भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसुधा · अध्याय 3.3

3.3.1

न्यायसुधा:
माहात्म्यं शक्तिः गुणा आनन्दाद्याः ।
आराध्य उपास्य इत्युत्तरपादार्थेन सङ्गतिमस्य सूचयति ।
॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ॥
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयाध्यायस्य द्वितीयः पादः ॥
॥ इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य द्वितीयः पादः ॥
*10,1*
उपासनास्मिन्पाद उच्यत इति भाष्यम् ।
तत्रोपासनार्थस्यास्य पादस्य का पूर्वेणोत्तरेण वा सङ्गतिरित्यतो ऽस्य पादस्य सङ्गतिं वदन्प्रसङ्गादेतदध्यायगतपादचतुष्ययस्याप्याह- वैराग्यत इति ॥
वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् ।
आपरोक्ष्यं भवेद् विष्णोरिति पादक्रमो भवेत्

3.3.2

न्यायसुधा:
मीमांसासाध्याद्वैराग्यात्त्प्रागेव भक्तेर्भाव्यत्वाद्दार्ढ्यमित्युक्तम् ।
यदाशब्दो यस्मादित्यर्थे ।
तयापरोक्ष्यं भवेत् ।
इति तस्मात् ।
अयमर्थः ।
साधनविचारो ऽयं तावदध्यायः ।
मोक्षसाधनं च भगवत्प्रसाद एव ।
तत्साधनानि च विषयवैराग्यं भगवद्भक्तिस्तदुपासना तत्साक्षात्कार इति चत्वारि ।
तानि च न समकक्ष्याणि ।
किन्त्वादौ वैराग्यं साध्यम् ।
तेन भक्तिः ।
न हि हेये रागवत उपादेये प्रमोत्पत्तिरस्ति ।
दृश्यते तावदिति चेत् ।
नासौ दृढ(ः) प्रेमा ।
अत एवं चोक्तं भक्तिदार्ढ्यमिति ।
तेन वैराग्येण भक्तिदार्ढ्येन चोपासा भवेत् ।
न ह्यन्यत्र रागवतस्तत्र भक्तिरहितस्यादरनैरन्तर्याभ्यामनुचिन्तनमुपप(त्प)द्यते ।
उपासनया चातिदीघर्कालमनुष्ठितया प्रसन्नो भगवानात्मानं दर्शयति ।
यस्मादेवं वैराग्यादीनां क्रमस्तस्मात्तद्विषयाणामेषां पादानामप्ययं क्रमो भवेदिति ।
*10,4f.*
एवमेतदध्यायगतानां चतुर्णामपि पादानामानन्तर्यलक्षणां सङ्गतिमभिधाय तत्प्रसङ्गात्प्रथमसूत्रमारभ्यातीतानां सर्वेषामपि सूत्राणां परस्परं सङ्गतिं विवक्षुः प्रथमसूत्रार्थं तावदनुवदति युक्तित इत्यारभ्य(विशिष्य) आचार्यसम्पदेत्यन्तेन ।
युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् ।
परस्परविरोधं च प्रणुद्याशेषवाक्यगम्

3.3.3

अध्यात्मप्रणवो भूत्वा तस्य सन्निहितत्वतः ।
बहुयुक्तिविरोधानां भानात् तत्सहितश्रुतेः

3.3.4

विरोधं च निराकृत्य श्रुतीनां प्राणतस्त्वगान् ।
परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः

3.3.5

देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः ।
विशेषस्नेहमापाद्य सर्वकर्तृत्वतो ऽधिकम्

3.3.6

निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः ।
उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात्

3.3.7

सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च ।
यतेतोपासनायैव विशिष्टाचार्यसम्पदा

3.3.8

*10,5*
न्यायसुधा:
तत्र यतेतोपासनायैवेत्यनेन ब्रह्मजिज्ञासा कर्तव्येत्येतद्वयाख्यातम् ।
अन्यत्सर्वमप्यथशब्दव्याख्यानम् ।
यद्यपि सङ्गतिमात्रविवक्षयेदमारब्धम् ।
तथापि प्रागथशब्दस्याव्याख्यातत्वात् तस्य च केवलस्य व्याख्यातुमशक्यत्वात्सूत्रार्थानुवादः कृतः ।
अतीतेन सार्धेनाध्यायद्वयेन यावानर्थो मीमांसितस्तावतः सामान्यतो ज्ञानादिमत्त्वमथशब्दस्यार्थ इति सङ्क्षेपः ।
विशिष्याचार्यसम्पदेति सर्वत्रान्वयः ।
तत्र ज्ञातवेदार्थ इति सर्ववेदानां भगवानेवार्थ इति ज्ञानवानित्यनेन प्रथमाध्यायप्रमेयमुक्तम् ।
यक्तित इति ल्यब्लोपनिमित्ता पञ्चमी ।
वेदार्थविरोधियुक्तीः सामान्यतो निराकृत्येति द्वितीया(ध्याया)द्यपादस्य ।
परान्वैष्णवसमयादन्यान्साङ्खयादिसमयान्सामान्यतो(निराकृत्ये)निरस्येति द्वितीयपादस्य ।
परस्परविरोधञ्चेति तृतीयचतुर्थयोः ।
कथं तर्हि पादभेद इत्यतो ऽध्यात्मप्रवणो भूत्वेति बहुयुक्तिविरोधानां भानात्कारणाच्छतीनां युक्तिसहितश्रुतेर्विरोधं च निराकृत्येति
चतुर्थस्य विशेषो दर्शितः ।
अध्यात्मविषयश्रुतिविरोधपरिहारज्ञानस्य चरमत्वोपपादनाय तस्येत्युक्तम् ।
आध्यात्मिका(हि)भावा मिथ्या सम्यग्वा विदिता बन्धमोक्षयोरन्तरङ्गतामश्नुवते ।
न तथा बाह्याः ।
प्राणतत्त्वगानित्यनेन चतुर्थपादगतानामेव मुख्यप्राणविषयाणामधिकरणानां प्रमेयमध्यात्मेत्यनेनैव लब्धमेतत्कस्मात्पुनरुच्यत इत्यतो विशेषेणैतद्भाव्यं तत्प्रसादायत्तत्वाज्जिज्ञासाया इत्याशयवतोक्तं तत्प्रसादेति ।
अनुरञ्चितः समीचीनः कृत इति यावत् ।
देहकर्तृत्वमित्यादिना त्रिवृत्कुर्वत इत्यधिकरणस्य सर्वकर्तृत्वत इति सर्वकर्तृत्वं विज्ञाय ततश्च भगवद्भक्तिमान्भूत्वेत्यर्थः ।
अत्रापि पुनर्वचनस्य तात्पर्यं पूर्ववदवधेयम् ।
अतिदुःखसाधनत्वं विज्ञाय ।
तदन्यत्र भगवतो ऽन्यत्राधिकं वैराग्यमुत्पाद्येति तृतीयाद्यस्य ।
अजिज्ञासूनामपि कदाचित्क्वचिद्वैराग्यं जायते ऽतो ऽधिकमित्युक्तं अतीति च ।
तद्गुणाधिक्येति द्वितीयस्य ।
तद्वशत्वात्तद्वशत्वं विज्ञाय भक्तेः प्राक् सिद्धत्वाद्दार्ढ्यमित्युक्तम् ।
न चैतत्सर्वमनुपासितगुरोर्भवतीत्यतो विशिष्येत्यभिहितमिति ।
*10,9*
कथमयमथशब्दस्यार्थ इति चेत् ।
उच्यते ।
यद्यप्यथशब्दो ऽनेकार्थः ।
तथाप्यर्थान्तराणामत्रायोगादानन्तर्यार्थः परिगृह्यत इत्यविवादम् ।
आनन्तर्यं न यतः कुतश्रिचदभिधातव्यम् ।
वैयर्थ्यात् ।
किन्तु येन विना न ब्रह्मजिज्ञासा भवति यस्मिंश्च सति भवत्येव तदानन्तर्यम् ।
तथाविधं च वेदार्थज्ञानादीति ।
किञ्च जिज्ञासा नाम विचारापरपर्यायं मननम् ।
नच तच्छ्रवणमन्तरेण सम्भवतीत्यतो यावदर्थजातमत्र शास्त्रे विचार्यं तावतः श्रवणजन्यं ज्ञानं पूर्ववृत्तम् ।
सति च तस्मिञ्जन्मान्तरानुष्ठितसत्कर्मणः सत्कुलप्रसूतस्य सात्त्विकप्रकृतेर्वैराग्यादिकमवश्यं भवत्येव ।
यत्तु परैर्नित्यानित्यवस्तुविवेकः शमदमादिसाधनसम्पदिहामुत्रफलभोगवैराग्यं मुमुक्षुता चेति साधनचतुष्ययं पूर्ववृत्तमुक्तं तदस्मादुक्त एवान्तर्भवतीत्यविरुद्धम् ।
उत्तमभक्तानां मुमुक्षुता नास्तीत्याचार्येण न सङ्कीर्तिता ।
एतेन जिज्ञासासाध्यस्य वैराग्यादेस्तत्साधनत्वे ऽन्योन्याश्रयत्वं स्यादित्यपि निरस्तम् ।
सात्त्विकप्रकृतेः सत्सङ्गवशादीषद्वैराग्यादिमतः श्रवणेन तदभिवृद्धौ कृतमननादेर्भूयस्तदभिवृद्धिरिति ।
*10,11*
एवं प्रथमसूत्रार्थमभिधाय तेन द्वितीयसूत्र(स्य)सङ्गतिमाह- कर्तव्येति ॥
कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये
न्यायसुधा:
उक्ते सति किमिति कर्तव्या प्रयोजनाभावान्न कर्तव्येति संशयो भवति ।
संशयशब्देनात्र विपर्ययो ऽभिधीयते ।
मिथ्याज्ञानत्वसाम्यात् ।
संशये सति तत्परिहाराय जन्माद्यस्य यत इत्याहेति शेषः ।
यद्वा किं कर्तव्या न वेति संशये प्रयोजनाभावान्न कर्तव्येति पूर्वपक्षे च सतीति व्याख्येयम् ।
इत्याहेति वक्ष्यमाणेनैव(वा) सम्बन्धः ।
*10,12*
प्रथमसूत्रे ऽतः शब्देन जिज्ञासाया मोक्षार्थत्वात्कथं पुनराशङ्केत्यत आह- अत इति ॥
अत इत्युदिते ऽप्यस्य विशेषानुक्तितः पुनः

3.3.9

न्यायसुधा:
अतःशब्देन जिज्ञासाया मोक्षार्थत्वे उदिते ऽप्यस्य मोक्षार्थत्वस्य विशेषानुक्तितो हेतोः पुनः संशय इति पूर्वेण सम्बन्धः ।
एवं तर्हि जन्मादिसूत्रेणापि नैषा शङ्का निवर्तते ।
तत्रापि(हि) मोक्षः समासार्थतया व्याख्यातव्य एव ।
न तु विशेषेणोक्त इति चेन्न ।
प्रमाणविशेषानुक्तित इति व्याख्यानात् ।
एतदुक्तं भवति ।
मोक्षप्रयोजनत्वाद्ब्रह्मजिज्ञासाकर्तव्येत्यतःशब्देनोदिते ऽपि पुनराशङ्का भवत्येव ।
तत्र प्रमाणस्यानुक्तत्वादिति ।
*10,13*
एवञ्चेद् द्वितीयसूत्रमपि कथमेतदाशङ्कां निवर्तयेत् ।
न ह्यत्रायमर्थः प्रमाणेनोपपादित इत्यतस्तद्वयाचष्टे- सृष्टीति ॥
सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः ।
यतो मोक्षादिदातासावतो जिज्ञास्य एव वः ।
इत्याह तत् परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत्

3.3.10

न्यायसुधा:
श्रुतत्वतोअब् ऽसौ मोक्षादिदाता ।
यतश्च मोक्षादिदातासावतो वो युष्माकं मुमुक्षूणां जिज्ञास्य एवेत्येतमर्थं जन्मादिसूत्रेणाहेत्यर्थः ।
अयमभिसन्धिः ।
जन्माद्यस्य यत इति सूत्रे श्रुतमिति वाक्यशेषः ।
तथाच परमेश्वरस्य मोक्षदातृत्वे श्रुतिः प्रमाणमित्युक्तं भवति ।
किञ्चात्र मोक्षदातृत्वं प्रधानम् ।
सृष्टयादिकर्तृत्वं तु तत्र हेतुत्वेनोक्तम् ।
केवलव्यतिरेकी चायं हेतुः ।
तस्य चासिद्धिपरिहाराय श्रुतत्वमभिहितमिति ।
कृत्यानां कर्तरि वेति व इति षष्ठी ।
*10,15*
ननु मोक्षादिकर्तृत्वस्येत्यादि कथम् ।
कर्तरि चेति तृजन्तेन षष्ठयाः समासप्रतिषेधात् ।
तृन्नयं तच्छीलादौ विहितः ।
तेन च श्रितादिषु गामिगम्यादीनामुपसङ्खयानमिति द्वितीयायाः समासः ।
*10,25*
ज्ञानं रश्मय इव ज्ञानरश्मयः ।
व्याप्तज्ञानवदित्यर्थः ।
अपां तरतमो नाम"कश्चन मुनिर्व्याप्तो बभूवऽ; इति प्रवाददर्शनाच्छिष्याणां सूत्रकारे भक्तिमान्द्यं मा भूदित्यतो विशेषेणोपादनम् ।
*10,26*
जिज्ञासाया मोक्षसाधनत्वे प्रमाणाभावेनाक्षिप्ते भगवतो मोक्षसाधनत्वसमर्थनमसङ्गतमित्यत आह- येनैवेति ॥
येनैव बन्धमोक्षः स्यात् स च जिज्ञासया गतः ।
सुप्रसन्नो भवेदीशो जिज्ञासातो ऽस्य मुक्तिदा

3.3.11

न्यायसुधा:
बन्धान्मोक्षो बन्धमोक्ष ।
पञ्चमीति योगविभागात्समासः ।
षष्ठीसमासो वा ।
येन प्रसन्नेनेति शेषः ।
गतो ज्ञातः ।
गत्यर्थानामवगत्यर्थत्वात् ।
चो यस्मादित्यर्थे ।
प्रसादमात्रस्य मोक्षसाधनत्वाभावात्सुशब्दः ।
अस्येशस्य जिज्ञासास्य जीवस्य मुक्तिदा ।
एतदुक्तं भवति ।
जिज्ञासा तावन्न साक्षान्मोक्षसाधनत्वेनास्माकमभिमता ।
किन्तु (सु)प्रसन्नो भगवानेव ।
स चोत्कृष्टतया ज्ञातः सुप्रसन्नो भवति ।
उत्कर्षज्ञानं च जिज्ञासयेत्येवम्परम्परया ।
तत्र भगवतो मोक्षदातृत्वं तावत्प्रमाणैः समर्थितम् ।
प्रसन्न एव ददातीत्युत्कर्षज्ञानात्प्रसीदतीति जिज्ञासयोत्कृष्टतया ज्ञायत इति च लोकत एव सिद्धम् ।
किं तत्र प्रमाणोपन्यासेन ।
अतो भगवज्जिज्ञासाय मोक्षहेतुत्वं प्रमितमिति मन्यते सूत्रकार इति ।
ननु स्थानान्तरे ऽस्य सूत्रस्यान्यथासङ्गतिरुक्ता ।
सत्यम् ।
सत्यां तस्यामियमपरात्रोक्तेति ।
*10,29*
तृतीयसूत्रनिवर्त्यामाशङ्कामभिधाय तत्परिहारत्वेन तत् पठति- मोक्षादीति ॥
मोक्षादिदत्वमीशस्य कथमेवावगम्यते ।
इति चेच्छास्त्रयोनित्वाच्छास्त्रगम्यो हि मोक्षदः

3.3.12

न्यायसुधा:
प्रधानं मोक्षदातृत्वं तत्साधनं सृष्टयादिकर्तृत्वं चेशस्यैवेति सम्बन्धः ।
कथमवगम्यते ।
न कथञ्चित् ।
अनुमानैस्तत्तदागमैश्चान्येषां तथावगमादिति भावः ।
इति चेत्तत्रोक्तमिति शेषः ।
कथमिदं सूत्रमेतदाशङ्काया निवर्तकमित्यतस्तद्व्याचष्टे- शास्त्रगम्यो हीति ॥
मोक्षग्रहणं सृष्टयादेरप्युपलक्षणम् ।
यस्मान्मोक्षादिदः पुरुषः शास्त्रमात्रस्य विषयो ऽतो वेदादिकं यं तथाविधं प्रतिपादयति स एव तथा प्रतिपत्तव्यो नानुमादिना कल्पनीय इति ।
*10,30*
मोक्षादिदातुः शास्त्रैकसमधिगम्यत्वं कुतः ।
परिशेषादित्याशयवान्प्रत्यक्षगम्यत्वं तावद्दूषयति- प्रत्यक्षेति ॥
प्रत्यक्षावसितेभ्यः स्याद् यदि मोक्षः कथञ्चन ।
किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः

3.3.13

न्यायसुधा:
यदि मोक्षादिदाता प्रत्यक्षः स्यादिति यावत् ।
कथञ्चन तत्सेवादिना ।
तदा सर्वेऽपि युक्ताः स्युरित्यर्थः ।
मोक्षदातुः प्रत्यक्षत्वे कुतः सर्वैर्मुक्तैर्भाव्यमित्यत आह- यस्मादिति ।
यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् ।
धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः

3.3.14

न्यायसुधा:
यस्मात्पुरुषाद्धेतोः ।
अमुमुक्षुत्वान्न धावन्तीत्याशङ्कानिवारणाय मोक्षस्वरूपं व्याख्यातं दुःखहानिरिति ।
न हि को ऽपि दुःखी दुःखं न जिहासति इति सम्भवति ।
प्रत्यक्षतः प्रत्यक्षगम्यात् ।
राजाद्यमिति सम्भावनयोक्तम् ।
दारिद्रयदुःखं जिहासवो वदान्यं राजाद्यमिवेति वा ।
अनुमानगम्यत्वं दूषयति- अनुमेति ॥
अनुमानगम्यतो मोक्षो यदि तस्यानुमैव हि ।
दृष्टपूरुषवन्मोक्षदातृतां विनिवारयेत्

3.3.15

तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम्
न्यायसुधा:
यदि कश्चिन्मोक्षदातृत्वेनानुमीयत इत्यर्थः ।
अनुमैव पुरुषत्वादिका ।
अनुमानं सप्रतिपक्षत्वान्न तत्र भवतीत्यर्थः ।
आगमास्त्वाप्तेरनिश्चयादसमर्था एवेत्याशयवान्परिशेषमुपसंहरति- तदिति ॥
तत्तस्मान्मोक्षदः पुरुषो ध्रुवं लोकं शास्त्रगम्य एव भवेदिति योजना ।
*10,31*
अस्त्वेवं तथापि मोक्षदत्वेन शास्त्रगम्यत्वमन्येषां भविष्यति ।
तथा प्रतिभासादिति चतुर्थसूत्रस्य सङ्गतिं सूचयंस्तत्त्विति पदद्वयं व्याख्याति- शास्त्रेति ॥
शास्त्रगम्यश्च नान्यो ऽस्ति मोक्षदत्वेन केशवात्

3.3.16

न्यायसुधा:
मोक्षदत्वेन शास्त्रगम्यश्च केशवादन्यो नास्ति ।
किन्तु स एव कुत इत्यतः सौत्रं हेतुं व्याख्याति- मोक्षदो हीति ॥
मोक्षदो हि स्वतन्त्रः स्यात् ...

3.3.17

न्यायसुधा:
स्वतन्त्र एव हि मोक्षदः स्यादित्यन्वयः ।
स्वातन्त्र्येण समन्वयश्च भगवत एव नान्येषाम् ।
यस्य च प्रतीयते श्रुत्यादौ स एव भगवान्विष्णुरिति भावः ।
परतन्त्रो मोक्षदः किन्न स्यादिति चेत् ।
स किं स्वतन्त्रमनाश्रित्य स्वयमेव मोक्षं दद्यादुत स्वतन्त्रमन्यमाश्रित्य ।
आद्ये दोषमाह- परतन्त्र इति ॥
... परतन्त्रः स्वयं सृतौ ।
वर्तमानः कथं शक्तः परमोक्षाय केवलम् ॥ मनुव्_3,3.16ब्-द् ॥
न्यायसुधा:
परतन्त्र एव ।
केवलं परानपेक्षया ।
यद्यसौ स्वतन्त्रमनपेक्ष्यैव स्वभक्तमोक्षाय शक्तः स्यात्तर्हि स्वात्मानमपि मोचयेदिति न संसारी स्यादित्याशयः ।
द्वितीयं दूषयति- अन्येति ॥
अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि ।
तेनाननुसृतो मोक्षं न दद्यादन्यवाक्यतः ॥ मनुव्_3,3.17अ-द् ॥
न्यायसुधा:
एषो ऽवान्तरेश्वरो ऽन्यस्य स्वतन्त्रस्य विष्णोराश्रयेण स्वभक्ताय मोक्षं दद्यादिति यद्युच्यते तदा स स्वतन्त्रस्तेन मुमुक्षुणानुसृतो ऽसेवितो ऽन्यस्यावान्तरेश्वरस्य मम भक्ताय मोक्षं देहीति प्रार्थनावाक्यमात्रेण मोक्षं नैव दद्यादित्यपि सम्भावितमेव ।
तथा लोके दर्शनादिति हिशब्दः ।
ततः किमित्यत आह- अत इति ॥
*10,32*
अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षिभिः

3.3.18

न्यायसुधा:
तदर्थमप्यवान्तरेश्वरान्मोक्षप्राप्त्यर्थमपि स स्वतन्त्रः ।
तथाच भगवज्जिज्ञासाया अपरिहार्यत्वाद्वयर्थावान्तरेश्वरस्य मोक्षदत्वकल्पनेति भावः ।
प्रकारान्तरेण हेतुं व्याचष्टे- यमेवेति ॥
जोस्हि-21
*10,33*
यमेवैष इति श्रुत्या तमेवेति च सादरम् ।
शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः

3.3.19

न्यायसुधा:
अनेन यमेवैष वृणुते तेन लभ्य इति श्रुतिमुपादत्ते ।
तमेव चेति श्रुत्या ।
"तमेवं विदित्वापि मृत्युमेतिऽ; इति श्रुतिरनेनोपात्ता ।
"नान्यः पन्था विद्यतेऽ; इति वाक्यशेषेणादरो गम्यते ।
मोक्षदत्वेन शास्त्रयोनित्वमस्य विष्णोरेव ।
अनेन श्रुतीनां सम्यक् सादरमन्वयः समन्वय इत्युक्तं भवति ।
नन्वेतयोः श्रुत्योरेष इति तमिति च भगवानुच्यत इत्येतत्कुतः ।
प्रकरणादिपर्यालोचनया तदवधारणम् ।
तदिदमुक्तं वेदवादिभिरिति ॥
अत्र श्रुत्यन्तरमाह- य एनमिति ॥
य एनं विदुरमृता ...
न्यायसुधा:
"य एनं विदुरमृतास्ते भवन्तिऽ; इति च श्रुत्येति पूर्वेण सम्बन्धः ।
मीमांसार्थमस्याः श्रुतेः पृथग्ग्रहणम् ।
अत्रैनमित्युक्तो हरिरित्येतत्कुत इत्यत आह- इत्युक्त इति ॥
... इत्युक्तस्तु समुद्रगः
न्यायसुधा:
य एनं विदुरिति श्रुतौ मोक्षहेतुज्ञानत्वेनोक्तस्तु"यमन्तः समुद्रे कवयो वयन्तिऽ; इति समुद्रग उक्तः ।
तच्च हरेर्लिङ्गमित्यर्थः ।
प्रमाणान्तरमाह- तदेवेति ॥
तदेव ब्रह्म परममिति श्रुत्यावधारितः

3.3.20

न्यायसुधा:
इत्युक्त इति वर्तते ।
"तदेव ब्रह्म परमं कवीनामितिऽ; श्रुत्या ब्रह्मत्वेनावधारितः ।
एतदुक्तं भवति ।
एनमित्युक्ते ब्रह्मपदश्रवणात्तस्य च भगवन्नामत्वाद्भगवानेवायमिति ज्ञायते ।
यद्यपि ब्रह्मपदस्यान्यत्रापि वृत्तिरस्ति तथाप्यमुख्यैव ।
नचैवमत्र शक्यते ग्रहीतुम् ।
तदेवेत्यवधारणविरोधात् ।
इदं खल्वस्य मुख्यतो ब्रह्मत्वमाचष्टे ।
अन्यत्र ब्रह्मशब्दवृत्तिमात्रस्य प्रामाणिकत्वेन निषेधानुपपत्तेरिति ।
युक्त्यन्तरमाह- यत इति ॥
यतः प्रसूतेति ततः सृष्टिमाह ...

3.3.21

न्यायसुधा:
"यतः प्रसूता जगतः प्रसूतिःऽ; इति श्रुतिस्ततो य एतमित्युक्तान्मूलप्रकृतेः सृष्टिमाह ।
नच मूलप्रकृतेः कारणत्वं परमपुरुषादन्यस्य सम्भवति ।
अतो ऽप्ययं भगवानिति ।
एतेन मोक्षादिकर्तृत्वस्य श्रुतत्वत इत्युक्तमपि विवृतं वेदितव्यम् ।
*10,35*
द्वितीयं हेतुव्याख्यानमुपसंहरति- तत इति ॥
... ततो हरिः ।
शास्त्रयोनिर्नचान्यो ऽस्ति मुख्यतस्त्विति गम्यते ॥ मनुव्_3,3.20ब्-द् ॥
न्यायसुधा:
मुख्यत इति मोक्षदत्वेनेति यावत् ।
विष्णोरिवान्येषामपि शास्त्रयोनित्वं प्रतीयत इति यदुक्तं तत्परिहाराथर्त्वेनापि सौत्रं हेतुं व्याचष्टे- शास्त्रेति ॥
शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात्
*10,36*
न्यायसुधा:
अन्वय उपपत्त्यादिलिङ्गम् ।
यतो वाचो निवर्तन्ते इत्यादिश्रुतिभिर्ब्रह्मणो ऽवाच्यत्वमाशङ्कय वाच्यत्वमीक्षत्यधिकरणे साध्यते ।
तदसङ्गतम् ।
प्राग्वाच्यताया अनुक्तत्वात् ।
शास्त्रयोनित्वस्य लक्षणादिनापि सम्भवादित्यतो ऽधिकरणं सङ्गमयितुं संशब्दं व्याख्याति- समिति ॥
समिति ह्युपसर्गेण परमुख्याथर्तोच्यते

3.3.22

न्यायसुधा:
परममुख्यार्थतोच्यते ।
सङ्कोचे(प्रमाणा)कारणाभावात् ।
ततः किमित्यत आह- एवमिति ॥
एवं परममुख्यार्थो नारायण इति श्रुतेः ।
निर्धारणाय नाशब्दमिति वेदपतिर्जगौ

3.3.23

न्यायसुधा:
एवं मोक्षादिदत्वेन नारायणः श्रुतेः परममुख्यार्थ इत्यस्यार्थस्य निर्धारणायेति सम्बन्धः ।
यस्मात्समित्युपसर्गेण परममुख्यार्थतोच्यते, एवं तस्मात्सङ्गतिसद्भावात् नाशब्दमिति जगाविति वा ।
*10,37*
अत्राधिकरणे गतिसामान्यादिति सूत्रम् ।
तत्प्राग्वाच्यतासमर्थनपरं न भवतीति न व्याख्यातम् ।
तस्येदानीं सङ्गतिमाह- कथमिति ॥
कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम्
न्यायसुधा:
संशब्दो द्वयर्थो मुख्यवृत्त्येति सर्ववेदानामिति च ।
तत्र द्वितीयार्थो ऽत्राक्षिप्यते ।
अत्र एवैकाधिकरणत्वमेषां सूत्राणाम् ।
संशब्दार्थाक्षेपसमाधानस्यैकत्वात् ।
उपक्रमादिलिङ्गैर्जगज्जन्मादिकारणत्वेन परमेश्वरे सर्ववेदानां समन्वयो न ज्ञातुं शक्यः ।
कुतः ।
नृणां स्वल्पायुः प्रज्ञादिमतां स्वल्पशाखावेदि(त)त्वस्यैव सम्भवेन सर्ववेदज्ञानासम्भवात् ।
वेदानामपि स्वल्पत्वे शक्यत एव तत्समन्वयो ज्ञातुमस्मदादिभिरपीत्यत आह- वेदा इति ॥
वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्तताम्

3.3.24

न्यायसुधा:
अनन्ता वै वेदा इति श्रुतिमनेनोपादत्ते ।
आद्यो हिशब्दः श्रौतवैशब्दार्थः ।
द्वितीयः श्रुतेः प्रसिद्धत्वं द्योतयति ।
अपिः समुच्चये ।
न केवलं पुरुषाः स्वल्पवेदविदः ।
किन्तु वेदा अप्यनन्ता इति ।
अनन्तता वेदानामिति शेषः ।
सन्तु पुरुषाः स्वल्पविदो वेदाश्चानन्तास्तथापि कथं समन्वयज्ञानमशक्यमित्यत आह- अनन्तेति ॥
अनन्तवेदनिर्णीतिर्महाप्रळयवारिधेः ।
उत्तारणोपमा ... ॥ मनुव्_3,3.24अ-च् ॥
न्यायसुधा:
स्वल्पशाखाविदामिति वर्तते ।
महाप्रलयवारिधेरुत्तारणोपमेति गमकत्वात्समासः ।
देवदत्तस्य गुरुकुलमिति यथा ।
यो यद्वाक्यं स्वरूपतो न जानाति स तत्रोपक्रमाद्यनुसन्धाय वाक्यार्थमवधारयतीत्यसम्भावितमेतदिति भावः ।
एतदुक्तं भवति ।
विमताः पुरुषा न सर्ववेदसमन्वयज्ञानार्हाः सर्ववेदाज्ञत्वात् ।
यो यद्वाक्यं न जानाति नासौ तत्समन्वयमपि जानाति ।
यथा सम्मतः ।
विमता न सर्ववेदवेदनार्हा अल्पप्रज्ञादिमत्त्वात् यो यदपेक्षयाल्पप्रज्ञादिमान्नासौ तद्वेति यथा सम्मतः ।
वेदा वा नैतत्पुरुषवेद्याः ।
एतत्प्रज्ञाद्यतिक्रान्तत्वात् ।
आक्षेपमुपसंहरति- इत्यस्मादिति ॥
... इत्यस्मान्न ज्ञेयो ऽत्र समन्वयः

3.3.25

*10,38*
न्यायसुधा:
अत्र विष्णौ ।
ततश्च शाखान्तरे प्रतिपाद्यान्तरशङ्कया नोक्तार्थावधारणं सम्भवतीति भावः ।
*10,39*
एतत्परिहारार्थत्वेन सूत्रमवतारयति- इत्याशङ्केति ॥
इत्याशङ्कापनोदार्थं स आह करुणाकरः

3.3.26

न्यायसुधा:
आह गतिसामान्यादिति सूत्रमिति शेषः ।
नन्वस्य सूत्रस्य को ऽर्थः ।
सर्वाभिः शाखाभिरुत्पाद्याया ब्रह्मावगतेरेकरूपत्वात्सर्वा अपि शाखाः परमपुरुषमेकमेव जगज्जन्मादिकारणत्वेनावगमयन्तीति न क्वचिद(प्य)न्यथाप्रतिपादनं शङ्कनीयमिति चेत् ।
नन्वेतदेव वेदानामनन्तत्वेन ज्ञातुमशक्यत्वादुपक्रमादिभिस्तन्निर्णयो दूरे निरस्त इत्याक्षिप्तम् ।
पुनस्तदेवोच्यत इति किमनेन कृतं स्यादित्यतः सूत्रकृतो ऽभिसन्धिमाह- अशक्येति ॥
अशक्योत्तरणत्वे ऽपि ह्यागमापारवारिधेः ।
निर्णीयते मयैवायं रोमकूपलयोदिना ॥ मनुव्_3,3.25च्-f ॥
*10,39f.*
न्यायसुधा:
मदन्यैरिति शेषः ।
हिशब्देन परोपन्यस्तं प्रमाणमभ्युपैति ।
उत्तारणं पारगमनम् ।
उपक्रमादिभिर्निर्णयनमिति यावत् ।
उदमुदकमस्यास्तीत्युदी ।
भूमविवक्षायामिनिः ।
समुद्र इत्यर्थः ।
रोमकूपे लयोदी यस्यासौ तथोक्तः ।
प्रलयसमुद्रसमानो ऽपि वेदो मदीयज्ञाने ऽन्तर्भवतीति भावः ।
एतदेव विवृणोति- यद्यपीति ॥
*10,40*
यद्यप्यशेषवेदार्थो दुर्गमो ऽखिलमानवैः ।
मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम्

3.3.27

न्यायसुधा:
अव्याकृताकाशे परमाणुरिव मज्ज्ञाने ऽन्तर्भवति ।
भूताकाशस्य परिमितत्वादव्याकृतग्रहणम् ।
विवरणाभावे पूर्वश्लोकोक्तं किञ्चिद्व्याहतं किञ्चिच्चासङ्गतं प्रतीयेत ।
अभिप्रायमुपसंहरति- इतीति ॥
इति प्रकाशयन् विश्वपतिराह प्रमेयताम् ।
निखिलस्यापि वेदस्य गतिसामान्यमञ्जसा

3.3.28

न्यायसुधा:
उक्तप्रकारेण निखिल्यापि वेदस्य स्वेनाञ्जसा प्रमेयतां प्रकाशयन्सूचयन्गतिसामान्यमाह न तु निरभिसन्धिर्येनोक्तदोषः स्यात् ।
विश्वपतिरिति सर्ववेदवित्त्वे प्रमाणम् ।
नहि पालनीयमविद्वान्पालको भवति ।
विश्वान्तर्गताश्च सर्वे वेदा इति ।
एतदुक्तं भवति सूत्रकारेण ।
सर्ववेदज्ञानासम्भवेन सर्ववेदसमन्वयज्ञानं किं मानवादीनामुच्यते उत सूत्रकर्तुर्मम ।
आद्ये ऽपि किं विशेषतो ऽथ सामान्यतो ऽपि ।
आद्यो ऽभ्युपगम्यत एव ।
द्वितीये तु वक्ष्यामः ।
न तृतीयः ।
मम सर्वज्ञत्वेनासिद्धयादिप्राप्तेरिति ।
*10,43*
एवं चेद्यदि कश्चिदन्यः सूत्रकारवद्विषयान्तरे गतिसामान्यं ब्रूयात्तदा पुनरनिर्णय एवेत्यत आह- को नामेति ॥
को नाम गतिसामान्यमनन्तागमसम्पदः ।
ज्ञानसूर्यमृते ब्रूयात् तमेकं बादरायणम्

3.3.29

*10,43f.*
न्यायसुधा:
ज्ञानेन सूयर् इव ज्ञानसूर्यः ।
यथा सूर्यः स्वतेजसा विश्वस्य प्रकाशकस्तथायं ज्ञानेनेति ।
"विना वातम्ऽ; इत्यादिप्रयोगदर्शनाद्विनायोग इव ऋते ऽपि द्वितीया भवत्येव ।
इदमुक्तं भवति ।
किं सर्वज्ञो विपरीतं गतिसामान्यं ब्रूयात् ।
उतापरः ।
नाद्यः ।
सर्वज्ञोक्त्योर्विरोधायोगात् ।
योगे वा द्वयोः सार्वज्ञानुपपत्तेः ।
द्वितीये सम्प्रतिपन्नसर्वज्ञसूत्रकारवचनविरोधान्मिथ्यादृष्टिर्वाप्रतारको वासौ स्यादिति कथमनिर्णय इति ।
*10,46*
अस्तु भगवतः सर्वज्ञत्वेन गतिसामान्यज्ञानं, परस्य तु कथं यदर्थमिदं शास्त्रमित्यतः सूत्रस्यार्थान्तरमाह- अन्यो ऽषीति ॥
अन्यो ऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु ।
जानन्नानुमितत्वेन ब्रूयात् तस्य प्रसादतः

3.3.30

*10,46f.*
न्यायसुधा:
अल्पमतिरप्यन्यस्तस्य प्रसादतः शाखाचतुष्पञ्चगतं वसु जानन्ननुमितत्वेनानन्तागमसम्पदो गतिसामान्यं ब्रूयादिति योजना ।
यासां शाखानामुदाहरणेन सूत्रकृता परमेश्वरसमन्वयो ऽभिहितस्तद्दृष्टान्तीकृत्य शाखात्वाद्विप्रतिपन्नशाखानामपि तत्परत्वानुमानसम्भवादन्येषामपि गतिसामान्यज्ञानं युक्तमिति भावः ।
अनेन गतिसामान्यानुमानादिति सूत्रं व्याख्यातमिति ।
ननु चतुष्पञ्चशाखागतमिति वक्तव्यम् ।
तद्धितार्थोत्तरपदसमाहारे चेति सङ्खयाया उपसर्जनत्वात् ।
कडाराः कर्मधारय इत्युपसर्जनस्य परनिपातो भविष्यति ।
वर्गार्थौ वा चतुष्पञ्चशब्दौ ।
प्रपञ्चो यदि विद्येतेति यथा ।
*10,55*
इदमेवास्तु सूत्रव्याख्यानं श्रोतृप्रत्यायनाङ्गत्वात् ।
न पूर्वम् ।
शङ्कानिरासाहेतुत्वात् ।
न हि सूत्रकारः सर्वज्ञत्वात् सर्ववेदगतगतिसामान्यं वेत्तीत्येतावतान्येषां शङ्का निवर्तत इत्यत आह- इति मुख्यतयेति ॥
इति मुख्यतयाशेषगतिसामान्यवित् प्रभुः ।
प्रतिजज्ञे दृढं यस्माद् देवानामपि पूर्यते

3.3.31

न्यायसुधा:
इति प्रतिजज्ञ इति सम्बन्धः ।
मुख्यतयेत्यनुमानादिना विनाशेषवेदगतिसामान्यवित् ।
देवानामित्युत्तमाधिकारिणाम् ।
अपिः पदार्थे ।
शङ्केत्यर्थः ।
मधुनो ऽपि स्यादिति यथा ।
पूर्यते निवार्यते ।
ये सूत्रकारस्य परमाप्तत्वं जानन्त्युत्तमाधिकारिस्तेषां तदीयप्रतिमामात्रेण शङ्का निवर्तत एवेति तान्प्रति पूर्वव्याख्यानम् ।
अन्यान्प्रति तु द्वितीयम् ।
तथा भाष्योक्तं गतिसामान्यश्रुतेरिति तृतीयं चेति भावः ।
*10,57*
नन्वनया पञ्चाधिकरण्या वक्तव्यस्योक्त्वत्वात्किमध्यायशेषेणेत्यतः प्रपञ्च्यप्रपञ्चनरूपां सङ्गतिं दर्शयन्नाह- अत इति ॥
अतो निखिलवेदानां सिद्ध एवं समन्वयः ।
इति सुज्ञापितार्थो ऽपि पृथक् चाह समन्वयम्

3.3.32

न्यायसुधा:
अतीतप्रबन्धेनेत्यर्थः ।
पृथग् विस्तरेणाध्यायशेषेणेति शेषः ।
तत्र प्रथमपादे अन्यत्र प्रसिद्धानां शब्दानां समन्वयो ऽभिधीयते ।
द्वितीये ऽन्यत्र प्रसिद्धानां लिङ्गात्मकानाम् ।
तृतीये तत्रान्यत्र प्रसिद्धानामुभयरूपाणाम् ।
चतुर्थे ऽन्यत्रैव प्रसिद्धानामित्युक्तम् ।
तमेतं क्रममुपपादयन्नाह- तत्रेति ॥
तत्र प्रथमतो ऽन्यत्र प्रसिद्धानां समन्वयः ।
शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत्

3.3.33

न्यायसुधा:
तत्र प्रथमाध्याये, प्रथमपादे, शब्दानां नामात्मकानाम्, अत्र विष्णौ ।
महामल्लेशभङ्गेन तुल्यं वर्तते इति तथा ।
यथानेकेषु मल्लेषु प्रत्यर्थितयावस्थितेष्वपि भगवता कृष्णेन प्रधानत्वाच्चाणूरादिमल्लानामेवादौ भङ्गो विहितस्तथेत्यर्थः ।
उभयत्र प्रसिद्धानां हि शब्दानां समन्वये ऽन्यत्रप्रसिद्धिनिवारणमात्रे यत्नो विधेयः ।
अन्यत्र प्रसिद्धानां तु भगवति प्रसिद्धिरप्युपपादनीयेति ।
ततः एतेषां प्राधान्यम् ।
लिङ्गात्मकश्च धर्मवचना व्यवधानेनान्यबुद्धिं जनयन्ति ।
नामात्मकास्तु सत्त्ववचनाः साक्षादेवेति तत्समन्वये यत्नगौरवमस्तीति लिङ्गात्मकेभ्यो नामात्मकानां प्राधान्यमिति ।
*10,60*
यदि प्राधान्यादन्यत्र प्रसिद्धानां नामात्मकानां शब्दानां समन्वयः प्रथमपादे वक्तव्यः स्यात्तदा चतुर्थषादोदितस्यान्यत्रैव प्रसिद्धानां शब्दानां समन्वयस्येतो ऽपि प्राधान्यात्प्राथम्यं भवेत् ।
अन्यत्र प्रसिद्धेरन्यत्रैव प्रसिद्धिर्बलीयसीत्यत आह- इत इति ॥
इतो ऽत्यभ्यधिकत्वे ऽपि तुर्यपादोदितस्य तु
न्यायसुधा:
तुर्यपादोदितस्य समन्वयस्येतो(ऽत्य)प्यभ्यधिकत्वे ऽप्यसावत्राध्याये प्राथम्येन नैवोदित इति सम्बन्धः ।
तत्तु समन्वयादिति सङ्क्षेपेण तस्याप्यत्रोक्तत्वादञ्जसेत्युक्तम् ।
कुतो नोदित उत्सर्गस्यापवादविशेषसद्भावादिति तुशब्दः ।
तमेवापवादहेतुं दर्शयति- महासमन्वय इति ॥
महासमन्वये तस्मिन् नाधिकारो ऽखिलस्य हि

3.3.34

ब्रह्मैवाधिकृतस्तत्र मुख्यतो ऽन्ये यथाक्रमम् ।
दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितो ऽञ्जसा

3.3.36

न्यायसुधा:
तर्हि न वक्तव्य एव निरधिकारिकत्वात् ।
नहि गायमानो बधिरेषु गायतीत्यत उक्तं ब्रह्मैवेति ।
नैकाधिकारिकं शास्त्रमित्यतो ऽन्य इत्याद्युक्तम् ।
सर्वाधिकारिसाधारणमर्थमादावभिधायासाधारणं पश्चाद्वक्ष्यामीत्याशयः सूत्रकारस्य ।
तत्र साधारणे त्विदं तारतम्यं चिन्तितमिति ।
दुर्गमत्वाच्चेति हेत्वन्तरम् ।
प्रथमं बुद्धावनारोहादित्यर्थः ।
एतदुक्तं भवति ।
ब्रह्मादीनामेव तत्र यद्यपि मुख्याधिकारिता ।
तथाप्यस्मदादीनामीषदधिकारो ऽस्त्येव ।
नच मन्दानामसौ समन्वयः प्रथमं बुद्धिमधिरोहति ।
साधारणसमन्वयज्ञानेन वैदिकव्युत्पत्त्यनुरक्ता तु बुद्धिः क्रमेण तत्राप्यवतरतीति ।
ततः किमित्यत आह- अत इति ॥
अतो ऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु ।
प्रवृत्तः प्रथमं देवस् ... ॥ मनुव्_3,3.35अ-च् ॥
*10,61*
न्यायसुधा:
प्राधान्यादतिप्राधान्यान्यस्योपपादितत्वाच्चेत्यर्थः ।
तुशब्दो ऽवधारणे ।
*10,62*
तत्रानन्दमयाधिकरणस्याद्यत्वे हेतुं सूचयन्नाह- तत्रेति ॥
... तत्रानन्दादयो गुणाः ।
ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात् ॥ मनुव्_3,3.35द्-f ॥
न्यायसुधा:
तत्र समन्वयप्रपञ्चने ।
प्रथममित्यनुवर्तते ।
सर्वेषु हि शुभेषु मूर्धाभिषिक्ता आनन्दविज्ञानादयः ।
अतो माङ्गलिकं आचार्यस्तच्छब्दसमन्वयमादावाहेति ।
अन्तरधिकरणस्याकाशाधिकरणस्य चानन्दमयाधिकरणसङ्गतत्वे समाने कुतः क्रम इत्यतस्तत्र हेतुं सूचयन्नन्तरधिकरणतात्पर्यमाह- देवतेति ॥
देवतान्तरगाः सर्वे शब्दवृत्तिनिमित्ततः ।
विष्णुमेव वदन्त्यद्धा ... ॥ मनुव्_3,3.36अ-च् ॥
न्यायसुधा:
देवताः खलु जडेभ्यो मुख्याः ।
अतस्तद्वाचिनामाकाशादिजडवाचिभ्य उत्कर्षः ।
सर्वे शब्दा अद्धा वचनवृत्त्यैव नोपचारेण ।
कथम् ।
शब्दवृत्त्योर्योगरूढ्योर्निमित्तानां बहुलप्रयोगादीनां हरौ विद्यमानत्वात् ।
*10,62f.*
तत्किमन्यत्र शब्दानां वृत्तिरेव नास्ति ।
येन विष्णुमेवेत्यवधार्यत इत्यत आह- तत्सङ्गादिति ॥
... तत्सङ्गादुपचारतः

3.3.37

अन्यदेवान् वदन्तीह विशेषगुणवक्तृतः ।
विष्णुमेव परं ब्रूयुर् ... ॥ मनुव्_3,3.37अ-च् ॥
न्यायसुधा:
उपचारप्रकारश्च प्रागेव विवृतः ।
अक्षादिशब्दवदुभयत्र साम्येन प्रवृत्तिः किं न स्यादित्यत आह- इहेति ॥
इन्द्रादिशब्दा हि परमैश्वर्यादिगुणान्वदति ।
ते च भगवत एवासाधारणा इति तमेव परं मुख्यं ब्रूयुः ।
इह देवतान्तरे ।
तथा नेति शेषः ।
यद्वा इह देवेषु तत्सङ्गादिति पूर्वत्र सम्बन्धः ।
रूढिनिमित्तातिशयस्याप्येतदुपलक्षणम् ।
उत्तराधिकरणेष्वप्येवं क्रमनिमित्तादिकं स्वयमूहनीयमित्याशयवानाह- एवमिति ॥
... एवमन्ये ऽप्यशेषतः

3.3.38

न्यायसुधा:
विष्णुमेव परं ब्रूयुरिति वर्तते ।
*10,65*
अन्यत्र प्रसिद्धानां नामात्मकानां शब्दानामनन्तत्वात्कथं पादपरिसमाप्तिरित्याशङ्कां निराकुर्वन्प्रथमपादार्थमनूद्य द्वितीयपादस्य सङ्गतिमाह- इत्यन्यत्रेति ॥
इत्यन्यत्रप्रसिद्धोरुशब्दराशेरशेषतः ।
ज्ञाते समन्वये विष्णौ लिङ्गैर्ह्येष समन्वयः

3.3.39

तेषामन्यगतत्वे तु न स्यात् सम्यक् समन्वयः ।
इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम्

3.3.40

आह ...
न्यायसुधा:
समानन्यायसञ्चारविषयत्वादिति भावः ।
ज्ञाते प्रथमपादेन ।
शङ्का जायत इति शेषः ।
कथं(इति) ।
प्रायेण लिङ्गबलेन ह्येष नामात्मकशब्दसमन्वयो ऽभिहितः ।
लिङ्गानां चान्यगतत्वं प्रतीयते ।
ततश्च विरुद्धतवात्तैः प्रतीतः समन्वयः सम्यङ् न स्यादेव ।
नहि कृतकत्वेन नित्यत्वज्ञानं सम्यगुत्पद्यते ।
इतिशब्दः शङ्कासमाप्तौ ।
तत्परिहारायान्यत्र प्रसिद्धानामशेषलिङ्गानाम् ।
आह द्वितीयपादे ।
नन्वेवं तर्हि यानि अन्तस्तद्धर्मोपदेशादित्यादौ समुद्रान्तस्थत्वादीनि लिङ्गानि साधनत्वेनोक्तानि तेषामिह विचारः करणीयः ।
न चैवम् ।
किन्तु यान्युक्तानि न तानि विचार्यन्ते ।
यानि च विचार्यन्ते न तान्यक्तानि ।
उच्यते ।
सर्वश्रुतिगताः सर्वे ऽप्यन्यत्र प्रसिद्धाः नामात्मकाः शब्दा भगवद्विषया एव तत्र तत्र श्रुतैः सर्वैर्लिङ्गैरिति हि प्रथमपादस्यार्थः ।
तत्र यानि लिङ्गान्यसन्दिग्धानि तानि विहायेतराणि विचार्यन्त इति को विरोधः ।
अत एवाशेषत इत्युक्तं प्राक् ।
*10,66*
तृतीयपदास्य प्रथमद्वितीयाभ्यां सङ्गतिमाह- उभयेति ॥
... उभयगतत्वं च स्यादतो लिङ्गशब्दयोः ।
इति संशयनुत्त्यर्थम् ... ॥ मनुव्_3,3.40अ-च् ॥
न्यायसुधा:
भगवत्तदितरविषयत्वम् ।
अतो ऽन्यत्र प्रसिद्धानां भगवत्परत्वस्य समर्थनम् ।
लिङ्गात्मकानां च शब्दानाम् ।
*10,66*
नन्वन्यवाचित्वनिरासो ऽपि तत्रैव नेतर इत्यादिना विहित एव ।
तत्कथं शङ्कोदयः ।
मैवम् ।
अन्यत्र तात्पर्याभावो हि नेतर इत्यादिना दर्शितः ।
शक्तिस्तूभयत्र स्यादेव ।
तर्हि त एव पुनर्विचार्याः ।
सत्मय् ।
तेष्वेव यत्र यत्र विचायप्राप्तिस्ते विचार्यन्ते ।
यदा यत्रानुपपत्त्यादीनां सञ्चारः सुगमस्तन्विहायान्यत्रोभयगतत्वं शङ्केतैवेति युक्तमुक्तम् ।
तथा च तत्त्वित्यवधारणानुपपत्तिरिति शङ्काशेषः ।
इत्याशङ्कानिवृत्त्यर्थं तृतीयपादमारब्धवानिति शेषः ।
इत्याहेति वक्ष्यमाणेन वा सम्बन्धः ।
कथमियमाशङ्का तृतीये परिहृतेत्यतस्तात्पर्यमाह- उभयत्रेति ॥
*10,67*
... उभयत्र प्रतीतितः

3.3.41

शब्दानां वर्तमानानां सलिङ्गानां विशेषतः ।
समन्वयो हरावेव ... ॥ मनुव्_3,3.41अ-च् ॥
न्यायसुधा:
हरौ तदितरत्र च ।
प्रतीतितो न तु वस्तुतो वर्तमानानां सलिङ्गानां शब्दानां नाम्नां लिङ्गानां च हरावेव विशेषतः परममुख्यया वृत्त्या तात्पर्येण च समन्वयः ।
कुत इत्यत आह- यदिति ॥
... यन्नैवान्यत्र मुख्यतः

3.3.42

शब्दा लिङ्गानि च ...
न्यायसुधा:
यद्यस्माद्वर्तत इति शेषः ।
एतदपि कुत इत्यत आह- यत इति ॥
... यतो नैवान्यत्र स्वतन्त्रता
न्यायसुधा:
स्वतन्त्रतास्तीति शेषः ।
स्वातन्त्र्याभावे ऽपि कुतो ऽन्यत्र शब्दानां मुख्यवृत्त्यभाव इत्यत आह- अस्वतन्त्रेष्विति ॥
अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः

3.3.43

यतो ऽतो ...

3.3.44

न्यायसुधा:
नन्वन्येषामस्वतन्त्रत्वात्तेषु मुख्यतः शब्दप्रवृत्तिहेतोर्गुणादेरभावान्मुख्यतः शब्दा न वर्तन्त इति चेत् ।
मा वर्तिषत ।
तथापि विशेषतः समन्वयो हरावेवेत्येतत्कुत इत्यत आह- अत इति ॥
इतरस्य मुख्यार्थत्वाभावादित्यर्थः ।
भाव्यं खलु शब्दस्य मुख्यार्थेन ।
अन्यथा तदपेक्षस्यामुख्यस्यानुपपत्तेः ।
तथाच द्वयोः प्रसक्तयोरेकस्य मुख्यार्थत्वानुपपत्तावितरस्य मुख्यार्थत्वमावश्यकमेव ।
यदधीनास्त इत्यादिना युक्त्यन्तरमाह ।
*10,68*
... यदधीनास्ते शब्दार्थत्वमुपागताः ।
अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ॥ मनुव्_3,3.43अ-द् ॥
अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः ।
मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः

3.3.45

इत्याह ...

3.3.46

न्यायसुधा:
ते भगवतो ऽन्ये पदार्था भगवदपेक्षयात्यल्पेनैव शब्दप्रवृत्तिहेतुना गुणादिना यस्मिन्भगवत्यायत्ताः सन्तः शब्दाथर्त्वमुपगताः स भगवानेवेशो निरवधिकशब्दप्रवृत्तिनिमित्तत्वात् ।
स्वतन्त्रत्वतश्च मुख्यशब्दार्थ इति हि स्वीकर्तव्यः ।
इतरेषु शब्दप्रवृत्तिनिमित्तान्यल्पान्येव तान्यपि भगवदधीनानि ।
भगवति तु निरवधिकपराधीनानि चेत्येतदसिद्धमित्यत उक्तं मनीषिभिरिति ।
श्रुत्यादिपरिचयवद्भिः ।
यो यदधीनः शब्दार्थः सो ऽमुख्य इतरस्तु मुख्य इत्यत्र दृष्टान्तः ।
अयो यथान्याधीनं सद् दाहकत्वं दाहकशब्दार्थत्वमुपगतम् अत एव दहतीति शब्दस्तस्मिन्नमुख्यो ऽग्नौ तु मुख्यस्तथेत्यर्थः ।
अत्रेतरस्यामुख्यार्थत्वमनूद्यत एवेति न पुनरुक्तिः क इत्याह तृतीयपादेनेति शेषः ।
*10,69*
चतुर्थपादस्य सङ्गतिं करोति- एवञ्चेति ॥
... एवञ्च शब्दानां नारायणसमन्वये ।
सिद्धे ऽप्यशेषशब्दानां न कथञ्चन युज्यते ॥ मनुव्_3,3.45अ-द् ॥
विरोधाववरत्वादेरपि प्राप्तिर्यतो भवेत् ।
इति चेद् ... ॥ मनुव्_3,3.46अ-च् ॥
न्यायसुधा:
एवञ्चेत्यस्यैव विवरणमतीतेन पादत्रयेण केषाञ्चिच्छब्दानां नारायणसमन्वये सिद्धे ऽपीति ।
अशेषशब्दानां नारायणे समन्वयो न युज्यते ।
यः प्रतिज्ञातो दुःखिबद्धावरादिशब्दानां कर्मादिविषयाणां च कथञ्चन योगेन रूढ्या वा प्रवृत्त्यनुपपत्तेरिति शेषः ।
कथम् ।
यतो ऽवरादिशब्दवाच्यत्वे भगवतो ऽवरत्वादेर्देषस्य प्राप्तिर्भवेत् ।
तस्याश्च सर्वप्रमाणविरोधात् ।
कर्मक्रमादिविरोधाच्चेति ।
इति चेत्तत्र प्रतिविहितं सूत्रकारेणेति शेषः ।
कथमित्यतः प्रथमाधिकरणतात्पर्यमाह- अवरत्वादीति ॥
... अवरत्वादि द्विविधं ह्युपलभ्यते

3.3.47

*10,70*
न्यायसुधा:
अवरादिशब्दाप्रवृत्तिनिमित्तमुपलभ्यते प्रमाणैः ।
हिशब्दस्तेषां प्रसिद्धिं द्योतयति ।
कथं द्विविधमित्यत आह- परस्येति ॥
परस्यावरताहेतुर्यः स्वयं पर एव सन् ।
सो ऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत्

3.3.48

अन्यो ऽवरत्वानुभवी ...
न्यायसुधा:
स्वयं पर एव सन्निति न प्रवृत्तिनिमित्तकथनं किन्तु स्वस्यावरत्वाभावे ऽपीति प्रदशर्नार्थम् ।
परस्मिन्नवरत्वादिधर्मनियन्तृत्वमेकं निमित्तमित्यर्थः ।
तस्य प्रमितत्वदर्शनं यथेति ।
परगतस्य जयस्य राजाधीनत्वेन यथा राजा जयिशब्दवाच्यो भवेत्तथेत्यर्थः ।
अवरत्वानुभवी अन्वयो ऽवरशब्दार्थः ।
अवरत्वादिमत्त्वमपरं निमित्तमिति यावत् ।
एतच्च सुप्रसिद्धमिति न प्रमाणमुक्तम् ।
ततः किं प्रकृत इत्यत आह- तयोरिति ।
... तयोः पूर्वो ऽस्ति केशवे
न्यायसुधा:
तयोः प्रवृत्तिहेत्वोर्मध्ये ।
तेनावरादिशब्दवाच्यत्व चेति शेषः ।
कुतः पूर्व एवाङ्गीक्रियते न द्वितीय इत्यत आह- द्वितीय इति ॥
द्वितीयो जीव एवास्ति ...
न्यायसुधा:
जीव इति जडस्याप्युपलक्षणम् ।
तथाच सतीश्वरत्वहानिः स्यादित्यर्थः ।
अधिकरणफलमाह- स्वातन्त्र्यादिति ॥
... स्वातन्त्रान्नच दूषणम्

3.3.49

हरेर् ...

3.3.50

न्यायसुधा:
परगतावरत्वादौ स्वातन्त्र्यस्यैव निमित्तत्वाङ्गीकाराद्धरेरवरत्वादिकं दूषणं न प्रसज्यत इति ।
एवमुत्तराधिकरणतात्पर्यमपि वक्तव्यम् ।
*10,71*
प्रथमाध्यायार्थानुवादेन द्वितीयाध्यायस्य सङ्गतिमाह- एवमिति ॥
... एवमशेषेण सर्वशब्दसमन्वये ।
उक्ते विरोधहीनस्य स्यात् समन्वयता यतः ।
अतो ऽशेषविरोधानां कृतेशेन निराकृतिः ॥ मनुव्_3,3.49अ-f ॥
*10,72*
न्यायसुधा:
सर्वशब्दार्थविवरणमशेषेणेति ।
उक्ते सति द्वितीये ऽशेषविरोधानां निराकृतिरीशेन कृतेति सम्बन्धः ।
विरोधहीनस्यैव समन्वयस्य ।
समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये
न्यायसुधा:
तृतीयाध्यायस्य सङ्गतिमाह- समन्वयेति ॥
किं मया कार्यमित्येव स्याद् बुद्धिरधिकारिणः

3.3.51

न्यायसुधा:
तदर्थयोरध्याययोरुपलक्षणमेतत् ।
वस्तुनिर्णये ब्रह्मनिर्णये ।
किं मया कार्यमिति ।
अयमर्थः ।
यद्यपि ब्रह्मविचारः कर्तव्य इत्युक्तम् ।
कृतश्चासौ ।
तथापि साधनफलविचारसहितस्य ब्रह्मविचारस्य कर्तव्यतयोक्तत्वात्कृतब्रह्मविचारस्याधिकारिणो यन्मया कार्यं साधनं तत्किं कथम्भूतमिति ।
बुद्धिः स्यादिति ।
फलविषये कुत एवं बुद्धिर्न स्यादिति चेत्स्यादेव ।
किन्तु फलापेक्षया साधनस्य पूर्वभावित्वात्तद्विषयैवादौ स्यात् ।
तदिदमुक्तमेवशब्देन ।
तदर्थं तृतीयो ऽध्यायः प्रवृत्त इति शेषः ।
*10,73*
एतद्गतानां त्रयाणां पादानां प्रागुक्तामेव सङ्गतिं स्फुटीकरोति- तत्रेति ॥
तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ ।
उक्तायां भक्तिदार्ढ्याय प्रोक्ते ऽशेषगुणोच्चये ।
वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि

3.3.52

न्यायसुधा:
तत्र तृतीये ऽध्याये ।
भक्तिविधानार्थं भक्त्युत्पादनार्थं वैराग्यार्थमिति यावत् ।
अभक्तानां काम्यार्थकर्मिणां पापिनां द्वेषिणां च ।
उक्तायां प्रथमपादेन ।
अशेषगुणोच्यते परमेश्वरस्य प्रोक्ते द्वितीयेन ।
उपासनास्मिन्पादे वक्तव्यावसरप्राप्ता ।
ननूपासनायां को भक्तेरुपयोगो यतस्तदानन्तर्यस्येत्यत आह- नित्यमिति ॥
यस्मादुपासना नित्यमादरेण कर्तव्या ।
आदरनैरन्तर्याभ्यामेव संस्कारातिशयस्योत्पादात् ।
आदरनैरन्तर्ये चोपासनायां नाभक्तस्य भवतः ।
इति तस्मादिदानीमुपासना वक्तव्येति सम्बन्धः ।
*10,74*
एवं तर्ह्युपासनैव विचारणीया ।
सर्वशास्त्रपरिज्ञानं प्रथमाधिकरणे कस्माद्विचार्यत इत्यत आह- सेति ॥
*10,75*
सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी ।
ध्यानरूपा परा चैव ... ॥ मनुव्_3,3.52अ-च् ॥
न्यायसुधा:
या वक्तव्यतयावसरप्राप्ता सा चोपासना द्विविधैव ।
न त्वेकरूपैव ।
कथम् ।
एका शास्त्राभ्यासस्वरूपिणी ।
परा च ध्यानरूपा ।
अतो युक्तः प्रथमाधिकरणस्यात्रान्तर्भावः ।
तथाप्ययं क्रमः कुतः ।
ध्यानस्य शास्त्राभ्याससाध्यत्वात् ।
तदिदमुक्तं परेति ।
ध्यानसमाध्योरनतिभिन्नत्वद्धयानशब्देन समाधिरपि गृह्यते ।
धारणाप्रत्याहारप्राणायामाऽसनयमनियमानामप्युपासनाभेदानां सत्त्वात्कथं द्वैविध्यमित्यत आह- तदङ्गमिति ॥
... तदङ्गं धारणादिकम्

3.3.53

न्यायसुधा:
तस्य ध्यानस्याङ्गमेव नतु स्वतन्त्रमुपासनम् ।
योगशास्त्रे चैतत्स्पष्टमवगन्तव्यम् ।
शास्त्राभ्यासस्य ध्यानाङ्गत्वे ऽपि स्वतन्त्रोपासनत्वं चास्ति ।
ब्रह्मसाक्षात्कारहेतुत्वात् ।
चित्तवृत्तिनिरोधा(कत्वा)च्च ।
"अथवा सततं शास्त्रविमर्शेन भविष्यतिऽ; इति ।
*10,77*
किमतो यद्युपासनावसरप्राप्ता द्विविधा चेति ।
तत्राह- तथेति ॥
तथोभयात्मकं चैव पादे ऽस्मिन् बादरायणः ।
आहोपासनमद्धव विस्तराच्छ्रुतिपूर्वकम्

3.3.54

न्यायसुधा:
तथा तस्मादवसरप्राप्तत्वात् ।
अस्मिन्नेवेति सम्बन्धः ।
उपासनमेवेति च (वा) ।
तेन परेषामिदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते न वेति विचार्यत इति पादार्थकथनं निराकरोति ।
तथाहि ।
किं भेदाभेदौ, विरोधाविरोधौ, उत विलक्षणत्वाविलक्षणत्वे ।
नाद्यः ।
गतार्थत्वात् ।
द्वितीये ब्रह्मणो ऽखण्डत्वेन प्राप्त्यभावः ।
सगुणब्रह्मविषया प्राणादिविषया चेयं चिन्तेति चेन्न ।
प्रकृतविषयप्रयोजनविरुद्धत्वेनाकर्तव्यत्वादिति ।
अद्धा उपयुक्तप्रमेयेण सह ।
अत एव विस्तरात् ।
अनेन केषाञ्चिदधिकरणानामनन्तर्भावशङ्का निराकृता भवति ।
श्रुतिग्रहणमुपलक्षणम् ।
अत्र सङ्गतिकथनप्रस्तावे ऽपि केषाञ्चित्सूत्राणामर्थव्याख्यानं सङ्गतिसमर्थनार्थमेवेति न दोषः ।
*10,79f.*
एवं सङ्गतिमभिधायैतत्पादाधिकरणेषु पूर्वपक्षयुक्तीः सिद्धान्तयुक्तीश्च सङ्ग्रहेणाह- पृथग्दृष्टिरित्यादिना ॥
पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः ।
विशेषदर्शनं कार्यलोपो नानोक्तिराशुता

3.3.55

विभ्रमो ऽपाकृतिर्लिङ्गमनवस्थाविशेषिता ।
अप्रयोजनता चातिप्रसङ्गो ऽदूरसंश्रयः

3.3.56

विशिष्टकारणं चेष्या दृष्टवैरूप्यमुन्नतिः ।
अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ

3.3.57

पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः ।
विशेषदर्शिताऽलापो गुणसाम्यं पृथग्दृशिः

3.3.58

अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना ।
शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया

3.3.59

युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया ।
माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः

3.3.60

फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता ।
यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः

3.3.61

कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् ।
प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता

3.3.62

संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् ।
विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः

3.3.63

सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः ।
साधनोत्तमता नानादृष्टिः शिष्टिरनूनता

3.3.64

अविघ्नत्वविरोधौ च गुणवैशेष्यमागमः ।
सिद्धान्तनिर्णये ह्येता युक्तयो ऽव्याहताः सदा

3.3.1

न्यायसुधा:
अव्याहताः सदेति सिद्धान्तयुक्तित्वसमर्थनम् ।
॥ इति न्यायमालास्थलानि ॥
*10,81*
[======= ज्न्य्स्_3,3.इ: सर्ववेदा(न्तप्रत्यया)धिकरण =======]
॥ अथ सर्ववेदा(न्तप्रत्यया)धिकरणम् ॥
॥ ओं सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ओं ॥
अत्र ध्यानोपासनार्थिभिः किं स्वशाखा एवाध्ययनश्रवणमननैर्ज्ञातव्याः किं वा सर्वे ऽपि वेदा इति संशये शाखाभेदस्य सुप्रसिद्धत्वादन्यथा तदनुपपत्तेः प्रथमपक्ष एव ज्यायानिति प्राप्ते सिद्धान्तितम् सर्ववेदान्तप्रत्ययमिति ।
तत्र सर्वशब्दो ऽसङ्कुचितवृत्तिरिति प्रतीतिनिरासाय व्याचष्टे- यशशक्तीति ॥
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्

3.3.65

यथाशक्तयखिलान् वेदान् विज्ञायोपासनं भवेत्
न्यायसुधा:
विज्ञायावस्थितस्येत्यध्याहारात्समानकर्तृकतासिद्धिः ।
उपासनं कुर्वाणो भवेदिति वा ।
उपासनं कुर्वीतेति वा ।
भवेदित्यस्योत्तरवाक्ये ऽन्वयः ।
अत्र यथाशक्त्यखिलान्वेदान्विजानीयादित्येव वक्तव्यम् ।
तथाप्यत्रोच्यमानं सर्वपरिज्ञानं ध्यानोपासनाङ्गमिति दशर्यितुमेवमुक्तम् ।
ततश्च परेत्युक्तं विवृतं भवति ।
*10,83*
यथाश्रुत एवार्थो ऽस्तु किं विशेषेणेनेत्यत आह- तत्रेति ॥
तत्राखिलस्य विज्ञप्तिः सम्यग् ब्रह्मण एव हि

3.3.66

तदन्येषां यथायोग्यमखिलज्ञप्तिरिष्यते
न्यायसुधा:
तत्रोपासकेषु यस्मात्सम्यगखिलस्य वेदस्य विज्ञप्तिर्ब्रह्मण एव युक्ता भवेन्नान्येषां तस्मादन्येषां यथायोगं यथाशक्त्येवाखिलज्ञप्तिरेष्यव्या ।
एतदुक्तं भवति ।
सर्वाधिकारिसाधारणं तावदिदं सूत्रम् ।
चोदनाद्यविशेषादियुक्तिभिस्तदवगमात् ।
संशयपूर्वपक्षासङ्गतत्वप्रसङ्गाच्च ।
नच सर्वेषां सर्ववेदविज्ञानं सम्भवति ।
वेदानामनन्तत्वात् ।
अल्पप्रज्ञादिमत्त्वाच्चा पुंसाम् ।
ततो युक्तमुक्तमिति ।
यद्वा प्रथमवाक्य एव भवेदित्यनेनैवैषो ऽभिहितः ।
यस्मादेवमेवोपपन्नं भवेदिति ।
ततः कस्य कीदृशी शक्तिरिति जिज्ञासायामिदं वाक्यम् ।
हिशब्दः प्रसिद्धौ ।
योगो योग्यता ।
ज्ञप्तिर्ज्ञप्तिशक्तिः ।
*10,85*
उपासनायोग्यतासमन्वये खल्वत्र सर्वविज्ञानमुच्यते ।
नचाल्पवेदज्ञस्य सा भवति ।
"सर्वैश्च वेदैः परमो हि देवो जिज्ञास्यो ऽसौ नाल्पवेदैः प्रसिद्धयेत्ऽ; इत्यादिश्रुतेः ।
अतः सर्वशब्दो मुख्यार्थ एव व्याख्यातव्यः ।
अत एव यद्यप्यस्मदादीनामस्मिञ्जन्मनि सर्ववेदज्ञानमसम्भवि ।
तथापि तादृशं जन्म कल्पनीयं यत्रेदं सम्भवतीत्यत आह- तावतेति ॥
तावतोपासने योग्यो भवेदेवाखिलः पुमान्

3.3.67

न्यायसुधा:
यथाशक्ति विज्ञानमात्रेण ।
अयमभिसन्धिः ।
ध्यानोपासने वेदज्ञानस्य कथमुपयोगः ।
ध्येयाज्ञाने ध्यानायोगादिति चेत् ।
तर्हि सर्वेषां सर्ववेदार्थध्यानाभावस्य वक्ष्यमाणत्वान्न सर्ववेदज्ञानमुपयुक्तम् ।
सत्यम् ।
तथाप्यधिगतैकशाखस्य शाखान्तरे ऽन्यथोक्तिशङ्कया ध्यानासम्भवात्सर्व(वेद)परिज्ञानमावश्यकमिति चेन्न ।
गतिसामान्यानुमानेनैव शङ्कानिरासस्योक्तत्वात् ।
अन्यथा परस्परविरोधेन वेदाप्रामाण्यापत्तेः ।
ततः श्रुतिर्यथाशक्तीत्येव व्याख्येयेति ।
*10,86f.*
यथाशक्ति वेदज्ञानं भगवदुपासनोपयुक्तं न सर्ववेदज्ञानावश्यम्भाव इत्यत्र पुराणवाक्यमपि पठति- महत्त्वस्येति ॥
महत्त्वस्य परं पारं विदित्वैव जनार्दनः ।
स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद

3.3.68

किन्तु निश्चलया भक्तया ह्यात्मज्ञानानुरूपतः ।
यः स्तोष्यति सदा भक्तस्तुष्यस्तस्य सदा हरिः

3.3.69

इत्यादिवाक्यसन्दर्भाद् यथायोग्याखिलज्ञता
न्यायसुधा:
महत्त्वस्य परं पारं विदित्वेति सर्ववेदज्ञत्वमुच्यते ।
वेदेन विना भगवन्महत्त्वस्य ज्ञातुमाशक्यत्वात् ।
स्तोष्यतामिति ध्यानस्याप्युपलक्षणम् ।
समानन्यायत्वात् ।
नास्त्येवेति नियमनिषेधः यथायोग्याखिलज्ञता ध्यानोपयोगिनीति विज्ञायत इति शेषः ।
यथायोग्येति कथम् ।
अव्ययीभावस्य नपुंसकत्वेन यथायोग्यमिति भाव्यम् ।
सत्यम् ।
यथायोग्याखिलज्ञतेति समासो ऽयमित्यदोषः ।
यद्वा यथा यादृशी योग्या तथैवेति भिन्ने एवैते पदे ।
*10,89*
नन्वत्रात्मज्ञानमेवोपासनोपयोगित्वेनोच्यते ।
नतु यथाशक्तिज्ञानम् ।
अतो न प्रकृतोपयोगीदं वाक्यमित्यत आह- आत्मेति ॥
आत्मज्ञानानुरूपत्वं यथाशक्ति विचारणात्

3.3.3

न्यायसुधा:
अत्रोपासनस्यात्मज्ञानानुरूपत्वं नाम यथाशक्ति वेदविचारणाद्भावित्वमेव ।
अन्यथा वाक्यस्यासङ्गतत्वप्रसङ्गादिति भावः ।
सर्वज्ञाननियमे निराकृते किन्त्वित्याशङ्कायां यथाशक्तिज्ञानं हि वक्तव्यम् ।
न त्वात्मज्ञानम् ।
नहि परज्ञानं प्राङ् निराकृतम् ।
तस्मादात्मज्ञानं नामात्मयोग्यं ज्ञानमित्येव व्याख्येयमिति ।
कुतः सवर्वेदज्ञानमित्यतश्चोदनाद्यविशेषादित्युक्तम् ।
तत्र शाखाभेदस्य सुप्रसिद्धत्वाच्चोदनादिकमपि विशेषनिष्ठं व्याख्यातमित्यतो युक्त्यन्तरमाह सूत्रकारः ओं स्वाध्यायस्य तथात्वेन हि समाचारे ऽधिकाराच्चेति ओं ॥
तत्र हीयन्तं व्याचष्टे- वेद इति ॥
स्वाध्यायस्य तथात्वेन हि समाचारे ऽधिकाराच् च सववच् च

3.3.70

वेदः कृत्स्नो ऽधिगन्तव्यः स्वाध्यायाध्ययनं भवेत् ।
इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते

3.3.3

न्यायसुधा:
अनेन"वेदः कृत्स्नो ऽधिगन्तव्यः सरहस्यो द्विजन्मनाऽ; इति स्मृतिमुपादत्ते ।
स्वाध्यायाध्ययनं कर्तव्यं भवेदित्यनेन"स्वाध्यायो ऽध्येतव्यःऽ; इति श्रुतिम् ।
अन्यथा स्वस्वशाखामात्रज्ञानाङ्गीकारे ।
*10,90*
एतदुक्तं भवति ।
स्वाध्यायस्य स्वाध्यायविधेस्तथात्वेन सामान्यतः सर्ववेदाध्ययनविधायकत्वेन हेतुना सर्वज्ञानमङ्गीकरणीयम् ।
अध्ययनस्यार्थज्ञानपर्यन्तनास्थितेः ।
स्वस्वशाखामात्रज्ञानाङ्गीकारे चास्य विधेर्वैयर्थ्यापत्तेः ।
नच वाच्यं शाखाभेदस्य प्रसिद्धया स्वाध्यायपदकृत्स्नपददर्शनात् ।
शाखाभेदस्याशक्तिनिमित्तत्वोपपत्तेरिति ।
*10,97*
ननु श्रुत्यन्तरं हिशब्देन स्मृतिः सूत्रकृतोपात्ता तत्कथमत्र विपर्ययः ।
उच्यते ।
आकाङ्क्षाक्रमेण सूत्रम् ।
व्याख्यानं तूपोद्घातप्रक्रिययेति न विरोधः ।
श्रुतिस्मृतिबलादेव यथाशक्ति सवर्विज्ञानस्यैव निश्शङ्कताहेतुत्वं कल्प्यते ।
भूयोदर्शनं चानुमानाङ्गमिति सुप्रसिद्धम् ।
*10,99*
आह नाध्ययनविधिप्रयुक्तमध्ययनम् ।
किन्त्वध्यापनविधिप्रयुक्तमेव ।
अध्ययनविधेर्नियोज्यरहितत्वात् ।
नह्यत्र स्वर्गकामो यजेतेतिवत्कश्चिन्नियोज्यः श्रूयते ।
नापि विश्वजिदादाविव कल्पयितुं शक्यते ।
अध्यापनविधिनैवाध्ययनसिद्धौ कल्पकाभावात् ।
नचाध्यापनविधिरपि नियोज्यरहित इति वाच्यम् ।
आचार्यकरणकामस्य तत्र नियोज्यत्वात् ।
नष्टवर्षं ब्राह्मणमुपनयीतेत्यात्मनेपदश्रवणात् ।
"सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियमःऽ; इत्याचायर्करणे नयतेरात्मनेपदविधानात् ।
तमध्यापयीतेत्युपनयनाध्यापनयोरेककर्तृकताप्रतीतेः ।
न ह्यध्यापनमध्ययनेन विना भवतीति स्वसिद्धये परा(पेक्ष क्षेप)लक्षणेनोपादानोपादानेनाध्यापनविधिरेवाध्यापनविधिरेवाध्ययनं प्रयुङ्क्ते ।
किञ्चाध्ययने सति विधिज्ञानं ततश्चाध्ययनमितीतरेतराश्रयत्वं स्यात् ।
अतो नैतद्वाक्योदाहरणमत्र सङ्गतमिति ।
उच्यते ।
स्यादेवं यद्यध्यापनविधिप्रयुक्तमध्ययनं स्यात् ।
नचैवम् ।
अध्यापनस्य जीवीकार्थत्वात् ।
त्रीणि कर्माणि जीविकेति वचनात् ।
अध्ययनस्य च नित्यत्वात् ।
"यो ऽनधीत्य द्विजो वेदान्ऽ; इत्यकरणे प्रत्यवायश्रवणात् ।
नच नित्यमनित्येन प्रयुज्यते ।
किञ्चैकस्य माणवकस्याध्यापनेन चरितार्थत्वे माणवकान्तरस्यानध्ययनप्रसङ्गः ।
यो येनोपनीतः स तेनाध्यापनीय इति चेत् ।
*10,100*
तर्ह्युपनायके परेते ऽध्ययनाभावः स्यात् ।
यत्पुनरितरेतराश्रयत्वमुक्तं तत् प्रातःसन्ध्यामुपासीतेत्यादावपि समानम् ।
अयमप्याचार्यस्यैव विधिः ।
शौचाचारांश्च शिक्षयेदित्यादेरिति चेन्न ।
आचार्ये परेते तदभावापातात् ।
अतो ऽध्ययनादिविधिं वृद्धाः कथञ्चिन्माणवकं बोधयन्तीत्यङ्गीकार्यमित्यलम् ।
जोस्हि-22
*10,106*
समाचारेधिकाराच्च इत्येतद्वयाचष्टे- अद्यापीति ॥
... समाचारे ऽधिकाराच् च ...

3.3.72

अद्यापि तेन देवाद्याः शृण्वते मन्वते सदा ।
ध्यायन्ति च यथायोगं ॥ मनुव्_3,3.71अ-च् ॥
न्यायसुधा:
यतः सर्वविज्ञानमावश्यकम् ।
तेनैव हि कारणेन देवाद्या अद्यापि श्रवणमनने कुर्वन्ति सदा ध्यायन्ति च ।
अन्यथा महामतीनां तेषामेकैकशाखाश्रवणादेरल्पीयसैव कालेन कर्तुं शक्यत्वेनाद्यापि तत्करणं न स्यादिति ।
यथायोगं यथाशक्तीति प्रत्येकं विशेषणम् ।
शृण्वन्त इत्यात्मनेपद उक्तम् ।
समाचारच्चेत्येवोक्ते देवादीनां वेदाधिकारित्वाभावात्कथमेतदित्यतो देवताधिकरणन्यायं मा विस्मार्षीरिति सूचयितुं सूत्रकृता समाचारे ऽधिकाराच्चेत्युक्तम् ।
*10,108*
यदि ब्रह्मसाक्षात्कारवन्तो ऽपि देवाद्याः श्रवणाद्यनुतिष्ठन्ति तर्हि तस्य निरवधिकत्वं प्रसक्तमित्यत आह- तथापीति ॥
... तथाप्या वस्तुनिर्णयात् ।
श्रवणं मननं चैव कर्तव्यं सर्वथैव हि ॥ मनुव्_3,3.71द्-f ॥
न्यायसुधा:
यद्यपि सूत्रकारेण देवाद्याचारः प्रमाणीकृतस्तथापि, वस्तु परब्रह्मादिकम् ।
निर्णयो यथार्थः परोक्षो निश्चयः ।
प्रथमस्यैवशब्दस्यावस्तुनिर्णयादेवेति सम्बन्धः ।
वस्तुनिर्णयहेतुत्वाच्छ्रवणादेरिति हिशब्दाथर्ः ।
वस्तुनिर्णयपर्यन्तं श्रवणमनने कर्तव्ये इत्यसत् ।
निर्णीते ऽप्यर्थे पुनः कारणान्तरोपनिपातेन संशयाद्युत्पादस्य दर्शनेन वस्तुनिर्णयस्यावधारयितुमशक्यत्वादित्यत आह- मतीति ॥
मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ।
वेत्ति तस्योक्तिमार्गेण कुर्वतः स्याद्धि दर्शनम्

3.3.73

न्यायसुधा:
मतिर्मननं श्रुतिः श्रवणम् ।
उत्तमः शिष्ययोग्यताभिज्ञः ।
कुर्वतः श्रवणादिकम् ।
दर्शनं ब्रह्मसाक्षात्काः ।
एतदुक्तं भवति ।
ब्रह्मदर्शनार्थं हि श्रवणादिकम् ।
नच तद्यथाकथञ्चिदनुष्ठितं तत्साधनम् ।
किन्तु शिष्ययोग्यताभिज्ञगुरुप्रदानपूर्वकमेवेति वक्ष्यति ।
अतस्तादृशो गुरुरेव श्रवणादिकालविशेषमुपदेक्ष्यति ।
यतः परं कारणशतोपनिपाते ऽपि न संशयाद्युत्पादः स्यादिति ।
*10,109*
देवाद्याः श्रवणादिकमद्यापि कुर्वन्तीति न युक्तम् ।
स्याद्धि दर्शनमिति श्रवणादेस्तत्त्वदर्शनसाधनत्वस्योक्तत्वात् ।
देवादीनां च तत्त्वदर्शनस्यौत्पत्तिकत्वात् ।
यथोक्तम्"नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताःऽ; इत्यादि ।
नच प्राप्तसाध्यः साधनमुतिष्ठतीत्यत आह- श्रवणमिति ॥
श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च ।
विशेषानन्दसम्प्राप्त्या ... ॥ मनुव्_3,3.73अ-च् ॥
न्यायसुधा:
दृष्टतत्त्वस्यापि पुंसः श्रवणं मननं ध्यानं च विशेषानन्दसम्प्राप्त्यै युज्यत एवेति योजना ।
एवं तर्हि श्रवणादेर्दर्शनसाधनत्वोक्तिर्व्याहन्यत इत्यत आह- अन्यस्येति ॥
... अन्यस्यैतानि दृष्टये

3.3.74

न्यायसुधा:
अदृष्टतत्त्वस्यैतानि श्रवणादीनि दृष्टये भवन्ति ।
यथा खलु समुच्चयवादिनां ज्ञानात्पूर्वाणि कर्माणि ज्ञानार्थीनि ।
ततः पराणि तु मोक्षार्थानि ।
यथा च सकामानि कर्माणि संसारकारणानि निष्कामानि तु ज्ञानकारणानि ।
तथा श्रवणादीन्यदृष्टतत्त्वस्य ज्ञानार्थानीति न तदुक्तिव्याघातः ।
दृष्टतत्त्वस्य तु विशेषानन्दार्थानीति देवादीनां तदनुष्ठानं च युक्तम् ।
समाचारकथनं च यथाशक्ति वेदार्थश्रवणमननयोः कर्तव्यतामात्रोपोद्बलनाय कृतमिति नासङ्गतम् ।
विशेषानन्दं तु वक्ष्यामः ।
*10,110*
शिष्ययोग्यताभिज्ञगुरूपदेशानुसारेण श्रवणादिकं कर्तव्यमित्ययुक्तम् ।
तादृशस्य गुरोर्दुलभत्वेन श्रवणाद्यभावापत्तेः ।
लभ्यमानो ऽप्यसावनुष्ठितश्रवणादिना आध्यात्मिकशक्तिसम्पन्नेनैव शिष्येण लभ्यते नान्येन ।
तथाचान्योन्याश्रय इत्यत आह- यदीति ॥
*10,111*
यदि तादृग् गुरुर्नास्ति निर्णीतश्रवणादिकम् ।
तत्सिद्धान्तानुसारेण निर्णयज्ञात् समाचरेत्

3.3.75

न्यायसुधा:
द्विविधं शास्त्रं निर्णीतं निर्णेतव्यं च ।
तत्राद्यं ब्रह्मसूत्रादिकं, द्वितीयं वेदादिकम् ।
तत्र निर्णीतस्य श्रवणादिकं समाचरेत् ।
सर्वज्ञानां सिद्धान्तानुसारेण यो निर्णयं जानाति तस्मात् ।
इदमुक्तं भवति ।
मुख्यस्य गुरोः प्रथममलाभे ऽपि न श्रवणाद्यभावापत्तिः ।
अमुख्यादपि गुरोस्तदुपपत्तेः ।
तत्र मुख्यवदमुख्यस्यातिगहनवेदादिव्याख्यानसामर्थ्याभावे ऽपि निर्णीतव्याख्यानमुपपद्यत एव ।
नच निर्णीतशास्त्रस्यापि व्याख्यानविप्रतिपत्त्याभिप्रायो दुरधिगम इति वाच्यम् ।
सर्वज्ञप्रणीतोपायग्रन्थानुसारेणामुख्यस्यापि गुरोस्तदवगमसम्भवात् ।
एवं चामुख्ये श्रवणादावनुष्ठिते मुख्यो ऽपि गुरुर्लभ्यत इति ।
*10,112*
सर्वज्ञस्य गुरोः श्रवणाद्यङ्गत्वे तदभावे श्रवणाद्यभाव एव कुतो नाङ्गीक्रियते किमनेनामुख्येन श्रवणादिना ।
सर्वज्ञगुरुप्राप्तिस्तु पुण्योपचयेनापि भविष्यतीत्यत आह- श्रवणादीति ॥
श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित्
न्यायसुधा:
सन्ति तावत्सर्वदा श्रवणादिकं कर्तव्यं क्षणमपि न त्याज्यमित्येवमर्थाः श्रुतिस्मृतयः स्वाध्यायप्रवचने एवेति नाको मौद्गल्य इत्याद्याः ।
तत्र च सर्वज्ञो गुरुरङ्गम् ।
तदलाभे तु गुणे त्वन्याय्यकल्पनमिति न्यायेन यादृशतादृशमपि श्रवणादिकं कार्यमेवेतीति भावः ।
नन्वेताः श्रुतय एवानुपपन्नार्थाः ।
अपरिहार्यनिद्राद्युपद्रवप्राप्तौ श्रवणादेः कर्तुमशक्यत्वात् ।
न ह्याकाशरोमन्थनं शक्यविधानमित्यत आह- अतीति ॥
अत्यशक्ये तु निद्रादौ पुनरेव समारभेत्

3.3.76

न्यायसुधा:
परिहर्तुमशक्ये निद्रादौ प्राप्ते तु पुनरेव तदपगमनानन्तरमेव श्रवणादिकं समाचरेत् ।
अयमभिप्रायः ।
यथा सायम्प्रातरग्निहोत्रं जुहोतीत्यादिविधयः सन्निपाताद्युपप्लवसम्भवे ऽपि नानुपपन्नस्तथा प्रकृते ऽपीति ।
*10,114*
निर्णयज्ञस्य गुरोरभावे किं श्रवणाद्यभाव एव, नेत्याह- अभाव इति ॥
अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा ।
शृणुयाद् ...
न्यायसुधा:
निर्णयज्ञस्य गुरोरभावे ऽपि यादृशतादृशात्सर्वदा शृणुयात् ।
मन्वीत च ।
नहि गुणालाभे मुख्यपरित्यागो युक्त इति भावः ।
वेदादिश्रवणे सर्वज्ञो गुरुरपेक्षितः ।
तदितरश्रवणे तु निर्णयज्ञः सर्वज्ञकल्पः ।
द्वयोरभावे ऽपि श्रवणादिकं चेदनुष्ठेयं तदासच्छास्त्राणामिति प्रतीतिः स्यात् ।
अतः सच्छास्त्राण्येवेत्युक्तम् ।
यादृशतादृशात् शृणुयादित्यनेनातिप्रसक्तौ सत्यामाह- यदीति ॥
... यदि सज्ज्ञानप्राचुर्यमुपलभ्यते

3.3.77

न्यायसुधा:
यदि तस्मिन्पुरुषे स्वापेक्षया सम्यग्ज्ञानादिप्राचुर्यमुपलभ्यते तर्हि ततः शृणुयात् ।
न त्वधमात् ।
वैयर्थ्यात् ।
न ह्यदृष्टमात्रार्थं श्रवणादिकमिति भावः ।
*10,115*
स्वतो ऽधिकस्य पुरुषस्य प्रबन्धेन व्याख्यानासाम्भवे किं श्रवणाद्यभाव एवेत्याकाङ्क्षायामाह- महद्भय इति ॥
महद्भयो विष्णुभक्तेभ्यो यथाशक्ति च संशयान् ।
छिन्द्यात् ... ॥ मनुव्_3,3.77अ-च् ॥
न्यायसुधा:
स्वतो महद्भयो, महत्त्वं च न सज्ज्ञानमात्रेण किन्तु विष्णुभक्त्यादिगुणैश्चेत्युक्तं विष्णुभक्तेभ्य इति ।
तादृश एव ह्यादरमुत्पादयन्व्याख्याति ।
सादरमेव च श्रवणादिकं फलायालम् ।
संशयान् अज्ञानविपर्ययांश्चेति श्रवणादिफलमुक्तम् ।
एकस्मात्प्रबन्धेन श्रवणाद्यसम्भवे ऽपि बहुभ्यो महद्भयो यथाशक्ति यथासम्भवमेकैकदेशश्रवणादिकमपि कुर्यादेव ।
तेनापि संशयादिच्छेदस्य श्रवणादिफलस्य लाभादिति भावः ।
स्वतो ऽधिकाभावे कथं श्रवणादीत्यत आह- स्वत इति ॥
... स्वतो ऽधिकाभावे स्वयमेव समभ्यसेत् ।
ब्रूयादपि च शिष्येभ्यः ... ॥ मनुव्_3,3.77च्-ए ॥
*10,116*
न्यायसुधा:
अपिचावितरेतरयोगे ।
श्रुताऽवृत्तिप्रवचनाभ्यामभिनवोत्प्रेक्षोदयात्ते ऽपि श्रवणादिफलं प्रसुवाते ।
सम्यक् श्रवणादिरहितो व्याचक्षाणः स्खलनेन प्रत्यवेयात् ।
तत्कथमुच्यते शिष्येभ्यो ब्रूयादिति तत्राह- सदिति ॥
... सत्सिद्धान्तमहापयन्

3.3.78

न्यायसुधा:
ब्रूयादिति सम्बन्धः ।
प्रामाणिकतयाभिमानो ऽर्थः सिद्धान्तः ।
नतु प्रामाणिक एवेति नियम; ।
तथात्वे शब्दनित्यत्वं केषाञ्चित्सिद्धान्तः ।
केषाञ्चित्तदनित्यत्वमिति न स्यात् ।
द्वयोः प्रामाणिकत्वायोगात् ।
अयं तु न तथा ।
अपि तु प्रामाणिक एवेत्यतः सदित्युक्तम् ।
स्वार्थिको णिच् ।
अजहदित्यर्थः ।
यद्वा शिष्यैरहापयन् ।
सत्सिद्धान्तहानिरेव महतः प्रत्यवायस्य हेतुरिति वक्ष्यामः ।
क्षुद्रस्स्खलितं त्वल्पीयस एव ।
नच तावता महाप्रयोजनव्याख्यानत्यागः ।
तथा सति मृगभयाद्बीजानावापप्रसङ्गादिति भावः ।
*10,118*
को ऽसौ सत्सिद्धान्तो यो न हातव्यः ।
द्विविधः सत्सिद्धान्तः परापरभेदात् ।
प्रत्येकं द्विविधो वाचनिक आनुषङ्गिकश्च ।
तत्र वाचनिकं परं सत्सिद्धान्तं तावदाह- अशेषेति ॥
अशेषगुणपूर्णत्वं सर्वदोषसमुज्खितिः ।
विष्णोरन्यच्च तत्तन्त्रमिति सम्यग् विनिर्णयः

3.3.79

न्यायसुधा:
अन्यत्तत्तन्त्रमिति सकलजगज्जन्मादिकारणत्वमुच्यते ।
निर्णीयत इति निर्णयः ।
सम्यग्विनिर्णयो वाचनिकः परसिद्धान्तः ।
साक्षाद्ब्रह्मस्वरूपावधारणपरे जन्मादिसूत्रे खल्वभिहितो ऽयमर्थः ।
आनुषङ्गिकं परसिद्धान्तमाह- स्वतन्त्रत्वमिति ॥
स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः
न्यायसुधा:
स्वतन्त्रत्वं स्वाधीनसत्त्वादिमत्त्वम् ।
तस्य विष्णोः ।
द्वितीयस्तस्येतिशब्द उत्तरत्र सम्बद्धयते ।
सर्वतो भेदश्चेति ।
प्रकृतिजीवजडेभ्यो ऽत्यन्तभिन्नत्वम् ।
नन्वेतदप्यसम्भवस्तु सतो नात्माश्रुतेः पृथगुपदेशादित्यादिनाभिहितमेव ।
तत्कथमानुषङ्किकः सिद्धान्तः ।
सत्यम् ।
तथापि प्रधानप्रमेयोपयोगितयोक्तत्वाददोषः ।
स्वगतभेदवर्जितत्वादेरुपलक्षणमेतत् ।
इति सम्यक् स्थितिरिति वक्ष्यमाणेनान्वयः ।
*10,121*
कथमस्याथर्स्यानुषङ्गिकत्वमित्यत आह- अदोषत्वस्येति ॥
अदोषत्वस्य सिद्धयर्थं ...
न्यायसुधा:
विष्णोरदोषत्वस्य सिद्धयर्थमङ्गीकार्यो ऽयमर्थ इति शेषः ।
उपलक्षणमेतत् ।
अशेषगुणपूर्णत्वस्य सकलजगज्जन्मादिकारणत्वस्य चेत्यपि द्रष्टव्यम् ।
अनेन कथं तत्सिद्धिरित्यत आह- यदीति ॥
... यदभेदे तदन्वयः

3.3.80

न्यायसुधा:
यस्माज्जगताभेदे विष्णोर्देषसम्बन्धः प्रसज्यते तस्मादिति पूर्वेण सम्बन्धः ।
अत्राप्यभेद इत्यस्वातन्त्र्यस्याप्युपलक्षणम् ।
तदन्वय इति च गुणपूर्त्याद्यभावस्यापि ।
अन्यत्तत्तन्त्रमित्यन्यशब्दो ऽमुक्तविषय इति प्रतीतिः स्यात्तदर्थमाह- तत्तन्त्रत्वं चेति ॥
तत्तन्त्रत्वं च मुक्तानामपि ...
न्यायसुधा:
चशब्दो वक्ष्यमाणेन भेदेन सह समुच्चयार्थः ।
अङ्गीकायर्मिति शेषः ।
किमर्थमिदमङ्गीकार्यं जन्मादिसूत्रस्यामुक्तविषयतयाप्युपपत्तेरित्यत आह- तदिति ॥
*10,122*
... तद्गुणपूर्तये
न्यायसुधा:
नहि मुक्तानां तत्तन्त्रत्वेन विना तस्य निरर्गलमैश्वर्यं सिद्धयति ।
नच तदन्तरेण गुणपूर्तिर्भवतीति ।
स्यादेतत् ।
यदि मुक्ताः परमात्मनो भिन्नाः स्युः ।
नच तथा ।
तत्किं तत्तन्त्रत्वेनेत्यत आह- मुक्तानामपीति ॥
मुक्तानामपि भेदश्च ...
न्यायसुधा:
परमात्मनो ऽत्यन्तभेदश्चाङ्गीकार्यः ।
अनेन"तस्य भेदश्च सर्वतःऽ; इत्येतदपि विवृतं भवति ।
किमर्थमित्यतः प्रयोजनं वक्तुं पीठमारचयति- नहीति ॥
... नहि भिन्नमभिन्नताम् ।
गच्छद् दृष्टं क्वचित् ...
न्यायसुधा:
मुक्तानां परमात्मनाभेदो भवन्न तावत्प्राग्भिन्नानाम् ।
भिन्नस्याभेदावाप्तेः क्वाप्यदर्शनात् ।
न केवलमदर्शनं किं तर्हीत्यत आह- तस्येति ॥
... तस्याप्यभावो ऽनुभवोपगः

3.3.81

न्यायसुधा:
भिन्नमभिन्नतां गच्छतीत्यस्यार्थस्याभावो ऽनुभवसिद्धो ऽपि ।
ततः संसारे ऽप्यभिन्नानामेव मुक्तावभेदो व्यज्यत इत्येव वक्तव्यम् ।
तथैवास्त्वित्यत आह- पूर्वेति ॥
पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता ।
नारायणेन मुक्तानामपि सम्यगिति स्थितिः

3.3.82

न्यायसुधा:
समर्थितं तावद्दुःखादिरूपो ऽयं संसारः सत्य इति ।
ततः संसारे ऽपि जीवानां परमात्मना भेदे तस्य दोषवत्त्वं स्यात् ।
इतिशब्दो हेतौ ।
सम्यक् स्थितिः सत्सिद्धान्तः आनुषङ्गिकः पर इति शेषः ।
*10,124*
नन्वतिभिन्नता किमर्था भेदाभेदोपपत्तेरित्यत आह- भेदेति ॥
भेदाभेदे ऽप्यभेदेन दोषाणामपि सम्भवः
न्यायसुधा:
भेदेन सहितो ऽभेदो भेदाभेदः ।
"विप्रतिषिद्धं चानधिकरणवाचीऽ; इति द्वन्द्वैकवद्भावो वा ।
अत्रापि पूर्वन्यायेन संसारे ऽपि भेदाभेदावङ्गीकार्यौ ।
ततश्चाभेदेन दोषाणामपि सम्भवः ।
भेदेन तत्परिहारो भविष्यतीति चेत्तर्हि किमजागलस्तनायितेनाभेदेनेति ।
इदानीमपरं सिद्धान्तमाह- निर्देषत्वमिति ॥
निर्दोषत्वं रमायाश्च ...
*10,125*
न्यायसुधा:
तथा परमेश्वरवद्रमायाश्च निर्देषत्वम् ।
यथोक्तम्"कामादिरतत्र तत्र चायतनादिभ्यःऽ"समना चासृत्युपक्रमादमृतत्वं चानुपोष्यऽ; इति ।
निर्देषत्वमित्युक्त्या पारतन्त्र्यमपि नास्तीति प्रतीतिनिरासार्थमाह- तदिति ॥
... तदनन्तरता तथा

3.3.83

न्यायसुधा:
परमेश्वरानन्तरता तदधीनतेति यावत् ।
यद्वानेनापरसिद्धान्तान्तरमाह- एकस्माद्भगवत एवावरत्वमिति ।
तदप्युक्तम् अस्यैव चोपपत्तेरूष्माऽ; इति ।
सिद्धान्तान्तरमाह- ब्रह्मेति ॥
ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्रियः ।
शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च

3.3.84

सत्सिद्धान्त इति ज्ञेयो
न्यायसुधा:
मुक्तौ संसारे ऽपि ।
प्रोक्तात्क्रमात्तिष्ठन्तीत्यर्थः ।
अत्र द्वन्द्वनिर्दिष्यानां साम्यमन्येषां तारतम्यमिति ज्ञेयम् ।
एतच्चोक्तमियदामननादिति ।
उपलक्षणं चैतत् ।
प्रपञ्चसत्यत्वादिकमपि ग्राह्यम् ।
कुतो ऽयमशेषगुणेत्यादिसत्सिद्धान्त इत्यत आह- निर्णीत इति ॥
... निर्णीतो हरिणा स्वयम्
न्यायसुधा:
हरिणा सूत्रकारेण स्वयं साक्षान्निर्णीतो न तु बलात्सूत्रार्थतया कल्पितः ।
एतच्च तत्र तत्र दर्शितमेव ।
*10,128*
सत्सिद्धान्तमहापयन्नित्युक्तम् ।
तद्धानौ को दोष इत्यत आह- एतदिति ॥
एतद्विरोधि यत् सर्वं तमसे ऽन्धाय केवलम्

3.3.85

न्यायसुधा:
ज्ञातं सदित्यर्थः ।
विरोधि ज्ञानमेव हि ।
अस्य त्यागः ।
अन्धाय भवतीति शेषः ।
केवलमिति न कदापि न सुखायेत्यर्थः ।
कुत एतदित्यत आह- अन्धमिति ॥
अन्धं तमो विशन्तीति प्राह श्रुतिरतिस्फुटम्
न्यायसुधा:
अनेनान्धन्तमः प्रविशन्ति ये ऽविद्यामुपासत इति श्रुतिमुपादत्ते ।
उक्तार्थस्य प्रामाणिकत्वं वक्ष्यते ।
अतस्तद्विरुद्धप्रतीतिरविद्या भवत्येव ।
अतिस्फुटमित्यनेन परेषां व्याख्यानं पराचष्टे ।
तथाच वक्ष्यामः ।
*10,129*
ननु च वस्तुतः प्रामाणिकः सत्सिद्धान्तः ।
प्रकृतस्य कथं प्रामाणिकत्वमित्यत आह- इत्येवेत्यादिना सादरमित्यन्तेन ।
इत्येव श्रुतयो ऽशेषाः पञ्चरात्रमथाखिलम्

3.3.86

मूलरामायणं चैव भारतं स्मृतयो ऽखिलाः ।
वैष्णवानि पुराणानि साङ्खययोगौ परावपि

3.3.87

ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः ।
अनन्तर युक्तयश्चैव प्रत्यक्षागममूलकाः

3.3.88

प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः ।
मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम्

3.3.89

न्यायसुधा:
इत्येवेत्युक्तप्रकारावधारणम् ।
एतमेवार्थमिति प्रकृतधर्म्यवधारणम् ।
तेन व्यत्यासमपि वारयति ।
अशेषा इति श्रुतिभागस्य कर्मादिपर्यवसायित्वनिरासार्थम् ।
अथशब्दः समुच्चये ।
अखिलमिति जीवजननादिवाक्यानामप्युपादनार्थम् ।
मूलरामायणमेवेत्यवान्तररामायणानां व्युदासः ।
अखिला इति बहुवचनविषयविवरणार्थम् ।
इतरपुराणानां पाशुपतादिमूलत्वेनाप्रामाण्याद्वैष्णवानीत्युक्तम् ।
पराविति अर्वाचीनसाङ्खययोगव्यावृत्तये ।
तयोरप्रमाणत्वात् ।
मीमांसा त्रिविधा ।
शब्दसागरः प्रकाशयतीति सम्बन्धः ।
युक्तयश्च प्रकाशयन्ति प्रत्यक्षागममूलका एव ।
न त्वाभासाः ।
प्रत्यक्षं च प्रकाशयति ।
एवशब्देनेश्वरप्रत्यक्षस्य प्राबल्यं सूचयति ।
कर्मकाण्डादीनामेतदर्थप्रकाशकत्वं कथमित्यत उक्तमुत्तममिति ।
कर्मादेरुत्तानार्थत्वे ऽप्युत्तमो ऽर्थो ऽयमिति भावः ।
वेदादीनामन्यथाव्याख्यानं वारयति- अन्यावकाशरहितमिति ॥
*10,130*
अन्यावकाशरहितं प्रकाशयति सादरम्
न्यायसुधा:
क्रियाविशेषणमेतत् ।
सादरमिति तत्र तात्पर्यसद्भावमाचष्टे ।
एतदर्थर्ं(थे) च श्रुत्यादिकमन्यत्र पठितमेव द्रष्टव्यम् ।
*10,132*
सत्सिद्धान्तमहापयन्सच्छास्त्राण्येव सर्वदा शृणुयादित्युक्तम् ।
तत्र स(त)त्सिद्धान्तस्वरूपं निरूप्य सच्छास्त्राण्येव सर्वदा श्रुणुयादित्येतद्विवृणोति- एतदेव चेति ॥
एतदेव च सच्छास्त्रं दुःशास्त्रं तु ततः परम्

3.3.90

सच्छास्त्रमभ्यसेन्नित्यं दुःशास्त्रं च परित्यजेत्
न्यायसुधा:
एतद्वेदादिकम् ।
ततः परं तद्विरुद्धं तदुदासीनं च ।
ऋगाद्या भारतं चैवेत्याद्यागमो ऽत्र स्फुट एव ।
दुश्शास्त्रं नाभ्यसेदिति वक्तव्ये परित्यजेदिति वचनं न केवलं तत्रोदासीनत्वं किन्तु हेतुतया ज्ञानमपि भाव्यमिति ज्ञापयितुम् ।
अत्र चासच्छास्त्राधिगमनमिति पातकेषु परिगणनं प्रमाणम् ।
स्फुटानि चाचार्येणान्यत्रात्रार्थे वाक्यान्युदाहृतानि ।
*10,133*
सच्छास्त्रमभ्यसेदिति श्रवणमननयोः कर्तव्यत्वमुक्तं तदयुक्तम् ।
निदिध्यासनेनैव ब्रह्मदर्शनोपपत्तेः ।
अन्यथा तद्वैयर्थ्यादित्यत आह- असंशयेनेति ॥
असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम्

3.3.91

न्यायसुधा:
संशयशब्देन विपर्ययो ऽपि लक्ष्यते ।
निर्णये सति निदिध्यासनेन ब्रह्मदर्शनं भवतीति योज्यम् ।
एतदुक्तं भवति ।
सत्यं निदिध्यासनं ब्रह्मदर्शनसाधनमिति ।
किन्तु तत्सिद्धये श्रवणमनने अपि कर्तव्ये ।
अवितथं ब्रह्मानुचिन्तनं हि निदिध्यासनम् ।
वितथानुचिन्तनस्य चतुर्थे निराकरिष्यमाणत्वात् ।
नचाविदितस्यानुचिन्तनं सम्भवतीति ।
तद्वेदनार्थं श्रवणमभ्यर्थनीयम् ।
श्रुते चार्थे लिङ्गाभासप्रतिभासेन संशयविपर्ययोदयेन वितथं तद्भवतीति तद्व्युदासहेतुर्मननमप्येष्यव्यमिति ।
*10,135f.*
अन्ये पुनर्मन्यन्ते ।
श्रवणमेव ब्रह्मापरोक्षज्ञानसाधनम् ।
मनननिदिध्यासने श्रवणं प्रति फलोपकार्यङ्गभूते ।
असम्भावनाविपरीतभावनाख्यचित्तविक्षेपप्रतिबद्धं हि ब्रह्मापरोक्षज्ञानं नाविद्यानिर्मूलनस्येष्यम् ।
मननादिकं च प्रतिबन्धं निवर्तयतीति ।
तदसत् ।
शब्दस्य साक्षात्कारकारणतायाः क्वाप्यदर्शनात् ।
ब्रह्मविषयशब्दवद्धर्मादिविषयस्यापि तथात्वापत्तेश्च ।
नच विशेषहेतुरस्ति ।
येन ब्रह्मविषयस्यैव तद्भावो न धर्मादिविषयस्येति प्रतीमः ।
प्रत्यक्षलक्षणाक्रान्ततया शब्दस्य तत्रान्तर्भावश्चापद्येत ।
अथ मतम् ।
दृश्यते तावद्दशमस्त्वमसीत्यादिवाक्यस्य साक्षात्कारकरणत्वम् ।
नच तत्रापीन्द्रियमेव करणं न शब्द इति साम्प्रतम् ।
शब्दस्याप्यन्वयव्यतिरेकसिद्धत्वात् ।
अस्तु तर्हीन्द्रियमेव करणं शब्दस्तु सहकारीति चेन्न ।
वैपरीत्यस्यापि सुवचत्वात् ।
तथापि कुता विनिगमनमिति चेत् ।
क्वचिद्बहलतमे तमसि क्वचिच्च लोचनविरहिणो ऽपि वाक्याद्दशमो ऽस्मीत्यपरोक्षप्रतीतिदर्शनादिति वदामः ।
धर्मादिविषयस्यापि शब्दस्यापरोक्षज्ञानसाधनत्वापादनं चासत् ।
वैषम्यात् ।
प्रकृतो हि शब्दो ऽपरोक्षब्रह्मात्मविषयः ।
न तथान्यः ।
अस्ति चास्यापरोक्षज्ञानसाधनत्वे प्रमाणम् ।
नान्यस्य ।
तथाहि ।
विमतं श(शा)ब्दज्ञानमपरोक्षम्, अपरोक्षविषयत्वात् सुखादिज्ञानवत् ।
अपरोक्षत्वं वेदान्तवाक्यजन्यज्ञानवृत्ति, अपरोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियोगित्वात् ज्ञानत्ववदिति ।
नच विवादाध्यासितः शब्दो ऽपरोक्षज्ञानजनको न भवति, शब्दत्वात्, ज्योतिष्योमादिवाक्यवदिति युक्तम् ।
दशमस्त्वमसीत्यादौ व्यभिचारात् ।
श्रूयते च"तद्धास्य विजिज्ञौ तमसः पारं दर्शयतिऽ; इत्युपदेशमात्रदेवापरोक्षप्रमितिजन्म ।
अत एव ब्रह्मात्मविषयवाक्यान्यत्वेन प्रत्यक्षलक्षणं विशेषणीयमिति ।
*10,139*
अत्रोच्यते ।
यत्तावदुक्तं दशमस्त्वमसीत्यादिवाक्यादपरोक्षज्ञानजन्मोपब्धमिति तदसङ्गतम् ।
दशत्वसङ्खया खल्वपेक्षाबुद्धिजन्या तद्वयङ्गया वेत्यतो नापाततो रूपादिकमिव प्रत्यक्षेणोपलभ्यते ।
ततो दशानां पूरणो दशमो ऽपि तथा ।
अतः प्रथमं शब्देन परोक्षज्ञाने जाते ऽनन्तरं लब्धसहायेन प्रत्यक्षेणापरोक्षज्ञानं जायते ।
आभावादेकमेवापरोक्षं ज्ञानमित्यभिमानः ।
अन्धकारादौ तु वाक्यादुत्पन्नस्य ज्ञानस्यापरोक्षत्वं नास्त्येव ।
प्रतीतिकलहो ऽयं निरवधिक इति चेत् ।
अत्रेदं वक्तव्यम् ।
शब्दस्यापरोक्षज्ञानसाधनत्वं किं स्वभावः किं वा अपरोक्षज्ञानसाधनत्वमस्याप्यगन्तुकम् ।
आद्ये सर्वेषामपि शब्दानां तथाभावः स्यात् ।
द्वितीये निमित्तं वक्तव्यम् ।
ब्रह्मात्मविषयत्वमिति चेत् ।
तर्हि दशमस्त्वमसीत्यादेरतथाभूतस्य नापरोक्षज्ञानसाधनत्वं स्यात् ।
अपरोक्षविषयत्वमिति चेन्न ।
अपरोक्षज्ञानविषयत्वातिरिक्तस्यार्थे अपरोक्षत्वस्याभावात् ।
तत्रैतज्ज्ञानविषयत्वेन तदुक्तावितरेतराश्रयत्वम् ।
ज्ञानान्तराभिप्राये तु स्वर्गादयो ऽपि केषाञ्चिदपरोक्षज्ञानविषया इत्यस्माकं तद्विषयः शब्दो ऽपरोक्षज्ञानं जनयेत् ।
एकपुरुषाभिप्राये ऽपि केषाञ्चिदपरोक्षज्ञानविषया इत्यस्माकं तद्विषयः शब्दो ऽपरोक्षज्ञानं जनयेत् ।
एकपुरुषाभिप्राये ऽपि प्रत्यक्षावगते ऽग्नौ धूमदर्शनेनापरोक्षज्ञानजन्मप्रसङ्गः ।
शब्दस्यैवंभाव इति चेत् ।
तथाप्यग्नौ शब्देनापरोक्षज्ञानोत्पत्तिः स्यात् ।
अपरोक्षतया ज्ञायमाने तथेति चेन्न ।
धर्मिमात्राभिप्राये प्रत्यक्षेणावगम्यमाने घटे शतपलपरिमितो ऽयमिति शब्दस्यापरोक्षज्ञानकारणतापत्तेः ।
प्रकाराभिप्राये तु प्रकृते ऽभावात् ।
नहि तत्त्वमसीत्यादिवाक्यप्रतिपाद्यं ब्रह्मात्मैक्यमपरोक्षतयावभासते ।
तथा सति शब्दवैयर्थ्यापत्तेरिति ।
*10,142*
एतेनापरोक्षविषयत्वानुमानमपि परास्तम् ।
यच्चापरोक्षत्वमित्यादि ।
तज्ज्योतिष्योमादिवाक्ये ऽपि तथा प्रयोगसम्भवादाभाससमानयोगक्षेमम् ।
ज्योतिष्योमादिवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे न किञ्चिद्बाधकमिति चेत् ।
सममेतद्वेदान्तवाक्येष्वपि ।
संसारस्याविद्यामयत्वादविद्यायाश्चापरोक्षज्ञानेन विना निबर्हणायोगाद्वेदान्तवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे मोक्षाभावप्रसङ्ग इति चेन्न ।
ज्ञाननिवर्त्यताया निरस्तत्वात् ।
चित्तैकाग्षरूपनिदिध्यासनस्यापरोक्षज्ञानसाधनत्वोपपत्तेश्च ।
मनसो ऽपरोक्षज्ञानसाधनत्वं क्वापि नोपलब्धमिति चेत् ।
तत्किं शब्दस्योपलब्धम् ।
यन्मनसा न मनुत इति श्रुतिविरुद्धं तदिति चेन्न ।
श्रुतेर्मनसैवेदमाप्तव्यमिति श्रुत्या सत्प्रतिपक्षत्वात् ।
चित्तैकाग्षस्य अन्तरङ्गतापरेयं श्रुतिरिति चेत् ।
साप्यपक्वमनोविषयेति स्यात् ।
*10,145*
किञ्च शब्दस्यापि ब्रह्मज्ञानसाधनत्वं यतो वाचो निवर्तन्त इति श्रुतिविरुद्धं कथमङ्गीकार्यम् ।
तद्धास्य विजिज्ञावित्यादिश्रुतयस्तु परोक्षज्ञानेनापि सार्थकाः ।
परम्परया अपरोक्षज्ञानसाधनत्ववादिन्यो वा ।
स्पष्टं हि स्मृतयो वदन्ति"श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ ।
संशयं च पराणुद्य लभते ब्रह्मदर्शनम्ऽ; इति,"शृणुयाद्यावदज्ञानं मतिर्यावदयुक्तता ।
ध्यानं च यावदीक्षा स्यान्नेक्षरा क्व च न बाध्यतेऽ; इति च ।
एतेन धर्मादिवाक्ये ऽतिप्रसङ्गः शब्दत्वानुमानं च समाहितं वेदितव्यम् ।
अत एव प्रत्यक्षलक्षणे विशेषप्रक्षेणे ऽपि निरस्तः ।
निर्निबन्धनत्वात् ।
*10,147*
ये तु शब्द एवापरोक्षज्ञानजननाय प्रवृत्तो ऽसम्भावनादिप्रतिबद्धो मनननिदिध्यासनाभ्यां प्रतिबन्धापगमे सज्जनयतीति मन्यन्ते ते प्रष्टव्याः ।
प्राङ्मनननिदिध्यासनाभ्यां किमसौ किमप्यकृत्वा परस्तादपरोक्षज्ञानं जनयत्युत परोक्षज्ञानं कृत्वा ।
नाद्यः ।
गृहीतसङ्गतेः शब्दाद्बोधोदयाभावस्य प्रमाणविरुद्धत्वात् ।
द्वितीये ऽपि विरम्यव्यापारापत्तिः ।
ततो वरं शब्दस्य तावतैव चरितार्थत्वकल्पनमित्येषा दिक् ।
*10,147f.*
यदुक्तं यथाशक्ति श्रवणमनने कर्तव्ये इति तदयुक्तम् ।
पुरुषशक्तीनां तारतम्यवत्त्वेन श्रवणादेरपि तारतम्यापत्तेः ।
नच तथास्त्विति वाच्यम् ।
तत्साध्यस्य ज्ञानस्यैकविधत्वेन वैयर्थ्यप्रसङ्गात् ।
नच वाच्यं ज्ञातव्यस्य ब्रह्मणो ऽपरिमितत्वात्तत्तज्ज्ञानान्यपि तारतम्यवन्तीति ।
तत्फलस्य मोक्षस्य तारतम्यरहितत्वेन वैयर्थ्यापरिहारात् ।

न खलु बन्धविध्वंसस्य तारतम्यमुपपद्यत इत्यत आह- सम्यगिति ॥
*10,148*
सम्यग्विषमविज्ञानतारतम्यानुसारतः ।
फलं भवेत् तारतम्यात् सुखदुःखात्मकं नृणाम्

3.3.92

न्यायसुधा:
विषमं विपरीतम् ।
ज्ञानमेव विज्ञानम् ।
ततो न पुनरुक्तिर्विरोधश्च ।
तारतम्यादिति तारतम्येनोपेतमित्यर्थः ।
सम्यग्विपरीतज्ञानयोस्तारतम्यमित्युक्ते परस्परमिति प्रतीतिः स्यात् ।
तन्निरासार्थमुक्तं विवृणोति- सम्यक्चेति ॥
सम्यक् चाधिकविज्ञानात् सुखाधिक्यं भवेन्नृणाम्
न्यायसुधा:
सम्यगित्यव्ययं समीचीनादित्यर्थः ।
चशब्दो ऽनुक्तसमुच्चयार्थः ।
मध्यमात्सम्यग्ज्ञानात्तथाविधं सुखं भवेत् ।
अल्पाच्च सम्यग्ज्ञानादल्पम् ।
एवमधिकान्मिथ्याज्ञानादधिकं दुःखमित्यादि ।
अत्र मिथ्याज्ञानतारतम्येन दुःखतारतम्यस्याभिधानं दृष्टान्तत्वेनोपयुज्यते ।
यद्वा दुश्शास्त्रं तु परित्यजेदित्युक्तम् ।
तत्रात्यन्तपरित्यागार्थो ऽर्थवादो ऽयम् ।
न बन्धप्रध्वंसमात्रं मोक्षः किन्तु सुखमपि ।
तस्य च तारतम्यमुपपद्यत इति भावः ।
*10,149*
अधिकरणार्थमुपसंहरति- अत इति ॥
अतो यथात्मशक्तयैव श्रवणं मननं तथा

3.3.5

*10,149f.*
न्यायसुधा:
नन्वत्रात्मशक्तिमनतिक्रम्य यथात्मशक्तीत्यव्ययीभावे सति, तस्याव्ययीभावश्चेति अव्ययत्वादव्ययादाप्सुप इति तृतीयाया लुका भवितव्यम् यथाऽत्मशक्त्यैवेति कथम् ।
उच्यते ।
यथेति भिन्नं पदं सम्यग्वाचि ।
निवृत्तिमार्गः कथित आदौ भगवता यथेति, यथा श्रवणमित्यादिना च सम्बद्धयते ।
सादृश्यार्थं वा ।
आत्मशक्त्यैव श्रवणं मननं चाचरेत् ।
नतु सर्वशाखाविषयम् ।
नापि स्वस्वशाखामात्रविषयम् ।
यथा च श्रवणं मनन चात्मशक्त्यैव ।
निदिध्यासनमपि तथाऽचरेत् ।
तच्च श्रवणं मननं च कृत्वा कुवर्न्वेति ।
यद्वा यथाऽत्मशक्तीत्यव्ययीभावात्पर आशब्दः सम्यग्वाची ।
श्रवणमित्यादिना सम्बद्धयते ।
अथवा यथाशब्दस्यात्मशब्देनाव्ययीभावः ।
ततः शक्तिशब्देन कर्मधारयः ।
योग्यतानुसारिण्या शक्त्येत्यर्थः ।
अत्र यथाऽत्मशक्त्यैव श्रवणं मननं तथाऽचतरेदित्येतावतैवोपसंहारे कर्तव्ये ऽधिकमुच्यते यत्तच्छ्रवणमननयोरुक्तस्य निदिध्यासनाङ्गत्वस्याप्युपसंहाराथर्म् ।
कृत्वा अथवा कुर्वन्नपीति विशेषज्ञापनार्थं च ।
अयं च विकल्पो गुरूपदेशानुरोधेन व्यवतिष्ठते ।
अथवा पूर्वार्ध एवाधिकरणार्थोपसंहारः ।
तत्राचरेदिति वक्ष्यमाणं सिंहावलोकनेन सम्बद्धयते ।
इति सिद्धमिति शेषः ।
॥ इति सर्ववेदा(न्प्रत्यया)धिकरणम् ॥
*10,152*
[======= ज्न्य्स्_3,3.इइ: उपसंहाराधिकरण =======]
॥ अथ उपसंहाराधिकरणम् ॥
॥ ओं उपसंहारो ऽर्थाभेदाद्विधिशेषवत्समाने च ओं ॥
अत्र सर्ववेदोक्तान्गुणान्दोषाभावांश्चोपसंहृत्यैव परमात्मोपास्य इत्युक्तम् ।
इहापि सर्वशब्दो नासङ्कुचितवृत्तिरुक्तन्यायादित्याशयवांस्तात्पर्यमाह- कृत्वेति ॥
उपसंहारो ऽर्थाभेदाद् विधिशेषवत्समाने च

3.3.93

कृत्वाथ कुर्वन्नपि वा निदिध्यासनमाचरेत् ॥ 3-3-2 ॥
श्रवणं मननं तथेति वर्तते ।
यथाऽत्मशक्त्यैवेति च ।
अनेन"प्राप्तेश्च समञ्जसम्ऽ; इत्यादीनां सूत्राणामपि तात्पर्यमुक्तं वेदितव्यम् ।
तथा"तन्निर्धारणार्थनियमःऽ; इत्यादीनां, प्रथमाधिकरणव्याख्यानेनेति ।
॥ इति उपसंहाराधिकरणम् ॥
*10,154*
[======= ज्न्य्स्_3,3.इइइ: अनुबन्धाधिकरण =======]
॥ अथ अनुबन्धाधिकरणम् ॥
॥ ओं अनुबन्धादिभ्यश्च ओं ॥
योगशास्त्रे यमादिकमुपासनाङ्गतयोपदिश्यते ।
तत्र पूर्वपक्षवादी मन्यते ।
यमानुष्ठानं तावदसत् ।
विष्णुभक्त्यादिगुणसम्पत्तिर्विषयसंसर्गादिदोषवर्जनं च यमशब्दाभिधेयम् ।
देशकालावस्ताव्यवस्थया विनानुष्ठेयस्य तथात्वात् ।
अहिंसादिपरिगणनं तु तत्प्रदर्शनार्थमिति हि योगानुशासनानि ।
तत्र यमानां किमुपासनोत्पत्तावुपयोगः ।
किंवा तत्फलज्ञानोत्पत्तौ ।
नाद्यः ।
विद्वेषिणामपि सततानुचिन्तनदर्शनात् ।
तन्मात्रत्वाच्चोपासनायाः ।
न द्वितीयः ।
भक्त्यादिसहितमेवोपासनं ब्रह्मसाक्षात्कारं जनयति नान्यथेत्यत्र प्रमाणाभावात् ।
किञ्च"द्वेषाच्चैद्यादयो नृपाःऽ; ।
"वैरेण यन्नृपतयःऽ; इत्यादौ द्वेषस्य तावन्मोक्षसाधनत्वं प्रतीयते ।
दृष्ट्वैव तं मुच्यते नापरेणेति मोक्षस्य दर्शनैकसाध्यत्वं च ।
तदुभयपर्यालोचनया द्वेषस्य दर्शनसाधनत्वमवगम्यते ।
एवं नियमासनप्राणायामप्रत्याहाराणामप्यङ्गता निरसनीयेति ।
तत्र समाधानमनुबन्धादिभ्य इति ।
तस्यार्थो भक्त्यादिभ्य इति ।
तत्र न ज्ञायते कः पक्षो ऽङ्गीकृतः कथं च तत्रोक्तदोषः परिहृत इति ।
अतो व्याचष्टे- विषयेष्वित्यादिना ॥
अनुबन्धादिभ्यश्च । ब्ब्स्_??? ।
विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् ।
मनसा चान्यदाकाङ्क्षात् परं न प्रतिपाद्यते

3.3.94

इति भारतवाक्यं हि तेनैतद्दोषवर्जितः ।
सदोपासनया युक्तो वासुदेवं प्रपश्यति

3.3.95

न्यायसुधा:
विषयसेवनात् ।
शाश्वतस्य ब्रह्मणः मोक्षादन्यद्विषयजातं प्रति ।
आकाङ्क्षादिति घञन्तः परं ब्रह्म न प्रतिपद्यते न पश्यति ।
मिथः समुच्चये चशब्दः ।
हिशब्दो यस्मादित्यर्थे ।
विषयसंसर्गादिदोषाणां ज्ञानविरोधित्वमाहेति शेषः ।
एतद्दोषवर्जित एव सदोपासनया युक्तो भवति ।
तथाविध एव सदोपासनया युक्तो वासुदेवं प्रपश्यतीति योज्यम् ।
एतदुक्तं भवति ।
उपासनोत्पत्तौ तावद्यमानामङ्गत्वं ब्रूमः ।
विषयसंसर्गादिमतो भक्तिरहितस्य सदोपासनानुपपत्तेः ।
न ह्यन्यत्र(व्या) आसक्तमनास्तत्र स्नेहविधुरश्च तत्सन्ततं चिन्तयतीति युज्यते ।
*10,154f.*
यदत्रोक्तं स्निग्धवत्क्रुद्धानामपि सन्ततानुचिन्तनं दृष्टमिति तत्सत्यम् ।
तथापि तदितरसंसर्गवर्जनादिकमङ्गीकार्यमेव ।
नच भगवति विद्वेषस्य कारणमस्ति ।
केषाञ्चिदाशयदोषवशाद्द्वेषसम्भवे ऽपि न तथाविधमनुचिन्तनं ज्ञानसाधनं भवति ।
किन्तूक्तयमादिसहितमेवेति द्वितीयपक्षमपि स्वीकुर्मः ।
नच तत्र प्रमाणाभावः ।
भारतवाक्यस्य विद्यमानत्वात् ।
तत्र (च) विषयसंसर्गादिपदानां यममात्राभावोपलक्षणत्वादिति ।
भक्त्याद्यभावस्यापि दोषत्वेनैतद्दोषवर्जित इत्युक्तम् ।
*10,160*
यमानामवश्यानुष्ठेयत्वे युक्तिमप्याह- दोषा इति ॥
दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः ।
सन्त्येव प्रायशः पुंसु तेन मोक्षो न जायते

3.3.96

*10,160f.*
न्यायसुधा:
ते विष्णुभक्त्यभावाद्या विषयसंसर्गाद्याश्च दोषा मुक्तिपरिपन्थिनः प्राचुर्येण पुरुषेष्वनादिसम्बन्धाः सन्त्येव ।
तेन कारणेन तेषां मोक्षो न जायते ।
एतदुक्तं भवति ।
मोक्षयोग्यानां मुमुक्षूणामपीदानीं तावन्मोक्षो न जायते ।
तत्कुत इति चिन्त्यम् ।
भगवत्प्रसादाभावादिति चेत्सो ऽपि कुतः ।
ज्ञानाभावादिति चेदसावपि कुतः ।
ध्यानाभ्यासासत्त्वादिति चेन्न ।
विद्वेषिणां तत्सत्त्वे ऽप्यसत्त्वस्य वक्ष्यमाणत्वात् ।
अपि च ध्यानाभ्यासो ऽपि कुतो नेति वाच्यम् ।
श्रवणाद्यभावादिति चेत् ।
तद्भावो ऽपि न कुतः ।
अतो दोषा एव तत्तदुत्पत्तिं प्रतिबध्नन्तो मोक्षपरिपन्थिन इति ज्ञायते ।
न च दोषाणामागन्तुकानामनादिमोक्षाभावहेतुत्वं न सम्भवतीति साम्प्रतम् ।
प्रवाहतो ऽनादित्वादिति ।
तथा चोक्तम् ।
दोषगृहीतगुणामिति ।
*10,162*
स्यादेतत् ।
सन्ति केचित्संसारिणो ऽपि रागादिदोषरहिता जीवा बालमुग्धादयः ।
तत्कथं दोषाणां मोक्षाभावहेतुत्वमित्यत आह- सर्व इति ॥
सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः
न्यायसुधा:
उदाहृतेष्वपि बालमुग्धादिजीवेषु त एते मगवद्भक्त्यभावाद्या दोषास्तावत्प्रत्यक्षानुमानाभ्यां दृश्यन्त एव ।
रागद्वेषादयो ऽपि पुरुषेषु तारतम्यतः सन्ति ।
चतुर्विधा हि ते प्रसुप्ततनुविच्छिन्नोदारभेदेन ।
अतो बालादिषूदाराणां तेषामभावादभावाभिमानः ।
स्तन्यादिकामादेस्तेष्वपि दर्शनात् तथा चागमः ।
गर्भे बाल्ये ऽप्यपौष्कल्यादित्यादिः ।
तदेवं सर्वे ऽपि दोषाः सर्वेष्वपि प्रमिता इति युक्तमुक्तम् ।
जोस्हि-23
अथापि स्यात् ।
ऋजवो नाम हिरण्यगर्भपदप्राप्तियोग्याः सन्ति संसारिणः पुरुषाः ।
नच ते दोषिण इति युक्तम् ।
ऋजुत्वविरोधात् ।
ऋजवः समीचीना निर्देषा इत्यनर्थान्तरम् ।
तत्कथमित्यत आह- ऋजूनामिति ॥
ऋजूनामेक एवास्ति परमोत्साहवर्जनम्
न्यायसुधा:
ऋजूनामपि मोक्षार्थं महोद्योगवर्जनं नाम दोषो ऽस्तीत्यतो नोक्तमयुक्तम् ।
अन्यथा मोक्षविलम्बासम्भवात् ।
न चैवमृजुत्वविरोधः ।
यतो ऽसावेक एव ।
दोषबाहुल्याभावाभिप्रायमृजुत्ववचनम् ।
अल्पस्वे निःस्वप्रयोगदर्शनादिति भावः ।
*10,165*
प्रकारान्तरेण विरोधं परिहरति- स इति ॥
स गुणाल्पत्वमात्रत्वान्नर्जत्वेन विरुद्धयते

3.3.97

न्यायसुधा:
स परमोत्साहवर्जनं नाम दोषः ।
यद्यपि महोद्यमाभावो दोष एव हेयत्वात् ।
तथापि न रागादिरिव भावरूपः ।
नापि गुणाभावरूपः ।
किन्नामोत्साहलक्षणगुणाल्पतामात्रमित्यदोषो ऽप्युच्यत इति नर्जुत्वेन विरुद्धयते ।
किमतो यद्येवं दोषाः संसारहेतवो मुक्तिपरिपन्थिन इत्यत आह- अत इति ॥
अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु ।
तारतम्येन कर्तव्या पुरुषार्थमभीप्सिता

3.3.98

*10,166*
न्यायसुधा:
इदं च सर्वयमोपलक्षणम् ।
पुरुषार्थं मोक्षम् ।
अयमत्र सङ्क्षेपः ।
विष्णुभक्त्यभावाद्या विषयसंसर्गाद्याश्च दोषा मुमुक्षादिमता त्याज्याः ।
मोक्षादिविरोधित्वात् ।
यद्यद्विरोधि तत्तदर्थिना त्याज्यं दृष्टम् ।
यथाऽरोग्यविरोध्यपथ्यं तदर्थिना ।
तथाच विष्णुभक्त्यादिकं कार्यमिति सिद्धयति ।
भावानुष्ठानेन विनाभावपरित्यागायोगादिति ।
विष्णौ परान्यत्र तारतम्येनेत्युक्तं विवृणोति- स्वादर इति ॥
स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः ।
ततो ऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः

3.3.99

कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता
न्यायसुधा:
आदरः स्नेहः ।
स्वभावतः संसिद्ध इत्युपकारादिकरणमनपेक्ष्यानादिसिद्ध इत्यर्थः ।
अन्यथा सुखिनैव मया भाव्यं न जातु दुःखिनेत्याशीर्न स्यादिति हिशब्दार्थः ।
ततः स्वविषयादादरादधिक आदरः साक्षात्स्वोत्तमेषु कर्तव्यः ।
एवं तेषां तेषामाधिक्यानुसारतो ऽधिकः कर्तव्यो वासुदेवान्तम् ।
वासुदेवे तु निरतिशयः ।
शुभं ध्यानादिकम् ।
एतच्चोपपाददिष्यते ।
*10,167*
सकृदनुष्ठेयासकृदनुष्ठेयसदानुष्ठेयभेदादङ्गमनेकविधम् ।
अयं तु कथमित्यपेक्षायामाह- नेति ॥
न कदाचित् त्यजेत् तं च क्रमेणैनं विवर्धयेत्

3.3.100

न्यायसुधा:
तं विष्ण्वाद्यादरम् ।
न केवलं न त्यजेत्किन्तु कालक्रमेणैनं विवर्धयेच्च ।
स्वसमेषु स्वतो ऽधमेषु च कथमित्यपेक्षायामाह- समेष्विति ।
समेषु स्वात्मवत् स्नेहः सत्स्वन्यत्र ततो दया ।
कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः

3.3.101

*10,167f.*
न्यायसुधा:
कर्तव्य इति वर्तते ।
तत उत्तमसमेभ्यो ऽन्यत्राधमेषु सत्सु दया कार्या ।
यदि सत्स्वित्येवोच्येत तदोत्तमसमेष्वपि प्रसङ्गः ।
ततो ऽन्यत्रेत्येवोक्तावसत्स्वपि प्रसक्तिः ।
ततो वर्गत्रयादन्यत्राज्ञेष्वोदासीन्यम् ।
विपरीतेषु वैपरीत्यं चेत्यपि योज्यम् ।
एवं क्रियमाणे यमानामुपासनोत्पत्तौ ज्ञानोत्पादे मोक्षतिशये चाङ्गत्वमिति सूचनाय पुरुषार्थमभीप्सता शुभमिच्छता दृश्यते क्षिप्रमीश्वर इति विचित्रोक्तिः ।
अत एवोपसंहारे त्रयस्यापि सङ्कीर्तनम् ।
*10,169*
दोषपरित्यागे ऽप्यस्ति विशेषः ।
रागादयो हि संसारमातन्वते ।
विपरीतज्ञानादयस्तु नित्यं नरकं प्रापयन्तीत्यतो रागादितो ऽतिशयेन त्याज्या इत्याशयवांस्तत्र श्रुतिमाह- तदिति ॥
तत् तमो ऽन्धं व्रजेद् विष्णुसमत्वं यो ऽनुपश्यति ।
रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन

3.3.102

किमुताधिक्यदृष्टेस्तद् गुणाभावमतेरपि ।
दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः

3.3.103

इत्याह सच्छ्रुतिस् ...

3.3.104

न्यायसुधा:
तत्प्रसिद्धम् ।
न केवलं संसारे किन्तु मुक्तावपि कथञ्चन केनापि धर्मेण समत्वम् ।
रमाब्रह्मशिवादीनां विष्णोराधिक्यदृष्टेः पुरुषस्यान्धतमसावाप्तिर्भवतीति किमुतेति योज्यम् ।
विष्णोर्गुणाभावमतेर्विष्णोर्जीवैर्जडैश्चाभेदस्य द्रष्टुः ।
उभयोर्भेदाभेदयोः ।
स्वपक्षसाधनमुपसंहरति- तेनेति ॥
... तेन सम्प्रोक्तगुणसंयुतम् ।
उपासीत हरिं दृष्ट्वा मुक्तिस्तेनैव जायते ॥ मनुव्_3,3.103अ-द् ॥
*10,170*
न्यायसुधा:
प्राक् सम्प्रोक्तैर्विषयसंसर्गवर्जनादिभिर्गुणैः संयुतः ।
यद्वा योगशास्त्रे सम्प्रोक्तैर्यमादिभिर्गुणैरङ्गैः संयुतः ।
तेनैव तथाविधेनैवोपासेन हरिं दृष्ट्वा कर्माणि क्षपयतो मुक्तिर्जायते ।
इदानीं यत्पूर्वपक्षिणोक्तं भगवद्द्वेषिणामपि पुराणे मुक्तिः कथ्यत इति तन्निराकरोति- द्वेषादिति ॥
द्वेषाद् यन्मुक्तिकथनं श्रुतिवाक्यविरोधि यत्

3.3.105

न्यायसुधा:
तस्मादन्यथा व्याख्यातव्यमिति भावः ।
तत्प्रकारं च वक्ष्यति ।
किं तच्छतिवाक्यमित्यतो"मा नस्तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवो ऽन्नेषु जागृधुःऽ; इत्येतदर्थतः पठति- रिपव इति ॥
*10,170f.*
रिपवो ये तु रामस्य विमुखत्वान्निरामिणः ।
अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः ॥ मनुव्_3,3.104च्-f ॥
हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः ।
तन्निर्गुणत्ववेत्तारस्तस्य दोषविदो ऽपि च

3.3.106

न्यायसुधा:
रामो रमणं तदस्यास्तीति रामी भगवन्नामस्तस्मान्निष्क्रान्तास्तस्य विमुखा निरामिण इत्यर्थः ।
अत एव तस्य रिपवः ।
अभिद्रोहपद इत्यस्यैव व्याख्यानमन्धेतमसीति ।
नित्यं स्थिता भवन्तीति शेषोक्तिः ।
अनेन ये निरामिणो रिपवो ऽन्नेषु भोगेषु जागृधुरभिकाङ्क्षावन्तस्ते ऽभिद्रुहो ऽभितो द्रोहस्य पदे स्थाने स्थातुं योग्या यतो ऽतस्तेभ्यः स्तेनेभ्यो ऽस्मान्मावोचः ।
न ह्यस्मच्छ्रवणवान्दुःखमर्हतीति योजना सूचिता भवति ।
इदं च वायुं प्रति विद्यादेवताया वचनम् ।
तदभेदिनस्तस्य हरेर्जीवाद्यभेदवादिनः ।
*10,172*
कथमेतच्छतिविरोध इत्यत आह- इत्यादीति ॥
इत्यादिश्रुतिसन्दर्भाद् द्वेषिणस्तम ईयते

3.3.107

न्यायसुधा:
स्मृतिविरुद्धं च द्वेषिणां मोक्षकथनमित्याशयवांस्ताः पठति- हिरण्यकशिपुश्चेति ॥
*10,172f.*
हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ।
विधिक्षुरत्यगात् सूनो प्रह्लादस्यानुभावतः ॥ मनुव्_3,3.106च्-f ॥
यदनिन्दत् पिता मह्यं त्वद्भक्ते मयि चाघवान् ।
तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तरादघात्

3.3.108

निन्दां भगवतः शृण्वंस्तत्परस्य जनस्य वा ।
ततो नापैति यः सो ऽपि यात्यघः सुकृताच्च्युतः

3.3.109

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम्

3.3.110

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः

3.3.111

मामात्मपरदेहेषु प्रद्विषन्तो ऽभ्यसूयकाः ।
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु

3.3.112

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्

3.3.113

यो द्विष्टाद् विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।
कथं स न भवेद् द्वेष्य आलोकान्तस्य कस्यचित्

3.3.114

यो द्विष्टाद् विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः ।
इत्यादिवाक्यसन्दोहाद् द्वेषिणस्तम एव तु
*10,173*
न्यायसुधा:
विविक्षुर्वेशनसम्भावनाविषयः ।
आशङ्कायामचेतनेषूपसङ्खयानमिति वचनात् ।
श्वा मुमूर्षतीति यथा ।
अत्यागात्तमः ।
मम पिता मह्यं मन्निमित्तं त्वमनिन्दत् ।
मयि मद्विषये चाघवानपराधवान् ।
तस्माद्विष्णुवैष्णवनिन्दापराधजादघान्नित्यनिरयात् ।
निन्दादिकं च द्वेषमूलमिति प्रसिद्धमेव ।
नरहरिं प्रति प्रह्लादस्य वाक्यमिदम् ।
ततः स्थानात् ।
निन्दां शृण्वतो यदाधःपातस्तदा निन्दकस्य किमु ।
मानुषीं मनुष्यसदृशीम् ।
ये मामवजानन्ति ते मोघाशादिमन्तो भवन्ति ।
तेषां सुखलेशो ऽपि न भवति ।
आत्मपरदेहेषु प्रेरकत्वेन स्थितम् ।
संसरन्त्यत्रेति संसारा देहाः ।
तस्य विवरणमासुरीष्वेवेत्यादि ।
लोको जनस्तस्यान्तश्चण्डालादिस्तत्पर्यन्तस्य ।
कथमेतत्स्मृतिविरोध इत्यत आह- इत्यादीति ॥
इत्यादिवाक्यसन्दोहाद् द्वेषिणस्तम एव तु

3.3.47

न्यायसुधा:
ज्ञायत इति शेषः ।
तमो ऽपि निरुत्थानमिति तुशब्दः ।
अतो यमाद्यङ्गमवश्यानुष्ठेयमिति सिद्धम् ।
॥ इति श्रीमन्न्यायसुधायां अनुबन्धाधिकरणम् ॥
*10,177*
[======= ज्न्य्स्_3,3.इव्: विध्याधिकरण =======]
॥ अथ श्रीमन्न्यायसुधायां विद्याधिकरणम् ॥
॥ ओं विद्यैव तु निर्धारणात् ओं ॥
यद्यपीदमधिकरणमनुबन्धादिभ्य इत्यतः पूर्वं तथाप्युपासनस्वरूपावगमे सत्येव तत्साथर्क्यसमर्थनस्यावसरो नान्यथेति व्युत्क्रमेण व्याख्यातम् ।
तथाहि ।
न भगवदुपासनं कर्तव्यं वैयर्थ्यात् ।
नच साक्षात्कारार्थम् ।
तस्यापि व्यर्थत्वात् ।
नच मोक्षप्रयोजनो ऽसाविति वाच्यम् ।
चार्वाकदिशा मोक्षस्यैवाभावात् ।
भावे वा जैनादिमतानुसारेण साधनान्तरसाध्यत्वादिति प्राप्ते मोक्षसद्भावं तस्यापि भगवद्दर्शनसाध्यत्वं च साधयितुमिदमारभ्यते ।
यद्यपि समयपादे चार्वाकादिमतानि निराकृतानि ।
तथापि मोक्षतत्साधनवियदूषणविशेषव्युत्पादनार्थो ऽयं प्रयत्नः ।
तत्र चार्वाकमतं तावदनुवदति- नैवेति ॥
विद्यैव तु निर्धारणात्

3.3.115

नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः
न्यायसुधा:
एवशब्दः स्वरूपनिषेधद्योतनार्थः ।
अन्यथा पुरुषविशेषादिसम्बन्धेन निषेधो ऽपि ज्ञायेत ।
तस्मादुपासनं व्यर्थमिति शेषः ।
*10,178*
तर्हि कः पुरुषार्थो ऽस्तीत्यत आह- भोग इति ॥
भोगः ...
न्यायसुधा:
स्रक्चन्दनादिविषयसुखानुभवो भोगः स पुरुषार्थो ऽस्तीति प्राहुरिति सम्बन्धः ।
भोगश्चैहिक एव न तु स्वर्गादिगत इत्याह- शरीरेति ॥
... शरीरपर्यन्तं ...
न्यायसुधा:
शरीरपातपर्यन्तमित्यर्थः ।
कुतः स्वर्गापवर्गयोरसत्त्वमित्यत आह- भस्मीभाव इति ॥
... भस्मीभावस्ततो भवेत्

3.3.116

इति ...
*10,179*
न्यायसुधा:
ततः पातानन्तरं शरीरस्य भस्मीभावो भवेत् ।
इदमुक्तं भवति ।
शरीरपातोत्तरकालमात्मनः स्वर्गापवर्गौ वक्तव्यौ ।
आत्मा च न शरीरातिरिक्तो ऽस्ति ।
शरीरं च पातोत्तरकालं नश्यत्येव ।
ततः कस्य तौ स्यातामिति ।
इति प्राहुरिति सम्बन्धः ।
शङ्कासमाप्तौ वेतिशब्दः ।
तदेतत्प्रमाणाभावेन दूषयंस्तावत्पृच्छति- तदिति ॥
... तत् केन मानेन दृष्टं ...
न्यायसुधा:
मोक्षो नैवास्तीति वाक्यार्थं तदिति परामृशति ।
केन मानेनेति ।
प्रत्यक्षेण वा तदितरेण वेत्यर्थः ।
दृष्टमवगतम् ।
द्वितीयस्तावच्चार्वाकेण नाङ्गीकर्तुं शक्यत इत्याशयवानाह- प्रत्यक्षेति ॥
... प्रत्यक्षवादिना
न्यायसुधा:
प्रत्यक्षमेकमेव प्रमाणं नान्यदित्यभ्युपगच्छता ।
पूर्वेण सम्बन्धः ।
आद्यं निराकरोति- नहीति ॥
नहि प्रत्यक्षमानेन मोक्षाभावो ऽवसीयते

3.3.117

*10,179f.*
न्यायसुधा:
अनुमानादिकं तावत्परस्य मानं न भवति ।
यच्च मानत्वेनाङ्गीकृतं प्रत्यक्षं तेनेति यावत् ।
मोक्षो हि नाम परमानन्दावाप्तिविशिष्यात्यन्तिकी दुःखनिवृत्तिः ।
तदभावश्चैवमवगन्तव्यः ।
नास्ति को ऽपि पुरुषः परमानन्दानुभवी सर्वो ऽपि दुःखी चेति ।
नच पुरुषान्तरवर्तिनी सुखदुःखे तदभावौ वा पुरुषान्तरप्रत्यक्षविषयाविति कथं मोक्षाभावः प्रत्यक्षेणावसीयेतेति हिशब्दार्थः ।
*10,181*
मा भूत्प्रमाणाभावेन मोक्षाभावनिश्चयः ।
तत्सद्भावनिश्चयो ऽत्रप दुर्घट एव ।
प्रमाणाभावात् ।
तावत्तत्र प्रत्यक्षं प्रमाणम् ।
परपुरुषवर्तिनोः परमानन्ददुःखाभावयोः परप्रत्यक्षस्य सामर्थ्याभावात् ।
स्वनिष्ठस्तु तदभाव एव प्रत्यक्षेणोक्ष्यते ।
नापि प्रत्यक्षादन्यत् ।
तत्प्रामाण्यसिद्धेः ।
ततश्च साधकबाधकप्रमाणाभावादप्रतिपत्तिर्नित्यसंशयो वा मोक्षे स्यादिति नोपासनानुष्ठानं सम्भवतीति ।
मैवम् ।
प्रत्यक्षेण तावन्मोक्षनिश्चयोपपत्तेः ।
*10,182*
ननूक्तमत्र प्रत्यक्षस्य तत्र सामर्थ्यं नास्तीति तत्राह- घटत इति ॥
घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा
न्यायसुधा:
यद्यपि प्राकृतानां प्रत्यक्षं न मोक्षं गोचरयितुं क्षमते ।
तथापि महत्तमपुरुषप्रत्यक्षेण मोक्षनिश्चयो युज्यत एव ।
तदीयप्रत्यक्षावगमश्च परेषां तद्वाक्येन भविष्यतीति भावः ।
ननु कर्तृकर्मणोः कृतीत्यत्र षष्ठया भवितव्यं कथं तृतीया ।
शेषविवक्षायां षष्ठी विहिता ।
नचात्र शेषविवक्षेति चेन्न ।
अस्मिन्योगे शेषग्रहणस्य निवृत्तत्वात् ।
उच्यते ।
हेतावेषा तृतीया ।
न कर्तरि करणे वा ।
महीयसा पुरुषेण हेतुना करणेन वा तदीयप्रत्यक्षेणेति यावत् ।
इतरेषां मुक्तिदृष्टिर्मुक्तिसद्भावनिश्चयो घटत इति ।
यद्वा मुक्तिविषया प्रत्यक्षदृष्टिर्घटते ।
कथम् ।
यतो महीयसा पुरुषेणषक्ष्यते मोक्ष इति वदाम इति योजना ।
अथवा क्रियमाणेति पदाध्याहारे न दोषः ।
*10,187*
एवं तर्हि मयापि वक्तुं शक्यत एव ।
यद्यपि परपुरुषवर्ती मोक्षाभावो ऽस्मदादीनां न प्रत्यक्षः ।
तथापि महीयसः पुरुषस्य लोकायताचार्यस्य प्रत्यक्ष एव ।
तदवगमश्चास्माकं तद्वाक्येन भविष्यतीति ।
तथाच सत्प्रतिपक्षतया पुनरनिश्चय एवेत्यत आह- नेतीति ॥
नेति वक्तुर्महत्त्वं तु कथञ्चन न विद्यते

3.3.118

न्यायसुधा:
कस्मिन्नपि पुरुषे वर्तमानो ऽनागतो वा मोक्षो नास्त्येवेत्यहं प्रत्यक्षेणेक्ष इति वक्तुस्त्विति सम्बन्धः ।
महत्त्वमेव न विद्यते कुतो महीयस्त्वमित्येवशब्दार्थो वा तुशब्दः ।
महत्त्वमिह बहुप्रकारमपेक्षितम् ।
इतरपुरुषाप्रत्यक्षार्थसाक्षात्कारित्वं तदुपयुक्तासाधारणधर्मवत्त्वं यथार्थवादित्वं चेति ।
तत्रैकप्रकारमपि न लोकायताचार्यस्य विद्यते ।
कुतस्तेन सत्प्रतिपक्षताशङ्का मोक्षवादिनां महापुरुषाणाम् ।
कुत इत्यत आह- साधयन्निति ॥
साधयन् सर्वसामान्यं कथमेव विशेषवान्
*10,187f.*
न्यायसुधा:
धर्माद्यभावप्रतिपादनेन सर्वेषां पुंसां समानत्वं साधयंल्लोकायताचार्यः कथमेवेतरेभ्यो ऽतिशयवान्भवति ।
न कथञ्चित् ।
एतदुक्तं भवति ।
पुरुषान्तराप्रत्यक्षस्य परपुरुषगतस्य मोक्षाभावस्य साक्षात्करणे लोकायताचार्यस्येतरेभ्यो विशेषेण भाव्यम् ।
अन्यथेतरेषामपि तत्प्रसङ्गात् ।
न चासावस्ति ।
तपसा योगेन वा जनितो धर्मविशेषस्तथा ।
स चेतरेषामिव स्वात्मनो ऽपि नास्तीति तेनैव साधितम् ।
अतः कारणाभावादितरवत्तस्यापि परपुरुषवर्तिमोक्षाभावसाक्षात्करणं नास्त्येवेति निश्चीयते ।
तत एवाहं मोक्षाभावं साक्षात्करोमीति तदीयवचनमयथार्थमेव ।
भूतपरिणामविशेष एवातिशयो ऽस्त्विति चेत् ।
स किं प्रत्यक्षो ऽप्रत्यक्षो वा ।
नाद्यः ।
अनुपलम्भात् ।
यादृशतादृशस्य प्रकृतफलहेतुत्वे मानाभावात् ।
अन्यथातिप्रसक्तेः ।
न द्वितीयः ।
अतीन्द्रियार्थं निराकुर्वता तेनैवेतरवदात्मन्यपि तदभावस्य साधितत्वादिति ।
*10,189*
यथा युष्माभिरभिधीयते नास्त्येव मोक्षाभावसाक्षात्कारी महापुरुष इति तथा अहमपि वदामि ।
नास्त्येवासौ महीयान्पुरुषो यः प्रत्यक्षेण मोक्षमीक्षेत ।
प्रमाणाभावादिति ।
तथाच पुनरनिश्चय एवेत्यत आह- दृश्यन्त इति ॥
दृश्यन्ते पुरुषा लोके परावरविदो ऽपिच

3.3.119

अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः ।
प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः

3.3.120

ज्ञानविज्ञानपारज्ञा ...
न्यायसुधा:
न केवलमेक इति भावः ।
लोके ऽस्मिन्नेव भूमण्डले ।
ते च वसिष्ठादयः ।
तेषां महीयस्त्वमाह- ज्ञानविज्ञानपारज्ञा इति ॥
अत्र विषयिभ्यां विषयावुपलक्ष्येते ।
सामान्यविशेषाकारपारज्ञाः ।
न केवलं वर्तमानाशेषविदः किन्नाम परावरविदो ऽपि ।
तत्किमनुमानादिना नेत्याह- अपरोक्षदृशश्चेति ॥
अस्मदादिभ्यः को विशेषस्तेषामित्यत उक्तं योगनिष्ठाश्चामलचक्षुष इति ।
योगनिष्ठाजनितविशिष्यादृष्टेन दिव्यदृष्टयः ।
किन्तेनैव नेत्याह- प्रत्यक्षमिति ॥
योगसामर्थ्येन परदेवतां साक्षादुपलभ्य तन्प्रसादासादितप्रकाशाद्यैश्वर्यवन्तः ।
वसिष्ठादयो योगर्धिसम्पन्नया दिव्यया दृष्टया परमपुरुषवर्तिनं मोक्षं साक्षात्कुर्वाणाः प्रत्यक्षेणैव दृश्यन्ते ऽतो न मोक्षानिश्चय इति ।
अस्मदादिभिरनुपलब्धत्वात्ते न सन्तीत्यत आह- निषिद्धयन्त इति ॥
... निषिद्धयन्ते कथं नृभिः

3.3.121

न्यायसुधा:
नृभिरित्यनेन मन्दभाग्यैः परिमिता विविक्तदेशपरिचयवद्भिरिति सूचयति ।
नहि ते वणिग्वीथ्यां वर्तन्ते ।
येन युष्माभिरुपलभ्येरन् ।
अतो विप्रकर्षादनुपलभ्यमाना न निषेद्धुं शक्यन्त इति भावः ।
*10,190*
ननु पुरुषस्वरूपमात्रे न विप्रतिपत्तिः ।
तेषां महीयस्त्वं तु कुत इत्यत आह- दृश्यते चेति ॥
*10,191*
न केवलं पुरुषाः किन्तु तेषामतिमाहात्म्यं महीयस्त्वं च दृश्यते ।
कथम् ।
अतिमहौजसाम् ।
एतदुक्तं भवति ।
दृश्यन्ते तावद्विन्ध्यस्थगनसमुद्रपानादीनि तेषामतिमहान्त्योजांसि ।
तानि च महैश्वर्यकार्याणि ।
नच कार्याणि विना कारणैर्भवितुमर्हन्ति ।
महैश्वर्येषु च सार्वज्ञापरनामकं प्राकाश्यमिति तेषां महीयस्त्वसिद्धिरिति ।
*10,192*
ननु तदीयं मोक्षविषयं प्रत्यक्षं परेषां कुतः सिद्धम् ।
तद्वाक्यादिति चेन्न ।
तेषां विप्रलम्भकत्वोपपत्तेरित्यत आह- यदीति ॥
यदि ते ऽपि निषिद्धयन्ते किं नोक्तिस्ते निषिद्धयते
न्यायसुधा:
विप्रलम्भो हि प्रयोजनमूलो भवति ।
नच तेषां प्रयोजनानुसन्धानं सम्भवति ।
आप्तसमस्तैश्वयर्त्वात् ।
प्रयोजनान्तरस्य चाप्रमितत्वात् ।
एवंभूता अपि ते योगिनो यदि विप्रलम्भका इति निषिद्धयन्ते ।
तदीयं वाक्यं विप्रलम्भमूलत्वेन निराक्रियत इति यावत् ।
तदा ते त्वदभ्युपगता लोकायताचार्योक्तिः किं तथैव न निषिध्यते ।
सापि विप्रलम्भमूलेति कल्पयित्वानादरणीया स्यात् ।
अविशेषादिति यावत् ।
एतेनैतदपि निरस्तम् ।
विप्रकषर्वशादस्माभिरनुपलभ्यमाना अपि योगिनस्तन्माहात्म्यं तदीयं स्वप्रत्यक्षविषयं वाक्यं चास्माभिः कुतो ऽवगन्तव्यम् ।
इतिहासपुराणेभ्य इति चेन्न ।
तेषामप्रमाणत्वादिति ।
दोषदर्शनेन हि तेषामप्रामाण्यं कल्प्यम् ।
नच तत्र प्रमाणमस्ति ।
वाक्यत्वेनैव प्रामाण्यप्रतिषेधे लोकायताचार्योक्तेरपि तत्प्रतिषेधप्रसङ्गादिति ।
*10,193*
न लोकायताचार्योक्तिर्विप्रलम्भशङ्कया निराक्रियते ।
प्रत्यक्षसंवादेन प्रामाण्यनिश्चयादिति चेत्समं प्रकृते ऽपीत्याह- यदुक्तेति ॥
यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते

3.3.122

न्यायसुधा:
यैर्योगिभिरुक्तानां वाक्यानां प्रामाण्यं प्रत्यक्षेण प्रत्यक्षसंवादेनोपलभ्यन्ते ते ऽपीति पूर्वेणान्वयः ।
कथमित्यत आह- वरादयो ऽपीति ॥
वरादयो ऽपि तद्दत्ताः सदा सत्या भवन्ति हि
न्यायसुधा:
तैर्योगिभिर्दत्ता वराः शापाश्च सदाव्यभिचारेण सत्या भवन्ति ।
हि यस्मात्तस्मादिति पूर्वेणैव सम्बन्धः ।
ते प्रसन्नाः सन्तस्तवेदं भद्रं भविष्यतीति वा कुपिताः सन्तस्तवेदमभद्रं भविष्यतीति वा यदाहुस्तत्तथैव भवत्प्रत्यक्षेणोपलभ्यत इति ।
स्यादेतत् ।
प्रत्यक्षयोग्यार्थे भवतु तत्संवादेन तदीयं वाक्यं प्रमाणम् ।
अतीन्द्रिये तु मोक्षादौ कथमिति ।
एवं तर्हि लोकायताचार्यवचनमपि प्रत्यक्षयोग्यार्थे तत्संवादेन प्रमाणमस्तु ।
अतीन्द्रिये तु मोक्षाभावादौ कथमिति समानम् ।
अथ मन्यसे प्रत्यक्षयोग्यार्थे तावत्तदीयं वचनं प्रत्यक्षसंवाद्येवोपलब्धम् ।
तेनातीन्द्रियार्थविषये ऽपि तत्र विश्वसिमः ।
लोके तथोपलम्भादिति ।
तदिदं प्रकृते ऽपि समानम् ।
तदिदमुक्तमनुक्तसमुच्चयार्थेनापिपदेन ।
*10,194*
एवं सत्प्रतिपक्षतानिरासाय योगिनां मोक्षप्रत्यक्षवादस्य प्रामाण्यम्, अप्रामाण्यं च लोकायताचार्यस्य मोक्षाभावप्रत्यक्षोक्तेरुपपादितम् ।
हेत्वन्तरेणापि तदप्रामाण्यमुपपादयति- अप्रामाण्यमिति ॥
अप्रामाण्यं तदुक्तेश्च वृथावाचावसीयते

3.3.123

न्यायसुधा:
हेतुसमुच्चये चशब्दः ।
वृथावाचेति भावप्रधानो निर्देशः ।
वृथात्वादित्येवोक्ते तृणादिदर्शने व्यभिचारः स्यात् ।
तदर्थं वाग्ग्रहणम् ।
कथं लोकायताचार्योक्तेर्वृथात्वमित्यत आह- न हीति ॥
न हि प्रयोजनं किञ्चित् परलोकनिवारणात्
न्यायसुधा:
परलोकस्य मोक्षादेर्निवारणात् नास्तित्वप्रतिपादनाल्लभ्यं किञ्चित्प्रयोजनं नास्तीत्येतत्प्रसिद्धमेव ।
तथाहि ।
तदुक्तेरदृष्टं वा प्रयोजनं स्याद्दृष्टं वा ।
न तावददृष्टम् ।
परलोकनिवारणात् ।
अदृष्टं हि स्वर्गादावुपभोग्यं वा स्याद्देहान्तरेणेहैव वा ।
नाद्यः ।
स्वर्गादेः परलोकस्य परेण प्रतिषिद्धत्वात् ।
न द्वितीयः ।
देहात्मवादिनास्यात्मनः परलोकस्य देहान्तरस्य निवारणात् ।
नापि दृष्टम् ।
प्रतिपादकप्रतिपाद्ययोरर्थकामलाभानुपलम्भादिति ।
*10,195*
वैदिकानां धर्माधर्मव्यवस्थापकैर्ववचनैरुपरुद्धकामभोगानां प्राणिनां धर्माद्यभावाप्रतिपादनेन कामोपभोगोपरोधनिवृत्तिरूपपरोपकारस्तावदाचार्यस्य प्राणिनां धर्माद्यभावप्रतिपादनेन कामोपभोगोपरोधनिवृत्तिरूपपरोपकारस्तावदाचार्यस्य प्रयोजनमस्ति ।
यद्यप्युपकारो न स्वरूपेण प्रयोजनम् ।
नाप्यदृष्टहेतुत्वेन ।
तथाप्युपकर्तारं प्रत्युपकुर्वन्त्येव ।
विनेयानां च कामोपभोगोपरोधनिवृत्तिरेवास्ति प्रयोजनम् ।
तत्कथं वृथात्वमित्यत आह- वृथा वाचमिति ॥
वृथावाचं वृथा हन्याद् यदि तस्य किमुत्तरम्
न्यायसुधा:
अत्र वृथावाचमिति साध्यनिर्देशः ।
एवमपि वृथावाक्त्वं न परिहार्यमिति ।
अदृष्टप्रयोजनरहितवाचमिति वा ।
यदि कश्चित्तमाचार्यं विनेयं वा वृथैव हन्यात्तदा तं प्रति तस्य किमुत्तरम् ।
न किञ्चित् ।
एतदुक्तं भवति ।
न स्त एव धर्माधर्मौ, अतस्त्वया निरङ्कुशेन कामोपभोगः करणीय इत्याचार्येण बोधितो ऽन्तेवासी तदीयकमनीयकान्ताद्यपहारार्थं तं हन्यादेव, तदास्य का प्रतिक्रिया ।
उपकर्तुरपकारो महाप्रत्यवायहेतुरिति छान्दसोक्तेस्तेनैव त्याजितत्वात् ।
उपकर्तारं प्रत्युपकुर्वन्तीत्येतदपि धर्मादिवासनायां सत्यामेव ।
सा तु तेनैव निश्शेषिता ।
अतो नास्त्येवाचार्यस्य प्रयोजनम् ।
प्रत्युत स्वजीवनहानिलक्षणो ऽनर्थ एव एवं विनेयानामप्यन्योन्यधनवनिताद्यपहारायपरस्परवधादावेव प्रवृत्तिः न तु कामोपभोगावसरः ।
महतानर्थेनाक्रान्तो ऽल्पीयान्कामोपभोगो ऽनर्थ एवेति ।
*10,196*
अस्त्वेवं लोकायताचार्योक्तेर्वृथात्वमनर्थहेतुत्वं च ।
तथाप्यप्रामाण्यं कुत इत्यत आह- स्वेति ॥
स्वजीवनविरोधाय वदन् किं नाम बुद्धिमान्

3.3.124

न्यायसुधा:
स्वशब्दः परेषामप्युपलक्षकः ।
व्यर्थं चेति शेषः ।
व्यर्थानर्थहेतुवाक्त्वेन लोकायताचार्यस्याप्रेक्षावत्त्वमनुमीयते ।
ततस्तद्वचनस्याप्रामाण्यमिति शेषः ।
उक्तश्चायमर्थः प्रयोजनाधिकरणे ।
*10,197*
उक्तमर्थं बुद्धयारोहाय सङ्क्षिप्याह- प्रामाण्यं इति ॥
प्रामाण्ये संशयः किं स्यात् तयोः पुरुषयोरपि ।
स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि सः

3.3.125

यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः ।
अतीतानागतं सर्वं लोकानुभवमापयन् ॥ मनुव्_3,3.125अ-च् ॥
*10,198*
न्यायसुधा:
(अत्र) प्रामाण्यशब्देनाप्तत्वमुच्यते ।
किमित्याक्षेपे ।
अपिशब्दो गर्हायाम् ।
स्वेत्युपलक्षणम् ।
दृष्टस्य दर्शनयोग्यस्यापि बहोरर्थस्य ।
चशब्दो विशेषणसमुच्चये ।
देवोक्तीत्यतीन्द्रियान्तरस्याप्युपलक्षणम् ।
स्वोक्तं सर्वं प्रत्यक्षसंवादेन लोकानुभवं लोकाश्वासं प्रापयन् ।
यः स्वजीवनविरुद्धोक्तित्वादिविशेषणो लोकायताचार्यो यश्चातीन्द्रियदेवोक्तिश्रोतृत्वादिविशेषणो योगी तयोरपि पुरुषयोः प्रामाण्ये संशयः स्यात्किं, न स्यादेव ।
किन्त्वाद्यस्याप्रामाण्यमेव द्वितीयस्य प्रामाण्यमेव निश्चीयत इति योजना ।
*10,199*
एवं निमित्ताभावेनासम्भावितातीन्द्रियज्ञानस्य कामुकत्वादिना सम्भावितविप्रलम्भस्य लोकायताचार्यस्य योगर्धिसम्पदा सम्भावितसार्वज्ञावाप्तसमस्तैश्वर्यवत्त्वादिनात्यन्तासम्भावितवञ्चकत्वात्प्रत्यक्षसंवादिवचसो योगिनः प्रति, प्रतिपक्षत्वासम्भवे (न) तद्वचनावगतेन तत्प्रत्यक्षेण मोक्षः सिद्धयतीत्युक्तम् ।
इदानीं वेदेनापि तं सिषाधयिषुस्तत्प्रामाण्ये विप्रतिपन्नं प्रति किं संवादरहितत्वाद्वेदस्याप्रामाण्यमुच्यते ।
उत वाक्यत्वादुन्मत्तवाक्यवत् ।
अथवोन्मत्तवाक्यादनिश्चितविशेषत्वादथ(वा) बाधितत्वदिति विकल्प्याद्ये ऽपि किं सर्वस्य संवादो नास्ति उतैकदेशस्येति विकल्प्याद्यं निराचष्टे- अत इति ॥
अतः प्रत्यक्षगम्यत्वाद् वेदमात्वस्य च स्फुटम्

3.3.126

न्यायसुधा:
वैदिकानुष्ठानवतां तत्फलसिद्धेर्दृष्टत्वादित्यर्थः ।
प्रत्यक्षगम्यत्वात् प्रत्यक्षसंवादेन सिद्धत्वात् ।
प्रमाणसमुच्चये चशब्दः ।
वेदेन च मोक्षसिद्धिरिति ।
अनेन सर्वस्यापि वेदस्य प्रमाणान्तरसंवादो नास्तीत्येतदसिद्धम् ।
ऐश्वर्यादिसाधनतया योगादिकमुपदिशतो वेदभागस्य संवाददर्शनादित्युक्तं भवति ।
मोक्षप्रतिपादकानि च वेदवाक्यानि तत्र तत्रोदाहृतान्येव द्रष्टव्यानि ।
फलविसंवादो ऽपि वेदस्य दृश्यत इति चेन्न ।
तस्य कर्तृकर्मादिवैगुण्यहेतुतायाः प्रागुक्तत्वात् ।
तदिदमुक्तं स्फुटमिति ।
आद्ये द्वितीयं दूषयति- यदीति ॥
यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत्
न्यायसुधा:
यदि भागविशेषस्य संवादाभावेन कृत्स्नस्यापि आगमस्य नो मानत्वम् अप्रमाणत्वमित्युच्यते तर्हि अक्षजस्य प्रत्यक्षमात्रस्य तथा अप्रमाणत्वं भवेत् ।
अस्थात्सुखादिविषयस्य प्रत्यक्षस्य संवादाभावात् ।
यदि च संवादरहितस्यैव वेदभागस्य नो मानत्वमित्युच्यते तदास्मत्सुखादिविषयस्य प्रत्यक्षस्याप्रामाण्यं भवेदेवेति ।
यद्यपि योगिप्रत्यक्षसंवा(दो ऽस्ति तथा)दः प्रागुक्तस्तथापि तदितरप्रमाणापेक्षयेदमुदितं वेदितव्यम् ।
स्यादेतत् ।
प्रत्यक्षं स्वत एव प्रमाणं तत्र किं संवादेनेत्यत आह- यद्यक्षजस्येति ॥
*10,200*
यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत्
न्यायसुधा:
यदि संवादेन विनाक्षजस्य स्वत एव प्रमाणत्वं स्यात्तर्हि आगमस्य तत् स्वत एव प्रामाण्यं कथं न भवेत्- अविशेषाद्भवेदेव ।
*10,201*
द्वितीयं निराकरोति- यद्यागमस्येति ।
यदि वाक्यत्वमात्रेणोन्मत्तवाक्यवदागमस्य न मानत्वमित्युच्यते ।
तर्ह्यक्षजत्वेन शुक्तिरजतादिविषयाक्षजवत्स्तत्स्तम्भाद्यक्षजस्याप्यप्रामाण्यं स्यादविशेषात् ।
निर्देषत्वात्स्तम्भादिविषयमक्षजं प्रमाणमित्यत आह- यद्यक्षजस्येति ॥
यदि निर्देषत्वात्स्तम्भादिविषयस्याक्षजस्य प्रमाणत्वं स्यात्तर्ह्यागमस्यापि तत एव कथं न भवेत् ।
न ह्यपौरुषेयस्य सदोषता सम्भवति ।
वेद इत्युपक्रमात्तथैव वक्तव्ये यदागमस्येति वदति तदनेनैव न्यायेन पौरुषेयागमस्यापि प्रामाण्यं साधनीयमिति सूचयितुम् ।
*10,202*
तृतीयं निराकरोति- लोकेति ॥
लोकवाक्याद् विशेषश्चाव्यभिचारेण सिद्धयति

3.3.127

न्यायसुधा:
उन्मत्तादिवाक्यात् ।
विशेषो वेदस्य ।
अव्यभिचारेण बाधराहित्येन ।
नहि वैदिको ऽर्थः प्रत्यक्षसिद्धो येन तत्तत्र बाधकतयावकाशं लभेत ।
एतेन चतुर्थो ऽपि निरस्तः ।
तदेवं प्रत्यक्षागमाभ्यां मोक्षं साधयतेहामुत्र फलभोगवैराग्यवतां योगिनां प्रवृत्तिः सफला प्रेक्षावत्प्रवृत्तित्वात्सम्मतवदित्यनुमानमपि सूचितम् ।
अनुमानप्रामाण्यं च प्रागेव समर्थितम् ।
*10,203*
अपरे पुरननुमिमते ।
दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वाद्दीपज्वालासन्ततिवदिति ।
तदसत् ।
सकलजीवगतदुःखसन्ततिपक्षीकारेंऽशे बाधितत्वात् ।
नित्यसंसारिणां केषाञ्चित्सत्त्वस्य तैरप्यङ्गीकृतत्वात्समर्थयिष्यमाणत्वाच्च ।
तद्वयतिरिक्तजीवगतदुःखसन्ततिपक्षीकारे तु तत्रैव व्यभिचारात् ।
पार्थिवपरमाणुरूपादिसन्ताने व्यभिचाराच्च ।
सर्वमुक्तिपक्षे फलमूलयोरभावेन सो ऽप्यत्यन्तमुच्छिद्यत एवेति चेन्न ।
सर्वमुक्तिपक्षस्यैव निराकरिष्यमाणत्वात् ।
कालक्षणसन्ताने व्यभिचाराच्च ।
किञ्च दुःखसन्ततिशब्देन दुःखान्येवोच्यन्ते उत तद्धर्मः कश्चित् ।
आद्ये सिद्धसाधनता ।
मोक्षमनङ्गीकुर्वतापि दुःखानां विनाशिताभ्युपगमात् ।
अत एवात्यन्तमित्युक्तमिति चेत् ।
को ऽस्यार्थः ।
किं सर्वाण्यपि दुःखान्युच्छिद्यन्त इति ।
उत निःशेषतयोच्छिद्यन्त इति ।
अथवा तत्र दुःखान्तरानुत्पादेनेति ।
न प्रथमः ।
सिद्धसाधनतानिस्तारात् ।
सर्वेषामपि दुःखानां परेणानित्यतायाः स्वीकृतत्वात् ।
अत एव न द्वितीयः ।
न हि दुःखं सावयवद्रव्यम् ।
येन सशेषमुच्छिद्यत इति शङ्कयेत ।
न तृतीयः ।
दृष्टान्तस्य साध्यविकलत्वात् ।
नहि दीपज्वालासन्ततिरेवमुच्छिद्यते ।
तत्रैव पुनर्ज्वालान्तरोदयसम्भवात् ।
न द्वितीयः ।
दुःखधर्मो हि जातिर्वा तदन्यो वा ।
आद्ये ऽपसिद्धान्तः ।
जातेर्नित्यत्वाङ्गीकारात् ।
न द्वितीयः ।
आश्रयासिद्धेः ।
गुणेषु जातिव्यतिरिक्तधर्मानङ्गीकारात् ।
अङ्गीकारे ऽप्यर्थान्तरता स्यात् ।
नहि दुःखधर्मस्य कस्यचिद्विनाशसिद्धौ मोक्षसिद्धिरिति ।
*10,206*
आत्मा कदाचिद्ध्वस्ताशेषविशेषगुणो विभुत्वे सति कार्यविशेषगुणवत्त्वात् महाप्रलयावस्थायामाकाशवदिति चासत् ।
सर्वात्मपक्षीकारे परमेश्वरात्मनि बाधात् ।
असिद्धेश्च ।
जीवात्मपक्षीकारे ऽपि संसार्येकस्वभावानां जीवानां स्वयमेवोररीकृतत्वेन तत्र बाधात् ।
तदतिरिक्तजीवपक्षीकारे तत्रैवानैकान्त्यात् ।
जीवात्मनां विभुत्वाभावेनासिद्धेश्च ।
आत्मत्वं कदाचिद्ध्वस्ताशेषविशेषगुणद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेन्न ।
तथा सति हेतोरसिद्धिप्रसङ्गात् ।
जातित्वं हेतुरिति चेन्न ।
पूर्वानुमानदोषापरिहारात् ।
घटत्वादावनैकान्तिकत्वाच्च ।
अशेषविशेषगुणशून्यद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेन्न ।
सगुणानामेव द्रव्याणामुत्पादस्य समर्थितत्वात् ।
विभुकार्यविशेषगुणवद्वृत्तिजातित्वस्य हेतुत्वान्न को ऽपि दोष इति चेन्न ।
कार्यविशेषगुणवत्पदस्य वैयर्थ्यात् ।
तत्त्यागे ऽप्यर्थान्तरत्वात् ।
अशेषविशेषगुणध्वंसो न मोक्ष इति वक्ष्यमाणत्वात् ।
*10,212*
एतेन देवदत्तो देवदत्ताधर्मसमानकालीनदेवदत्तगतत्वानधिकरणदुःखध्वंसाधिकरणं दुःखित्वाद्यज्ञदत्तवदिति विशिष्यव्यतिरेक्यनुमानमपि निरस्तम् ।
अर्थान्तरतापरिहारादित्यास्तां प्रपञ्चः ।
*10,213*
इदानीं जैनोक्तमोक्षसाधनं दूषयितुमनुवदति- अस्तीति ॥
अस्ति मोक्षो ऽपि धर्मेण यथार्थज्ञानतो ऽपि च
*10,214*
न्यायसुधा:
यदिदं मोक्षास्तित्वं समर्थितं तत्साध्विति जैनाः प्राहुरिति सम्बन्धः ।
अङ्गीकृतश्चेन्मोक्षसद्भावस्तदा तत्साधनमपि किञ्चिदङ्गीकायर्मेव ।
तथाच का विप्रतिपत्तिरित्याशयवान्पृच्छति- अपीति ॥
किं तर्हीत्यर्थः ।
उत्तरमाह- धर्मेणेति ॥
लभ्यत इत्याहुः ।
अपिचावितरेतरसमुच्चये ।
यद्यपि मोक्षं तत्साधनं चाभ्युपयन्ति जैनास्तथापि तद्विशेषे विप्रतिपद्यन्ते ।
यतः सम्यग्ज्ञानसम्यक्चारित्र्यसमुच्चयसाध्यं मोक्षमाहुरित्याशयः ।
सम्यग्दर्शनं यद्यपरोक्षज्ञानं तदा यथार्थग्रहणेनैव गृहीतम् ।
यदि च स्वसमयपरिपालनं तदा धर्मग्रहणेनेति पृथग्ग्रहणं व्यर्थमिति सूचयितुं द्वयोरेव ग्रहणम् ।
धर्मज्ञानसमुच्चयसाध्यत्वं मोक्षस्य कथञ्चिदस्माभिरप्यङ्गीक्रियते ।
अतो विप्रतिपत्त्यनन्तरं दर्शयति- प्रामाण्यमिति ॥
प्रामाण्यमनुमायाश्च जिनस्याप्तत्वसाधने

3.3.128

तद्वाक्याद् धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च
न्यायसुधा:
जिन आप्तो ऽस्स्वलितवाक्यत्वादित्याद्यनुमायाः ।
चशब्दाज्जिनदर्शिनां वाक्यस्य च ।
तद्वाक्यात् जिनवाक्यात् ।
इति च जैनाः प्राहुः ।
अनुमा(ना)द्यवगताप्तभावजिनवाक्यान्मोक्षसाधनसिद्धिमाहुः ।
नतु स्वतः प्रमाणाद्वेदादित्याशयः ।
मोक्षसाधनविषयां विप्रतिपत्तिं दर्शयितुमुपक्रम्य प्रमाणविप्रतिपत्तिप्रदर्शनमसङ्गतमिति चेन्न ।
साधनज्ञापकस्यापि साधनत्वात् ।
धर्मज्ञानस्वरूपे ऽपि विप्रतिपत्तिं दर्शयति- धर्म इति ॥
धर्मो ऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनम्

3.3.129

इति जैनाः ...
न्यायसुधा:
अहिंसा परा प्रधानभूता यस्मिन्स तथोक्तः ।
एतदस्माकमपि सम्मतमित्यत उक्तमन्यो हिंसासहितो यज्ञादिर्न धर्म इति ।
आत्मविविक्तत्वादिरूपेण पुद्गलस्य देहस्य दर्शनम् ।
यद्वा पुद्गलस्यात्मनो देहादिविविक्ततया दर्शनम् ।
अत्रापि नान्यद्यत्सिद्धान्तिना विवक्षितमित्यनुवर्तते ।
*10,217*
दूषयति- कथमिति ॥
... कथं तत् स्यात् प्रमाणमनुमानतः

3.3.130

न्यायसुधा:
तज्जिनवाक्यमनुमानेन प्रमाणमिति प्रतिपत्तव्यं कथं स्यात् ।
अनुमानेन वाक्येन च जिनस्याप्तत्वमवधार्याप्तवाक्यत्वानुमानेन मोक्षसाधनं धर्मं ज्ञानं च प्रतिपादयतो जिनवाक्यस्य प्रामाण्यावधारणं यदुक्तं तन्नोपपद्यत इत्यर्थः ।
कुतो नोपपद्यत इत्यतो हेतुं वक्तुमुपोद्घातत्वेन प्रत्यक्षानुमानागमस्वरूपं क्रमेण तावदाह- विषयानिति ॥
विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते ।
प्रत्यक्षशब्दानुसारादनुमेति प्रकीतिर्ता ॥ मनुव्_3,3.129च्-f ॥
आ समन्ताद् गमयति धर्माधर्मौ परं पदम् ।
यच्चाप्यतीन्द्रियं त्वन्यत् तेनासावागमः स्मृतः

3.3.131

न्यायसुधा:
विषयान्निर्देषान्प्रति स्थितं तैः सन्निकृष्टमक्षमदुष्यमिन्द्रियम् ।
जातावेकवचनम् ।
यस्येन्द्रियस्य यो विषयो ऽन्वयव्यतिरेकाभ्यामवगतस्तेनादोषेण सन्निकृष्टमदुष्यं तत्प्रत्यक्षमित्यर्थः ।
अनेन प्रादिसमासो ऽयं नाव्ययीभाव इति सूचितम् ।
तथा सति प्रत्यक्षस्येति षष्ठी न श्रूयेत ।
यद्यपि प्रतिस्थितमक्षं प्रत्यक्षम् ।
तथापि योग्यतया विषयाणां सम्बन्ध इति हिशब्देनाचष्टे ।
*10,218*
प्रत्यक्षशब्दानुसारात् ।
प्रत्यक्षागमानुसारेणैव मानत्वम् ।
अनुसरणं च तद्गृहीतधर्म्यादिमत्त्वं तदबाधिताप्रतिबद्धविषयत्वं च ।
प्रकीर्तितानुमेति शेषः ।
यानुमा प्रसिद्धा सास्मान्निमित्तादनुमेति प्रकीतिर्ता ।
यद्यप्यनुसृता मानुमा तथापि सामर्थ्यात्प्रत्यक्षादिसम्बन्धः ।
अनुमानमूलानुमाप्यन्ततः प्रत्यक्षादिमूलैवेत्युक्तं प्राक् ।
आ इत्यनुवादेन समन्तादिति व्याख्यानम् ।
सम्यक् चेत्यपि ग्राह्यम् ।
गमयति ज्ञापयति ।
करणे कर्तृत्वोपचारः ।
ग्रहवृदृनिश्चिगमश्चेत्यकर्तरि कारके भावे वा अपो विधानात् ।
अनुप्रमाणविषयं चेदं व्याख्यानं ज्ञातव्यम् ।
यच्च धर्मादिभ्यो ऽन्यदतीन्द्रियमपिशब्दादननुमितं च ।
तुशब्दो ऽवधारणे ।
तेनैवेति सम्बद्धयते ।
यद्यप्या सम्यक् समन्तात्सर्वं गम्यते अनेनेत्यागमः ।
तथापि प्रत्यक्षानुमानागते ऽर्थे तस्य वैयर्थ्यादतीन्द्रियमपीत्युक्तम् ।
तस्य विवरणं धर्मेत्यादि ।
य आगमः प्रसिद्धो ऽसौ ।
जोस्हि-24
*10,225*
निर्वचनमात्रमेवैतत्प्रत्यक्षादिशब्दानाम् ।
नच निर्वचनलभ्यो ऽर्थो ऽतिव्याप्तिपरिहारेणावश्यम्भावीत्यस्ति नियमः ।
व्याघ्रपर्ण्यादिष्वभावादिति न मन्तव्यमित्याशयवानाह- एतेनेति ॥
*10,226*
एतेन कारेणेनैव तत्तन्मानत्वमिष्यते
न्यायसुधा:
तत्तन्मानत्वं प्रत्यक्षादीनां प्रत्यक्षादित्वं प्रत्यक्षादिशब्दवाच्यत्वमिष्यते प्रामाणिकैः ।
प्रत्यक्षादिषु प्रत्यक्षादिशब्दप्रवृत्तौ निमित्तमेवैतत् ।
नतु निर्वचनमात्रलभ्यो ऽर्थ इत्यर्थः ।
कुत इत्यत आह- स्वरूपं हीति ॥
स्वरूपं हि तदेतेषाम् ...
न्यायसुधा:
तत् निर्देषविषयसन्निकृष्टनिर्देषेन्द्रियत्वादिकम् एतेषां प्रत्यक्षादीनां स्वरूपं लक्षणं हि इत्यर्थः ।
लक्षणं हि शब्दप्रवृत्तिनिमित्तं भवति ।
एतदपि कुत इत्यत आह- अन्यथेति ॥
... अन्यथासिद्धिमानतः

3.3.132

न्यायसुधा:
अन्यथासिद्धिश्च तन्मानं च ।
प्रकारान्तरेण प्रत्यक्षादिलक्षणानां निरूपयितुमशक्यत्वादित्यर्थः ।
तथाचोक्तम् ।
*10,227*
ततः किं यद्येवं प्रत्यक्षादिस्वरूपमित्यत आह- अत इति ॥
अतो ऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेत्
न्यायसुधा:
अनुमेत्यनुमानावगतप्रामाण्यं जिनवाक्यमुच्यते ।
चापिशब्दावितरेतरसमुच्चये ।
दर्शयेत् प्रतिपादयेत् ।
इदमुक्तं भवति ।
जिनवाक्याद्धर्मादिसिद्धिरिति वदता किं प्रमाणमुक्तं भवति ।
आगम इति चेन्न ।
सम्यक् प्रत्यक्षाद्यन(वग)धिगतार्थप्रतिपादकस्यैवागमत्वात् ।
जिनवाक्यस्य च तदसिद्धेः ।
जिनो हि प्रमाणेनार्थमुपलभ्य वाक्यं प्रणीतवानन्यथा वा ।
द्वितीये पौरुषेयस्य निर्मूलस्योन्मत्तवाक्यवत्सम्यक्त्वं दुर्लभम् ।
आद्ये प्रत्यक्षेणानुमानेन वावगतौ तदनधिगतार्थार्(थता)ऽसम्भवः ।
वाक्यान्तरेण चेदन्धपरम्परापत्त्या पुनरसम्यक्त्वमेव ।
*10,229*
एतेन विमतं प्रमाणमाप्तवाक्यत्वात्, जिन आप्तो ऽस्स्खलितवाक्यत्वादित्यनुमानं जिनदर्शिनां वाक्यं च प्रत्युक्तम् ।
तथा हि ।
आप्तत्वविषयं वाक्यं तावन्निर्मूलं चेदसम्यगेव ।
वाक्यान्तरमूलत्वे ऽपि तथा ।
नच प्रत्यक्षं मूलम् ।
विषयान्प्रति स्थितस्याक्षस्य प्रत्यक्षत्वात् ।
नचाप्तत्वरूपापरचित्तवृत्तिरपरोक्षविषयतामश्नुते ।
अतो ऽस्स्खलितवाक्त्वाद्यनुमानमूलमित्येव वक्तव्यम् ।
नचैतदनुमानम् ।
प्रत्यक्षाद्यनुसरणेनार्थगमकस्यानुमानत्वात् ।
नचैतत्प्रकृते अस्ति ।
आप्तवाक्यत्वादित्यस्य हि यथाश्रुतार्थत्वे क्वचिदाप्तस्य विप्रलम्भकस्याज्ञस्य वाक्ये व्यभिचारः ।
आप्तिमूलवाक्यत्वादित्यभिप्राये विशेषणासिद्धिः ।
तत्त्वज्ञानादिलक्षणा खलु आप्तिः ।
तत्र धर्मादिविषयं तत्त्वज्ञानं तावन्न जिनस्य प्रत्यक्षजन्यम् ।
विषयान्प्रति स्थितस्य अक्षस्य प्रत्यक्षत्वात् ।
धर्मादेश्चाक्षाविषयत्वात् ।
तथात्वे वान्येषामपि तदधिगतिप्राप्तेः ।
अत एव नानुमानजन्यम् ।
वाक्यान्तराभ्युपगमे त्वन्धपरम्परैव ।
एवमविप्रलिप्सापि दुरधिगमा ।
अत एवाप्तत्वसाधकमनुमानं कालात्ययापदिष्यम् ।
आप्तेरुक्तविधया बाधितत्वात् ।
अन्येषामप्रत्यक्षे ऽर्थे ऽस्य प्रत्यक्षं प्रवर्तत इत्यतो न विरोध इति चेन्न ।
पुरुषत्वादिना सत्प्रतिपक्षत्वात् ।
अस्स्खलितवाक्यं च क्वचिद्वा प्रकृते वा सर्वत्र वा ।
नाद्यः ।
यः क्वचिदस्स्खलितवागसौ विषयविशेष आप्त इति व्याप्त्यभावात् ।
न द्वितीयः ।
निर्धारणोपायाभावात् ।
फलप्राप्त्यनुमेयं खल्वेतत् ।
अत एव न तृतीयो ऽपि ।
यत्तु निःस्वेदत्वादिकं लिङ्गमुच्यते तत्तावत्सन्दिग्धासिद्धम् ।
औषधादिना सम्भवदन्यथासिद्धं च ।
नचायं मन्वादिवाक्येष्वपि प्रसङ्गः ।
अपौरुषेयतया मूलानपेक्षवेदमूलत्वात् ।
"यद्वै किञ्चन मनुरवदत्तद्भेषजम्ऽ; इत्यादिवेदेनैवाप्तत्वादिनिश्चयाच्च ।
अतः प्रत्यक्षादीनामुक्तलक्षणत्वाज्जिनतद्दर्शितप्रत्यक्षे परोपन्यस्तानुमाने जिनादिवाक्ये च तदभावादनुमानादिसिद्धाप्तभावजिनवाक्याद्धर्मादिसिद्धिरित्यसदिति ।
*10,231*
न केवलं जिनस्यास्स्खलितवाक्त्वं निश्चायकाभावादिसिद्धम् ।
किन्तु स्स्खलनदशर्नादपीत्याशयेनाह- स्वरूप इति ॥
*10,232*
स्वरूपं पुद्गलस्योक्ता दोषा ...
न्यायसुधा:
विषयसप्तमीयम् ।
अपुद्गलशब्देन तञिवयुक्तन्यायेन पुद्गलाद्देहादन्यस्तत्सदृशश्चात्मोच्यते पुद्गलशब्देनैव वा ।
उक्ताः"एवं चात्मा कात्स्नर्यम्ऽ; इत्यादिना ।
अयमर्थः ।
जिनेनात्मस्वरूपं शरीरपरिमाणं रूपवच्चोक्तम् ।
तत्प्राग्दूषितमिति स्खलितवागसाविति ।
यद्यपि सप्तभङ्गिनयो ऽपि तदुक्तो दूषितस्तथापि मोक्षसाधनं यत्पुद्गलदशर्नमुक्तं तत्रैव स्खलनप्रदर्शनायेयमुक्तिः ।
ननु एतदपि पूर्ववाक्येन सिद्धम् ।
सत्यम् ।
प्रपञ्चार्थ उत्तरबन्ध इत्यदोषः ।
*10,233*
प्रकारान्तरेणात्मस्वरूपे जिनवचनस्खलनं दर्शयति- आनन्दमेवेति ॥
... आनन्दमेव च ।
न मन्यते पुद्गलं स ...
*10,233f.*
न्यायसुधा:
अत्राप्यपुद्गलपुद्गलशब्दाभ्यामात्मोच्यते ।
तत्त्वविद आत्मानमानान्दमेवानन्देनात्यन्ताभिन्नं मन्यन्ते ।
स जिनस्तमानन्दमेव न मन्यन्ते ।
भिन्नत्वादिना सप्तप्रकारं ब्रवीति ।
तत्सप्तभङ्गीनयनिरासेन पुंस्त्वादिवदित्यात्मनः सुखाद्यत्यन्ताभेदसाधनेन च निरस्तम् ।
अतश्च स्खलितवागसाविति भावः ।
*10,234*
इतश्च तथेत्याह- दुःखेति ॥
... दुःखाभावः सुखं त्विति

3.3.133

न्यायसुधा:
तुशब्द आत्मव्यावृत्त्यर्थः ।
इतिशब्दो हेतौ ।
पूर्वेणैव सम्बन्धः ।
यस्मादात्मा भावः ।
सुखं तु दुःखाभावः ।
नच विरुद्धस्वभावयोरत्यन्ताभेदो दृष्टः ।
तस्मादात्मा न सुखात्यन्ताभिन्न इति जिनो ब्रूते ।
तच्चायुक्तमित्यतः स्खलितवागसौ ।
कुतस्तदयुक्तमित्यत आह- मात्रेति ॥
मात्राभोगातिरेकेण सुखाधिक्यस्य दर्शनात्
न्यायसुधा:
मीयन्त इति मात्राः शब्दाद्या विषयाः ।
भोगो ऽनुभवः ।
उपलक्षणं चैतत् ।
विषयभोगाल्पत्वेन सुखाल्पत्वदर्शनत्वादित्यपि ग्राह्यम् ।
सुखं भावस्तारतम्योपेतत्वाद्दुःखादिवदिति प्रमाणविरुद्धत्वात्सुखस्य दुःखाभावत्ववचनमयुक्तमित्यर्थः ।
सुखस्य तारतम्योपेतत्वसमर्थनाय दर्शनादिति साक्षी तत्र प्रमाणत्वेन दर्शितः ।
यस्तु तत्रापि विप्रतिपन्नस्तं प्रत्यनिष्यप्रसङ्गं सूचयितुं मात्राभोगातिरेकेणेत्युक्तम् ।
यदि सुखं निरतिशयं स्यात्तदा प्रेक्षावतां विषयभोगातिरेकोपादनं व्यर्थं स्यात् ।
दृश्यते च तदिति ।
*10,235*
ननु न सुखं तारतम्योपेतं किन्तु दुःखं भावभूतं तारतम्योपेतं तदभावश्च सुखम् ।
तद् यावद्यावन्निवर्तते तावत्तावत्सुखमिति प्रतीयते ।
नच प्रतियोगरूपोपाधिनिमित्ता तारतम्योपलब्धिस्तात्त्विकं तदुपपादयितुमीष्ये ।
विषयभोगातिरेकोपादानं च दुःखातिरेकव्यावृत्त्यर्थम् ।
विषयभोगसाध्यत्वाद्दुःखाभावस्येत्यत आह- सुखस्येति ॥
सुखस्याभावता केन ...
न्यायसुधा:
भवेदेतत्प्रतीत्यादेरौपाधिकत्ववर्णनम् ।
यदि सुखस्याभावता प्रमाणेन सिद्धा स्यात् ।
सुखस्याभावता केन न केनापि प्रमाणेन सिद्धेत्यर्थः ।
एवमेव प्रतीत्यादेरौपाधिकत्ववर्णने बाधकमाह- नचेति ॥
... नच स्यात् किं विपर्ययः

3.3.134

*10,235f.*
न्यायसुधा:
यदि निर्निबन्धनमेव सुखतारतम्यदशर्नादेरौपाधिकत्वं कल्प्यते ।
तदा सुखं भावरूपं दुःखं तदभावः ।
तत्र तारतम्यदर्शनं प्रतियोगिसुखोपाधिनिमित्तम् ।
सुखनिवृत्त्यर्थानि चाहिकण्टकादीनीति परोक्तविपयर्यश्च किन्न स्यात् ।
स्यादेव ।
अतो द्वयोरप्यनुपलभ्यमानविशेषत्वात्स्वाभाविकतारतम्योर्भावत्वमङ्गीकर्तव्यमिति ।
*10,236*
सुखमभावो वस्तुत्वात्सम्मताभाववदिति प्रमाणसद्भावात्कथं सुखस्याभावता केनेत्युक्तमिति चेत् ।
किमेवंवादिनो मते कश्चिद्भावो विद्यते ।
उत सर्वे ऽप्यभावाः ।
आद्ये दोषमाह- यदीति ॥
यदि भावो ऽपि कश्चित् स्यात् तस्यैवाभावता कुतः
न्यायसुधा:
वस्तुत्वेन सुखस्याभावतामनुमिमानस्य मते यदि कश्चित्पदार्थो भावो ऽपि स्यात् ।
तर्हि तस्य सुखस्यैवाभावता कुतः ।
अपि तु भावत्वेनाङ्गीकृतस्यापि पदार्थस्याभावता स्यात् ।
अन्यथा वस्तुत्वस्य तत्र व्यभिचारापत्तेः ।
ननु सर्वे ऽपि पदार्था अभावा भवन्त्येवति नोक्तो दोषः ।
यद्यपि घटादीनामनादित्वाद्यापत्त्या प्राक् प्रध्वंसात्यन्ताभावत्वमनुपपन्नम् ।
तथाप्यन्योन्याभावत्वं युज्यत एव ।
घटे हि पटाद्यन्योन्याभावः प्रमाणसिद्धः ।
नचान्योन्याभावो धर्मिणो ऽन्यो ऽस्ति ।
अतो घट एव पटाद्यन्योन्याभावः ।
एवं पटादयो ऽपीति द्वितीयं शङ्कते- यदि सर्वे ऽपीति ॥
यदि सर्वे ऽप्यभावाः स्युरन्योन्यमिति
न्यायसुधा:
सर्वेऽपि पदार्था अन्योन्याभावाः स्युरिति यदि मन्यस इत्यर्थः ।
उत्तरमाह- भावतेति ॥
... भावता

3.3.135

अभावाभावता यत् स्यात् किं नश्छिन्नं तदा भवेत्
*10,237*
न्यायसुधा:
तदैवं सर्वपदार्थानामन्योन्याभावत्वव्युत्पादनेन नो ऽस्माकं किं छिन्नं भवेत् ।
न किमपि ।
कथम् ।
यतो ऽभावाभावता भावतैव स्यात् ।
इदमुक्तं भवति ।
सुखस्य वस्तुत्वेन साध्यमानमभावत्वं किं प्रागभावादित्रयान्यतमत्वम् ।
अथवान्योन्याभावत्वम् ।
उत सामान्यम् ।
आद्ये प्रागुक्तदोषपरिहारः ।
द्वितीयतृतीययोः सिद्धसाधनम् ।
अस्माभिरपि सुखादीनां सर्वपदार्थानामन्योन्याभावतास्वीकारात् ।
नच भावत्वाङ्गीकारविरोधः ।
सुखं हि स्वान्योन्याभावदुःखा(द्य)न्योन्याभावः ।
अभावाभावश्च भाव एव ।
एवम्भूतं चाभावत्वं सुखस्य नात्मस्वरूपतां विरुणद्धि ।
आत्मनो ऽपि तथात्वादिति ।
*10,239*
अभावाभावता भावतैव स्यादित्युक्तम् ।
तदुपपादयितुं भावाभावस्वरूपं तावदाह- भावत्वमिति ॥
भावत्वं विधिरूपत्वं निषेधत्वमभावता

3.3.136

न्यायसुधा:
भावत्वं नाम विधिरूपत्वमभावत्वं नाम निषेधत्वमिति योजना ।
शब्दप्रवृत्तिनिमित्तनिष्कर्षार्थं भावप्रत्ययः ।
अन्यथेन्द्रः पुरन्दर इतिवत्स्यात् ।
ततः किमित्यत आह- निषेधस्येति ॥
निषेधस्य निषेधो ऽपि भाव एव बलाद् भवेत्
न्यायसुधा:
यस्मादभावो नाम निषेधस्तस्मादभावस्याभाव इति निषेधस्यापि निषेध इत्युक्तं स्यात् ।
स च विधिरेव स्यात् ।
दर्शनबलात् ।
दृष्टो हि"नेयङुवङ्स्थानौऽ; इति निषेधस्यास्त्रीति निषेधो विधिः ।
वक्ष्यते चैतत् ।
विधिश्च भाव एवेत्युक्तम् ।
तस्मादभावाभावता भावतैवेति युक्तम् ।
*10,240*
एवं तर्हि द्रव्यादयो भावाः प्रागभावादयो ऽभावा इत्यन्यत्रोक्तनियमो न स्यात् ।
घटस्यापि न पट इति निषेधरूपतायाः प्रागभावस्यापि प्रमेय इति विधिरूपताया दर्शनादित्यतः प्रागुक्तं स्मारयति- प्रथमेति ॥
प्रथमप्रतिपत्तिस्तु भावभावनियामिका

3.3.137

न्यायसुधा:
कृतव्याख्यानमेतत् ।
*10,241*
एवं जिनस्य स्खलितवाक्त्वप्रदर्शनेन तदुक्तस्य मोक्षसाधनस्याप्रामाणिकत्वमुक्तम् ।
युक्तिविरुद्धत्वं च दर्शयन्नात्मज्ञानस्य यन्मोक्षसाधनत्वमुक्तं तत्किं साक्षादुतात्मप्रसादद्वारेति विकल्प्याद्यं तावन्निराकरोति- नचेति ॥
न च पुद्गलविज्ञानं मोक्षदं भवति क्वचित्
न्यायसुधा:
आत्मविज्ञानं मोक्षदं न भवति अचेतनत्वात्पटवदिति शेषः ।
अस्य व्याप्तिमुचपपादयति- क्वचिदिति ॥
नेति वर्तते ।
मोक्षदमिति च ।
तच्च भावप्रधानम् ।
नहि क्वचिदप्यचेतने मोक्षदत्वं दृष्टम् ।
येन व्याप्तिर्न स्यात् ।
कर्मणस्तथात्वं निराकरिष्यते ।
ज्ञानं तु चैतन्यमेव न चेतनमिति प्रसिद्धमेव ।
*10,242*
आत्मा ज्ञातः प्रसन्नो मोक्षं ददातीति द्वितीयं दूषयति- अस्वातन्त्र्यादिति ॥
अस्वातन्त्र्यात् पुद्गलस्य ज्ञातो ऽपि सुखदो न हि

3.3.138

न्यायसुधा:
ज्ञात आत्मापि सुखदो मोक्षदो न भवति ।
कुतः पुद्गलस्यात्मनो ऽस्वातन्त्र्यात् ।
हिशब्देन पटादौ व्याप्तिः स्फुटेति सूचयति ।
अस्वातन्त्र्यं चानुपदमेव ज्ञास्यते ।
आत्मनः सुखमात्रदानं नोपपद्यते ।
किमुतानन्तसुखमोक्षदानमिति सूचयितुं सुखद इत्युक्तम् ।
पक्षद्वयं हेत्वन्तरेण निराकरोति- न हीति ॥
*10,243*
न हि दुःखिपरिज्ञानाद् दुःखित्वं विनिवर्तते

3.3.139

न्यायसुधा:
आत्मज्ञानमात्यन्तिकदुःखनिवृत्तिहेतुर्न भवति दुःखिज्ञानत्वाद्देवदत्तज्ञानवत् ।
जैनेनापि स्वात्मज्ञानमेव मोक्षसाधनमुच्यते नात्मज्ञानमात्रम् ।
ईश्वरज्ञाने व्यभिचारनिरासाय दुःखीत्युक्तम् ।
तस्यापि साक्षान्मोक्षसाधनत्वाभावविवक्षायां ज्ञानत्वादित्येव वक्तव्यम् ।
यद्वाऽत्मा दुःखं निवर्तयितुमशक्तः ।
दुःखित्वाद्यो यदनर्थवान्नासौ तन्निवर्तते शक्तो यथा दरिद्रो दारिद्रयनिवर्तने इति तात्पर्याथर्ः ।
दुःखित्वोक्त्यास्वातन्त्र्यं समर्थितं स्वातन्त्र्ये हि जातु न दुःखी भवेदिति ।
*10,244*
स्यादेतत् ।
नात्मज्ञानं देवदत्तो गामिव मोक्षं ददाति ।
किन्तु प्रकाशो ऽन्धकारमिव विरोधाद् दुःखं निवर्तयति ।
तत्र किमचैतन्यं करिष्यति ।
स्वात्मज्ञानमेव च स्वदुःखविरोधि नात्मज्ञानमात्रमिति द्वितीयहेतुरप्यप्रयोजक इत्याशङ्कयाह- यदीति ॥
यदि पुद्गलविज्ञानाददुःखी स्यात् कथञ्चन ।
देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा ॥ मनुव्_3,3.138च्-f ॥
*10,244f.*
न्यायसुधा:
कथञ्चन दुःखात्मज्ञानयोर्विरुद्धत्वेन ।
तर्हि ज्ञानादुत्तरकालं देहवानपि सदा निरन्तरमदुःखी किन्न स्यात्, स्यादेव ।
एतदुक्तं भवति ।
प्रकाशः खल्वन्धकारविरोधित्वात्तन्निवर्तयन् उत्पत्त्यनन्तरमेव निवर्तयति न तु विलम्बेन ।
विलम्बे विरोधस्यैवानिर्वाहात् ।
तथात्मतत्त्वज्ञानं यदि दुःखाद्यनर्थविरोधित्वात्तन्निवर्त्यात्मानं मुक्तं कुर्यात् ।
तर्हि जिनादयस्तत्त्वज्ञानसम्पन्ना ज्ञानोत्पत्त्यनन्तरमेव मुक्ताः स्युः ।
न चैवम् ।
देहादिमत्त्वेनोपलम्भात् ।
तथाविधानां च दुःखादेरवर्जनादिति ।
इष्यापत्तिनिरासाय सदेत्याद्युक्तम् ।
अयमत्र प्रयोगः ।
दुःखादिकमात्मतत्त्वज्ञानविरोधि न भवति बहुलं कालं तेन सह स्थितत्वात्सम्मतवदिति ।
किञ्चात्मतत्त्वज्ञानं न तावदामोक्षादेकम् ।
ज्ञानानां क्षणिकत्वदर्शनात् ।
तथाच यदनन्तरं मोक्षो ऽभिलष्टते तज्जिनस्य चरमज्ञानं न मोक्षसाधनमात्मज्ञानत्वात्प्रथमादिज्ञानवत् ।
अन्यथा प्रथममेव मोक्षं साधयेदविशेषादिति ।
*10,246*
ननु भवद्भिरीश्वरज्ञानं मोक्षसाधनमभ्युपेयते ।
तत्रापि समानमिदं दूषणमित्यत आह- ईशेति ॥
ईशकॢप्त्यनुसारेण स्यात् कालादीशवादिनः
*10,247*
न्यायसुधा:
ईशवादिनो मम मते तदिच्छाविशेषानुसारेण कालात्कञ्चन कालमतिवाह्य मुक्तिः स्यात् ।
अयमभिसन्धिः ।
न वयमीश्वरज्ञानं मोक्षसाधनमाचक्ष्महे ।
किन्नाम प्रसन्नः परमेश्वर एव ।
ज्ञानं तु प्रसादसाधनत्वान्मोक्षसाधनमिति गीयते ।
स च चेतनः कामपि कालकल्पनां करोति ।
अस्मिन्समये ऽमुं मुक्तं करिष्यामीति ।
तत्कल्पनानुसारेण भवत्येवासौ मुक्त इति न कश्चिद्दोषः ।
यथा ब्राह्मणस्य विद्याचरणादिना प्रसन्नो ऽपि प्रभुश्चेतसा कल्पयति ।
आगामिनि सूर्योपरागे ऽस्मै गां दास्यामीति ।
स ब्राह्मणस्य विद्याचरणादिना प्रसन्नो ऽपि प्रभुश्चेतसा कल्पयति ।
आगामिनि सूर्योपरागे ऽस्मै गां दास्यामीति ।
स तदनुसारेण तस्माद्गां लभते तथैवेति ।
एवमात्मज्ञानस्य मोक्षसाधनत्वं निराकृत्य धर्मस्यापि तं निराचष्टे- कर्मेति ॥
*10,248*
कर्महेतुत्वमपि तु निश्चैतन्यान्नहि क्वचित्

3.3.140

न्यायसुधा:
कर्मणा हेतुत्वं कर्महेतुत्वं मोक्षं प्रति ।
यद्वा कर्महेतुत्वमिति बहुव्रीहिः ।
मोक्षस्येति शेषः ।
तुशब्दो ऽवधारणे ।
नैवेति सम्बन्धः ।
निश्चैतन्यात्कर्मणः ।
विमतं कर्म न मोक्षसाधनं भवति अचेतनत्वात्पटवदित्यर्थः ।
व्याप्तिमुपपादयति- नहीति ॥
नेत्युभयत्र सम्बद्धयते ।
नहि क्वचिदचेतने मोक्षसाधनत्वमावयोः सम्मतम् ।
येनात्र व्याप्तिर्न स्यादित्यर्थः ।
नन्वचेतनत्वे ऽपि विशिष्यं कर्मेदं मोक्षसाधनं किन्न स्यादिति चेत् ।
किमामोक्षप्राप्तेः क्रियमाणमेकमेव कर्मोतानेकानि ।
नाद्यः ।
क्रियाणामनेकत्वदर्शनात् ।
प्रतिक्रियं कर्मोत्पत्तेः ।
एकत्वे च जातस्यैव जन्म वा क्रियाणां वैयर्थ्यं वा विरम्यव्यापारो वाऽपद्येत ।
अभ्युपगम्यैकत्वं बाधकमाह- अशेषेति ॥
*10,249*
अशेषदुःखविलये नेदानीं कारणं यथा ।
तथोत्तरं च नैव स्याद् ... ॥ मनुव्_3,3.140अ-च् ॥
न्यायसुधा:
यथेदानीं प्रथमक्रियोत्तरकालं जातं कर्माशेषदुःखविलये मोक्षस्य कारणं न भवति ।
तथोत्तरकालं विवक्षितकाले ऽपि मोक्षकारणं न स्यात् ।
कर्मत्वादिति शेषः ।
एकस्यापि कर्मणः कालभेदेन भेदात्पक्षसपक्षत्वं युज्यते ।
विपक्षे तूत्पत्त्यनन्तरमेव मोक्षं साधयेदविशेषादिति ।
द्वितीये ऽपि बाधकं प्रमाणमाह- अशेषेति ॥
अत्रेदानीमितीदानीन्तनी कर्मव्यक्तिरुच्यते ।
उत्तरमित्यन्तिमा ।
अन्यत्समानम् ।
नचान्तिमकर्मव्यतिरिक्तानां कर्मणां मोक्षसाधनत्वमस्ति ।
तथा सति तदनन्तरमेव मोक्षप्रसङ्गात् ।
नच पूर्वसहकृस्यान्तिमस्य कर्मणो मोक्षसाधनत्वं वाच्यम् ।
इयत्ताभावेनानियतकारणकत्वापत्तेः ।
नहि ज्ञानोदयानन्तरमियतैव कालेनेयन्त्येव कर्माणि कृत्वापव्रज्यत इति नियमः प्रमाणवान् ।
नच जैनैरिष्यते ।
जिनानां विषमकालत्वाभ्युपगमात् ।
*10,254*
आभासोद्धारं करोति- दृष्टीति ॥
... दृष्टिपूर्वानुमा यतः

3.3.141

न्यायसुधा:
यस्मादियं दृष्टिपूर्वा प्रमाणगृहीतव्याप्त्यादिमती ।
ततो ऽनुमा न त्वाभास इत्यर्थः ।
यदुक्तमीशकॢप्त्यनुसारेणेति तदसत् ।
ज्ञानादीश्वरप्रसादस्ततो मुक्तिरित्यत्र प्रमाणाभावादिति चेन्न ।
श्रुतेः सद्भावात् ।
तत्प्रामाण्यस्य साधितत्वात् ।
आभासादनुद्धरन्नेव(वा) चानुमानमप्याह- दृष्टीति ॥
शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि ।
तयैव बन्धहानिः स्यादिति किं नाम दूषणम्

3.3.142

न्यायसुधा:
शक्तस्यान्यस्य विज्ञानं विशिष्यज्ञानं गुणोत्कर्षादिज्ञानमिति यावत् ।
तत्प्रीतिजनकमिति यद्यनुमीयते ।
यदि च तया तत्प्रीत्यैव बन्धहानिः स्यादित्यनुमीयते ।
तदा किन्नाम दूषणम् ।
न किमपि ।
कुतः ।
यतो दृष्टिपूर्वा प्रमाणगृहीतव्याप्त्यादिमतीयमनुमेत्यर्थः ।
अर्थमात्रमिदमुक्तम् ।
एषा तु प्रयोगप्रक्रिया ।
संसारबन्धहानिः समर्थपुरुषान्तरप्रीतिनिबन्धना बन्धहानित्वात् राजप्रसादाधीनभृत्यनिगडबन्धहानिवत् ।
यश्चासौ पुरुषः स एवेश्वरः ।
विप्रतिपन्ना प्रीतिर्गुणोत्कर्षादिज्ञानजा अनिजप्रीतित्वाद्राजप्रीतिवत् ।
कर्मादिना भवन्नीश्वरप्रसादो ऽपि गुणोत्कर्षादिज्ञाने सत्येवेति न दोषः ।
यद्वेश्वरविषयं गुणोत्कर्षादिज्ञानत्वात्संमतवत् ।
नचेश्वरसिद्धया दोषः ।
प्रथमानुमानेन तस्य सिद्धत्वात् ।
तदिदमुक्तं शक्तस्यान्यस्येति ।
*10,255*
नन्वेतद्विपरीतमपि मयानुमीयते ।
ततः सत्प्रतिपक्षतेति चेत् ।
किं विमता बन्धहानिः स्वज्ञाननिबन्धनेत्यनुमीयते उत परप्रसादनिबन्धना न भवतीति ।
आद्ये दोषमाह- स्वज्ञानादिति ॥
स्वज्ञानाद् बन्धहानिस्तु दृश्यते कस्य कुत्रचित्
न्यायसुधा:
दृश्यत इत्येतत्काक्वा न दृश्यत इति व्याख्येयम् ।
तथाच व्याप्त्यभाव इति भावः ।
द्वितीये तु बन्धहानित्वादे राजप्रसादाधीननिगडबन्धहान्यादौ व्यभिचारः ।
परप्रसादनिरपेक्षैव काचिद्बन्धहानिर्दृश्यते ।
तत्र भवतामपि व्यभिचार इति चेन्न ।
पक्षतुल्यत्वात् ।
सर्वाप्यनिष्यनिवृत्तिरीश्वरप्रसादाधीनेति हि तत्त्वविदां पन्थाः ।
*10,257*
यदुक्तं धर्मज्ञानयोर्मोक्षसाधनत्वे तदैव मोक्षः स्यादिति तदसत् ।
कर्मणः प्रतिबन्धकस्य सद्भावात् ।
नहि प्रतिबन्धकवशात्कार्यमकुर्वाणो हेतुरहेतुर्भवति ।
अतिप्रसङ्गात् ।
अनेकविधं खलु कमर् ।
तत्र यद्यपि ज्ञानावरणा(णीया)दिकं ज्ञानादेव निवृत्तम् ।
तथाप्यायुरादिकारणमस्त्येवेति चेत् ।
स्यादिदं प्रतिबन्धकसद्भावकल्पनं यदि"अहिंसादिरूपो धर्मः, शरीरपरिमाणत्वादिनाऽत्मज्ञानं च तत्त्वज्ञानम्, एते च धर्मज्ञाने मोक्षसाधनेऽ; इत्येषो ऽर्थः प्रमितो भवेत् ।
नचैवम् ।
एवमेव कल्यने ऽतिप्रसङ्ग इत्याशयवान्धर्मादिस्वरूपे तावत्प्रमाणं नास्तीत्याह- अहिंसायाश्चेति ॥
अहिंसायाश्च धर्मत्वं केन मानेन गम्यते
न्यायसुधा:
चशब्दो ज्ञानसङ्ग्रहार्थः ।
यद्वा सप्तघटिकाभोजनादिसमुच्चयार्थः ।
ज्ञानविशेषस्य चोपलक्षणम् ।
जिनवाक्येनावगम्यत इति चेन्न ।
तत्प्रामाण्यसाधकाभावस्योक्तत्वात् ।
*10,260*
सत्प्रतिपक्षं च जिनवाक्यमित्याह- हिंसाया एवेति ॥
हिंसाया एव धर्मत्वमित्युक्ते स्यात् किमुत्तरम्

3.3.143

न्यायसुधा:
अत्रापि पूर्ववदुपलक्षणं ज्ञातव्यम् ।
जिनवाक्यादहिंसाया धर्मत्वं प्रतिपन्नस्य भिन्नकाचार्येण हिंसाया एव धर्मत्वमित्यक्ते किमुत्तरं स्यान्न किमपि ।
तथाच न धर्मनिश्चयः स्यात् ।
भिन्नकाचार्यो नाप्त इति चेत् ।
जिनो ऽपि कथमाप्तः ।
(सार्वज्ञगु)सर्वगुणोपेतत्वादिति चेत् ।
भिन्नकाचार्ये ऽपि तुल्यमेतत् ।
अप्रामाणिकास्तत्र ते गुणा इति चेत् ।
जिने ऽपि किं प्रमाणसिद्धाः ।
जिनदर्शिनां वचनेन तेषां तत्र सिद्धिरिति चेन्न ।
समानमन्यत्रापि ।
भिन्नकाचार्यदर्शिनो भ्रान्ताः प्रतारका वेति चेत् ।
जिनदर्शिनो ऽपि कुतो न तथेति ।
*10,261*
इदानीं धर्मादेर्मोक्षसाधनत्वमप्यप्रामाणिकमित्याह- धर्मस्येति ॥
धर्मस्य सुखहेतुत्वमपि केनावगम्यते
न्यायसुधा:
सुखं मोक्षः ।
जिनवाक्येनावसीयत इति वदतः पूर्ववत्सत्प्रतिपक्षतेत्याह- हत्याया इति ॥
हत्यया मोक्षहेतुत्वं कुतो मानान्निवार्यते

3.3.144

न्यायसुधा:
मोक्षहेतुत्वं केनचिदाचार्येणोक्तमिति शेषः ।
हनस्त चेत्यत्र सुपीति नानुवर्तते ।
ब्रह्महत्यादयस्तु षष्ठीसमासाः ।
अतो हत्येति साधुः ।
"सन्ति खल्वक्षयं ह वै चातुर्मास्ययाजिनः सुकृतं भवतिऽ; इत्यादिश्रुतिमनुसृत्य हिंसात्मकस्य यागस्य मोक्षहेतुत्वं वदन्त इत्ययुक्तमेव जैनानां मोक्षसाधनमिति ।
*10,264*
अधुना बौद्धाभिमतं मोक्षसाधनं निराकुर्वाणः शून्यवाद्युक्तं तावदपाकरोति- नचेति ॥
न च शून्यपरिज्ञानाच्छून्यभावनयापि च ।
मोक्षः कथञ्चन भवेद् ... ॥ मनुव्_3,3.144अ-च् ॥
न्यायसुधा:
शून्यमेव तत्त्वं समस्तं तत्राध्यस्तमिति परिज्ञानम् ।
तथैव शून्यभावनया शून्यध्यानेन ।
अपिचावन्योन्यसमुच्चये ।
मोक्षो न भवेदिति सम्बन्धः ।
कथं च नेत्यनेनेदमाचष्टे ।
शून्यपरिज्ञानादिकं मोक्षसाधनमित्यत्र प्रमाणाभावात्तत्रैव बन्धहानिः स्यादित्युक्तप्रमाणविरोधाच्चेति ।
यद्वा शून्यपरिज्ञानादिकं किं स्वयमेव मोक्षं साधयति किंवा शून्यप्रसादजननेन ।
नाद्यः ।
अचेतनत्वात्पटवत् ।
न द्वितीयः ।
शून्यस्य प्रसादगुणानङ्गीकारात् ।
अन्यथा शून्यत्वव्याघातादिति ।
*10,265*
स्यादेतत् ।
बन्धस्तावत्संवृविनामकाज्ञाननिमित्तो ऽध्यासः ।
संवृतिश्च विरोधिना शून्यज्ञानेन निवर्त्यते ।
ततस्तन्मूलो बन्धाध्यासो ऽपीति किमचेतनत्वादिकं करिष्यति ।
नच एवम्भावनावैयर्थ्यम् ।
असम्भावनाविपरीतभावनानिवृत्त्यर्थत्वादिति ।
मैवम् ।
बन्धस्याध्यस्तताया निरस्तत्वात् ।
अङ्गीकृत्य दोषमाह- यदीति ॥
... यदीदानीं कथं न सः

3.3.145

न्यायसुधा:
शून्यपरिज्ञानादित्यादिकं सर्वमनुवर्तते ।
शून्यज्ञानेन कथञ्चनेति शङ्कितरीत्या मोक्षो भवेदिति यद्युच्यते तर्हि स मोक्षः कथमिदानीं ज्ञानोदयानन्तरक्षणे न भवेत् ।
तदैव भवितव्यमित्याशयः ।
नहि प्रदीपस्य विरोध्यन्धकारनिवर्तने विलम्बो ऽस्ति ।
अङ्गीक्रियन्ते च शून्यज्ञानसमनन्तरमपि संसरन्तः पुरुषाः परेण ।
असम्भावनाविपरीतभावनासद्भावाद्विलम्ब इति चेत् ।
ते किं संवृतिकार्ये न वा ।
द्वितीये शून्यवदनिवृत्तिरेव ।
आद्ये संवृतौ निवृत्तायां कथं तदनिवृत्तिः ।
अन्यथा संवृत्यनिवृत्तिर्वा तदकार्यत्वमेतयोर्वा स्यात् ।
संवृतेरनिवृत्तौ च कथं ज्ञानविरोधित्वम् ।
पश्चादपि कथं निवृत्तिः ।
*10,266*
ननु यथा भवन्मते ज्ञानोदयानन्तरमपि संसारावस्थानं तथास्मन्मते ऽपि किं न स्यादित्यतो वैषम्यमाह- परेति ॥
परप्रसादनेच्छोस्तु विळम्बो नाम युज्यते ।
पुमिच्छाधीनता नो चेद् विळम्बः किङ्कृतो भवेत्

3.3.146

न्यायसुधा:
अनुष्ठितस्वकृत्यस्यापि तेन परप्रसादनेच्छोस्तु फलावाप्तौ विलम्बो नाम युज्यते ।
लोके तथा दर्शनात् ।
मोक्षस्य पुरुषान्तरप्रसादाधीनता नो चेदास्थीयते केवलं शून्यज्ञानं बन्धविरोधित्वाद्बन्धं निवर्तयतीत्यङ्गीक्रियते तदा ज्ञानोदयानन्तरं मोक्षस्य विलम्बः किं निबन्धनो भवेत् ।
प्रतिबन्धकत्वेन कल्प्यमानस्य संवृतिकायर्त्वेन ज्ञानविरोधित्वात् ।
नहि प्रबोधानन्तरं स्वाप्नबन्धनिवृत्तेर्विलम्बो ऽस्ति ।
परप्रसादानपेक्षेष्वपि कार्येषु विलम्बो ऽस्ति ।
त्रिवृन्मूलाभ्यवहरणादौ कृते ऽपि विरेचनादेविर्लम्बदर्शनात् ।
तत्कथमुच्यते पुमिच्छाधीनताभावे विलम्बो न भवेदिति ।
तत्राह- अन्यत्रापीति ॥
अन्यत्रापि विळम्बास्तु स्युरीशेच्छानिमित्ततः
न्यायसुधा:
मोक्षादन्यत्र ।
एतावता कालेनेदं भवत्वितीशेच्छैव निमित्तं ततः ।
कुतो ऽत्रेश्वरेच्छानिमित्तं कल्प्यत इत्यत आह- अन्यथेति ॥
अन्यथा कारणं चेत् स्यात् किं कार्यं नोपजायते
*10,267f.*
न्यायसुधा:
ईश्वरेच्छाया अकल्पने कारणं स्याच्चेत्त्रिवृन्मूलादनादिमात्रं विरेकादेः कारणं यदि भवेत्तदा तस्य सद्भावात्कार्यं विरेकादिकं कस्मान्नोपजायते ।
उपजायेतैव ।
कार्यानुदयेनैव सामग्रीवैकल्यं कल्प्यते ।
न(चादृष्टवै)च दृष्टस्य वैकल्यमत्रास्तीति परमेश्वरेच्छैव कल्प्या ।
नच धर्मवैकल्यं कल्पयितुं युक्तम् ।
उत्तरकालमपि कार्यानुदयप्रसङ्गात् ।
नहि तन्मध्ये कश्चिद्धर्मो ऽनुष्ठीयते । विद्यमान एव प्रागलब्धवृत्तिर्धर्म इति चेत् ।
केयं वृत्तिर्नाम ।
किं कार्यकारणमुत सहकारिसाहित्यम् ।
नाद्यः ।
करणमेव कुतो नास्तीति विचार्यमाणत्वात् ।
द्वितीये तदेव सहकारीश्वरेच्छैवोच्यते ।
औषधस्य शरीराशयव्याप्त्यभावात्कार्यानुदय इति चेन्न ।
तस्यापीश्वरेच्छामन्तरेणानुपपत्तेरिति ।
*10,269*
किञ्च प्राप्तसाधनाभिमतानामपि मोक्षविलम्बे सामग्रीवैकल्यं वा प्रतिबन्धकसद्भावो वान्यैर्वादिभिः कथञ्चिच्छक्यते वक्तुम् ।
नतु बौद्धेनेत्याशयवानाह- कारणे सतीति ॥
कारणे सति कार्यस्य भावः सुनियतो ऽस्य हि

3.3.147

न्यायसुधा:
अस्य बौद्धस्य मते कारणे सति कार्यस्योत्पादः सुनियतो न त्वन्येषामिवाप्रतिबद्धकारणसामग्षां सत्याम् ।
समर्थस्य क्षेपायोगादिति तद्वचनादिति हिशब्दार्थः ।
अतः शून्यविज्ञानादिकं न मोक्षसाधनमिति सिद्धम् ।
विज्ञानवाद्युक्तं मोक्षसाधनं दूषयति- विज्ञानेति ॥
विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् ।
विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित्

3.3.148

*10,269f.*
न्यायसुधा:
द्वितैव द्वैतम् ।
स्वार्थिको ऽण् ।
न द्वैतमद्वैतम् ।
विज्ञानस्याद्वैतं विज्ञानाद्वैतम् ।
विज्ञानमेकमेव तत्त्वं न ततो ऽन्यदस्तीति वेदनात् ।
विज्ञानभावनात् विज्ञानाद्वैतध्यानात् ।
आद्यश्चशब्दो वादिसमुच्चये ।
द्वितीयः साधनसमुच्चये ।
एवशब्दो नैव घटत इत्याद्यः सम्बद्धयते ।
द्वितीयस्तु साधननियमार्थः ।
विज्ञानवादिन इति तेनै(ताभ्यां)व ताभ्यां साधनाभ्यां भवतीति प्रतिपादितः ।
सामर्थ्याद्विज्ञानाद्वैतवेदनादिकं विज्ञानवादिनोक्तं मोक्षसाधनं नैवोपपद्यत इत्यर्थः ।
यद्वा विज्ञानवादिन इति तेन प्रतिपादिताद्विज्ञानाद्वैतवेदनादिकान्मोक्षो नैव घटते नैव सम्पद्यत इति योजना ।
कुत इत्यतः पूर्वोक्तं सर्वं स्मारयितुं क्वचित्काले ह्यसौ, नतु ज्ञानोदयोत्तरकाल एव भवतीत्युक्तम् ।
*10,271*
वैभाषिकसौत्रान्तिकाभिमतं मोक्षसाधनं पराचष्टे- अन्तरिति ॥
अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात् ।
भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते

3.3.149

न्यायसुधा:
शरीरान्तःस्थितस्य ज्ञानस्य ।
उपलक्षणमेतत् ।
विज्ञानवेदनासंज्ञासंस्काराणां बाह्ये स्थितस्य रूपस्य च यत्क्षणिकत्वं तस्य वेदनात् ।
उक्तमार्गेण क्षणिकत्वेन ।
न मुच्यते पुरुषः ।
कुतो ऽत्रार्थे मानाभावात् ।
अकृताभ्यागमकृतविप्रणाशादयो दोषाः स्फुटा एवेति नोक्तः ।
*10,272*
एवं वेदबाह्यमतानि निराकृत्य वैदिकानि निराकुर्वाणः साङ्खयोक्तेः मोक्षसाधनं तावदनुवदति- प्रकृतेरिति ॥
प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम् ।
इति शङ्कया ... ॥ मनुव्_3,3.149अ-च् ॥
न्यायसुधा:
प्रकृतेरन्तःकरणादिरूपायाः पुरुषस्य स्वात्मनः विवेकः स्वरूपतो धर्मतश्च भेददर्शनं साङ्खयाः प्राहुः ।
दूषयति- न चेति ॥
*10,273*
एतस्मिंश्चार्थे मानं नास्ति ।
कथं नास्ति ।
"य एनं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते ।
क्षेत्रक्षेत्रज्ञायोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्ऽ; इत्याद्यागमानां सत्त्वादित्यत उक्तम्- ईशाप्रसादत इति ॥
... न चैतस्मिन् मानमीशाप्रसादतः

3.3.150

न्यायसुधा:
ईशप्रसादेन विना केवलं प्रकृतिपुरुषविवेको मोक्षसाधनमित्यस्मिन्नर्थे मानं नास्तीत्यर्थः ।
अयमभिसन्धिः ।
भवत्येव प्रकृतिपुरुषविवेको मोक्षसाधनम् ।
किन्तु भगवत्प्रसादसाधनत्वेन ।
प्रकृतिपुरुषविवेके हि पुरुषस्य वैराग्यं सम्पद्यते ।
विरक्तस्य भक्त्यादिद्वारा भगवत्प्रसाद इति ।
तदर्थानि चैतानि वाक्यानि ।
निरीश्वरेण तु साङ्खयेन साक्षान्मोक्षसाधनत्वं प्रकृतिपुरुषविवेकस्योच्यते ।
नच तस्मिन्विशेषे प्रमाणमस्तीति ।
नन्वेतानि वाक्यानि प्रकृतिपुरुषविवेकस्य मोक्षसाधनत्वं तावत्प्रतिपादयन्ति ।
नच पारम्पर्यकल्पने कारणमस्ति ।
अत एतेषामेव साक्षात्साधनत्वे प्रामाण्यमित्यत आह- श्रुतय इति ॥
श्रुतयः स्मृतयश्चैव यदीशस्य प्रसादतः ।
वदन्ति नियमान्मुक्तिं तमृते ऽतः कुतो भवेत्

3.3.151

न्यायसुधा:
यस्य प्रसादादित्याद्याः श्रुतयः ।
अज्ञानां ज्ञानदो विष्णुरित्याद्याश्च स्मृतयः ।
एवशब्दस्य न प्राकृतपुरुषवाक्यानीत्यर्थः ।
यदा यस्मात् ।
नियमात्मसाधश्रान्तरव्यवच्छेदेन ।
नापरेण ।
स एवैक इति वचनात् ।
तं प्रसादम् ।
भवेन्मुक्तिः ।
बलवद्बाधकसद्भावात् लाङ्गलेन वयं जीवाम इतिवत् पारम्परत्वमेव तेषां वाक्यानां युक्तमिति भावः ।
*10,274*
वैशेषिकाद्युक्तं मोक्षसाधनं निराकरोति- कणादेति ॥
कणादयोगाक्षपादा अपि ...
न्यायसुधा:
योगशब्देन योगानुशासनस्य प्रणेता पतञ्जलिरुपलक्ष्यते ।
अनुपपन्नभाषिण इति शेषः ।
न केवलं साङ्खयाद्या इत्यपेरर्थः ।
नन्वेते त्रयो ऽपीश्वरप्रसादसाध्यां मुक्तिं ब्रुवते ।
तथा हि वैशेषिकेण यद्यपि द्रव्यादिपदार्थानां साधर्म्यवैधम्यर्तत्त्वज्ञानं निःश्रेयसहेतुरित्युक्तम् ।
तथापि न साक्षात् ।
किन्तु धर्मद्वारैव ।
अन्यथा यतो ऽभ्युदयनिःश्रेयससिद्धिः स धर्म इति सूत्रविरोधात् ।
नच धर्मो ऽपि साक्षान्मोक्षहेतुः ।
अपि त्वीश्वरप्रसादसहकृत एव ।
यथोक्तम् ।
तच्चेश्वरचोदनाभिव्यक्ताद्धर्मादेवेति ।
स्पष्टं च"तुष्येर्मोचयतो बद्धानतुष्येर्बध्नतः पुनः ।
कारागारमिदं विश्वं यस्य वन्दे तमीश्वरम्ऽ; इति ।
*10,280*
अक्षपादो यद्यपि प्रमाणादिषोडशपदार्थतत्त्वज्ञानान्निःश्रेयसाधिगम इत्याह- तथापि प्रमाणादिपञ्चदशपदार्थतत्त्वज्ञानस्यात्मादिद्वादशविधप्रमेयतत्त्वज्ञानहेतुत्वमेव ।
आत्मशरीरेन्द्रियाथर्बुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुखापवर्गास्तु प्रमेयमिति तुशब्दकरणात् ।
आत्मादिज्ञानमपि न साक्षान्मोक्षसाधनम् ।
किन्नाम परमेश्वरप्रसादोपेतमेव ।
"स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः ।
यदुपास्तिभसावत्र परमात्मा निरूप्यतेऽ; इति सम्प्रदायविद्वचनात् ।
अथ कथमनुपपन्नभाषिण इत्यत आह- ईशस्येति ॥
... ईशस्य प्रसादतः ।
मुक्तिं ब्रुवाणा अप्याहुर् ...
न्यायसुधा:
ईश(स्य)प्रसादतो मुक्तिं ब्रुवाणा अप्येते किञ्चिदयुक्तमाहुर्यतो ऽनुपपन्नभाषिणैत्यर्थः ।
*10,284*
तथाहि ।
यद्यपि वैशेषिकैरीश्वरप्रसादो ऽङ्गीकृतस्तथापि धर्मसहकारित्वेनैव ।
ईश्वरचोदनाभिव्यक्तादिति वचनात् ।
एवं पतञ्जलिरपि तपःस्वाध्यायादिसमानकक्ष्यतामेवेश्वरप्रणिधानस्याह ।
नैय्यायिका अप्यात्मतत्त्वज्ञानमेव मोक्षसाधनमीश्वरप्रसादस्तु सहकारिमात्रमित्यास्थिताः ।
द्वितीयसूत्रे तथैव व्युत्पादितत्वात् ।
श्रुतिस्मृतयस्तु धर्मादिकं समस्तं साक्षात्परम्परया वा भगवत्प्रसादसाधनम् ।
भगवत्प्रसादस्त्वनन्यापेक्षः साक्षादेव मोक्षसाधनमित्याचक्षते ।
"सर्वं तदन्तराधाय मुक्तये साधनं भवेत् ।
न किञ्चिदन्तराधाय विमोक्षायापरोक्षदृक्ऽ; इत्याद्याः ।
अतः कथं नानुपपन्नवादिन इति ।
*10,286*
इतश्चानुपपन्नभाषिण इत्याह- भोगादेव चेति ॥
जोस्हि-25
... भोगादेव च कर्मणाम् ।
क्षयं प्राहुः ...
न्यायसुधा:
वैशेषिकादयस्तत्त्वविद इव ज्ञानात्पूर्वेषां कर्मणां ज्ञानादेव विनाशं न मन्यन्ते ।
किन्तु समाधिमहिम्नापरिमितदेहव्यूहनिर्माणेनानन्तान्यपि विषमविपाकसमयान्यपि कर्माणि पिण्डीकृत्य तत्फलसुखदुःखभोगेनैव ज्ञानिनो विनाशयन्तीति प्राहुरतो ऽप्यनुपपन्नभाषिण इत्यर्थः ।
नन्वेतदसङ्गतम् ।
मोक्षसाधनविचारस्य प्रस्तुतत्वादिति ।
मैवम् ।
अविद्याकामकर्मादिलक्षणो हि बन्धः ।
अतस्तन्निवृत्तिर्मोक्ष इति कथं कमर्क्षयो न मोक्षः ।
वक्ष्यति च ।
कर्मक्षयस्तथोत्क्रान्तिरित्यादि ।
अतो मोक्षसाधनविषयैवेयं चिन्तेति ।
तथाब्रुवाणा अपि कथमनुपपन्नभाषिण इत्यतो ऽस्यार्थस्याप्रामाणिकत्वादित्याह- कुतश्चेति ॥
*10,287*
... कुतश्चैतत् प्रसन्ने जगदीश्वरे

3.3.152

न्यायसुधा:
ज्ञानिनो ऽपि कर्मणां फलभोगेनैव क्षय इत्येतत्कुत एव प्रमाणात्प्रतिपत्तव्यम् ।
न कुतश्चित् ।
अक्षीणकर्मणां मोक्षानुपपत्तेस्तत्क्षयहेतोश्चान्यस्याभावादत्यन्तसुखदुःखसंज्ञानमेव तत्क्षयकारणमिति कल्प्यत इत्यत आह- प्रसन्न इति ॥
कुत एतदिति वर्तते ।
ज्ञानेन प्रसन्नो भगवानेवाभुक्तफलान्येव कर्माणि विनाशयतीत्यन्यथैवोपपत्तेः कुत एतत्कल्प्यत इत्याशयः ।
भगवानपि कथमदत्तफलकर्मक्षयस्येष्य इति न शङ्कनीयम् ।
तदैश्वर्यस्य क्वाप्यप्रतिहतत्वादिति भावेनोक्तं जगदीश्वर इति ।
सम्भावितमेवैतन्न तु प्रमितम् ।
तत्कथमन्यथैवोपपत्तिरित्यत आह- भिद्यत इति ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे

3.3.153

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ।
इति श्रुतिपुराणादिवचनेभ्यो ऽन्यथागतेः

3.3.154

न्यायसुधा:
हृदयग्रन्थिरविद्या ।
परा अप्यवरा यस्मात्स परावरः ।
आत्मन्याततगुणे जगदीश्वरे ।
आद्यं कठश्रुतिवचनम् ।
द्वितीयं भागवतवचनम् ।
आदिपदेन वक्ष्यमाणानीतिहासवचनानि गृह्यन्ते ।
अन्यथा फलभोगेन विनेश्वरप्रसादेनैव कर्मणां गतेरपगतेर्विनाशनिश्चयादन्यथैवोपपत्तिरिति ।
*10,288*
नन्वत्र परमेश्वरे दृष्टे कर्माणि क्षीयन्त इत्युच्यते नतु दर्शनेनेति ।
तो भोगेनेति व्याख्याने ऽपि न विरोध इति चेन्न ।
तथा सति हृदयग्रन्थिभेदनसंशयच्छेदनयोरप्यन्यसाध्यतास्वीकारापातात् ।
दृष्ट एवेत्येवशब्दविरोधाच्च ।
भोगेन क्षयस्य सर्वसाधारण्याद्दर्शनविशेषणस्य वैयर्थ्याच्च ।
*10,288f.*
अज्ञो न सर्वाणि कर्माणि भोगेन क्षेप्तुं क्षमते ।
बहुतरत्वाद्विषमविपाकसमयत्वाच्च ।
ज्ञानी तु समाधिसामर्थ्यात्कायव्यूहं निर्माय सर्वाणि समाहृत्य फलभोगेन विनाशयतीत्यतो विशेषणोपपत्तिरिति चेत्कुत एषा कल्पना ।
उक्तार्थापत्त्यैवेति चेन्न ।
अस्मदुदाहृतवचनानामन्यथाव्याख्यानस्थितावर्थापत्तिस्थितिः ।
तत्स्थितौ च वचनानामन्यथाव्याख्यानस्थितिरिति परस्पराश्रयापत्तेः ।
वचनानामन्यथाव्याख्याननिरासे सत्यर्थापत्तिनिरासस्तन्निरासे (सत्यन्य)नान्यथाव्याख्याननिरास इति भवतामपि परस्पराश्रयापत्तिरिति चेन्न ।
अवधारणादिना निरवकाशस्योक्तत्वात् ।
"भिनत्ति कर्मसङ्घातं प्रसन्नो भगवान्हरिःऽ; इत्यादीनामत्यन्तानवकाशानामन्यत्रोदाहृतत्वाच्च ।
अत एव"नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपिऽ; इत्यादिसामान्यवचनमज्ञानिविषयम् ।
ज्ञानिनामपि प्रारब्धकर्मविषयम् ।
"आत्मनो वै शरीराणि बहूनि मनुजाधिप ।
प्राप्य योगबलं कुर्यात्तैश्च सर्वां महीं चरेत् ।
भुञ्जीत विषयन्कैश्चित्कैश्चिदुग्रं तपश्चरेत् ।
संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिवऽ; इत्यादिकं ज्ञानिनां प्रारब्धकर्मविषयम् ।
विशेषवचनबलेन प्रारब्धकर्मविनाशस्य वक्ष्यमाणत्वात् ।
अत एव"ज्ञानादेवाशेषकमर्क्षये तदैव मुक्तिः स्यात् ।
नचैवम् ।
जीवन्मुक्तानामुपालब्धेःऽ; इत्यनवकाशं चोद्यम् ।
*10,291*
विमतं कर्म फलभोगविनाश्यं कर्मत्वात्सम्प्रतिपन्नकर्मवदित्यनुमानं तु कृतप्रायश्चित्तकर्मण्यनैकान्तिकम् ।
प्रायश्चित्तं न कर्मक्षयहेतुरित्येतदुत्तरत्र निराकरिष्यामः ।
अकृतप्रायश्चित्तकर्मत्वं हेतुरिति चेत्किमिदं प्रायश्चित्तं नाम ।
पापनिवृत्त्यर्थत्वेन विहितो व्रतविशेष इति चेत् ।
तर्हि महानुभावानामनुग्रहादिना विनष्टे कर्मणि व्यभिचारः ।
पापनिवृत्तिहेतुमात्रं प्रायश्चित्तं विवक्षितमिति चेन्न ।
तथापि महदवज्ञादिना विनष्टे पुण्ये व्यभिचारः ।
क्षयहेत्वन्तररहितकर्मत्वं हेतुरिति चेत् ।
तत्किं विधिरेव हेतुत्वं गमयति ।
तथा सति समाधेरपि कायव्यूहनिर्माणादौ हेतुत्वं न स्यात् ।
आर्थवादिकं फलमविरुद्धं स्वीक्रियत इति चेत् ।
समं प्रकृते ऽपि ।
न ह्यत्र कश्चिद्विरोधो ऽस्तीत्युक्तम् ।
अलौकिकत्वं तूभयत्रापि समानम् ।
*10,293*
किञ्चास्मिन्मते न कदापि कर्मक्षयः ।
भोगकाले ऽपि पुनः करणात् ।
न करोतीति चासम्भावितम् ।
"नहि कश्चित्क्षणमपिऽ; इत्युक्तत्वात् ।
क्रियमाणापि प्रवृत्तिर्नादृष्टजननीति चेन्न ।
श्रुतिस्मृतिविरोधात् ।
ज्ञानिनां ज्ञानसामर्थ्यात्तथेत्यन्यविषयं श्रुत्यादिकम् ।
"तद्यथा पुष्करपलाशेऽ,"ब्रह्माण्याधाय कर्माणिऽ; इत्यादिश्रुतिस्मृतिबलादित्थं कल्प्यत इति चेत् ।
प्राक्तनकर्मस्वप्ययं प्रकारः कुतो नाभ्युपगम्यते ।
रागद्वेषयोरभावान्न प्रवृत्तिरदृष्टकारणम् ।
यथोक्तम् ।
"न प्रवृत्तिः प्रतिबन्धाय हीनक्लेशस्यऽ; इति ।
मैवम् ।
प्रामादिकब्रह्महननादीनामधर्महेतुत्वाभावप्रसङ्ग इत्यलम् ।
*10,294*
पाशुपताद्युक्तं मोक्षसाधनं निराकरोति- नचेति ॥
न च पाशुपताद्युक्तशिवादीनामनुग्रहात्
*10,295*
न्यायसुधा:
पाशुपतशब्देन चतुर्विधा अपि गृह्यन्ते ।
आदिपदेन स्कान्दसौरादयः ।
द्वितीयेनादिपदेन स्कान्दादयः ।
अनुग्रहान्मोक्षो भवतीति शेषः ।
ननु च पाशुपताद्युक्तेति तावन्नानुग्रहस्य विशेषणम् ।
असामर्थ्येन समासानुपपत्तेः ।
तथा सति पाशुपताद्युक्तादिति स्यात् ।
अत एव न मोक्षस्य विशेषणम् ।
तथा सति पाशुपताद्युक्त इति भवेत् ।
शिवादिविशेषणत्वे तु वैयर्थ्यमिति ।
उच्यते ।
अस्तु तावदनुग्रहविशेषणम् ।
तत्र शिवादीनामनुग्रह इति समास एव ।
षष्ठया आक्रोश इति षष्ठया अलुक् ।
"ज्ञात्वा शिवं शान्तिमत्यन्तमेतिऽ; इत्यादिश्रुतिविरोधपरिहारश्च तत्प्रयोजनम् ।
यः संसारधर्मैरीषदप्यस्पृष्टः परमशिवस्तत्प्रसादान्मुक्तिरिष्यत एव ।
यस्त्वज्ञानाद्युपेतस्तथा प्रमितस्तदनुग्रहान्मोक्षो नेत्युच्यत इति ।
"मोक्षो ज्ञानं च क्रमशो मुक्तिगो भेद एव च ।
उत्तरेषां प्रसादेन नीचानां नान्यथा भवेत्ऽ; इत्यादिवाक्यविरोधपरिहाराय पाशुपताद्युक्तेत्यनुग्रहो विशेषितः ।
अङ्गीक्रियत एव शिवाद्यनुग्रहो भगवत्प्रसादसाधनभूतो मोक्षहेतुः ।
नतु पाशुपताद्युक्तः स्वतन्त्रसाधनभूत इति ।
यद्वा पाशुपताद्युक्तेत्यपि भिन्नं पदम् ।
सुपां सुलुगिति पञ्चम्या लुक् ।
यद्वा प्रथमाया लुक् ।
मोक्षस्य चेदं विशेषणम् ।
तत्र वादिनिर्देशप्रयोजनं वक्तमेव ।
यद्वास्तु यथाश्रुतं शिवादीनामेव ।
ये शिवादयः पाशुपतादिभिः स्वातन्त्र्येणोपास्या उक्तास्तेषां (य)तथोपासितानामनुग्रह एव नास्ति प्रत्युत कोष एव ।
अतो ऽनुग्रहान्मोक्षो दूरनिरस्त इति भावः ।
*10,298*
कुतः शिवादीनामनुग्रहान्मोक्षो नेत्यत आह- नान्य इति ॥
नान्यः पन्था इति ह्युक्तं पुरुषज्ञानतः श्रुतौ

3.3.155

न्यायसुधा:
तमेवमिति श्रुतौ सहस्रशीर्षा पुरुष इति प्रकतपुरुषज्ञानतो ऽन्यनिषेधेनामृतत्वमुक्तं हि यस्मात्तस्मात्पुरुषोत्तमानुग्रह एव ज्ञानेनेरितो मोक्षहेतुर्न शिवाद्यनुग्रह इति ।
ननु पुरुषसूक्ते पशुपुरुष एव प्रतिपाद्यते न विष्णुस्तत्कथं विष्णुज्ञानस्य मोक्षसाधनत्वे मन्त्रो ऽयमुदाहृतः ।
पशुपुरुषज्ञानमपि पशुपतेरनुग्रहे परमोपयोगीति मोक्षसाधनमुच्यते ।
नान्य इति च न विरुद्धम् ।
साधनवत्साधनसाधनस्य परित्यागे ऽपि फलानुदयादिति चेत् ।
किमेतत्पुरुषशब्दस्य विष्णौ शक्त्यभावात्कल्पने ।
तात्पर्यज्ञापकाभावाद्वा ।
बाधकसद्भावाद्वा ।
नाद्यः ।
नारायणानुवाके पुरुषशब्दस्य हरौ प्रयोगादित्याह- सर्व इति ॥
सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादतः ।
एवं पुरुषशब्दश्च प्रयुक्तो ऽब्धिशये हरौ

3.3.156

न्यायसुधा:
न केवलं पुरुषज्ञानतो ऽमृतत्मुक्तम् ।
किन्तु पुरुषशब्दश्च हरौ प्रयुक्तः ।
विद्युतः पुरुषादित्युक्तो ऽपि पशुपुरुष एव किन्न स्यादित्यत उक्तमब्धिशय इति अम्भस्य पारे, यमन्तःसमुद्रे इत्यस्मिन्पुरुषे ऽब्धिशयत्वस्य श्रवणात् ।
महोदधिशयोन्तक इत्यादिना तस्य विष्णुलिङ्गत्वावगमात् ।
*10,299*
इतश्चायं नारायणो न पशुपतिरित्याह- न तस्येति ॥
न तस्येशे कश्चन तस्य नाम महद् यशः ।
इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ

3.3.157

विश्वतः परमां नित्यं विश्वं नारायणं हरिम् ।
इति सर्वाधिकत्वोक्तया समो ऽपि विनिवारितः ॥ मनुव्_3,3.157अ-द् ॥
*10,299f.*
न्यायसुधा:
तस्य पुरुषस्य ।
ईशे ईष्ये व्यत्ययो बहुलमिति वचनात् ।
अधीगर्थदयेषां कर्मणीति षष्ठी ।
महदिति यशश्चेति तस्य पुरुषस्य नाम ।
श्रुतौ नारायणानुवाके न तस्येति वाक्येन तस्य पुरुषस्याधिपतिः स्वयं मुखत एव प्रतिषिद्धः ।
परमश्चासावश्चेति परमास्तं परमाम् ।
लिङ्गव्यत्ययेन परममिति वा ।
विश्वं पूर्णम् ।
नारायणानुवाक एव विश्वत इति श्रुतौ तस्य पुरुषस्य सर्वाधिकत्वोक्त्या ससो ऽपि विनिवारितः ।
नहि सर्वाधिकस्य समो युज्यते ।
*10,301*
ततः किमित्यत आह- समेति ॥
समाधिकस्य राहित्यान्नोपचारपुमानसौ

3.3.158

न्यायसुधा:
समाधिकस्येति द्वन्द्वैक्यवद्भावः ।
असौ नारायणानुवाकोक्तः ।
उप समीपे चारो यस्यासौ प्रधानस्योपसर्जनभूत उपचारपुमान् पशुपुरुषो नेत्यर्थः ।
नारायणनामादिना हरिरेवायमिति शिष्यैरेव ज्ञातुं शक्यत इति नोक्तम् ।
*10,302f.*
अधिपतिराहित्यसर्वाधिकत्वयोस्ततो ऽवगतस्य समाधिकराहित्यस्य च पशावनुपपत्तेर्न तद्विषयो ऽयं पुरुषशब्दः ।
किन्तु नारायणादिनाम्नाब्धिशयत्वादिलिङ्गेन च विष्णुविषय एवेत्यस्तु ।
न तावता पुरुषशब्दस्य विष्णौ वाचकत्वशक्तिः सिद्धयति ।
प्रयोगस्यामुख्यया वृत्त्याप्युपपत्तेरित्यत आह- समेति ॥ असौ विष्णुरुपचारेण पुरुषशब्दविषयो न भवति किन्तु मुख्यवृत्त्यैव ।
कुतः ।
मुख्यासम्भवे ह्युपचारः कल्प्यते ।
पुरुषशब्दस्य मुख्यार्थः पूर्णत्वम् ।
तच्च विष्णोरेव समाधिकराहित्याद्युज्यत इति ।
*10,303*
अस्त्वेवं पुरुषशब्दस्य विष्णौ वाचकत्वशक्तिस्तथापि पुरुषसूक्ते ज्ञापकाभावात्तत्परत्वं नास्तीति द्वितीयं निराकरोति- पुरुष एवेति ॥
पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति

3.3.159

मुक्तामुक्तपरेशत्वमिति तस्याह सा श्रुतिः
*10,304*
न्यायसुधा:
यद्भूतं यच्च भव्यं यच्च भवदमुक्तं विश्वमिदं सर्वं पुरुष एव ।
पुरुषाधीनमेव ।
यत एवमन्नेनान्नमदनीयममुक्तवर्गमतिरोहति अतिक्रामति ।
अमुक्ताधिपतिरित यावत् ।
तस्मादमृतत्वस्योत भावभवित्रोरभेदान्मुक्तवर्गस्यापीशानः ।
संसारे स्वाधीनं जगद्यदि मुक्तौ स्वाधीनत्वं जगद्यदि मुक्तौ स्वाधीनत्वं जह्यात्तदा प्रेक्षावान्न मोचयेत् ।
अतो मुक्तावपि तदधीनमेवेति सा श्रुतिः पुरुषसूक्तमन्त्रस्तस्य मुक्तामुक्तपरेशत्वमाह ।
तच्च मुक्तानां परमा गतिरित्यादिना विष्णोरेवावगतं पशोस्त्वसम्भावितमेवेत्यतः पुरुषसूक्तं विष्णुपरमेवेति ज्ञायते ।
ननु च पुरुष एवेदं सर्वमिति पुरुषस्यात्र सर्(वत्वर्)वात्मकत्वमेवोदितम् ।
तत्कथं मुक्तामुक्तपरेशत्वमाह श्रुतिरिति तत्राह- अमृतेति ॥
अमृतेशानवचनात् सर्वस्येशानतोदिता

3.3.160

न्यायसुधा:
ईशानेति भावप्रधानो निर्देशः ।
उत्तरार्धे मुक्तेशानत्वस्योक्तत्वात्पूर्वार्धे ऽमुक्तस्य सर्वस्येशानतैवोदिता ज्ञातव्या ।
नतु सर्वत्वम् ।
नहि को ऽपि वादी मुक्तौ भेदममुक्तावभेदमङ्गीकरोति ।
नापि युज्यते ।
अभिन्नस्य पश्चाद्भेदादर्शनात् ।
*10,305*
हेत्वन्तरमाह- यदीति ॥
यदि सर्वत्वमुदितमुतेश इति तद् वृथा
न्यायसुधा:
पूर्वार्धे यदि पुरुषस्य सर्वत्वमुदितं स्यात्तत्तर्ह्युत्तरार्धे ऽमृतत्वस्योतेशान इत्युतशब्दो वृथा स्यात् ।
तत्कथमित्यत आह- उतशब्द इति ॥
उतशब्दो वदेदेष हीशत्वस्य समुच्चयम्

3.3.161

न्यायसुधा:
उत्तरार्धस्थ उतशब्दो यस्मादीशत्वस्य समुच्चयं वदेत् ।
अर्थान्तरस्यासम्भवात् ।
नच द्वयोरीशत्वयोरनुक्तौ तत्समुच्चयोक्तेरवकाशो ऽस्ति ।
तस्मादुतशब्दो वृथैवेति ।
युक्त्यन्तरमाह- पुरुषेणैवेति ॥
पुरुषेणेदं व्याप्तमिति ब्राह्मणं चाह तं प्रति
न्यायसुधा:
पुरुष एवेदं सर्वमिति पुरुषेणैवेदं सर्वं व्याप्तमातृणादाकरीषात्सर्वं भगवानिति मिथ्यादृष्टिरेवेति शाखान्तरब्राह्मणं च तं मन्त्रं प्रति प्रवृत्तं तस्य मन्त्रस्य व्याख्यानरूपमेवाह अतश्च न सर्वत्वमर्थः ।
व्याप्तं वशीकृतम् ।
एतेन धर्म(र्मि)समुच्चयार्थ उतशब्द इत्यपि परास्तम् ।
*10,306*
इतश्च सर्वेशत्वमेव पूर्वार्धार्थो नतु सर्वत्वमित्याह- एतावानिति ॥
एतावानस्य महिमेति महिम्नो वचो हि तत्

3.3.162

न्यायसुधा:
इति वचनादिति शेषः ।
अस्य पुरुषस्यैतावान्महिमा यः पूर्ववाक्योक्त इत्युत्तरवाक्यबलात् तत् पुरुष एवेदमित्येतत्पुरुषस्य महिम्नो वाचकं वच इति तावज्ज्ञायते ।
ततश्च महिमप्रतिपादकं यथा स्यात्तथा व्याख्येयम् ।
न च सर्वात्मत्वं महिमा ।
अपकषर्हेतुत्वात् ।
किन्तु सर्वाधिपत्यमेव ।
नच तदतिरिक्त(क्तं)महिम्नो वचनम् ।
सङ्कोचे कारणाभावात् ।
*10,307*
इतो ऽप्येतदेवमित्याह- सो ऽमृतस्येति ॥
सो ऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।
इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च

3.3.163

उतामृतस्येश इति विधत्ते मुक्तिगेशताम्
न्यायसुधा:
इति भागवतवचनादिति शेषः ।
अनूद्य यदन्नेनातिरोहतीति वचनेन हेतुतयेति शेषः ।
विधत्ते श्रुतिः ।
अयमर्थः ।
उत्तरार्धे तावदमुक्ताधिपत्यं हेतुत्वेनोपादाय मुक्ताधिपत्यं प्रति जानीते श्रुतिरिति ज्ञायते ।
पुरुषसूक्तव्याख्यानप्रसङ्गे सो ऽमृतस्येति भागवतवचनेनोत्तरार्धस्य तथैव व्याख्यातत्वात् ।
अत एव"अन्नेन दिव्यभोगेन यदतिरोहत्यधिरोहत्येधते तस्यामृतत्वस्य देवत्वस्येशानःऽ; इति व्याख्यानमयुक्तम् ।
भावभवित्रोरेकत्वाभिप्रायेणामृतत्वस्येत्येतदमृतस्येति हि व्याख्यातम् ।
देवव्यावृत्त्यर्थमेव चाभयस्येत्युक्तम् ।
अन्नेनेति तृतीया च द्वितीयार्थेत्यभिहितम् ।
अन्नं च न प्रसिद्धमिति मर्त्यमित्युदितम् ।
सो ऽयमुत्तरार्धार्थः पूर्वार्धस्यास्मद्वयाख्यान एव युज्यते ।
पूर्वार्धे ऽमुक्ताधिपत्यं विहितम् ।
उत्तरार्धे तत्पूर्वार्धोक्तममुक्ताधिपत्यं हेतुत्वेनानूद्य पुरुषस्य मुक्तिगेशतां विधत्ते श्रुतिरिति ।
परकीयव्याख्याने तु परस्परव्याघातेनानुपपन्न एवेति ।
*10,308*
एतेन"पुरुषशब्दस्य विष्णुविषयत्वे सर्वात्मकत्वं बाधकम् ।
नहि विष्णोः सर्वात्मकत्वं भवद्भिरप्यभ्युपगम्यते ।
पशोस्तु देहयोगवशाद्भूतत्वादिकं युज्यतेऽ; इति तृतीयपक्षो ऽपि निरस्तः ।
उपसंहरति- अत इति ॥
*10,309*
अतो विष्णुपरिज्ञानादेव मुक्तिर्नचान्यतः

3.3.164

न्यायसुधा:
परिज्ञानात्परिज्ञानोदितात्प्रसादात् ।
अन्यतः शिवादीनामनुग्रहात् ।
पाशुपता अपि ज्ञानिनो भोगेनैव कर्मक्षयमाचक्षते ।
तदप्यनुपपन्नमित्याह- तद्यथेति ॥
"तद्यथेषीकातूलमग्नौ प्रोतं पदूयेतैवं हैवास्य सर्वे पाप्मनः प्रदूयन्तेऽ; इति श्रुतेः ।
"इष्यकेषी कामालानां चिततूलभारिषुऽ; इति ह्रस्वता श्रुतित्वान्न भवति ।
प्रोतं प्रविष्यम् ।
प्रदूयेत परितप्तं भवेद्भस्मीभवेत् ।
इति तन्निदर्शनं यथा ।
अस्य ज्ञानिनः ।
प्रदूयन्ते विनश्यन्तीत्यथर्ः ।
चशब्दः पूर्वोदाहृतवाक्यसमुच्चयार्थः ।
तत एव विष्णुपरिज्ञानादेव ।
*10,310*
नन्वस्यां श्रुतौ ज्ञानिनः कर्मणां परितापः श्रूयते नतु ज्ञानेन विनाश इति विवक्षितो ऽर्थ इत्यतो भगवद्वाक्यसमाख्यामाह- यथेति ॥
यथैधांसि समिद्धो ऽग्निर्भस्मसात् कुरुते ऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा

3.3.165

न्यायसुधा:
यद्यप्यत्र ज्ञानस्य कारणत्वं स्फुटं प्रतीयते ।
तथापि कर्मणां भस्मसात्करणं नाम मुख्यासम्भवात्किं कल्पनीयमिति न ज्ञायते ऽतोवाक्यान्तरं पठति- सर्वेति ॥
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।
इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते

3.3.166

न्यायसुधा:
धर्मानवैष्णवान्काम्यार्थांश्च ।
शरणप्राप्तिश्च"सर्वोत्तमत्वविज्ञानपूर्वम्ऽ; इत्यादिनान्यत्र भगवत्पादैरेव व्याख्याता ।
ततः प्रसन्नो ऽहम् ।
मा शुचः ।
न शोचिष्यसि मुक्तो भविष्यसि ।
आदिपदेन"गतसङ्गस्य मुक्तस्यऽ; इत्यादेः सङ्ग्रहः भगवद्वाक्यैश्चेति सम्बन्धः ।
तद्यथेति श्रुतेरुक्तार्थः भगवद्वाक्यैरवसीयत इति वा ।
*10,311*
भाट्टानां मोक्षसाधनमनुवदति- नित्येति ॥
नित्यनैमित्तिकं कर्म कुर्वन्नन्यत् परित्यजन् ।
मुच्यते संसृतेश्च ... ॥ मनुव्_3,3.166अ-च् ॥
*10,312*
न्यायसुधा:
नित्यं नाम यदकरणे प्रत्यवायो, ब्राह्मण्यादिकमेव च निमित्तमुपादाय विहितं तदुच्यते ।
यथा सन्ध्यावन्दनादि ।
नैमित्तिकं नाम यदकरणे प्रत्यवायः पितृमरणाद्यागन्तुकं च निमित्तमुपादाय विहितं तदुच्यते ।
यथा पितृश्राद्धादि ।
अन्यत्काम्यं निषिद्धं च ।
तत्र यत्कारणे फलमकरणे न प्रत्यवायः ।
कामाननिमित्तं तत्काम्यात् ।
यथा ज्योतिष्योमादि ।
प्रतिषिद्धं निषिद्धम् ।
यथा ब्रह्महत्यादि ।
उपात्तं च कर्म भोगेन क्षपयन्निति चशब्दार्थः ।
अयमाशयः ।
सुखदुःखतत्कारणरूपो हि संसारः ।
स च कर्मनिमित्त एव ।
नित्यनैमित्तिकयोरकरणे त्वधर्मप्रवचयेन दुःखतत्साधनावाप्तिरस्य भवति ।
निषिद्धकरणे ऽपि तथा ।
काम्यकरणे तु धर्मोत्पादनेन सुखतत्साधनावाप्तिर्जायते ।
मुमुक्षुस्तु नित्यं नैमित्तिकं च नित्यमेव करोति ।
परित्यजति च निषिद्धमिति न दुरितोपचय; ।
काम्यमपि परित्यजतीति न धर्मोपचयः ।
एवमनागतयोर्धर्माधर्मयोरनुत्पादे प्रागुपात्तौ च भोगेन क्षपयन्निर्बीजायाः संसृतेर्मुच्यत इति ।
यथोक्तम् ।
"मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ।
नित्यनैमित्तिके कुर्यात्प्रत्यवाय जवांसयाऽ; इति ।
नच पञ्चमी कर्मविधास्ति ।
यत्करणे ऽकरणे वा धर्माधर्मोदयः स्यादिति ।
*10,314*
निराकरोति- एतदपीति ॥
... एतदप्येतेन निराकृतम् ।
विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट् ॥ मनुव्_3,3.166द्-f ॥
न्यायसुधा:
एतेन नान्यः पन्था इति श्रौतेन भगवज्ज्ञानव्यतिरिक्तमोक्षसाधननिषेधेन ।
अपि च नित्यनैमित्तिककर्मणां नियमेन सम्यगनुष्ठानं तावदशक्यमेव ।
"चरन्ति देवा विहितं समस्तमर्धमेव मुनयो दशांशतो मनुष्याःऽ; इत्यादिश्रुतेः ।
नापि निषिद्धाकरणं सम्भावितम् ।
प्रामादिकानां मानसवाचिककायिकानामपरिहार्यत्वात् ।
प्रायश्चित्तात्तत्क्षय इति चेन्न ।
प्रायश्चित्तस्यापि सम्यगनुष्ठातुमशक्यत्वात् ।
पूर्वोपार्जितकर्मणां भोगेन क्षयस्त्वत्यन्तासम्भावित एव ।
अनन्तत्वादित्यलम् ।
नन्वेतत्सर्वं सूत्रानुक्तं कस्माद्वर्ण्यत इत्यत आह- विद्यैवेति ॥
विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट्

3.3.167

*10,314f.*
न्यायसुधा:
विद्यैव तु निर्धारणादिति सूत्रेण ।
स्वयमेव न त्वर्थतः ।
"वाजसनेयिनो ऽधीयते ।
षट्त्रिंशत्सहस्राण्यपश्यदात्मनो ऽग्नीनर्कान्मनोमयान्मनश्चितःऽ; इत्यादि ।
तत्र संशयः ।
किमेते ऽग्नयः क्रियानुप्रवेशिनस्तच्छेषभूता उत स्वतन्त्राः केवलविद्यात्मका इति ।
क्रियामयस्याग्नेः प्रकरणात्तद्विषय एवायमुपदेश इति प्राप्ते ऽभिधीयते ।
विद्यात्मका एवैते ऽग्नयो न क्रियाशेषभूताः ।
ते हैते विद्याचित एवेति निर्धारणात् ।
इति परेषां व्याख्यानमसदेवेति भावेनोक्तमिममेवार्थमिति ।
विफलत्वादस्याश्चिन्तायाः ।
पक्षद्वये ऽप्यभ्युदय एव ह्यस्य प्रयोजनम् ।
यस्तु नित्यानित्यवस्तुविवेकवाञ्छमदमादिसम्पन्नः सर्वभोगवैराग्योपेतो मुमुक्षुरथशब्देनोत्तरमीमांसायामधिकारी सूचितः स कथमेतासु फल्गुचिन्तासु प्रवर्तत इति ।
*10,316*
एवं सूत्रकृता पूर्वपक्षितानि मतानि निराकृत्येदानीं ये सूत्राणां वृत्तिकारा अन्यथा भाषन्ते तेषां मतानि निराकुर्वाणः समुच्चयनियमवादिनां मतं तावदपाकरोति- विनेति ॥
विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः ।
नान्यः पन्था इति ह्येव निवारयति सादरम्

3.3.168

*10,316f.*
न्यायसुधा:
संसारनिवृत्तिमात्रं केवलेन ज्ञानेन भवति ।
आनन्दवृद्धिस्तु कमर्सापेक्षेणैव ज्ञानेनेति भगवतः पन्थाः ।
यद्वक्ष्यति सहकारित्वेन चेति ।
अतो ज्ञानकर्मभ्यां मोक्ष इत्यनुक्त्वा कर्म विना केवलज्ञानेन न मोक्षः किन्तु कर्मसहितेनेत्युक्तम् ।
इत्येतदपि मतं सैव सूत्रगृहीतैव नान्यः पन्था इति श्रुतिः स्पष्टं निवारयति ।
तमेवं विदित्वेति ज्ञानमात्रस्य मोक्षसाधनत्वमुक्त्वा पुनर्नान्यः पन्था इत्रत वचनादादरो ऽवगम्यते ।
नच समुच्चयनियमे किमपि प्रमाणमस्ति ।
अन्धन्तमः प्रविशन्तीत्यादीनामन्यार्थत्वात् ।
"यथान्नं मधुसंयुक्तं मधु चान्नेन संयुतम् ।
एवं तपश्च विद्या च संयुक्ते भेषजं महद्ऽ; इत्यादीनां परोक्षज्ञानविषयत्वात् ।
अपरोक्षज्ञानविषयत्वे ऽप्यानन्दवृद्धयर्थत्वात् ।
*10,319*
मायावादिनो वदन्ति ।
द्विविधो मोक्षः परापरभेदात् ।
तत्रापरो वैकुण्ठसत्यलोकादिप्राप्तिलक्षणः ।
परस्त्वविद्यास्तमये सत्यद्वैतब्रह्मावस्थानरूपः ।
प्रतीकादिविषयमन्यथोपासनमपरस्य साधनम् ।
परस्य त्वेकत्वज्ञानमिति ।
तत्रान्यथोपासनस्य वैकुण्ठादिप्राप्तिसाधनत्वं तावदपाकरोति- अन्यथेति ॥
अन्यथोपासनमपि तमेवमितिवादिनी ।
निवारयत्यादरेण ... ॥ मनुव्_3,3.168अ-च् ॥
न्यायसुधा:
एवं यथास्थितेनैव प्रकारेण न त्वन्यथेति वदन्ती श्रुतिरन्यथोपासनमपि पुरुषार्थसाधनं निवारयति ।
न केवलं परमपुरुषज्ञानव्यतिरिक्तपक्षान् ।
तमित्यनेन यथार्थज्ञानं लब्धमेव ।
सप्रकारस्य प्रकृतस्य परामर्शोपपत्तावेकदेशविषयत्वकल्पनानुपपत्तेः ।
तथापि यदेवमिति वदति तदाऽदरसूचनार्थमिति ।
परममोक्षविषयेयं श्रुतिरस्तु ।
अपरस्तु पुरुषार्थो ऽन्यथोपासनेन भविष्यतीत्यत आह- नेति ॥
... न प्रतीक इति प्रभुः

3.3.169

न्यायसुधा:
"न प्रतीके न हि सःऽ; इति सूत्रकारो ऽन्यथोपासनस्य सर्वथाप्यकर्तव्यत्वं वक्ष्यति ।
अतो न तत्पुरुषार्थलेशहेतुः ।
*10,320*
सूत्रस्यार्थान्तरं वक्ष्यामीति वदन्तं प्रति श्रुतिविरोधमाह- अन्धमिति ॥
अन्धं तमः प्रविशन्ति ये ऽविद्यामुपासते ।
इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत्

3.3.170

न्यायसुधा:
पुरुषाथर्साधनमिति शेषः ।
श्रुतिस्त्वन्यत्र स्मृतिसम्मतिप्रदर्शनेन व्याख्याता ।
*10,321*
इदानीमेकत्वज्ञानस्य परमोक्षसाधनत्वं निराकरोति- नचेति ॥
न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते

3.3.171

न्यायसुधा:
चो ऽवधारणे ।
एकत्वविज्ञानादपि पुरुषः संसारान्न मुच्यते ।
कुतः ।
उक्तन्यायेन"तमेवं विद्वान्ऽ; इत्रत सहस्रशिरस्त्वादिमहामहिमोपेतस्य भगवतो ज्ञानममृतत्वसाधनमभिधाय"नान्यः पन्थाःऽ; इति साधनान्तराभावस्योक्तत्वात् ।
"पुरुष एवेदं सर्वम्ऽ; इत्युक्तमेकत्वमेवंशब्देन परामृश्यत इति चेन्न ।
उक्तन्यायेन तस्य वाक्यस्यैकत्वविषयताया अभावात् ।
"तद्यो यो देवानां प्रत्यबुद्धयतेऽ; इत्यादिश्रुतयस्तु तद्गुणसारत्वादित्युक्तन्यायेन नैक्यज्ञानस्य मोक्षसाधनतां वदन्ति ।
किञ्चैक्यज्ञानमन्यथाज्ञानमिति पृथगुपदेशादित्युक्तन्यायेन सिद्धम् ।
मिथ्याज्ञानं चानर्थसाधनमित्युक्तम् ।
*10,322*
अपि चाद्वैतज्ञानस्य न तावद्यागादिवद्राजसेवादिवद्वा मोक्षसाधनत्वम् ।
किन्तु अविद्याविरोधित्वेन ।
विरोधिनाद्वैतसाक्षात्कारेणाविद्यायां निवृत्तायां तदुपादानको बन्धः स्वयमेव निवर्तत इति ।
तथाच साक्षात्कृताद्वैतानामुत्तरक्षण एव देहादिद्वैतदर्शनाभावः प्राप्नोति ।
अङ्गीक्रियते च जीवन्मुक्तिः ।
ज्ञानेनाविद्यायां निवृत्तायामपि तत्संस्कारेण द्वैतदर्शनानुवृत्तिर्भवतीति चेन्न ।
संस्कारस्याविद्याकार्यत्वे ऽवस्थानानुपपत्तेः ।
न ह्युपादाने निवृत्ते कार्यमवस्थितं दृष्टम् ।
अन्यथा सत्यत्वप्रसङ्गः ।
ज्ञानोदये ऽप्यनिवृत्तस्य तस्य निवर्तकान्तराभावात्सर्वदा(ऽनिवृ)नुवृत्तौ न कदापि द्वैतदशर्ननिवृत्तिः स्यात् ।
असङ्गस्यात्मनो विनैवाविद्यासम्बन्धेन संस्काराश्रयत्वं चायुक्तमेव ।
एतेन प्रारब्धकर्मवशाद् द्वैतदर्शना(ऽनिवृ)नुवृत्तिरित्यपि निरस्तम् ।
ज्ञानेन निवृत्ताप्यविद्या दग्धपटन्यायेन किञ्चित्कालमवतिष्ठते ।
तेन द्वैतदर्शनानुवृत्तिर्घटत इति चेन्न ।
आत्यन्तिकनिवृत्तौ कारणाभावेन द्वैतदर्शनानुपरमप्रसङ्गात् ।
एतेन अविद्यालेशावस्थानपक्षो ऽपि प्रतिक्षिप्तः ।
लेशश्च पटस्य तन्तुरिवावयवो वा स्यात्प्रदेशो वा धर्मो वा ।
नाद्यः ।
अकार्यत्वादविद्यायाः ।
न द्वितीयः ।
प्रदेशानङ्गीकारात् ।
प्रदेशिनो निवृत्तौ प्रदेशावस्थानासम्भवाच्च ।
न तृतीयः ।
धमिणो ऽपगमे धर्मानपगमानुपपत्तेः ।
*10,324f.*
अथ मतम् ।
संसारमूलकारणभूताविद्या यद्यप्येकैव ।
तथापि तस्याः सन्त्येव बहव आकाराः ।
तत्रैको बन्धस्य परमार्थसत्यत्वविभ्रमहेतुः ।
द्वितीयो ऽर्थक्रियासमर्थवस्तुकल्पकः ।
तृतीयस्त्वपरोक्ष्यप्रतिभासविषयाकारकल्पकः ।
तत्राद्वैतस्य सत्यत्वाध्यवसायेन समस्तद्वैतसत्यत्वकल्पक आकारो निवर्तते ।
अर्थक्रियासमर्थप्रपञ्चोपादानं मायाकारस्तत्त्वसाक्षात्कारेण विलीयते ।
अपरोक्षप्रतिभासयोग्यार्थासजनकस्तु मायालेशो जीवन्मुक्तस्य निवृत्तः समाध्यवस्थायां तिरोहितो ऽन्यदा देहाभासजनकाभासहेतुतयानुवर्तते ।
प्रारब्धकर्मफलोपभोगावसाने तु निवर्तत इति ।
तदयुक्तम् ।
अस्याः कल्पनायाः निष्प्रमाणकत्वात् ।
इन्द्रो मायाभिः पुरुरूप ईयत इति श्रुतिरत्र प्रमाणमिति चेन्न ।
अत्र पारमेश्वरशक्तिप्रतिपादनात् ।
ज्ञानबाध्यानिर्वाच्यमायाकारप्रतिपादनाप्रतिभासनात् ।
"तस्याभिध्यानाद्योजनात्तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिरिति श्वेताश्वतरमन्त्रे ऽपि भूयोभूयस्तस्मिन्मनसो योजनाद्यो जायते तत्त्वभावस्तत्त्वज्ञानं तस्मादुदितात्तस्य परमेश्वरस्याभिध्यानादनुग्रहात्कर्मक्षयान्ते विश्वबन्धकमायानिवृत्तिर्भवतीत्युच्यते न त्वनिर्वाच्यविद्याकाराणां क्रमेण निवृत्तिर्बाधलक्षणा ।
किञ्च यो ऽपि मायाकारो ऽनुवर्तत इत्युच्यते तत्त्वज्ञानं तस्य विरोधि न वा ।
आद्ये कथं न निवर्तते ।
द्वितीये ज्ञानेन न निवर्तेत ।
तथाच सत्यः स्यात् ।
कर्मक्षये सति निवर्तत इति वदता कर्मणां तत्कारणत्वमुक्तं स्यात् ।
अन्यथा तन्निवृत्तौ निवृत्तेरनुपपत्तेः ।
*10,327*
अथ मन्यसे ।
ज्ञानमेवाविद्यलेशस्य निवर्तकम् ।
किन्तु प्रबलेन प्रारब्धकर्मणा प्रतिबद्धं न निवर्तयति ।
फलभोगेन तु प्रतिबन्धके क्षीणे निवर्तयतीति ।
तदप्ययुक्तम् ।
निरुपादानकर्मावस्थानानुपपत्तेः ।
स एवाविद्यालेशः कर्मोपादानमिति चेन्न ।
कर्मावस्थाने ऽविद्यालेशावस्थानं तदवस्थाने च कर्मावस्थानमिति परस्पराश्रयत्वापत्तेः ।
उत्पत्त्यादाविवावस्थाने ऽपि तस्य दोषत्वात् ।
किञ्चास्यार्थस्य न किञ्चित्स्फुटं ज्ञापकान्तरमस्ति ।
ततो मा नाम भूदवस्थितावितरेतराश्रयत्वम् ।
ज्ञप्तौ तु भवत्येव ।
जीवन्मुक्त्यन्यथानुपपत्त्यैवैषो ऽर्थः कल्प्यत इति चेन्न ।
परमपुरुषानुग्रहेणैव मोक्ष इत्यस्य सकलश्रुतीतिहासपुराणादिसिद्धस्यार्थस्याङ्गीकारेणैव सर्वस्योपपत्तावस्याः कल्पनाया अनवकाशादिति ।
*10,328*
अधिकरणार्थमुपसंहरति- इति सर्वमिति ॥
इति सर्वं प्रविज्ञाय सर्वैस्तर्कसदागमैः ।
उपासीत हरिं नित्यं गुणैरेव स्वयोगतः ॥ मनुव्_3,3.170च्-f ॥
*10,328f.*
न्यायसुधा:
नास्त्येव मोक्षः सत्त्वे वा साधनान्तरसाध्य इत्येतदनुपपन्नम् ।
किन्नाम निष्कामभगवदर्थश्रुत्यादिविहितकर्मानुष्ठानेन शुद्धान्तःकरणस्य रागादिदोषक्षये जातभगवद्भक्तेः श्रवणमनननिदिध्यासनाभ्यासवतः परमभागवतस्य भगवत्साक्षात्कारे जाते प्रसन्नो भगवानप्रारब्धानि कर्माणि विनाश्य भागवतधर्मप्रवृत्तये ज्ञानिनं कमपि कालं व्यवस्थापयंस्तदर्थं प्रारब्धानि कर्माण्यवशेष्य तत्फलोपभोगे सति तान्यपि विनाश्य प्रकृतिबन्धान्मोचयतीति सर्वं प्रतिज्ञाय गुणैरेव नतु सो ऽरोदीदित्यादिना प्रतीतैरप्यगुणैरिति समाने चेति सूत्रखण्डस्यार्थमनुवदति ।
युक्तमिति शेषः ।
स्वयोग्यत एव नतु योग्यतातिक्रमेणेति प्राप्तेश्चे(त्यादिसू)ति सूत्रार्थानुवादः ।
प्रयोजनं चोत्तरेण सङ्गतिसूचनमिति ।
*10,329*
स्वयोग्यत इत्युक्तम् ।
तामेव योग्यतां विवृणोति- ब्रह्मेति ॥
ब्रह्मा सर्वैगुणैश्चैव क्रियासामान्यतश्च गीः ।
गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे

3.3.32

*10,330*
न्यायसुधा:
ब्रह्मैवेति सम्बन्धः ।
सर्वैर्वेदोदितैः ।
चशब्दः क्रियाद्रव्यसमुच्चयाथर्ः ।
हरिमुपासीतेति वर्तते ।
वेदोक्तसमस्तगुणक्रियोपेततयानन्तरूपं हरिमुपासितुं ब्रह्मैव योग्य इत्यर्थः ।
चस्त्वर्थः ।
सरस्वती तु क्रियासामान्यतः क्रियासङ्कोचेनोपास्ते ।
सकलवेदोक्तगुणोपेततयानन्तरूपं हरिमुपास्ते ।
त्रिविक्रमत्वादिक्रियास्तु नित्यविक्रान्त्यादिष्वन्तर्भावयतीत्यर्थः ।
गुणसामान्यतः समस्तरूपाण्युपास्ते ।
गुणान्क्रियांश्च सङ्कोचयतीत्यर्थः ।
परे शक्रादयः ।
द्रव्याणि रूपाणि गुणक्रियासङ्कोचस्तु सिद्ध एव ।
एतेन"समान एवं चाभेदात्ऽ; इत्यधिकरणतात्पर्यमुक्तं भवति ।
विद्यैव तु निर्धारणादित्यतः पूर्वमेवेदमदिकरणम् ।
तत्कुतो व्यत्यासेन व्याख्यानम् ।
उच्यते ।
प्रकरणशुद्धौ प्रमेयं सुग्रहं भवतीत्यतः क्रमभङ्गः ।
तथाहि ।
उपासनस्वरूपानिश्चये न को ऽपि विचारो ऽवकाशं लभत इति तत्स्वरूपमादौ दर्शितम् ।
ततस्तस्य कर्तव्यता समर्थिता ।
अनन्तरं तदितिकर्तव्यताजिज्ञासायां योग्यतादिविचार इति ।
॥ इति विद्याधिकरणम् ॥
*10,332*
[======= ज्न्य्स्_3,3.व्: यावदधिकाराधिकरण =======]
॥ अथ यावदधिकाराधिकरणम् ॥
॥ ओं यावदधिकारमवस्थितिराधिकारिकाणाम् ओं ॥
एतद्यथा यथेत्यादिना भाष्ये व्याख्यातम् ।
तदविस्पष्टम् ।
अधिकारविशेषस्य कारणत्वानभिधानात् ।
मुक्तावित्युक्त्या संसारे नैवमिति प्रतीतेः ।
आनन्दमात्रग्रहणाद्गुणानन्तरव्यावृत्तिप्राप्तेः ।
धर्मिणामनिर्देशाच्च ।
अतः स्पष्टं व्याचष्टे- अधिकारेति ॥
यावदधिकारम् अवस्थितिर् आधिकारिकाणाम्

3.3.172

अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।
विशेषो देवतादीनां ... ॥ मनुव्_3,3.172अ-च् ॥
न्यायसुधा:
अधिकारो योग्यता ।
अत्र सामान्योक्त्या मुक्तौ संसारे चेति गम्यते ।
तर्हि मुक्ताविति कस्मादुक्तमित्यत आह- मोक्षे चेति ॥
... मोक्षे चैव विशेषतः

3.3.33

न्यायसुधा:
चस्त्वर्थः ।
विशेषतस्तु मोक्ष एवेत्यन्वयः ।
संसारे विक्षेपवशाद्योग्यतानुसारित्वं किञ्चिद्विहन्यते ।
मोक्षे तदभावाद्योग्यतानुसार्येव नियमेन भक्त्यादिकं भवतीत्यतो मुक्तावित्युक्तमिति ।
एवं तर्हि मुक्तानां परस्परं द्वेषेर्ष्यादिप्रसङ्गेन मुक्तत्वविरोधः स्यादित्याशङ्कापरिहारार्थं सूत्रम्"अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्ऽ; इति ।
एतदप्यविशदम् ।
दोषाभावसाम्यादित्यत्र साम्यपदप्रयोजनादर्शनात् ।
उत्तमेभ्यो ऽन्येषां भावादित्यस्योत्पत्तेरिति प्रतीतेः ।
शिष्यवदिति चायुक्तम् ।
क्वचिच्छिष्यस्यापि गुरौ द्वेषादिदर्शनात ।
अतो व्याख्याति- नेति ॥
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्

3.3.173

*10,333*
न तावता विरोधो ऽस्ति निर्दोषत्वात् समस्तशः ।
आभासत्वात् परेषां तदवराणां च सर्वशः

3.3.174

न्यायसुधा:
तावता परस्परमसाम्येन द्वेषादिप्रसङ्गेन मुक्तत्वविरोधो ऽस्ति ।
साम्यशब्दस्यार्थः समस्तश इति ।
उत्तमेभ्य इत्यस्य विवरणमाभासत्वादिति ।
तदवराणां सर्वेषां पराभासत्वाच्चेति योजना ।
एतदेव विवृण्वन्दृष्टान्तं व्याख्याति- यत इति ॥
यतो ऽवराणां सर्वे ऽपि गुणाः सर्वाः क्रिया अपि ।
नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः ।
अतः सच्छिष्यवत् तेषां नैवेर्ष्यादिः कथञ्चन

3.3.175

न्यायसुधा:
गुरौ सच्छिष्यस्येवेत्यर्थः ।
एतच्चोत्तरत्र स्फुटीकरिष्यत्याचार्यः ।
*10,324*
चिरन्तनास्तु वृत्तिकाराः सूत्रद्वयमिदमन्यथा व्याचक्षते ।
विदुषां किं ज्ञानोदयानन्तरमेव मुक्तिः किंवा नेति संशये पूर्वस्मिन्पक्षे सतीदमुच्यते ।
आधिकारिकाणां परमेश्वरदत्ताधिकारे वर्तमानानां विदुषामपि देवादीनां यावदधिकारं संसारे ऽवस्थितिः ।
न तदैव मुक्तिः ।
तथा श्रुत्यादिषु दर्शनात् ।
सत्यामपि साधनसम्पत्तौ यदि न मोक्षस्तदा न तेषां कदापि मोक्षः स्यादित्याशङ्कापरिहाराय द्वितीयं सूत्रम् ।
ब्रह्मविदां न मोक्षाभावरूपो विरोधः ।
कुतः ।
सामान्यतद्भावाभ्यां सामान्यविशेषभावाभ्याम् ।
यद्यपि क्षीयन्ते चास्य कर्माणीति सामान्यतः सर्वकर्मणां ज्ञानेन क्षयो ऽभिहितस्तथापि तस्य तावदेव चिरमिति विशेषवचनात्प्रारब्धकर्मणामवशेषो गम्यते ।
एतदुक्तं भवति ।
अप्रारब्धानि कर्माणि निवर्तन्ते ।
प्रारब्धस्य तु भोगेनैव क्षयः ।
अतस्तत्फलभूते ऽधिकारे स्थित्वा तत्क्षये प्रव्रज्यन्त इति ।
मायावादिनस्तु प्रथमसूत्रस्यैवायं समस्तो ऽर्थ इति वर्णयन्तो ऽक्षरधियामित्येतदधिकरणान्तरं व्याचक्षते ।
जोस्हि-26
*10,336*
त्राद्यं मतं निराकरोति- नचेति ॥
न च संसारिदेवानां कालेयत्तापरे इमे ।
सूत्रे ... ॥ मनुव्_3,3.175अ-च् ॥
न्यायसुधा:
संसारावस्थानस्य कालेयत्ता कालमर्यादा प्रारब्धकर्मफलभोगावसानरूपा सा परा उद्देश्या प्रतिपाद्या ययोस्ते तथोक्ते ।
कुतो नेत्यत आह- हीति ॥
... ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः

3.3.176

अनारब्धकार्ये भोगेन त्वितरे इति चोदितः
न्यायसुधा:
यस्मादनारब्धस्य ज्ञानेनैव क्षय आरब्धमात्रस्य भोगेनैव क्षयो ध्रुव इत्येषो ऽथ"अनारब्धकार्ये एव तु पूर्वे तदवधेःऽ; इति सूत्रेण,"भोगेन त्वितरे क्षपयित्वाथ सम्पत्स्यतेऽ; इति च सूत्रेणोदितः ।
तस्मान्नेति सम्बन्धः ।
एवमुदितत्वे ऽपि कुतो नेत्याशङ्कां परिहरन्नपव्याख्यानिरासस्य प्रयोजनमाह- पौनरुक्त्येनेति ॥
पौनरुक्तयेन तेनैते उक्तार्थे इति निश्चयः

3.3.34

न्यायसुधा:
एतेन मायावादिनामपि (व्याख्यानं) मतं निरस्तम् ।
तात्पर्यभेदात्प्रपञ्चनभावाद्वा न पौनरुक्त्यमिति चेत् ।
स्यादेवम् ।
यद्यसङ्कीर्णं व्याख्यानान्तरं न स्यात् ।
तदिदमुक्तम्- इति निश्चय इति ॥
॥ इति यावदधिकराधिकरणम् ॥
*10,340*
[======= ज्न्य्स्_3,3.वि: इयदामननाधिकरण =======]
॥ अथ इयदामननाधिकरणम् ॥
॥ ओं इयदामननात् ओं ॥
येषां ज्ञानयोग्यानामिदं मुक्तिसंसारयोस्तारतम्यं समर्थितम् ।
ते छन्दोगानामुपनिषदि नामवागादिक्रमेण प्राणान्ता उक्ताः ।
तत्र किं प्राण एवाधिकारितारतम्यस्यावधिः उताधिको ऽप्यस्तीति संशये सतीयदेव देवतातारतम्यमिति सिद्धान्तितम् ।
तत्र न ज्ञायते कास्ता नामाद्या देवता इति ।
कथं च पञ्चदशैव अधिकानामपि भावादित्याशङ्कानिरासार्थं बृहत्संहितावचनमेव पठति- उषा इति ॥
इयदामननात्

3.3.177

उषाः स्वाहा च पर्जन्यो मित्रो ऽग्निर्वरुणो विधुः ।
प्रवहो ऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ।
उत्तरोत्तरतस्त्वेते गुणैः सर्वैश्च मुक्तिगाः

3.3.178

न्यायसुधा:
उषा अश्विनोर्भार्या ।
स्वाहाग्नेर्भार्या ।
पर्जन्यो मित्रश्चादित्यौ ।
प्रवहो मरुत् ।
अनिरुद्धः कामसुतः ।
एते मुक्तिगा संसारगाश्च सर्वैर्गुणैरुक्तमेवोत्तरत एव वर्तन्त इत्यर्थः ।
*10,340*
अधिकसद्भावशङ्कानिरासायैतेषां समानन्तरावस्थितांश्चाह- सूर्येत्यादिना ॥
*10,341*
सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः ।
शची रतिश्चानिरुद्धसमास्तारा च मित्रवत्

3.3.179

सोमवच्छतरूपा तु प्रसूतिर्वह्निवद् विराट् ।
पर्जन्यवद् वारुणी च तथा सञ्ज्ञा च रोहिणी

3.3.180

धर्मी च मित्रवत्त्वेन प्रावही परिकीर्तिता ।
मित्रपजर्न्यमध्यस्थावश्विनौ विघ्नवित्तपौ

3.3.181

भृगुरग्निसमो मित्रतन्मध्ये ब्रह्मपुत्रकाः ।
वरुणाग्न्यन्तरा तत्र नारदः प्राय इन्द्रवत्

3.3.182

कामः सुपर्णी चोमावद् वीन्द्रो रुद्रवदीरितः ।
निऋतिर्मित्रसदृशो विश्वामित्रः कसूनुवत्

3.3.183

वैवस्वतो मनुश्चाश्विपश्चादन्ये ततो ऽवराः ।
च्यवनोचथ्यवैन्याश्च शशबिन्दुश्च हैहयः ।
तद्वच्च विप्रराजन्यविशेषो ऽत्रापि कश्चन

3.3.184

तद्वत् प्रियव्रतश्चापि तदन्याः शतदेवताः ।
पजर्न्यमित्रान्तराळे तदन्ये तु ततो ऽवराः

3.3.185

न्यायसुधा:
तथेति शेषः ।
सूर्यधर्मौ सोमसमानौ ।
मन्वादयः पञ्चानिरुद्धसमानाः ।
मनुरत्र स्वायम्भुवो विवक्षितः ।
तारा बृहस्पतिभार्या ।
चस्त्वर्थः ।
मित्रेण तुल्यं वर्तत इति मित्रवत् ।
शतरूपा स्वायम्भुवस्य पत्नी सोमवत् ।
सूर्यधर्मावित्यत्रैवेयं वक्तव्या ।
सत्यम् ।
पतीनामुक्तौ इदानीमासां प्रस्तुतत्वात्पृथगुक्तिः ।
प्रसूतिर्दक्षपत्नी वह्निवत् ।
विराडनिरुद्धभार्या पर्जन्यवत् ।
वरुणस्येयं वारुणी ।
पुंयोगे तु वरुणानीति स्यात् ।
इन्द्रवरुणेति स्मरणात् ।
संज्ञा सूर्यभार्या ।
रोहिणी सोमभार्या ।
धर्मस्येयं धर्मी ।
वारुणी संज्ञा रोहिणी धार्मी च तथैव पर्जन्यवदेव ।
प्रवहस्येयं प्रवाही तु मित्रवदेव प्रकीर्तिता ।
अश्विनौ विघ्नपवित्तपौ मित्रपर्जन्यमध्यस्थाविति प्रत्येकं सम्बन्धः ।
एते चत्वारः परस्परं समा मित्रादधमाः ।
पर्जन्यादुत्तमा इत्यथर्ः ।
भृगुरग्निसम इति वक्ष्यमाणस्यापवादः ।
ब्रह्मपुत्रा मरीच्याद्या मित्रतन्मध्ये मित्राग्न्योर्मध्ये ।
परस्परं समा मित्रादुत्तमा अग्नेरधमा इत्यर्थः ।
तत्र तेषु ब्रह्मपुत्रेषु नारदो वरुणाग्न्यन्तरा वारुणादधमो ऽग्नेरुत्तम इत्यर्थः ।
तथाच दक्षभृगुनारदानां पृथगुक्तत्वाद्ब्रह्मपुत्रका मरीच्याद्याः सप्तैव ।
प्रायग्रहणेनेषन्न्यूनः ।
सुपर्णी गरुडभार्या ।
विश्वामित्रः कसूनुवत् ब्रह्मपुत्रैर्मचीच्याद्यैः समानः ।
वैवस्वतो मनुश्च कसूनुवदिति सम्बन्धः ।
*10,342*
स्वायम्भुवाद्वैवस्वताद्भगवदवतारात्तापसाच्चान्ये मनवस्ततो वैवस्वतादवराः ।
ते ऽश्विभ्यां पश्चात्पर्जन्यादुत्तमाः ।
च्यवनाद्याश्च तद्वत् ।
एकादशमनुसमानाः ।
अत्रैतेष्वपि विप्रराजन्यत्वनिमित्तः कश्चन विशेषो ऽस्ति ।
मुक्तावपि विप्रत्वादेर्भावात् ।
अत्र च्यवनोचथ्यौ विप्रौ ।
अन्ये राजन्याः प्रियव्रतो ऽपि तत् अवरमनुवदेव ।
तदन्या उक्तेभ्यो ऽन्याः शतदेवताः सोमार्हदेवताः शतान्तरगताः पर्जन्यमित्रान्तराले ।
पर्जन्यादुत्तमा मित्रादधमा अश्विनोः समाना इत्यर्थः ।
तदन्ये उक्तेभ्यो ऽन्ये तु देवास्ततः शतान्तर्गतदेवताभ्यो ऽवराः ।
अवरमनुसमाना इत्यर्थः ।
*10,350*
ननु महालक्ष्मीः प्राणादप्युत्तमास्ति ।
तत्कथं प्राणावसानत्वमधिकारिणामित्यत आह- एतेभ्य इति ॥
एतेभ्यो ऽभ्यधिका श्रीरस्तु सदा मुक्ता विशेषतः ।
तत्समो नास्ति परमो हरिरेव नचापरः

3.3.186

संहितायां बृहत्यां तु स्वयं भगवतोदितम् ।
तदेतदखिलं ... ॥ मनुव्_3,3.186अ-च् ॥
न्यायसुधा:
यद्यपि श्रीरेतेभ्यो विशेषतो ऽभ्यधिका ।
तथापि सदा मुक्ता बन्धरहितेति नाधिकारिवर्गे गृह्यते ।
तस्याः समो नास्तीति स्वरूपकथनम् ।
एतेन कामादितरत्र तत्र चायतनादिभ्य इत्यधिकरणस्य तात्पर्यमुक्तं भवति ।
परमो हरिरेव न चापर इत्यनेन"व्यतिहारो विशिंषन्ति हीतरवत्ऽ"सैव हि सत्यादयःऽ; इत्यधिकरणद्वयस्य तात्पर्यमुक्तं वेदितव्यम् ।
*10,351*
ननूपनिषदि नामाद्याः प्राणान्ताः पञ्चदशोक्ताः ।
अत्र चोषाः स्वाहेत्यादिना चतुर्दशशैव तत्कथं न विसंवाद इत्यतो बृहत्संहितावचनेनानुक्तमेकं स्वयमाह- प्राण इति ॥
... प्राण आहङ्कारिक एव च ।
इन्द्रादनन्तरो ... ॥ मनुव्_3,3.186च्-ए ॥
न्यायसुधा:
तैजसाहङ्कारादुत्पन्नः प्राणश्चापरो ऽस्ति ।
स चेन्द्रादनन्तरं एवानिरुद्धादुत्तमो ज्ञातव्यः ।
परप्राणव्यावृत्त्यर्थमाहङ्कारिक एवेत्युक्तम् ।
अयमत्र सङ्ग्रहः ।
पुष्करो नाम सर्वावरो देवः ।
"कलाभ्यश्चान्यादेवेभ्यः कर्म प्रत्यवरं यतः ।
कालाभ्यः पृथगुक्तं तत्पुष्करः कर्म चोच्यतेऽ; इत्यन्यत्रोक्तत्वात् ।
ततश्शनैश्चरो ऽधिकः ।
पृथिव्यात्मा शनिश्चेति वचनात् ।
तत उषाः(उपा) ।
ततो बुधः ।
उदकात्मको बुधश्चेति वचनात् ।
ततः स्वाहा ।
ततः पर्जन्यो वारुणी संज्ञा रोहिणी धार्मी विराट् ।
तत एकादश मनश्च्यवनोचथ्यवैन्यशशबिन्दुहैहयप्रियव्रतगया अनुक्तदेवाश्च ।
"प्रियव्रतो गयश्चैव कर्मदेवसमौ मतौऽ; इत्यन्यत्रोक्तत्वात् ।
ततो ऽश्विनौ विघ्नेशवित्तपौ विष्वक्सेनश्च ।
विष्वक्सेनो वायुजः स्वेन तुल्य इति वचनात् ।
ततो मित्रो निरृतिस्तारा प्रावहीति च ।
ततो मरीचिरत्र्यङ्गिराः पुलस्त्यः पुलहः क्रतुर्वसिष्ठो विश्वामित्रो वैवस्वतमनुश्च ।
ततो ऽग्निर्भृगुः प्रसूतिश्च ।
ततो नारदः ।
ततो वरुणः ।
*10,352*
ततश्चन्द्रसूर्यधर्माः शतरूपा च ।
ततः प्रवहः ।
ततो ऽनिरुद्धस्वायम्भुवबृहस्पतिदक्षाः शची रतिश्च ।
तत आहङ्कारिकः प्राणः ।
तत इन्द्रकामौ ।
तत उमा सुपर्णी उमात्मकत्वाच्छेषभार्या च ।
ततो जाम्बवत्याद्या भगवन्महिष्यष्षट् ।
अन्यत्रोक्तत्वात् ।
अन्यत्रोक्तत्वात् ।
ततो रुद्रात्मकत्वाच्छेषश्च ।
ततो भारती तदात्मकत्वात्सरस्वती च ।
ततो मुख्यवायुस्तदात्मकत्वाद्ब्रह्मा च ।
ततो महालक्ष्मीः ।
ततो भगवानिति ।
॥ इति इयदामनाधिकरणम् ॥
*10,354*
[======= ज्न्य्स्_3,3.विइ: दर्शनभेदाधिकरण =======]
॥ अथ दर्शनभेदाधिकरणम् ॥
॥ ओं प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ओं ॥
एतद्वयाख्यातं भाष्ये उपासनाभेदवद्दर्शनभेद इति ।
तदस्पष्टम् ।
दर्शनभेदे मूलकारणस्यानुक्तत्वात् ।
ततो व्याख्याति- दृष्टिरिति ॥
प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् । ब्ब्स्_??? ।
... दृष्टिरपि योग्यानुसारतः

3.3.43

न्यायसुधा:
नानाविधेति शेषः ।
॥ इति दर्शनभेदाधिकरणम् ॥
*10,355*
[======= ज्न्य्स्_3,3.विइइ: प्रदानाधिकरणगुरुप्रसादाधिकरण =======]
॥ अथ प्रदानाधिकरणगुरुप्रसादाधिकरणौ ॥
॥ ओं प्रदानवदेव तदुक्तम् ओं ॥
अत्र प्रकृष्टं दानं प्रदानम् ।
प्रशब्दो न स्फुटं व्याख्यातो भाष्ये ।
अतः सूत्रार्थमाह- सम्यगिति ॥
प्रदानवद् एव तद् उक्तम्

3.3.44

लिङ्गभूयस्त्वात् तद् धि बलीयस् तद् अपि

3.3.187

सम्यग् गुरुप्रसादश्च मुख्यतो दृष्टिकारणम्
न्यायसुधा:
न केवलं श्रवणादि किन्तु सम्यग्गुरुप्रसादश्च ।
सम्यक् प्रसादपूर्वकं गुरोर्यद्विद्यादानं तच्च भगवद्दृष्टेः कारणमित्यर्थः ।
ननु"प्रज्ञान्तरपृथक्त्ववत्ऽ; इति सूत्रं प्रदानवदेवेत्यतः पश्चात्तनं तत्कुतो व्युत्क्रमः ।
उच्यते ।
योग्यताचिन्तासङ्गतं तदिति प्रकरणशुद्धये पूर्वमेव व्याख्यातमिति न दोषः ।
॥ ओं लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ओं ॥
अत्र गुरुप्र(साद)दानस्य बलवत्त्वमुक्तम् ।
तदयुक्तम् ।
श्रवणादितो हि बलवत्त्वम् ।
तच्च प्रदानशब्दार्थान्तर्गतमेव ।
नहि स्वस्मादेव स्वय बलीय इति सम्भवतीत्यतो व्याचष्टे- सम्यगिति ॥
मुख्यतः श्रवणाद्यपेक्षयातिशयेन ।
अयमभिसन्धिः ।
प्रदानशब्देन हि सम्यग्गुरुप्रसादपूर्वकं दानं प्रकृतम् ।
तत्र सम्यग्गुरुप्रसादमात्रं तदिति अत्र परामृश्यत इति ।
लिङ्गभूयस्त्वादित्युक्तम् ।
यास्वाख्यायिकासु लिङ्गानि दृश्यन्ते तत्र गुरुप्रसादेनैव ज्ञानप्राप्तिश्रवणात् श्रवणादिकं न करणीयमिति शङ्का स्यात्तां निवारयितुं तदपीत्युक्तम् ।
तद्वयाख्याति- श्रवणादि चेति ॥
श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित्

3.3.45

*10,355f.*
न्यायसुधा:
कुत इत्यत आह- नान्यथेति ॥
अन्वयव्यतिरेकाभ्यां श्रुत्या च प्रमाणानामेव प्रमेयाधिगतिसाधनत्वनिश्चयादिति भावः ।
आख्यायिकास्वपि श्रवणादीनामनुक्तिमात्रम् ।
न पुनरभावोक्तिरस्ति ॥
इति प्रदानाधिकरणगुरुप्रसादाधिकरणौ ॥
*10,358*
[======= ज्न्य्स्_3,3.इx: पूर्वविकल्पाधिकरण =======]
॥ अथ पूर्वविकल्पाधिकरणम् ॥
॥ ओं पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ओं ॥
किं प्रथमप्राप्त एव गुरुरुत तं परित्यज्यान्यो ऽपि स्वीकर्तुं शक्यत इति संशये"गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत्ऽ; इति गुरुपरित्यागे दोषस्मरणात्प्रथमप्राप्त एवेति प्राप्ते विकल्प उच्यते ।
स हीनसमोत्तमेषु किंविषय इति न ज्ञायते ।
दोषस्मरणस्य का गतिरित्यतो व्यक्तं व्याख्याति- गुणाधिकमिति ॥
पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत्

3.3.188

गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात् क्वचित्
न्यायसुधा:
क्वचित्प्रयोजनविशेषे ऽपि ।
दोषस्मरणं तद्विषयमिति भावः ।
एवं तर्हि सौत्रो विकल्पो ऽधिकगुरुप्राप्तिविषयः किमिति नेत्याह- विपर्ययस्त्विति ॥
विपर्ययस्तु कर्तव्यः सर्वथा मुक्तिमिच्छता

3.3.189

न्यायसुधा:
अधमगुरुपरित्यागेनोत्तमगुरुस्वीकार इत्यर्थः ।
अन्यथा दैवादादावल्पं गुरुं प्राप्तस्य शिष्यस्य प्रज्ञोत्कर्षवतो जातयोः संशयविपर्यासयोरज्ञानस्य च निवृत्तिर्न स्यात् ।
तदिदमुक्तं शुभमिच्छतेति ।
एवं तर्ह्यनुपदिशत उत्तमस्य त्यागेनोपदिशतो ऽधमस्य स्वीकारो ऽपि कर्तव्यः स्यात् ।
सत्यम् ।
प्रतिषेधवचनेन तत्रापोदितो ऽयं न्यायः ।
तर्हि सौत्रस्य विकल्पस्य को विषय इत्यत आह- सम इति ॥
*10,359*
समे विकल्प एव स्यात् ...
न्यायसुधा:
पूर्वस्वीकृतेन गुरुणा समे गुरौ स्वयमेव प्राप्ते सति स्वीकारस्य विकल्प एव स्यात् ।
न तु नियमः ।
सम एवेति वा सम्बन्धः ।
दोषस्मृतेर्विषयान्तरं च दर्शयितुमाह- पूर्वेति ॥
... पूर्वानुज्ञा च सर्वथा
न्यायसुधा:
समगुर्वन्तरस्वीकारे पूर्वस्यानुज्ञा च सर्वथा भाव्या ।
विनानुज्ञया समानपूर्वपरित्यागविषयं दोषस्मरणमिति भावः ।
*10,360*
पूर्वानुज्ञा चेत्येतद्गुर्वन्तरप्राप्तिमात्रविषयमिति मन्दप्रतीतिनिरासायाह- तदुत्तमेति ॥
तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते

3.3.190

न्यायसुधा:
तदिति पूर्वप्राप्तस्य परामर्शः ।
तस्मादुत्तमस्य गुरोः प्राप्त्यै पूर्वस्यानुज्ञा न मार्गणीया ।
गुरुप्रसादः सर्वथा भाव्य इति सूत्रकृतोक्तम् ।
तद्विद्यादेवतयोरपि प्रसादस्योपलक्षणमिति विवक्षुर्गुरुविद्यादेवतास्वरूपं तावदाह- गुरुरिति ॥
गुरुबर्रह्माखिलानां च विद्या चैव सरस्वती ।
देवता भगवान् विष्णुः सर्वेषामविशेषतः

3.3.191

*10,361*
न्यायसुधा:
येषां तेषामिति विशेषं विहाय सर्वेषामेव ।
ततः किमित्यत आह- तदिति ॥
तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन
न्यायसुधा:
न केवलं गुरुप्रसादेन किन्तु विद्यादेवतयोरपीत्यर्थः ।
मुक्तिरिति ज्ञानादेरुपलक्षणम् ।
साधारणगुरुमुक्त्वासाधारणानाह- स्योत्तमास्त्विति ॥
स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः श्रुताः
*10,362*
न्यायसुधा:
क्रमेणैवेति साक्षादुत्तमो गरुस्ततो ऽप्युत्तमो गुरुतर इत्यादि ।
एवं विद्याविशेषे तद्देवताविशेषो ऽपि ज्ञातव्यः ।
नन्वस्तु विद्यात्वं विद्याभिमानित्वात्सरस्वत्यादीनाम् ।
देवतात्वं च विद्याप्रतिपाद्यत्वाद्विष्णोः ।
ब्रह्मणो गुरुत्वं तु कुतः ।
विद्योपदेष्यृत्वं हि गुरुत्वम् ।
नच सर्वान्प्रति ब्रह्मणस्तदस्तीत्यत आह- उपदेश इति ॥
उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये

3.3.52

न्यायसुधा:
इह जन्मान्तरे वा हिरण्यगर्भोपदेशेन विना न कस्यापि मुक्तिरित्यतस्तस्य गुरुत्वमुपपन्नम् ।
तदितरेषामप्युत्तमानां विद्यासम्प्रदायप्रवर्तकत्वाद्गुरुत्वमप्रवर्तकानां त्वनुग्राहकत्वादिनेति ।
॥ इति पूर्वविकल्पाधिकरणम् ॥
*10,364*
[======= ज्न्य्स्_3,3.x: ताद्विद्याधिकरण =======]
॥ अथ ताद्विद्याधिकरणम् ॥
॥ ओं परेण च शब्दस्य ताद्विध्वं भूयस्त्वात्त्वनुबन्धः ओं ॥
भक्तिरेवैनं नयतीत्यादिश्रुतेर्भक्तिरेव मोक्षादिसाधनं न परमात्मा ।
यथैकलव्यस्य गुरुभक्तिरेव विद्याप्राप्तिसाधनं न गुरुरित्येवं प्राप्ते इदमुक्तम् ।
तत्र भाष्यम् ।
प्रधानसाधनत्वाद्भक्तिः करणत्वेनोच्यत इति ।
तत्रप्रकृतत्वाद्भगवदपेक्षयैव भक्तेः प्राधान्यमिति प्रतीतिः सयात्तां निवारयितुमाह- साधनेभ्य इति ॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः

3.3.192

साधनेभ्यो ऽधिका भक्तिर् ...
न्यायसुधा:
मोक्षसाधनेभ्यो ज्ञानादिभ्यः ।
एतदपि तादृगेव भगवतो ऽपि मोक्षसाधनत्वादित्यत आह- नैवेति ॥
... नैवान्यत् तादृशं क्वचित्
न्यायसुधा:
क्वचिन्मुक्तौ ज्ञानादौ वा भगवतोन्यत्साधनं भक्तिसदृशं नैवास्तीत्यर्थः ।
भक्तिरिति सामान्येनोक्तं न ज्ञायते किंविषया कथं चेति ।
अत आह- भक्तिश्चेति ॥
भक्तिश्चैव हरावेव मुख्यान्यत्र यथाक्रमम्

3.3.193

न्यायसुधा:
हरावेव मुख्या सर्वाधिका न तथान्यत्र ।
अन्यत्रापि यथाक्रममेव न तु साम्येनाक्रमेण वेत्यर्थः ।
तदियत्तामाह- स्वाधिकेति ॥
*10,365*
स्वाधिका त्वेव सर्वत्र स्वोत्तमेषु क्रमेण च
न्यायसुधा:
साक्षात्स्वोत्तमे स्वाधिकैव कर्तव्या ।
अन्यत्र स्वोत्तमेषु तदुत्तमत्वक्रमेणेत्यर्थः ।
यद्यप्येषो ऽथर्ः प्रागुक्तस्तथापि तात्पर्यातिशयद्योतनाय पुनरुक्तः ।
भक्तिः साधनं चेन्मुक्तिप्राप्त्यनन्तरं नास्तीति प्रतीतिः स्यात् ।
फलप्राप्तौ साधननिवृत्तिदर्शनात् ।
तन्निवृत्त्यर्थमाह- अनुवर्तते चेति ॥
*10,366*
अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी
न्यायसुधा:
प्रेमविशेषो हि भक्तिर्नाम ।
उपकारकत्वज्ञानाज्जाता हि प्रेमा कृतमहोपकारे नितरां वर्धत इत्येव खलु युक्तं न तु हीयत इति ।
तदेतत् अस्तीत्यनुक्त्वानुवर्तत इति वदता सूचितम् ।
तर्हि तस्याः फलमपि किञ्चित्स्यादित्यत आह- आनन्दरूपिणीति ॥
प्राक्कर्तव्यतया प्रकृता ।
अतः साधनरूपा ।
मुक्तौ तु स्वभावभूताविर्भूताफलरूपैव ।
पादार्थमुपसंहरति- तदिति ॥
तत्पूर्वकोपासनैवं कर्तव्या मुक्तये गुणैः

मूल पाठ: Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc