भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसुधा · अध्याय 2.4

2.4.1

न्यायसुधा:
॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमदवाक्यार्थविवृतौ द्वितीये ऽध्याये ऽस्मिन्गगनचरणः पर्यवसितः ॥
॥ इति द्वितीयाध्यायस्य तृतीयः पादः ॥
अध्यय 2, पद 4
*8,647*
॥ अथ द्वितीयाध्यायस्य चतुर्थः पादः ॥
यद्यपि चतुर्थपादे ऽपि श्रुतिवचनानां परस्परविरोध एव परिह्रियते ।
तथाप्यध्यात्मविषयत्वेन भेदसिद्धिरिति प्रागेव सूचितम् ।
प्रकारान्तरेण पादभेदं दर्शयितुमाह- श्रुत्यर्थ इति ॥
श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते ।
यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः ।
करोत्यनेन पादेन ... ॥ मनुव्_2,4.1अ-ए ॥
न्यायसुधा:
यद्यपि श्रुतिरित्येवोक्ते ऽपि सिद्धयत्यर्थ इति ।
वाक्यानामर्थद्वारैव विरोधस्थितेः ।
तथाप्यर्थनिर्णयायैव पादारम्भो न प्रामाण्यनिर्णयायातो न मीमांसात्वहनिरिति दर्शयितुमर्थ इत्युक्तम् ।
यद्यपि युक्तयः पूर्वपादे ऽपि सन्ति तथाप्यागमगृहीतव्याप्त्यादिमत्त्वेनात्र प्रबला इति विशेषः ।
पारमार्थिके विरोधे निणर्यो दुष्कर इत्यत इवेत्युक्तम् ।
यत्र प्राणादिविषये ।
श्रुत्यर्थो जन्मादिः ।
युक्त्युपसर्जनाभिः ।
श्रुतिभिर्विरुद्ध इव दृश्यते ।
तन्निर्णयमिति योजना ।
युक्तिसहितश्रुतिभिः पूर्वपक्षिते कथं श्रुतिमात्रेण तद्विपरीतार्थनिर्णय इत्यत उक्तम्- सुविशिष्येति ॥
अनेन बुद्धिसन्निहितेन ।
तथा प्राणा इत्यादीनां सूत्राणां भाष्य एवार्थो विस्पष्ट इत्यतः पूर्वोत्तरप(क्षीययु)क्षयुक्तीः सङ्गृह्याह- तत्रेति ॥
... तत्र स्पष्टार्थवच्छ्रुतिः

2.4.2

विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणाः ।
दृष्टायुक्तिः समानत्वं कर्तृशक्तिर्विमिश्रता

2.4.3

युक्तयः पूर्वपक्षेषु सुनिर्णीतासतु तादृशाः ।
युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः

मूल पाठ: Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc