संशये सत्येकं सन्दिग्धं विरुद्धार्थं वाक्यमादायेत्यर्थः ।
एतदुक्तं भवति ।
सर्वाणि वाक्यानि सम्भूयानन्यार्थतया यमेकमर्थं प्रतिपादयन्ति तद्विरुद्धार्थं प्रतिपादयत्तदवान्तरवाक्यं यदुण्लभ्यते सावकाशं च तन्महावाक्यार्थविरोधादन्यथा क्रियते न तु तद्विरुद्धो महावाक्यार्थस्त्यज्यत इति तावत्प्रसिद्धम् ।
महावाक्यस्य प्रधानत्वादुपक्रमादिभिर्निश्चितार्थत्वाच्च ।
अवान्तरवाक्यस्याप्रधानत्वात्सन्दिग्धार्थत्वाच्च ।
प्रकृते तु भक्तिरेव मुक्तिसाधनं न द्वेष इति सर्वैर्वाक्यैः सम्भूय प्रतिपादितो ऽर्थः ।
अर्थाक्षि(अक्षि)प्तस्यापि प्रतिपाद्यस्येव तदर्थत्वात् ।
द्वेषान्मुक्तिं प्रतिपादयदेकं तदवान्तरवाक्यं सावकाशं चोक्तप्रकारेण ।
तस्मादिदमेव बाध्यत इति ।
*11,334*
द्वेषस्य मुक्तिसाधनत्वनिराकरणमुपसंहरति- अत इति ॥
अतो विज्ञानभक्तिभ्यां पुरुषार्थः परो भवेत्
न्यायसुधा:
माहात्म्यज्ञानस्नेहाभ्यामेव न तु द्वेषेणेत्यर्थः ।
मोक्ष इति वक्तव्ये परः पुरुषार्थ इति वदता ज्ञानादिकमपि द्वेषिणां न भवतीति सूचितम् ।
ज्ञानादेरपि धर्माद्यपेक्षया परपुरुषार्थत्वात् ।
*11,335*
एवं द्वेषस्य मुक्तिसाधनत्वं निराकृत्येदानीं भक्तेः परमपुरुषार्थसाधकत्वे प्रमाणं नास्तीति यदुक्तं तन्निरासाय प्रमाणान्तरमाह- यस्येति ॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः
भक्त्या ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सा ।
ततो मुक्तिस्ततो भक्तिः सैव स्यात् सुखरूपिणी
भक्तया प्रसन्नो भगवान् दद्याज्ज्ञानमनाकुलम् ।
तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया
नाहं वेदैर्न तपसा न दानेन नचेज्यया ।
शक्य एवंविधो द्रष्टुं प्रदद्यान्मुक्तिमेतया
भक्तया त्वनन्यया शक्य अहमेवंविधो ऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्युं च परन्तप
इत्यादिवाक्यतश्चैव सो ऽयमुक्तार्थ ईयते
न्यायसुधा:
यथा देवे देवयोग्या तथा गुरौ गुरुयोग्येत्यर्थः ।
अनेन ज्ञानस्य भक्तिसाध्यत्वमुच्यते ।
भक्त्या ज्ञानमित्यनेन ज्ञानादेः ।
ज्ञानं परोक्षनिश्चयो जायते ।
ततो ज्ञानात्पक्वा भक्तिर्भवति ।
ततो दृष्टिस्ततश्च सा परिपक्वा भक्तिः ।
ततो मोक्षानन्तरं भक्तिरवतिष्ठते ।
सा सुखरूपिण्येव स्यान्न फलवती ।
भक्त्या प्रसन्न इत्यनेनापीदमेवोच्यते ।
ज्ञानाभावे भक्त्याभावादनाकुलमित्युक्तम् ।
तयैव पक्वया एतया परिपक्वया ।
वेदैरिति भक्तिरहितश्रवणादिभिरित्यर्थः ।
न विद्यते ऽन्यो विषयो यस्याः सानन्या ।
"यादृशी तत्र भक्तिः स्यात्तादृश्यन्यत्र नैव चेत ।
अनन्यभक्ति सा ज्ञेया विष्णावेव च सा भवेत्ऽ; इति च स्मृतिः ।
विवक्षितस्तु सन्धिभर्वतीति वचनाच्छक्य अहमिति युज्यते ।
तत्त्वेन याथार्थ्येन ज्ञातुम् ।
इत्यादिवाक्यतश्चेति चशब्देन चेतनस्य द्वयमित्यादीनि पूर्वोदाहृतवाक्यानि समुच्चिनोति ।
वाक्यत एव न त्वर्थात् ।
*11,337*
अनुमानेनाप्युक्तमर्थं साधयति- नचेति ॥
न च प्रसादमाप्नोति द्वेषाद् भक्त्या तमाप्नुयात् ।
इति दृष्टानुसारित्वमप्यस्मिन्नर्थ ईयते ॥ मनुव्_3,4.219च्-f ॥
*11,338*
न्यायसुधा:
भगवद्द्वेषाद्भगवत्प्रसादं नैवमाप्नोति ।
भगवद्भक्त्या तं भगवत्प्रसादं प्राप्नुयादित्यस्मिन्नर्थे दृष्टानुसारित्वं पत्यक्षदृष्टव्याप्तिकानुमानानुसारित्वमपीयते ज्ञायते ।
एतदुक्तं भवति ।
भगवत्प्रसादादेव मोक्ष इति तावन्निष्यङ्कितम् ।
भगवत्प्रसादो भगवद्द्वेषसाध्यो न भवति ।
भगवत्प्रसादत्वात् ।
यो यत्प्रसादो नासौ तद्द्वेषसाध्यो यगा गुरुप्रसादः ।
यद्वा भगवद्द्वेषो भगवत्प्रसादसाधनं न भवति ।
भगवद्द्वेषत्वात् ।
यो यद्द्वेषः स तत्प्रसादसाधनं न भवति ।
यथा गुरुद्वेषः ।
अथवा भगवान्स्वद्वेषिणि न प्रसीदति प्रेक्षावत्पुरुषत्वात् देवदत्तवत् ।
यद्वा भगवद्द्वेषी भगवत्प्रीतिविषयो न भवति भगवद्द्वेषित्वात् ।
यो यद्द्वेषी नासौ तत्प्रीतिविषयः ।
यथा सम्प्रतिपन्न इति द्वेषस्य प्रसादसाधनत्वे ऽपास्ते मुक्तिसाधनत्वमेवापास्तं भवति ।
तथा भगवत्प्रसादो भगवद्भक्तिसाध्यो भगवत्प्रसादत्वात् ।
यो यत्प्रसादः स तद्भक्तिसाध्यो यथा गुरुप्रसादः ।
यद्वा भगवद्भक्तिः भगवत्प्रसादसाधनं भगवद्भक्तित्वात् ।
या यद्भक्तिः सा तत्प्रसादसाधनं यथा गुरुभक्तिः ।
अथवा भगवान्स्वभक्ते प्रसीदति प्रेक्षावत्पुरुषार्थत्वात् ।
सम्मतवत् ।
यद्वा भगवद्भक्तो भगवत्प्रीतिविषयो भगवद्भक्तत्वात् ।
यो यद्भक्तो ऽसौ तत्प्रीतिविषयः ।
यथा गुरुभक्त इति ।
भक्तेः प्रसादसाधनत्वे सिद्धे मुक्तिसाधनत्वमेव सिद्धं भवतीति ।
नन्वलौकिके भगवति लोकदृष्टान्तेनैवमनुमानं न युज्यते ।
अन्यथाणुत्वादिनियमस्याप्यनुमानापत्तेः ।
अतो लोकविलक्षणो द्विष्यो ऽपि प्रसीदतीत्याङ्गीकारे न बाधकमिति शङ्कामागमवाक्येन परिहरति- य इति ॥
ये पृथग् विहिता विष्णोर्गुणा वेदेन सादरम् ।
त एव दृष्टवैलोम्यादङ्गीकार्या नचापरम्
अन्यद् दृष्टानुसारेण वासुदेवे ऽपि गृह्यते
न्यायसुधा:
पृथग् लोकवैलक्षण्येन, सादरं तात्पर्येण, दृष्टवैलोम्याद् दृष्टवैलोम्यमनादृत्य ।
अपरं वेदानुक्तं लोकविलक्षणं गुणजातं नैवाङ्गीकार्यम् ।
किन्तु वेदोक्तादणुत्वमहत्त्वयौगपद्यादेरन्यद्गुणजातम् ।
गुणा इत्यस्य प्रयोजनमुच्यते- दोषाभाव इति ॥
दोषाभावाश्च ये वेदैरुदिता अविहाय तान्
*11,339*
न्यायसुधा:
दोषाभावाश्च ये वेदैरुदिता अविहाय तान्
अनुक्ता अपिच ग्राह्या महातात्पर्यशक्तितः ।
एवं बृहत्संहितावाक् सिद्धान्तो हि तदीरितः
न्यायसुधा:
चस्त्वर्थः ।
लोकविलक्षणा अविलक्षणाश्चेति शेषः ।
महातात्पर्यशक्तित सति ॥
सर्वथापि दोषो भगवति नास्तीत्यत्र सामान्यतः सर्वशास्त्राणां तात्पर्यस्य निर्णीतत्वादित्यर्थः ।
वेदानुक्तस्याप्रामाणिकार्थस्य ग्रहणमयुक्तमित्याशङ्कामनेन निराचष्टे ।
विशेषतो ऽनुक्तावपि सामान्यतः सिद्धेरिति भावः ।
तत् तस्मादीरितो ऽर्थः सिद्धान्तः प्रामाणिकः ।
यद्वा बृहत्संहितेरितो ऽर्थो हि सिद्धान्त इति तत्र बहुमानमुत्पादयति ।
*11,340*
एवं भक्तेरेव मोक्षसाधनत्वमुपपादितम् ।
भक्तिश्च केवलं भगवद्विषयैवेति प्रतीतिमपाकर्तुमाह- तारतम्येनेति ॥
तारतम्येन तद्भक्तेष्वपि भक्तिर्विनिश्चयात् ।
कर्तव्या ... ॥ मनुव्_3,4.223अ-च् ॥
न्यायसुधा:
न केवलं विष्णौ किन्तु तद्भक्तेषु रमादिष्वपि, विनिश्चयात् सर्वथा, सा च क्रियमाणा तारतम्येनैव ।
कुत इत्यत आह- एषापीति ॥
... एषापि तद्भक्तिर् ...
न्यायसुधा:
यतस्तद्भक्तेषु क्रियमाणैषापि भगवद्भक्तिरेवातस्तद्विषये ऽपि भक्तिः कर्तव्या ।
एतदुक्तं भवति ।
विष्णुभक्तिस्तावत्कर्तव्येत्युपपादितम् ।
सा च तद्भक्तभक्त्यैव साङ्गा नान्यथेति ।
एतदपि कुत इत्यत आह- लोकेति ॥
... लोकवेदानुसारतः
*11,341*
न्यायसुधा:
लोकशब्देन लेकसिद्धव्याप्तिमदनुमानमुच्यते ।
वेदशब्देनागममात्रम् ।
लोकानुसारितां दर्शयति- यो हीति ॥
यो हि भक्तः प्रधाने स्यात् तदीयेष्वपि भक्तिमान् ।
दृश्यते ऽसौ नियमतो विपरीतो विपर्यये
न्यायसुधा:
प्रधाने राजादौ ।
विपर्यये तदीयभक्तिराहित्ये ।
विपरीतः प्रधानभक्तिरहितः ।
नियमेन दृश्यते ।
अनेनान्वयव्यतिरेकावुक्तौ ।
तथा चायं प्रयोगः ।
विमतो भगवद्भक्तभक्तिमान्भवेत् भगवद्भक्त्या पुरुषार्थभाक्त्वात् ।
यो यद्भक्त्या पुरुषाथर्भाग्यथा सम्मत इति ।
ननु दैत्यादयो ब्रह्मादिषु भक्तिमन्तो ऽपि तद्भक्तेष्विन्द्रादिषु भक्तिरहिता दृश्यन्ते ।
ततो व्यभिचार इत्यत आह- व्यभिचार इति ॥
व्यभिचारो यदि क्वापि भक्तिह्रासो ऽत्र कल्प्यते
*11,342*
न्यायसुधा:
यदि क्वापि परेण व्यभिचारश्चोद्यते तदास्माभिरत्र पुरुषे भक्तिह्रासः कल्प्यते विफलभक्तित्वमुच्यते ।
तथाच विपक्षे विशिष्यस्य हेतोरभावान्न व्यभिचार इत्यर्थः ।
कुत एवं कल्प्यत इत्यत आह- भक्तीति ॥
भक्तिदोषो ह्यसौ यन्न तद्भक्तेष्वपि भक्तिमान्
न्यायसुधा:
तद्भक्तेष्वपि भक्तिमान्नेति यदसौ प्रधानभक्तेरेव दोषो हि ।
तेन प्रधानभक्तिरेव दुष्या न फलायालमिति प्रसिद्धम् ।
हिरण्यगर्भादिभिर्दैत्यादिभ्यो ऽमरत्वादिकं सच्छलमेव दीयते मृषा न भवतीति पुराणेषु सुप्रसिद्धमेवेति ।
वेदानुसारित्वं तूत्तरत्र प्रदर्शयिष्यते ।
तद्भक्तभक्तिः कर्तव्येत्येतदनुमानेनोपपाद्य सा च तारतम्येन कार्येत्येतदनुमानेन साधयति- तारतम्येनेति ॥
तारतम्येन तेष्वद्धा भक्तिर्दृष्टानुसारतः ।
विष्णुप्रसादानुसारात् कार्या दोषस्तदन्यथा
*11,343*
न्यायसुधा:
तेषु तद्भक्तेषु क्रियमाणा भक्तिरद्धा सर्वथा तारतम्येन कार्या ।
कुतः दृष्टानुसरतः ।
तारतम्येनेत्यस्यैव विवरणं विष्णुप्रसादानुसारादिति ।
यस्मिन्नधिको विष्णुप्रसादस्तस्मिन्नधिकेत्यादि ।
तदन्यथा साम्येन वैपरीत्येन च करणे ऽनर्थो भवति ।
दृष्टानुसारत इत्युक्तं दर्शयति- स्वेति ॥
स्वप्रीत्यनुसृतौ प्रीतिर्लोके ऽप्यद्धैव दृश्यते
न्यायसुधा:
अत्र स्वशब्देन राजादिः कथ्यते ।
तत्प्रीत्यनुसारेण तस्य यस्मिन्यथा प्रीतिस्तदनुसारेण भक्तिकरणे सति तस्मिन्भक्ते तस्य राजादेः प्रीतिरद्धा नियमेनैव दृश्यते ।
अयमत्र प्रयोगः ।
ईश्वरः स्वप्रीत्यनुसारेण स्वभक्तेषु भक्तेः प्रसीदति ।
प्रेक्षावत्पुरुषत्वाद्राजवदिति ।
अनेन प्रमेयान्तरमपि सिद्धमित्याह- तारतम्येति ॥
तारतम्यपरिज्ञानमप्येतेनैव साधनम्
न्यायसुधा:
एतेनैव भगवद्भक्तेषु रमाब्रह्मादिषु तारतम्येनैव मुक्तिः करणीयेति समर्थितेनैव देवतातारतम्यपरिज्ञानं यत्प्रागुक्तं तदपि मोक्षस्य साधनमिति सिद्धम् ।
न ह्यविदिते तारतम्ये तारतम्यानुरोधेन मुक्तिकरणं सम्भवति ।
अनेनैव प्रकारेणानुमानसम्भवादिति वातिदेशार्थः ।
*11,344*
भगवत्प्रसादतारतम्यानुसारेण तदीयेषु मुक्तिः कार्येत्यत्रागममप्याह- लक्ष्मीति ॥
लक्ष्मीविरिञ्चवाणीशगिरिजेन्द्राङ्गिरस्सुताः ।
सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः
तेषु भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः
न्यायसुधा:
तेन भगवत्प्रीतिक्रमेणैव ।
तिष्ठतु क्रमस्तेषु भक्तिकरणमेव कुतः ।
भगवत्प्रीतिगोचरत्वादेव ।
कारणान्तरं चोच्यते- सर्वे ऽपीति ॥
सर्वे ऽपि गुरवश्चैते पुरुषस्य सदैव हि
तस्मात् पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम् ।
इति षाड्गुण्यवचनादप्येषो ऽर्थो ऽवसीयते
हरिभक्तिः क्रमेणैव तदीयेषु हरिस्मृतिः ।
हरिस्तुतिस्तत्स्मृतिश्च तत्स्तुतिर्हरिपूजनम्
तत्पूजाविहितत्याग इति मुक्तेः क्रमेण हि ।
नियमात् साधनान्येव नित्यसाध्यानि चाखिलैः
इति प्रवृत्तवचनं साधनस्य विनिर्णये
न्यायसुधा:
गुरुत्वं विद्याप्रवर्तकत्वेन प्रसिद्धमेव ।
पूज्याश्चेत्यादिना भक्तेरेव प्रपञ्चनं हरिं परितो न तु पृथक् ।
वेदानुसारत इति यदुक्तं तदप्यनेन दशिर्तं भवति ।
क्रमेणैव तयीयेषु भक्तिस्तत्स्मृतिरित्यादौ तच्छब्देन तदीया उच्यन्ते ।
क्रमेणैवेति सर्वत्र सम्बद्धयते ।
क्रमेणेति हरिविषयाणि भक्त्यादीनि मुख्यसाधनानि तदीयविषयाणि त्वमुख्यसाधनानीत्यर्थः ।
मुक्तिसाधनत्वादखिलैर्मुमुक्षुभिर्नित्यसाध्यानि ।
साधनस्य विनिर्णय इति साधनविनिर्णयाख्ये ऽवान्तरप्रकरणे ऽस्तीत्यर्थः ।
एतदेव विवृणोति- प्रवृत्त इति ॥
प्रवृत्ते पञ्चरात्रे हि साधनस्य विनिर्णयः
*11,345*
न्यायसुधा:
पञ्चरात्रे प्रवृत्तं नामावान्तरो ग्रन्थः ।
तत्रापि साधनस्य विनिर्णयो नाम प्रकरणमस्तीत्यर्थः ।
उक्तार्थेष्वनुमानान्तराण्याह- हरीति ॥
*11,346*
हरिद्वेषो न शुभद ;सद्द्वेषत्वाद् यथा गुरोः ।
क्रमाद् भक्तिर्हरिप्रीतिकारणं तत्प्रियौपगा ।
भक्तिर्यतो यथा स्वस्मिन्नित्याद्या युक्तिरत्र च
न्यायसुधा:
सद्द्वेषत्वात् उत्तमपुरुषद्वेषत्वात् ।
वैष्णवैर्दैत्यादिषु क्रियमाणे द्वेषे व्यभिचारं वारयितुं सदित्युक्तम् ।
गुरोर्द्वेषः ।
प्राग्द्वेषस्य भगवत्प्रसादसाधनत्वाभावे सामान्यव्याप्तिमाश्रित्य भगवद्द्वेषत्वं हेतुरुक्तः, अत्र तु शुभमात्रसाधनत्वाभावे विशेषव्याप्तिमेवाश्रित्य सद्द्वेषत्वमिति महान्भेदः ।
क्रमाद्भक्तिरिति ।
क्रममनुसृत्य रमादिषु भक्तिर्धर्मिणीत्यर्थः ।
तत्प्रियोपगा भक्तिर्यत इति ।
हरिप्रियविषयभक्तित्वादित्यर्थः ।
तत्प्रियानुगच्छति विषयीकरोतीति तत्प्रियोपगा ।
या यत्प्रियविषया भक्तिः सा तत्प्रीतिकारणात् ।
यथा स्वस्मिन्भक्तिः ।
अत्र स्वशब्देन देवदत्त उच्यते ।
यथा राजप्रिये देवदत्ते भक्ती राजप्रीतिकारणमित्यर्थः ।
इह क्रमादिति प्रतिज्ञायां विशेषणप्रक्षेपेण भगवद्भक्तभक्तेः कर्तव्यत्वं तत्तारतम्यस्य चावश्यकत्वं सिद्धयति ।
यद्वानेन प्रयोगद्वयं सूचयति ।
भागवतभक्तिर्भगवत्प्रीतिकारणं भगवत्प्रियभक्तित्वादिति ।
भगवान्रामादिषु तारतम्योपेतभक्त्यैव प्रसीदति ।
तारतम्येनैव तद्विषयप्रीतिमत्त्वादिति च ।
युक्तिश्चेति सम्बन्धः ।
अत्र प्रागुक्ते ऽर्थे ।
किं सामान्यव्याप्त्या, विशेषव्याप्तिरप्यस्तीत्याशयेन प्रयोगान्तरमुच्यते- प्राधान्येति ॥
प्राधान्यतारतम्यानुसारिणी भक्तिरुत्तमा ।
प्रीतिदैव हरेर्यस्माद् भक्तिः सा स्वोपगा यथा
इति वा ...
न्यायसुधा:
उत्तमत्वतारतम्यानुसारिणी रमादिषु भक्तिर्हरेः प्रीतिदैव ।
यस्मात्सोत्तमा भक्तिः ।
शास्त्रविहितभक्तित्वादित्यर्थः ।
स्वोपगा सा विष्णुविषया भक्तिर्यथेत्यर्थः ।
इति वा अनुमातव्यमिति शेषः ।
अत्रापि पूर्ववद्विशिष्यसाधात्पृथक्प्रयोगद्वयेन वा साध्यद्वयसिद्धिः ।
॥ इति उभयलिङ्गाधिकारिकाधिकरणे ॥
*11,348*
[======= ज्न्य्स्_3,4.इव्: फलश्रुत्यधिकरण =======]
॥ अथ फलश्रुत्यधिकरणम् ॥
॥ ओं स्वामिनः फलश्रुतेरित्यात्रेयः ओं ॥
ज्ञानं महाफलकारणमिति पुरुषार्थाधिकरणे प्रतिपादितम् ।
ज्ञानोत्तरमनुष्ठितं वर्णाश्रमकर्म शमदमादिकं चानन्दातिशयकारणमिति स्तुत्यधिकरणे ।
तदेतज्ज्ञानकर्मादिफलं किं प्रेरकत्वाद्देवानां भवति उत कर्तृत्वाद्देवदत्तस्येति संशये प्रथमसूत्रेण देवानामेवेति पूर्वपक्षयित्वा ।
"आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियतेऽ; इत्येकदेशिमतेन सिद्धान्तमभिधाय"सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्ऽ; इति परमसिद्धान्तो ऽभिहितः ।
तत्र देवानां ज्ञानादिफलमिति पूर्वपक्षांशो ग्राह्य एव ।
अवधारणमात्रमेव त्याज्यम् ।
अतः पूर्वपक्षसूत्रार्थं विवृणोति- ज्ञानेति ॥
स्वामिनः फलश्रुतेर् इत्य् आत्रेयः
... ज्ञानकर्मादिफलं चैषु क्रमोपगम्
न्यायसुधा:
फलं च देवानां भवतीति शेषः ।
भवच्चैषु देवेषु क्रमोपगं क्रमेणैवोपगच्छति ।
*11,349*
देवदत्तेनानुष्ठितस्य ज्ञानादेः फलं देवानां भवतीत्येका प्रतिज्ञा ।
भवच्च तत्क्रमेणैव न तु साम्येन वैपरीत्येन वेति द्वितीया ।
तत्राद्यायां हेतुं सूचयन्द्वितीयमुपपादयति- स्वातन्त्र्येति ॥
स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत्
न्यायसुधा:
फलिनां फलभाजां, स्वातन्त्र्यतारतम्येन स्वाम्यतारतम्यानुसारेणैव हि फलेन भाव्यम् ।
नतु साम्येन वैपरीत्येन वेत्यर्थः ।
ब्रह्मादयस्तारतम्येनैव फलवन्तस्तत्र तारतम्येनैव स्वातन्त्र्यादित्युक्तं भवत ।
अनेन प्रथमप्रतिज्ञायां स्वातन्त्र्यहेतुः सूचितो भवति यः सूत्रे स्वामिपदेनोक्तः ।
यद्यपि फलप्राप्तौ तारतम्यं न सूत्रितम् ।
तथापि फलप्राप्तावुक्तस्य स्वामित्वहेतोः सामर्थ्येन प्राप्तमिति तदप्युपपादितम् ।
यदि स्वातन्त्र्याद्देवदत्तानुष्ठितज्ञानादिफलं देवानां स्यात्तर्हि तदनुष्ठितमिथ्याज्ञानादिफलमपि प्रसज्येताविशेषादित्यत आह- अशुभं त्विति ॥
*11,350*
अशुभं त्वशुभे ऽप्येषां स्वातन्त्र्यात् प्रीतितो हरेः ।
आज्ञया चान्यगं नैव भोगाय भवति क्वचित्
न्यायसुधा:
अन्यगमशुभं त्वेषां देवानां क्वचिदपि भोगाय न भवति ।
कुतः ।
हरेः प्रीतितो ऽशुभे ऽप्येषां स्वातन्त्र्याद्भगवत्प्रसादेन मैतदस्मान्प्रापदिति निवारणे तेषां सामर्थ्यसद्भावात् ।
मैतदेतान्प्रापदिति हरेरेवाज्ञया च ।
अन्यगमिति वदता स्वगतं तु भवतीति सूचितम् ।
अनेनासति निवारणकारण इति स्वामित्वहेतुर्विशेषितो भवति ।
यदुक्तमविशेषादिति तदसिद्धम् ।
व्यवस्थापकश्रुतिसद्भावादित्याह- पुण्यमेवेति ॥
पुण्यमेवामुमापानोति न देवान् पापमाप्नुयात् ।
इत्यादिश्रुतयो मानमुक्ते ऽर्थे ... ॥ मनुव्_3,4.238अ-द् ॥
न्यायसुधा:
अनेन"पुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छतिऽ; इति श्रुतिमुपादत्ते ।
अमुं सप्तान्नविद्योपासनेन प्रेरकतया परपुरप्रवेशिनं परकृतं पुण्यमेवाप्नोति न पापम् ।
कुतः ।
देवो ह्यसौ जातो ।
नहि देवान्प्राप्नोतीत्यर्थः ।
उक्ते ऽर्थे शुभमेव भवति नाशुभमित्यर्थे ।
*11,351*
व्यवस्थापकान्तरमाह- युक्तय इति ॥
... युक्तयो ऽपराः
न्यायसुधा:
अपराः पूर्वोक्ताभ्याम् ।
उक्ते ऽर्थे मानमिति सम्बन्धः ।
कास्ता युक्तय इत्यतस्ता दर्शयितुमागमवाक्यं पठति- उपसनेति ॥
उपासनाधर्मफलं यतो देहान्तरे स्थितिः ।
वासुदेवाज्ञया चैव पूर्वकर्मानुसारतः
प्रेरयन्ति हि ते जीवान् पुण्यपापेषु नित्यशः ।
अरागद्वेषतश्चैव कथं दोषानवाप्नुयुः
हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते ।
हरिपूजेति चोद्देशात् कथं न शुभमाप्नुयुः
न्यायसुधा:
यतः कारणाद्देहान्तरे स्थितिः, परपुरं प्रविश्य तत्र पुण्यपापप्रेरणं, देवानां भगवदुपासनाजनितधर्मफलम् ।
अतः कथं पापादिकं प्रेरयन्तो ऽपि दोषानवाप्नुयुः ।
नहि सात्त्विको धर्मो दुःखपर्यवसायी ।
तत्त्वव्याघातादित्यर्थः ।
परपुरे देवानां पापादिप्रेरणं न दुःखहेतुः ।
सात्त्विकधर्मफलत्वात्तत्त्वज्ञानवदित्युक्तं भवति ।
किञ्च ते देवा वासुदेवाज्ञयैव न तु स्वेच्छया तत्तत्कृतपूर्वकर्मानुसारत एव ।
अत एवारागद्वेषतो रागद्वेषौ विनैव नित्यशो जीवान्पुण्यपापेषु प्रेरयन्ति हि यस्मात्तस्मात्कथं दोषानवाप्नुयुः ।
प्रभोराज्ञयापराधानुसारेण चोरशासकराजपुरुषवदिति भावः ।
पापादिप्रेरणेन देवानामशुभं न भवतीत्येव केवलं न, किन्तु हर्याज्ञानुष्ठानाज्ज्योतिष्योमाद्यनुष्ठातृभिरिवैभिर्देवैः पुण्यमेवाप्यते ।
किञ्च स्वविहितपरप्रेरणे हरिपूजेयमिति चोद्देशात्कथं देवा न शुभमापनुयुः ।
अत इत्युपसंहारः ।
*11,352*
अतो यथाक्रमं धर्मज्ञानयोः फलमञ्जसा ।
सर्वप्राणिगतं देवाः प्राप्नुवन्त्या विरिञ्चतः
न्यायसुधा:
धर्मज्ञानयोरेवेति योज्यम् ।
प्राप्नुवन्तो ऽप्याविरिञ्चतो यथाक्रमं प्राप्नुवन्तीत्यपूर्वोक्तिर्नोपसंहारः ।
अन्यगतं ज्ञानादिफलं देवाः प्राप्नुवन्ति ।
देवगतं तु कथमित्यपेक्षायामुक्तम्- देवा इति ॥
देवा एव हि देवानां विशिष्टा विनियामकाः
न्यायसुधा:
देवानामपकृष्टानाम् ।
अतस्तदीयज्ञानादिफलं तेषां भवतीति शेषः ।
ब्रह्मा त्विति आविरिञ्चत इत्युक्तस्य विवरणम् ।
ब्रह्मा त्वखिलदेवानां नराणां च नियामकः ।
अतः सर्वगुणानेष प्रापनोत्यधिकमन्यतः ॥ मनुव्_3,4.243च्-f ॥
न्यायसुधा:
देवादिग्रहणमुपलक्षणम् ।
अधिकमिति क्रियाविशेषणम् ।
भवत्वन्यगतज्ञानादिफलप्राप्तिर्देवानाम् ।
तत्रापि तारतम्ये को हेतुरित्यत उक्तम्- द्रव्येति ॥
द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नैरधिकं फलम् ।
देवानामन्यगं चापि तेषु यद् ब्रह्मणो ऽधिकम्
बृहत्तन्त्रोदितं वाक्यं हरिणा फलनिर्णये
न्यायसुधा:
द्रव्याणीन्द्रियादीनि तेषु स्वातन्त्र्यं द्रव्यस्वातन्त्र्यं विज्ञानप्रयत्नौ धर्माद्युत्पाननिमित्ते ।
अधिकैरिति शेषः ।
चशब्दो ऽनुक्तसमुच्चयार्थः ।
मध्यमैर्द्रव्यस्वातन्त्र्यादिभिर्मध्यमम् ।
अल्पैरल्पमिति ।
तेष्वपि देवेषु निरवधिकद्रव्यस्वातन्त्र्यमत्त्वादिति हिशब्दार्थः ।
फलनिर्णय इति तत्रापि प्रकरणविशेषोक्तिः ।
द्रव्यस्वातन्त्र्याद्यतिशयात्फलातिशय इत्युक्तस्य व्याप्तिं दर्शयति- लोके ऽपीति ॥
लोके ऽप्येतादृशगुणैः फलाधिक्यं हि दृश्यते
न्यायसुधा:
एतादृशगुणैरित्यधिकैर्द्रव्यस्वातन्त्र्यादिभिः समुदितायां कृषौ, यस्याधिकं क्षेत्रादिद्रव्यस्वातन्त्र्यं, यस्य चाऽवापादौ ज्ञानप्रयत्नाधिक्यं तस्य फलाधिक्यं दृश्यत इत्यर्थः ।
एवं मध्यल्पयोरप्युदाहतर्व्यम् ।
अनेन स्वातन्त्र्यतारतम्येनेत्युक्तमुपपादितं भवति ।
*11,354*
प्रसङ्गात्पापादिफलं प्रेरकाणामसुराणां तारतम्येन भवतीत्याह- एवञ्चेति ॥
एवञ्च कलिपूर्वाणामसुराणां महत् फलम् ।
अशुभेषु सदैव स्यान्मिथ्याज्ञानादिकेषु हि
न्यायसुधा:
महाप्रेरकाणां महदित्यादीत्यर्थः ।
अशुभेष्वशुभनिमित्तम् ।
हिशब्देन स्वातन्त्र्यं हेतुमाह ।
एवमिति देवदृष्टान्तम् ।
असुराणां चेति सम्बन्धः ।
*11,355*
प्रागुक्ते ऽर्थे ऽत्र च प्रमाणान्तरमाह- शुभेति ॥
शुभाशुभफलं देवा असुराश्च समाप्नुयुः ।
क्रमेणैव यथाशक्ति यथा ये ये प्रयोजकाः
प्रेरका अपि पापानां न देवाः पापमाप्नुयुः ।
इति प्रकाशिकायां हि प्रोवाच हरिरञ्जसा
न्यायसुधा:
यथासङ्खयेन शुभाशुभफलम् ।
यथाशक्तीति क्रमेणैवेत्यत्र युक्तिः ।
तस्य विवरणं ये ये यथा प्रयोजकास्तथा तथेति ।
प्रेरका इत्यस्य पूर्ववच्छङ्कापरिहारश्च ।
*11,356*
॥ ओं आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ओं ॥
ओं सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ओं ॥
एवं प्रपञ्चेन पूर्वपक्षमुक्त्वा सिद्धान्तसूत्रतात्पर्यमागमवाक्येनाह- यद्यपीति ।
आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्
यद्यप्येवं सुराणां च दैत्यानां च महत् फलम् ।
शुभाशुभेभ्य एवञ्च कर्तुश्च स्याद् यथोदितम्
न्यायसुधा:
एवमुक्तप्रकारेण यद्यपि शुभाशुभेभ्यो ज्ञानादिभ्यो भवत्फलं सुराणां च दैत्यानां च भवतीत्युपपादितम् ।
एवंच तथापि कर्तुर्देवदत्तादेरपि फलं स्यादेव ।
आगमे ऽप्यस्यार्थस्य प्रकृतत्वाद्यद्यपीत्यादि युज्यते ।
एतदुक्तं भवति ।
देवासुराणां शुभाशुभफलमित्येतावदभ्युपगम्यते प्रमितत्वात् ।
तेषामेवेति तु न क्षम्यते ।
किन्तु कर्तुरपि भवतीति ।
कर्तुः फलाङ्गीकारे यदु किञ्चेमाः प्रजा इति सावधारणश्रुतिविरोध आत्रेयवचनविरोधश्च स्यादित्यत उक्तम्- महदिति ॥
देवादीनां महत्फलं कर्तुस्त्वल्पम् ।
अल्पस्य चसत्त्वविवक्षा बहुलमुपलब्धेति भावः ।
कुतः कर्तुः फलाङ्गीकार इत्यत आह- यथोदितमित ॥
श्रुतिस्मृतिसद्भावादित्यर्थः ।
ताश्च भाष्यादावुदाहृता द्रष्टव्याः ।
*11,357*
युक्तमप्याह- तस्मादिति ॥
तस्मान्निरयमानुष्यस्वर्गमुक्त्युपभोगिनः ।
मानुषोत्तममारभ्य ... ॥ मनुव्_3,4.250अ-च् ॥
न्यायसुधा:
कर्तुः शुभाशुभफलसद्भावादेव मानुषोत्तममारभ्य देवपर्यन्ता दैत्यपर्यन्ताश्च निरयाद्युपभोगिन इति युज्यते नान्यथेत्यर्थः ।
उक्तस्यापवादमाह- देवास्त्विति ॥
... देवास्तु निरयं विना
असुरास्तु विना मुक्तिं तमो ऽन्धमपि चाप्नुयुः ।
इति तत्त्वविवेकोक्तं स्वयं भगवता वचः
न्यायसुधा:
अन्यफलोपभोगिनः ।
न केवलमसुराणां मुक्त्यभावः किन्त्वन्धन्तमो ऽपि चाप्नुयुः ।
एतदुक्तं भवति ।
मनुष्योत्तमास्तावन्निरयमानुष्यस्वर्गमुक्तीः प्राप्नुवन्ति ।
देवाश्च मानुष्यस्वर्गमुक्तीः ।
असुराश्च स्वर्गमानुष्यनिरयान्धतमसानि ।
नच निरयादीनि निर्निमित्तानि ।
नच स्वकृतपापादीनि विना निमित्तमस्ति ।
तस्मात्कर्तुरप्यस्ति शुभाशुभफलप्राप्तिरिसित ज्ञायते ।
अन्यथा निरयाद्यभावप्रसङ्गात् ।
नच वाच्यं सुरासुराणां कर्तृत्वप्रयुक्तफलाभावे ऽपि प्रेरणनिमित्तफलसद्भावान्मुक्त्याद्युपपत्तिरिति ।
देवानां मानुष्यप्राप्तेरयोगात् ।
दैत्यानां स्वर्गादिपाप्तेरनुपपत्तेः ।
सर्वथा मनुष्याणां निरयादिप्राप्तेरसम्भवादिति ।
तदिदमुक्तं मानुषोत्तममारभ्येति, मनुष्योत्तमानामादित्वोक्त्या निरयाद्यनेकफलोक्त्या च ।
वचो ऽस्तीति शेषः ।
॥ इति फलश्रुत्यधिकरणम् ॥
*11,359*
[======= ज्न्य्स्_3,4.व्: अनाविष्काराधिकरण =======]
॥ अथ अनाविष्काराधिकरणम् ॥
॥ ओं अनाविष्कुर्वन्नन्वयात् ओं ॥
ज्ञानदानं किमाविष्कारेण कार्यमुतानाविष्कारेणेति संशये पूर्ववदत्रापि पूर्वपक्षमत्यन्तहेयत्वाभावात्प्रपञ्चेनांह- ज्ञानदा अपीति ॥
अनाविष्कुर्वन्न् अन्वयात्
ज्ञानदा अपिचाचार्या विशेषात् फलमाप्नुयुः
न्यायसुधा:
न केवलं शिष्याः किन्तु ज्ञानदा आचार्या अपि ज्ञानफलमाप्नुयुः ।
तच्च विशेषाच्छिष्यादप्यतिशयेन ।
आचार्या इत्येनेनैव सिद्धे ज्ञानदा इति वचनं ज्ञानदानेनेति ज्ञापनार्थम् ।
चशब्दः परमाचार्यादिसङ्ग्रहः ।
कुत एतदित्यत आह0- मुक्ताविति ॥
मुक्तावष्टगुणं शिष्याद् गुरुरापनोति शोभनम्
तद्गुरुर्द्विगुणं तस्मात् सार्धं तावत् ततो ऽपरे ।
देवाः सहस्रगुणितं क्रमात् तस्माद् यथोत्तरम्
ब्रह्मा महौघगुणितमेवं फलविनिर्णयः ।
इत्याह भगवाञ्छास्त्रे गुरुवृत्ताभिधे स्वयम् ॥ मनुव्_3,4.254अ-द् ॥
न्यायसुधा:
शिष्यात् शिष्यस्य यच्छ्रवणफलं ततो ऽष्यगुणं गुरुर्ज्ञानदानेनाप्नोति ।
तद्गुरुर्गुरोर्गुरुस्माद्गुरुफलाद्द्विगुणठ फलमाप्नोति ।
सन्तानकारणत्वात् ।
ततः परमगुरोरपरे गुरवः स्वशिष्यफलापेक्षया सार्धं तावत् अध्यर्धं फलमापनुवन्ति ।
यथोत्तरं तस्मात्क्रमादित्यध्यर्धप्राप्तिक्रमाद्देवाज्ञानप्रवर्तकत्वात्सहस्रगुणितम् ।
यथोत्तरं तस्मात्क्रमादिति ब्रह्मा महौघगुणितमित्यनेनापि सम्बद्धयते ।
सहस्रमहौघशब्दावुपलक्षणार्थौ ।
परम्पराया अनियतत्वात् ।
आगमसिद्धे ऽत्रार्थे युक्तिरप्यस्तीत्याह- युक्तं च तदिति ॥
युक्तं च तन् ...
न्यायसुधा:
प्रतिग्रहीतुः शिष्यस्य ज्ञानफलादप्याचार्यस्य ज्ञानदानफलमधिकमित्येतद्युक्तिसिद्धं च ।
तां युक्तिं सूचयति- नेति ॥
*11,360*
... न गोदाता गोमात्रफलमाप्नुयात्
न्यायसुधा:
प्रतिग्रहीतुर्हि गोमात्रफलम् ।
गोदाता न गोमात्रफलवान्भवति ।
किन्तु महाफलं स्वर्गादिकं च प्राप्नोति ।
यथैतत्तथा प्रकृते ऽपीत्यर्थः ।
अयमत्र प्रयोगः ।
ज्ञानदाता दत्तवस्तुफलादप्यधिकदानफलवान्पुरुषार्थहेतुवस्तुदातृत्वाद्गोदातृवदिति ।
ज्ञानफलादप्याचार्यस्य ज्ञानदानफलमधिकामित्यत्र भगवद्गीतासंवादमाह- य इममिति ॥
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ।
इत्याह भगवान् ... ॥ मनुव्_3,4.256अ-ए ॥
न्यायसुधा:
अध्येष्यत इत्युत्तरवाक्यमत्र पठनीयम् ।
यत एवं ज्ञानदानं तत्सम्प्रदायप्रवर्तनं च महाफलम् ।
अतो बहूनां ग्रहणायाविष्कारेण ज्ञानदानं कार्यमिति प्राप्ते सिद्धान्तमाह- एवमपीति ॥
... एवमपि ...
न्यायसुधा:
सत्यं ज्ञानदानमुक्तप्रकारेण महाफलम् ।
तथापि नाविष्कारेण कार्यं कुत इत्यत आह- पात्रमिति ॥
... पात्रमपेक्ष्यते
न्यायसुधा:
दानफलेनेति शेषः ।
पात्रे क्रियमाणं खलु दानं फलायालम् ।
नापात्रे ।
प्रत्युत प्रत्यवायस्यैव हेतुः ।
आविष्कारेण ज्ञानदाने चायोग्यानामपि तत्प्राप्तिर्भवति ।
सा च प्रतिषिद्धेति भावः ।
॥ इति अनाविष्काराधिकरणम् ॥
*11,365*
[======= ज्न्य्स्_3,4.वि: ऐहिकाधिकरणमुक्तिफलाधिकरण =======]
॥ अथ ऐहिकाधिकरणमुक्तिफलाधिकरणे ॥
॥ ओं ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ओं ॥
ओं एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ओं ॥
अधिकरणद्वयस्य तात्पर्यं सङ्क्षेपेणाह- एवमेवेति ॥
ऐहिकम् अप्य् अप्रस्तुतप्रतिबन्धे तद्दर्शनात्
एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः
एवमेवाविरोधेन प्रारब्धस्यैव कर्मणः ।
ज्ञानं दृष्टफलं प्रोक्तं मुक्तिश्चेहैव लभ्यते
मूल पाठ: Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0