न्यायसुधा · अध्याय 3.1
*8,648*
न्यायसुधा:
तत्र चतुर्थपादे ।
तादृशाः तच्छब्दवाच्याः ।
निर्णयस्य सिद्धान्तस्य ।
तादृशाश्चेत्कथं निर्णयं कुर्युरित्यत उक्तम्- सुनिर्णीतास्त्विति ॥
तादृशार्था इति शेषः ।
कुत एतदित्यत उक्तम्- स्वयमिति ॥
स्वयमेवेति सम्बन्धः ।
॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीये ऽध्याये ऽस्मिंश्चरमचरणः पर्यवसितः ॥
॥ इति श्रीमन्न्यायसुधायां द्वितीयाध्यायस्य चतुर्थः पादः ॥
अध्यय 3, पद 1
*9,1*
॥ अथ श्रीमन्न्यायसुधायां तृतीयाध्यायस्य प्रथमः पादः ॥
कृपिताहिफणच्छायासमीकृत्यापरं सुखम् ।
सेवन्ते यत्पदं धीरास्तं भजेवल्लभं श्रियः ॥
साधनविचारो ऽयमध्यायः ।
वैराग्यार्थे गत्यादिनिरूपणा प्रथमपाद इत्यध्यायपादप्रतिपाद्यं भाष्य एव स्फुटम् ।
सङ्गतिं तु लाघवायैकीकृत्योपरि वक्ष्याम इत्याशयवांस्तृतीया(ध्याय)द्यपादाधिकरणपूवर्पक्षसिद्धान्तयुक्तीः सङ्ग्रहेणाह- स्वाभाविकेति ॥
स्वाभाविकान्यथानामसहाभावान्यथोक्तयः ।
अविशेषो विशेषौ च सहभावो विमिश्रता
विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ।
युक्तयः पूर्वपक्षस्य गुणाधिक्यार्थतोभवौ
उपपत्तिर्द्विरूपत्वमाधिक्यमनुरूपता ।
योग्यता प्रबलत्वं च विभागः कारणाभवः ।
कॢप्तिरन्यागतिश्चैव सिद्धान्तस्यैव साधकाः
न्यायसुधा:
साधका इति वक्ष्यमाणं पूर्वपक्षस्येत्यत्रापि सम्बद्धयते ।
पूर्वपक्षस्य सिद्धान्तस्येति जातावेकवचनम् ।
साधका इति छान्दसो निर्देशः ।
यद्वा युक्तयः पूर्वपक्षस्येत्यत्र साधका इति न्यकृष्टते ।
पूर्वपक्षसम्बन्धिनो युक्तय इत्येवार्थः ।
सिद्धान्तस्यैव साधका इत्यत्र तु न्याया इति शेषः ।
*9,10*
अत्र सूत्रम् योनेः शरीरमिति ।
तद्वयाख्यातं भाष्ये ।
स्वर्गादवाग्गतो जीवो वृष्टिद्वारा व्रीह्यादिबीजेषु सङ्क्रान्तो रेतस्मि(चंपु)क्पुरुषं प्रविश्य सह रेतसा मात्र्योनिद्वारेण जठरं प्रविष्यः कललबृद्बुदादिक्रमेणोत्पन्नं शरीरमाप्नोतीति प्रसिद्धम् ।
तत्किं तथ्यमुतातथ्यमिति सन्देहः ।
न तथ्यमिति पूर्वः पक्षः ।
कुतः ।
"देहं गर्भस्थितं क्वापि प्रविशेत्स्वर्गतो गतःऽ; इत्यादिवचनात् ।
मान्धातृद्रोणद्रुपदकृपाकादीनामितिहासपुराणेषु विनैव बीजादिसम्बन्धेन जननदर्शनाच्च ।
अन्यथासिद्धे चार्थे न बहुकल्पना युक्ता ।
अतस्ते वैराग्यजनका(यैवार्)थमेवाध्यात्मविदां वादाःऽ; इति ।
तथ्यमिति सिद्धान्तः ।
कस्मात् ।
"मेमेघो भूत्वा वर्षति ।
त(द्य) इह व्रीहियवा ओष(धिवनस्पतय)धयस्तिलामाषा इति जायन्ते ।
यो यो ह्यन्नमत्ति ।
यो वा रेतः सिञ्चति तद्रूपाद्भूय एव भवति ।
तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्यन्तेऽ; इत्यादिश्रुतेः ।
न चादृष्टे ऽर्थेन्यथासिद्धिरवकाशवती ।
नच वचनान्तरलिङ्गदशर्नविरोधः ।
क्वचिद् बीजादिसम्बन्धाभावस्यापि विद्यामानत्वेन तद्विषयत्वात् ।
यथोक्तम् ।
"दिवः स्थास्नून् गच्छतिऽ; ।
"स्थावराणि दिवः प्राप्तःऽ; इति श्रुतिस्मृतिभ्यामिति ।
तदिदमयुक्तं व्याख्यानम् ।
उत्सूत्रत्वात् ।
यद्यप्यत्र योनिशब्दो बीजाद्युपलक्षणः शक्यो व्याख्यातुं तथापि तत्सम्बन्धनियम एव सूत्रे प्रतीयते ।
नतु क्वाचित्कस्तदभावो ऽपि ।
यदि च क्वचिद् बीजादिसम्बन्धाभावः स्यात्तदाऽकस्मिकत्वं स्यादित्यत आह- बीजेति ॥
योनेः शरीरम्
बीजापूरुषयोनीनां सङ्गातिनियमोज्खितिम् ।
अथशब्देन भगवानाह ... ॥ मनुव्_3,1.4अ-च् ॥
*9,11*
न्यायसुधा:
बीजशब्देन व्रीह्यादिकं रेतश्चोच्यते ।
सङ्गतिनियमोज्खितिं सम्बन्धातिनियमाभावम् ।
अयमर्थः ।
रेतःसिण्योगो ऽथेति पूर्वसूत्रादथशब्दो ऽत्राप्यनुवर्तते ।
स च प्रकृतादर्थादर्थान्तरे वर्तते ।
तथाच योनेः शरीरमापद्यते ।
क्वचित्तदभावेनापीत्यथशब्देन भगवान्सूत्रकारो बीजादिसम्ब(न्धे नि)न्धनियमाभावं सूत्रितवानित्यतो नोत्सूत्रत्वपर्यनुयोगो युक्त इति ।
यदुक्तमेवं सत्याकस्मिकत्वप्रसङ्ग इति तत्परिहरति- कारणतश्चेति ॥
... कारणतश्च ताम्
मूल पाठ: Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0