भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसुधा · अध्याय 4.1

4.1.1

न्यायसुधा:
प्रारब्धस्य कर्मणो ऽविरोधेनैव ज्ञानं दृष्टफलं प्रोक्तमिति प्रथमाधिकरणतात्पर्यम् ।
दृष्टं च तत्फलं चेति दृष्टफलम् श्रवणादिसम्पूर्त्यनन्तरमेव ज्ञानमुत्पद्यते ।
यदि प्रारब्धकमर्प्रतिबन्धकं नास्ति ।
तस्मिंस्तु सति तदवसान इति ।
एवमेव मुक्तिश्चैवेह लभ्यत इति द्वितीयस्य ।
यस्मिन्देहे ज्ञानमुत्पन्नं तत्पातानन्तरमेव मुक्तिर्लभ्यते प्रारब्धकर्मप्रतिब(न्धाभावे)न्धकाभावे तद्भावे तु तदवसान इति ।
॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयाध्याये ऽस्मिंश्चरमचरणः पर्यवसितः ॥
॥ इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य चतुर्थः पादः ॥
अध्यय 4, पद 1
॥ अथ श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य प्रथमपादः ॥
[======= ज्न्य्स्_4,1.इ: आवृत्यधिकरणम् =======]
*12,1*
यदीयचरणाम्भोजच्छायामाश्रित्य निर्वृताः ।
नन्दन्ति सततं मुक्ताः संश्रये तं श्रियः पतिम् ॥ 1 ॥
फलं निगद्यते ऽस्मिन्नध्याय इति भाष्यम् ।
फलनिरूपणस्येदानीं का सङ्गतिरित्यत आह- समन्वयेति ॥
समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने ।
विचारितेष्वशेषेषु साधनेषु विशेषतः

4.1.1

नित्यशः कार्यमत्यन्तमवश्यं भावि साधनम् ।
चिन्त्यते प्रथमं तत्र ... ॥ मनुव्_4,1.2अ-च् ॥
न्यायसुधा:
समन्वयाविरोधाभ्यां प्रथमद्वितीयाध्यायप्रतिपादिताभ्यां, परब्रह्मादिरूपे वस्तुनि सिद्धे सति, साधने साधनविषये तृतीयाध्याये, अशेषेषु मोक्षसाधनेषु, विचारितेषु सत्सु, फलप्रतिपादनस्यावसरप्राप्तिः ।
जिज्ञासितेष्वर्थेष्वन्येषां विचारितत्वादस्यैवावशिष्टत्वात् ।
अतो मोक्षलक्षणं फलमात्राध्याये निगद्यते इति वाक्यशेषः ।
*12,1f.*
पादचतुष्ययप्रतिपाद्यं सङ्गतिं च लाघवायैकत्रैव वक्ष्यति ।
ततश्च फलविषये ऽस्मिन्नध्याये कर्मनाशाख्यं फलं प्रथमपादे निगद्यत इत्युक्तं भवति ।
तस्यापवादमाह- विशेषत इति ॥
तत्र(अत्र) चतुर्थस्य प्रथमपादे, प्रथमं कैश्चित्सूत्रैः साधनमेव चिन्त्यते ।
कथम् ।
विशेषतः परमादरेण, नित्यशो नैरन्तर्येण च कार्यमिति ।
कुतः ।
यतो मोक्षसिद्धावत्यन्तमवश्यंभावि ।
*12,2*
इदमुक्तं भवति ।
तृतीये अध्याये यानि साधनानि विचारितानि तेष्वेव केषाञ्चित्परमादरनैरन्तर्याभ्यामनुष्ठेयत्वमत्रादौ प्रतिपाद्यते ।
तथानुष्ठान एव मोक्षस्य भावादन्यथाभावात् ।
एतज्ज्ञापना(यैव)य तृतीये इदमनुक्तवात्रेदमुच्यते ।
तत्रानुक्तया हि ततो वैलक्षण्यं ज्ञायते ।
फललक्षणे चोक्त्या फलान्तरङ्गत्वम् ।
अध्यायादिव्यवस्था च प्रायिकत्वादुपपद्यत इति ।
*12,11*
॥ ओं आवृत्तिरसकृदुपदेशात् ओं ॥
अधिकरणोत्थानकारणं दर्शयति- श्रवणादीति ॥
आवृत्तिर् असकृदुपदेशात्

4.1.2

... श्रवणादिसकृत्क्रिया

4.1.3

आवृत्तिर्वेति सन्देहे ...

4.1.2

न्यायसुधा:
प्रथमं तत्रेति वर्तते ।
श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति दर्शनाथ श्रवणादिकं विधीयते ।
तस्य श्रवणादेर्ज्योतिष्योमादिवत्सकृत्क्रिया वा व्रीह्यावघातादिवदावृत्तिर्वेति सन्देहे सति ।
उपलक्षणमेतत् ।
सकृत्क्रियेति पूर्वपक्षे च सतीत्यपि ग्राह्यम् ।
इदमधिकरणमारभ्यत इति शेषः ।
पूर्वपक्षबीजं च न्यायविवरणे स्पष्टमवगन्तव्यम् ।
सूत्रं व्याख्याति- कर्तव्येति ॥
... कर्तव्याऽवृत्तिरेव हि ।
उपदेशो ऽतत् त्वमसीत्यादिर्ह्यसकृदेव यत् ॥ मनुव्_4,1.3ब्-द् ॥
*12,12*
न्यायसुधा:
श्रवणादीनामिति वर्तते ।
हिशब्दो तत्त्वमसीत्युपदेशस्य प्रसिद्धत्वं द्योतयति ।
यदि हि शिष्येणावृत्तिर्न कर्तव्या तदा गुरोरसकृदुपदेशो ऽनर्थकः स्यात् ।
तेन ज्ञायते कर्तव्या श्रवणावृत्तिरिति ।
*12,13*
अनेन श्रवणावृत्तेः कर्तव्यता सिद्धा ।
त्रयाणामप्यावृत्तिं साधयल्लिङ्गाच्चेति सूत्रं पठित्वा तदभिप्रेतानि लिङ्गान्यागमवाक्येनैव दर्शयति- लिङ्गादित्यादिना ॥
लिङ्गाच् च

4.1.4

लिङ्गाल्लातव्यतः पूर्वमृजोबर्रह्मत्वतः शतात् ।
शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः

4.1.5

सार्द्धं परार्द्धं विष्णोस्तु गुणान् भक्तया सदोद्यतः ।
तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः

4.1.6

न्यायसुधा:
लातव्य आदातव्यः शिष्यैरुपासितव्यः ।
तस्मात् ।
ब्रह्मत्वत इति षष्ठीबहुवचनान्तात्तसिः ।
ब्रह्मत्वानां शतात्पूर्वमिति ऋजोर्विशेषणम् ।
यस्यैतस्माद्ब्रह्मकल्पादारभ्य ब्रह्मकल्पानां शते गते ब्रह्मत्वं भविष्यति तस्मादिति यावत् ।
सार्धं परार्धमित्यत्यन्तसंयोगे द्वितीया ।
तत्त्रिभागं तस्य श्रवणकालस्य, तृतीयभागं कालम् ।
उपासां मनननिदिध्यासनरूपाम् ।
सम्भृतमानस इति उपासितव्य एवार्थे धृतचित्तः ।
*12,14*
दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः ।
पदयोग्यात् सुमनसः सुनन्दो नाम चाशृणोत् ।
उपासां चक्र उद्युक्तो मन्वन्तरचतुष्ययम्

4.1.7

सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ।
सुरूपः शान्तरूपश्च मन्वन्तरचतुष्ययम् ।
अशृण्वतां सुमनसो मन्वन्तरमुपासताम्

4.1.8

ततः प्रोक्तास्तु ते सर्वे भक्तयोग्रतपआदयः ।
अपश्यन् परमं विष्णुं तत्प्रसादेधिताः सदा ।
इत्युक्तं विष्णुना साक्षाद् ग्रन्थे सत्तत्वसञ्ज्ञिते

4.1.3

न्यायसुधा:
दश मन्वन्तराणि यस्मिन्काले स तथोक्तः ।
गरुत्मतः पदयोग्यादित ।
गरुत्मतो यत्पदं तत्र योग्यादित्यर्थः ।
सुतेजसावेव सुप्रज्ञावेव न तु मन्दौ ।
अशृण्वतां अशृणुताम् ।
व्यत्ययो बहुलमिति द्विविकरणता ।
सुमनस एव ।
मन्वन्तरं मन्वन्तरावच्छिन्नं कालम् ।
उपासतामुपासाताम् ।
छान्दसो वणर्विकारः ।
नन्वत्र श्रवणादिकालबाहुल्यमेव प्रतीयते ।
न पुनरावृत्तिः ।
श्रुतस्यैव वाक्यस्य पुनः श्रवणमित्यादिरूपा हि सेति ।
मैवम् ।
एकेन वाक्येनावगतस्य तत्त्वस्य पुनः पुनस्तेनान्येन अवगतिः श्रवणावृत्तिः ।
एवमेकया युक्तयानुसंहितस्य भूयो भूयः तयान्यथा वानुसन्धानं मननावृत्तिरित्यभिप्रेतत्वात् ।
नन्वेवं चेत्सर्ववेदान्तप्रत्ययमित्यनेनैव गतमेतत् ।
सत्यम् ।
तस्यैवात्यन्तावश्यकत्वप्रदर्शनाय पुनरारम्भ इत्युक्तमेव ।
एवमुत्तरत्रापि द्रष्टव्यम् ।
॥ इति श्रीमन्न्यायसुधायां आवृत्त्यधिकरणम् ॥
[======= ज्न्य्स्_4,1.इइ: आत्मोपगमाधिकरणम् =======]
*12,18*
॥ अथ श्रीमन्न्यासुधायां आत्मोपगमाधिकरणम् ॥
॥ ओं आत्मेति तूपगच्छन्ति ग्राहयन्ति च ओं ॥
एतत्सूत्रं व्याख्यातुमात्मशब्दार्थं तावदाह- आत्मेति ॥
आत्मेति तूपगच्छन्ति ग्राहयन्ति च

4.1.9

आत्मेति नाम कथितं साक्षान्नारायणस्य हि
न्यायसुधा:
यस्मादात्मेति नाम साक्षात् मुख्यया वृत्त्या नारायणस्य कथितम् ।
मुख्ये च सम्भवत्यमुख्यं न युज्यते ।
तस्मादत्र सूत्रे ऽपि आत्मा जनार्दनः आत्मशब्दोदितो जनार्दन इति वक्ष्यमाणेनान्वयः ।
*12,20*
किं तदात्मशब्दस्य भगवन्नामत्वकथनमित्यत आह- आत्मेति ॥
आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः

4.1.10

विष्णुर्नारायणो ऽनन्त इति श्रीपतिरीर्यते ।
इति पिङ्गश्रुतिश्चैव तथैव परमश्रुतिः

4.1.11

न्यायसुधा:
इति नामभिः ।
पैङ्गिश्रुतिः आत्मशब्दं भगवन्नामत्वेनाह ।
चशब्दः श्रुत्यन्तरसमुच्चयार्थः ।
श्रुतिरेव न तु मानुषप्रणीतमभिधानमित्येवशब्दः ।
तेन"क्षेत्रज्ञ आत्मा पुरुषःऽ; इत्यादिविरोधो नाशङ्कनीयः ।
ओमात्मेति परमश्रुतिः ।
ओमात्मा भगवान् विष्णुरात्मानन्दो ऽक्षरः स्वराट् ।
विश्वत्राता नृसिंहो ऽजो नारायण उरुक्रमः

4.1.12

अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ।
दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान्

4.1.13

इति भागवते चैव तस्मादात्मा जनार्दनः
न्यायसुधा:
आत्मानन्देति समस्तमेकं नाम ।
अनसूयेति भागवते चात्मशब्दस्य भगवत्येव प्रयोगो ऽस्ति ।
तथैवेति तत्र प्रकृतेन समुच्चयार्थः ।
जज्ञे जनयामास ।
अन्तर्णीत(णिजर्थो ऽत्र)ण्यर्थो वात्र जनिः ।
आत्मेशब्रह्मसम्भवान् विष्णुशिवब्रह्मसम्भवान् ।
सह भवन्तीति सम्भवाः ।
अत्र दत्तदूर्वाससौ विष्णुशिवावेव ।
सोमो ब्रह्मणा सहभूतः ।
तद्धर्मो ऽन्ययोरप्युपचारादुच्यते ।
छत्रिण इति यथा ।
*12,25*
अस्त्वात्मशब्दो विष्णुपरस्तथापि कः सूत्रार्थ इत्यत आत्मेतीति प्रतिज्ञांशं व्याख्याति(चष्टे) तस्मादिति ।
तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा

4.1.14

न्यायसुधा:
यस्मादात्मशब्दो विष्णुपरस्तस्मात् ।
अयं प्रतिज्ञार्थः ।
आत्मा विष्णुः आत्मेति सज्जनैः सदा ज्ञातव्यः उपास्यो ध्येयश्च ।
हेत्वंशं व्याचष्टे- तथैवेति ॥
तथैवोपासते सन्तस्तथैवोपदिशन्ति च
न्यायसुधा:
अनेनात्म(त्मेति)शब्दस्याऽवृत्तिस्तुशब्दश्चावधारणार्थ इत्युक्तं भवति ।
सतामेवोपासनोपदेशौ भाष्योदाहृताभ्यां श्रुतिभ्यां सिद्धौ ।
उपगच्छन्तीत्येतज्ज्ञानार्थमुपासनार्थं च ।
तत्र ज्ञानार्थत्वं स्पष्टमित्येक एवार्थो व्याख्यातः ।
अत एव प्राक् ज्ञातव्य उपास्यश्चेत्युक्तम् ।
*12,27*
नन्वनेन विष्णुर्विष्णुरित्युपास्य इत्युक्तं भवति ।
ततश्च किमनेन कृतं स्यात् ।
न ह्यविष्णुत्वेनोपास्तिरत्र प्रसक्तेत्यत आह- आदानेति ॥
आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत्
न्यायसुधा:
अयं सूत्रगत आत्मशब्दः पतिं च वदेत् ।
कथम् ।
आदानाथर्त्वत आदानकर्तृत्वार्थत्वात् ।
आङ्पूर्वात् दाञः आतो मनिन्निति मनिन् प्रत्ययः आकारलोपो दस्य तश्च निर्वचनत्वात् ।
तथा चोक्तं"यच्चाप्नोति यदादत्तःऽ; इत्यादि ।
पतिर्हि स्वीयतया भृत्यानादत्ते ।
*12,28*
ततः किमित्यतः सूत्रार्थं विवृणोति- स्वामीति ॥
स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा

4.1.15

न्यायसुधा:
अत्र सूत्रे द्वावात्मशब्दौ ।
एकोनुवादार्थो द्वितीयो विध्यथर्ः ।
आत्मात्मेत्युपास्य इति द्वावपि विष्णुविषयौ ।
तत्राद्यो ऽविवक्षितावयवार्थः संज्ञात्वेन वर्तते ।
द्वितीयो विवक्षितावयवार्थः स्वामिनं वदति ।
तथा चात्मा विष्णुरात्मेति स्वामीत्युपास्य इति सूत्रार्थो भवतीत्यर्थः ।
अञ्जसा परमादरेण ।
नन्वेतदानन्दादयः प्रधानस्येत्यनेनैव गतम् ।
सत्यम् ।
सर्वथोपास्यत्वस्य ज्ञापनाय पुनर्वचनम् ।
तदिदमुक्तं नित्यदैवाञ्जसेति ।
*12,29*
अस्य सर्वथोपास्यत्वे किं प्रमाणमित्यत आह- स्वामीति ॥
स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः ।
कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत्

4.1.16

इति सत्तत्त्ववचनं षाड्गुण्यवचनं परम् ।
मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ।
इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः

4.1.4

न्यायसुधा:
विशेषणविशेष्यत इति स्वामित्वं विशेषणं विष्णुर्विशेष्य इति विशेषणविशेष्यभावेनैव ।
नतु तटस्थं स्वामित्वं निर्गुणस्य विष्णोरुपलक्षणमित्येवमित्यर्थः ।
कथञ्चन आधिव्याधिसत्वे ऽपि ।
परम् उपरितनम् ।
मम स्वामीत्यनेन प्रसक्तमल्पत्वं निवारयति- सर्वस्येति ॥
॥ इति श्रीमन्न्यासुधायां आत्मोपगमाधिकरणम् ॥
[======= ज्न्य्स्_4,1.इइइ: प्रतीकाधिकरणम् =======]
*12,30*
॥ अथ श्रीमन्न्यायसुधायां प्रतीकाधिकरणम् ॥
॥ ओं न प्रतीके न हि सः ओं ॥
मनो ब्रह्मेत्युपासीतेत्यादिश्रुतिप्राप्तं मनःप्रभृतिप्रतीकानां ब्रह्मत्वेनोपासनमत्र प्रतिषिध्यते ।
तत्र प्रतीक इत्यधिकरणसप्तमीति प्रतीतिः स्यात् ।
प्रतीकाधिकरणस्य चोपासनं ब्रह्मणो युक्तमेव ।
अतो ऽन्यथा प्रतिज्ञां व्याख्याति- प्रतीकेति ॥
न प्रतीके न हि सः

4.1.17

प्रतीकविषयत्वेन न कार्या विष्णुभावना
न्यायसुधा:
इत्थम्भूतलक्षणे तृतीया ।
इदं मनआदिकं विष्णुरित्येवंरूपोपासना न कार्येत्यर्थः ।
न हि स इति हेतुं व्याचष्टे- प्रतीकमिति ॥
प्रतीकं नैव विष्णुर्यन् ...
न्यायसुधा:
यद्यस्मात्प्रतीकं, ब्रह्मणः प्रतिमात्मकं, मनःप्रभृति, स विष्णुर्नैव तस्मादिति पूर्वेणान्वयः ।
नन्वसङ्गतो ऽयं हेतुः ।
प्रतीकस्य विष्णोश्चाभेदाभावो ह्यभेदस्य तत्प्रमितेश्च निवारको न त्वभेदभावनामात्रस्येत्यत आह- मिथ्येति ॥
... मिथ्योपासा ह्यनथर्दा

4.1.18

न्यायसुधा:
नहि स विष्णुः प्रतीकम् ।
अतस्तयोरभेदभावना मिथ्योपासना ।
सा चानर्थस्यैव हेतुः ।
अतो न कर्तव्येत्येवं हेतुहेतुमद्भावः
सूत्रकृतो ऽभिप्रेतो न पुनः साक्षात् ।
अतो नासङ्गतिः ।
*12,31*
मिथ्योपासनस्यानर्थहेतुत्वं कुत इत्यतस्तदुपपादनपूर्वकमिममेव सूत्राभिप्रायं स्पष्टमाचष्टे- यो ऽन्यथेत्यादिना भगवन्प्रभुरित्यन्तेन ॥
यो ऽन्यथा सन्तमात्मेशमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा

4.1.19

यो ऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणेशापहारिणा

4.1.20

*12,32*
न्यायसुधा:
यो ऽन्यथैव स्थितं विष्णुमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेण ब्रह्मचारिणा

4.1.21

न्यायसुधा:
अन्यथासन्तं प्रतीकभिन्नत्वादिप्रकारं सन्तम् ।
आत्मनां जीवानाम् ईशम् ।
अन्यथा प्रतीकत्वादिना ।
प्रतिपद्यते जानाति ध्यायति च ।
चोरत्वस्यैव विवरणं आत्मापहारिणेति ।
अभेदे खल्वेकावशेषः स्यात् ।
तत्र प्रतीकावशेषे ध्याते स्फुटं परमात्मापहारित्वम् ।
प्रतीकप्रविलये ऽप्यैश्वर्यापलापात्परमात्मापहारित्वमेव ।
आत्मानं परमात्मानम् ।
एतानि त्रीणि वाक्यानि विष्णोः प्रतीकताध्याने बाधकानि ।
प्रतीकस्य विष्णुत्वध्याने तु न बाधकमित्यतः स्वात्मनमिति वाक्यं पठितम् ।
स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा ।
चेतनाचेतनं वान्यद् ध्यायेद् यः केशवस्त्विति ।
किं तेन न कृतं पापं चारेणेशापहारिणा

4.1.22

न्यायसुधा:
यो ऽन्यदिति त्रीण्युभयार्थे ।
यो ऽन्यद् विष्णुरिति ध्यायेज्जानीयाद् वा हरिं तथा ।
अन्धे तमसि मज्जेत् स यत्र नैवोत्थितिः क्वचित्

4.1.23

यो ऽन्यद् विष्णुरिति ध्यायेद् विष्णुरन्यदिति स्म वा ।
अन्यथा ध्यानदोषेण महातमसि मज्जति

4.1.24

यो ऽन्यद् विष्णुरिति ध्यायेद् विष्णुरन्यदिति स्म वा ।
महातमसि मग्नस्य तस्य नैवोत्थितिः क्वचित्

4.1.25

न्यायसुधा:
यत्र पतितस्य ।
अन्यथाध्यानमेव दोषो ऽन्यथाध्यानदोषः ।
यत्किञ्चिदित्यादीनि प्रथमार्थ एव कैमुत्यार्थानि ।
यत्किञ्चिदन्यथा संस्थमन्यथा ध्यातमञ्जसा ।
ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः

4.1.26

*12,33*
न्यायसुधा:
यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा ।
महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः

4.1.27

यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा ।
अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः

4.1.28

न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् ।
किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित्

4.1.29

तस्माद् वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा ।
कारणं पुरुषार्थस्य नान्यथा भवति क्वचित्

4.1.30

न्यायसुधा:
यत्किञ्चिद्गङ्गोदकादिकमन्यथासंस्थं पवित्रं सत् अन्यथापवित्रं ध्यातं ध्यातुरञ्जसा महादोषकरं किमु सर्वेश्वरो हरिरप्रकृष्टतया ध्यातः ।
तेन अनर्थप्रसङ्गेन ।
इति श्रुतिपुराणोक्तिबलतो न प्रतीकता ।
ध्येया विष्णोः क्वचिद् यस्मान्मिथ्याज्ञानमनर्थदम्

4.1.31

इत्यभिप्रेत्य न हि स इत्याह भगवान् प्रभुः
न्यायसुधा:
इति श्रुतिपुराणोक्तिबलतो मिथ्याज्ञानमनर्थपदं प्रतीयते यस्मात्तस्माद्विष्णोः प्रतीकता न ध्येयेति परम्परया हेतुहेतुमद्भावमभिप्रेत्य भगवान्सूत्रकारो न हि स इति हेतुमाह ।
अतो नासङ्गतिरित्यर्थः ।
वक्ष्यमाणप्रकारेण द्विरूपस्यापि ध्यानस्य साम्यात् बलत इत्युक्तम् ।
ध्यानस्यापि ज्ञानविशेषत्वात्सङ्कीर्णोक्तिः ।
*12,36*
एवं तर्हि मनो ब्रह्मेत्यादिश्रुतीनां को ऽर्थ इत्यत आह- प्रतीकेति ॥
प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्नचान्यथा

4.1.5

न्यायसुधा:
व्यत्ययो बहुलं, सप्तसु प्रथमा, षट्सु द्वितीया, इत्यादिस्मरणाद्विभक्तिव्यत्ययेनाधिकरणार्थतया श्रुतयो व्याख्येया इति भावः ।
॥ इति श्रीमन्न्यासुधायां प्रतीकाधिकरणम् ॥
[======= ज्न्य्स्_4,1.इव्: ब्रह्मदृष्ट्यधिकरणम् =======]
॥ अथ श्रीमन्न्यासुधायां ब्रह्मदृष्टयधिकरणम् ॥
॥ ओं ब्रह्मदृष्टिरुत्कर्षात् ओं ॥
अत्र ब्रह्मदृष्टिः कर्तव्येत्युच्यते ।
कुत्रेत्याकाङ्क्षायां सन्निधानात्प्रतीक इति प्राप्नोति ।
तच्च योग्यताविरहान्निराकृतम् ।
अतः साकाङ्क्षं प्रतिज्ञावाक्यं व्याख्याति- ब्रह्मेति चेति ॥
ब्रह्मदृष्टिर् उत्कर्षात्

4.1.32

ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा
न्यायसुधा:
अत्र चशब्दं प्रयुञ्जानेनात्मेत्यनेन व्यवहितेनाप्यस्य योग्यतयान्वयः ।
आत्मशब्दश्च प्रथमान्तः प्रकृतः, सप्तम्यन्तेन चेहार्थः ।
अर्थवशाद्विभक्तिविपरिणामः ।
अतः सप्तम्यन्तो ऽत्र अनुवर्तत इति सूचितम् ।
भगवान्विष्णुर्ब्रह्मेति ध्येय इति तात्पर्यकथनं, नाक्षरार्थः ।
नन्वेतत् भूम्नः क्रतुवज्ज्यायस्त्वमित्यनेनैव गतमित्यतः सदाञ्जसेत्युक्तम् ।
उत्कर्षादिति हेतुः ।
तत्र न ज्ञायते कस्योत्कर्ष इति ।
अतो व्याचष्टे- उत्कृष्ट इति ॥
उत्कृष्टो ब्रह्मशब्दार्थः ...
न्यायसुधा:
यत इति वक्ष्यमाणमिहापि सम्बद्धयते ।
उत्कर्षादुत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वादिति सूत्रकृतोत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वमुक्तम् ।
अनुव्याख्यानकृता तूत्कर्षवान् ब्रह्मशब्दाभिधेय इत्यभिहितम् ।
फलतस्त्वेक एवार्थः ।
कथमुत्कर्षो ब्रह्मशब्दप्रवृत्तिनिमित्तमित्यत आह- पूर्णत्वमिति ॥
*12,38*
... पूर्णत्वं ब्रह्मता यतः

4.1.33

न्यायसुधा:
वृद्धयर्थात् बृहतेरन्येभ्यो ऽपि दृश्यन्त इति मनिन्प्रत्ययः दृशिग्रहणसामर्थ्याद्धातोरमागमश्च ।
वृद्धिः पूर्णत्वमित्येक एवार्थः ।
ब्रह्मता ब्रह्मशब्दप्रवृत्तिनिमित्तम् ।
पूर्णत्वमेव चोत्कर्षः ।
हेतुहेतुमद्भावश्च भाष्य एव समर्थितः ।
*12,40*
ब्रह्मत्वस्य सर्वथार ध्येयत्वे किं प्रमाणमित्यत आह- आधिव्याधीति ॥
आधिव्याधिनिमित्तेन विक्षिप्तमनसो ऽपि तु ।
ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्तया निरन्तरम् ।
इति प्रकाशिकायां च वचनं विष्णुनेरितम्

4.1.34

न्यायसुधा:
आधिव्याधीति द्वन्द्वैकवद्भावः ।
तच्च तन्निमित्तं च, तेन ।
कृत्यानां कर्तरि वेति षष्ठी ।
चशब्देन भाष्योदाहृतानि वचनानि समुच्चिनोति ।
॥ इति श्रीमन्न्यायसुधायां ब्रह्मदृष्टयधिकरणम् ॥
*12,43*
[======= ज्न्य्स्_4,1.व्: आत्मोपगमाधिकरणम् =======]
॥ अथ श्रीमन्न्यासुधायां आत्मोपगमाधिकरणान्यथाव्याख्याननिराकरणम् ॥
"आत्मेति तूपगच्छन्ति ग्राहयन्ति चऽ,"न प्रतीके न हि सःऽ"ब्रह्मदृष्टिरुत्कर्षात्ऽ; इति त्रिसूत्रीमेके ऽन्यथा व्याचक्षते ।
तथाहि ।
परमात्मा किमहमिति ग्रहीतव्यः ।
किं वा मदन्य इति संशये नाहमिति ग्राह्य इति प्राप्तम् ।
कुतः ।
अपहतपाप्मत्वादिगुणो हि परमात्मा ।
तद्विपरीतगुणश्च शारीरः ।
अतः कथं तयोरभेदो भवेत् ।
ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावस्ततः शास्त्रानर्थक्यम् ।
संसारिणो ऽपीश्वरत्वे ऽधिकार्यभावाच्छास्त्रानर्थक्यमेव ।
प्रत्यक्षादिविरोधश्च ।
एवं प्राप्ते ब्रूमः ।
आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः ।
तथाहि ।
परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैवैनमुपगच्छन्ति ।
"त्वं वाहमस्मि भगवो देवते अहं वै त्वमसि देवतेऽ; इति ।
तथान्ये ऽपि"अहं ब्रह्मास्मिऽ; इत्येवमादय आत्मत्वोपगमा द्रष्टव्याः ।
ग्राहयन्ति चात्मत्वेनैवेश्वरं वेदवाक्यानि ।
"एष त आत्मा सर्वान्तरःऽ,"तत्त्वमसिऽ; इत्यादीनि ।
"अथ यो ऽन्यां देवतामुपास्तेऽ; इत्यादिका श्रुतिरपवदति च भेददर्शनम् ।
यत्तूक्तं विरुद्धगुणयोरन्योन्यात्मत्वं न सम्भवतीति तदसत् ।
विरुद्धगुणतया मिथ्यात्वात् ।
न चेश्वराभावप्रसङ्गः ।
नहीश्वरस्य संसारित्वं प्रतिपाद्यते किं तर्हि संसारित्वापोहेनेश्वरत्वम् ।
नचाधिकार्यभावः प्रत्यक्षादिविरोधश्च ।
प्राक् प्रबोधात्संसारित्वाभ्युपगमात् ।
तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य ।
प्रबोधे तु प्रत्यक्षाद्यभाव एव ।
तथा सत्यद्वैतश्रुतेरप्यभावप्रसङ्ग इति चेत् ।
इष्यमेवैतत् ।
तस्मादात्मेत्येवेश्वरे मनो दधीतेति प्रथमसूत्रार्थः ।
*12,44f.*
मनो ब्रह्मेत्युपासीतेत्येवमादिषु प्रतीकोपासनेषु संशयः किं तेष्वप्यात्मग्रहः कर्तव्यो न वेति ।
किं तावत्प्राप्तम् ।
तेष्वप्यात्मग्रह एव युक्तः ।
कस्मात् ।
ब्रह्मण आत्मत्वात्, प्रतीकानामपि ब्रह्मविकारत्वात् ब्रह्मत्वे सत्यात्मत्वोपपत्तेरिति ।
ब्रूमः ।
न प्रतीकेष्वात्ममतिं बध्नीयात् ।
नहि स उपासकः प्रतीकानि यत्तान्यात्मत्वेनाकलयेत् ।
यत्पुनर्ब्रह्मविकारत्वात्प्रतीकानां ब्रह्मत्वं ततश्चात्मत्वमिति तदसत् ।
प्रतीकाभावप्रसङ्गात् ।
विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेवाश्रितं भवति ।
स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकस्वरूपत्वमात्मग्रहो वा ।
किञ्च यथा रुचकस्वस्तिकयोर्नेतरात्मत्वम् ।
द्वयोरपि विकारत्वात् ।
तथा प्रतीकात्मनोरपि ।
सुवर्णात्मनेव ब्रह्मात्मनैकत्वे प्रतीकाभावप्रसङ्गमवोचाम ।
अतो न प्रतीकेष्वात्मदृष्टिः कर्तव्येति द्वितीयसूत्रार्थः ।
*12,46*
तेष्वेवोदाहरणेष्वन्यः संशयः ।
किमादित्यादिदृष्टयो ब्रह्मणि कार्याः किंवा ब्रह्मदृष्टिरादित्यादिष्विति ।
सामानाधिकरण्यस्योभयथोपपत्तेः ।
तत्रानियमो नियमकारिणः शास्त्रस्याभावात् ।
अथवादित्यादिदृष्टय एव ब्रह्मणि कर्तव्याः ।
एवं हि ब्रह्मोपासितं भवति ।
ब्रह्मोपासनं च फलवदिति प्राप्ते ब्रूमः ।
ब्रह्मदृष्टिरेवादित्यादिषु स्यात् ।
कस्मात् ।
उत्कर्षात् ।
एवमुत्कर्षेणादित्यादयो दृष्टा भवन्ति ।
तथा च लौकिको न्यायो ऽनुगतो भवति ।
क्षत्तरि खलु राजदृष्टिः क्रियते न तु राज्ञि क्षत्तृष्टिर्विपर्यये प्रत्यवायप्रसङ्गात् ।
यत्तु फलवत्त्वया ब्रहोपासनं युक्तमिति तदयुक्तम् ।
आदित्याद्युपासनस्यापि फलवत्त्वोपपत्तेः ।
ब्रह्मैव च सर्वाध्यक्षत्वात्फलं दास्यति ।
इदमेव च ब्रह्मोपासनं यदादित्यादिषु तद्दृष्टिः प्रतिमादिष्विव विष्ण्वादीनामिति तृतीयसूत्रा(स्या)र्थ इति ।
*12,48*
तत्र तावत्प्रथमसूत्रस्यापव्याख्यानं दूषयति- नेति ॥
नात्मेति सूत्रमीशस्य जीवत्वप्रतिपादकम्

4.1.35

न्यायसुधा:
अत्र प्रतिपत्तिर्नाम प्रमितेरेव परस्याभिमता ।
प्रतीकदशर्नमित्याशङ्कय निराकरणात् ।
अतो जीवत्वेन प्रतिपत्तव्यत्वस्य प्रतिपादकमिति, जीवत्वस्य प्रतिपादकमिति चैक एवार्थः ।
*12,50*
कुतो नेत्यतः पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य प्रथमं पदार्थं निराकरोति- आत्मशब्दमिति ॥
आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् ।
स्वशब्दात् प्राणभृच्चैव नोक्त इत्येव वेदराट् ॥ मनुव्_4,1.34च्-f ॥
न्यायसुधा:
स्वशब्दादेव प्राणभृच्च नोक्त इति वेदराडेवात्मशब्दं हेतुं कृत्वा जीवं न्यवारयद्यतस्तस्मादात्मशब्दोदितो विष्णुरेव न चापरो जीव इति योजना ।
*12,50f.*
एतदुक्तं भवति ।
भवेदयं सूत्रार्थो यद्यात्मशब्दो जीववाची भवेत् ।
न चैवम् ।
सूत्रकारवचनसामर्थ्यादेव तस्य तद्वाचित्वाभावावगमात् ।
तथा हि ।
यस्मिन्द्यौरिति वाक्यमुदाहृत्य किमत्र द्युभ्वाद्यायतनत्वेन प्रधानमुच्यते उत जीवः किंवा परमात्मेति संशये प्रधानादौ प्राप्ते सिद्धान्तितम् ।
"द्युभ्वाद्यायतनं स्वशब्दात्ऽ; इति ।
स्वशब्दात्"तमेवैकं जानथ आत्मानम्ऽ; इति द्युभ्वाद्यायतने आत्मशब्दश्रवणात् द्युभ्वाद्यायतनं परमात्मैवेति ।
ततो"नानुमानमतच्छब्दात्ऽ; इति प्रधानं निराकृत्य जीवनिराकरणार्थं सूत्रितम् ।
प्राणभृच्चेति ।
तत्र चशब्दो नेत्यस्य स्वशब्दादिति हेतोश्चानुकर्षणार्थः ।
ततश्चात्मशब्दाज्जीवो ऽपि नेत्यर्थः ।
यदेवमात्मशब्दं हेतुं कृत्वा जीवं निवारितवान्सूत्रकारः, तदन्यथानुपपत्त्या जानीमः सूत्रकारस्यात्मशब्दो न जीववाचीत्यभिप्रेतमिति ।
तथाच कथं स्वाचरितविरुद्धमिदानीमाचरेदिति ।
*12,51*
एतदेव विशदयति- यदीति ॥
यद्यात्मशब्दो जीवे ऽपि कथं स विनिवारयेत् ।
आत्मशब्दोदितस्तस्माद् विष्णुरेव नचापरः

4.1.36

न्यायसुधा:
जीवे ऽपि वर्तत इति सूत्रकृतो ऽभिप्रेतमिति शेषः ।
तर्हि कथं सूत्रकारो जीवमात्मशब्देन विनिवारयेत् ।
नहि गन्धवत्त्वेन घटो निवारयितुं शक्यते ।
अथवा यद्यात्मशब्दो जीवे ऽपि वर्तेत तदा स आत्मशब्दः कथं जीवं निवारयेत् ।
प्रत्युत प्रतिपादयेदिति योजना ।
*12,52*
आगमवाक्यमप्यत्र पठति- आत्मेति ॥
आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न वदन्ति यतो नाप्ता क्वापि तैर्गुणपूर्णता ।
नारायणाध्यात्मगतमिति यद् वैष्णवं वचः

4.1.37

न्यायसुधा:
अन्यान्न वदन्ति कुतो यत आत्मादिशब्दाः पूर्तिवाचिनस्तैरन्यैर्गुणपूर्णता क्वाप्यवस्थायां न प्राप्ता ।
यत्किञ्चित्पूर्णतार्थत्वे चामुख्यार्थतापात इति ।
आत्मशब्दो ऽप्याङ्पूर्वात्तनोतेर्मनिन् प्रत्यये टिलोपे च सति निष्पन्नः पूर्णतावचनः ।
यद्यस्मादेवं वचो ऽस्ति तस्मादपीति पूर्वेणैव अन्वयः ।
*12,53*
इदानीं वाक्यार्थं दूषयति- यदीति ॥
यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते ।
आत्मशब्दं कथं तस्मान्निवारयति युक्तितः

4.1.38

न्यायसुधा:
मन्यते(अत्र) तत्र सूत्रे तदा तस्मात् जीवादात्मशब्दं कथं निवारयति ।
कुत्र निवारितवानित्यत उक्तम्- युक्तित इति ॥
जीवनिराकरणयुक्तित्वेनोक्तत्वादिति यावत् ।
इदमुक्तं भवति ।
आत्मशब्दश्रवणात् द्युभ्वाद्यायतनं न जीव इति आत्मशब्दं जीवनिवारणे हेतुं वदता सूत्रकारेणात्मशब्दो जीवान्निवारित इति गम्यते ।
नायं पुरुषो विषाणित्वादिति यथा ।
नहि तत्रस्थेन तन्निरासो युज्यते ।
नायं गौर्विषाणित्वादित्यपि प्रसङ्गात् ।
प्रथमसूत्रे च द्युभ्वाद्यायतनं परमेश्वरो न जीव आत्मशब्दादित्यात्मशब्दस्य परमेश्वरे प्रवृत्तिरभ्युपगता ।
अन्यथा तेन तत्साधनानुपपत्तेः ।
तत्र यदि जीवेश्वरावेकमेव तत्त्वमिति सूत्रकारस्य मतं स्यात् ।
तदा तेनात्मशब्दस्तत्रैव वर्तते, न वर्तते चेत्युक्तं भवति ।
नच व्याहतं सूत्रकारो भाषत इति युक्तम् ।
तस्मान्न जीवेश्वरैक्यं तस्य मतमिति गम्यत इति ।
उपलक्षणं चैतत् ।
द्युभ्वाद्यायतनं परमेश्वरो, न जीव इति, प्रतिज्ञाद्वयं च व्याहतमित्यपि द्रष्टव्यम् ।
*12,54*
सूत्रान्तरविरोधं चाह- भेदस्येति ॥
भेदस्य व्यपदेशं च स्थितिं चादनमेव च ।
भेददार्ढ्ये हेतुमाह सतात्पर्यं जगत्पतिः

4.1.39

न्यायसुधा:
यदि जगत्पतिः सूत्रकारो जीवेश्वरयोरैक्यं मन्यते तर्हि कथं स एव"भेदव्यपदेशात्ऽ; इति भेदस्य व्यपदेशं च"स्थित्यदनाभ्यां चऽ; इति स्थितिं चादनं च सतात्पर्यं जीवेशभेदं दृढयितुं हेतुमाह ।
भेदस्य प्रागपि प्रतिपादितत्वाद्दर्ढ्य इत्युक्तम् ।
अत्राप्यनेकप्रमाणोपन्यासात्सतात्पर्यमिति ।
*12,55*
न को ऽप्ययं विरोधो ऽस्ति ।
परमार्थतो जीवेशयोरेकत्वे ऽपि हि व्यावहारिकभेदो ऽस्ति तदपेक्षया तानि सूत्राणि ।
इदं तु परमार्थापेक्षयेति व्यवस्थोपपत्तेरित्याशयेन शङ्कते- व्यावहारिकेति ॥
व्यावहारिकभेदश्चेत् ...
न्यायसुधा:
अत्र व्यावहारिकशब्देन भ्रान्तिसिद्धो ऽभिप्रेयते ।
प्राक् प्रबोधादित्युक्तानुवादत्वात् ।
जीवेश्वरभेदो भ्रान्तिसिद्ध इति वदन्प्रष्टव्यः ।
किमयमेव भेदो भ्रान्तिसिद्धः किं वा भेदमात्रमिति ।
नाद्यः ।
अपसिद्धान्तात् ।
द्वितीये दोषमाह- क्वेति ॥
... क्वासावव्यावहारिकः
न्यायसुधा:
भ्रान्तेरभ्रान्तिपूर्वकत्वात् ।
जीवेश्वरभेदस्य भ्रान्तिकल्पितत्वे क्वचित्सत्यो भेदो ऽङ्गीकर्तव्यः ।
क्वासौ न क्वापि ।
कुत्रापि भेदस्य सत्यत्वाङ्गीकारे जीवेशभेदारोपो ऽपि न सम्भवतीति भावः ।
*12,57*
स्यादेतत् ।
नास्त्येव को ऽपि भेदः सत्यः ।
तथापि जीवेशभेदभ्रान्तिरुपपद्यते ।
भ्रान्तिर्हि संस्कारमपेक्ष्यते ।
संस्कारश्च ज्ञानमात्रम् ।
अतः पूर्वपूर्वमसंस्कारादुत्तरोत्तरभ्रान्त्युत्पादः ।
अनादिश्चायं संसार इति ।
मैवम् ।
भेदमात्रस्य मिथ्यात्वे प्रमिते खलु तद्बलादेषा कल्पनोपपद्यते ।
न चैवम् ।
सर्वो ऽपि भेदो भ्रान्त इति हि प्रतिज्ञैव तावद्वयहता ।
दूरे प्रमाणोपन्यास इत्याशयवान्सोपपत्तिकं तावत्पृच्छति- व्यावहारिकमिति ॥
व्यावहारिकमित्येव वचनं व्यावहारिकम्

4.1.40

उत नेति विकल्पे तु ...
न्यायसुधा:
भेदमात्रमिति शेषः ।
तिष्ठतु तावदन्यदित्येवार्थः ।
इति विकल्पे तु पक्षद्वैते (द्वये)(द्वैधे) सम्भवति कं पक्षमवलम्ब्य इति शेषः ।
अत्र सर्वत्र वचनशब्देन तदर्थो लक्ष्यते ।
सर्वो ऽपि भेदो भ्रान्तिकल्पित इति वाक्यार्थो भ्रान्तिकल्पितो ऽथ परमार्थ इति प्रश्नार्थः ।
*12,58*
आद्यं शङ्कते- यदीति ॥
... यदि स्याद् व्यावहारिकम्
*12,59*
न्यायसुधा:
एतद्वचनमिति वर्तते ।
अत्रापि पृच्छामो वाक्यार्थो ऽयं बाध्यो न वेति ।
नेति पक्षे भ्रान्तिकल्पितो ऽपि न भवेत् ।
कुत्रापि कदापि केनाप्यबाध्यस्य भ्रान्तिकल्पितत्वे ब्रह्मणो ऽपि तथात्वापत्तेः ।
प्रथमं शङ्कते- तस्येति ॥
तस्यापि बाध्यता चेत् स्याद् ...
न्यायसुधा:
तस्य वचनस्य न केवलं भ्रान्तिकल्पितत्वं किन्तु बाध्यतापि स्याच्चेदित्यर्थः ।
दूषयति- भेद इति ॥
... भेदः स्यात् पारमार्थिकः

4.1.41

न्यायसुधा:
सर्वो ऽपि भेदो भ्रान्त इति वाक्यार्थस्य भ्रान्तत्वे बाध्यत्वे च सकल(लो)भेदः पारमार्थिकः स्यात् ।
*12,60*
द्वितीयमाशङ्कते- अव्यावहारिकत्वमिति ॥
अव्यावहारिकत्वं चेद् ...
न्यायसुधा:
तस्य वचनस्येति वर्तते ।
निराकरोति- भेद इति ॥
... भेदो ऽयं सत्यतां गतः

4.1.42

न्यायसुधा:
तिष्ठतु तावदन्यः ।
वाक्यार्थस्य सत्यत्वे तस्य ब्रह्मणश्च यो भेदो, यश्च पदार्थानामसत्यत्वे वाक्यार्थस्य सत्यत्वानुपपत्तेः पदार्थानां परस्परं वाक्यार्थाद्ब्रह्मणश्च भेदः, स तावत् सत्यतां गतः ।
उभयथापि वाक्यार्थो व्याहत इत्यर्थः ।
*12,61*
सर्वो ऽपि भेदो भ्रान्त इति वाक्यार्थस्य भ्रान्तत्वे बाध्यत्वे च सर्वस्यापि भेदस्य सत्यता स्यादित्युक्तम् ।
तत्कुत इत्यतस्तदुपपादनाय व्याप्तिं तावदाह- एकस्येति ॥
एकस्यासत्यतायां हि द्वयोरेव विरुद्धयोः ।
अन्यस्य सत्यतैव स्यादिति केन निवार्यते ॥ मनुव्_4,1.41च्-f ॥
न्यायसुधा:
यौ द्वावेव विरुद्धौ तयोर्मध्ये एकस्यासत्यतायां सत्यामन्यस्य सत्यता स्यादेवेति व्याप्तिः केन निवार्यते ।
उपाधिव्यभिचारयोरभावान्न केनापि ।
पुरोवर्तिनः पुरुषत्वे ऽसति स्थाणुत्वमेव भवतीति नियमो नास्ति ।
वल्मीकत्वस्यापि सम्भवात् ।
अतो द्वयोरेव विरुद्धयोरित्युक्तम् ।
द्वयोरिति विशेषणस्यासमर्थतापरिहाराय विरुद्धग्रहणम् ।
यः पदार्थो द्वयोरेव विरुद्धयोरेकस्य असत्यत्ववान् असावन्यस्य सत्यत्ववानित्युक्तं भवति ।
*12,62*
निदर्शनमाह- अनित्यमिति ॥
असत्यं नोक्तमित्युक्ते सत्यमुक्तमिति प्रजाः ।
जानन्त्युक्तं तु नो सत्यमित्युक्ते ऽसत्यतामपि

4.1.43

न्यायसुधा:
आप्तेनोक्तमसत्यं नेत्युक्ते सत्युक्तं सत्यमिति प्रजा जानन्ति ।
तथा विप्रलम्भकेनोक्तं सत्यं नो इत्युक्ते तु तस्यासत्यतामपि जानन्ति ।
सत्यत्वासत्यत्वयोर्द्वयोरेव विरुद्धता ।
तत्र आप्तोक्ते ऽर्थे ऽसत्यतायामसत्यां सत्यतायाः सत्वमनाप्तोक्ते च सत्यतायामसत्यामसत्यतायाः सत्वं च प्रसिद्धमित्यर्थः ।
इत्युक्त इति प्रमितत्वोपलक्षणम् ।
प्रजा जानन्तीत्यनेन
आविपालाङ्गनमेषा व्याप्तिः सिद्धा न केवलं परीक्षकाणामिति सूचयति ।
*12,64*
ननु स्वप्ने ऽत्र घट इति दृष्ट्वा नात्र घट इत्यपि पश्यति ।
तत्र घटः तदभावश्च द्वयमपि मिथ्या ।
अतो व्याप्तिभङ्ग इत्यत आह- नेति ॥
न स्वप्ने ऽपि द्वयं मिथ्या ...
न्यायसुधा:
तत्किं द्वयमपि सत्यमित्यत आह- तत्रेति ॥
... तत्रैकं सत्यमेव हि
न्यायसुधा:
तत्र घटतदभावयोर्मध्ये ।
यदाभावस्यासत्यता तदा घटः सत्य एव ।
यदा च घटस्य असत्यता तदाभावः सत्य एवेत्यथर्ः ।
तस्मान्न व्याप्तिभङ्ग इति हिशब्दार्थः ।
कुतो न द्वयमपि मिथ्येत्यत आह- भावेति ॥
*12,65*
भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः

4.1.44

न्यायसुधा:
यो यस्याभावो यश्च यस्याभावस्य प्रतियोगी तावुभावप्येकत्रैकदैव न मिथ्येति व्याप्तेः ।
स्वप्ने ऽपि घटतदभावौ कथं तथा भविष्यत इति भावः ।
व्याहतं च भावाभावयोरुभयोरसत्त्ववर्णनमित्याशयेनाह- भावस्य हीति ॥
भावस्य हि निषेधे तु नाभावस्य निषेधनम्
न्यायसुधा:
हिशब्दो हेतौ ।
भावस्य निषेधे कृते तु अभावस्यैव विहितत्वात् ।
पुनर्नाभावस्य निषेधनं कर्तुं शक्यते व्याघातात् ।
एवमभावस्य निषेधे कृते ऽभावाभावो भाव एव तद्वयप्तो वेति भावस्य विहितत्वात् पुनर्न भावस्य निषेधनं युक्तं व्याहतत्वादिति ।
अस्त्वेवं व्याप्तिस्ततः किमित्यत आह- स्ववच इति ॥
स्ववाचो ऽसत्यता चेत् स्यात् तस्माद् भेदस्य सत्यता

4.1.45

न्यायसुधा:
स्वशब्देन प्रतिवाद्युच्यते ।
तद्वागर्थस्य सकलभेदमिथ्यात्वस्य ।
तस्मात् व्याप्तिसद्भावात् मिथ्यात्वं सत्यत्वं च द्वौ विरुद्धधर्मौ ।
भेदे तयोः, मिथ्यात्वे ऽसति सत्यत्वं सत्स्यादेवोक्तव्याप्तिबलादित्यर्थः ।
*12,70*
प्रकृतमुपसंहरति- तस्मादिति ॥
तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते
न्यायसुधा:
भेदमिथ्यात्वासम्भवाज्जीवेशयोः पारमार्थिकभेद एवोक्तन्यायेन द्युभ्वादिसूत्रैर्गम्यते ।
तथाच तद्विरोधान्नेदमभेदं प्रतिपादयति सूत्रमिति सिद्धम् ।
श्रुतयस्तु प्रागेव सम्यग्व्याख्याताः ।
विरुद्धगुणसत्यता चोपपादिता ।
प्रत्यक्षादीनामतत्त्वावेदकत्वमपि नि(रस्तं)राकृतम् ।
श्रुतिमिथ्यात्वस्यानिष्टत्वं च समर्थितमित्युक्त एव सूत्रार्थः ।
॥ इति श्रीमन्न्यायसुधायां आत्मोपगमाधिकरणान्यथाव्याख्याननिराकरणम् ॥
*12,71*
[======= ज्न्य्स्_4,1.वि: प्रतीकाधिकरणम् =======]
॥ अथ श्रीमन्न्यायसुधायां प्रतीकाधिकरणान्यथाव्याख्यानिराकरणम् ॥
एवं प्रथमसूत्रस्यापव्याख्यां प्रत्याख्याय द्वितीयस्यापि प्रत्याख्याति- एतस्मादिति ॥
एतस्मादात्मशब्दो ऽयं परमात्माभिधा भवेत्

4.1.46

न्यायसुधा:
एतस्मादुक्तन्यायादात्मेति सूत्रगतो ऽयमात्मशब्दः परमात्माभिधा परमात्मन एवाभिधायकस्तावद्भवेत् ।
ततः किमित्यत आह- प्रतीकेति ॥
प्रतीकविषयत्वेन विष्णुदृष्टिर्न तद् भवेत्
न्यायसुधा:
तत् तस्मात्पूर्वसूत्रगतस्यात्मशब्दस्य परमात्मवाचित्वान्न प्रतीक इति प्रतिज्ञावाक्यस्य प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेदित्येवार्थः ।
इदमुक्तं भवति ।
न प्रतीक इत्यत्र तावदात्मेतीत्यनुवर्तनीयं पूर्वसूत्रात् ।
अन्यथा प्रतिज्ञावाक्यस्यापरिपूर्णत्वात् ।
पूर्वसूत्रे चात्मशब्दो विष्णुविषय इति समर्थितम् ।
तथाच प्रतीकविषयाया विष्णुदृष्टेरेवायं प्रतिषेधो व्याख्येयः ।
न प्रतीकेषु जीवमतिं बध्नीयादिति तु प्रतिज्ञाव्याख्याने प्रकृतपरित्यागो ऽप्रकृतस्वीकारश्च प्रसज्येयातामिति ।
*12,72*
मनो ब्रह्मेत्यादिश्रुत्यर्थत्वेन यत्प्रतीकसंस्थितत्वेनेत्युक्तम् ।
तदपि नोत्सूत्र(त्रित)म् ।
किन्तु प्रतीक इति सप्तम्यन्तं पदमावर्तते ।
तत्राद्यं विषयसप्तम्यन्तं नेत्यनेन सम्बद्धयते ।
द्वितीयमधिकरणसप्तम्यन्तं श्रुतिव्याख्यानम् ।
उभयत्रात्मेतीति पदद्वयं पूवर्सूत्रादनुवर्तत इत्याशयवान्प्रसङ्गाद् द्वितीयं व्याख्याति- प्रतीक इति ॥
प्रतीके विष्णुरित्येव तस्मात् कार्या ह्युपासना

4.1.47

*12,73*
न्यायसुधा:
यस्मात्प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेत्तस्मादिति श्रुत्यर्थ इति शेषः ।
हिशब्देन प्रथमादिविभक्तेः सप्तम्यर्थवाचित्वं शाब्दिकानां प्रसिद्धमिति द्योतयति ।
*12,74*
इतश्च नायं प्रतिज्ञार्थ इत्याह- नचेति ॥
न च विष्णुः प्रतीकं यत् तस्मान् ...
न्यायसुधा:
यस्माद्विष्णुः प्रतीकं, चशब्दाज्जीवस्य न भवति, तस्मात्प्रतीकेष्वात्मेति जीव इत्युपासना न प्रसक्तेति शेषः ।
अयमर्थः ।
प्राप्तौ सत्यां हि प्रतिषेधो वक्तव्यः ।
नच प्रतीकेषूपासकस्य आत्मदृष्टिः प्रसक्ता प्रसञ्जकाभावात् ।
यत्तु प्रसञ्जकमुक्तं ब्रह्मण आत्मत्वं प्रतीकानां च ब्रह्मविकारत्वं तदुभयमप्रामाणिकं प्रमाणविरुद्धं च ।
न ह्यत्यन्ताभासेन प्रसक्तिर्भवति ।
अतिप्रसङ्गात् ।
ततः प्रसक्तयभावात्प्रतिषेधो ऽनर्थक इति ।
नहि स इति हेतुव्याख्यानं दूषयति- नच विष्णुः प्रतीकं यत्तस्मादिति ॥
तच्छब्दो हि प्रकृतपरामर्शे वर्तते प्रकृतश्चात्मा ।
आत्मशब्दश्च विष्णुवाच्येवेति समर्थितम् ।
तथाच हि यस्मात्स विष्णुः प्रतीकं नैव तस्मादित्येवार्थः सम्पद्यते ।
नहि स उपासकः प्रतीकानीति व्याख्याने तु प्रकृतपरित्यागेनाप्रकृतपरामर्शः प्रसज्यत इति ।
॥ इति प्रतीकाधिकरणान्यथाव्याख्याननिराकरणम् ॥
*12,75*
[======= ज्न्य्स्_4,1.विइ: ब्रह्मदृष्त्यधिकरणम् =======]
॥ अथ ब्रह्मदृष्टयधिकरणान्यथाव्याख्याननिराकरणम् ॥
इदनीं ब्रह्मदृष्टिरिति सूत्रस्यापव्याख्यामणकरोति- नात्मेति ॥
... नात्मेत्युपासना ।
इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुद्धयते ॥ मनुव्_4,1.47ब्-द् ॥
न्यायसुधा:
नात्मेत्युपासनेत्येकदेशोत्कीर्तनेन"न प्रतीके न हि सःऽ; इति समग्रसूत्रार्थमनुवदति ।
प्रतीकेष्वात्मेति जीव इत्युपासना न कार्या ।
नहि स उपासकः प्रतीकानि इति पक्षो यदा इत्येवं पूर्वसूत्रव्याख्यानं यदा तदात्र प्रतीकेषु ब्रह्मदृष्टिश्च विरुद्धयते ।
चशब्दो ऽपव्याख्याननिराससमुच्चये ।
*12,76*
एतद्विवृणोति- स इति ॥
स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता

4.1.48

न्यायसुधा:
प्रतीकानामात्मत्वेनोपासनस्याकर्तव्यत्वे त्वया या तादात्म्याभावलक्षणा स नेति युक्तिरभिहिता सा तत्रापि ब्रह्मप्रतीकयोरपि समेति हेतोः प्रतीकेषु ब्रह्मदृष्टिः कर्तव्येति सूत्रे व्याख्यायमाने सति उक्तयुक्तिविरुद्धता भवतीति ।
एतदुक्तं भवति ।
प्रतीकेषु ब्रह्मदृष्टिः कर्तव्येति सूत्रव्याख्यानमसत् ।
प्रतीकं ब्रह्मतया नोपास्यम् ।
अब्रह्मत्वात् ।
यद्यन्न भवति न तत्तत्वेनोपास्यमिति युक्तिविरुद्धत्वात् ।
न चेयं युक्तिरप्रमा ।
प्रतीकानामात्मत्वेनोपासनस्य अकर्तव्यतायां पूर्वसूत्रे परेणैवोपन्यस्तत्वात् ।
अन्यथानैकान्त्येन साधिका न स्यात् ।
नच ब्रह्मप्रतीकयोरभेदः ब्रह्मणः सत्यत्वात् प्रतीकानां कल्पितत्वात् ।
पारमार्थिकभेदाभावः तावदस्तीति चेत् ।
तर्हि जीवप्रतीकयोरपि स नास्तीत्यसिद्धिः स्यादिति ।
*12,77*
स्यादेतत् ।
"नहि सःऽ; इति न निर्विशेषणो हेतुः सूत्रकारस्याभि(प्रेतो)मतो येन ब्रह्मदृष्टिः प्रतीकेषूक्तयुक्तिविरुद्धा स्यात् ।
किं तूपास्यस्योत्कर्षप्राप्त्यभावे सतीत्यनेन विशिष्यः ।
प्रतीकानां ब्रह्मत्वेनोपासने तूत्कर्षप्राप्तिरस्ति ।
अतो ऽतद्भावे ऽप्युपासना (कार्या)युज्यत इत्यत आह- यदीति ॥
यद्यप्युत्कर्षमात्रेण ह्यतद्भवे ऽप्युपासना
न्यायसुधा:
आद्ये ऽपिशब्दो ऽतिप्रसङ्गसमुच्चयार्थः ।
हिशब्दस्योत्तरार्धेनान्वयः ।
यदि विशिष्यहेतुं व्याख्याय प्रतीकानामतद्भावे ऽब्रह्मत्वे ऽप्युत्कर्षप्राप्तिमात्रेण ब्रह्मत्वेनोपासनाङ्गीक्रियते ।
तदा आत्मत्वेनापि तदुपासनमङ्गीकार्यं नतु निराकार्यम् ।
कुत इत्यत आह- उत्कर्ष इति ॥
उत्कर्ष आत्मनो ऽपि स्याच्चेतनत्वादचेतनात्
न्यायसुधा:
यस्माद्ब्रह्मवदात्मनो ऽपि प्रतीकादुत्कर्षो ऽस्ति ।
कथम् ।
आत्मनश्चेतनत्वात् ।
अचेतनं खलु प्रतीकम् ।
तस्यात्मत्वेनोपासनायामुत्कर्षप्रप्तिः स्यादिति ।
अतिप्रसङ्गस्य विपर्ययपयर्वसानमाह- तस्मादिति ॥
तसमादतत्त्वं नोपास्यमिति वेदविदो मतम्

4.1.49

न्यायसुधा:
यस्माद्विशिष्यहेतौ व्याख्यायमाने पूर्वसूत्रे ऽसिद्धिः स्यात् ।
तत एव प्रतीकेषु ब्रह्मोपासनवदात्मोपासनं च प्रसज्येत ।
तस्मात्, अतत्त्वं, यद्यन्न भवति तत्तत्वेन नोपास्यमिति सामान्यमेव सूत्रकारस्याभिमतम् ।
नतु विशेषणप्रक्षेपः ।
तथाच ब्रह्मदृष्टिरिति प्रतिज्ञा स्वोक्तयुक्तिविरुद्धैवेति ।
अत्र व्याप्तेर्निर्विशेषणत्वाभिधानस्य हेतोर्निर्विशेषणत्व एव तात्पर्यम् ।
स्पष्टत्वार्थं तु व्याप्त्यभिधानमिति वाच्यम् ।
*12,80*
प्रतिज्ञाव्याख्यानमपाकृत्य उत्कर्षादिति हेतुव्याख्यानमपाकरोति- उत्कर्षादिति ॥
उत्कर्षाद् ब्रह्मताध्याने यदि स्यात् फलमञ्जसा ।
ब्रह्मणो नीचताध्यानादनर्थः किं न जायते

4.1.50

न्यायसुधा:
ब्रह्मताध्याने प्रतीकानामुत्कर्षादुत्कर्षस्य दृष्टत्वादञ्जसा फलं पुरुषार्थरूपं फलं यदि स्यात्तदा, तदेव ब्रह्मणो नीचताध्यानमिति, तस्मादनर्थः किं न जायते, जायत एवेति समव्ययफलत्वादकार्यमेवेदमिति ।
अभ्युपगम्येदं समव्ययफलत्वमुक्तम् ।
वस्तुतस्तु न पुरुषार्थः किं त्वनर्थ एवेत्याह- अचेतनस्येति ॥
अचेतनस्य ब्रह्मत्वध्याने तुष्यिर्नहि क्वचित् ।
नीचस्य स्वात्मताध्याने कुप्यति ब्रह्म लोकवत्

4.1.51

न्यायसुधा:
तुष्ट्ययभावाच्च न पुरुषार्थलाभस्ततः ।
क्वचिदित्यनेन यदचेतनं तदुपचिकीर्षालक्षणतुष्यिरहितमिति व्याप्तिं सूचयति ।
नीचस्य प्रतीकस्य स्वात्मताध्यानाद्ब्रह्म कुप्यति ।
ततश्चानर्थं प्रयच्छति ।
तत्र दृष्टान्तो लोकवदिति ।
यथा लोके शिलादिकं राजत्वादिना चिन्तितं न प्रसीदति नापि पुरुषार्थं प्रयच्छति ।
यथा च राजा चण्डालत्वेन ध्यातः कुप्यति अनर्थं च ददाति तथेत्यर्थः ।
अनेन प्रतीकानामचेतनत्वे ऽपि ब्रह्मैव सर्वाध्यक्षत्वात्फलं दास्यतीति च प्रत्युक्तम् ।
तस्यानेनोपासनेन कुपितत्वात् ।
*12,82*
न वयं ब्रह्मणि प्रतीकत्वोपासनं ब्रूमः ।
येन ब्रह्म कुपितमनर्थं प्रयच्छेत् किन्तु प्रतीके ब्रह्मत्वोपासनम् ।
ततः पुरुषार्थप्राप्तिरित्यत आह- चण्डाल इति ॥
चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि ।
को विशेषः परिज्ञाते नृपेण स्यात् कथञ्चन

4.1.52

न्यायसुधा:
चण्डालमुद्दिश्य चण्डालो नृप इत्युक्ते तथा नृपमुद्दिश्य नृपश्चण्डाल इत्युक्ते नृपेण परिज्ञाते सत्यनर्थप्राप्तौ कथञ्चन को विशेषः स्यान्न कथञ्चित्को ऽपि ।
अत्रोक्तशब्देन ध्यानमुपलक्ष्यते ।
अज्ञातोपासनो राजा नानर्थं करोतीति नृपेण परिज्ञात इत्युक्तम् ।
तथाच प्रतीकं ब्रह्मेत्युपासने ब्रह्म प्रतीकमित्युपासने च सम एवानर्थ इति वाक्यशेषः ।
*12,82f.*
ननु क्षत्तरि राजदृष्टिः फलवती, राज्ञि क्षत्तृदृष्टिरनर्थहेतुर्दृष्टा ।
तत्कथमुभयस्य साम्यमुच्यत इति चेन्न ।
तत्र दृष्टेरभावात् ।
उक्तिमात्रं तूपचारेण ।
सिंहो देवदत्त इति यथा ।
दृष्टौ तु तत्राप्यनर्थसाम्यमेवेत्याशयेनाह- पुरत इति ॥
*12,83*
पुरतो नरदेवस्य चण्डालो यदि पूज्यते ।
राजवत् किं न कोपः स्याद् राज्ञो लोके हि पश्यति

4.1.53

न्यायसुधा:
राजा यथा पूज्यते तथा ।
तदा राज्ञः कोपो न स्यात्किम् ।
लोके ऽभिपश्यति सतीति कोपातिशयप्रदर्शनार्थम् ।
पूजया दर्शनमुन्नीयत इत्यतः पूज्यत इत्युक्तम् ।
न केवलं दृष्टेरुन्नायिकायां पूजायामेव राजकोपः किन्तु तादृश्यामुक्तावपीत्याह- राज्ञस्त्विति ॥
राज्ञस्तु पुरतः प्रोक्ते चण्डालं नृप इत्यपि ।
आत्मानं स इति प्रोक्तमितिवद्धयेव कुप्यति

4.1.54

न्यायसुधा:
नाज्ञाता प्रोक्तिः कोपजननीत्यतो राज्ञस्तु पुरत इत्युक्तम् ।
चण्डाले नृप इति प्रोक्ते ऽपि प्रकर्षेण न मयोपचारेणोच्यते अपि तु वस्तुत एवेत्युक्ते ऽपि राजा कुप्यत्येव हि ।
आत्मानं प्रति हि स चण्डाल इति प्रोक्तं प्रकर्षेणोक्तमितिवदित्यत्र यथा तथैवेत्यर्थः ।
पूजैव कोपकारणं न दशर्नमित्यशङ्कानिरासाय विवेकार्थमयं श्लोकः ।
*12,85*
एवमुद्देशविधानोक्तया द्वैरूप्यमङ्गीकृत्य फलतः साम्यमुक्तम् ।
इदनीं तदपि नास्तीत्याह- अभेदेनेति ॥
अभेदे नैतयोर्ध्याने को विशेषो वचस्यपि

4.1.55

न्यायसुधा:
एतयोर्ब्रह्मप्रतीकयोरभेदेन ध्याने ऽङ्गीकृते न केवलमनथर्साम्यं किन्तु वचस्यापि को विशेषः ।
वचनद्वयार्थो ऽप्यविशिष्य एवेत्यर्थः ।
अत्रैव दृष्टान्तमाह- अयमिति ॥
अयं राजा त्वमित्युक्ते चण्डाले ऽथ नृपे ऽपि च ।
चण्डाल इति तु प्रोक्ते सममेव हि दूषणम् ॥ मनुव्_4,1.54च्-f ॥
न्यायसुधा:
व्यक्तिभेदेन दूषणपरिहारः स्यादित्यतो ऽयमित्युक्तम् ।
दूषणं नीचत्वलक्षणम् ।
द्वयोरभेदेन ध्याने दूषणं सम्भवत्येव ।
नचैवम् ।
प्रतीकस्य हि ब्रह्मत्वं भाव्यते ।
नतु ब्रह्मणः प्रतीकत्वमित्यत आह- ध्यात इति ॥
ध्याते त्वेकस्य तद्भावे तद्भावो ऽन्यस्य किं न तत्
न्यायसुधा:
तत्तयोर्ब्रह्मप्रतीकयोरेकस्य प्रतीकस्य तद्भावे ब्रह्मभावे ध्याते सत्यन्यस्य ब्रह्मणस्तद्भावः प्रतीकभावः ध्यातो न किम् ।
*12,86*
एतदुक्तं भवति ।
भवेदयं परिहारो यदि प्रतीक(स्य) स्वरूपोपमर्देन तस्य ब्रह्मत्वमुपास्यमिति पक्षः स्यात् ।
न चैवम् ।
प्रतीकाभावप्रसङ्गस्य परेणैवोक्तत्वात् ।
भेदाभेदाभिप्रायेणायं परिहार इत्यपि नास्ति ।
नहि घटो मृदभिन्नो मृद्घटाद्भिन्नेति भेदाभेदौ किन्नाम परस्परम् ।
तस्मादनुपमर्दितस्वरूपस्य प्रतीकस्य ब्रह्मत्वे ध्याते ब्रह्मणो ऽपि प्रतीकत्वं ध्यातमेवेति युक्तमुक्तमिति ।
नन्वस्मिन्नुपासने ब्रह्मणा ज्ञाते ऽनर्थः स्यान्न त्वज्ञाते ।
अतस्तथोपासनं करिष्यत इत्यत आह- न चैवेति ॥
नचैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित्

4.1.56

न्यायसुधा:
तत् उपासनम् ।
ब्रह्मणो ऽज्ञाने सर्वाध्यक्षं ब्रह्मैव फलं दास्यतीति रिक्तं वचः स्यात् ।
*12,88*
ननु श्रुतिविहितमाचरता कथं ब्रह्मकोपेनानर्थप्राप्तिरित्याशङ्कां परिहरन्नपव्याख्याननिराकरणमुपसंहरति- तस्मादिति ॥
तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः
न्यायसुधा:
सर्वमिति श्रुतिसूत्रव्याख्यानरूपम् ।
एतेन सालग्रामादौ विष्ण्वादिप्रतिपत्तिरपि परास्ता वेदितव्या ।
सूत्रव्याख्यानमुपक्रम्यापव्याख्यानदूषणमसङ्गतमित्यतः स्वोक्तदार्ढ्यार्थमिति भावेनाह- तस्मादिति ॥
तस्माद् यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः

4.1.13

*12,89*
न्यायसुधा:
परकीयव्याख्यानस्य दूषितत्वात् ।
यथोक्तमार्गेण अस्मदुक्तं सूत्रार्थमनतिक्रम्य वर्तमानेन मार्गेण ।
॥ इति श्रीमन्न्यायसुधायां ब्रह्मदृष्टयधिकरणान्यथाव्याख्याननिराकरणम् ॥
[======= ज्न्य्स्_4,1.विइइ: ...धिकरणम् =======]
॥ अथ श्रीमन्न्यायसुधायां तदधिगमाधिकरणम् ॥
॥ ओं तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्वयपदेशात् ओं ॥
निवृत्ता साधनचिन्ता ।
प्रतिबन्धा(का)नां पूर्वोत्तराणामनन्तकर्मणां भावान्न ज्ञानिनो मोक्षः सम्भवतीत्याशङ्कानिरासाय कर्मनाशाख्यं ज्ञानफलमिदानीं निरूप्यते ।
तत्र ज्ञानसामर्थ्येनैव कर्मक्षयो भवतीति प्रतीतिं निराकर्तुं सूत्रतात्पर्यमाह- तथेति ॥
तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात्

4.1.14

तथोपास्याञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ।
करोति निखिलं पूर्वं पाश्चात्त्यस्याप्यसङ्गताम् ।
करोति ... ॥ मनुव्_4,1.57अ-ए ॥
*12,90*
न्यायसुधा:
तथा उक्तप्रकारेण, अञ्जसा आदरनैरन्तर्याभ्यां, उपास्य दृष्टं, ज्ञानात् पूर्वं, निखिलं पापं, चशब्दादनिष्यं पुण्यं च, पाश्चात्यस्य पापस्यानिष्यपुण्यस्य च ।
अनेन"अतो ऽन्यदपीत्येकेषामुभयोःऽ; इति सूत्रतात्पर्यमुक्तं भवति ।
॥ ओं इतरस्याप्येवमसंश्लेषः पाते तु ओं ॥
*12,90f.*
इदं सूत्रं केचिद्ब्रह्मविद एवाघस्येव पुण्यस्या(संश्ले)शेषो विनाशो भवति, शरीरपाते प्रत्यासन्ने सतीति व्याचक्षते, तदसत् ।
अतो ऽन्यदपीत्यस्य पुनरुक्तताप्रसङ्गात् ।
व्याख्यानव्याख्येयभावस्य चानन्यगतित्वात् ।
पूर्वसूत्र एवाघपदस्थाने कर्मपदप्रक्षेपेणोपपत्तौ सूत्रान्तरारम्भवैयर्थ्यात् ।
अस्माकं त्वग्निहोत्रादीत्यादिसूत्राणि पुण्ये ऽपि विभागसूचनार्थानि ।
ज्ञानोत्तरं पुण्यार्जनस्याभावादश्लेषशब्दो विनाशार्थो व्याख्यातव्यः ।
तथाच प्रकृतपरित्यागो ऽप्रकृतस्वीकारश्चेत्याशयवानन्यथा सूत्रतात्पर्यमाह- तद्द्विषश्चेति ॥
इतरस्याप्य् एवम् असंश्लेषः पाते तु

4.1.57

... तद्द्विषश्चैवं पुण्यनाशो ऽप्यसङ्गता

4.1.58

न्यायसुधा:
ब्रह्मद्विषश्च ।
एवं ज्ञानिवत् ।
द्वेषपरिपूर्तेः पूर्वस्य पुण्यस्य नाशो भवत्युत्तरस्यासङ्गतापि ।
अत्र सूत्रं यदेव विद्ययेति हीति, तत्पुनरुक्तम् ।
एतदर्थस्य तच्छ्रुतेरिति सूत्रेण प्रागुक्तत्वादित्यत आह- यदेवेति ॥
यदेव विद्ययेत्यत्र पूर्वोक्ताद्धि विशिष्टते
न्यायसुधा:
अत्रोक्तं प्रमेयमिति शेषः ।
अतो न पुनरुक्तिदोष इति हेरथर्ः ।
वक्ष्यमाणो ऽर्थविभागः प्रकरणवशात् प्रसिद्ध इति वा ।
कथं विशिष्यत इत्यतः पूर्वसूत्रतात्पर्यं तावदाह- पूर्वमिति ॥
पूर्वं स्वर्गादिलब्ध्यर्थं वीर्यवत्त्वेन चोदितम् ।
कर्म विद्यायुतं ... ॥ मनुव्_4,1.58च्-ए ॥
न्यायसुधा:
स्वर्गादीति मोक्षेतरपुरुषार्थग्रहणम् ।
उत्तरसूत्रतात्पर्यमाह- पश्चादिति ॥
... पश्चान्मोक्षे वीर्यप्रदं त्विति

4.1.19

न्यायसुधा:
पश्चात्त्विति सम्बन्धः ।
विद्यायुतं कर्मेति वर्तते ।
वीर्यपदं आनन्दातिशयप्रदम् ।
इति चोदितमिति सम्बन्धः ।
सकलकमर्क्षये तदैव मुक्तिः स्यात् ।
न चैवम् ।
जीवन्मुक्तानामुपलम्भादित्याशङ्कापरिहारायोक्तम्- सूत्रकारेण अनारब्धकार्ये एव तु पूर्वे तदवधेः इति ॥
तर्हि प्रारब्धकर्मभावात्कथं मोक्ष इत्याशङ्कय पुनः सूत्रितं- भोगेन त्वितरे क्षपरित्वाथ सम्पत्स्यत इति ॥
एतदपि न ब्रह्मविन्मात्रविषयमित्याशयवान् व्याचष्टे- तत इति ॥
भोगेन त्व् इतरे क्षपयित्वाथ संपद्यते

4.1.59

ततो भोगेन पुण्यं च क्षपयित्वेतरत् तथा ।
ब्रह्मद्विड् ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः

4.1.60

न्यायसुधा:
अनारब्धक्षयानन्तरम् ।
इतरत्पापम् ।
*12,94*
प्रारब्धकर्मणामनन्तत्वे भोगेन क्षयो न शक्य(ते)इत्याशङ्कामागमवाक्येन परिहरति- ब्रह्मणामिति ॥
ब्रह्माणं शतकालात्तु पूर्वमारब्धसङ्क्षयः ।
ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद् ब्रह्मणस्तथा ।
रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश

4.1.61

अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः ।
ब्रह्मणैव सहातश्च परं नारायणं व्रजेत् ।
इति सत्तत्त्ववचनं स्वयं भगवतोदितम्

मूल पाठ: Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc