न्यायसुधा · अध्याय 2.2
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ॥
तत् एवमुक्तप्रकारेण सर्वेषां धर्माणां गुणानां दोषाभावानां च सम्बन्धिन्यास्तत्प्रतिपादिकया उपपत्तेः तादृशैः सर्वगुणपूर्त्यादेरुपपादकैः ।
हिशब्दस्तेषां"गुणाः श्रुताःऽ; इत्यादीनां प्रसिद्धानां सूचयति ।
तदनेन स्वपक्षे प्रमाणमभिदधतैव परकीययुक्तीनां कालात्ययापदिष्टत्वं स्वातन्त्र्याभावोपाधिदुष्टत्वं चोक्तं भवतीति ।
॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्याथर्विवृतौ द्वितीयाध्यायस्य प्रथमचरणः पर्यवसितः ॥
॥ इति श्रीमन्न्यायसुधायां द्वितीयाध्यायस्य प्रथमचरणः समाप्तः ॥
अध्यय 2, पद 2
[======= ज्न्य्स्_2,2.इ: रचनानुपपत्त्यधिकरण =======]
॥ अथ श्रीमन्न्यायसुधायां रचनानुपपत्त्यधिकरणम् ॥
*7,1*
सकलजगज्जन्मादिकारणे सकलगुणपरिपूर्णे समस्तावद्यगन्धविधुरे परे ब्रह्मणि विष्णौ समस्तश्रुतिसमन्वयो यः प्रथमाध्याये ऽभिहितः, तस्य साङ्खयादिसमयविरोधेनान्यथात्वश(ङ्कायां तन्निराकरणार्थमयं)ङ्कां निवारयितुं द्वितीयपाद आरभ्यते ।
*7,4*
नन्वनारम्भणीय एवायं पादः ।
तथाहि साङ्खयादिमतानि किं स्मृतित्वेनोक्तार्थमन्यथमन्तीति शङ्कयते, किंवा युक्त्युपेततया, अथवा श्रुत्युपेततया, यद्वा प्रत्यक्षोपेततया ।
नाद्यः, प्रतिस्मृतिपराहतत्वेनाप्तिनिश्चायकाभावेन च तेषामपस्मृतित्वस्य प्रथमपादे समर्थितत्वात् ।
अत एव न चतुर्थः ।
न द्वितीयः ।
उक्तार्थविरुद्धानां सकलयुक्तीनामाभासत्वस्य तत्रैव व्युत्पादितत्वात् ।
प्रबलयुक्तिविरोधो ऽत्र निरस्यत इति चेन्न ।
प्राबल्यं हि युक्तीनां श्रुत्यादिप्रमाणमूलत्वेन, तत्संवादित्वेन (वा), बहुत्वेन वा स्यात् ।
सर्वथापि नाधिकाशङ्कावकाशः ।
श्रुत्यादिसंवादिनीनां तन्मूलानां बह्वीनां च युक्तीनां तत्रैव निराकृतत्वात् ।
काश्चिदेव तत्र निरस्ता न समस्ता इति चेन्न ।
सूत्राणामुपलक्षणार्थत्वात् ।
अन्यथा युक्त्याभासानामनन्तत्वेन अपर्यवसानं स्यात् ।
पादभेदश्चैवं सति न स्यात् ।
न तृतीयः, समस्तश्रुतीनां ब्रह्मणि समन्वयस्योक्तत्वात् ।
अत्र कश्चिदाह ।
स्वपक्षसादनपरपक्षप्रतिक्षेपाभ्यामेव निर्णयो भवति ।
तत्र प्रथमाध्याये स्वपक्षे प्रमाणमुक्तम् ।
तस्य युक्तिविरोधो द्वितीयस्य आद्यपादेन निरस्तः ।
एवं स्वपक्षस्थापने जाते परपक्षप्रतिक्षेपाथर्मयं वाद आरभ्यत इति ।
तदयुक्तम् ।
परपक्षप्रतिक्षेपो हि तदीयसाधननिरासादन्यो नास्ति ।
साधनानि च स्मृत्यादीन्येव ।
निरस्तानि च समस्तानि तानि प्रथमपाद इति किमस्य कृत्यम् ।
किञ्चैवं सति विरोधपरिहारो ऽध्यायार्थो न स्यादिति ।
अपर आह ।
उक्तार्थे स्मृतिन्यायविरोधो नास्तीति स्थापिते ऽप्यस्ति ब्रह्मणि समन्वयाभावशङ्का ।
कथम् ।
यद्यप्यनुमानं ब्रह्मणो जगत्कारणत्वमपबाधितुं नालम्, तथापि कारणान्तरं जगतो ऽवगमयितुमलम् ।
ततश्च वस्तुविकल्पानुपपत्तेरन्यतरपरिग्रहे हेत्वभावात् ब्रह्मैव जगत्कारणमिति न निश्चेतुं शक्यते, प्रत्युत सर्वज्ञप्रणेतृकत्वेनानुमानस्योपबृंहितत्वात् प्रधानाद्येव जगत्कारणं न ब्रह्मेति बुद्धिः स्यात् ।
अतो न केवलं ब्रह्मणो जगत्कारणत्वमपबाधितुमनुमानं नोत्सहते ।
किन्तु कारणान्तरमप्यवगमयितुं नालमिति प्रदर्शनार्थं द्वितीयः पाद आरभ्यत इति ।
एतदप्युक्तम् ।
तथाहि ।
किमनेनोक्तं स्यात् ।
यदि, प्राक् स्वाभिमतार्थे युक्तिविरोधपरिहारेण स्वपक्षस्थपाना विहिता, इदानीं परपक्षप्रतिक्षेपो विधीयत इति ।
तदोक्तमेवोत्तरम् ।
अथ युक्तिविरोधपरिहार एव पादद्वयार्थः, किन्तु स्वपक्षविरोधियुक्तिनिराकरणं प्रथमे, द्वितीये तु परपक्षसाधकयुक्तिनिराकरणमिति, तन्न ।
न्यायसाम्येन तासामपि शक्यनिराकरणत्वात् (सार्वज्ञं) सर्वज्ञत्वं च प्रणेतॄणां प्रागेव निरस्तम् ।
*7,5*
अतो नायं पाद आरम्भणीय इत्यत आह- स्मृतीति ॥
स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ।
एवं चतुर्विधा नैव विरुद्धयन्ते ऽन्वयं प्रति
इति प्रथमपादेन निर्णीते ऽप्यभियोगतः ।
दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः
न्यायसुधा:
श्रुतयो गुरा उपसर्जना(नि) यासां तास्तथोक्ताः ।
चतुर्विधा विरोधिप्रतीतयः ।
अन्वयं प्रति न विरुद्धयन्ते इति श्रुतिसमन्वयसिद्धमर्थं नान्यथयितुं शक्नुवन्तीत्यर्थः ।
अभियोग आग्रहः ।
दृश्यते प्रमेयमेभिरिति दर्शनानि साङ्खयादिशास्त्राणि ।
एतदुक्तं भवति ।
यद्यपि परमतसाधकानामस्मन्मतबाधकानां च स्मृत्यादीनामाभासत्वव्युत्पादनेन स्पपरपक्षसाधनोपालम्भौ कृतावेवेति परमार्थः ।
तथाप्युक्ते ऽर्थे पुनः पुरुषस्य आशङ्का भवत्येव, किमेतदेवमन्यथा वेति ।
कस्मात् ।
अभियोगतो (दर्शनानां) मतानां प्रवृत्तत्वात् तदुपलम्भादिति ।
*7,10*
ननु च श्रुतयस्तावदपौरुषेयतयानाशङ्कितदोषाः बहुल(प्रबल)युक्तिभिश्चानुसंहितार्था निरस्तसमस्तप्रतिपक्षाश्च ।
तत्कथं तत्समन्वयसिद्धे ऽर्थे ऽभियोगप्रवृत्तदर्शनोपलम्भमात्रेणान्यथात्वशङ्का स्यात् ।
अतिप्रसङ्गात् ।
नन्वत एवोक्तं मन्द इति ।
मैवम् ।
प्राप्तिमनालोच्य शङ्कमानस्याविचिकित्सितशङ्कस्य शास्त्रे ऽनधिकारादित्यतो ऽभियोगतो दर्शनानां प्रवृत्तत्वादित्युक्तशङ्काकारणं विवृणोति- अनादीति ॥
अनादिकालतो वृत्ताः समया हि प्रवाहतः ।
नचोच्छेदो ऽस्ति कस्यापि समयस्येत् ...
*7,11*
न्यायसुधा:
कपिलकणादादीनां प्रणेतॄणां स्मरणात्कथमनादित्वमित्यत उक्तम्- प्रवाहत इति ॥
कपिलादयो हि पूर्वैः प्रणीतान्येव शास्त्राणि कालबलादुत्सन्नानि स्व(तपः)प्रभावादिनावगम्य प्रबन्धान्तररचनया प्रवर्तयन्ति ।
एवं पूर्वे ऽपि पूर्वतरैरित्येवं प्रवाहतो ऽनादित्वाददोषः ।
तथैव च स्मरणानीति ।
इति हेतोराशङ्कित इति पूर्वेण सम्बन्धः ।
इदमुक्तं भवति ।
करणदोषबाधकप्रत्ययवशादेव ह्यप्रामाण्यं कल्पनीयम् ।
अन्यथा अतिप्रसङ्गात् ।
तत्र यता श्रुतीनामनादित्वात्करणदोषाभावः, तथा समयानामपि ।
स्वरूपानादित्वं प्रवाहानादित्वमिति तु वैषम्यमात्रम् ।
पुरुषदोषसञ्चाराभावस्योभयत्रापि साम्यात् ।
यथा चानुच्छेदेनानुवृत्तेः श्रुतीनां बाधकाभावः, एवं समयानामपि ।
यदि करणदोषबादकप्रत्ययोपेताः स्युः तदोन्मत्तवाक्यवदिदंप्रथमाः समुच्छेदवन्तश्च स्युः ।
नचैवम् ।
अतः कथमप्रामाण्यमश्नुवते ।
यथा च श्रुतयो बलवद्युक्त्यनुसंहितार्था एवं समया अपि ।
नच तासामाभासत्वमुक्तमिति वाच्यम् ।
सर्वेषां तदनुवर्तिनामस्माभिरनवगतत्वेन तत्परिहारसम्भावनात् ।
एवमेवाप्रतिपक्षत्वं श्रुतीनामिव समयानां सम्भावितम् ।
कथमन्यथा सूत्रकृदेकधुरीणाः शौद्धोदनिप्रभृतयो ऽभियोगतस्तान्प्रवर्तयेयुः, कथं च प्रेक्षावन्तो ऽनेके ऽभियोगेनैवोपाददीरन् ।
तदेवं श्रुतितुल्य(समान)योगक्षेमतां समयानां मन्यमानस्य स्यादेवोक्तार्थे सन्देह इति ।
*7,17*
नन्वेवं सति परस्परविरुद्धानामनेकेषां प्रामाण्यं तावन्न सम्भवति, वस्तुविकल्पापत्तेः ।
तथाचावश्याश्रयणीये कस्यचिदेव प्रामाण्ये अनादिकालतो ऽनुवृत्तत्वादेः अन्येष्वन्यथासिद्धौ सर्वथा कल्पनीयायाम्"इतरेषां चानुपलब्धेःऽ; इत्युक्तदिशा साङ्खयादिसमयानाम् अप्रामाण्यं कल्पयितुं शक्यत एव, तत्कथं श्रुतिसमन्वयसिद्धे ऽर्थे पुनः शङ्केति ।
उच्यते ।
यो हि इतरेषां चानुपलब्धेःऽ; इति सङ्क्षेपेणोदितं न्यायं पर(परि)कल्पितेषु प्रमेयविशेषेषूत्प्रेक्षितुं क्षमते, तं प्रत्येवमेतत् ।
यस्त्वेवं न क्षमः स यावदयं सङ्क्षेपो न प्रपञ्च्यते तावदन्यपरित्यागेनैकग्रहणस्यानीशानः शङ्केतैव ।
नचैवं शास्त्रे नाधिक्रियेत ।
सङ्ग्रहप्रपञ्चोच्छेदप्रसङ्गात् ।
तदिदमुक्तं मन्द आशङ्कत इति ।
किमतो यद्येवमित्यत आह- अत इति ॥
अतो विभुः
भ्रान्तिमूलत्वमेतेषां पृथग् दर्शयति स्फुटम्
न्यायसुधा:
भ्रान्तिपदं विप्रलम्भस्याप्युपलक्षणम् ।
पृथक् विस्तरेण ।
स्फुटम् सुबोधम् ।
तत्तत्समयोक्तार्थानामप्रामाणिकत्वं प्रमाणविरुद्धत्वं (च) प्राक् सङ्क्षेपेणास्फुटं चोक्तं, अत्र विस्तरेण स्फुटं दर्शयंस्तेषां भ्रान्त्यादिमूलत्वं ज्ञापयतीत्यर्थः ।
एतेन पूर्वपादेनास्य पादस्य प्रपञ्च्यप्रपञ्चकभावलक्षणा सङ्गतिः, प्रपञ्चने प्रयोजनं चोक्तं भवति ।
तदिदमुक्तमितरेषामित्यादि भाष्येण ।
*7,19*
नन्वेतदशक्यं तैः स्वप्रमेयाणां दृढतर्कागमसाधितत्वात् परकीयतर्कादेनिरस्तत्वादित्यत आह- तर्कैरिति ॥
तर्कैर्दृढतमैरेव वाक्यैश्चागमवादिनाम्
*7,19f.*
न्यायसुधा:
तर्कशब्दः सोपस्क(स्का)रानुमानार्थः ।
दृढतमैः परकीयतर्कबाधकैः तदबाध्यैः (च) वाक्यैश्च दृढतरै(मै)रिति सम्बद्धयते ।
पूर्वेण सम्बन्धः (अन्वयः) ।
वेदादिवाक्यानां प्रामाण्यमनभ्युपगच्छन्तं प्रति कथं तदुपन्यास इत्यत उक्तम्- आगमवादिनामिति ॥
आगमस्य वेदादेः प्रामाण्यमभ्युपगच्छतां पुंसां समयानामिति सम्बन्धः ।
यद्वा स्वागमप्रामाण्यवादिनामित्यर्थः ।
ततश्च स्वागमप्रामाण्याभ्युपगमन्यायेन वेदादेरपि प्रामाण्यं तैरङ्गीकार्यमिति(रयित्वेतिर् (येति) भावः ।
अथवाऽगमस्य वेदादेः प्रामाण्यवादिनां शिष्याणां व्यपेक्षयेति शेषः ।
तथाच बौद्धाधिकरणान्तेन न विरोधः ।
यद्यप्येतदनुपदमेव प्रदर्शयिष्यते, तथापि श्रोतृमनःसमाधानार्थमुक्तमिति ।
*7,21*
ननु चानाद्यनन्तकाले ऽनुच्छेदेन प्रवर्तमानानां समयानां न भ्रान्त्यादिमूलत्वमुचितम् ।
नहि तथाविधस्योन्मत्तवाक्यादेरनाद्यन्तकाले ऽनुवृत्तिरस्ति ।
तदयं प्रयोगः ।
साङ्खयादिसमयाः प्रमाणभूता, न भ्रान्त्यादि(न्ति)मूला वा, सर्वदानुवर्तमानत्वात्, महाजनपरिगृहीतत्वात्(वा), वेदवदिति ।
तथाच वक्ष्यमाणस्य तर्कादेर्बाधितविषयत्वमिति ।
मैवम् ।
किमत्र सर्वेषामपि समयानां प्रामाण्यादिकं साध्यमुतैकस्य ।
नाद्यः ।
परस्परविरुद्धानां प्रामाण्यादिसाधने वस्तुविकल्पापत्त्या बाधितविषयत्वात् ।
परस्परप्रतिक्षेपरूपत्वेन सत्प्रतिपक्षत्वाच्च ।
न द्वितीयः ।
पक्षीकृतादन्यस्य प्रामाण्याद्यभ्युपगमे प्रगुक्तदोषानुषङ्गात् ।
अनभ्युपगमे तत्रैव व्यभिचारात् ।
वेदप्रामाण्याद्यभ्युपगमे प्रतिज्ञातार्थानुपपत्तिः ।
अनभ्युपगमे च दृष्टान्तदोषः ।
भवेदेवम् ।
भ्रान्त्यादिमूलत्वे समाने सत्युन्मत्तवाक्ये ऽविद्यमानां अनाद्यनन्तकालानुवृत्तिरेतेषामेव तर्हि किन्निमित्तेति सुहृद्भावेन पृच्छन्तं प्रत्याह- दौर्लभ्यादिति ॥
*7,22*
दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् ।
तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ॥ मनुव्_2,2.5अ-द् ॥
न्यायसुधा:
समयप्रवर्तकानां पुंसां दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ।
नैक्यमुन्मत्तवाक्ये विद्यते ।
नन्वाग्रहे ऽपि किं कारणमित्यत उक्तम्- विद्वेषादिति ॥
विद्वेषात् परमे तत्त्वे तत्त्ववेदिषु चानिशम्
न्यायसुधा:
तर्हि द्वेषोत्पत्त्यनन्तरं प्रवर्तताम् ।
कथं सदा इत्यत उक्तम्- अनिशमिति ॥
ननु पुरुषार्थकामाः कथं (वि)द्वेषनिमित्तादाग्रहादन्यायं प्रवर्तयन्तीत्यत उक्तम्- अनादीति ॥
अनादिवासनायोगादसुराणां बहुत्वतः ।
दुराग्रहगृहीतत्वाद् वर्तन्ते समयाः सदा
न्यायसुधा:
वासनावशात्तेभ्यस्तदेव रोचयत इति भावः ।
नन्वनादिवासनापि बलवत्प्रयत्नेन कुतो न निवर्तत इत्यत उक्तम्- असुराणामिति ॥
विपरीतप्रयत्नादिप्रेरकाणां बुद्धयाद्यभिमानिनामिति शेषः ।
*7,24*
ननु साधूनां विदुषां निवारणात्कुतो न निवर्तन्त इत्यत उक्तम्- दौर्लभ्यादिति ॥
अल्पवेदिनां भ्रमाधिष्ठानस्वरूपमात्रविदां समयप्रवर्तकानाम् ।
तर्हि राजादिर्लोको निवारयिष्यति इत्यत उक्तम्- तामसत्वादिति ॥
तत एव कुपण्डितनिमित्तमिथ्याज्ञानप्रसक्तिश्च ।
न चैतानि कारणानि स्वरूपतो ऽप्यनादौ वेदे सम्भवन्तीति ।
यद्यप्येतत्पादान्ते वक्तव्यम्, तथाप्यत्र प्रसङ्गा(दा)गतं बुद्धिसमाधानायोक्तमिति ।
*7,25*
यद्येवं तर्ह्येतेषां सुदृढनिरूढानां समयानां सर्वथोत्सादनस्याशक्यत्वाद्वयर्थेयं निराकृतिरित्यत आह- तथापीति ॥
तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् ।
युयुक्तयस्तमो हन्युरागमानुगताः सदा
इति विद्यापतिः सम्यक् समयानां निराकृतिम् ।
चकार ... ॥ मनुव्_2,2.8अ-च् ॥
न्यायसुधा:
यद्यपि कुसुमया न सर्वथा समुच्छेद्याः तथापि ।
तमः अज्ञानम् ।
सुयुक्तित्वस्य विवरणं सदाऽगमानुगता इति ।
प्रमाणगृहीतव्याप्त्यादियुक्ताः तत्संवादयुक्ताश्च ।
इति इत्येवमर्थम् ।
एतदुक्तं भवति ।
न साङ्खयादिसमयसमुच्छेदार्थो ऽयं प्रयत्नः, येनोक्तदोषः स्यात् ।
किन्नाम केषाञ्चित्पुंसां तैस्तैः समयैराहिता(न)ज्ञानसंशयविपर्ययान् आगमसहिताभिर्युक्तिभिः तत्त्वज्ञानमुत्पाद्य अपनेतुमिति ।
*7,25f.*
नन्वेतदप्ययुक्तम् ।
अतिनिरूढनिबिडवासनानुबद्धमनाद्यज्ञानम् इदानीमेवोत्पन्नेन तत्त्वज्ञानेनापनीयत इति ।
किन्तु तत्त्वज्ञानं परिभूय स्ववासनावशात्पुनरुद्भवति ।
प्रवर्तयति च स्वोचितं कार्यमित्यत उक्तम्- शुद्धबुद्धीनामिति ॥
यथार्थज्ञानस्वभावानां मोक्षयोग्यानाम् ।
अयं भावः ।
वक्ष्यते हि केचन चेतना मोक्षयोग्याः केचन नेति ।
तत्र नायोग्यानामज्ञानमपनेतुमय--रम्भः, किन्तु योग्यानामेव ।
तेच विशुद्धविज्ञानस्वभावाः ।
तथाच प्रमाणैरिदानीमेवोत्पन्नमपीदं मनोवृत्तित्वं तत्त्वज्ञानमन्तरङ्गभूतेन
विशुद्धस्वरूपज्ञानेनोपोद्बलितं सत् बहिरङ्गमनाद्यपि सवासनमज्ञानं समूलघातं हन्ति ।
स्वभावस्य सर्वतो ऽपि बलवत्त्वात् ।
नचैवं प्रमाणवैयर्थ्यम् ।
स्वभावस्य बाह्यप्रयत्नसचिवस्यैव कार्यकारित्वात् ।
यथोक्तम्"विना यत्नं न हठो नापि कर्मऽ; इति ।
किञ्च सर्वतो ऽपि बलीयानीश्वरानुग्रह इति तावत्सुप्रसिद्धम् ।
अस्ति चासौ मोक्षयोग्येषु (जीवेषु) अनादित इति वक्ष्यते ।
तथाच तत्सचिवमिदं वृत्तिज्ञानमज्ञानमतिनिरूढनिबिडवासनानुबद्धमनाद्यपि समूलकाषं कषत्येव ।
अतो न व्यर्थेयं समयानां निराक्रियेति भावेनोक्तम्- ईशानुग्रहयोगिनामिति ॥
नचैवं तत एवाविद्यानिवृत्तिर्भविष्यति किं तत्त्वज्ञानेनेति वाच्यम् ।
ईश्वरानुग्रहस्य पुरुषप्रयत्नानुसारेणैव फलजननस्वाभाव्यात् ।
तथाचोक्तम्"फलप्रदो वासुदेवः अखिलस्यऽ; इति ।
अखिलस्य योग्यताकमर्प्रयत्नसाकल्यस्य न पुनरेकैकस्येत्यर्थः ।
*7,30*
यद्येवं साधूनां कुसुमयाहितमज्ञानमपनेतुं भगवान्समयानां निराकृतिं चकार, तदेयं ब्रह्मादिभिरनादर्तव्या स्यात् ।
तेषु कुसुमयैरज्ञानस्यानाहितत्वेन प्रयोजनाभावात् ।
तथाच"एवंविधानि सूत्राणि कृत्वाऽ; इत्यागमविरोध इत्यत आह- निजेति ॥
... निजभक्तानां बुद्धिशाणत्वसिद्धये
न्यायसुधा:
कुसुमयैरनाहिताज्ञानानां ब्रह्मादीनां बुद्धिं युक्तीनां शाणत्वसिद्धये युक्तिशाणेन ज्ञानासेः अतिनैशित्यसिद्धयर्थमिति यावत् ।
पूर्वेणैव सम्बन्धः ।
कुसुमया(हिता)ज्ञाननिरसनप्रयोजनाभावे ऽपि ज्ञानवैशद्यप्रयोजनस्य विद्यमानत्वात्तैरिदमादरणीयमिति भावः ।
॥ ओं रचनानुपपत्तेश्च नानुमानम् ओं ॥
तदेवं समर्थितः पादारम्भः ।
तत्राद्याधिकरणे निरीश्वरसाङ्खयानां निराक्रियते ।
नच तत्स्वरूपाज्ञाने दूषणं सुबोधं भवति इत्यतः तन्मतस्थितिं तावद्दर्शयति- चेतनेति ॥
रचनानुपपत्तेश् च नानुमानं
चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः ।
आहुस् ... ॥ मनुव्_2,2.9अ-च् ॥
*7,32*
न्यायसुधा:
चेतनमचेतनं चेति द्वन्द्वैकवद्भावः ।
आहुः सङ्खया इति शेषः ।
ननु च विधान्तरासम्भवात्प्रामाणिकैस्तत्त्वद्वयमेव वक्तव्यम्, तत्किं तेषां वैषम्यमुच्यत इत्यत उक्तम्- निरीश्वर इति ॥
ईश्वरमनभ्युपगम्य जीवजडात्मकं तत्त्वद्वयमेवाहुरित्यर्थः ।
*7,32f.*
ननु साङ्खया मन्यन्ते ।
सङ्क्षेपतस्तत्त्वस्य चतस्रो विधाः ।
कश्चिदर्थः प्रकृतिरेव ।
कश्चिदर्थो विकृतिरेव ।
कश्चित्प्रकृतिविकृतिः ।
कश्चितनुभयः ।
तत्र सत्त्वरजस्तमसां साम्यावस्था प्रधानं प्रकृतिरेव ।
सा हि विश्वस्य कार्यस्य मूलम् ।
न त्वस्या मूलान्तरमस्ति ।
महदहङ्कारतन्मात्राः सप्त प्रकृतिविकृतयः ।
प्रकृतयो विकृतयश्चेति ।
तथाहि ।
महत्तत्त्वमहङ्कारस्य प्रकृतिः विकृतिश्च मूलप्रकृतेः ।
एवमहङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणां च प्रकृतिः विकृतिश्च महतः ।
एवं पञ्च तन्मात्राणि (तत्त्वानि) भूतानामाकाशादीनां प्रकृतयो, विकृतयश्च अहङ्कारस्येति ।
पञ्च भूतान्येकादशेन्द्रियाणीति षोडशको गणो विकृतिरेव ।
यद्यपि पृथिव्यादीनामपि गोघटवृक्षादयो विकाराः, एवं तद्विकारभेदाः पयोबीजादयः, तेषां दध्यङ्कुरादयः ।
तथापि गवादयो बीजादयो वा न पृथिव्यादिभ्यस्तत्त्वान्तरम् ।
स्थूलतेन्द्रियग्राह्यतासाम्यात् ।
तत्त्वोपादानत्वं च प्रकृतित्वमिह विवक्षितमिति ।
पुरुषस्त्वनुभयो न प्रकृतिर्नापि विकृतिः ।
तदेवं विस्तरतः पञ्चविंशति तत्त्वानि ।
यथोक्तम् ।
"मूलप्रकृतिविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न पृकृतिर्न विकृतिः पुरुषःऽ; इति ।
तत्कथमुच्यते तत्त्वद्वयमेवाहुरिति, आह- तदिति ॥
... तत् पञ्चपञ्चत्वविभागस्थमचेतनम् ।
चेतनं ... ॥ मनुव्_2,2.9च्-ए ॥
न्यायसुधा:
पञ्च च ते पञ्चतश्च (पञ्चपञ्चतः) तेषां भावः पञ्चपञ्चत्वम् ।
स चासौ विभागश्च ।
तेनोपलक्षितं तिष्ठतीति पञ्चपञ्चत्वविभागस्थम् ।
तत् चेतनमचेतनं च तत्त्वद्वयमेव, सङ्क्षेपतः चतुर्विधम्, विस्तरतः पञ्चविंशतिप्रभेदमाहुरित्यतो न विरोधः ।
ननु चेतनमचेतनं चासङ्खयातं प्रत्यक्षादिप्रमाणैरुपलभमानाः कथमेवमाहुरित्यत आह- तदिति ॥
... तदसङ्खयातं ...
न्यायसुधा:
तदित्युभयपरामर्शः ।
उपाधिक्रोडीकारेण पञ्चविंशतिप्रभेदं वदन्तो ऽप्यवान्तरभेदेन तत्त्वद्वयमसङ्खयातमाहुरित्यर्थः ।
*7,37*
चेतनानामचेतनानां च प्रत्येकमसङ्खयातत्वसाम्ये ऽपि नोभयोर्भिन्नत्वेन साम्यम् ।
किं तर्हीत्यत आह- भिन्नमिति ॥
... भिन्नमन्यद् लयं भवेत्
*7,38*
न्यायसुधा:
चेतनमिति शेषः ।
चेतनं परस्परतो भिन्नमाहुः ।
यथोक्तम् ।
"जननमरणकारणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चऽ; इति ।
अन्यत् चेतनात्, अचेतनं भिदोज्खितमाहुः ।
*7,39*
नन्वीश्वरानभ्युपगमे कस्यापि प्रवृत्त्यनुपपत्तेः, सर्गाद्यसम्भवादीश्वराख्यं तृतीयं तत्त्वमङ्गीकरणीयम् ।
तत्कथं नाङ्गीकुर्वन्तीत्यत आह- अचेतनस्येति ॥
*7,40*
अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते
न्यायसुधा:
निगद्यते साङ्खयैरिति शेषः ।
तथाहि ।
चेतनः सङ्घातपरार्थत्वादिहेसिद्धः ।
अचेतनं च व्यक्तं प्रत्यक्षादिसिद्धम् अव्यक्तं च कारणकार्यविभागादिहेतुसिद्धम् ।
नचैवमनन्यथासिद्धमीश्वरे प्रमाणमस्ति ।
अचेतनस्यैव प्रधानस्य कर्तृत्वेन सर्गाद्युपपत्तेरदृष्टेश्वरकल्पनानुपपत्तेरिति मन्यन्त इति ।
नन्वचेतनं चेतनानधिष्ठितं क्वपि न प्रवृत्तिमदुपलब्धम् ।
ततः प्रधानस्याधिष्ठात्रेश्वरेण भाव्यमित्यत उक्तम्- स्वातन्त्र्येणेति ॥
चेतनाधिष्ठानेन विनेत्यर्थः ।
त(य)थोक्तम् ।
"वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषस्य विमोक्षनिमित्तं यथा प्रवृत्तिः प्रधानस्यऽ; इति ।
*7,44*
अन्यद्भिदोज्खितमित्युक्तम् ।
तदसत् ।
अचेतनानामपि चेतनवत्परस्परतो भेदस्य प्रत्यक्षादिसिद्धत्वादित्यत आह- परस्परेति ॥
परस्परविभेदश्च कार्याणामालयं भवेत्
न्यायसुधा:
आलयं प्रलयपर्यन्तम् ।
कार्याणां परस्परविभेदश्च भवेदिति निगद्यते तैः ।
*7,45*
एतदुक्तं भवति ।
कार्यं तावत्कारणव्यापारात्प्रागपि सत् ।
असदकरणात् ।
असच्चेत् कारणव्यापारात्पूर्वं नास्य सत्त्वं कर्तुं शक्यम् ।
नहि नीलं शिल्पिसहस्रेणापि पीतं शक्यं कर्तुम् ।
किञ्च कार्येण सम्बद्धं कारणं कार्यस्य जनकम्, असम्बद्धं वा ।
आद्ये त्वसता सम्बन्धानुपपत्तेः सत्त्वमङ्गीकार्यम् ।
न द्वितीयः ।
असम्बद्धत्वाविशेषेण सर्वस्मात्सर्वसम्भवापत्तेः ।
असम्बद्धत्वे ऽपि कारणं तदेवं करोति यत्र शक्तमतो नातिप्रसङ्ग इति चेत् ।
सा शक्तिः शक्यविषया वा स्यात्सवर्त्र वा ।
सर्वत्र चेत्सैवाव्यवस्था ।
आद्ये त्वसति शक्ये कथं तद्विषया स्यादिति सदेव कार्यम् ।
नच कारणादन्यत्कार्यं सदुपलभ्यत इति कार्यकारणयोरभेदो ऽङ्गीकरणीयः ।
किञ्च न पटस्तन्तुभ्यो भिद्यते तन्तुधर्मत्वात्, यद्यतो भिद्यते तत्तस्य धर्मो न भवति, यथा गौरश्वस्य ।
उपादानोपादेयभावाच्च ।
ययोरर्थान्तरत्वं न तयोरुपादानोपादेयभावो, यथा घटपटयोः ।
संयोगाप्राप्त्यभावाच्च ।
अर्थान्तरत्वे हि संयोगो दृष्टो यथा कुण्डबदरयोः ।
अप्राप्तिर्वा यथा हिमवद्विन्ध्ययोः ।
नचेह संयोगाप्राप्ती ।
तस्मान्नार्थान्तत्वम् ।
गुरुत्वान्तरकार्यस्यावनतिभेदस्याग्रहणाच्च ।
एवञ्च कार्याणां परस्परं भेदे ऽपि स्वस्वकारणैरभेदात्क्रमेण महाप्रलये मूलकारणभावं गतानामभेद एव, इत्येनेनाभिप्रायेणान्यद्भिदोज्खितमित्युक्तमिति ।
तच्चोक्तम्"असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात्कारणाभावाच्च सत्कार्यम्ऽ; इति ।
*7,48*
तेष्वपि मतभेदमाह- भोक्तृतामिति ॥
भोक्तृणां चेतनस्याहुः केचित् तामपि नापरे
न्यायसुधा:
सर्वे ऽपि साङ्खयाः पुरुषस्य कर्तृत्वं नानुमन्यन्ते ।
क्रियावेशो हि कर्तृत्वम् ।
न चात्मनः परिस्पन्दलक्षणा क्रियोपपद्यते ।
सर्वगतत्वात् ।
नापि प्रयत्नलक्षणा ।
तस्याः अन्तःकरणवृत्तित्वात् ।
नच विक्रियालक्षणा ।
निर्विकारत्वात् ।
यथोक्तम् ।
"तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्चऽ; इति ।
तत्र केचिच्चेतनस्य भोक्तृतामाहुः ।
यथा भोक्तृभावादिति ।
अपरे तामपि नाहुः ।
यथा"तस्मान्न बध्यते न मुच्यते नापि संसरति कश्चित् ।
बध्यते संसरति मुच्यते च नानाश्रया प्रकृतिःऽ; इति ।
*7,51*
ननु कर्तृताभावे भोक्तृत्वमपि कथम् ।
तस्यापि क्रियावेशात्मकत्वादित्यत आह- स्वरूपेति ॥
स्वरूपचैतन्यबलात् स्वप्रकाशाच्च भोगिताम्
न्यायसुधा:
सुखदुःखाद्यनुभवितृत्वं हि भोक्तृत्वमाहुरित्यत उक्तम्- स्वप्रकाशादिति ॥
सुखाद्यनुभवितृत्वस्य स्वप्रतीतिसिद्धत्वादित्यर्थः ।
यथाऽह ।
भोक्तृत्वयोग्यता च पुरुषस्य चैतन्यमिति ।
नचैवं कर्तृत्वमप्यङ्गीकर्तुमुचितम् ।
उपपत्तिबाधितत्वेन कर्तृत्वप्रतीतेरध्यासरूपत्वात् ।
*7,52*
नन्वेवं तर्हि प्रतीतिसिद्धं भोक्तृत्वमपरे कथं नाभ्युपयन्तीत्यत आह- प्रकृतेश्चेति ॥
प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु ।
अभोगवादिनो भोगमाहुर् ... ॥ मनुव्_2,2.12अ-च् ॥
न्यायसुधा:
भोगं भोगव्यवहारकारणम् ।
अयं तेषामाशयः ।
भोक्तृत्वं हि न पुरुषस्य स्वभावः ।
अपवर्गाभावप्रसङ्गात् ।
आगन्तुकं तु नोपपद्यते ।
अपरिणामित्वात् ।
अतः कर्तृत्वमिव भोक्तृत्वमप्यात्मनो न शक्यमङ्गीकर्तुम् ।
नच प्रतीतिविरोधः ।
प्रतीतेरभावात् ।
व्यवहार एव हि केवलं भोक्ताऽत्मेति ।
स च कर्तृत्वव्यवहारवत्प्रकृतिपुरुषविवेकाग्रहमात्रनिबन्धन इति ।
*7,53*
स्यादेतत् ।
येषां पुरुषो भोक्ता तेषां मोक्षाभावः स्यात् ।
प्रकृतिसंयोगनिमित्तो हि पुरुषस्य भोगस्तैरङ्गीक्रियते ।
"पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गःऽ; इति वचनात् ।
नच प्रकृतिपुरुषसंयोगः कदाप्यपैति येन पुरुषस्य मोक्षः स्यादित्यत आह- भेदग्रहादिति ॥
... भेदग्रहात् तयोः
भोगिनां मुक्तिरुद्दिष्टा ...
न्यायसुधा:
तयोः प्रकृतिपुरुषयोः भोगिनां पुरुषस्य भोगमभ्युपगच्छतां मते ।
अयमभिसन्धिस्तेषाम् ।
प्रकृतिसंयोगो हि पुरुषस्य न केवलं भोगार्थः ।
किन्नामापवर्गार्थश्च ।
तत्र विवेकाग्रहसचिवो भोगाय भवति ।
विवेकग्रहे चापवर्गाय ।
करोतु नाम पौनःपुन्येन शब्दाद्युपभोगं प्रकृतिः ।
अनया विवेकख्यातिरकृतेति ।
कृतविवेकख्यातिस्तु न शब्दाद्युपभोजयति ।
अविवेकख्यातिनिबन्धनो हि तदुपभोगो, निबन्धनाभावे न भवितुमर्हति ।
तच्चोक्तम्"दृष्टा मयेत्युपेक्षक एको, दृष्टाहमित्युपरमत्यन्ता ।
सति संयोगो ऽपि तयोः प्रयोजनं नास्ति सर्गस्य इति ।
तथा"रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तात् ।
पुरुषस्य तथाऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिःऽ; इति ।
नच निवृत्तापि पुनः प्रवत्स्यर्तीति शङ्कनीयम् ।
प्रयोजनाभावात् ।
उक्तं च"प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
तस्यापि स्वेनैव निवृत्तेः ।
*7,56*
ननु च येषां मते पुरुषस्य भोग एव नास्ति तेषां कथं मोक्षः ।
बन्धाभावात् ।
तथाच योगानुशासनवैयर्थ्यमित्यत आह- स एवेति ॥
... स एवाभोगवादिनाम्
न्यायसुधा:
स भेदग्रह एव मुक्तिरुद्धिष्या ।
भेदाग्रहनिबन्धनो भ्रम एव हि बन्धः ।
स च भेदग्रहे सति निवर्तते सैव मुक्तिः ।
न त्वपरास्तीत्यतः स एवेत्युक्तम् ।
न पुनर्भेदग्रह एव मुक्तिः ।
तस्यापि निवर्तनीयत्वात् ।
नापि विवेकख्यातिमित्युक्तत्वादिति ।
*7,57*
एवमुपन्यस्तं मतमधुना निरसनीयम् ।
तत्र सूत्रकृता क्रमविवक्षित्वा"रचनानुपपत्तेश्च नानुमानम्ऽ; इति प्रथमं परपक्षोपालम्भं विधायानन्तरं"प्रवृत्तेश्चऽ; इति स्वपक्षसाधनं विहितम् ।
भाष्यकारस्तु साधकप्रमाणस्य तत्त्वप्रतिपत्त्यन्तरङ्गत्वेन तदुपन्यासस्य प्राथम्यं परपक्षनिरासाय तस्थैयर्हेतोर्बहिरङ्गत्वेन तदुपन्यास्यानन्तर्यमिति क्रममपि ग्राहयिष्यन् व्यत्ययेन व्याचक्षाणः प्रवृत्तेश्चेति सूत्रस्य पातनिकार्थमाह- ईशस्येति ॥
ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि
न्यायसुधा:
असङ्ग्रहात् अनभ्युपगमात् ।
एवेत्यस्य दोषस्योल्बणत्वं सूचयति ।
तावुभापि पुरुषस्य भोक्तृत्वाभोक्तृत्वपक्षौ ।
*7,58*
नन्वप्रामाणिकस्येश्वरस्यानभ्युपगमे कथमयुक्तत्वमित्यतः प्रवृत्तेश्चेति सूत्रार्थतयेश्वरे प्रमाणमाह- चेतनेति ॥
चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः ।
एतादृशत्वमन्यस्य वस्तुत्वात् केन वार्यते
*7,59*
न्यायसुधा:
यदा यस्मात् ।
तस्मादिति लभ्यते ।
एतादृशत्वं पटवच्चेतनेच्छानुसारेणोद्भूतत्वम् ।
अन्यस्य महदादेः, वस्तुत्वात् कार्यत्वादनुमीयमानमिति शेषः ।
केन इत्याक्षेपे ।
अयमत्र प्रयोगः ।
महदादिकं चेतनेच्छाधीनोत्पत्तिकं कार्यत्वात्पटवदिति ।
यद्वा महदाद्युद्भवः चेतनेच्छाधीन उद्भवत्वात्पटोद्भववदिति प्रयोक्तव्यम् ।
प्रयोगद्वयसूचनाय पटोद्भव दृष्टान्तमुक्त्वा वस्तुत्वादिति हेतुमाह ।
एवमुक्तावुपलक्षणत्वं हि उभयत्र ज्ञायेत ।
उपलक्षणं चैतत् ।
महदाद्युपादानं चेतनमधिष्ठितं उपादानत्वात्तन्तुवदित्याद्यपि द्रष्टव्यम् ।
नचान्यश्चेतनस्तथा भवितुमर्हतीति सर्वातिशयी पुरुष ईश्वर एव सिद्धयतीति ।
व्यास-(21)
*7,61*
स्यादेतत् ।
महदादिकं न तावत्प्रत्यक्षसिद्धम् ।
अव्यक्तत्वात् ।
अतः साङ्खयाचार्यवचनात् तत्प्रयुक्तानुमानाद्वा तदवगमो ऽभ्युपगन्तव्यः ।
तैश्चानेवंविधमेव तदुक्तमनुमितं चेति बाधः ।
अन्यथाऽश्रयासिद्धिरिति ।
मैवम् ।
वेदतस्तदवगमात् ।
उक्तं हीदम्"अजामेकाम्ऽ; इत्यादिश्रुतिः प्रधानमपि प्रतिपादयतीति ।
ननु पुरुषश्चेतनो नान्तःकरणम् ।
इच्छा चान्तःकरणधर्मो न चेतनस्याविकारस्य ।
अतः अप्रसिद्धविशेषणता बाधो वा ।
पटादेरप्येवम्भावाभावाद्दृष्टान्तस्य साध्यवैकल्यं चेति चेन्न ।
आत्मन एवेच्छावत्त्वस्य वक्ष्यमाणत्वात् ।
*7,63*
तथाप्युद्भवो नामोत्पत्तिरभिव्यक्तिर्वा ।
नाद्यः ।
प्रथमप्रयोगे ऽप्रसिद्धविशेषणत्वात् ।
दृष्टान्तस्य साध्यविकलत्वाच्च ।
द्वितीये चाश्रयासिद्धेः ।
मया सत्कार्यवादस्य अभ्युपगतत्वात् ।
द्वितीये ऽप्येत एव दोषाः ।
त्वया व्यक्त्यनभ्युपगमादिति चेन्न ।
असत्कार्यवादस्य साधितत्वात् ।
सत्कार्यवादे प्रमाणाभावाच्च ।
असदकरणादित्यादिभिश्च किं कार्यस्य प्राक्करणव्यापारात्सत्त्वमात्रं साध्यम् उतात्यन्तसत्त्वम् ।
आद्ये सिद्धसाधनम् ।
सदसत्त्वाभ्युपगमात् ।
द्वितीये त्वसदकरणादितिवत्सदकरणादित्यपि समानम् ।
नहि सन्नात्मा केनचित्क्रियते ।
*7,66*
नन्वसतः कथं कर्मत्वम् ।
सतः कथं कार्यत्वमित्यपि समानम् ।
अनेन घटो जायत इत्यपि प्रत्युक्तम् ।
तर्हि घटं करोतीत्यादेः को ऽर्थः ।
मृत्तिकां घटीकरोतीति ।
मृत्तिका घटीभवतीति ।
असदुत्पत्तौ खरविषाणमपि कुतो नोत्पद्यत इति चेत् ।
तदात्मकस्योपादानस्याभावादिति ब्रूमः ।
अन्यथा सत उत्पत्तावात्मापि कुतो नोत्पद्यत इति समानम् ।
*7,69*
य(द)द्यपि कार्येण कारणं सम्बद्धं तदुपजनयति उतासम्बद्धमेवेति पृष्टम् ।
तत्र कारणशब्देनोपादानं वा विवक्षितं निमित्तं वा ।
आद्ये जनयतीत्येव नेष्यते ।
किन्तु निमित्तकारणानि तत् कार्यतां नयन्ति ।
द्वितीये तु कार्याकारेणासम्बद्धं कारणाकारेण सम्बद्धमित्युत्तरम् ।
अत एव नातिप्रसङ्गः ।
शक्तिश्च कारणानां सदसद्विषया ।
अन्यथा निर्विषयत्वापातात् ।
नहि सत् कर्तुं शक्यं भवति ।
*7,70*
यच्च तन्तुपटयोरभेदानुमानं तत्राभेदमात्रसाधने सिद्धसाध(नम्)नत्वम् ।
भेदाभेदाङ्गीकारात् ।
अत्यन्ताभेदसाधने तन्तुधर्मत्वं तावदसिद्धम् ।
नहि स्वयमेव स्वस्य धर्मो भवति ।
नहि उपचारो ऽनुमानप्रवृत्तेरङ्गम् ।
अतिप्रसङ्गात् ।
कथं च तन्तुधर्मत्वं पटस्य ।
तन्तुविशेषणत्वमिति चेन्न ।
पुरुषादिविशेषणे दण्डादौ व्यभिचारात् ।
तदाश्रितत्वमिति चेन्न ।
अभेदेनासिद्धिप्रसङ्गात् ।
कुण्डबदरादौ व्यभिचाराच्च ।
तदात्मकत्वमिति चेन्न ।
साध्यविशिष्टत्वापत्तेः ।
अभेदेन भेदाभावः साध्यत इति चेन्न ।
भेदाभावातिरिक्तस्याभेदस्य अनभ्युपगमात् ।
अभ्युपगमो ऽपि बाधात् ।
एवमुपादानोपादेयभावो ऽप्यसिद्ध एव ।
नहि स्वयमेवोपादनमुपादेयं चेति युक्तम् ।
करणत्वकर्मत्वयोर्भेदनियतत्वात् ।
संयोगाप्राप्त्यभावश्चात्यन्तभेदाभावादुपपत्स्यते ।
गुरुत्वान्तरकार्यादर्शनं चाभेदाङ्गीकारेण भविष्यति ।
*7,73*
एतेन कार्यत्वमभूत्वाभावित्वं चेदसिद्धमस्माकम् ।
अभिव्यक्तिधर्मकत्वं चेद्युष्माकमिति च निरस्तम् ।
तदिदमुक्तम्- केन वार्यत इति ॥
तदेवं पटाद्युत्पत्तौ चेतनस्य कुविन्दादेः प्रवृत्तेरुपलम्भात्तद्दृष्टान्तेन महदाद्युत्पत्तेरपि चेतनेच्छाधीनत्वमित्येवं स्वपक्षं प्रसाध्य परपक्षनिरासार्थं रचनानुपपत्तेश्च नानुमानमिति सूत्रं व्याख्यातुं पीठमारचयति- नचेति ॥
नच काचित् प्रमोक्तार्थे ...
*7,74*
न्यायसुधा:
न केवलमस्मन्मते प्रमाणसद्भावः ।
किन्तु साङ्खयोक्तार्थे प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वे किमपि प्रमाणं नास्ति ।
तथाहि ।
किमत्र प्रत्यक्षं प्रमाणं स्यादुत आगमो ऽथवानुमानं वा ।
नाद्यः ।
तद्धयस्मदादीनां वा योगिनां वा ।
न प्रथमः ।
अस्यार्थस्यातीन्द्रियत्वात् ।
न द्वितीयः ।
असिद्धेः ।
नहि एवं योगिनः पश्यन्तीत्यस्माकं प्रमाणमस्ति ।
नाप्यागमः ।
स ह्यपौरुषेयः पौरुषेयो वा स्यात् ।
नाद्य इत्याह- श्रुतिरेवेति ॥
*7,75*
... श्रुतिरेव प्रमा हि नः
न्यायसुधा:
श्रुतिर्नो ऽस्माकमेव मते प्रमा हि ।
सर्वाऽपि हि श्रुतिरीश्वरमेव स्वातन्त्र्येण सकलजगत्कारणं सर्वज्ञं सर्वशक्तिं प्रतिपादयति ।
प्रधानं च तदायत्तसत्ताप्रतीतिप्रवृत्तिमत्तदधिष्ठितं जगदुपादानमात्रमिति ।
तथाहि ।
"यः सर्वज्ञः सर्ववित्ऽ; ।
"यो योनिमधितिष्ठत्येकःऽ; इत्यादि ।
तथाच श्रुतिः परस्य प्रतिपक्षभूतैव ।
पौरुषेयो ऽपि किं स्मृतीतिहासपुराणलक्षणः ।
उत साङ्खयाचार्यप्रणीतः ।
नाद्यः ।
तस्याप्यस्मन्मतानुसारित्वात् ।
"प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः ।
क्षोभयामास भगवान्सृष्टयर्थं जगतो विभुःऽ; इत्यादिवचनात् ।
न द्वितीयः ।
तत्प्राण्यस्यासम्मतेः ।
आप्तोक्तत्वेन तत्प्रामाण्यसिद्धिरिति चेत्तत्राह- आप्तत्वमिति ॥
आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते
*7,76*
न्यायसुधा:
उक्तमार्गेण श्रुतिरेव प्रमा हि न इत्युक्तरीत्या श्रुतिविरुद्धभाषित्वादित्यर्थः ।
वक्तुः साङ्खयप्रणेतुः ।
यद्वा इतरेषां चानुपलब्धेरित्युक्तमार्गेण ।
साङ्खयशास्त्रे ऽपि ह्याख्यायिकासु योग्यानुपलब्धिबाधिता बहवो ऽर्थाः प्रतिपाद्यन्ते ।
अथवा"अविप्रलम्भस्तज्ज्ञानम्ऽ; इत्याद्युक्तमार्गेणाप्तत्वनिश्चायकप्रमाणाभावादित्यर्थः ।
"कपिलो वासुदेवाख्यस्तन्त्रं साङ्खयं जगाद ह ।
ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च ।
तथैवासुरये सर्ववेदार्थपरिबृंहितम् ।
सर्ववेदविरुद्धं च कपिलो ऽन्यो जगाद ह ।
साङ्खयमासुरये ऽन्यस्मै कुतर्कपरिबृंहितम्ऽ; इति पुराणोक्तमार्गेणेति वा ।
"ऋषिं प्रसूतं कपिलम्ऽ; इत्यादिश्रुत्युदाहरणमप्यनेनैव निरस्तम् ।
एतेनैव"आगमाद्योगिप्रत्यक्षावगमेऽ; इत्यपाकृतम् ।
*7,77*
न केवलमुक्तमार्गेणाप्तत्वानुपपत्तिः ।
किन्नामानुपपन्नभाषित्वादपीत्याह- अप्रामाण्येति ॥
अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि ...
*7,78*
न्यायसुधा:
अपिशब्देन प्रामाण्यस्वतस्त्वमपि समुच्चिनोति ।
ज्ञानानां प्रामाण्यमप्रामाण्यं ज्ञानकारणमात्राधीनोत्पत्तिकमिति स्वीकरोति साङ्खयः ।
तच्चानुपपन्नमित्यतो ऽप्यसौ नाप्तः ।
कथं प्रामाण्याप्रामाण्ययोः स्वतस्त्वमनुपपन्नमित्यत आह- मायिवदिति ॥
... मायिवत् ।
स्वोक्ताखिलनिषेधी स्यान् ...
न्यायसुधा:
प्रामाण्याप्रामाण्ययोर्ज्ञानकारणमात्रजन्यत्वे साङ्खयस्य वचनेनोत्पन्नं ज्ञानं प्रमाणमप्रमाणं चेत्युभयात्मकं वा स्यात् ।
परस्परविराधेनोभयविकलं वा ज्ञानमात्रमुत्प(द्येत)द्यते ।
निःस्वभावस्य ज्ञानस्यानुपपत्त्या नोत्प(द्यते)द्येत वा ।
आद्ये सदसद्विलक्षणं विश्वं मन्यमानो मायावादी यथा स्वोक्तनिषेधी सद्विलक्षणमित्युक्त्या प्राप्तस्यासत्त्वस्य, स्वयमेव असद्विलक्षणमिति निषेधात् ।
असद्विलक्षणमित्युक्त्या च प्राप्तस्य सत्त्वस्य स्वयमेव सद्विलक्षणमिति निषेधात् ।
तथा साङ्खयो ऽपि स्वोक्ताखिलनिषेधी स्यात् ।
तद्वाक्यजनितज्ञानस्य याथार्थ्ये हि प्रकृतिर्जगत्कारणमित्यादिको ऽर्थो यो लब्धः, स एवार्थस्तस्यायाथार्थ्ये निषिद्धः स्यात् ।
अयाथाथ्यर्स्य विषयविपर्यासानतिरेकात् ।
उभयस्वतस्त्वे वस्तुनो विरुद्धाकारद्वयालिङ्गितत्वं प्रसज्येतेति भावः ।
मायाशब्दस्य व्रीह्यादित्वान्मायीति साधु ।
*7,80*
नन्वेवमपि याथार्थ्येन प्रकृतिर्जगत्कारणमित्यादिको ऽर्थस्तावत्सिद्धयतीत्यत आह- नचेति ॥
... न च किञ्चित् प्रसिद्धयति
न्यायसुधा:
नहि परस्परविरोधे किमपि सिद्धयतीति भावः ।
तर्हि प्रामाण्यस्य का गतिरिति चेत् ।
अप्रामाण्ये ऽपि दीयतां दृष्टिः ।
द्वितीये दोषमाह- नचेति ॥
ज्ञानं हि यथावस्थितमयथावस्थितं वार्ऽथं विषयीकुर्यात् ।
तृतीयप्रकारानिरूपणात् ।
तथाच प्रामाण्याप्रामाण्यविकलं ज्ञानम् अयःशलाकावदविषयमेव स्यात् ।
एवंच न साङ्खयवचनात्किञ्चित्प्रसिद्धयतीति ।
तृतीये तु जगदान्ध्यमेव स्यादित्याह- नचेति ॥
स्यादेतत् यदा ज्ञानकारणं गुणोपेतं तदा तदीयायामप्रामाण्यजननशक्तौ गुणेन प्रतिबद्धायां प्रमाणज्ञानमेवोत्पद्यते ।
यदा तु दोषोपेतं तदा दोषेण प्रामाण्यजननशक्तौ प्रतिबद्धायां अप्रमाणज्ञानमेवोत्पद्यते ।
नहि किमपि करणं युगपदुभयोपेतमुभयविकलं वा सम्भवति ।
येनोक्तदोषः स्यादिति ।
उच्यते ।
किमर्थमित्थं कल्प्यते ।
ज्ञानस्योभयाकारत्वप्रसक्तेरिति चेत् ।
तत्प्रसक्तिरपि कुतो नाभ्युपगन्तव्या ।
विरोधभयादिति चेत् ।
करणे ऽप्युभयशक्तिविरोधात्कुतो न बिभेषि ।
*7,81*
यदपि विरुद्धकार्यद्वयजनकं करणं तत्सहकारिसाहित्याहितशक्तिकमेव ।
प्रकृते च तथाभ्युपगमे द्वयोरपि परतस्त्वापत्तिः ।
किञ्च वचने कौ गुणदोषौ ।
आप्तानाप्तत्वप्रणीतत्वे इति चेत् ।
तर्ह्युभयाभावाद्वेदवाक्येनोभयात्मकमनुभयात्मकं वा ज्ञानमुत्पद्येत ।
नोत्पद्येत वा ।
अनाप्तप्रणीतत्वं गुण इति चेत् ।
तर्ह्याप्ताप्रणीतत्वं दोषो ऽपि किन्न स्यादिति स एव प्रसङ्गः ।
*7,82*
एतेन साङ्खयाचार्यवचनं स्वत एव प्रमाणं किमाप्तिनिश्चयेनेत्यपि निरस्तम् ।
अप्रामाण्यस्यापि स्वतस्त्वेनोक्तसकलदोषापत्तेः ।
अथ महाजनपरिग्रहात्तत्प्रामाण्यनिश्चय इति चेन्न ।
पूज्यार्थत्वे ऽसिद्धेः ।
बह्वर्थत्वे सव्यभिचारत्वात्सन्दिग्धासिद्धेश्चेति ।
*7,83*
मा भूत्प्रकृतिकारणत्वे प्रपञ्चस्य प्रत्यक्षं प्रमाणम् ।
मा च भूदागमः ।
अनुमानं तु भविष्यति ।
यथोक्तम् ।
"भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्याविभागादविभागाद्वैश्वरूपस्यऽ; इति ।
*7,83f.*
अयमर्थः ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य मूलकारणमस्त्यव्यक्तम् ।
यथा कूर्मशरीरे सन्त्येवाङ्गानि ततो विभज्यन्ते ।
तस्मिन्नेवाव्यक्तीभवन्ति ।
एवं कारणान्मृत्पिण्डाद्धेमपिण्डाद्वा कार्याणि घटमुकुटादीनि विभज्यन्ते ।
सन्त्येव च पृथिव्यादीनि कारणात्तन्मात्रात् ।
सन्त्येव च तन्मात्राण्यहङ्कारात् ।
सन्नेव चाहङ्कारो महतः ।
सदेव च महत्परमाव्यक्तादिति ।
सो ऽयं कारणात्परमाव्यक्तात्पारम्पर्येण विश्वस्य कार्यस्य विभागः प्रतिसर्गे ।
मृत्पिण्डं हेमपिण्डं वा घटमुकुटादयो विशन्तो ऽव्यक्तीभवन्तीति तत्कारणरूपमेवानभिव्यक्तघटमुकुटादिकार्यमपेक्ष्याव्यक्तं भवति ।
एवं पृथिव्यादयस्तन्मात्राणि विशन्तः स्वापेक्षया तन्मात्रमव्यक्तयन्ति ।
एवं तन्मात्राण्यहङ्कारं विशन्त्यहङ्कारमव्यक्तयन्ति ।
एवमहङ्कारो महान्तमाविशन्महान्तमव्यक्तयति ।
महान्प्रकृतिं स्वकारणं विशति ।
प्रकृतेस्तु न क्वचिन्निवेश इति सा सर्वकार्याणामव्यक्तमेव ।
सो ऽयमविभागः प्रकृतौ वैश्वरूप्यस्य नानारूपस्य कार्यस्य ।
तस्मात्कारणे कार्यस्य सत एव विभागाविभागाभ्यामव्यक्तं कारणमस्तीति ।
*7,84*
इतश्च, शक्तितः प्रवृत्तेः ।
कारणशक्तितो हि कार्यं प्रवर्तते ।
अशक्तात्कारणात्कार्यस्यानुत्पत्तेः ।
शक्तिश्च कारणगता न कार्यस्याव्यक्तत्वादन्या ।
अस्तु तर्हि महत एव परमाव्यक्तत्वमित्यत उक्तं भेदानां परिमाणादिति ।
महदादीनामव्यापकत्वादव्यक्तकारणकत्वं घटादिवदित्यर्थः ।
इतश्च, समन्वयात् ।
सुखदुःखभोगसमन्वितानि हि कार्याणि ।
यानि च यदूपमनुगतानि तानि तत्स्वभावाव्यक्तकानि ।
यथा मृद्धेमरूपमनुगता घटमुकुटादयो मृद्धेमपिण्डाव्यक्तकाः ।
तस्मादस्ति सुखदुःखमहोहात्मकानां सत्त्वरजस्तमसां साम्यावस्थाव्यक्तं भेदानामिति ।
*7,89*
यद्यप्येतान्यनुमानान्यव्यक्तस्वरूपं साधयन्ति ।
तथापि महदादिकारणतयैव तदेतैः सिद्धयतीति ।
अत्र वक्तव्यम् ।
किमेतैरनुमानैर्जगदुपादानतामात्रेणाव्यक्तं सिद्धयति, उत स्वातन्त्र्येणा(पीति)पि ।
आद्ये सिद्धसाधनम् ।
अस्माभिरपि विश्वोपादानस्य प्रधानस्याभ्युपगतत्वात् ।
"शरीररूपकःऽ; इति ह्युक्तम् ।
द्वितीयं निराकर्तुं सूत्रम् ।
रचनानुपपत्तेश्च नानुमानमिति ।
तद्वयाचष्टे- इदमिति ॥
इदं नाचेतनवशं वस्तुत्वात् प्रतिपन्नवत् ।
इत्येव प्रतिषिद्धस्य केन मूलानुमा भवेत्
न्यायसुधा:
महादादिकार्यमित्यर्थः ।
अचेतनवशं स्वतन्त्राचेतनाधीनोत्पत्तिकम् ।
प्रतिपन्नवत् ।
प्रधानवत् ।
आस्तां तावद्दूषणान्तरम् इति प्रत्यनुमानेनैव प्रतिषिद्धस्य प्रधानस्वातन्त्र्यस्य मूलानुमा साधिकानुमा केन सामर्थ्येन भवेत् प्रमाणमिति शेषः ।
मूलानुमेति वाऽवर्तनीयम् ।
किम् आक्षेपे ।
अकार्यत्वमत्रोपाधिरिति चेन्न ।
पटादौ साध्याव्याप्तेः ।
पटादेः कुविन्दाद्यधिष्ठिततन्त्वादिकायर्त्वस्यान्वयव्यतिरेकाभ्यामुपलम्भात् ।
*7,91*
एवं प्रधानस्य रचनायाः स्वतन्त्रप्रवृत्तेरनुमानविरोधेनानुपपत्तेर्नानुमानं तत्र प्रमाणमिति सूत्राक्षरयोजनां मनसि निधाय सूत्रतात्पर्यमुक्तम् ।
इदानीं तामेव विवृण्वन्प्रतिपक्षान्तरमाह- स्वतन्त्रेति ॥
स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः
न्यायसुधा:
चशब्दो ऽनुमानान्तरसमुच्चये ।
कुत एवेत्यन्वयः ।
अयमत्र प्रयोगः ।
प्रधानं स्वतन्त्रप्रवृत्तिरहितम् अचेतनत्वात् ।
तन्त्वादिवदिति ।
*7,92*
नन्वचेतनत्वे ऽपि प्रधानस्य स्वातन्त्र्येण प्रवृत्तिरस्तु को विरोधः ।
तथाच विपक्षे बाधकाभावादप्रयोजको ऽयं हेतुरित्यत आह- अचेतनत्वमिति ॥
अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम्
न्यायसुधा:
तावदेव ह्यनेनाशङ्कनीयं यस्मिन्नाशङ्कयमाने स्ववचनस्वक्रियास्वन्यायप्रमाणान्तरविरोधो न प्रादुष्यात् ।
नहि कश्चिदेवं शङ्कते ।
मूको ऽपि वक्ता किन्न स्यात् ।
शब्दो ऽप्रतिपादकः किन्न भवेत् ।
अनुमानत्वात् अनुमानमात्रमप्रमाणं कुतो न स्यात् ।
अग्निरनुष्णः कुतो न भवेदिति ।
न ह्येषा शङ्कापिशाची कदाचिच्छान्तिमुपागच्छति ।
तस्मादेवामाशङ्कमानो न लौकिको नापि परीक्षक इत्युन्मत्तवदुपेक्षणीयः ।
प्रकृते चाचेतनत्वं स्वातन्त्र्यं चात्मप्रमाहतम् ।
स्वव्याहतं प्रमाणविरुद्धं च ।
तस्मादचेतनत्वे ऽपि स्वतन्त्रप्रवृत्तिरस्तु प्रधानस्येति शङ्कैव नोत्पत्तुमर्हतीति किमत्र बाधकोपन्यासेनेति ।
*7,93*
नन्वचेतनस्य स्वातन्त्र्यशङ्कायां कथं स्वव्याहतिः ।
नहि स्वातन्त्र्यं नाम चैतन्यम् ।
नाप्यचेतनत्वं नामास्वातन्त्र्यम् ।
कथंच प्रमाणविरोधः, इत्यत स्वव्याघातं तावदुपपादयितुं स्वातन्त्र्यं व्याख्याति- स्वेच्छेति ॥
स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः
न्यायसुधा:
प्रवृत्ताविति शेषः ।
विदो विदुरित्यनेन सकलविद्वत्सम्मतमेतदित्याह ।
अत एव हि स्वातन्त्र्याभावाद्वृक्षस्तिष्ठतीत्यादिकर्तृत्वव्यवहारो गौण इति सर्वे प्रतिपन्नाः ।
*7,97*
तथापि कथं स्वव्याहतिः ।
नह्यचेतनत्वं नामेच्छाविरहः ।
किन्नाम चैतन्यविरह इत्यत आह- कुत इति ॥
कुत इच्छाचेतनस्य ...
न्यायसुधा:
अचेतनस्येच्छा कुतः कारणाज्जायते ।
न कुतश्चित् ।
ज्ञानमेव हीच्छाया जनकमित्यर्थः ।
तथापि किमित्यत आह- सेच्छं चेदिति ॥
*7,98*
... सेच्छं चेत् किमचेतनम्
न्यायसुधा:
सेच्छं चेदङ्गीकृतं तदा तदचेतनं किं चेतनमेवेत्यर्थः ।
एतदुक्तं भवति ।
अचेतनमपि प्रधानं स्वातन्त्र्येण प्रवृत्तिमदस्त्विति वदताचेतनमिच्छावदस्त्वित्युक्तं स्यात् ।
स्वेच्छानुसारित्वस्य स्वातन्त्र्यशब्दार्थतया सर्वसम्मतत्वात् ।
अचेतनस्येच्छावत्त्वमङ्गीकुर्वाणेन चेतनत्वमप्यङ्गीकर्तव्यं स्यात् ।
अन्वयव्यतिरेकाभ्यामिच्छायाः स्वसमानाश्रयचैतन्यकार्यत्वावधारणात् ।
कार्याङ्गीकारे कारणानङ्गीकारस्यानुचितत्वात् ।
अचेतनं चेतनमिति च स्फुटा व्याहतिरिति ।
एतेनैतदपि निरस्तम् ।
अचेतनत्वं स्वातन्त्र्यं च यदि परस्परव्याहतं तर्ह्यचेतनत्वेन स्वतन्त्रप्रवृत्तिराहित्यसाधने साध्याविशिष्टतादोषः स्यादिति ।
नह्यस्माभिरचेतनत्वस्वातन्त्र्ययोः वन्ध्या अपत्यवतीतिवत्साक्षाद्विरोधो ऽभिहितः ।
किन्तु स्वातन्त्र्यबलेन चैतन्यं परेणाङ्गी(कार्य)कारयित्वा अनेनैव स्वातन्त्र्याङ्गीकारे ऽचेतनत्वानुपपत्तिरिति बाधकं चोक्तं भवति ।
*7,103*
एवमचेतनस्य स्वातन्त्र्याङ्गीकारे स्वव्याहतिमुपपाद्य प्रमाणविरोधमप्युपपादयति- इच्छामीति ॥
इच्छाम्यहमिति ह्येव निजानुभवरोधतः ।
अचेतनेच्छापगता ...
न्यायसुधा:
हिशब्देनास्यानुमानस्य विश्वजनप्रसिद्धत्वं सूचयति ।
एवशब्दस्यापगतैवैत्यन्वयः ।
निजानुभवः साक्ष्यनुभवः ।
अहमिच्छामीति तावदिच्छा आत्मसम्बन्धिनी साक्षिणानुभूयते ।
नच सा द्विकर्तृका सम्भवति ।
क्वाप्येकस्य व्यापारस्य द्विकर्तृकत्वानुपलम्भात् ।
ततश्चाचेतनस्येच्छाङ्गीकृता(वैतद)चे(त्त)दनुभवविरोधादचेतनस्येच्छापगता नास्तीति यावत् ।
इच्छाभावे च स्वेच्छानुसारित्वलक्षणं स्वातन्त्र्यं दूरोत्सारितमिति भावः ।
*7,104*
ननु नवमस्त्यनुभवः किन्त्वहमिच्छा(मीच्छा)मीति व्यवहारमात्रम् ।
तस्यापि निमित्तं भेदाग्रहः ।
आत्मा हि नित्यो निर्विकारश्चैतन्यमात्रवपुर्न तस्येच्छादिकर्तृत्वमागन्तुकं सम्भवति ।
किन्त्वन्तःकरणस्यैव प्रसवधर्मत्वात् ।
तयोश्चात्मान्तःकरणयोर्भेदाग्रहादितरेतरधर्मव्यवहारः प्रवर्तते ।
भेदाग्रहे च निमित्तं सन्निधानम् ।
यथोक्तम् ।
"तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनःऽ; इति ।
अतो ऽनुभवबलाच्चेतनस्यैवेच्छावत्त्वं नाचेतनस्येत्ययुक्तमित्यत आह- यदीति ॥
... यदि भेदाग्रहो ऽत्र च
कथं न स घटस्य स्यान् ...
न्यायसुधा:
यदि एवमनुभव एव नास्ति किन्तु व्यवहारमात्रम्, अत्र च व्यवहारे भेदाग्रह एव निमित्तमुच्यते, तदा स भेदाग्रहो घटस्य किं (कथं) न स्यात् ।
व्यवहारहेतुरिति शेषः ।
इदमुक्तं भवति ।
स्वप्रकाशानुभवापलापदोषस्तावत् ।
व्यवहारे च निमित्तं नास्ति ।
नच भेदाग्रहः ।
विशिष्टव्यवहारस्य तादृशज्ञानकार्यतानियमात् ।
अन्यथा घटपटावपीतरेतरभेदं न गृह्णीत इतीतरेतरधर्मसंसर्गव्यवहारः स्यादिति ।
*7,107*
ननु गृह्यमाणयोर्भेदग्रहो व्यवहारहेतुर्न तु भेदाग्रहमात्रम् ।
नच घटपटौ स्वरूपं गृह्णीतस्तत्कथमतिप्रसङ्ग इति चेत् ।
किमयं विशिष्टो भेदाग्रहो ऽन्तःकरणस्य, उतात्मनः ।
नाद्यः ।
तस्याचेतनत्वेन स्वरूपग्रहानुपपत्तेः ।
उपपत्तौ वा स कथं विशिष्टो भेदाग्रहो घटस्य न स्यात् ।
तथाच व्यवहारो ऽपि स्यात् ।
नन्वन्तःकरणे ऽस्ति चैतन्यारोपो न घटे, अतो नातिप्रसङ्ग इति चेत् ।
किं तस्य निमित्तम् ।
सन्निधानमिति चेत् ।
तर्हि सर्वगतात्मसन्निधानं घटे ऽप्यस्तीति कथं स न घटस्य स्यात् ।
ननु न संयोगमात्रं निमित्तम् ।
किन्तूपकार्योपकारकभावे सति ।
स चास्त्यात्मान्तःकरणयोः ।
पुरुषस्य दर्शनार्थमित्युक्तत्वात् इति चेत् ।
तर्हि घटो ऽपि पुरुषस्योपकारक इति कथं स न घटस्य स्यात् ।
द्वितीये व्यवहारो ऽपि किमात्मन उतान्तःकरणस्य ।
नाद्यः ।
तस्य निर्विकारस्य व्यवहारक्रियानुपपत्तेः ।
उपपत्तौ वा किमिच्छयापराद्धम् ।
द्वितीये ऽन्यगतेन भेदाग्रहेणान्य(त्र)स्य व्यवहारश्चेत्कथं स न घटस्य स्यात् ।
*7,109*
किञ्च यदि भेदाग्रहादन्तःकरणधर्म एवेच्छाऽत्मनि व्यवह्रियत इत्यङ्गीक्रियते तदा घटस्याप्यात्मना भेदाग्रहात्पृथुबुध्नोदराकारो ऽहमिति व्यवहारः कथं न स्यादिति गूढाभिसन्धेरुत्तरम् ।
यद्वात्र चात्मान्तःकरणयोश्च स्फुटं प्रतिभासमानभेदयोरपीति हृदयम् ।
यदि भेदाग्रहः स्यात्तदा कथं स भेदाग्रहो घटस्यात्मनश्च न स्यादिति योजना ।
अथवैवं वदन्प्रष्टव्यः ।
भेदाग्रहः किं भेदग्रहस्य विरोधी न वेति ।
नेति पक्षे कथं स घटस्यात्मना पटादिना वा न स्यादित्युत्तरम् ।
*7,110*
ननु भेदग्रहो भेदाग्रहविरोधी ।
स चास्ति घट इति कुतस्तत्र भेदाग्रहस्तत्प्रयुक्तो व्यवहारो वेति गूढाभिसन्धिमजानतो द्वितीयपक्षमाशङ्कयाह- मन इति ॥
... मनो म इति भेदतः ।
मनसो ऽपि गृहीतत्वाद् ...
*7,110f.*
न्यायसुधा:
भेदत इति तृतीयार्थो तसिः ।
यदि भेदग्रहो भेदाग्रहविरोधीति भेदेन गृह्यमाणे घटे न भेदाग्रह इत्युच्यते, तदा मे मन इति मनसो ऽपि भेदेन गृहीतत्वान्नात्मना भेदाग्रहः स्यात् ।
तथाच भेदाग्रहनिमित्तो ऽहमिच्छामीति व्यवहार इत्यसत् ।
किन्त्वनुभवनिमित्त एव ।
अत एव नान्तःकरणधर्मस्यात्मन्यारोप इत्यपि युक्तम् ।
भेदग्रहसद्भावेन आरोपहेतोर्भेदाग्रहस्यायोगात् ।
नह्यविदितभेदं सम्बन्धितया गृह्यते ।
आत्मन्यपि प्रसङ्गात् ।
केन पुनः प्रमाणेन मनो गृह्यते ।
साक्षिणेति वदामः ।
तथाहि ।
नतावच्चक्षुरादिना तदवगमः ।
अरूपिद्रव्यत्वात् ।
चक्षुराद्यव्यापारे ऽप्युपलब्धेः ।
नचानुमानेन ।
लिङ्गाभावात् ।
नन्वस्ति युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ।
तथाहि ।
बाह्येन्द्रियेषु स्वैः स्वैर्विषयैर्युगपत्सन्निकृष्टेष्वात्मनाधिष्ठितेष्वपि न युगपज्ज्ञानानि जायन्ते ।
तेन ज्ञायते ऽस्त्येतेभ्यो ऽन्यत्सहकारि ।
यत्संयोगक्रमवशाज्ज्ञानक्रमः प्रक्रमत इति ॥
*7,115f.*
अत्र कश्चिदाह ।
आत्मन एवैवंविधसामर्थ्यकल्पनोपपत्तावन्यथासिद्धमनुमानम् ।
मनसः प्रतीन्द्रियसंयोगव्यवहारे क्रमवति कारणान्तरशून्ये ऽनैकान्तिकं च ।
फलस्य च वृक्षशत्पततः क्रमवर्तिन्याकाशसंयोगे कुठारादिव्यापारे च ।
इन्द्रियाणां प्रतिविषयसंयोगव्यापारे चेति ।
तदयुक्तम् ।
दृष्टानुसारिणी हि कल्पना ।
कर्ता ह्यनेककरणाधिष्ठानेन युगपन्नानाकार्याणि कुर्वाणो दृष्टः ।
तथाहि ।
युगपन्माणवको गच्छति पठति पन्थानमीक्षते वहति च कमण्डलुम् ।
तस्मान्नैव कर्तृधर्मो युक्तः कल्पयितुम् ।
किन्तु दृष्टत्वाद् द्रव्यान्तरमेवाव्यापकम् ।
अनैकान्त्यं तु नास्त्येव ।
तत्रापि क्रियाक्रमादेर्निमित्तस्य विद्यमानत्वादिति ।
*7,118f.*
अत्रोच्यते ।
अस्ति तावदविवेकिनामपि मनःप्रतीतिः ।
मम मनो ऽन्यत्र गतमित्यादिव्यवहारात् ।
नच ते युगपज्ज्ञानानुत्पत्तिं जानन्ति ।
प्रत्युत युगपदेव ज्ञानोत्पत्तिं मन्यन्ते ।
अन्यथा व्यासङ्गे क्रमदर्शनेनान्यत्रापि क्रमानुमानं परस्य व्यर्थं स्यात् ।
तस्माल्लिङ्गदर्शनात्प्रागेव भवदिदं मनोज्ञानं न तन्निमित्तकमिति ।
अस्तु तर्हि बुद्धयादीनामसमवायिकारणस्य संयोगस्याश्रयतया मनःसिद्धिः ।
मैवम् ।
प्रत्यक्षज्ञाने तावदिन्द्रियात्मसंयोगस्यैवासमवायिकारणत्वस्योपपत्तेः ।
अनुमित्यादौ लिङ्गज्ञानादेः ।
स्मृतौ भावनायाः, सुखादाविष्यार्थोपलब्धादेरिति ।
नित्यविशेषगुणानां संयोगासमवायिकारणत्वनियमान्नैवमिति चेन्न ।
विभाग(ज)शब्दजशब्दे व्यभिचारात् ।
अश्रावणत्त्वेन हेतुविशेषणान्नेति चेत् ।
यथा तर्हि विभागादिशब्दे कारणान्तरदर्शनात्तन्निरासार्थं व्याप्तिग्रहणवेलायां प्रयत्यते तथा सुखादिनिरासाय प्रयतनीयम् ।
असमवायिकारणान्तरदर्शनस्य तुल्यत्वात् ।
निमित्तं तदिति चेन्न ।
असमवायिकारणलक्षणस्यातिव्याप्तिप्राप्तेरिति ।
नच सुखाद्युपलब्धिकरणत्वेन मनस्सिद्धिः ।
साक्षिसिद्धतयान्यथासिद्धेः ।
*7,123*
एवमनुमानान्तरमपि निरसनीयम् ।
नचागमो मनसि प्रमाणम् ।
जातिबधिराणामपि तत्प्रत्ययात् ।
तस्मात्सिद्धं साक्षिग्राह्यत्वं मनसः ।
तस्य च तेनैवात्मनो भिन्नतया ग्रहणाद्भेदाग्रहासम्भवेनेच्छाम्यहमीति न भेदाग्रहनिबन्धनो व्यवहार इति ।
*7,125*
ननु च "कामःसङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्भीर्हीरित्येतत्सर्वं मन एवऽ; इति श्रुतौ कामस्यान्तःकरणरूपत्वं तावत्प्रतीयते ।
नच श्रौतेनार्थेनान्यथा भवितुं युक्तम् ।
अतो बलवद्बाधकोपनिपातादिच्छाम्यहमिति भेदाग्रहनिमित्तं व्यवहारमात्रमेतङ्गीकरणीयम् ।
न त्वात्मन इच्छासम्बन्धानुभवः ।
नच मे मन इति भेदग्रहात्तदग्रहासम्भवः ।
मे चैतन्यमितिवद्वयवहारमात्रत्वात् ।
नचोक्तानुपपत्तिः ।
सत्त्वरजस्तमसामादिकार्यं हि बुद्धिरित्युच्यते ।
सा चांशत्रयवती ।
पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेत्यंशाः ।
भवति ह्यहमिदं करोमीति ।
तत्राहमिति चेतनोपरागो दर्पणस्यैव मुखोपरागो भेदाग्रहादतात्त्विकः ।
इदमिति विषयोपराग इन्द्रियप्रनाडिकया परिणतिभेदो दर्परस्येव मलसम्बन्धः पारमार्थिकः, तथोभयायत्तो व्यापारावेशः ।
एषैव दिगहमिच्छामीत्यत्रापीत्यत आह- उभयेति ॥
... उभयात्मकता यतः
कामस्य तु मनः कामः ...
न्यायसुधा:
तुशब्दो ऽवधारणे ।
तत इत्युपस्कर्तव्यम् ।
यतः कारणात्कामस्योभयात्मकतास्ति ।
आत्मधर्मता मनोधर्मता च ।
तत एव मनः काम इति श्रुतिरुपपद्यते ।
इदमुक्तं भवति ।
भवेदिदं भेदाग्रहकल्पनम् ।
यद्यात्मनः कामवत्त्वं पारमार्थिकं न स्यात् ।
नचैतदस्ति ।
बाधकाभावात् ।
द्विविधो हि कामो ऽस्ति ।
एक आत्मधर्मो ऽपरो ऽन्तःकरणधर्मः ।
तत्रान्तःकरणधर्मं काममभिप्रेत्य श्रुतिः प्रवृत्ता, नात्मनः कामवत्त्वं बाधते ।
नहि देवदत्तो गोमानिति वाक्यं यज्ञदत्तस्य गोसम्बन्धं बाधितुं शक्नोतीति ।
*7,133*
स्यादेतदेवम् ।
यदि कामद्वैविध्यं प्रमितं स्यात्, एतदेव कुत इति चेत् ।
श्रुत्यनुभवबलात्तावत् ।
प्रकारसहस्रानुसरणे ऽप्यघटनायां खल्वनुभवापलापसाहसमभ्युपेयम् ।
प्रमाणान्तरं चाह- प्रियेति ॥
... प्रियाप्रियविभेदतः ।
द्वैविध्यं दृश्यते चास्य ...
*7,133f.*
न्यायसुधा:
प्रियमित्यात्यन्तिकेष्यमुच्यते ऽप्रियमिति च तात्कालिकेष्यम् ।
विषयेण विषयिण उपलक्षणम् ।
अस्य कामस्य ।
अयमर्थः ।
अस्ति तावदास्तिककामुकस्य पुरुषस्य स्रक्चन्दवनितादौ इदं मे स्यादित्येकतः कामः ।
अन्यतस्त्यजेयमिति ।
नचैक एवायम् ।
विरुद्धरूपत्वात् ।
नच द्वावपि मनोधर्मौ, यौगपद्यात् ।
युगपत्सजातीयधर्मजननायोगात् ।
नच यौगपद्यं नास्ति ।
अनुभवसिद्धत्वात् ।
बाधकाभावाच्च ।
तत्र यो ऽप्रियविषयः सः अन्तःकरणधर्मः यस्तु प्रियविषयः स आत्मधर्म इति ।
*7,134*
यद्वा प्रियाप्रियशब्दाभ्यां मुक्तिसंसारावुच्येते ।
तत्सम्बन्धिविभेदेन कामद्वैविध्यं दृश्यत इति ।
अस्ति तावत्संसारे प्रचुरो ऽयमन्तःकरणवृत्तिरूपः कामः ।
अस्ति चासौ मुक्तौ ।
"स यदि पितृलोककामो भवतिऽ; इत्यादिश्रुतेः ।
नचैक एवायम् ।
मुक्तावन्तःकरणविलयात् ।
तथाचासावात्मधर्मो ऽभ्युपेयः ।
नचागन्तुकधर्मसम्बन्धो मुक्ताविति प्रागपि कामद्वैविध्यं सिद्धयतीति ।
*7,136*
श्रुतिबाधपरिहारस्य प्रयोजनमाह- तस्मादिति ॥
*7,137*
... तस्माद् भेदाग्रहः कुतः
न्यायसुधा:
श्रुतिविरोधस्य परिहृतत्वाद्भेदाग्रहः कुतः प्रमाणात्कल्पनीयः ।
कुतश्चानुभवापलापेन व्यवहारस्य तन्निमित्तत्वम् ।
न कुतो ऽपीत्यर्थः ।
अनेनाचेतनस्य प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वं साधयतामनुमानमपि स्ववचनविरोधः प्रमाणविरोधश्चोक्तौ भवतः ।
दृष्टान्तश्च साध्यविकलः ।
अचेतनस्वातन्त्र्यस्य क्वाप्यसम्मतेरिति ।
*7,138*
सूत्रार्थमुपसंहरन्नानुमानमित्येतत्प्रकारान्तरेण व्याचष्टे- रचनेति ॥
रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् ।
अचेतनं जगत्कर्तृ ... ॥ मनुव्_2,2.23अ-च् ॥
न्यायसुधा:
तत्तस्मात् ।
सर्वज्ञानुमागतमनुमानं प्रकृत्यादिकं, कस्यचित्प्रत्यक्षं, प्रमेयत्वादिति सर्वमसाधकानुमयावगतम् ।
एतदनुमानसिद्धसर्वज्ञवाक्यावगतमिति यावत् ।
यद्वानुमानसिद्धप्रामाण्यकत्वेनानुमानप्रधानत्वेन च सर्वज्ञाभिमतस्य वाक्यमेव सर्वज्ञानुमोच्यते ।
व्याख्यानान्तरस्य चेदं प्रयोजनम् ।
यत्प्रागुक्तं न योगिप्रत्यक्षेण साङ्खयाचार्यवचनेन वायमर्थः सिद्धयतीति तदपि सूत्रसूचितमेवेति ज्ञापनम् ।
यदा तु सर्वज्ञाभिमतोत्प्रेक्षितया भेदानां परिमाणादित्यादिकयानुमयावगतमानुमानमिति योजना ।
तदा वैचि(त्र्य)त्रीप्रदर्शनं व्याख्यानान्तरप्रयोजनम् ।
जगत्कर्तृ स्वातन्त्र्येण जगत्कारणम् ।
*7,142f.*
स्यादेतत् ।
परिमाणादिहेतुभिस्तावन्महदादिकार्याणां किमपि मूलकारणमस्तीत्यवगम्यते ।
तस्यापि कारणान्तरकल्पने प्रमाणाभावादनवस्थानाच्च ।
तस्य च स्वातन्त्र्यं कारकान्तराप्रयोज्यत्वमेव नतु स्वेच्छानुसारित्वम् ।
येनोक्तदोषः स्यात् ।
तच्च तत्प्रयोक्तुः कारकान्तरस्याप्रामाणिकत्वादेव सिद्धम् ।
नचाचेतनस्य तदसम्भावितम् ।
अचेतनेष्वपि पयो ऽम्बुप्रभृतिषु दर्शनात् ।
अचेतनमेव हि पयो ऽन्यानधिष्ठितमपि वत्सविवृद्धयर्थं प्रवर्तते ।
दधिभावं चापद्यते ।
घनविनिर्मुक्तं चाम्बु जम्बीरनारिकेलादिष्वनेकविधं विकारं प्राप्नोति ।
नादेयं चापसर्पति ।
तृणं च गवा जग्धं क्षीरीभवति ।
अयश्चायस्कान्तमभिसर्पति ।
नच"इदं नाचेतनवशम्ऽ; इत्यादिप्रमाणविरोधः ।
तस्योक्तस्थानेष्वेवानैकान्त्यम् ।
नचेदं ब्रह्मवादिनां सम्मतम् ।
येन सिद्धसाधनं स्यादित्याशङ्कापरिहारार्थं सूत्रम्- ॥
ओं पयो ऽम्बुवच्चेत्तत्रापि ओं ॥
इति ।
तद्वयाचष्टे- पयो ऽम्ब्वादि चेति ॥
*7,143*
पयो ऽम्बुवच् चेत् तत्रापि
... पयो ऽम्ब्वादि च नोपमा
एतत्प्रशास्तिवचनाच्चेतनाचेतनस्य च
न्यायसुधा:
उपमा स्वार्थसम्भावनायामस्मदीयहेतुव्यभिचारे चेति शेषः ।
यथात्र साध्यं व्यभिचरति तथा पक्षे ऽपि व्यभिचरतु हेतुरित्येवमर्थं हि व्यभिचारोद्भावनम् ।
तदत्र न युज्यते ।
चेतनाचेतनस्यैतत्प्रशास्तिवचनात् ।
पारमेश्वरप्रेरणाप्रतिपादकश्रुतेः ।
आद्यश्चशब्दो लौकिकानां स्वतन्त्रतया प्रतीयमानमपीत्यर्थे ।
द्वितीयस्तु न केवलमचेतनस्य ।
किन्तूभयस्यापीति ।
एतदुक्तं भवति ।
कारकान्तराप्रयोज्यत्वलक्षणमपि स्वातन्त्र्यं न प्रधानस्योपपद्यते ।
असम्भावितत्वात् ।
उक्तानुमानविरुद्धत्वाच्च ।
*7,146*
यदुक्तमत्र पयोम्ब्वादिवदिति ।
तदसत् ।
तत्रापीश्वरप्रेरणया"एतस्य वा अक्षरस्यऽ; इत्यदिश्रुतिसिद्धत्वात् ।
अत एव प्रधानस्य परप्रयोज्यत्वे प्रमाणाभावो ऽपि परास्त इति ।
सूत्रे पयो ऽम्बुवदित्युक्ते ऽपि नोदाहरणमादरणीयम् ।
स्थलान्तरे सम्भावना व्यभिचारश्च भविष्यत इत्याशङ्कापरिहारार्थस्य"व्यतिरेकानवस्थितेश्चानपेक्षत्वात्ऽ; इति उत्तरसूत्रस्यापि व्याख्यानायादिपदप्रयोगः ।
यद्वा पयो ऽम्बुग्रहणमुपलक्षणमित्यभिप्रेत्यादिपदं प्रत्युक्तम् ।
उत्तरसूत्रं तु कैमुत्यार्थम् ।
चेतनप्रवृत्तेरपीश्वरव्यतिरेकेणानवस्थितेरचेतनप्रवृत्तेस्तदधीनत्वं किमु वाच्यमिति ।
तद्वयाख्यानाय चेतनाचेतनस्य चेत्युक्तम् ।
व्यास-(22)
*7,145*
किञ्च परिमाणादिति हेतुस्तावदनैकान्तिकः ।
सत्त्वरजस्तमसां साम्यावस्था हि प्रकृतिरुच्यते ।
सत्त्वादयश्च परिमिता एव ।
यथोक्तम् ।
अबग्नीरनभो ऽहङ्कृन्महत्तत्त्वगुणत्रयैः ।
क्रमाद्दशोत्तरैःऽ; (आदि पु.वें.माहा.2-46) इति ।
नच प्रकृतिरव्यक्तान्तरवतीति कथं नानैकान्त्यम् ।
नच परिमितस्यापि मूलप्रकृतित्वे बाधकमस्ति ।
सार्वत्रिककार्यानुत्पत्तिपरिमितानामेव कारणत्वम् ।
तन्त्वादिषु दर्शनात् ।
अपरिमितस्य कृत्स्नैकदेशविकल्पानुपपत्तेश्च ।
अस्माकं त्वीश्वरशक्त्यैवोपपद्यते ।
समन्वयादित्यप्यसत् ।
यत्कार्यं यदनुगतिमत्तत्तादृक्कारणोपेतमित्यस्या व्याप्तेरव्यक्ताद्वयक्तजन्माङ्गीकारेणैव भग्नत्वात् ।
शक्तितः प्रवृत्तेश्चेत्येतदपि न विवक्षितार्थसाधकम् ।
अन्तर्भावितकार्यत्वमेव कारणस्य शक्तिरित्यस्य सिद्धौ हि तथा स्यात् ।
तच्च सत्कार्यवादनिर्वाह्यमिति ।
अत एव विभागाविभागावपि निरस्तौ ।
विभागाविभागयोरेव सत्कार्यवादसिद्धयधीनयोरसत्त्वात् ।
स्वप्रक्रियामात्रेणार्थसिद्धौ"स्थूलकायर्स्य लोष्ठादेःऽ; इत्यादिना तार्किकपरिकल्पिताभ्यां विभागाविभागाभ्यां परमाणुकारणत्वमपि स्यादित्यास्तां प्रपञ्चः ।
*7,151f.*
नन्विदं घट्टकुट्टीप्रभातन्यायमनुसरति ।
इच्छावत्त्वमात्मन एव न तु जडस्येत्यत्र हि प्रथममनुभवः प्रमाणीकृतः ।
तत्र च श्रुतिविरोधे चोदिते ऽन्तःकरणधर्म आत्मधर्मश्चेति कामस्य द्वैविध्यान्न विरोध इत्युक्तम् ।
एवञ्चात्मन एवेच्छावत्त्वं न त्वचेतनस्येति त्यक्तमेवेत्याशङ्कां सिंहावलोकनन्यायेन परिहरति- द्वैविध्ये ऽपीति ॥
*7,152*
द्वैविध्ये ऽपितु कामादेः कुतः स्वामित्वमात्मनः
साक्षादनुभवारूढं शक्यते ऽपोदितुं क्वचित्
न्यायसुधा:
कामादेर्द्वैविध्ये ऽपि साक्षादनुभवारूढमात्मनः कामादेः स्वामित्वं तु कुतः प्रमाणादपोदितुं शक्यते न कुतो ऽपीति योजना ।
श्रुत्यपेक्षयाऽदिपदग्रहणम् ।
अपोदितुमिति सम्प्रसारणं छान्दसम् ।
अयमत्रोत्तरक्रमः ।
सत्यं कामो द्विविध आत्मधर्मो मनोवृत्तिश्चेति ।
तत्र मनोवृत्तिमपि कामं प्रत्यात्मन एव स्वामित्वं न मनसः ।
अहं कामय इति साक्ष्यनुभवसिद्धत्वात् ।
मनसस्तु कामं प्रत्युपादानत्वमेव ।
यथा हि ।
क्षेत्रोपादानकानामपि सस्यानां कृषीवल एव स्वामी न क्षेत्रं तथैव ।
नच वाच्यं मनस एव कामस्वामित्वमहं कामय इत्यनुभवस्तु भ्रान्तिर्व्यवहारमात्रं वेति ।
बाधकप्रमाणाभावात् ।
नच कौटस्थ्यं बाधकम् ।
अन्तःकरणस्यैव कामोपादानत्वेनाङ्गीकृतत्वात् ।
स्वामित्वमात्रेण च कौटस्थ्याविघातात् ।
अन्यथा कृपणधनस्येवात्मनो वैयर्थ्यापत्तेरिति ।
तदिदमुक्तं क्वचिदिति ।
*7,155*
नन्वस्तु कामस्वामित्वमात्मन एव मा भूच्च मनसः ।
तथापि पूर्वोत्तरविरोधस्तदवस्थ एव ।
इच्छास्वामित्वाभावे ऽपि यादृशतादृशस्येच्छावत्त्वस्य मनस्यङ्गीकृतत्त्वादित्यत आह- इच्छेति ॥
इच्छास्वामित्वमेवोक्तमिच्छावत्त्वं नचापरम्
न्यायसुधा:
अचेतनेच्छापगतेत्यादाविच्छास्वामित्वमेवेच्छावत्त्वमुक्तम् ।
नचापरमिच्छोपादानत्वलक्षणम् ।
एतदुक्तं भवति ।
स्यादत्र पूर्वापरविरोधः ।
यदि यदेवेच्छावत्त्वं प्राङ्मनसो निषिद्धं तदेवात्र पुनरङ्गीक्रियेत ।
न चैतदस्ति ।
पूर्वं हीच्छास्वामित्वलक्षणमिच्छावत्त्वमात्मन एव न त्वचेतनस्येत्युक्तम् ।
तस्यैव कर्तृत्वोपयोगात् ।
श्रुत्यर्थतया त्विच्छोपादानत्वलक्षणमिच्छावत्वमिदानीं मनसो ऽभ्युपगम्यत इति कुतो विरोध इति ।
*7,156*
यद्वा कामस्य द्वैविध्येन मनसो ऽपि कामवत्त्वात्कर्तृत्वमुपपत्स्यत इत्यत आह- द्वैविध्ये ऽपीति ॥
द्वयोः कामवत्त्वे ऽपि कामस्वामित्वमात्मन एव न तु मनसः ।
निरपवादसाक्ष्यनुभवसिद्धत्वात् ।
मनसस्तु कामोपादानत्वमेवेति ।
ततः किमित्यत आह- इच्छेति ॥
इच्छास्वामित्वलक्षणमेवेच्छावत्त्वं प्राक् कर्तृत्वोपयुक्तमुक्तम् ।
न पुनरिच्छोपादानत्वलक्षणम् ।
यो हीच्छति स प्रयतते न तु यदिच्छा भवति तदिति ।
तस्मादिच्छास्वामित्वाच्चेतनस्यैव कर्तृत्वं नाचेतनस्य ।
तस्येच्छोपादानत्वे ऽपीच्छास्वामित्वाभावादिति ।
*7,157*
स्यादेतत् ।
स्वं नाम तद्भवति, यद्यथेष्यविनियोगयोग्यम् ।
यथा गवादि ।
स्वामी च स उच्यते यो यथेष्यविनियोक्ता ।
नचेच्छात्मनोरेतदस्ति ।
यस्मादास्तिककामुकस्य निषिद्धेच्छां नियच्छतो ऽपि (इच्छा)साऽविर्भवति ।
प्रयतमानस्यापि विहितेच्छा नोदेति ।
तत्कथमिच्छास्वामित्वमात्मनः स्यादिति चेत् ।
किमिच्छाऽत्मनः सर्वथापि वशा न भवति इत्युच्यते ।
उत किञ्चिद्वशत्वमङ्गीक्रियते ।
नाद्यः ।
अनुभवविरोधात् ।
इच्छति देवदत्त इत्यादिव्यवहारविरहप्रसङ्गाच्च ।
द्वितीये तु सिद्धं स्वामित्वमित्याह- किञ्चिदिति ॥
किञ्चित् तद्वशगत्वे ऽपि स्वामित्वं लोकवद् भवेत्
न्यायसुधा:
प्रबलविरोधिवशादत्यन्तवशत्वाभावे ऽपीच्छायाः किञ्चिदात्मवशत्वमात्रेणापि तां प्रत्यात्मनः स्वामित्वं भवेदे(वत्ये)व ।
कथम् ।
यथात्यन्तमवशायामपि गवि किञ्चिद्वशत्वमात्रेण देवदत्तस्वामित्वं लोके दृष्टं तथैव ।
अन्यथा तदपि न स्यादिति ।
*7,158*
नन्वेवं सत्येकं सन्धि(दि)त्सतो (परं प्रच्य)न्यच्च्यवत इत्यापन्नम् ।
अचेतनस्य कर्तृत्वं निराकर्तुमात्मन एवेच्छास्वामित्वं नतु मनस इति समर्थितम् ।
तर्हीश्वरस्यापि कुलालादिमनोवृत्तीच्छां प्रति स्वामित्वं नास्तीति घटादिकर्तृत्वं न स्यात् ।
तथाचेतरव्यपदेशादित्यधिकरणविरोधैत्यत आह- सर्वात्मेति ॥
सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः
न्यायसुधा:
यदा जीवस्यापि कामादिस्वाम्यं तदा सर्वात्मना तन्त्रमधीनं कामादि यस्यासौ तथोक्तः ।
सर्वेषामात्मनां तन्त्रं साधनं यः कामस्तस्यादिः कारणं तस्य परेशितुः कामस्वामित्वं किमुतैव वक्तव्यम् ।
एतदुक्तं भवति ।
जीवेश्वरौ द्वावपि शरीरमधितिष्ठतः ।
तत्रेश्वरो ऽन्तःकरणं स्पष्टं दृष्ट्वा तत्र ज्ञानेच्छाप्रयत्नरूपा वृत्तीः स्वेच्छाज्ञानप्रयत्नैरुत्पाद्य बाह्यकरणानि चाधिष्ठाय घटाद्युत्पादयति ।
जीवस्तु तद्दत्तस्वाम्यो ऽवतिष्ठते ।
यथोक्तं"बद्धिर्ज्ञानम्ऽ; इत्यादि ।
तस्मादीश्वरस्यैव मुख्यं स्वाम्यं कर्तृत्वं च ।
जीवस्य त्वमुख्यमेवेति ।
तथा चोक्तम्"स्वस्वामिभावो ध्रुव एष यत्र तर्ह्यच्युते ऽसाविति कृत्ययोगेऽ; इति ।
*7,161*
यदुक्तं निरपवादानुभवबलादात्मन एवेच्छास्वामित्वमिति ।
तदयुक्तम् ।
कामः सङ्कल्प इति मनसः कामस्वामित्वाभिधात्र्यापौरुषेयत्वेन बलवत्या वेदवाचैवापोदितत्वादित्यत आह- नचेति ॥
न चानुभवगं कामस्वामित्वं वेदवागपि ।
शक्तापवदितुं ... ॥ मनुव्_2,2.27अ-च् ॥
*7,161f.*
न्यायसुधा:
कामस्वामित्वमात्मन इति शेषः ।
कामाद्यनुवादेन खल्वियं वेदवाक् आत्मोपादानत्वं वैशेषिकादिमतप्राप्तं वारयितुं तेषां मनोरूपत्वमाचष्टे ।
कामादिस्वरूपं च साक्ष्यनुभवेनैव सिद्धमिति तस्योपजीव्यत्वम् ।
स च तानात्मस्वामिकानेव विषयीकरोति ।
नचोपजीव्यकमुपजीव्यमपवदितुं शक्नोति ।
वेदस्योत्सर्गतो बलवत्त्वे ऽप्युपजीव्यापेक्षया दौर्बल्यमेव ।
यथा आहुः ।
"प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम् ।
उपजीव्यविरोधे तु न प्रामाण्यममुष्य चऽ; इति ।
अतो न श्रुतेरनुभवापवादकत्वं युक्तमिति ।
तर्हि श्रुतेः का गतिरित्यत आह- तस्मादिति ।
... तस्मात् सा तदन्याभिधायिनी
न्यायसुधा:
उपजीव्यत्वेन बलवतानुभवेन बाधितत्वादित्यर्थः ।
तदन्याभिधायिनी स्वामित्वादन्यस्योपादानत्वस्याभिधायिनी ।
*7,164*
न केवलमुपजीव्यबाधात् ।
किन्तूपपत्तिविरोधाच्चेत्याह- मोक्षकाम इति ॥
मोक्षकामो भवेदन्यो यदि मुक्ताद् भविष्यतः
न्यायसुधा:
यदि कामो ऽन्तःकरणकर्तृकः स्यात्तदा मोक्षकामो ऽप्यन्तःकरणस्यैव स्यात् ।
मोक्षस्तु आत्मन इति च प्रसिद्धम् ।
तथाच यो मुक्तो भविष्यति तस्मादन्य एव मोक्षकाम इतयुक्तं स्यात् ।
कामस्यान्यगतत्वे साधनानुष्ठाताप्यन्य एवेत्यङ्गीकर्तव्यम् ।
फलकामनासाधनानुष्ठानयोरेकनिष्ठत्वदृष्टेः ।
तथाचाकृताभ्यागमकृतविप्रणशप्रसङ्गः ।
*7,166*
ननु नायं दोषः ।
पुरुषविमोक्षार्थं प्रकृतिप्रवृत्त्यभ्युपगमात् ।
दृश्यते हि परप्रयोजनार्थं जनानां प्रवृत्तिरिति ।
अत्रेदमुपतिष्ठते- मोक्षकामस्येति ॥
मोक्षकामस्य किं तेन ...
न्यायसुधा:
उपलक्षणमेतत् ।
साधनानुष्ठातेत्यपि द्रष्टव्यम् ।
परप्रयोजनार्तं प्रवतर्मानाः खलु लोके दृष्टमदृष्टं वा किमपि प्रयोजनमनुसन्दधानाः प्रायेणोपलब्धाः ।
तथात्रापि प्रकृतेः प्रयोजनेन भाव्यम् ।
नच तदस्तीत्यर्थः ।
स्यादेतत् ।
स्वप्रयोजनमननुसन्धायैव जीवमोक्षार्थं प्रकृतेः प्रवृत्तिः, यता कृपालुत्वेन भवतामीश्वरस्येत्यत आह- स्वनाशार्थं चेति ॥
... स्वनाशार्थं च को यतेत्
*7,167*
न्यायसुधा:
न केवलं परप्रयोजनार्था प्रकृतेः प्रवृत्तिर्युज्यते ।
प्रकृतिलयो हि मोक्षो नाम ।
न हि को ऽपि कृपालुरात्मनाशार्थं यतमानो दृष्ट इति ।
यद्यप्यत्रानाधेयातिशयस्य निष्क्रियस्योपकार्यत्वमपि क्वचिन्न दृष्टमित्येव वक्तव्यम् ।
तथापि तच्छिष्यैरेवोह्यतामिति तदभ्युपगमेन दूषणान्तरमिदमुक्तम् ।
*7,168*
नन्विदमयुक्तम् ।
चेतनो हि स्वप्रयोजनमनुसन्दध्यात् ।
स्वनाशाच्च बिभ्यत् परावर्तेत ।
प्रकृतिस्त्वचेतना कथमेवं पर्यनुयोगमर्हतीति ।
एवं तर्हि कथमात्ममोक्षमप्यनुसन्धाय प्रवर्तेत ।
स्वभावो ऽयं प्रधानस्येति चेत् ।
तर्हि कदापि संसारो ऽस्य न स्यात् ।
भोगार्था प्रवृत्तिः प्रकृतेः स्वभाव इति चेत् ।
तर्हि मोक्षाभावः ।
उभयस्वभावत्वे तूभयं न स्यात् ।
विरोधात् ।
अविरोधे वा युगपदुभयं स्यात् ।
व्यवस्थापकाभावात् ।
भोगेषूपभुक्तेषु मोक्षार्थेति चेन्न ।
भोगानामानन्त्येनापरिसमाप्तेरिति ।
अयं प्रसङ्गाथर्ः ।
यद्यात्मा न कामकर्ता स्यात्तदा मुमुक्षुरपि न स्यात् ।
ततश्च न तदर्थं प्रयतेत ।
तथाच न मुच्येत ।
परप्रवृत्तेः स्वप्रयोजनभावाभावयोरयुक्तत्वादिति ।
बहुलमेतन्निदर्शनमिति स्मरणाद्यतेदिति परस्मैपदम् ।
तथाचाह"चन्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदम्ऽ; इति ।
*7,171*
एवमनीश्वरसाङ्खयमतं साधारणदूषणैरपाकृत्य ये कर्तृत्वं प्रकृतेरेव भोक्तृत्वं त्वात्मन इति मन्यन्ते तन्मतं दूषयति- कर्तृत्वमिति ॥
कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते
न्यायसुधा:
यद्वैवमात्मनः कर्तृत्वमुपपाद्य भोक्तृत्वमप्यनेनैवोपपादयति ।
येन मयेदं कृतं स एवाहं तत्फलं भुञ्ज इति कर्तृत्वभोक्तृत्वयोः सामानाधिकरण्यानुभवात्तयद्वैयधिकरण्याङ्गीकारे ऽनुभवविरोध इत्यर्थः ।
भ्रान्तो ऽयमनुभव इति चेन्न ।
बाधकाभावादित्याह- विभागे चेति ॥
विभागे च तयोर्मानं नैव किञ्चित् क्वचिद् भवेत्
न्यायसुधा:
तयोः कर्तृत्वभोक्तृत्वयोः ।
विभागे व्यधिकरणत्वे ।
अकृताभ्यागमकृत- विनाशौ चैवं सति स्यातामिति ।
*7,172*
यदुक्तमात्मनो मोक्षो न स्यादिति ।
तदिष्यापादनम् ।
प्रकृतेरेव मोक्षाभ्युपगमात् ।
नच बन्धमोक्षयोर्वैयधिकरण्यानुपपत्तिः ।
बन्धस्यापि प्रकृतिगतत्वादिति चेन्न ।
सकलश्रुतिस्मृतीहासपुराणानुभवैर्बन्धमोक्षयेरात्मगतत्वावगमेन तद्विरोधादित्याशयवानुपसंहरति- सर्वेति ॥
सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम् ।
मायावाद्युपमां यायात् ...
न्यायसुधा:
सर्वमानविरोध एव या प्रधानदुर्दीक्षा दुष्यो ऽनुष्ठानसङ्कल्पः ।
तया दीक्षितो ऽयं तु साङ्खयो मायावादिनामुपमात्वं प्राप्नुयात् ।
ते ऽपि हि कर्तृत्वभोक्तृत्वादिसकलधर्मविकलमसत्कल्पं चैतन्यमात्रमङ्गीकृत्याविद्याया एवाचेतनायाः सर्वकारणत्वं बन्धमोक्षाधिकरणत्वं चाभ्युपगच्छन्ति ।
तदेतेषां सर्वप्रमाणविरुद्धार्थाङ्गीकारित्वे साङ्खयो ऽयं दृष्टान्तभावमापद्यत इति ।
*7,174*
यत्पुरुषबहुत्वं साङ्खयेनाङ्गीकृतं तदपि मायावादिभिरभ्युपगतमेव ।
जननादिप्रकृतिधर्मैरेव हि तद्बहुत्वम् ।
नतु स्वरूपे कश्चिदस्ति परस्परतो विशेषः ।
मायावादिनो ऽपि उपाधिनिबन्धनं भेदमङ्गीकुर्वन्त्येव ।
नच प्रपञ्चसत्यत्वं विशेषः ।
कारणमात्रत्वाभ्युपगमेन कायर्प्रपञ्चस्य साङ्खयेन निरस्तत्वादिति ।
*7,177*
यापि साङ्खयपरिकल्पिता सृष्टिप्रलयबन्धमोक्षतत्साधनप्रक्रिया सापि सर्वप्रमाणविरुद्धेत्युक्तं भवति ।
*7,178*
न केवलं साङ्खयस्य मायावादिसदृशत्वमस्माभिरेवोच्यते, किन्तु सूत्रकृतापि सूचितमित्याह- तदिति ॥
... तच्चशब्दान्निराकृतः
न्यायसुधा:
तस्मान्मायावादिसदृशत्वादेव हि साङ्खयो भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवदिति प्राक् पराकृतेन मायावादिना रचनानुपपत्तेश्च नानुमानमिति चशब्देन समुच्चित्य निराकृतः ।
यद्वा प्रमाणविरोधो ऽपि नोत्सूत्रित इत्यनेनाह ।
तस्मात्सर्वमानविरोधित्वादेव ।
चशब्दात्सर्वमानविरोधसमुच्चयार्थं चशब्दं प्रक्षिप्येत्यर्थः ।
॥ इति श्रीमन्न्यायसुधायां रचनानुपपत्त्यधिकरणम् ॥
*7,180*
[======= ज्न्य्स्_2,2.इइ: अन्यत्राभावाधिकरण =======]
॥ अथ श्रीमन्न्यायसुधायां अन्यत्राभावाधिकरणम् ॥
अन्यत्राभावाच् च न तृणादिवत्
॥ ओं अन्यत्राभावाच्च न तृणादिवत् ओं ॥
इदं सूत्रं केचिदित्थं व्याचक्षते ।
यथा तृणपल्लवादिकं गवादिनोपभुक्तं स्वयमेव क्षीरीभवति ।
एवं प्रधानं स्वयमेव महदादिरूपेण परिणमत इत्याशङ्का किलात्र निरस्यते ।
न तृणादिवत्स्वयमेव प्रधानस्य परिणामो वक्तव्यः ।
यतस्तृणादीनामपि स्वयमेव परिणामो नास्ति ।
कुतः ।
अन्यत्रानडुहोपभुक्ते तदभावादिति ।
अत्राशङ्कैव तावदनुपपन्ना ।
पयो ऽम्बुवच्चेत्तत्रापीत्यनेनैव परिहृतत्वात् ।
प्रत्युदाहरणं च सूत्रप्रणयनायोगात् ।
परिहारो ऽप्ययमनुपपन्नः ।
गवाद्युपभुक्तस्यैव क्षीरत्वं नान्यत्रेति हि वदता प्रकृतेः सहकारिसद्भावमात्रमुपपादितं स्यात् ।
न पुनरीश्वरापेक्षत्वम् ।
अतो नायं सूत्रार्थः ।
किन्तु पातञ्जलमतमत्राधिकरणे निराक्रियत इत्याशयवांस्तदुपन्यस्यति- साङ्खयानामिति ॥
साङ्खयस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ।
अस्तीश्वरः स्वयम्भातः क्लेशकर्मादिवर्जितः
न्यायसुधा:
साङ्खयमतस्य निरस्तत्वात्किं पुनरुपन्यासेनेत्यतो ऽस्य मतस्य ततो विशेषं तुशब्देन सूचयति ।
तमेव विशेषं व्यनक्ति- सेश्वर इति ॥
सेश्वरश्चेन्न निराकार्यो विरोधाभावादित्यत उक्तम्- क्षेत्रेति ॥
तुशब्दो ऽवधारणार्थो ऽत्राप्यन्वीयते ।
यद्यपि सेश्वर इत्यनेनैवेश्वरो ऽस्तीति ब्रूत इति सिद्धम् ।
तथापि तदनुवादेन विशेषणविधानमेवैतत् ।
य ईश्वरो ऽस्ति स क्षेत्रानुग्रहशक्तिमानेवेति ब्रूत इति ।
क्षियन्त्यस्मिन्कार्याण्यव्यक्ततयेति क्षेत्रमुपादानं प्रकृतिः ।
तदनुग्रहशक्तिरेवेश्वरस्य तेनाभ्युपगम्यते ।
अतो निराकरणीय एवासाविति ।
सर्वशक्तित्वाभावे किं तस्येश्वरत्वमित्यत उक्तम्- स्वयम्भात इति ॥
स्वयमिन्द्रियाद्यनपेक्षमेव भातः ।
कर्तरि क्तः ।
ततश्च सर्वज्ञ इति लभ्यते ।
ईश्वरत्वोपपादकं विशेषणान्तरमाह- क्लेशेति ॥
क्लेशकर्मविपाकाशयवर्जित इत्यर्थः ।
तथाचाह पतञ्जलिः ।
"क्लेशकर्मविपाकशयैरपरामृष्टः पुरुषविशेष ईश्वरःऽ; इति ।
तथा"निर्माणकायमधिष्ठाय सम्प्रदायप्रवर्तको ऽनुग्राहकश्चऽ; इति ।
तत्राविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः ।
अनात्मन्यात्मबुद्धिरविद्या ।
इदं मदीयमित्यभिमानो ऽस्मिता ।
विषयेष्वासक्ती रागः ।
कोपो द्वेषः ।
भयमभिनिवेशः ।
एत एव पञ्च क्लेशास्तन्त्रान्तरे तमो मोहो महामोहाः तामिस्रो ऽन्धतामिस्र इति व्यवह्रियन्ते ।
वार्षगण्यस्त्वेनानविद्येत्येवाह ।
कर्मेति
विधिनिषेधावुच्येते ।
आशयशब्देन धर्माधर्मौ ।
विपाक इति तत्फलं सुखदुःखे तदुपायश्चेति ।
इतिशब्दस्य आगामिनः प्रतिवाक्यं सम्बन्धः ।
*7,185*
वेदवादविरोधं स्फुटीकर्तुमवधारणव्यावर्त्यमाह- क्षेत्रेति ॥
क्षेत्रशक्तिमती सैव प्रकृतिर् ...
न्यायसुधा:
या जगदुपादानं सा प्रकृतिरेवोपादानत्वशक्तिमती ब्रूते ।
न पुनर्वेदवादिन इव तामपि शक्तिमीश्वरायत्ताम् ।
व्यावर्त्यान्तरमाह- बीजेति ॥
... बीजशक्तिमान् ।
जीवः पर्जन्यवद् ...
न्यायसुधा:
अत्राप्येवेति सम्बद्धयते ।
शरीरेन्द्रियादिसम्बन्धेनोत्पत्तौ या शक्तिः सा बीजशक्तिः ।
जीव एव तद्वानिति ब्रूते ।
नतु तदीयां बीजशक्तिं तत्त्व(वादिन)विद इव भगवदधीनाम् ।
यद्युपादानत्वोत्पत्तिशक्तिमत्त्वं प्रकृतिपुरुषयोरेव तदा किमीश्वरेणानुग्राहकेणेत्यत आह- पर्जन्यवदिति ॥
यथा हि पृथिव्याः कलमादिबीजानां चोपादानत्वबीजत्वशक्ती यद्यपि स्वायत्ते ।
तथाप्यङ्कुरोत्पत्तौ पर्जन्यस्यास्ति पृथिव्यनु(ग्रहकारक)ग्राहकत्वम् ।
तथा प्रकृतिपुरुषयोः स्वायत्तशक्तित्वे ऽपीश्वरः प्रकृत्यनुग्रहशक्तिमानङ्गीकरणीयः ।
तत्किं पर्जन्यवदन्वयव्यतिरेकाभ्यामीश्वरस्य प्रकृत्यनुग्राहकत्वमवसेयं नेत्याह- दैवेति ॥
... दैवशक्तिमानीश्वरः स्मृतः
न्यायसुधा:
दैवशब्दो ऽदृष्टस्वरूपत्वमाह ।
तेनान्वयव्यतिरेकाविषयत्वं लक्षयति ।
तत्किं निष्प्रमाणक एवेश्वरः प्रकृत्यनुग्राहको ऽङ्गीकरणीय इत्यत उक्तम्- स्मृत इति ॥
"मायाध्यक्षेण प्रकृतिः सूयते सचराचरम्ऽ; इत्यादाविति शेषः ।
स्मृत इत्युपलक्षणम् ।
श्रुत इत्यपि ग्राह्यम् ।
प्रकृतिपुरुषयोः स्वायत्तशक्तित्वं कुत इत्यत आह- पृथिवीवदिति ॥
*7,186*
पृथिवीवत् प्रधानं तज् ...
न्यायसुधा:
यथा पृथिव्याः स्वायत्तोपादनत्वशक्तिः तथा तत् तस्मादुपादानत्वात्प्रधानमपि स्वायत्तोपादानत्वशक्तिमदनुमेयमित्यर्थः ।
उपलक्षणं चैतत् ।
कलमादिबीजवद्बीजत्वाज्जीवो ऽपि स्वायत्तबीजशक्तिमाननुमातव्य इत्यपि द्रष्टव्यम् ।
*7,187*
ननु यथा लोके कलमादिबीजानां कश्चिदावपनकर्तास्ति ।
तथात्रापि तत्स्थानीयेन केनापि भाव्यम् ।
नचासावन्यो ऽस्ति परमेश्वरात् ।
तत्कथं क्षेत्रानुग्रहशक्तिमानेवेश्वर इत्यत आह- जीव इति ॥
... जीवः सन्निधिमात्रतः ।
बीजावपनकर्तेवेत्य् ...
न्यायसुधा:
दृश्यते खल्वपत्यजीवो बीजभूतः ।
पितृजीवश्चावपनकर्तृस्थानीयः ।
तस्मात्किमीश्वरस्य तच्छक्तिकल्पनया ।
विषयोत्पत्तौ तु तदपेक्षैव नास्तीति भावः ।
नन्वेवं पितृजीवस्यापत्योत्पादकत्वाङ्गीकारे ऽपसिद्धान्तः स्यात् ।
साङ्खयैर्जीवस्य कर्तृत्वानभ्युपगमादित्यत उक्तम्- सन्निधिमात्रत इति ॥
शरीरादिरूपा प्रकृतिरेवापत्यो(त्पत्ति)त्पादकत्री ।
तत्सन्निधिनिमित्ताद्विवेकाग्रहाज्जीवे तत्कर्तृत्वव्यवहार एवेति ब्रूत इति ।
*7,188*
एवमुप्यस्तमतनिरासार्थं सूत्रमवतारयति- अत्रेति ॥
... अत्र प्राह प्रभुः स्वयम्
न्यायसुधा:
अत्रैतन्मतविषये दूषणं प्राहेत्यथर्ः ।
स्वयं साक्षान्नोपचारेण ।
प्रभुरिति सूत्रकृतो दूषणसामर्थ्यमाचष्टे ।
सूत्रं व्याचष्टे- अन्यत्रेति ॥
अन्यत्र कापि शक्तिर्न स्वातन्त्र्येण्[अ] ...
न्यायसुधा:
अन्यत्र प्रकृतौ पुरुषे ।
तथा पृथिव्यां कलमादिबीजे च ।
कापीति क्षेत्रशक्तिर्बीजशक्तिर्बीजावपनशक्तिश्चेत्यर्थः ।
कथं तर्ह्युपादानत्वादिकमित्यत उक्तम्- स्वातन्त्र्येणेति ॥
कुतो नास्तीत्यत आह- ईशेति ॥
... [ई]श एव हि ।
शक्तीस्ताः प्रेरयत्यञ्जस् ...
न्यायसुधा:
यस्मादीश एव ताः प्रधानादिशक्तीः प्रेरयतीति श्रुत्यादिप्रसिद्धम् ।
तस्मादन्यत्र कापि शक्तिः स्वातन्त्र्येण नास्तीति ।
नच प्रधानादिवदीश्वरस्यापि प्रेरणाशक्तिः परायत्तेत्युक्तम्- अञ्ज इति ॥
क्रियाविशेषणमेतत् ।
*7,189*
तदनेन परकीयानुमानस्य बाधितविषयत्वं दृष्टान्तस्य च साध्यविकलत्वमुक्तं भवति ।
*7,190*
न केवलं प्रकृतिपुरुषयोः स्वातन्त्र्येण शक्त्यभावः परमेश्वरायत्तशक्तित्वं च ।
किं तर्हीत्यतश्चशब्दसमुच्चितमर्थमाह- तदधीनाश्चेति ॥
... तदधीनाश्च सर्वदा
सत्ताप्रधानपुरुषशक्तीनां च प्रतीतयः ।
प्रवृत्तयश्च ताः सर्वा ... ॥ मनुव्_2,2.35अ-च् ॥
*7,191*
न्यायसुधा:
आद्यश्चशब्दः शक्तिप्रेरकत्वस्य सत्तादिप्रदत्वेन सह समुच्चयार्थः ।
उत्तरावन्योन्यसमुच्चये ।
प्रधानपुरुषयोस्तदीयानां शक्तीनां च, सत्ता स्वरूपं, प्रतीतयश्च प्रमाविषयत्वं चेति यावत्, तास्ताः सर्वाः प्रवृत्तयश्च सर्वदा तदधीना इति योजना ।
केचिन्मन्यन्ते स्वरूपमेव वस्तुनः सत्त्वमिति, अपरे तु प्रमाणयोग्यत्वम्, अन्ये पुनरर्थक्रियावत्त्वम् ।
तदिदं त्रयमपि प्रकृत्यादीनां भगवदधीनमेवेति ।
*7,192*
नन्वेतदयुक्तम् ।
प्रधानादिसत्तादेनिर्त्यत्वात् ।
नित्यस्य पराधीनतासम्भवादित्यत आह- नित्यमिति ॥
नित्यं नित्यात्मना यतः
यथा नित्यतया नित्यं नित्यशक्तया स्वयेश्वरः ।
नियामयति नित्यं च ... ॥ मनुव्_2,2.36अ-च् ॥
न्यायसुधा:
यथानित्यं घटादिकमनित्यतया नियम्यते, तथा नित्यमपि नित्यात्मना नित्यं च सर्वदैवेश्वरो नियामयति ।
यत एवं तस्मादुक्तमुपपन्नमिति योजना ।
*7,192f.*
एतदुक्तं भवति ।
यथा हि घटादयो ऽनित्य(त्त्व)स्वभावा अपि नाकस्मादनित्या भवन्ति ।
को दोषः ।
न चानित्यता पराधीनेति कदाचिद्घटादेनिर्त्यता प्राप्ता ।
विनाशकारणोपनिपातघ्रौव्यात् ।
तथा नित्यस्य नित्यतायाः पराधीनत्वे ऽत्रप न जात्वनित्यताप्रसक्तिः ।
तन्नियमननियमादिति ।
तदिदमुक्तम्- नित्यं चेति ॥
न चैतदलौकिकम् ।
नित्यकर्मभिर्दुरितप्रागभावानुवृत्तेः साध्यत्वेन वादिभिरभ्युपगतत्वात् ।
अनुवृत्तेर्नित्यतापादनानतिरेकात् ।
भवेदेतदे(वम)स्वरसनित्यस्य ।
न स्वरसनित्यस्येति चेन्न ।
ईश्वरातिरिक्तस्य तद्भावासम्मतेः ।
इयांस्तु विशेषः ।
किञ्चिदस्मदायत्तनित्यत्वम् ।
किञ्चिच्चेश्वरायत्तनित्यत्वमिति ।
तदप्यस्मासु कस्मान्नायतते तथाभूतं च कथमीश्वराधीनमित्यत उक्तम्- नित्यशक्त्येति ॥
प्रधानादिशक्तेः प्रकृतत्वात् तद्ग्रहणमिदमिति मन्दाशङ्कां वारयितुं स्वयेत्युक्तम् ।
*7,195*
यदुक्तं प्रधानादेरुपादानत्वादिशक्तिर्न स्वाधीना किन्त्वीश्वरप्रेरितैवेति ।
तत्कुत इत्यत आह- नेति ॥
"न ऋते त्वत्क्रियते किञ्चनारेऽ; इति श्रुतेः ।
प्रागुक्तं प्रतिपत्तव्यमिति शेषः ।
शक्तिरेव हि क्रियोच्यते ।
यत्प्रधानादिसत्तादेर्भगवदधीनत्वमुक्तं तस्य सम्भावनैवोक्ता ।
प्रमाणं तु तत्र किमित्यत आह- स्वभावेति ॥
स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया
इति श्रुतेर्न सत्ताद्या अपि नारायणं विना
न्यायसुधा:
कर्मशब्देन धर्माधमर्व्यक्तयो गृह्यन्ते ।
क्रियाः परिस्पन्दाः ।
श्रुतिः वेदः ।
सन्तीति त्रिविधमपि सत्त्वं विवक्षितम् ।
सत्ताद्याः प्रधानादेः ।
नारायणं विना तत्प्रेरणां विना ।
*7,197*
तस्मादन्यत्रोपादानत्वादिशक्तेरभावात्, तत्सत्तादेरपीश्वरायत्तत्वाच्च, न, तृणादीनामुत्पत्तौ पर्जन्यस्येव पृथिव्यनुग्राहकत्वं, ईश्वरस्य महदाद्युत्पत्तौ क्षेत्रानुग्राहकत्वमात्रम्, किन्तु सर्वस्वातन्त्र्यमेव, इति, यदन्यदभ्युपगतं पातञ्जलैर्वैदिकमतविरुद्धं, तत्सर्वं प्रथमाधिकरण एव निरस्तम् ।
किं पुनः प्रयत्नेनेत्याशयवान्पूवर्मतेन सहैतस्य हेतामुपसंहरति- तदिति ॥
तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम्
न्यायसुधा:
विन्ध्यो ऽनीश्वरः साङ्खयः ।
आदिपदेन तदेकदेशिनां पञ्चशिखेश्वरकृष्णादीनां ग्रहणम् ।
तदवान्तरमतयोरपि निरस्तत्वात् ।
यद्वा पतञ्जलिविन्ध्यावादी यस्य तत्तथोक्तम् ।
पतञ्जलिनाङ्गीकृतो ऽपीश्वरो अनी(निरी)श्वरकल्प एव ।
अतः पूर्वस्यास्य च साम्याभिप्रायेण वा सहोपसंहार इति ।
॥ इति श्रीमन्न्यायसुधायां अन्यत्राभावाधिकरणम् ॥
*7,199*
[======= ज्न्य्स्_2,2.इइइ: अभुपगमाधिकरण =======]
॥ अथ श्रीमन्न्यायसुधायां अभ्युपगमाधिकरणम् ॥
अभ्युपगमे ऽप्य् अर्थाभावात्
॥ ओं अभ्युपगमे ऽप्यर्थाभावात् ओं ॥
केचिदिदं सत्रमेवं व्याचक्षते ।
प्राक् प्रधानस्य प्रवृत्तिर्नोपपद्यत इत्युक्तम् ।
अथेदानीं प्रवृत्तेरभ्युपगमे ऽपि तस्याः प्रयेजनाभावादिति ।
तदयुक्तम् ।
अभ्युपगमे ऽपीत्येतावतो वैयर्थ्यात् ।
अर्थाभावाच्चेत्येतावतैव पूर्णत्वात् ।
किञ्च अर्थाभावेन किं साध्यम् ।
साङ्खयमतस्यासामञ्जस्यं वा प्रकृतेः प्रवृत्त्यनुपपत्तिर्वा ।
नाद्यः ।
व्यधिकरणत्वात् ।
कथञ्चिदेकाधिकरणतापादने ऽपि स्वमतेनानैकान्त्यात् ।
न द्वितीयः ।
अभ्युपगम(वाद)विरोधात् ।
न ह्यभ्युपगमवादे ऽपि यदेवाभ्युपगम्यते तदेव निराक्रियते ।
अनास्थां खलु तात्कालिकीमभ्युपगमेन द्योतयन्ति ।
यथास्तु शब्दो नित्यो ऽनित्यो वा, अनुशासनं तावत्कर्तव्यमिति ।
तस्मान्नायं सूत्रार्थः ।
*7,203*
किन्नाम मा भूदचेतनस्य कर्तृत्वं, शरीरस्यैव चेतनावत्त्वेन कर्तृत्वोपपत्तेः ।
किमीश्वरादिनेत्यधिकाशङ्कया प्रत्यवतिष्ठमानस्य चार्वाकस्य मतमत्राधिकरणे निरस्यत इति भावेन तन्मतमुपन्यस्यति- चार्वाकैरिति ॥
चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित्
न्यायसुधा:
चार्वी बुद्धिस्तत्सम्बन्धादाचार्यो ऽपि चार्वी ।
तस्येमे छात्राश्चार्वाकाः ।
तैरक्षजं मानमुच्यते ।
नन्वेतदस्माकमपि सम्मतमित्यतः सावधारणमिदमुक्तमित्याशयेनोक्तं विवृणोति- नापरमिति ॥
अनुमानमागमश्च मानं नोच्यत इत्यर्थः ।
एतदप्यस्माकमनुमतमेव ।
प्रमेयविशेषे प्रत्यक्षस्यैव मानताभ्युपगमादित्यत आह- क्वचिदिति ॥
एतदुक्तं भवति ।
प्रमाणाधीना हि प्रमेयसिद्धिः ।
प्रमाणं च प्रत्यक्षमेव ।
नातो ऽन्यदस्ति ।
नच प्रत्यक्षेणेश्वरं प्रतीमः ।
तस्मात्प्रमाणाभावान्नास्तीश्वर इति ।
ननु यदि प्रत्यक्षातिरिक्तं न प्रमाणं तदा धर्ममोक्षयोस्तत्साधनानां च प्रत्यक्षाविषयाणामसिद्धिः स्यादित्यत आह- देह इति ॥
देह आत्मा पुमर्थश्च कामार्थाभ्यां विना नहि
न्यायसुधा:
ज्ञानवान्खल्वात्मना ।
ज्ञानं च देहधर्मः ।
यथोक्तम्-"पृथिव्यापस्तेजोवायुरिति तत्त्वानि ।
तत्समुदाये शरीरेन्द्रियविषयसंज्ञा ।
तेभ्यश्चैतन्यं मदशक्तिवद्विज्ञानम्ऽ; इति ।
तस्माद्देह एवात्मा ।
स च विनाशीत्यतः कालान्तरभाविनः पुंस एवाभावाद्धर्ममोक्षाख्यपुरुषार्थाभावो नानिष्यः ।
पुरुषार्थौ तु कामार्थावेव ।
पुरुषान्वयसम्भवादिति ।
तत्रापि काम एव मुख्यो ऽर्थस्तु तत्साधनतयैव पुमर्थ इति ज्ञापयितुं कामस्यादौ सङ्कीर्तनम् ।
इति चोच्यत इति सम्बन्धः ।
*7,208*
एतन्मतनिरासार्थं सूत्रं व्याख्यातुमुपोद्घातं तावदाह- यदेवमिति ॥
यदेवं ...
न्यायसुधा:
यद्येवमतीन्द्रियं वस्तु न स्यात् तदा तदीयं शास्त्रं विषयप्रयोजनशून्यमापद्येतेति शेषः ।
तत्कथमिति चेत् ।
किमनेन शास्त्रेण तत्प्रणेता विषयं प्रतिपद्यते प्रयोजनं च लभते ।
उत विनेया नराः ।
आद्यं दूषयति- दर्शनेनेति ॥
... दर्शनेनास्य को ऽर्थः प्रत्यक्षगोचरः ।
लब्धस्तेनैव हि ... ॥ मनुव्_2,2.40अ-च् ॥
न्यायसुधा:
किमाक्षेपे ।
अर्थो विषयः प्रयोजनं च ।
लब्ध उपलब्धः प्राप्तश्च ।
प्रत्यक्षगोचरो हीति ।
तत्र हेतुः ।
ततश्चायमर्थः ।
न तावदनेन शास्त्रेण शास्त्रप्रणेत्रास्तीन्द्रियो ऽर्थः उपलभ्यते ।
तदभावात् ।
नाप्यैन्द्रियकः ।
तस्य प्रत्यक्षगोचरत्वेन विषयत्वानुपपत्तेः ।
"अप्राप्ते हि शास्त्रमर्थवत्ऽ; ।
किञ्च प्रत्यक्षेण तमर्थमुपलभ्य खल्वसौ शास्त्रे प्रवीणवान् ।
अन्यथा (तत्प्र)प्रणयनानुपपत्तेः ।
तथाच तं प्रति तमेवार्थमुपदर्शयत्कथं सविषयं स्यात् ।
एवं प्रयोजनमपि न तावदतीन्द्रियम् ।
तदभावात् ।
नाप्यैन्द्रियकम् ।
तस्य योग्यानुपल(ब्धि)म्भबाधितत्वात् ।
ननु हितोपदेष्यरि जनो ऽनुरज्यते ।
"जनानुरागप्रभवाश्च सम्पदःऽ; इति चेत् ।
कृतघ्नतानिमित्तप्रत्यवायानुसन्धाने सत्येवमेतत् ।
तत्तु परेण त्याजितमिति ।
द्वितीयं दूषयति- नरैरिति ॥
... नरैः शास्त्रात् किं मोहनं विना
न्यायसुधा:
लब्धमित्यनुवर्तते ।
अत्रापि पूर्ववदुत्तरम् ।
स्यादेतत् ।
धर्माद्यतीन्द्रियाभिमतार्थाभावः शास्त्रस्य विषयः ।
तस्य प्रत्यक्षत्वे ऽपि वैदिकवासनानिमित्तशङ्काकलङ्कितत्वेन विषयत्वमुपपद्यते ।
प्रयोजनं च धर्माधर्मशङ्कोपरुद्धार्थकामोपभोगः ।
तत्कथं नरैः शास्त्रात्किं लब्धमित्युच्यते ।
मैवम् ।
विषयप्रतिपत्तौ हि प्रयोजनावाप्तिः ।
विषयं च किं शास्त्रमाप्तवाक्यतया प्रतिपादयेत् उतोपपत्तिव्युत्पादनेन ।
नाद्यः ।
आगमप्रामाण्याभ्युपगमप्रसङ्गात् ।
नास्ति अतीन्द्रियं किमपीत्येतावतैव पूर्णत्वे(नैव)न वाक्यविस्तरवैयर्थ्याच्च ।
न द्वितीयः ।
उपपत्तिप्रामाण्याभ्युपगमप्रसङ्गात् ।
शास्त्रं शङ्कामेव निवारयति ।
विषयप्रतिपत्तिस्तु प्रत्यक्षेणैवेति चेन्न ।
स्वयं वोपपत्तिव्युत्पादनेन वा कमप्यर्थमनुपदर्शयतः शङ्कानिवारणासामर्थ्यात् ।
शङ्का हि संशयो वा स्याद्विपर्ययो वा ।
द्वावपि विपरीतार्थगोचरबलवत्प्रत्ययनिरसनीयौ ।
नाज्ञामात्रेण ।
तर्कव्युत्पादनं शास्त्रेण क्रियत इति चेत्(न) ।
तस्यापि प्रमाणत्वात् ।
तदिदं"दर्शनेनऽ; इति प्रकृतानुवृत्तौ सत्यां"शास्त्रात्किम्ऽ; इत्रत वदता सूचितम् ।
अन्यथा नरैश्चेत्यवक्ष्यत् ।
मोहनं विनेत्युभयवाक्यशेषः परिहासः ।
शास्त्रप्रणेत्रा सुरगुरुणायोग्यजनव्यामोहनं प्रयोजनं लब्धम् ।
अन्यैश्च मिथ्याज्ञानम् ।
नातो ऽधिकमिति ।
*7,211*
किमतो यद्येवमित्यत आह- स्वेति ॥
स्वपरार्थविहीनत्वात् ...
न्यायसुधा:
निष्फलं शास्त्रमिति वक्ष्यमाणं सिंहावलो(कनन्याये)कितेनानुवर्तते ।
तच्चोपलक्षणम् ।
निर्विषयं चेत्यपि द्रष्टव्यम् ।
विषयप्रयोजनवत्त्वं हि स्वपरविषयप्रयोजनवत्तया व्याप्तम् ।
तृतीयप्रकाराभावात् ।
सर्वप्रकारपरित्यागेन सामान्यानवस्थानात् ।
ततश्च व्यापिकायाः स्वपरविषयप्रयोजनवत्ताया अभावात्तद्वयाप्तं विषयप्रयोजनवत्त्वमपि नास्तीत्यर्थः ।
अस्त्वेवं विषयप्रयोजनशून्यमस्मदीयं शास्त्रम् ।
ततः किमित्यतः सूत्रं व्याख्याति- स्वमतेनैवेति ॥
... स्वमतेनैव निष्फलम् ।
किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम् ॥ मनुव्_2,2.41ब्-द् ॥
*7,211f.*
न्यायसुधा:
यत एवं स्वमतेनैव निष्फलं निर्विषयं च न केवलं परोपपादनमेव ।
तस्माद् वृथा विषयप्रयोजनशून्यम् ।
यस्माद्वादिना चार्वाकेण प्रतिवादिभिश्च तदितरैः सर्वैर्विषयप्रयोजनशून्यतयाभ्युपगतम् ।
तस्माद्विषयप्रयोजनशून्य(मेवे)त्यर्थः ।
यस्माद्वृथा तस्मात्तच्छास्त्रं किमिति स्वयं प्रेक्षावान्प्रलपति ।
प्रेक्षावता नारम्भणीयमिति यावत् ।
विषयप्रयोजनशून्यं चारभमाणो न लौकिको नापि परीक्षक इत्युन्मत्तवदुपेक्षणीयः स्यादिति ।
यद्वा निष्फलमिति प्रयोजनाभावाभिधानम् ।
वृथेति विषयाभाववचनम् ।
तथाचैवं सूत्रयोजना ।
न केवलं परोपपादनेन किन्तु स्वाभ्युपगमे ऽप्यर्थाभावादनारम्भणीयं शास्त्रमिति शेष इति ।
अर्थाभावहेतोरसिद्धिपरिहारायाभ्युपगमे ऽपीत्युक्तम् ।
व्यास-(23)
*7,213*
ननु च प्रमाणानुरोधि प्रयोजनम् ।
न पुनः प्रयोजनमनुरुध्याप्रामाणिको ऽयर्थो ऽङ्गीकर्तुमुचितः ।
अतिप्रसङ्गात् ।
प्रमाणं च प्रत्यक्षमेव नान्यत् ।
नचैवं लोकव्यवहारोच्छेदः ।
सम्भावनयैव तदुपपत्तेः ।
संवादेन च प्रामाण्याभिमानात् ।
प्रत्यक्षेण च देह एवात्मोपलभ्यते ।
गौरो ऽहं जानामीति ।
तथाच कालान्तरभाविप्रयोजनान्वयिनः पुरुषस्य अभावात्कथं धर्ममोक्षाख्यं प्रयोजनमतीन्द्रियश्च विषयो ऽङ्गीकर्तुं शक्यत इत्यत आह- देहादिति ॥
देहादन्यो ऽनुभवत आत्मा भाति शरीरिणाम् ।
मम देह इति व्यक्तं ममार्थ इतिवत् सदा
न्यायसुधा:
अनुभवतः पराभ्युपगतप्रामाण्येन प्रत्यक्षेणैव ।
मम देह इति ह्यहङ्कारास्पदात्मसम्बन्धी देहः प्रतीयते ।
नचान्यताप्रतीतौ सम्बन्धप्रतीतिरुपपद्यते ।
यथा ममार्थ इति प्रतीतौ भेदप्रतीतिपूर्वक एव सम्बन्धाभास इति ।
नन्वेवं प्रतिभास एव नास्ति ।
अपि तर्हि घटस्य स्वरूपमितिवद्वयवहारमात्रमिति चेन्न कल्पकाभावात् ।
विपरीतप्रती(मि)तौ खल्वेवं कल्प्यते ।
नचैवं प्रकृते ।
कस्यचित्कदाचिदपि देहो ऽहमिति प्रमाभावात् ।
तदिदमुक्तम्- शरीरिणां सदेति ॥
अत एव प्रतिभासो ऽपि भ्रमो ऽस्त्विति निरस्तम् ।
अस्ति गौरो ऽहमिति प्रमेति चेन्न ।
प्रतिपक्षतया बाधकत्वानुपपत्तेः ।
*7,215*
किञ्च नायं देहात्मतावभासः ।
किन्तु देहधर्मस्यात्मधर्मतावभासः ।
नच व्यधिकरणयोर्विरोधो ऽस्ति ।
तदभावे कथमसाविति चेत् ।
किमेतदनुमानमर्थापत्तिर्वा प्रश्नमात्रं वा ।
न प्रथमद्वितीयौ ।
अपसिद्धान्तात् ।
स्फटिकजपाकुसुमयोरभेदाप्रतिभासे ऽपि तद्धर्मस्य तत्र प्रतीतिदर्शनाच्च ।
तृतीये तु वक्ष्यते ।
अस्तु प्रतीतिः ।
प्रत्यक्षमिति तु कुतः ।
अबाधप्रतिभासस्य प्रत्यक्षादन्यस्य परेणानभ्युपगमात् ।
अभ्युपगमे वा प्रामाण्यापरिहारात् ।
अपरोक्षतयानुभवाच्च ।
तदिदमुक्तम्- व्यक्तमिति ॥
नच तदेवासिद्धम् ।
लिङ्गाद्यनुसन्धानाभावे ऽपि भावात् ।
अन्यथा देहप्रतिभासस्यापि तन्न स्यात् ।
एतदप्युक्तम्- सदेति ॥
केचिदाहुः ।
देहात्मभेदज्ञानं समाधिपरिपाकवतामेवेति ।
तदसत् ।
आविपालगोपालं मम देह इत्रत प्रतिभासस्यानपलपनीयत्वात् ।
अत एवाह- शरीरिणां अ(शरीरा)भिमानिनामिति ॥
*7,218*
नन्वस्त्वात्मा देहातिरिक्तस्तथाप्यर्थकामातिरिक्ते पुरुषार्थे तत्साधनादौ च किं मानम् ।
वेदादिरागमो ऽनुमानं चेति वदामः ।
तस्य प्रामाण्यमेव कुत इति चेत् ।
तत्राह- प्रत्यक्षस्यैवेति ॥
प्रत्यक्षस्यैव मानत्वमिति केनावसीयते
न्यायसुधा:
यत्परेणाभ्युपगतमर्थादि तत्कुतः सिद्धमिति वक्तव्यम् ।
प्रत्यक्षेणेति चेत् ।
प्रत्यक्षस्य मानत्वमित्येव केनावसीयते ।
तथाच पुरुषार्थतत्साधनमात्रासिद्धौ जगदनीहमापद्येतेति ।
प्रत्यक्षज्ञानं तावत्प्रतीयते ।
प्रामाण्यं च ज्ञानग्राहकमात्रग्राह्यम् ।
अतः कथमुक्तो दोषः ।
प्रामाण्यपरतस्त्वावादे ऽपि बाधकाभावादिना प्रत्यक्षप्रामाण्यसिद्धिरित्यत आह- यदीति ॥
यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत्
न्यायसुधा:
यदि प्रत्यक्षज्ञानप्रामाण्यस्य ज्ञानग्राहकं वा बाधकाभावादिकं वा साधकमुच्यते ।
तर्हि तदेव वेदप्रामाण्यविषये कथं साधकं न भवेत् ।
नहि वेदवाक्याज्ज्ञानं नोत्पद्यते ।
नच न प्रतीयते ।
अत्र वेदग्रहणमुपलक्षणम् ।
अत एवान्येति सामान्येन वक्ष्यति ।
*7,220*
ननु ज्ञानग्राहकस्य प्रामाण्यग्राहकत्वमित्युत्सर्गः ।
अपवादे(न त्व)सत्यप्रामाण्यमपि गृह्यते ।
तत्कथं वेदादिप्रामाण्यसिद्धिः ।
परतस्त्वे ऽपि बाधकाभावः कुत इति चेत् ।
सममेतत्प्रत्यक्षे ऽपि ।
अनुपलम्भादपवादाद्यभावः प्रत्यक्षसिद्ध इति चेत् ।
तुल्यमेतद्वेदादावित्याह- न चेति ॥
नचान्यामानता क्वापि प्रमाणेनावसीयते
न्यायसुधा:
प्रत्यक्षादन्ययोरनुमानागमयोरमानता ।
क्वापि विषये ।
*7,221*
यद्वा प्रत्यक्षप्रामाण्यमभ्युपगच्छन्प्रष्टव्यः ।
किं त्वयानुभूयमानस्यैकस्यैव प्रत्यक्षस्य मानत्वम् उत सर्वस्यापि प्रत्यक्षस्य ।
आद्ये दोषमाह- प्रत्यक्षस्यैवेति ॥
इतरेषामपि प्रत्यक्षाणां तत्तुल्यसामग्रीजन्यत्वे सत्येकस्यैव प्रत्यक्षस्य मानत्वमिति केनावसीयते ।
द्वितीये दोषमाह- प्रत्यक्षस्यैवेति ॥
प्रत्यक्षस्य मानत्वमेव सर्वमपि प्रत्यक्षं प्रमाणमिति केनावसीयते ।
अनुभूयमानप्रत्यक्षादन्यस्य प्रत्यक्षस्य, तत्प्रामाण्यस्य वा चावसायकं न किमपीत्यर्थः ।
परकीयवचनेन चेष्यया वा प्रत्यक्षमवगम्य प्रत्यक्षत्वेन तस्य प्रामाण्यमवगम्यत इत्यत आह- यदीति ॥
प्रत्यक्षस्य तत्प्रामाण्यस्य च साधकं वचनमनुमानं च यदि प्रमाणमिष्यते तर्हि वेदादिप्रामाण्ये कथं न भवेत् ।
अभ्युपगम इति शेषः ।
एवमनुमानागमप्रामाण्यं प्रत्यपि विकल्पः ।
आद्यस्तु पूर्ववन्निरस्तः ।
अपसिद्धान्तश्च अधिकः ।
द्वितीयं दूषयति- नचेति ॥
अन्ययोः परपुरुषादिवर्तिनोरनुमानागमयोरमानता ।
पूर्ववदाश्रयाद्यसिद्धेः ।
तत्साधकाङ्गीकारे च व्याघातादिति भावः ।
*7,222f.*
नन्वर्थसन्निकृष्टकरणजन्यत्वात्प्रत्यक्षं प्रमाणम् ।
अनुमानागमयोरतीतादिकमपि विषयीकुर्वतोस्तदभावात्कथं प्रामाण्यमिति ।
किं याथार्थ्यमेव प्रामाण्यं तन्नियामकश्च सन्निकर्षः अन्यथातिप्रसङ्गादित्यभिप्रायः उत विषयसन्निकृष्टकरणजन्यत्वं प्रामाण्यमिति ।
आद्ये ऽपि किं यथाकथञ्चित्सन्निकर्षो नियामकः उत संयोग एव ।
आद्यं दूषयति- नचेति ॥
एवं तर्ह्यन्ययोरनुमानागमयोरमानता नास्ति ।
अविनाभावादिसन्निकर्षस्य तत्रापि सत्त्वादिति भावः ।
द्वितीये दोषमाह- क्वापीति ॥
क्वापि प्रमाणे चाक्षुषे श्रावणे च ।
नावसीयते नाभ्युपगम्यते ऽर्थसंयुक्तकरणजन्यता ।
परेण गोलका(द्य)तिरिक्तस्य चक्षुरादेरनभ्युपगमात् ।
तदात्मकस्य चार्थसंयोगाभावात् ।
ततः प्रत्यक्षस्यापि कस्यचित्प्रामाण्यं न स्यादिति ।
द्वितीयं दूषयति- नचेति ॥
याथार्थ्यादन्या अर्थसन्निकृष्टकरणजन्यतालक्षणा मानता न वक्तव्या ।
कुत इत्यत आह- क्वापीति ॥
पूर्ववच्चाक्षुषादावव्याप्तेरिति भावः ।
उपलक्षणं चैतत् ।
विपर्ययादावतिव्याप्तिश्चेत्यपि द्रष्टव्यम् ।
याथार्थ्ये सतीदं लक्षणमिति चेत् ।
तर्हि तदेवास्तु किं विशेष्येण ।
अनुमानादिव्यावृत्त्यर्थमिति चेन्न ।
तदप्रामाण्यस्याद्याप्यसिद्धेरित्याह- नचेति ॥
ननु वेदाद्यर्थस्यानुपम्भबाधितत्वात्कथं तत्प्रामाण्यमिति चेन्न ।
वेदादिनैवोपलब्धेः ।
तदन्येन नोपलभ्यत इति चेत् ।
तत्किं प्रमाणान्तरसंवादित्वं प्रामाण्यम् ।
अद्धेति चेत्तत्राह- नचेति ॥
प्रमाणान्तरसंवादलक्षणा मानता नेत्यर्थः ।
कुतो नेत्यत आह- क्वापीति ॥
अनवस्थाप्रसङ्गात् क्वापि प्रमाणे नावसीयते ।
यतः यद्वा क्वापि स्वसुखादिज्ञाने प्रमा(ण)णे संवाद एव नावसीयते इति योज्यमित्यलम् ।
*7,225*
सूत्रार्थमुपसंहरति स्वमतेनेति ।
स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः
न्यायसुधा:
स्वसम्मत्यैव अर्थरहितो विषयप्रयोजनरहितः ।
ईदृशः ईश्वराद्यतीन्द्रियानभ्युपगमलक्ष्णः ।
॥ इति श्रीमन्न्यायसुधायां अभ्युपगमाधिकरणम् ॥
*7,226*
[======= ज्न्य्स्_2,2.इव्: पुरुषाश्माधिकरण =======]
॥ अथ श्रीमन्न्यायसुधायां पुरुषाश्माधिकरणम् ॥
पुरुषाश्मवद् इति चेत् तथापि
॥ ओं पुरुषाश्मवदिति चेत्तथापि ओं ॥
अ(त्रानीश्व)त्र निरीश्वरसाङ्खयैकदेशिनां पुरुषोपसर्जनप्रकृतिकर्तृकत्ववादिनां मतमपाक्रियते ।
नन्वेवं तर्हि तदनन्तरमेवेदमारम्भणीयम् ।
सत्यम् ।
तथाप्यभ्यधिकाशङ्कानुसारेणेयमुक्तिः ।
तथाहि ।
परमचेतनस्य भगवत एव सर्वकर्तृत्वं प्रागुक्तम् ।
तस्य केवलप्रकृतिकर्तृकत्ववादः साक्षाद्विरोधीति प्रथममपाकृतः ।
तत्र मा भूत्केवलस्याचेतनस्य प्रधानस्य जगत्कर्तृत्वम् ।
ईश्वरानुगृहीतस्य तु भविष्यतीत्याशङ्का द्वितीयाधिकरणे (निरस्ता)निराकृता ।
मा भूदचेतनस्य कर्तृत्वं किन्तु शरीरस्यैव चैतन्याश्रयस्य कर्तृत्वमस्त्वित्याशङ्कय शरीरस्य चैतन्याश्रयतायोगात् पुनस्तदवस्थः कर्तृत्वायोग इति तृतीये ऽभिहितम् ।
इदानीं तु केवलस्याचेतनस्य कर्तृत्वायोगे ऽपि चेतनसन्निधानेन तदुपपत्तेः किमीश्वरे(णेत्या)णेत्येषा शङ्का निराक्रियते ।
*7,227*
तन्मतरीतिः सूत्र एवोक्तेति तदेव व्याचष्टे- सन्निधानादिति ॥
सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् ।
तथाप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत्
*7,227f.*
न्यायसुधा:
यथा खल्वचेतनमेव शरीरं चेतनस्यात्मनः सन्निधानमात्रेण अश्मानयनादिकं करोति ।
एवमचेतनापि प्रकृतिः पुरुषसन्निधानान्महदादिकार्यं करिष्यति ।
तथाच प्रयोगः ।
महदादिकं पुरुषोपसर्जनप्रकृतिकर्तृकम् कार्यत्वादश्मानयनादिवदिति ।
एवंच किमीश्वरेणेति शङ्कार्थः ।
यद्यप्येवमभ्यधिकमाशङ्कितं तथापि रचनानुपपत्तेरित्युक्तदोषः समो भवेत् ।
न परिहृतो भवेत् ।
कुतः ।
अबुद्धिपूर्वत्वात् ।
प्रकृतेरिति शेषः ।
बुद्धिः पूर्वा यस्य तत् बुद्धिपूर्वम् ।
ज्ञानेच्छाप्रयत्ना इत्यर्थः ।
न विद्यते बुद्धिपूर्वं यस्य तत्तथोक्तं तस्य भावस्तत्त्वम् ।
तस्मात् ।
एतदुक्तं भवति ।
ज्ञानेच्छाप्रयत्नवत्त्वं हि कर्तृत्वम् ।
नच पुरुषसन्निधाने(ऽपि) न प्रकृतेर्बुद्धिमत्त्वं सम्भवति ।
अचेतनत्वाङ्गीकारविरोधात् ।
नच बुद्धयभावे तत्कार्ययोरिच्छाप्रयत्नयोरपि सम्भवः ।
तथा चाचेतनस्य कर्तृत्वप्रतिज्ञा व्याहतैवेति ।
नन्वात्मोपसजर्नस्य शरीरस्याश्मानयनादिकर्तृत्वं निदर्शितम् ।
तत्कथ(मेतदि)मिति चेन्न ।
शरीरस्याप्युक्तरीत्या कर्तृत्वासम्मतेः ।
*7,229*
दूषणान्तरं च दृष्टान्ते दर्शयितुं सूत्रम्- ॥
ओं अङ्गित्वानुपपत्तेः ओं ॥
इति ।
तद्वयाचष्टे- अङ्गित्वादिति ॥
अङ्गित्वानुपपत्तेश् च
अङ्गित्वं पुरुषस्यैव सर्वैरप्यनुभूयते ।
तदङ्गत्वोक्तितश्चैव स्यात् सर्वस्यापलापकः ॥ मनुव्_2,2.46अ-द् ॥
न्यायसुधा:
चशब्दो दूषणान्तरसमुच्चयार्थः ।
एवशब्दो वक्ष्यमाणकैमुत्यस्फुटीकरणार्थः ।
अङ्गित्वं प्रधानत्वं शरीरं प्रतीति शेषः ।
तदङ्गत्वोक्तितः तस्योपसर्जनत्वाङ्गीकारात् ।
स्यात् साङ्खय इति शेषः ।
नन्वेतत्प्रकृतविरुद्धम् ।
परमेश्वरस्य हि सर्वकर्तृत्वमुपपादयितुमयमारम्भः ।
तथाच अश्मानयनादिकार्ये जीवस्य प्राधान्योपपादनं कथं न प्रकरणविरुद्धमिति चेन्न ।
जीवगतस्य अमुख्यस्य कर्तृत्वस्य निरास एव यदा प्रमाणविरोधः तदा किमु वक्तव्यं सर्वकर्तुरीश्वरस्यापलाप इत्येतत्प्रदर्शनायैव सूत्रकृता जीवस्याङ्गित्वोपपादनादित्याशयवानाह- किम्विति ॥
किमु सर्वेश्वरस्यास्य ह्यपलाषाद् यतो ऽखिलम्
न्यायसुधा:
अस्य सर्वकर्तृत्वेन प्रतिपिपादयिषितस्य ।
उत्तरसूत्रे चास्याङ्गीकारवादत्वं स्फुटीभविष्यतीति हिशब्देन सूचयति ।
कथं जीवस्य प्राधान्यनिरासादप्यतिशयेनेश्वरनिरासः प्रमाणविरुद्ध इत्यत आह- यत इति ॥
यतः कारणादखिलं प्रमाणं योगिप्रत्यक्षानुमानागमात्मकं सर्वकर्तारमीश्वरं प्रतिपादयति तस्मादिति पूर्वेण सम्बन्धः ।
॥ इति श्रीमन्न्यायसुधायां पुरुषाश्माधिकरणम् ॥
*7,231*
[======= ज्न्य्स्_2,2.व्: अन्यतानुमित्यधिकरण =======]
॥ अथ श्रीमन्न्यायसुधायां अन्यथानुमित्यधिकरणम् ॥
अन्यथानुमितौ च ज्ञशक्तिवियोगात्
॥ ओं अन्यथानुमितौ च ज्ञशक्तिवियोगात् ओं ॥
प्रकृत्युपसर्जनपुरुषकर्तृत्ववादिनां निरीश्वरसाङ्खयैकदेशिनां मतमत्र निराक्रियते ।
तथाहि अश्मानय(नप्र)नादिप्रवृत्तौ तावत्पुरुषस्य प्राधान्यं शरीरस्य चोपसर्जनत्वमनुभवसिद्धमित्युक्तम् ।
तथाच तद्दृष्टान्तेन महदादिकार्यमपि प्रकृत्युपसर्जनपुरुषकर्तृकमनुमीयते ।
पुरुषस्य च चेतनत्वेन न कर्तृत्वानुपपत्तिः ।
सुषुप्त्यादौ च कर्तृत्वानुपलम्भात्प्रकृतिरुपसर्जनभूताङ्गीकरणीया ।
एवंच किमीश्वरेणेति ।
*7,232*
अत्र वक्तव्यं किं पुरुषस्यैकाकिनः कुत्रापि स्वातन्त्र्यं नास्ति उत अस्तीति ।
आद्यं दूषयितुं सूत्रं व्याचष्टे- अङ्गित्वमिति ॥
अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्नचाखिलम् ।
तत्प्रेरणे ऽप्यशक्तत्वात् स्वतन्त्रो ऽन्यो ह्यपेक्षितः
न्यायसुधा:
यदि पुरुष(स्यैवाङ्गि)स्याङ्गित्वं प्राधान्यं कर्तृत्वमिति यावत् ।
प्रकृतेस्तूपसर्जनत्वमेवेति पूर्वमतादन्यथानुमीयते ।
तत्रापि च पुरुषस्याखिलं स्वातन्त्र्यं नास्तीति पक्षो यद्यङ्गीक्रियते तदा स्वतन्त्रो ऽन्यः परमेश्वरो ऽङ्गीकरणीय एव स्यात् ।
कुतः ।
प्रकृतिप्रेरणे पुरुषस्याशक्तत्वात् ।
मा भूत्तावत्कार्यान्तरार्थमीश्वरापेक्षा ।
तथापि प्रकृतिप्रेरणार्थमपेक्षणीय एवासावित्यपेरर्थः ।
एतदुक्तं भवति ।
न तावत्सत्तामात्रेण संयोगमात्रेण वा प्रधानस्य कर्तारं पुरुषं प्रत्युपसर्जनत्वम् ।
सुप्तिप्रलयादावपि प्रसङ्गात् ।
किन्तु करणत्वादिना ।
नच कर्त्राप्रयुज्यमानस्य करणत्वादिकं दृष्टम् ।
नच तदेव तत्प्रेरणे करणादि ।
स्ववृत्तिविरोधात् ।
तथाच प्रकृतिनिरपेक्षस्य पुरुषस्य क्वापि व्यापारासामर्थ्ये ऽवश्यमन्येन सहकारिणा भाव्यम् ।
नचासावप्येवंविध एव ।
तस्यापि सहकार्यन्तरापेक्षायामनवस्थाप्रसङ्गात् ।
अतः स्वतन्त्र एवासावङ्गीकरणीयः ।
स एव चेश्वर इति कथमसौ नाभ्युपगम्यत इति ।
*7,234*
द्वितीयं निषेधति- नचेति ॥
न च स्वातन्त्र्यमस्यैव ...
न्यायसुधा:
तथा सति प्रकृत्यनपेक्षत्वप्रसङ्गेन (अस्य) स्वसिद्धान्तविरोधापत्तेरिति भावः ।
अनेन विप्रतिषेधाच्चेति सूत्रं व्याख्यातं भवति ।
सूत्रस्यार्थान्तरमाह- प्रत्यक्षादीति ॥
... प्रत्यक्षादिविरोधतः
न्यायसुधा:
प्रत्यक्षादिप्रमाणैर्हि पुरुषस्यास्वातन्त्र्यं सर्वदा उ(सर्वत्रो)पलभ्यते ।
प्रकारान्तरेण व्याचष्टे- हितेति ॥
हिताकृत्यादिदोषाच्च ...
न्यायसुधा:
आदिपदेनाहितक्रियोपादीयते ।
एवं पञ्चमतानि निराकृत्योपसंहरति- भद्रमिति ॥
... भद्रं नानीश्वरं मतम्
न्यायसुधा:
पातञ्जलाभिमतस्येश्वरस्येश्वरलक्षणाभावात्तदप्यनीश्वरमेव मतमिति ।
नन्वन्यान्यपि भिन्नकसंसारमोचकादीन्यनीश्वराणि मतानि सन्ति तानि कुतो न निराक्रियन्ते ।
उक्तदोषैरेव निरस्तत्वात् अभ्यधिकाशङ्काभावाच्चेत्याह- संसारिण इति ॥
*7,235*
संसारिणो ऽन्यं सर्वेशं सर्वशक्तिमनौपमम् ।
चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् ।
नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे
न्यायसुधा:
संसारिपदमीश्वरातिरिक्तोपलक्षणम् ।
सर्वेशमिति विशेष्यपदम् ।
तेन न पौनरुक्तयम् ।
उपमैवोपमम् ।
स्वार्थिको ऽण् ।
नास्त्यौपमं यस्यासावनौपमः ।
यद्वोपमाया अयमौपमः ।
सोपम इति यावत् ।
ततो नञ्समासः ।
अस्य प्रपञ्चस्य ।
इमे कथिता दोषा इति शेषः ।
न केवलं सर्वेशं स्वरूपेणानङ्गीर्कुर्वतामिमे दोषाः ।
किन्तु तमङ्गीकृत्यापि जीवा(द्य)न्यत्वादिविशेषणानि तस्यानङ्गीकुर्वतामपि ।
तथात्वे फलतस्तस्यानीश्वरत्वादिति ।
*7,237*
किमतो यद्येवमनीश्वरमतमसमञ्जसमित्यत आह- तस्मादिति ॥
तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः ।
अङ्गीकायर्तमो नित्यः सर्वैरपि सुनिश्चितम्
न्यायसुधा:
न परपक्षनिरासमात्रेण स्वपक्षसिद्धिरित्यतः श्रुतिप्रमाणेनेत्याद्युक्तम् ।
पर उत्कृष्ट उक्तविशेषणोपपन्नः ।
नित्य इति सामर्थ्यादङ्गीकारस्य विशेषणम् ।
सर्वदेति यावत् ।
निश्चयस्य स्वपरपक्षसाधनोपालम्भातिरिक्तानपेक्षत्वात्प्रामाणिकनिश्चयस्य चासमीचीनत्वायोगात्सुनिश्चितमित्युक्तम् ।
प्रथमाध्यायव्युत्पादितेन परपक्षोपालम्भेन च यथालक्षितं ब्रह्म सिद्धमित्याशयः ।
नन्वेवं तर्हि उत्तराधिकरणानामानरम्भ एव ।
निराकरिष्यमाणै(रु)रप्युक्तविशेषणस्येश्वरस्यानभ्युपगतत्वादिति चेत् ।
सत्यम् ।
तथापि तन्मतानामत्यन्तहेयताप्रदर्शनाय दूषणान्तराणि व्युत्पादनयितुमुत्तरो ग्रन्थः ।
॥ इति श्रीमन्न्यायसुधायां अन्यथानुमित्यधिकरणम् ॥
*7,239*
[======= ज्न्य्स्_2,2.वि: वैशेषिकाधिकरणम् =======]
॥ अथ श्रीमन्न्यायसुधायां वैशेषिकाधिकरणम् ॥
महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम्
॥ ओं महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ओं ॥
नित्यज्ञानप्रयत्नेच्छं सङ्खयद्यैरपि पञ्चभिः ।
युक्तमीशं वदन्त्यन्ये ... ॥ मनुव्_2,2.51अ-च् ॥
न्यायसुधा:
अत्र परमाण्वारम्भवादिनां वैशेषिकादीनां मतमपाक्रियते ।
ननु वैशेषिकादयः परमेश्वरमङ्गीकुर्वन्त्येव ।
तत्कथं तन्निरासायाधिकरणारम्भ इत्याशङ्कय यद्यपीश्वरं स्वरूपेणाङ्गीकुवर्न्ति तथापि तद्धर्मेषु सुखादिषु विप्रतिपद्यन्त एव ।
तथा सृष्टिप्रलयादिविधिं चान्यथा मन्यन्त इत्यतो युक्तस्तन्निरासायाधिकरणारम्भ इत्याशयवांस्तन्मतमुपन्यस्यति- नित्येति ॥
ईशं वदन्तो ऽन्ये इत्याहुरिति वक्ष्यमाणेनान्वयः ।
नित्या ज्ञानप्रयत्नेच्छा यस्यासौ तथोक्तः ।
सङ्खयाद्यैः सङ्खयापरिमाणपृथक्तवसंयोगविभागैः ।
सावधारणं चैतत् ।
एवमष्टगुणकमेव वदन्त इति ।
नित्यद्रव्याश्रितान्येकत्वैकपृथक्तवपरिमाणानि नित्यान्येव द्वित्वद्विपृथक्तवादीनि संयोगविभागौ च सवर्त्रानित्या एवेति सिद्धत्वात्सङ्खयादौ विद्यमानो ऽपि नित्यानित्यविभागो नाभिहितः ।
ज्ञानादीनां तु जीवाश्रितानामनित्यत्वादत्र नित्यत्वसङ्कीर्तनम् ।
यद्यपि केचिदीश्वरं षड्गुणमाचक्षते ।
तथापि न तत्परमं मतमित्यष्टगुणत्वमेवोपन्यस्तम् ।
एवमात्रेयस्य ज्ञानानित्यत्वमपि नोपन्यस्तम् ।
यद्वा नित्यत्वसङ्कीर्तनं गुणान्तराभावे युक्तित्वेन कृतम् ।
तथाहि ।
जीवात्मानो बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाभिर्नवभिर्विशेषगुणैर्युक्ताः ।
तत्र नित्ययथार्थज्ञानस्य मोहाभावात्तत्प्रभवस्य द्वेषस्याभावः ।
तदभावे तन्मूलयोर्धर्माद्ययोरभावः ।
इच्छाया अपि मोहाभावेनारागरूपत्वान्न धर्मादिकारणत्वम् ।
धर्माद्यभावे च तत्कार्ययोः सुखदुःखयोरभाव एव ।
नित्यज्ञानत्वादेव स्मृत्यसम्भवेन कल्पकाभावाद्भावनाया अप्यभाव इति ।
अथवा नित्यत्वेन ज्ञानादीनामखण्डत्वं सूचयति ।
*7,242*
एवमपीश्वरविषयां विप्रतिपत्तिमुपन्यस्य सृष्टिविषयामुपन्यस्यति- तदिच्छेति ॥
... तदिच्छादृष्टचोदिताः ।
परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशो ऽखिलाः ॥ मनुव्_2,2.51द्-f ॥
न्यायसुधा:
महाप्रलये हि वक्ष्यमाणो नित्यवर्गो ऽनित्याश्च धर्माधर्मसंस्कारादयो ऽवतिष्ठन्ते ।
ततो ब्रह्मवर्षशतान्ते प्राणिनां भोगभूतये महेश्वरस्य सिसृक्षा सञ्जायते ।
तया च सर्वात्मगता धर्माधर्मलक्षणादृष्टादयो लब्धवृत्तयो भवन्ति ।
ततस्तदिच्छया सिसृक्षालक्षणेश्वरेच्छयादृष्टैरदृष्टवदात्मसंयोगैश्चेति यावत् ।
चोदिताः प्रेरिताः ।
क्रियावन्त इति यावत् ।
प्राक् प्रविभक्ततयावस्थिताः परमाणवश्चतुर्गुणाः पाथिर्वाः पाथसीयास्तैजसा वायवीयाश्च द्विशः संयुज्यन्ते ।
अत्र परमाणव इत्येवोक्ते मनसामपि ग्रहणं स्यात् ।
तेषां संयोगसद्भावे ऽपि वक्ष्यमाणं द्रव्यारम्भकत्वं गगनवदस्पर्शवत्त्वादयुक्तम् ।
अतस्तद्वयावृत्तये चतुर्वर्गा इत्युक्तम् ।
यद्वा सजातीयसंयोग एव द्रव्यारम्भको न त्वन्य इति अनेन सूचयति ।
अखिला इति ।
द्विशः संयोगे नियमवचनात् ।
ये परमाणवो द्रव्यारम्भाय संयुज्यन्ते ते ऽखिला द्विशो द्वौ द्वावेवेति ।
*7,249*
ततः किमित्यत आह- परमाण्विति ॥
परमाणुद्वयेनैव द्वयणुकं नाम जायते ।
द्वयणुकत्रयेण त्र्यणुकं तैश्चतुर्भिस्तदात्मकम्
ततस्त्वनियमेनैव खण्डावयविनां भवः ।
ततश्चानियमेनैव सर्वावयविसम्भवः
न्यायसुधा:
परमाणुपुञ्जवादं परिणामवादमनियमवादं चैवशब्देन व्यावर्तयति ।
परमाणुद्वयेनैव, नतु निरन्तरतयोत्पन्नपरमाणुद्वयं, नापि परमाणुद्वयमेव संयुक्तमासादितपरिणामविशेषं, नच त्रयादिनेति ।
जायते इत्यसत्कार्यवादं सूचयति ।
जात्यपेक्षयैकवचनम् ।
ततश्च संयुक्तसजातीयपरमाणुद्वयैस्ततो ऽत्यन्तभिन्नानि तत्समवेतानि प्रागसन्त्येव द्वयणुकनामकानि द्रव्याण्युत्पद्यन्त इत्यर्थः ।
द्वयणुकत्रयेण त्र्यणुकं जायते इत्यनुर्वते ।
एवेति च ।
अत्रापि पूर्ववद्वयाख्यानम् ।
अणुत्वपरिमाणस्य परमाणौ द्वयणुके च साम्याद्द्वयणुकसंज्ञावत्त्र्यणुकसंज्ञाप्युपपद्यत एव ।
तैः सजातीयैः संयुक्तैश्चतुर्भिस्त्र्यणुकैः तदात्मकं द्रव्यं जायते ।
त्र्यणुकेष्वणुसंज्ञोपचारात् ।
केचित् द्वयणुकैरेव चतुरणुकारम्भमभ्युपयन्ति ।
तन्मतानुसारेण तैद्वर्यणुकैरिति व्याख्येयम् ।
द्वयणुकानि त्रीणि (द्रव्यं) यत्कायर्मारभन्ते तत्त्र्यणुकम् ।
चतुर्भिरारब्धं चतुरणुकमिति ।
अत्र च संज्ञा मुख्यैव ।
ततः त्र्यणुकेभ्यश्चतुरणेकेभ्यो वा ।
तुशब्दो विशेषार्थः ।
तमेवाह ।
अनियमेनैवैतावद्भिरेवेति सङ्खयानियमं विनेत्यर्थः ।
द्रव्यसमवायिकारणानि कायर्द्रव्याणि खण्डावयविनः ।
त्र्यणुकादेरन्त्यावयविनश्च मध्ये नैकमेव खण्डावयवि किन्तु अनियमेनानेकान्यपि भवन्तीति सूचयितुं बहुवचनम् ।
ततः तैः खण्डावयविभिश्चानियमेनैव सङ्खयानियमं विनैव सर्वावयविनामन्त्यावयविनां शरीरेन्द्रियविषयाणां सम्भवः ।
तदनेन द्रव्योत्पत्तिरभिहिता ।
गुणानां कर्मणां च स्वाश्रयद्रव्येषूत्पादो द्रष्टव्यः ।
*7,253*
सर्वमपि कार्यं भावरूपं कारणत्रितयजन्यम् ।
कारणानि च समवाय्यसमवायिनिमित्तानामानि ।
तत्र य(त्सम)त्र समवेतं कायर्मुत्पद्यते तत्समवायिकारणम् ।
तत्स्वरूपेण दर्शयति- कारणमिति ॥
कारणं समवाय्याख्यं परमाण्वादि तत्र हि
न्यायसुधा:
अत्र द्वयणुकादिकार्योत्पत्तौ परमाण्वादिद्रव्यपदार्थः समवायिकारणम् ।
कुतः ।
अत्र परमाण्वादौ द्रव्ये हि यस्मात्सर्वकार्यं समवेतमुत्पद्यते तस्मादिति शेषः ।
*7,254*
समवाय्यसमवायिव्यतिरिक्तं कारणं निमित्तम् ।
तदुदाहरति- ईशेति ॥
ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम्
न्यायसुधा:
निमित्तं त्वित्यन्वयः ।
इदं च सर्वकार्यसाधारणं निमित्तं दर्शितम् ।
एवमन्यदपि द्रष्टव्यम् ।
यथा तुरीवेमादिकं पटस्येत्यादि ।
*7,255f.*
समवायिकारणप्रत्यासन्नमवधृतसामर्थ्यमसमवायिकारणम् ।
समवायिकारणतत्समवायिकारणयोरन्यतरसमवेतत्वं समवायिकारणप्रत्यासन्नत्वम् ।
सामर्थ्यावधारणं चानन्यथासिद्धनियतपूर्वभावित्वेन भवति ।
तच्चासमवायिकारणं द्रव्यं समवायिकारणमितिवन्नैकोक्तया वक्तुं शक्यम् ।
प्रतिकार्यं पृथक्तवात् ।
अतस्तद्विवेकेन दर्शयितुं तज्ज्ञानस्य कायर्ज्ञानसापेक्षत्वात्कार्याकार्यविभागं तावदाह- सामान्येति ॥
*7,256*
सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् ।
नित्यं क्रिया अनित्यास्तु गुणद्रव्ये द्विरूपके
न्यायसुधा:
कार्यत्वानित्यत्वयोः समनियमान्नित्यानित्यविभागोक्तया कार्याकार्यविभाग एव सिद्धयति ।
*7,257*
षडिमे द्रव्यगुणकर्मसामान्यविशेषसमवायाः भावरूपाः पदार्थाः ।
अभावः सप्तमः ।
विधिरूपो भावः ।
निषेधरूपो अभावः ।
गुणाश्रयो द्रव्यम् ।
समवायिकारणं वा ।
सामान्यवानसमवायिकारणमस्पन्दात्मा गुणः ।
चलनात्मकं कर्म ।
नित्यमेकमने(कानुगतं)कसमवेतं सामान्यम् ।
नित्येष्वेव द्रव्येष्वेव वर्तन्त एव ये ते (अन्त्य)विशेषाः ।
अत्यन्तव्यावृत्तिहेतवो वा ।
अयुतसिद्धयोः सम्बन्धः समवायः ।
अवश्यमाश्रयाश्रयिभावेनावस्थितावयुतसिद्धौ ।
नित्यः सम्बन्धो वा ।
*7,266*
तत्र सामान्यमन्त्यविशेषश्च समवायश्चेत्येतत्त्रयं नित्यमकार्यं च ।
विशेष इत्येवोक्ते द्रव्यगुणकर्मसामान्यानामपि ग्रहणं स्यात् ।
विशिष्टते ऽनेनेति हि विशेषः ।
द्रव्यं च दण्डादिकमदण्ड्यादिभ्यो देवदत्तादिकं व्यावर्तयति ।
गुणश्च निर्गुणाद्द्रव्यम् ।
कर्मापि निष्क्रियान्मूर्तम् ।
सामान्यं द्विविधं परमपरं च ।
परं सत्ता प्रचुराश्रयत्वात् ।
अपरं द्रव्यत्वादि अल्पाश्रयत्वात् ।
तत्र परसामान्यस्यानुवृत्तिमात्रहेतुत्वेन सामान्यमात्रत्वे ऽप्यपरसामान्यं व्यावृत्तेरपि हेतुत्वाद्विशेषो ऽपि ये व्यावर्तका भवन्ति ते ऽन्त्याः ।
अत्यन्तव्यावृत्तिहेतव इति यावत् ।
नहि दण्डादिकं तथा ।
दण्ड्यन्तरादिभ्यो ऽव्यावर्तकत्वात् ।
*7,269*
क्रिया उत्क्षेपणापक्षेपणाकुञ्चनप्रसरणगमनरूपा अनित्याश्च ।
चशब्दो ऽवधारणे ।
न द्रव्यादिवदुभयरूपा इत्यर्थः ।
गुणा द्रव्याणि च नित्यानित्यभेदेन द्विविधानीति ।
तथाहि ।
द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालादिगात्ममनांसि ।
तत्र परमाणुरूपाणि पृथिव्यादीनि चत्वारि, गगनादीनि पञ्च नित्यानि ।
द्वयणुकादिरूपाणि पृथिव्यादीनि चत्वार्यनित्यानीति ।
गुणाश्चानित्यद्रव्यगता अनित्या एव ।
पार्थिवपरमाणावैकत्वैकपृथक्तवपरिमाणगुरुत्वानि नित्यानि ।
रूपरसगन्धस्पर्शानेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः ।
(आप्ये च) पाथसीये च रूपरसस्पर्शैकत्वैकपृथक्तवपरिमाणगुरुत्वद्रव्यत्वस्नेहा नित्याः ।
अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः ।
तैजसे च रूपस्पर्शैकत्वैकपृथक्तवपरिमाणानि नित्यानि ।
अनेकत्वानेकपृथक्त्वसंयोगविभागपरत्वद्रव्यत्वसंस्कारा अनित्याः ।
वायवीये च स्पर्शैकत्वैकपृथक्तवपरिमाणानि नित्यानि ।
अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः ।
आकाशे चैकत्वैकपृथक्तवपरिमाणानि नित्यानि ।
अकेत्वानेकपृथक्तवसंयोगविभागशब्दा अनित्याः ।
काले दिशि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि ।
अनेकत्वानेकपृथक्तवसंयोगविभागा अनित्याः ।
आत्मनि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि ।
अनेकत्वानेकपृथक्तवसंयोगविभागा बुद्धयादयश्च नव अनित्याः ।
ईश्वरस्यापि विशेषो ऽभिहितः ।
मनसि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि ।
अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः ।
इति विवेकः ।
*7,271*
एवं कार्याकार्यविभागमुक्तवा यस्य यदसमवायिकारणं तदाह- कार्य इति ॥
कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् ।
कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम्
न्यायसुधा:
कार्यकारणग्रहणमुपलक्षणम् ।
ततश्च कार्ये ऽकार्ये च द्रव्ये जायमानानां गुणानां समवायिकारणसमवायिकारणस्थाः समवायिकारणस्थाश्च गुणाः समवायिकारणस्थं कर्म च समवाय्यन्यकारणं असमवायिकारणम् ।
कर्मणश्च असमवायिकारणस्था गुणा एवासमवायिकारणमिति योज्यम् ।
आद्यस्तुशब्दो द्रव्याद्विशेषं द्योतयति ।
द्वितीयस्य द्रव्यकारणं त्वित्यन्वयः ।
यद्वा द्वावप्यनुक्तसमुच्चयार्थौ ।
तच्चोक्तम् ।
तथाहि ।
कार्यगतानां रूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्तवोत्तरसंयोगविभागगुरुत्वद्रवत्वस्नेहवेगानां कारणगता रूपादयो ऽसमवायिकारणम् ।
पार्थिवपरमाणुगतानां रूपरसगन्धस्पर्शानां पार्थिवतैजसपरमाणुगतद्रव्यस्य तद्गत एव तेजः संयोगः ।
सर्वत्रानेकत्वानेकपृथक्तवयोराश्रयगतैकत्वैकपृथक्तवानि ।
संयोगविभागवेगानामाश्रयगतं कर्म ।
परत्वापरत्वयोराश्रयगतौ दिक्कालसंयोगौ ।
आत्मविशेषगुणानामात्मगतो मनः संयोगः ।
शब्दस्याकाशगताः संयोगविभागशब्दाः ।
कर्मणश्चाश्रयगता गुरुत्वद्रवत्ववेगसंयोगा इति ।
द्रव्यस्य तु समवायिकारणानामवयवानां संयोगो ऽसमवायिकारणमिति ।
*7,275*
उक्तस्य क्वचिदपवादमाह- एवमिति ॥
एवं स्थिते ऽपि सिद्धान्ते विशेषस्तत्र कल्पितः
न्यायसुधा:
कारणगतं परिमाणं कार्यगतस्य परिमाणस्यासमवायिकारणमित्येवं सामान्यतः सिद्धान्ते स्थिते ऽपि, तत्र परिमाणविशेषे विशेषो ऽन्यथाभावः कल्पितो वैशेषिकैः ।
कथमित्यत आह- द्वयणुक इति ॥
द्वयणुके परमाणौ च ह्रस्वत्वं परिमण्डलम्
न कारणं कार्यगुणे ...
न्यायसुधा:
चतुर्विधं परिमाणम् ।
अणुत्वं महत्त्वं ह्रस्वत्वं दीर्घत्वं च ।
तत्राणुत्वं द्विविधं, नित्यमनित्यं च ।
नित्यं चतुर्विधपरमाणौ मनसि च ।
पारिमाण्डल्यमिति चोच्यते ।
अनित्यं द्वयणुक एव ।
महत्त्वमपि द्विविधं नित्यानित्यभेदात् ।
नित्यमाकाशकालदिगात्मसु परममहत्त्वम् ।
अनित्यं त्र्यणुकादौ कायर्द्रव्ये ।
ह्रस्वत्वं द्वयणुक एव ।
दीर्घत्वं त्र्यणुकादिकार्यद्रव्य एव ।
केचित्परमाणावपि ह्रस्वत्वं गगनादावपि दीर्घत्वमभ्युपयन्ति ।
तत्र द्वयणुके वर्तमानं ह्रस्वत्वम् ।
उपलक्षणमेतत् ।
अणुत्वं च कार्यगुणे द्वयणुककार्यत्र्यणुकपरिमाणे ।
विषयसप्तमीयम् ।
त्र्यणुकमहद्दीर्घत्वयोरसमवायिकारणं न भवति ।
तथा परमाणौ वर्तमानं परिमण्डलं पारिमाण्डल्यं परमाणुकार्यद्वयणुकगुणस्य ह्रस्वत्वस्याणुत्वस्य चासमवायिकारणं न भवति ।
त्र्यणुकादिगतं तु महत्त्वं दीर्घत्वं च चतुरणुकादिपरिमाणं प्रत्यसमवायिकारणं भवत्येवेति ।
*7,276*
कस्मादेवं कल्पितमित्यत आह- वैरूप्यमिति ॥
... वैरूप्यं तत्र कारणम् ।
इत्याहुस् ...
*7,276f.*
न्यायसुधा:
तत्र द्वयणुकपरमाणुपरिमाणानां त्र्यणुकद्वयणुकपरिमाणानि प्रति कारणत्वाभावे वैरूप्यं विजातीयत्वं कारणम् ।
सजातीययोरेव हि तन्तुपटपरिमाणयोः कार्यकारणभावो दृष्टः ।
तथाच प्रयोगः ।
द्वयणुकत्र्यणुकपरिमाणे न कार्यकारणभाववती विजातीयपरिमाणत्वात् ।
व्यतिरेकेण तन्तुपटपरिमाणवत् ।
एवं परमाणुद्वयणुकपरिमाणयोरपि द्रष्टव्यम् ।
परमाणोरणुत्वं द्वयणुकाणुत्वस्य कारणमस्त्विति चेन्न ।
तत्रापि नित्यपरिमाणत्वस्य परमाणुत्वस्य च वैरूप्यस्य सत्त्वात् ।
एवञ्चेद्वयणुकत्र्यणुकपरिमाणानां किमसमवायिकारणमित्यत आह- वैरूप्यमिति ॥
अनेकत्वमित्यर्थः ।
ईश्वरबुद्धिमपेक्ष्योत्पन्ना परमाण्वोर्द्वित्वसङ्खया द्वयणुके ऽणुत्वं ह्रस्वत्वं च करोति ।
द्वयणुकेषु चोत्पन्ना त्रित्वसङ्खया त्र्यणुके महत्त्वं दीर्घत्वं च करोतीति ।
*7,278*
एवमुपन्यस्तं मतमपाकर्तुमधिकरण(सूत्र)मवतारयति- तानिति ॥
... तानथोवाच विद्याधीशः स्वयं प्रभुः
न्यायसुधा:
उवाच महद्दीर्घवद्वेत्यादीति शेषः ।
प्रबलतर्कोपबृंहितमतनिरासे सामर्थ्यं सूत्रकृतः कथमित्यत उक्तम्- स्वयं साक्षात्सर्वविद्यानामधीशस्तस्मात्प्रभुरिति ।
*7,279*
न वैशेषिकादिमतविरोधेनोक्तार्थस्यान्यथात्वं शङ्कनीयम् ।
तस्योपपत्तिविरुद्धत्वात् ।
तथाहि ।
यत्तावदुक्तं द्वयणुकादिपरिमाणं न त्र्यणुकादिपरिमाणस्यासमवायिकारणमिति, तदुपपत्तिविरुद्धमिति दर्शयन्"महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम्ऽ; इति सूत्रं व्याचष्टे- महत्त्वं चेति ॥
महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम् ।
तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते
यथा तथैव ह्रस्वत्वात् पारिमाण्डल्यतो ऽपि हि ।
जायेत सदृशं कार्ये परिमाणं समत्वतः
न्यायसुधा:
एवशब्दस्य त्र्यणुकाद्येष्वेवेति कल्पितमेवेति वा सम्बन्धः ।
त्र्यणुकाद्येषु द्रव्येषु ।
तस्मात् त्र्यणुकादौ कार्ये ऽन्त्यावयविव्यतिरिक्ते वर्तमानान्महत्त्वाद्दीर्घत्वात् ।
चशब्दो वाक्यार्थसमुच्चये ।
कार्यं परिमाणम् ।
तत्कार्येषु त्र्यणुकादिकार्येषु चतुरणुकादिषु ।
तथैवेत्येवशब्देन दृष्टान्तदार्ष्यान्तिकवैषम्यशङ्कामपाकरोति ।
कार्ये त्र्यणुके द्वयणुके च समत्वतः कार्यपरिमाणत्वादिसाम्यादिति हेतुवचनम् ।
हिशब्दो व्याप्तिद्योतकः ।
*7,281*
यद्यपि महदादिशब्दा द्रव्यवचनास्तथापि भावप्रधानत्वात्परिमाणवाचिनो(पि) भवन्तीत्यायेन महत्त्वमित्याद्युक्तम् ।
सूत्रकृतस्य भावप्राधान्येनोक्तिः कणादसूत्रानुसारेण ।
"कारणबहुत्वात्कारणमहत्त्वात्प्रचयविशेषाच्च महत्ऽ; इत्यादि हि तत् ।
महद्दीर्घवदिति षष्ठयर्थे वतिः ।
विभक्तिविपरिणामेन वा सकाशादित्यध्याहारेण वा तस्मादित्युक्तम् ।
अत्रैतावदादौ वक्तव्यम् ।
यथा तस्मात्कार्येषु कायर्मुपजायते तथैव ह्रस्वत्वात्पारिमाण्डल्यतो ऽपि कार्ये परिमाणं जायेत समत्वतो हीति ।
*7,285*
एतदुक्तं भवति ।
त्र्यणुकाद्वयणुकपरिमाणं स्वाश्रयाश्रयसमवायिकारणपरिमाणजम् कार्यपरिमाणत्त्वाच्चतुरणुकादिपरिमाणवत्, द्वयणुकपरमाणुपरिमाणं परिमाणारम्भकं द्रव्यसमवायिकारणपरिमाणत्वात्, त्र्यणुकपरिमाणवत् त्र्यणुकद्वयणुके वा परिमाणारभ्यपरिमाणवती कार्यद्रव्यत्वाच्चतुरणुकादिवत्, द्वयणुकपरमाणू परिमाणासमवायिकारणपरिमाणवन्तौ द्रव्यसमवायिकारणत्वात् त्र्यणुकवदिति ।
नच विवक्षितार्थासिद्धिः, अन्यथानुपपत्त्या तत्सिद्धेः ।
नच यत्र केवलेन प्रचयेन परिमाणमारभ्यते तत्र व्यभिचार इति वाच्यम्, तस्यापि पक्षतुल्यत्वात् ।
नचैवं सति बाधः, प्रचयकारणताया अनिवारणात् ।
नचोभयकारणत्वकल्पने गौरवदोषः, द्वयोरपि कॢप्तशक्तित्वात् ।
द्वयणुकपरिमाणं त्र्यणुकपरिमाणाजनकम्, परमाणुपरिमाणं च द्वयणुकपरिमाणाजनकम्, परिमाणत्वात् पटपरिमाणवत्, इत्यादिना सत्प्रतिपक्षतेति चेन्न, तत्समवायिकाणपरिमाणत्वाभावस्योपाधित्वात्, त्र्यणुकपरिमाणं चतुरणुकपरिमाणाजनकम् परिमाणत्वात्पटपरिमाणवत्, इत्याद्याभाससमानयोगक्षेमत्वाच्च ।
परमाणुपरिमाणं परिमाणानारम्भकं नित्यपरिमाणत्वात् गगनपरिमाणवदित्यपि न, द्रव्यसमवायिकारणपरिमाणत्वाभावस्योपाधित्वात् ।
अप्यपरमाणुरूपं रूपानारम्भकं नित्यत्वात् गगनपरिमाणवत्, परमाणवो द्रव्यानारम्भका नित्यत्वाद्गगनवत्, इत्याद्याभासतुल्यत्वाच्च ।
*7,290*
एतेन परमाणुद्वयणुकपरिमाणे परिमाणानारम्भके अणुत्वान्मनःपरिमाणवदित्यपि परास्तम् ।
न चानणुत्वमुपाधिः ।
वक्ष्यमाणन्यायेन परिमाणावान्तरजातेरपाकरणात् ।
पक्षीकृताद्घ्रस्वत्वादव्यावृत्तेश्च ।
*7,293*
ननु च त्र्यणुकादिपरिमाणं चतुरणुकादिपरिमाणं च सजातीयमिति युक्तस्तत्र कार्यकरणभावः ।
द्वयणुकत्र्यणुकपरिमाणयोस्तु विजातीयत्वात्कथं तथात्वमित्यतो दृष्टान्तदार्ष्यान्तिकयोः सदृशमित्युक्तम् ।
यथा त्र्यणुकादिपरिमाणाच्चतुरणुकादौ सजातीयं परिमाणमुत्पद्यते ।
तथा द्वयणुकपरमाणुपरिमाणादपि त्र्यणुकादौ सजातीयपरिमाणोत्पादस्यैव सिसाधयिषितत्वान्न दोष इत्यर्थः ।
*7,294*
ननु च त्र्यणुकादौ महत्त्वदीर्घत्वे द्वयणुकादौ त्वणुत्वह्रस्वत्वे प्रमाणसिद्धे ।
तत्कथं साजात्यसाधने बाधो न भवेदित्यत उक्तम्- महत्त्वं चेति ॥
कल्पनैवैषा वैशेषिकाणां नतु परिमाणावान्तरजातिभेदे प्रमाणमस्ति ।
किन्नाम परिमाणमेकजातीयमेवोत्कर्षापकषर्वदिति भावः ।
अनेन वैरूप्यस्यासिद्धिरुक्ता वेदितव्या ।
*7,294f.*
ननु च द्वयणुकादिपरिमाणस्य परमाण्वादिपरिमाणाजन्यत्वे बाधकाभावादप्रयोजकत्वमनुमानानाम् ।
द्वयणुकादिपरिमाणस्य सङ्खयैव जन्मसम्भवादित्याशङ्कां परिहरन् वाशब्दं व्याख्याति- नचेदिति ॥
न चेन्महत्त्वतश्चैव दीघर्त्वादपि नो भवेत्
न्यायसुधा:
चापिशब्दावितरेतरयोगे ।
एवशब्दो नो भवेदेवेति सम्बद्धयते ।
*7,296f.*
इदमिह वक्तव्यम् ।
द्वयणुकादिपरिमाणे ऽसमवायिकारणलक्षणमस्ति न वेति ।
आद्ये ऽसमवायिकारणलक्षणसद्भावे ऽपि त्र्यणुकादिपरिमाणं द्वयणुकादिपरिमाणजं च चेद्भवेत्तदा त्र्यणुकादिगतान्महत्त्वतो दीर्घत्वाच्च नो भवेदेव, चतुरणुकादिपरिमाणमिति शेषः ।
इदमुक्तं भवति ।
यदि समवायिकारणप्रत्यासन्नत्वादिसद्भावे ऽपि नासमवायिकारणत्वं तदेदमतिव्यापकत्वादलक्षणं स्यात् ।
तथाच न तथाभूतस्यापि महत्त्वादेरसमवायिकारणत्वं स्यादिति ।
द्वितीये किं समवायिकारणप्रत्यासत्तिर्नास्ति उत सामर्थ्यावधारणम् ।
नाद्यः ।
द्वयणुकादिपरिमाणस्य त्र्यणुकादिपरिमाणसमवायिकारणसमवायिकारणे द्वयणुकादौ समवेतत्वस्य प्रमितत्वात् ।
समवायिकारणसमवेतत्वाभावान्न चेत् द्वयणुकादिपरिमाणात्त्र्यणुकादिपरिमाणस्योत्पादस्तदा त्र्यणुकादिगताभ्यां महत्त्वदीर्घत्वाभ्यां चतुरणुकादिपरिमाणमपि नो भवेत् तस्यापि समवायिकारणसमवेतत्वाभावात् ।
न द्वितीयः ।
अनन्यथासिद्धिनियतपूर्वभावित्वेन हि सामर्थ्यमवधारणीयम् ।
तच्चास्ति द्वयणुकादिपरिमाणे ।
एवमपि न चेत्ततस्त्र्यणुकादिपरिमाणादिजन्म, तदोक्तप्रसङ्ग एव ।
*7,297f.*
सदृशपरिमाणस्यैव कारणत्वावधारणाद्विसदृशमेतदकारणमवर्जनीयसन्निधीति चेत् ।
किमिदं विसदृशत्वम् ।
किं जातिभेदः ।
उत वैलक्षण्यमात्रम् ।
नाद्यः ।
परमाणुद्वयणुकादिपरिमाणानामनुमानेनैकजातीयत्वस्यापि साधितत्वात् ।
द्वितीये वैलक्षण्यमात्रेण न चेत्कारणत्वं तदा महत्त्वादेरपि न स्यात् ।
नहि त्र्यणुकचतुरणुकमहत्त्वे न विलक्षणे ।
सोत्कर्षत्वस्यानुभवसिद्धत्वात् ।
*7,298*
अथ सङ्खयात एव जन्मसम्भवे परिमाणस्यापि कारणत्वं न कल्पनीयमिति चेत् ।
तथाप्युक्त एवातिप्रसङ्गः ।
चतुरणुकादिपरिमाणस्यापि सङ्खयात एव जननोपपत्तेः ।
यत्र तु नियामकविशेषस्तत्र परिमाणमप्याद्रियतामिति ।
यद्यपि परिणामवादिनां नायं पन्थाः ।
किन्तूपादानानि स्वगुणयुक्तानि तथाविधकार्यतामापद्यन्त इति ।
तथापि परमतमाश्रित्य प(रेषामेवेदं)रस्येदं दूषणाभिधानमिति न काचित्क्षतिः ।
*7,299f.*
एवं परमाणुपरिमाणाद्द्वयणुकपरिमाणस्योत्पादः ततस्त्र्यणुकपरिमाणस्य जन्म तेषां चैकजातीयत्वमित्यनुमानेन साधितम् ।
तदसत् ।
प्रतितर्कपराहतत्वात् ।
तथाहि ।
किं परमाणुपरिमाणाद्वयणुके द्वयणुकपरिमाणाच्च त्र्यणुके सजातीयपरिमाणस्याणुत्वस्योत्पत्तिः साध्यते उत महत्त्वस्य अथ ह्रस्वत्वस्य यद्वा दीर्घत्वस्य ।
सर्वेषामपि पक्षाणां दुष्टत्वं प्रतिजानीते- सदृशस्य हीति ॥
*7,300*
सदृशस्य हि कार्यस्य नैव योगः कथञ्चन
न्यायसुधा:
योगो घटना ।
कथञ्चन उक्तप्रकारेषु केनापि प्रकारेण ।
कुत इत्यतः प्रथमपक्षे ऽनिष्यमाह- अप्रत्यक्षत्वमिति ॥
अप्रत्यक्षत्वमेवं स्याद् यतः कार्येष्वणुत्वतः ।
इति चेन् ... ॥ मनुव्_2,2.62अ-च् ॥
न्यायसुधा:
यदि परमाणुपरिमाणादणुत्वेन सजातीयं द्वयणुके, द्वयणुकपरिमाणाच्च त्र्यणुके परिमाणमुत्पद्यते ।
तदा सर्वकार्येष्वणुत्वप्रसङ्गेनास्मदाद्यप्रत्यक्षत्वमेव स्याद्यतस्तस्मान्नेति ।
द्व्यणुकस्याप्रत्यक्षत्वमिष्यमेवेत्यतो ऽवधारणम् ।
सर्वेषामपि कार्याणामप्रत्यक्षत्वमेव स्यात् ।
नतु (यस्य) कस्यचित्प्रत्यक्षत्वमिति ।
द्रव्यस्य ह्यस्मदादिप्रत्यक्षत्वं महत्त्वे सत्युद्भूतरूपस्पर्शवत्त्वेन व्याप्तम् ।
तथाच त्र्यणुकादीनामणुत्वे महत्त्वाभावादप्रत्यक्षत्वं स्यात् ।
एतेन तृतीयो ऽपि परास्तः ।
त्र्यणुकादेरपि ह्रस्वत्वे महत्वाभावेनाप्रत्यक्षत्वप्रसङ्गस्य दुर्निवारत्वात् ।
*7,306*
द्वितीये तु परमाणुद्वयणुकयोरपि महत्त्वे प्रत्यक्षत्वापत्तिः ।
न चोद्भूतरूपस्पर्शयोरन्यतराभावेन तदभावः ।
त्र्यणुकादावपि तदा(दभावा)पत्तेः ।
अत एव चतुर्थो ऽपि परास्तः ।
दीर्घत्वे महत्वस्यावर्जनीयत्वादिति पक्षद्वयदूषणं स्पष्टत्वान्नोक्तम् ।
यद्यपीदं परिमाणावान्तरजातीनामणुत्वादीनामप्रामाणिकत्वोक्तया परिहृतमेव ।
तथापि तस्यैवार्थस्य स्फुटीकरणार्थं पुनराशङ्कितमित्यदोषः ।
अत्र तावद्विकल्पितेषु महत्त्वपक्षं गृह्णाति- न महत्त्वं चेति ॥
... न महत्त्वं च परमाणावणावपि
न्यायसुधा:
चशब्दो दीर्घत्वसमुच्चयार्थः ।
अणौ द्वयणुके ।
कथं न कथ्यत इति वक्ष्यमाणमत्राप सम्बध्यते ।
यदुक्तं किमणुत्वस्योत्पत्तिः साध्यत इत्यादि, तत्र परमाणुमहत्त्वाद्द्वयणुके महत्त्वम् ।
द्वयणुकमहत्त्वात्त्र्यणुकमहत्त्वमुत्पद्यते इत्येष पक्षस्तावत्परिगृह्यत इत्यर्थः ।
यद्यप्यत्र परिमाणावान्तरजात्यभावान्नैवं विकल्प एव युज्यत इति वक्तव्यम्, तथापि तदभावमेवोपपादयितुं गूढाभिसन्धिना पक्षपरिग्रहः कृत इति ज्ञातव्यम् ।
*7,309*
अत एव पक्षान्तरमपि गृह्णाति- कथमेवेति ॥
कथं तृयणुकपूर्वेषु नाणुत्वमपि कथ्यते
न्यायसुधा:
परमाणोरणुत्वाद्द्वयणुके ऽणुत्वं द्वयणुकाणुत्वात्त्र्यणुके ऽणुत्वं ततश्च चतुरणुके ऽणुत्वमिति वा पक्षः परिगृह्यत इति भावः ।
नन्वेवं सति पक्षद्वयोक्तदोषापत्तिर्व्याघातश्चाधिकः ।
तथा हि ।
परमाणुमारभ्यान्त्यावयविपर्यन्तस्योद्भूत(रूप)स्पर्शवतो महत्त्वे सर्वस्यापि प्रत्यक्षत्वं स्यात् ।
अणुत्वे चाप्रत्यक्षत्वं स्यात् ।
नच परमाण्वादेः प्रत्यक्षत्वं त्र्यणुकादेरप्रत्यक्षत्वं युक्तम् ।
प्रत्यक्षत्वाप्रत्यक्षत्वे च परस्परव्याहते ।
यत्प्रत्यक्षं घटादि न तदप्रत्यक्षम् ।
यच्चाप्रत्यक्षं गगनादि न तत्प्रत्यक्षमिति तयोः परस्परपरिहारेणैव वृत्तेः ।
किञ्च महत्त्वाणुत्वे परस्परविरुद्धे कथमेकैकत्राङ्गीकर्तुमुचिते ।
(तदाह) यथा आह सूत्रकारः"दृष्टान्ताच्चऽ; इति ।
नच कालभेदेन विरोधपरिहारः, परिमाणस्य यावद्द्रव्यभावित्वादित्याशङ्कय प्रत्यक्षत्वाप्रत्यक्षत्वप्रसङ्गयोस्तावदिष्यापादनत्वं वदन्व्याहतिं परिहरति- प्रत्यक्षत्वेति ॥
प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाखिले
न्यायसुधा:
परमाण्वादावखिले ऽपि द्रव्ये प्रत्यक्षत्वाप्रत्यक्षत्वे स्त एवेति नैतौ प्रसङ्गौ युक्तौ ।
नच व्याहतिः ।
पुरुषभेदापेक्षया व्यवस्थोपपत्तेरिति ।
एतच्चोत्तरत्र स्फुटीभविष्यति ।
*7,312*
इदानीमणुत्वमहत्त्वव्याघातं परिहरति- अणुत्वं चेति ॥
अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया
न्यायसुधा:
अखिलेत्यनुवर्तते ।
अणुत्वं च महत्त्वं चाखिले वस्तुनि विद्येते ।
नतु विरुद्धे ।
कथम् ।
यतो वस्तुव्यपेक्षयाणुत्वं च महत्त्वं च तदेवोच्यत इति योजना ।
*7,312f.*
एतदुक्तं भवति ।
स्यादयं परमाण्वादिष्वखिलद्रव्येष्वणुत्वमहत्त्वाङ्गीकारे विरोधो यदि रूपे नीलत्वपीतत्ववत्परिमाणे ऽणुत्वमहत्त्वादिजातियोगः स्यात् ।
नचैवम् ।
प्रमाणाभावात् ।
किन्तु यथा त्र्यणुकादिषु महत्त्वमेकजातीयमेव, उत्कर्षापकर्षवत्परेणाङ्गीकृतम् ।
यथाचाणुत्वं परमाणुद्वयणुकयोः ।
एवं परिमाणमवान्तरजातिरहितमेव सर्वद्रव्येषूत्कर्षापकर्षवद्वर्तते ।
तथा चैकत्र द्रव्ये वर्तमानं परिमाणं द्रव्यान्तरवर्त्युत्कृष्टपरिमाणापेक्षयाणुत्वमित्युच्यते ।
तदेव द्रव्यान्तवर्तिनो ऽपकृष्टपरिमाणस्यापेक्षया महत्त्वमित्युच्यते ।
एवञ्च कुतो विरोधः ।
यथा खल्वेकमेव द्रव्यं द्रव्यभेदापेक्षया सन्निकृष्टं विप्रकृष्टं चोच्यमानं
न विरोधास्पदम् ।
अत एव प्रत्यक्षत्वाप्रत्यक्षत्वविरोधो ऽप्यपास्तः ।
तयोर्महत्त्वादिमात्रनिमित्तत्वे हि स स्यात् ।
न चैवम् ।
किन्तु पुरुषाणामिन्द्रियपाटवनिमित्तत्वमेव ।
अन्यथा मन्दविलोचनेनापि त्र्यणुकमुपलभ्येत ।
तर्हि गगनादेरपि कदाचित्प्रत्यक्षत्वं स्यादिति चेन्न ।
उद्भूतरूपाभावात् ।
द्वयणुकानुपलम्भो गुणविशेषविपर्ययाधीनः आलोकेन्द्रियसन्निकृष्टचाक्षुषद्रव्यानुपलम्भत्वात् ।
पवनानुपलम्भवदित्यादिकं त्वपकृष्टमहत्त्वादिनैवान्यथासिद्धम् ।
तर्हि पर्वतादेरप्रत्यक्षता स्यात् इति चेन्न ।
अपकर्षविशेषस्य विवक्षितत्वात् ।
नासौ व्यवस्थितो ऽस्तीति चेत् ।
सत्यम् ।
अत एव पुरुषापेक्षयेत्युक्तमिति ।
*7,318f.*
अस्त्वेवं परिमाणे ऽवान्तरजात्यभावस्तथापि न सर्वत्र महत्त्वाणुत्वभ्युपगमो युज्यते ।
उत्कृष्टापकृष्टपरिमाणापेक्षया हि मध्यवर्ति परिमाणमणुत्वं महत्त्वं चोच्यत इत्युक्तम् ।
तच्च द्वयणुकादिपरिमाणे सम्भवति ।
नच परमाणुपरिमाणे ।
नहि परमाणुपरिमाणादपकृष्टं परिमाणमस्ति ।
यदपेक्षया तन्महत्त्वं स्यात् ।
अतः परमाणोरणुत्वमेव ।
तथाच न महत्त्वं चेत्यसदित्यत आह- तारतम्येति ॥
*7,319*
तारतम्यस्थिता यस्मात् पदार्थाः सर्व एव च
न्यायसुधा:
यस्मात्सर्वे ऽपि पदार्थाः परिमाणतारतम्येनैव स्थिताः ।
स्वपरिमाणापेक्षयोत्कृष्टापकृष्टपरिमाणवन्तः ।
सर्वाण्यपि द्रव्याणि कुतश्चित्परिमाणादुत्कृष्टेन परिमाणेन उपेतानीति वा ।
तस्मात्परमाणोरपि महत्त्वं युज्यते इति सम्बन्धः ।
अयमत्र प्रयोगः ।
परमाणुः कुतश्चिदुत्कृष्टेन परिमाणेन युक्तः, स्वपरिमाणापेक्षयापकृष्टपरिमाणवानिति वा, द्रव्यत्वात्तन्तुवदिति ।
नच परमाणोरपकृष्टद्रव्याभावाद्बाधितविषयत्वम् ।
तद्भागानां वक्ष्यमाणत्वात् ।
नच तेष्वेव व्यभिचारः ।
तेषामपि भागवत्त्वात् ।
*7,321*
तदेवं परमाणुद्वयणुकादिपरिमाणानां वैजात्यस्याभावाद्युक्तं सौत्रमनुमानमिति सिद्धम् ।
यद्यपि वैजात्यमङ्गीकृत्यापि कार्यकारणभावः शक्योपपादनः ।
अन्यथा सङ्खयाया अप्यकारणत्वापत्तेः ।
परिमाणस्यैवमिति नियमस्य निर्मूलत्वात् ।
तथापि वस्तुस्थितिरेव वक्तव्येति ।
परिमाणत्वावान्तरजात्यपाकरणेन सजातीयतामुपपाद्यानुमानं समाहितमिति ज्ञातव्यम् ।
*7,322*
परमाणोरप्युत्कृष्टपरिमाणाश्रयत्वमुक्तं तदाक्षिपति- यथेति ॥
यथा महत्त्वविश्रान्तिस्तथाणुत्वस्य चेष्यते
परिमाणत्वतश्चेन् ...
न्यायसुधा:
यथा महत्त्वस्य विश्रान्तिस्तथा परिमाणत्व(तो)हेतोरणुत्वस्य च विश्रान्तिरिष्यते चेदिति योजना ।
अत्र महत्त्वाणुत्वशब्दाभ्यां परिमाणोत्कर्षापकर्षावुच्येते ।
ताभ्यां च तत्तारतम्यमुपलक्ष्यते ।
परिमाणत्वत इति ॥
परिमारतारतम्यत्वादित्यर्थः ।
तताचाणौ सिद्धे ऽणुत्वसिद्धिस्तत्सिद्धौ च तत्(अणुत्व)सिद्धिरिति परस्पराश्रयदोषः परास्तः ।
तदयमर्थः ।
परिमाणापकर्षतारतम्यं क्वचिद्विश्रान्तं परिमाणतारतम्यत्वात् परिमाणोत्कर्षतारतम्यवदित्यनुमानेन परिमाणापकर्षतारतम्यस्य क्वचिद्विश्रान्तिसिद्धौ यत्रेदं विश्रान्तं यतः परमाणुर्नास्ति स परमाणुरिति परिमाणापकर्षकाष्ठाश्रयतया सिद्धस्य परमाणोः कथमुत्कृष्टपरिमाणाख्यमपि महत्त्वं साधयितुं शक्यम् ।
धर्मिग्राहकप्रमाणेन स्ववचनेन (च) व्याघातादिति ।
*7,323*
अत्र वक्तव्यम् ।
केयं क्वचिद्विश्रान्तिर्नाम ।
किमियत्तापरिच्छेदः, त्र्यणुकपरिमाणात् षष्ठभाग एव परिमाणं, न ततो ऽपकृष्टमस्तीति, किंवा क्वचिद्द्रव्ये वृत्तिः, अपकर्षतारतम्यमियत्तावच्छेदरहितमेव किन्त्वनन्तांशोपेतमपि तत्सर्वं क्वचिदाश्रितमेवेति ।
तत्राद्ये साध्ये दृष्टान्तः साध्यविकल इत्याह- नेति ॥
... न महत्त्वस्यापि विश्रमः
*7,324*
न्यायसुधा:
दृष्टान्तीकृतस्य महत्त्वस्य परिमाणोत्कर्षतारतम्यस्यापि विश्रमः उक्तरूपो नास्ति ।
न केवलं पक्षस्येत्यपेरर्थः ।
कुतो नास्तीत्यत आह- दृश्यत इति ॥
दृश्यते ऽनन्त इत्येव ...
न्यायसुधा:
परिमाणोत्कर्षतरतमभावो ऽनन्तो ऽनवधिक इत्येव दृश्यते ।
न त्वियत्तापरिच्छेदवानिति ।
बाधकप्रमाणसद्भावात्साधकाभावाच्चेत्यर्थः ।
कालात्ययापदिष्यं चास्मिन्पक्षे ऽनुमानमित्याह- तथेति ॥
... तथानन्त्यमणावपि
न्यायसुधा:
तथाशब्दो दूषणसमुच्चये ।
न केवलं परिमाणोत्कर्षतरतमभावो ऽनन्त इति दृश्यते ।
किन्त्वसावणौ परिमाणापकर्षतारतम्ये ऽप्यानन्त्यमनवधिकत्वं दृश्यत इत्यर्थः ।
*7,326*
दृश्यते ऽनन्त इत्येवऽ; इतीयत्तापरिच्छेदो न दृष्टान्ते दृश्यत इति एवशब्देन उक्तम् ।
तद्विशदयति- नेति ॥
न महत्तत्वगुणत एतावानिति हीश्वरः ।
परिच्छिन्नस् ... ॥ मनुव्_2,2.66अ-च् ॥
न्यायसुधा:
महत्त्वमिति द्रव्यविशेषस्येवं (स्यैव) संज्ञा ।
तेन आन्महत इत्येष विधिर्न भवति ।
"दृष्टानुगतिर्हि संज्ञाछन्दसोःऽ; इष्यते ।
यथाऽह"बहुलं तणिऽ; इति ।
गुणशब्दो ऽत्र तन्त्रेण द्विः उपात्तः ।
तत्राद्यस्य परिमाणाख्यो गुणविशेषो ऽर्थः ।
द्वितीयस्य गुणनम् ईश्वर इति परममहत्त्वाश्रयद्रव्योपलक्षणम् ।
परिमाणोत्कर्षतारतम्यस्येयत्तापरिच्छेदो हि तथा सति दृष्टः स्यात् ।
यदि महत्तत्त्वादिपरिमाणगणनयेश्वरादिः एतावान्पञ्चगुणपरिमाणवान् षड्गुणपरिमाणवान्वेति परिच्छिन्नः स्यात् ।
नचैवम् ।
तथा सति परममहत्त्वानुपपत्तेरिति हिशब्दार्थः ।
*7,327*
अत्र महत्तत्त्वग्रहणेनेदं सूचयति ।
यदुक्तं वैशेषिकादिभिः पृथिव्यादीनि नवैव द्रव्याणि इति तदसत् ।
महदहङ्कारादीनामपि सत्त्वात् ।
नच तत्र प्रमाणाभावः ।
श्रुत्यादेः प्रमाणस्य विद्यमानत्वात् ।
नच त्र्यणुकादिकमेव तथोच्यते ।
अव्यक्तत्वादिश्रवणात् ।
नच बाधकं किञ्चित् विद्यते ।
येनोपचारकल्पनेति ।
ईश्वरग्रहणेन जीवात्मनामपि यत्परैषः परममहत्त्वमुक्तं तदसदिति सूचयति ।
उपपादयिष्यते खल्वणुत्वं जीवस्येति ।
*7,329*
दृष्टान्ते विश्रमाभावोपपादनस्य प्रयोजनमाह- तथेति ॥
... तथाणोश्च नैतावद्भागता क्वचित्
न्यायसुधा:
यतो दृष्टान्त एतावद्गुणमेव परिमाणमुत्कृष्टते नातो ऽधिकमिति वाक्यं नास्ति ।
अतस्तथा तद्दृष्टान्तेन अणोः अणुत्वस्य परिमाणापकर्षस्य चैतावद्भागता त्र्यणुकपरिमाणात् षष्ठभाग एव परिमाणमपकृष्टते नातो ऽधिकमितीयत्ता क्वचिद्द्रव्ये न सिद्धयति ।
नहि महाह्रदं सपक्षीकृत्य पर्वते ऽग्निमत्वं शक्यसाधनम् ।
तदसिद्धौ च न विवक्षितार्थलाभः ।
अस्मादेतावद्भागमेव परिमाणमपाकृष्टते नातो ऽधिकमित्यस्यार्थस्य हि सिद्धावपकर्षकाष्ठाश्रयभूतं कुतश्चिदप्यनुत्कृष्टमाणं द्रव्यं सिद्धयतीति ।
यद्वानेन वाक्येन प्रतिपक्षमाह ।
तथाहि ।
समर्थितं तावत्परिमाणोत्कर्षतारतम्यं न क्वचिद्विश्रान्तमस्मादेतावद्गुणमेव परिमाणमुत्कृष्टत इतीयत्ताभावादिति ।
तथा तद्दृष्टान्तेनाणोश्चैतावद्भागता क्वचिन्नास्तीति साध्यत इति ।
अत्रायं प्रयोगः ।
परिमाणापकर्षतारतम्यं क्वचिन्न विश्रान्तम् परिमाणतारतम्यत्वात् परिमाणोत्कर्षतारतम्यवदिति ।
*7,330*
द्वितीयं शङ्कते- विश्रान्त इति ॥
विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते
न्यायसुधा:
विश्रान्त इत्यस्य त्र्यणुकाद्यपेक्षया परिमाणतो ऽनन्तांशो द्रव्यविशेषः कश्चिदस्तीत्यर्थ इति द्वितीयपक्षो गम्यते ऽभ्युपगम्यते यदीत्यर्थः ।
इदमु(एतदु)क्तं भवति ।
परिमाणापकर्षतारतम्यमियत्तानवच्छिन्नमेव ।
किन्त्वनन्तांशरूपमपि तत्क्वचिदाश्रितमिति ।
निराकरोति- नेति ॥
*7,331*
नावसाययितुं शक्यो विरोधादेव केवलम्
न्यायसुधा:
तर्हीति शेषः ।
कश्चिदिति वर्तते ।
एवं साधने कश्चिदपि द्रव्यविशेषो नावसाययितुं शक्यः ।
अयमेव सर्वतो ऽपकृष्टपरिमाणवान्नातो ऽपकृष्टपरिमाणो ऽस्तीति सर्वान्तिमतया न प्रतिपत्तुं कश्चिच्छक्यते ।
कुतः केवलं साक्षाद्विरोधात् ।
परिमाणापकर्षो ऽनन्तश्च पर्यवसितश्चेति हि विप्रतिषिद्धमेतत् ।
भवितव्यं चावसानेन ।
अन्यथा सर्वस्याप्युत्कृष्टापकृष्टपरिमाणसम्भवेन परमाणोर्महत्त्वनिराकरणासम्भवात् ।
एवशब्देन विरोधस्यापरिहार्यत्वं सूचयति ।
तदनेनापसिद्धान्तो ऽभिहितो भवति ।
*7,332*
यदि चानन्त्यमवधीर्य परिमाणापकर्षतारतम्यं क्वचिदाश्रितमित्येव प्रतिज्ञार्थः स्यात् ।
तथापि न सिसा(षा)धयिषितमवसानं लभ्यत इत्यर्थान्तरता स्यात् ।
यथाऽकाशादेरुत्कृष्टपरिमाणं द्रव्यं नास्ति तथा परमाणोरपकृष्टपरिमाणं द्रव्यं नास्तीति तात्पर्यार्थं इति चेत् ।
सत्यम् ।
नायमितो लभ्यत इति उच्यते ।
परिमाणापकषर्तारतम्यं क्वचिन्निरतिशयम् परिमाणतारतम्यत्वात्परिमाणोत्कषर्तारतम्यवदिति विवक्षितमिति चेत् ।
को ऽयमतिशयो नाम ।
किमाधिक्यमुत न्यूनता ।
अथ साधारणं किञ्चित् ।
आद्ये बाधः ।
द्वितीये दृष्टान्तस्य साध्यविकलता ।
न तृतीयः ।
तदभावात् ।
शब्दसाम्यमात्रेणानुमानाप्रवृत्तेः ।
यथाऽकाशादिपरिमाणमुभयावधिमन्न भवति ।
तथा त्र्यणुकावयवावयवपरिमाणमपि साध्यमिति चेन्न ।
हेत्वभावात् ।
परिमाणत्वस्य घटादिपरिमाणे व्यभिचारात् ।
नित्यपरिमाणत्वस्याश्रयानित्यताया वक्ष्यमाणत्वेनासिद्धेः ।
परिमाणकाष्ठत्वस्य च साध्यत्वात् ।
एवं तात्पर्यान्तराण्यपि निराकार्याणीति ।
*7,337*
परिमाणोत्कर्षतारतम्यस्यानन्तत्वं दृश्यत इत्युक्तम् ।
तत्केन प्रमाणेनेत्याशङ्कय कालाकाशेश्वरादीनि हि द्रव्याणि परममहत्त्वयन्तीष्यन्ते ।
तत्र कालाकाशयोस्तावत्परिमाणोत्कर्षस्यानन्त्यं साक्षिसिद्धमित्याह- केवलमिति ॥
केवलं साक्षिमानेन कालो देशो ऽपि नान्तवान्
न्यायसुधा:
केवलशब्देन प्रमाणान्तराभावं प्रतिजानीते ।
देश इत्याकाश उच्यते ।
नान्तवानित्यनवधिकपरिमाणोत्कर्षवान् ।
दृश्यत इति वक्ष्यमाणमत्रापि सम्बद्धयते ।
कालाकाशौ हि केवलं साक्षि(वेद्य)सिद्धावित्युपपादितं प्रथमाध्याये ।
अतस्तत्परिमाणोत्कषर्स्यानवधिकत्वमपि तेनैव गम्यत इति ।
*7,338*
परिमाणापकर्षतारतम्यस्याप्यानन्त्यं दृश्यत इत्युक्तम् ।
तत्केन प्रमाणेनेत्याशङ्कय कालाकाशयोस्तावत्साक्षिणैवेत्याह- अपर्यवसितश्चेति ॥
अपर्यवसितिश्चाणोर्दृश्यते सक्षिणा द्वयोः
न्यायसुधा:
द्वयोः काले गगने च ।
अणोश्च परिमाणापकर्षतारतम्यस्य चेत्यर्थः ।
अपर्यवसितिः आनन्त्यम् ।
नन्वेतदनुपयुक्तम् ।
परमाणुपरिमाणतो ऽपकृष्टपरिमाणसद्भावे प्रमाणोपन्यासस्य कार्यत्वे कालावकाशयोः परिमाणोत्कर्षानन्त्ये प्रमाणोपन्यासस्य प्रयोजनाभावादिति ।
मैवम् ।
नहि परेण साक्षादेवमुक्तम् ।
किन्तु परिमाणोत्कर्षपरम्परावत्तदपकषर्परम्परापि पर्यवसानवतीति ।
तथाच कालाकाशयोः परिमाणोत्कर्षापकर्षपरम्परायाः पर्यवसानाभावे साक्षिप्रमाणोपन्यासः कथमसङ्गतः ।
नन्वस्तु कालाकाशयोः परिमाणप्रकर्षो ऽनवधिकः ।
तदपकर्षानन्त्यं तु कथम् ।
व्याहतत्वात् ।
मैवम् ।
साक्षिसिद्धत्वात् ।
प्रमिते ऽर्थे विरोधानवकाशात् ।
*7,340*
कालादावनवधिकः परिमाणापकर्षः साक्षिसिद्ध इत्येव नेष्यत इति चेत् ।
किं साक्षिणा नावगम्यते, उतावगतो ऽपि न सत्यः, अथवा साक्षी नाम प्रमाणं नास्ति ।
आद्यं शङ्कते- यदीति ॥
यदि नो साक्षिगम्यं तन् ...
न्यायसुधा:
तदिति कालादेः परिमाणापकर्षस्यानन्त्यं सामान्येन परामृशति ।
दूषयति- महत्त्वमिति ॥
... महत्त्वं केन गम्यते
न्यायसुधा:
कालाकाशयोरिति वर्तते ।
महत्त्वम् अनवधिकः परिमाणोत्कषर्ः ।
तर्हीति शेषः ।
अयमभिसन्धिः ।
कालादौ परिमाणोत्कषर्स्यानन्त्यमुपेत्य हि परेण तदपकर्षानन्त्यं नेष्यते ।
तत्र वक्तव्यम् ।
प्रकर्षानन्त्यं केन प्रमाणेनावगम्यत इति ।
साक्षिणेति चेत् ।
अपकर्षानन्त्यमपि तद्बलेन कुतो नाङ्गीकृतम् ।
तत्तेन नावगम्यत इति ।
साक्षिणेति चेत् ।
अपकर्षानन्त्यमपि तद्बलेन कुतो नाङ्गीकार्यम् ।
तत्तेन नावगम्यत इत्युक्तमिति चेत् ।
इदमपि (तदपि)तेन नावगम्यत इति वदन्तं प्रति किमुत्तरम् ।
अनुभवापलापो न युक्त इति चेत् ।
समं प्रकृते ऽपि ।
यथा हि कालादेरुत्कर्षानवधिकत्वमनुभवे चकास्ति ।
तथापकर्षानन्त्यमपीति किमेकत्र पक्षपातेन ।
अन्यथैकापलापे द्वितीयस्याप्यपलापो दुरुत्तरः स्यादिति ।
*7,341*
स्यादेतत् ।
न कालादेः परिमाणोत्कर्षानन्त्यं साक्षिसिद्धमिति ब्रूमः ।
किन्तु अनुमानगम्यम् ।
तथाच न प्रतिबन्दीग्रह इत्यत आह- विश्रान्तिरिति ॥
विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः
न्यायसुधा:
परिमाणोत्कर्षपरम्परया इति शेषः ।
अनुमानत इति तृतीयार्थे तसिः ।
नानुमानेन कालादावनवधिकपरिमारोत्कषर्सिद्धिः ।
हि यस्मात्तारतम्येनानुमानेन तद्विश्रान्तिर्दृश्यते ।
परिमाणोत्कर्षतारतम्यं इयत्तावत्परिमाणतारतम्यत्वात्तदपकषर्तारतम्यवदिति प्रत्यनुमानप्रतिरुद्धत्वादिति यावत् ।
नच दृष्टान्तो ऽस्माकं साध्यविकल इति वाच्यम् ।
अपकर्षतारतम्यस्य अन्तवत्त्वमुपेत्योत्कर्षतारतम्यस्यानन्त्यमनुमिमानस्य परस्यैवं प्रतिपक्षोत्प्रेक्षा स्यादित्युच्यमानत्वात् ।
तथाच साक्षिविरुद्धं प्रत्यनुमानमिति वक्तव्यम् ।
कथं तर्हि स एव कालादावनवधिकप्रकृष्टपरिमाणं न साधयेदिति ।
*7,343*
अस्तु तर्ह्यागमात्कालादावनवधिकोत्कृष्टपरिमाणसिद्धिरितयाशङ्कयाह- यदीति ॥
यद्यागमादनन्तं तन्महत्त्वमवगम्यते ।
अनन्तमेव चाणुत्वं कुतो नैवावसीयते
न्यायसुधा:
आगमात् स एषो ऽनन्त इत्यादेः ।
तन्महत्वं कालादिपरिमाणोत्कर्षः ।
अणुत्वं परिमाणापकर्षः ।
एतदु(इदमु)क्तं भवति ।
नागमः कालाद्यनन्तानां स्वयं प्रतिपादयति ।
तत्प्रवृत्तेः प्रागेव साक्षिणा तत्प्रतिभासात् ।
किन्त्वनुवाद एवायम् ।
प्रतिपादकत्वे वा नास्मत्प्रयोजनपरिक्षयः ।
यस्मादागमात्कालाद्युत्कर्षो ऽनवधिकः प्रतीयते तस्मादेवापर्षानन्त्यप्रतीतेः ।
अनन्तशब्दो ह्यनवच्छेदमात्रमाचष्टे ।
स च यथा परिमाणोत्कर्षविषयो व्याख्यायते ।
तथा तदपकर्षविषयो ऽपि शक्यते व्याख्यातुमिति ।
*7,345*
परिमाणोत्कर्षवत्तदपकर्षस्यापि कालादावानन्त्यं साक्षिणाऽगमेन वा प्रतीयत एव ।
तथापि न तत्सत्यम् ।
नहि प्रतीतत्व(ति)मात्रेण सत्यतानिश्चयो ऽतिप्रसङ्गादिति द्वितीयं निराकरोति- महत्त्वेति ॥
महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते
न्यायसुधा:
कालादौ परिमाणोत्कर्षापकर्षयोर्विश्रान्तिरियत्तावच्छेदो बलवत्प्रमाणेन नैवोपलभ्यते ।
अत्र महत्त्वग्रहणं दृष्टान्ताथर्म् ।
इदमुक्तं भवति ।
यथा कालादौ परिमाणोत्कर्षस्यानन्त्यं साक्ष्याद्यवगतं विपरीतग्राहकप्रमाणाभावात्सत्यमेव ।
तथा तदपकर्षस्यापि ।
विना बाधकेन साक्ष्यादिसिद्धं परिमाणापकर्षानन्त्य कालादावसत्यं चेत्तदुत्कर्षानन्त्यमप्य(कालादाव)सत्यं स्यात् ।
अविशेषात् ।
ततश्चापरिच्छिन्नपरिमाणताङ्गीकारो (भज्येत) नङ्क्षयेत ।
अतिप्रसङ्गस्तु बाधकाभावेनापास्त इति ।
*7,347*
नन्वस्त्येव परिमाणापकर्षस्यानन्त्याभ्युपगमे बाधकम् ।
तथाहि ।
अपकर्षो नामाल्पता ।
आनन्त्यं चानल्पता ।
नच विरुद्धयोर्विशेष्यभावः सम्भवति ।
न हि भवति पीतो ऽपीत इति ।
अतो बाधकसद्भावात्प्रतीतमप्यपकर्षानन्त्यं त्यज्यत इत्यत आह- अन्यदेवेति ॥
अन्यदेव ह्यनन्तत्वं महत्त्वाणुत्वयोः समम्
न्यायसुधा:
नानन्तत्वं नामानल्पत्वम् ।
किन्त्वन्यदेव परिच्छेदाभावरूपम् ।
तस्मात्परिमाणोत्कर्षापकर्षयोः समानो धर्म इति युज्यते ।
अत्रापि महत्त्वग्रहणं दृष्टान्तमेव ।
यथा महत्त्वस्य विशेषणं तथाणुत्वस्यापीति ।
यद्यनन्तत्वं नामानल्पत्वं स्यात्तदोत्कर्षस्यापि विशेषणं न स्यात् ।
नहि तदेव तस्य विशेषणं भवति ।
पीतः पीत इत्यदर्शनात् ।
अतस्तत्रानन्त्यं नाम परिच्छेदाभाव इति स्वीकृत्य विशेषणविशेष्यभावः समर्थनीयः ।
तथा प्रकृते ऽपीति ।
यथा हि परिमाणोत्कर्षो गगनादावनधिकस्तथा तदपकर्षो ऽप्यनवधिक एवेति विशेषणविशेष्यभावाभ्युपगमे न को ऽपि दोष इति ।
*7,355*
आनन्त्यं नामानल्पत्वादन्यदित्येतत्प्रत्यययितुं दृष्टान्तान्तरमाह- बहुत्वेति ॥
बहुत्वाल्पत्वयोर्यद्वत् साङ्खयायामुपलभ्यते ।
आनन्त्यम् ... ॥ मनुव्_2,2.72अ-च् ॥
न्यायसुधा:
यद्वत् यथा सङ्खयायां बहुत्वाल्पत्वयोर्विशेषणतयाऽनन्त्यमुपलभ्यते ।
बहुत्वमनन्तमल्पत्वं चानन्तमिति ।
तथा प्रकृते ऽपीति ।
यद्यनन्त्वं नामानल्पत्वं स्यात् तदा न बहुत्वस्य विशेषणं स्यात् ।
तस्यैव तद्विशेषणत्वायोगात् ।
नाप्यल्पत्वस्य, विरोधात् ।
अतः अवच्छेदाभाव एवानन्तत्वमित्यङ्गीकृत्य बहुत्वमल्पत्व(चानन्त)चापर्यवसितमिति विशेषणविशेष्यभावो बोद्धव्यः ।
तथा परिमाणोत्कर्षापकर्षयोरपीति ।
ननु च नास्त्येव सङ्खयायां बहुत्वाल्पत्वयोरानन्त्यम् ।
बहुत्वस्य परार्ध एव पर्यवसितत्वात् ।
अल्पत्वस्य चैक(आ)त्वावधित्वम् ।
यथोक्तम् ।
"सा चैकत्वादिपरार्धपर्यन्ताऽ; इति ।
अतः कथमयं दृष्टान्त इत्यत आह- एकेति ॥
... एकभागानां तावत्त्वं ह्येव गण्यते
*7,356*
न्यायसुधा:
सङ्खयामधिकृत्य हि गणितशास्त्रं प्रवृत्तम् ।
तत्र च कलासवणर्नप्रभागभागानुबन्धभागापवाहभागभागादिप्रकरणेष्वेकभागानां तावत्त्वमनवधिकत्वं गम्यते हि यस्मात्तस्मादवगम्यते अस्त्येकत्वादप्यपकृष्टानवधिका सङ्खयेति ।
परार्धात्परतो ऽपि सङ्खयासद्भावः स्फुट एवेति नोपपादितः ।
सम्भवति हि परेषामपीश्वरापेक्षाबुद्धया परमाण्वादौ परार्धात्परतो ऽपि सङ्खयोत्पत्तिः ।
ततः परं संज्ञाकरणं तु गणकानां प्रयोजनाभावात् ।
एतामेव विप्रतिपत्तिमपनेतं सङ्खयादृष्टान्तोपादानं कृतमिति ।
*7,357*
एवं कालाकाशयोः परिमाणोत्कर्षापकर्षानन्त्यं साक्षिणा प्रसाध्येश्वरे तदागमेन साधयति- अणीयांश्चेति ॥
अणीयांश्च महीयांश्च भगवानागमोदितः
*7,358*
न्यायसुधा:
"अणोरणीयान्महतो महीयानात्माऽ; इत्यागमेन भगवानीश्वरो ऽणोरप्यणीयान्महतो ऽपि महीयानुदितः ।
नच तत्राणुमहच्छब्दाभ्यां किञ्चिद्वयवस्थितमुच्यते ।
विशेषणाभावात् ।
ततो यद्यपकृष्टपरिमाणं ततस्ततो ऽप्यपकृष्टपरिमाणो यद्यच्चोत्कृष्टपरिमाणं ततस्ततो ऽप्युत्कृष्टपरिमाण इत्युक्तं स्यात् ।
तथा चेश्वरगतयो परिमाणोत्कर्षापकर्षयोरनवधिकत्वमेव लभ्यते ।
नन्वणीयान्महीयानित्युक्त एव भगवति परिमाणोत्कर्षापकर्षयोः पर्यवसानात्कथं तयोः अनवधिकत्वमित्यत आह- अणीयानिति ॥
अणीयान्महीयानित्युक्तयोरप्यणोर्महतश्चेति शब्दविषयत्वादिति ।
*7,359*
नन्वेवं सति स्वस्मादपि स्वयमपकृष्ट उत्कृष्टश्चेत्यागतम् ।
को नेत्याह ।
यथा चैतत्तथा वक्ष्यते ।
श्रुत्यन्तरं चेश्वरे परिमाणोत्कर्षापकर्षयोरानन्त्यं प्रतिपादयदस्तीत्याह- आनन्त्येति ॥
आनन्त्यवाचकः शब्दो द्विधानन्त्ये ऽपि मानताम्
याति ...
न्यायसुधा:
"सत्यं ज्ञानमनन्तं ब्रह्मऽ; इति ब्रह्मण आनन्त्यस्य वाचको ऽनन्तशब्दस्तावद्देशतः कालतो वस्तुतश्चानन्त्यमाह ।
तत्र देशानन्त्यं नामानवधिकपरिमाणवत्त्वम् ।
कालानन्त्यं नामानवच्छिन्नसत्ताकत्वम् ।
वस्त्वानन्त्यं नामापरिच्छिन्नसङ्खयागुणकर्मविग्रहवत्त्वम् ।
तत्र यदा परिमाणानन्त्यस्य वाचकस्तदा द्विधानन्त्ये ऽपि उत्कर्षापकर्षाभ्यामनन्त्ये ऽपि मानतां याति ।
न तूत्कर्षानन्त्यमात्रे विशेषाभावादिति ।
नन्वनेकार्थत्वमन्यायः ।
को ऽत्र न्यायविरोधः ।
निरर्थकशब्दप्रयोगायोगात्तावदेको ऽर्थो ऽङ्गीकार्यः ।
द्वितीयाङ्गीकारे तु न किञ्चिद्बीजमिति कल्पनागौरवम् ।
उच्यते ।
यत्र ह्येकस्मिन्नर्थे व्यवस्थिते सति वृथैवार्थान्तराङ्गीकारस्तत्रैवमेतत् ।
नचैवं प्रकृते ।
अनन्तशब्दो हि परिच्छेदाभावमाह ।
परिच्छे(दश्च)दो हि देशतः कालतो वस्तुतश्च भवन्युपगपदेव प्राप्नोति ।
नच तत्र कस्यचिन्प्राथम्यमस्ति ।
नाप्यन्यतमपरित्यागे कारणम् ।
एवं परिमाणान्त्ये ऽप्युत्कर्षपरिग्रहो द्रष्टव्य इति ।
*7,362*
नन्वेवं कालतो गुणतश्चानन्त्यवाचकस्यानन्तशब्दस्याल्पकालत्वमल्पगुणत्वं चार्थः स्यात् ।
अन्यथाल्पपरिमाणवत्त्वमपि न स्यात् ।
अविशेषादिति चेत् ।
किमिदं कालतो गुणतश्चाल्पत्वमापाद्यं किमल्पा एव गुणाः सन्ति ब्रह्मणो न बहुतराः ।
तथा अल्पकालीनैव सत्ता न प्रचुरकालीनेति ।
किंवा सर्वकालगतस्याल्पकाले ऽप्यवस्थितिः स्यात् ।
महागुणस्य चाल्पो ऽपि गुणः स्यादिति ।
आद्यं दूषयति- नैवेति ॥
... नैव गुणाल्पत्वं कालात्पत्वं च मानगम्
न्यायसुधा:
गुणाल्पत्वं कालाल्पत्वं च मानगम् ।
अनन्तं ब्रह्मेति श्रुतिप्रतिपाद्यं नैव भवेदिति गूढाभिसन्धेः प्रतिज्ञा ।
हेतुमुत्तरत्र वक्ष्यति ।
द्वितीयमाशङ्कयाङ्गीकरोति- सर्वेति ॥
सर्वकालगतस्याल्पकाले ऽपि स्यादवस्थितिः
महागुणस्य चाल्पो ऽपि गुणः स्यादिति चेद् भवेत्
न्यायसुधा:
इतिचेदापाद्यते ।
तद्भवेदेत्यर्थः ।
अत्र गुणग्रहणं क्रियादेरप्युपलक्षणम् ।
गुणकालयोर्यथेष्यमुपादानं प्राथम्यनिरासाथर्म् ।
तेनोक्तकल्पनागौरवपरिहारं सूचयति ।
*7,364*
ननु यदि कालाल्पत्वं गुणाल्पत्वं चाङ्गीक्रियते ।
कथं तर्हि नैव गुणाल्पत्वमिति निराकरणमित्यतो ऽभिसन्धिमुद्घाटयति- तावत्त्वमेवेति ॥
तावत्त्वमेव नैव स्याद् ...
न्यायसुधा:
अल्पत्वमेवेत्यर्थः ।
इत्युक्तं प्रागिति शेषः ।
कुतो न स्यादिति चेत् ।
आपादकाभावादित्याह- देशे ऽपीति ॥
... देशे ऽप्येतन्न नो मतम्
न्यायसुधा:
परिमाणे ऽपीत्यर्थः ।
एतत् तावत्त्वमेव ।
नः अस्माकम् ।
एतदुक्तं भवति ।
परिमाणविषये ऽस्मदीयं श्रुतिव्याख्यानमुपलभ्य हि गुणकालयोरप्येतदापाद्यते ।
आपादकान्तराभावात् ।
नच परिमाणे ऽस्माभिरेवं व्याख्यायते ।
अपकृष्टमेव परिमाणमनवधिकमस्ति नोत्कृष्टमिति ।
द्विधानन्त्ये ऽपीत्युक्तत्वात् ।
अतो निर्मूलमेतदापादनमिति ।
*7,365*
नन्वेतदीश्वरादेरनवधिकोत्कृष्टापकृष्टपरिमाणसमर्थनमयुक्तम् ।
सूत्रकारेण क्वाप्यनुक्तत्वात् ।
महद्दीर्घवद्वेति सूत्रस्य विजातीययोरपि कार्यकारणभावोपपादनेन व्यधिकरणयोरप्यपरिच्छिन्नपरिमाणोत्कर्षापकर्षयोरुपपादनेन वा समर्थयितुं शक्यत्वादित्यत आह- महत इति ॥
महतो ऽल्पत्वमपि हि व्योमवत् प्राह वेदवित्
न्यायसुधा:
निरवधिकपरिमाणोत्कर्षवतो(ऽपि) ब्रह्मणो ऽल्पपरिमारवत्त्वं च व्योमं दृष्टान्तीकृत्य व्योमवच्चेति सूत्रखण्डेन प्राह- सूत्रकारः ।
अतो ब्रह्मणो गगनस्य वानवधिकपरिमाणरोत्कर्षापकर्षसद्भावस्तत्सिद्धान्तो भवत्येवेति ।
*7,368*
किञ्च यो ऽर्थो निरवकाशप्रमाणसिद्धो यद्विपर्यये चानिष्यं स सर्वो ऽपि सिद्धान्त एव ।
तत्र कालाकाशयोरी(रपी)श्वरे चानवधिकपरिमाणोत्कर्षापकर्षसद्भावः साक्षिणाऽगमेन च सिद्ध इत्युक्तम् ।
तद्विपर्यये बाधकमाह- यदीति ॥
यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत्
न्यायसुधा:
कालादेरिति वर्तते ।
सर्वत्रापि संस्थानमिति च ।
कालादीनां सर्वगतत्वं परेणाप्यङ्गीकृतम् ।
सर्वगतत्वं च सर्व(त्र)देशे संस्थानम् ।
तथाच यदि कालादेरल्पाल्पतरदेशेषु संस्थानं न स्यात् ।
तदा सर्वत्रावस्थानमपि नो भवेत् ।
कुत इत्यत आह- स्थितस्य हीति ॥
स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेद् ध्रुवम् ।
एकत्राप्यनवस्थस्य कुत एवाखिलस्थता
न्यायसुधा:
ध्रुवमित्यवधारणे ।
अल्पदेशेषु स्थितस्यैवेति ।
यथा खल्वेकैकं वर्णमुच्चारयत एव सवर्देवोच्चारणम् ।
नत्वेकमपि वर्णमनुच्चारयतः, तथाल्पाल्पतरदेशेषु स्थितस्यैव हि सर्वदेशगतत्वं भवेत् ।
एकैकत्रापि देशे ऽनवस्थितस्याखिलदेशस्थता कुत एव भवेत् ।
अनेन यो यत्समुदायं व्याप्नोति स तदेकदेशानपि व्याप्नोति(त्येव), यश्चैकदेशान्न व्याप्नोति नासौ तत्समुदायमित्यन्वयव्यतिरेकौ दर्शितौ ।
*7,370*
न केवलमल्पाल्पतरदेशस्थत्वाभावे सर्वगत्वाभावप्रसङ्गः ।
किन्तु शशविषाणादिवत्सत्तापि न स्यादित्याह- शून्यत्वमेवेति ॥
शून्यत्वमेव तस्य स्याद् यस्यैकत्रापि न स्थितिः
न्यायसुधा:
एवंच कालादीनामल्पाल्पतरदेशावस्थाने ऽल्पाल्पतरपरिमाणवत्त्वमप्यवर्जनीयमित्यनवधिकपरिमाणापकर्षसिद्धिः ।
अनवधिकोत्कर्षस्तु परेणाप्यङ्गीकृत एवेति न तद्विपर्यये बाधकमुक्तम् ।
सर्वत्रापि नो भवेदित्येव वा द्रष्टव्यम् ।
नहि परममहत्त्वाभावे सर्वगतत्वं सम्भवति ।
तथाचाह-"विभुत्वान्महानाकाशःऽ; इत्यादि ।
अल्पाल्पतरदेशपर्यवसितस्याल्पाल्पतरपरिमाणत्वम् ।
न चैवमाकाशादीति चेत् ।
तत्किमाकाशादि समुदितरूपं येन पर्यवसानापर्यवसानविषयत्वमश्नुवीत ।
किन्त्वेकमेव ।
तच्च यद्यल्पाल्पतरदेशेषु तिष्ठेत्तदा तत्तत्परिमाणं भवत्येव (भवेदेव) ।
यदि तव तत्र स्थितस्य तत्तत्परिमाणत्वं तदा घटादावपि तत्प्रसङ्ग इति चेन्न ।
तस्य सांशत्वेनान्यथासिद्धत्वात् ।
*7,372f.*
ननु च सर्वमूर्त(द्रव्य)संयोगित्वमेव सर्वगतत्वं, न सर्वत्र संस्थानम् ।
आकाशादेरनाश्रितत्वात् ।
संयोगश्च तत्तत्परिमाणाभावे(ऽपि भवेदेव ।
नहि घटो गगनेन संयुज्यमानो भवति परममहान्नापि परमाणुना संयुज्यमानः परमाणुः ।
तत्कस्य हेतोः ।
संयोगस्य प्रदेशवृत्तित्वादिति ।
मैवम् ।
सर्वपरिमाणानामप्याकाशे सत्त्वात्परमाणुना च घटांशस्यैव संयोगात् ।
तथाहि ।
विशेषशक्तया, निर्भेदमप्याकाशमनन्तांशोपेतम् ।
तत्र अनवधिकौ परिमाणोत्कर्षापकर्षौ व्यवस्थया वर्तेते ।
ततश्च घटो वितस्तिपरिमाणेनैवाकाशेन संयुज्यते ।
स्वयं च तत्परिमाण इति को दोषः ।
घटांश एव परमाणुसंयोगो वर्तते, न घट इति कथं घटस्य परमाणुता ।
तर्ह्याकाशप्रदेशा एवाल्पाल्पतरप्रदेशसंयोगिन इति, त एव तत्तत्परिमाणाः स्युर्नाकाशमिति चेन्न ।
तेषामप्याकाशात्मकत्वात् ।
अन्यथा संयोगस्य प्रदेशवृत्तित्वं न स्याद्वयाघातादिति ।
*7,378*
कालादौ परिमाणोत्कर्षापकर्षयोरानन्त्यमुपपाद्योपसंहरति- अत इति ॥
अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित्
न्यायसुधा:
क्वचित् कालादौ त्रये ।
यद्वानुमानदूषणोपसंहारो ऽयम् ।
ततश्च कालातीतत्वदृष्टान्तदोषावपरिहार्याविति ।
कालाकाशेश्वरेषु परिमाणोत्कर्षापकर्षयोरानन्त्यमस्तीत्युक्तम् ।
न केवलं तेष्वेव ।
किन्तु प्रकृत्यादौ सर्वगते परममहति द्रव्यान्तरे ऽपीत्याह- उभयेति ॥
उभयानन्त्ययुक् तस्माद् यदि मुख्यमहद् भवेत्
*7,379*
न्यायसुधा:
तस्मादिषूक्तन्यायात् ।
मुख्यं महत् परममहत् ।
यदि कालादेरप्यानन्त्यं स्यात् ।
कथं तर्हि सत्यं ज्ञानमनन्तं ब्रह्मेत्यानन्त्यं ब्रह्मणो लक्षणत्वेनोच्यते ।
न ह्यतिव्याप्तं लक्षणं भवतीत्यत आह- तच्चेति ॥
तच्च ब्रह्म परं साक्षात् सर्वानन्त्ययुतं सदा
न्यायसुधा:
परमिति केवलार्थे ।
यद्यपि कालादिकमप्यनन्तं, तथापि ब्रह्मैव तदनन्तमित्युच्यते ।
कुतः ।
साक्षात् परानपेक्षयानन्तत्वात् ।
अपराधीनत्वापेक्षयेति यावत् ।
पक्षान्तरमाह- सर्वेति ॥
... सर्वानन्त्ययुतं सदा
न्यायसुधा:
नास्यां श्रुतावानन्त्यमात्रं लक्षणत्वेनोच्यते ।
किन्तु देशतः कालतो गुणादितश्च ।
तादृशं च ब्रह्मैवेति न दोषः ।
यथोक्तम्"देशतः कालतश्चैव गुणतश्च त्रिधा ततिः ।
सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाःऽ; इति ।
पक्षान्तरमन्वाचिनोति- सदेति ॥
पूर्वेणैव सम्बन्धः ।
तथाच कालक्षणेषु देशतो ऽनन्तेष्वपि नातिव्याप्तिरिति ।
*7,382f.*
परमाणावपि परिमाणापकर्षतारतम्यविश्रान्तिर्नास्तीत्युक्तम् ।
तदसत् ।
परिमाणस्य द्रव्याश्रयत्वात् ।
परमाणुतो ऽप्यपकृष्टपरिमाणाश्रयस्य द्रव्यस्याभावात् ।
मैवम् ।
परमाणुभागानां सत्त्वात् ।
नच तेषु विश्रान्तिः ।
तेषामपि (भागसत्त्वात्) सभागत्वात् ।
अविश्रान्तभागपरम्परा कुतः सिद्धेत्यतः साक्षिणेति वक्तुं साक्षी नाम प्रमाणमेव नास्तीति वदतो बाधकं तावदाह- यदीति ॥
*7,383*
यदि साक्षी स्वयम्भातो न मानं केन गम्यते ।
अक्षजादेश्च मानत्वम् ... ॥ मनुव्_2,2.80अ-च् ॥
न्यायसुधा:
साक्षी नाम मानं यदि नेष्यते तदाक्षजादेर्ज्ञानस्य मानत्वम् ।
चशब्दाद्बहिः कालाकाशादिकमन्तःसुखादिकं च केन प्रमाणेन गम्यते ।
न केनापि ।
तद्ग्राहकस्य प्रमाणान्तरस्य अभावात् ।
नच तन्मा भूदिति वाच्यम् ।
तद्वयवहारविलयप्रसङ्गादिति ।
नन्वस्तु साक्षिणमनङ्गीकुर्वाणस्येदं बाधकम् ।
साधकं (तु) किमित्यत आह- स्वयम्भात इति ॥
यस्तु स्वयं प्रकाशमाने ऽपि साक्षिणि विप्रतिपद्यते सो ऽक्षजादेर्मानत्वं सप्रमाणकं वस्तुत्वाद्घटवदिति प्रसङ्गसूचितेनानुमानेन बोधनीयः ।
प्रसक्तप्रतिषेधश्च वक्ष्यमाणन्यायेन भविष्यति ।
धमिर्ग्राहकप्रमाणेनैव सिद्धेर्न तत्प्रामाण्ये पृथक् प्रमाणं वक्तव्यम् ।
अत एव मानमित्युक्तम् ।
*7,385*
न साक्षिणो ऽनभ्युपगमे ऽप्यक्षजादिज्ञानप्रामाण्यमप्रामाणिकं प्रसज्यते ।
प्रवृत्तिसामर्थ्येन तज्जातीयत्वेन वानुमानेन तत्सिद्धेरित्यत आह- अनवस्थेति ॥
... अनवस्थाथवा भवेत्
न्यायसुधा:
अन्यथा साक्षीतरप्रमाणवेद्यत्वाङ्गीकारे ।
तर्हि साक्षिप्रामाण्यमप्यन्येन ग्राह्यमित्यनवस्थैवेति चेन्न ।
तस्य स्वप्रकाशत्वादिति ।
तदिदमुक्तं स्वयम्भात इति ।
*7,386*
किमतो यद्येवं साक्षी नाम प्रमाणमस्तीत्यत आह- अत इति ॥
अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ।
सर्वदिक्ष्वपि सम्बन्धाद् ... ॥ मनुव्_2,2.81अ-च् ॥
न्यायसुधा:
साक्षित इत्यर्थः ।
सर्वपदार्थानां परमाणोस्तद्भागानां चेत्यर्थः ।
सन्त्येव इति सिद्धमिति शेषः ।
यद्वा सर्वपदार्थानामित्यनेनानुमानमपि सूचयति ।
परमाणुः सभागः पदार्थत्वाद्घटवत् इति ।
नचाश्रयासिद्धिर्धर्मिग्राहकविरोधो वा ।
साक्षिणा परमाणुसिद्धेरुक्तत्वात् ।
तेन च सभागतयैव सिद्धेः ।
न चैवमनुमानवैयर्थ्यम् ।
प्रमाणसम्प्लवाङ्गीकारात् ।
सभागत्वमात्रे विप्रतिपन्नं प्रति सार्थक्याच्च ।
अनुमानान्तरमाह- सर्वदेति ॥
युगपदित्यर्थः ।
सर्वदिक्षु स्थितैर्द्रव्यैः सम्बन्धात्संयोगादपि भागाः सन्तीत्यवगम्यते ।
यद्यपि सभागत्वमात्रसाधने संयोगित्वमात्रं प्रयोजकम् ।
गगनादीनामपि भागाङ्गीकारेण व्यभिचाराभवात् ।
तथापि बहुभागसाधनाय विशेषणोपादानम् ।
तथाहि ।
परमाणुर्दशभागवान्युगपद्दशमूर्तसंयोगित्वात् (प)घटवदिति ।
*7,390*
ननु द्रव्यत्वेनैवालं किं संयोगित्वेन ।
(हेतूच्छित्तिरूप) विपक्षे बाधकसूचनार्थमिति ब्रूमः ।
तथाहि ।
अस्ति तावत्परमाणोः परमाण्वन्तरसंयोगः ।
अन्यथा द्वयणुकाद्यारम्भानुपपत्तेः ।
न चैकेनैवेति नियमः ।
कारणाकारणसंयोगजसंयोगप्रक्रियायामेकैकस्य परमाणोः सजातीयविजातीयपरमाणुद्वयेन युगपत्संयोगस्योररीकृतत्वात् ।
पाषाणादिमध्यवर्तिनः परमाणोः परितो ऽस्थितैः परमाणुभिः संयोगाभावाद्यनुपपत्तेश्च ।
नच मूर्तानां युगपदेकदेशावस्थानं सम्भवति ।
प्रदेशवर्तिनश्च संयोगाः ।
साक्षिसिद्धत्वात् ।
घटादौ तद्दर्शनेन च परमाणौ(णावप्य0तदनुमानाच्च ।
तथाच यदि परमाणुरनेकांशो न स्यात्, तदा युगपदनेकैर्न संयुज्यतेति ।
ननु संयोगस्य प्रदेशवृत्तित्वं नाम स्वात्यन्ताभावसमानदेशत्वमेव ।
नतु घटसंयोगो घटावयवे वर्तत इति ।
तत्कथं भागाभावे संयोगानुपपत्तिरिति ।
मैवम् ।
प्रत्यक्षादिसिद्धस्य अवयवृत्तित्वस्य परित्यागेनाप्रामाणिकव्याहताङ्गीकारस्यानुचितत्वात् ।
वक्ष्यते चैतत् ।
*7,399*
ननु परमाणुः सावयव इति स्वव्याघातस्य मुख्यमुदाहरणम् ।
यो हि सर्वतः अपकृष्टो यतः परमाणुर्नास्ति तं परमाणुमाचते ।
तस्य सावयवत्वे ऽवयविनो ऽवयवानामपकृष्टपरिमाणत्वावश्यम्भावात्कथं न व्याहतिरित्यत आह- अविभाग इति ॥
... अविभागः पराणुता
न्यायसुधा:
स्यादयं विरोधो यदीदं परमाणुपदप्रवृत्तिनिमित्तं स्यात् ।
नचैवम् ।
सावयवतया साक्षिसिद्धे तदसम्भवात् ।
किन्तु अविभागः पराणुता परमाणुशब्दप्रवृत्तिनिमित्तम् ।
तथाच कुतो व्याघात इति ।
नन्वविभाग इति कथमिदं विज्ञायते ।
सर्वथा विभागलक्षणगुणाभाव इति चेन्न ।
गुणादेरपि परमाणुत्वप्रसङ्गात् ।
द्रव्यत्वे सतीति विशेषणाददोष इति चेन्न ।
असम्भवात् ।
यत्किञ्चिद्विभागाभावाभिप्राये मेरुमन्दरयोरप्यणुत्वप्रसङ्गात् ।
अवयवविभागाभावो ऽभिमत इति चेन्न ।
मैवम् ।
यस्य विभिन्नावयवेषु सत्स्वपि तेषां विभागो न कदापि भवितुमर्हति स परमाणुरिति व्याख्यानात् ।
एतेनावयवपरम्परावि(श्रान्त्यभा)श्रमाभावे ऽनवस्थेत्यपि परास्तम् ।
मूलक्षयाभावस्य सूचितत्वात् ।
*7,407*
यद्वा विभिद्यते विभज्यते इति विभागः ।
तदभावः परमाणुतेति ।
यतः स्वावयवं विना स्वतन्त्रमनवयवरूपमपकृष्टपरिमाणं (वस्तु)नास्ति स परमाणुरिति यावत् ।
*7,413*
नन्वेवमवयवपरम्पराविश्रान्त्यभावे ऽनन्तावयवारब्धत्वाविशेषात्सर्षपमहीधरयोः परिमाणाविशेषः स्यात् ।
नच कारणसङ्खयाविशेषे ऽपि तत्परिमाणप्रचयविशेषात्सर्षपमहीधरयोः परिमाणविशेष इति वाच्यम् ।
अवयवानन्त्यसाम्ये तयोरप्यनुपपत्तेरिति ।
उच्यते ।
किमयं प्रसङ्गः, उतानुमानम् ।
आद्ये ह्ययमर्थः ।
यदि सर्षपमहीधरावविश्रान्तावयवपरस्परौ स्यातां तदा अनन्तावयवारब्धौ प्रसज्येयातात् ।
तथाच समपरिमाणौ भवेतामिति ।
तत्रोभयत्रापि व्याप्त्यभावः ।
यदविश्रान्तावयवपरस्परं तदनन्तावयवारब्धम् ।
यच्चैवं तत्तुल्यपरिमाणमिति ।
किन्नाम भवतोपलब्धम् ।
किञ्चावयवपरम्पराविश्रान्त्यभाव ते सर्वे ऽपि सम्भूयानन्ताः स्युः ।
सषर्पमहीधरारम्भकाणामानन्त्यं तु कुतः ।
अत एव द्वितीयप्रसङ्गस्यापादकासिद्धिः ।
एतेनावयवपरम्पराविश्रान्त्यभावे समसङ्खयावयवारब्धत्वं ततश्चावयवपरिमाणादिविशेषाभावे परिमाणाविशेषः स्यादितीत्यपि परास्तम् ।
व्याप्त्यसिद्धेः ।
समसङ्खयावयवारब्धत्वासिद्धेश्च ।
द्वितीये त्विदमुक्तं स्यात् ।
सर्षपमहीधरौ नानन्तावयवारब्धौ विसदृशपरिमाणत्वात् ।
विमतौ नाविश्रान्तावयवपरम्परौ अनन्तावयवानारब्धत्वादिति ।
आद्ये सिद्धसाधनम् ।
नहि सर्षपादेरवयवपरम्पराविश्रान्त्यभावादिनानन्तावयवारब्धत्वमङ्गीकृतम् ।
किन्तु सम्भूतानामनन्तत्वम् ।
तदभावसाधने मां प्रति दृष्टान्ताभावः ।
गुणादौ साधनाभावात् ।
द्वितीयस्य त्वप्रयोजकतेति ।
*7,417*
स्यादेतत् ।
सर्षपावयवपरम्पराया निरवधिकत्वे मूर्तानां समानदेशत्वानुपपत्तौ सर्षपावयवैर्जगति व्याप्ते विश्वव्यापी सर्षपः स्यादिति महीधरस्यानवकाश एवेत्यापादनार्थं इति चेन्न ।
पार्थिवपरमाणूनामनन्तत्वे ऽपिस मूर्तान्तरावकाशदर्शनात् ।
सर्षपो यावन्तं देशमवष्टभ्य वर्तमानो दृश्यते तावत्येवानवधिकाया अपि तदवयवपरम्पराया अवस्थानाच्च ।
अत एव हि आकाशादीनामप्यनवधिकमंशपरम्परामुपेत्य तत्र परिमाणापकर्षानन्त्यमुपपादितम् ।
*7,418*
ननु मा भूत्साक्षात्सर्षपमहीधरारम्भकाणां समसङ्खयत्वम् , तथाप्यवयवपरम्पराया विश्रान्त्यभावे सम्भूतावयवानां समसङ्खयत्वात्परिमाणभेदो न स्यादि(त्युच्यत इति)ति चेन्न ।
आनन्त्ये ऽपि तारतम्यसम्भवात् ।
अनन्ता हि पार्थिवपरमाणवो ऽनन्ताश्चान्त्यविशेषाः ।
नच ते समसङ्खयाः ।
तथा सत्याप्यपरमाणुषु तदभावापातात् ।
तथा सर्वकल्पेषु संसारिणो ऽनन्ताः ।
तथाप्यपवर्गवशात्तारतम्यमुपेयमेव ।
एवमनेकमुदाहरणमिति ।
*7,421*
यदेतत्सूत्रकृता परिमाणासमवायिकारणविषये दूषणमुक्तम् ।
तदुपलक्षणमात्रम् ।
अन्यत्राप्यसमवायिकारणे स्वयं दूषणान्यूहनीयानीत्याशयवान्द्रव्यासमवायिकारणसंयोगविषये अन्यथाप्रतिपत्तिं निराकरोति- तत्संयोगादिति ॥
तत्संयोगादनियतात् पदार्थानां जनिर्भवेत्
न्यायसुधा:
अवयवसंयोगो द्रव्यासमवायिकारणमिति वदन्तो ऽपि वैशेषिकादयः परमाणुकार्योत्पत्तौ द्वयोरेव सजातीययोरेव परमाण्वोरेव संयोग(स्यासमवायिका)स्य कारणत्वमित्याद्यचक्षते ।
तदश्रद्धेयम् किन्नाम तेषां कारणानामनियतादुक्तनियमरहितात्संयोगात्पदार्थानां द्रव्याणां जनिर्भवेत् ।
किञ्चित्कार्यं द्वयोः परमाण्वोः संयोगादुपजायते ।
तद्द्वयणुकमुच्यते ।
कदाचित् त्रयाणां तत्त्र्यणुकं चतुर्भिः परमाणुभिरारब्धं च(तच्च)तुरुणुकम् ।
एवमन्यदपि ।
तथा किञ्चित्सजातीययोः परमाण्वोः संयोगात्किञ्चिद्विजातीययोः ।
एवं किञ्चित्परमाण्वोरेव संयोगात्किञ्चित्परमाणुद्वयणुकयोरित्यादि ।
एवं द्वयणुककार्योत्पत्तशवप्यनियमो द्रष्टव्यः ।
*7,422*
कुत इति चेत् उक्तनियमे प्रमाणाभावादित्याह- द्वयोरेवेति ॥
द्वयोरेव तु संयोग इति केनावसीयते
न्यायसुधा:
तुशब्दो विशेषार्थः ।
तेन सजातीययोः परमाण्वोरिति नियमो लभ्यते ।
संयोगः आदिकार्यस्यासमवायिकारणमिति शेषः ।
केन प्रमाणेनेत्याक्षेपे ।
उपलक्षणमेतत् ।
त्रयाणामेव द्वयणुकानामित्यपि द्रष्टव्यम् ।
ननु सावयवस्यानेकसंयोगः सम्भवति ।
परमाणुस्तु निरवयव इति द्वयोरेवेति नियमसिद्धिरित्युक्तोत्तरम् ।
निरवयवत्वे द्वयोरपि संयोगो न सम्भवति ।
संयोगस्यांशवृत्तित्वात् ।
*7,423*
ननु सजातीयसंयोग एवारम्भक इति नियमो न निष्प्रमाणकः ।
परमाणुकार्ये गन्धाद्युत्पत्तेरेव तत्र प्रमाणत्वात् ।
तथा हि ।
पार्थिवाप्यपरमाणुभ्यां यद्येकं कार्यमुत्पद्यते तदा तदगन्धमस्नेहमापद्येत ।
पार्थिवतैजसाभ्यामुत्पन्नमगन्धरूपमुत्पद्येत ।
एकस्य गन्धादेरनारम्भकत्वात् ।
अतो गन्धाद्युत्पत्त्यैव सजातीयसंयोगस्यारम्भकत्वसिद्धिरित्यत आह- कारणस्येति ॥
कारणस्य गुणास्तेन भवेयुः कार्यगा अपि
न्यायसुधा:
तेनेति ॥
द्वयोरेवेति नियमाभावेनेत्यर्थः ।
स्यादेतद्विजातीयारम्भकत्वे बाधकम् ।
यदि द्वयोरेव परमाण्वोः संयोगः कार्यारम्भक इति नियमः प्रमाणवान्स्यात् ।
न चैवम् ।
तथाच बहूनां परमाणूनां विजातीयानां संयोगातकार्यारम्भे कारणगता गन्धादयो गुणाः (सद्वितीयाः) सजातीयाः सन्तः (कार्यगाः) कार्यगतगन्धाद्यारम्भका अपि भवेयुः, को दोषः ।
*7,430*
नन्वनियमवादिना द्वयसंयोगस्यारम्भकत्वं तावदिष्यते ।
तत्र विजातीययोरारम्भकत्वे कार्ये गन्धाद्यनुत्पत्तिः प्रसज्यत इति चेन्न ।
एकैकस्यापि गन्धादेरारम्भकत्वे बाधकाभावात् ।
अपेक्षणीयान्तराभावात्सन्तोत्पत्तिप्रसङ्गो बाधक इति चेन्न ।
कार्यद्रव्योत्पत्तेरपेक्षणीयत्वात् ।
समवायिकारणाभावे कार्यानुत्पादात् ।
अन्यथानेकगन्धाद्यभ्युपगमे ऽपि समानो दोषः ।
एतच्च परमतरीत्योक्तम् ।
वस्तुतस्तु यतः कारणान्येव कार्याकारेणोत्पद्यन्ते तेन कारणगुणा एव कार्यगा भवेयुः ।
ततश्च विजातीयारम्भकत्वे को दोषः ।
एवं तर्हि पृथिवीत्वादिजातिसङ्करः स्यादिति चेत् ।
ततः किम् ।
व्यवहारविलोपः स्यादिति चेन्न ।
"वैशेष्यात्तु तद्वादेऽ; इति परिहरिष्यमाणत्वात् ।
तथापि सम्प्रतिपन्नसजातीयारब्ध(कार्य)दृष्टान्तेन विप्रतिपन्नानामपि सजातीयारब्धत्वमनुमास्यत इति चेन्न ।
विजातीयारम्भकत्वस्य साक्ष्यादिप्रमाणसिद्धत्वेन बाधात् ।
*7,432*
स्यादेतत् ।
यदि बहूनां परमाणूनां संयोगस्यारम्भकत्वं स्यात् ।
नचैवम् ।
आरम्भकसङ्खयापकर्षतारतम्यं क्वचिद्विश्रान्तम् ।
तारतम्यत्वात् परिमाणतारतम्यादित्यनुमानेनारम्भकसङ्खयापकर्षस्य क्वचिद्विश्रान्तिसिद्धावेकस्यारम्भकत्वे सन्ततोत्पत्त्यादिप्रसङ्गात्त्र्यादिकल्पने गौरवाद् द्वयोरेव परमाण्वोः संयोगो द्रव्यारम्भक इति नियमसिद्धेरित्यत आह- तारतम्येति ॥
तारतम्येन सर्वे ऽपि महान्तश्चाणवो यतः
*7,432f.*
न्यायसुधा:
यतः कारणात्तारतम्येन सर्वे ऽप्यर्था महान्तश्चाणवश्च समथिर्ताः ततः परिमाणतारतम्यवदिति दृष्टान्तस्य साध्यविकलत्वात् द्वयोरेव तु संयोग इत्रत केनावसीयत इति सम्बन्धः ।
किञ्चानेनैव न्यायेन द्वयणुकद्वयसंयोगस्याप्यारम्भकत्वं किं नेष्यते ।
बहुत्वाभावे कार्यमहत्त्वानुपपत्तिप्रसङ्गादिति चेन्न ।
यतस्तारतम्येन सर्वे ऽपि महान्तश्चाणवश्च समर्थिताः तेन द्वयणुकमहत्त्वात्तदुत्पत्त्युपपत्तेः ।
परमाणुद्वयारब्धकार्यदृष्टान्तेन सर्वत्रानुमाने त्वतिप्रसङ्ग इति ।
*7,434f.*
अस्त्वेवमुक्तनियमेषु प्रमाणाभावस्तथाप्यनियमसृष्टौ किं मानमिति चेत् ।
साक्षी तावत् ।
लोष्ठादिकार्याणामनियतसङ्खयैर्विजातीयैविर्सदृशैश्चारम्भदर्शनेनानुमानं च ।
आगमाश्चात्र बहुलं भवन्ति ।
तद्दर्शनं भ्रान्तिरिति चेत् ।
किं नियमग्राहकप्रमाणविरोधादेवमुच्यते ।
उत केवलया वैशेषिकादिकल्पनया विरोधात् ।
*7,435*
आद्यं दूषयति- नचेति ॥
नच तत्प्रोक्तसृष्टौ तु मानं ...
न्यायसुधा:
सजातीयाभ्यामेव द्वाभ्यामेव परमाणुभ्यामेवेत्यादिनियमवत्यां तत्प्रोक्तसृष्टौ तु मानं नास्ति तत् साक्ष्यादिसिद्धस्यास्मदभिमतसृष्टिप्रकारस्य बाधकं स्यात् ।
तथाचोक्तम् (प्राक्) ।
द्वितीयं दूषयति- केवलेति ॥
... केवलकल्पना ।
कथं साक्षिमितस्यास्य शक्नुयाद् वारणे क्वचित् ॥ मनुव्_2,2.84ब्-द् ॥
न्यायसुधा:
निर्मूलेत्यर्थः ।
साक्षीत्युपलक्षणम् ।
अस्य अनियमारम्भस्य ।
कल्पनामात्रस्य प्रामाणिकनिवारकत्वे ऽतिप्रस(ङ्ग इति)ङ्गादिति भावः ।
*7,437*
अत्र तत्प्रोक्तसृष्टाविति सामान्यतो वदतान्यदपि तत्कल्पितमप्रामाणिकमिति सूचितम् ।
तथाहि"प्रकृतेमर्हान्महतो ऽहङ्कारो ऽहङ्कारात्क्रमेणाकाशादीनि महाभूतानिऽ; इत्येतां श्रुत्यादिप्रसिद्धां प्रक्रियामपहाय वाय्वादीनां चतुर्णामन्योन्यानपेक्षैव सृष्टिर्व्युत्क्रमेण चाभिहिता ।
विनैव बाधकेन"आकाशाद्वायुर्वायोरग्निःऽ; इत्यादिपञ्चमी भाक्ती स्वीकृता ।
अत्यन्तासत एव च जनिरङ्गीकृता ।
सर्वापि सृष्टिः समवाय्यादिकारणत्रयाधीनाभ्युपगता ।
तत्र समवायिकारणं समवायाप्रामाणिकत्वस्य वक्ष्यमाणत्वादयुक्तम् ।
अत एवासमवायिकारणमपि ।
तदधीननिरूपणत्वाच्च तल्लक्षणस्य ।
समवायिनिमित्तयोरतिव्याप्तेश्च ।
तथाहि ।
तन्तुपटयोः उत्पन्नस्य द्वित्वस्य पटः समवायिकारणम् ।
स च द्वित्वसमवायिकारणे तन्तौ समवेतत्वात् समवायिकारणप्रत्यासन्नः ।
समवायिकारणतयावधृतसामर्थ्यश्च ।
शरीरात्मनोरुत्पन्नस्य द्वित्वस्यापेक्षाबुद्धिर्निमित्तम् ।
सा च द्वित्वसमवायिकारणात्समवेतत्वान्निमित्तत्वाच्चोक्तलक्षणसम्पन्ना ।
समवायिकारणप्रत्यासन्नतया सामर्थ्यावधारणमभि(हि)मतम् ।
नच तथा प्रकृत इति चेत् ।
तथापि व्याप्यबुद्धेर्व्यापकबुद्धिं प्रति विषयबुद्धेर्धर्माधर्मयोश्च सुखदुःखे प्रत्यसमवायिकारणत्वापत्तेः ।
नह्यन्यगतं व्याप्यबुद्धयाद्यन्यगतस्य व्यापकबुद्धयादेर्निमित्तं भवति ।
आत्मनि प्रदेशभेदान्नेति चेन्न ।
आद्यादिशब्दानां द्वितीयादिशब्दसमवायिकारणत्वाभावापत्तेः ।
एकाकाशगतत्वेन तत्सम्भवे प्रकृते ऽपि समानम् ।
*7,440*
एवमन्यत्राप्यतिव्याप्तिरूहनीया ।
सङ्केतो ऽयमाचार्यस्य ।
अतो नातीवात्र निर्बन्धः करणीय इति चेत् ।
एवं तर्हि निमूलैवेयं प्रक्रियेति सिद्धमेव ।
*7,447*
पाकजप्रक्रियां चाप्रामाणिकमङ्गीकुर्वन्ति ।
त(त्र)च्च वक्ष्यत इत्यलम् ।
*7,448*
ननु परमाणुद्वयणुके एव तावन्न साक्षिसिद्धे कुतस्तदीयारम्भप्रकारः ।
तत्कथमुक्तं साक्षिमितस्येति ।
तत्राह- यदीति ॥
यदि साक्षिमितं नैतन् ...
न्यायसुधा:
एतदिति ॥
परमाण्वादिकम् ।
तर्हि तदप्रामाणिकमेवापद्यत इति शेषः ।
स्यादेतत् ।
यद्यपि महत्त्वाभावान्न परमाण्वादिकं चक्षुरादेर्गोचरः ।
बहिस्स्वातन्त्र्यान्मनसो ऽपि ।
आगमादि तु नानुमानाद्भिद्यते ।
भेदे ऽप्यतीन्द्रिये सङ्केतानुपपत्तेर्नागमस्य विषयः ।
तथाप्यनुमानं तत्र (प्रमाणं) भविष्यति ।
तत्कथं परमाण्वादेः साक्षिवेद्यत्वाभावे ऽप्रामाणिकत्वापत्तिरित्यत आह- नेति ॥
... नानुमा तत्र वर्तते
न्यायसुधा:
कथमिति चेत् ।
किं परमाण्वादिकमेव पक्षीकृत्य तत्साध्यते ।
उतान्यत् ।
*7,451*
आद्ये तत्प्रमाणान्तरतः सिद्धं न वा ।
पक्षद्वये दोषमाह- पक्षीकर्तुमिति ॥
पक्षीकर्तुमशक्यत्वात् कुत एवानुमा भवेत्
न्यायसुधा:
सिद्धत्वे पक्षलक्षणाभावादसिद्धत्वे न्यायाविषयत्वात्परमाण्वादेः पक्षीकर्तुमशक्यत्वात् तत्पक्षीकारेणानुमा दूरनिरस्तेति ।
ननु पक्षीकरणासम्भवे कथमनुमानानुपपत्तिरित्यत आह- यत्रेति ॥
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात्
न्यायसुधा:
यथा तथेत्यध्याहर्तव्यम् ।
यत्र यद्विषये ।
विषयं देशम् ।
यथा हि विषयप्राप्तेः पदन्यासः कारणम् ।
स्थाण्वस्थाणुसंयोगस्यास्थाणुक्रियाहेतु(क)त्वात् ।
अतः पदन्यासाभावे विषयप्राप्तिरपि नास्ति ।
तथानुमोत्पत्तौ पक्षीकरणं कारणम् ।
नहि पर्वतादिर्वा वह्नयादिर्वा अनुमानस्य विषयः ।
किन्तु तत्सम्बन्धः ।
नच सम्बन्धिज्ञानेन विना सम्बन्धज्ञानं सम्भवति ।
अतः पक्षीकरणाभावे नानुमानोत्पत्तिः सम्भवतीति ।
*7,452*
द्वितीयमपि निराकरोति- पक्षीकर्तुमिति ॥
द्वयणुकं हि पक्षीकृत्य परमाणुरनुमातव्यः ।
कार्यमेवात्र प्रमाणमित्युक्तत्वात् ।
तच्चेदानीमप्यसिद्धमिति पक्षीकर्तुमशक्यत्वात्कुत एव तत्कारणपरमाण्वनुमा भवेत् ।
अनुमितं द्वयणुकं पक्षीकृत्य परमाणुरनुमास्यत इति चेन्न ।
तदपि हि परमाणुं पक्षीकृत्य यदि साध्यते तदोक्त एव दोष इत्याह- पक्षीकर्तुमिति ॥
अद्याप्यसिद्धस्य परमाणोः पक्षीकर्तुमशक्यत्वात्कुत एव तत्कायर्द्वयणुकानुमा भवेत् ।
नन्वणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं परिमाणतारतम्यत्वान्महत्परिमाणतारतम्यवदित्यनुमानेन परमाणुसिद्धिर्भविष्यतीति चेन्न ।
विकल्पानुपपत्तेः ।
अणुपरिमाणशब्देन किं परिमाणापकर्षो ऽभिधीयते, किंवा परमाणुपरिमाणम्, यद्वा द्वयणुकपरिमाणम्, यदि वोभयपरिमाणम् ।
नाद्यः ।
दूषितत्वात् ।
उत्तरपक्षत्रयं दूषयति- पक्षीकर्तुमिति ॥
परमाणुद्वयणुकयोरसिद्धौ तत्परिमाणस्याप्यसिद्धेः ।
एकैकत्र तारतम्यस्याभावाच्चेति भावः ।
*7,452f.*
यदिदं जालसूर्यमरीचिस्थं सर्वतः सूक्ष्मतमं रज उपलभ्यते तत्त्र्यणुकमित्युच्यते ।
तदिदं महत्, चाक्षुषद्रव्यत्वात्, घटवत् ।
कार्यं च महत्त्वे सति चाक्षुषत्वात् महत्वे सति क्रियावत्वाद्वा ।
सावयवं च कार्यद्रव्यत्वात् ।
तदवयवाश्च द्वयणुकनामानः ।
ते ऽपि कार्याः सावयवाश्च, महद्द्रव्यारम्भकत्वात् तन्तुवत् ।
यश्च तदवयवः स एव परमाणुः तदवयवकल्पनायां प्रमाणाभावाद्बाधकसद्भावाच्च ।
अतो ऽनुमानेनैव परमाणुद्वयणुकसिद्धिरित्यत आह- पक्षीकर्तुमिति ॥
प्रत्यक्षस्य त्र्यणुकस्यैव परमाणुत्वसम्भवेन तत्कार्यत्वसावयवत्वसाधानाय पक्षीकर्तुमशक्यत्वात्कुत एव द्वयणुकपरमाण्वोरनुमा भवेत् ।
*7,455*
महत्त्वात्कथमसौ परमाणुरिति चेन्न ।
महत्त्वासिद्धेः ।
चाक्षुषद्रव्यत्वात्तत्सिद्धिरिति चेन्न ।
कस्यचिदमहतो ऽपि चाक्षुषत्वे बाधकाभावात् ।
महत्त्वं च द्रव्यचाक्षुषतायां कारणमिति चेत् ।
सत्यम् ।
क्वचिदन्यदपि कारणं कल्पयिष्यते ।
गौरवं तथा सति स्यादिति चेन्न ।
धर्मिकल्पनातो धर्ममात्रकल्पनायाः लघुत्वात् ।
अस्तु वा महत्त्वम् ।
तथाप्यणुत्वेन तस्य समावेशे को विरोधः ।
कार्यत्वसाधनं चाप्रयोजकम् ।
महतो ऽप्यात्मनः प्रत्यक्षवच्चाक्षुषत्वोपपत्तेः ।
परममहत्त्वाभावेन क्रियासम्भवाच्च ।
महत्त्वस्य कारणबहुत्वं कारणमिति चेन्न ।
नित्यत्वोपपत्तेः ।
चाक्षुषमहत्त्वान्नेति चेन्न ।
बाधकाभावात् ।
अत एव कार्यद्रव्यत्वमसिद्धम् ।
सन्तु वा तदवयवास्त एव परमाणव इति तेषां पुनरवयवसाधनाय पक्षीकर्तुमशक्यत्वात्कुत एवानुमा भवेत् ।
ननु महद्द्रव्यारम्भकत्वात्ते ऽपि सावयवा एवेति चेन्न ।
निरवयवस्य म(हा)हद्द्रव्यारम्भकत्वे बाधकाभावात् ।
बहुत्वेनैव महत्त्वारम्भोपपत्तेः ।
द्रव्यारम्भे सावयवत्स्यानुपयोगात् ।
सन्तु वा द्वयणुकावयवास्ते ऽपि कुतः परमाणवः ।
महद्द्रव्यारम्भकत्वेन तेषामपि सावयवत्वानुमानात् ।
अनवस्था बाधिकेति चेन्न ।
तदवयवानां तदवयवावयवानां वा निरवयवत्वेन तद्विश्रान्तेः ।
कथं चेयमनवस्था दूषणम् ।
मेरुसर्षपादीनां समपरिमाणत्वापत्तिस्तु दूषिता ।
घटादिकार्यानुत्पत्तिरिति चेन्न ।
सावयवस्यैव नित्यत्वोपपत्तेः ।
यथोक्तम् ।
अविभागः प(रणु)रमाणुतेति ।
*7,460*
एवं परमाणुद्वयणुकयोरनुमानतः सिद्धिमपाकृत्य प्रसङ्गादाकाशादिपरिमाणोत्कर्षानन्त्यस्यानुमानिकत्वं न युज्यत इति यदुक्तं तत्प्रपञ्चयति- देशान्तरेति ॥
देशान्तरादिशब्दश्च शशशृङ्गादिशब्दवत्
न्यायसुधा:
यो ऽयं योजनादिपरिच्छिन्नो देशः सम्प्रतिपन्नः, स स्वतः स्थूलेन देशान्तरेण युक्तो देशत्वाद्धस्तादिदेशवदित्याद्यनुमानैः खल्वाकाशादिपरिमाणोत्कर्षानन्त्यं साधनीयम् ।
त एते देशान्तरादिशब्दाः ।
देशान्तरादिसाधकानुमानप्रयोगाः ।
शशशृङ्गादिशब्दवत् शशशृङ्गादिसाधकानुमानप्रयोगैस्तुल्यं वर्तन्ते ।
अनेनैव प्रकारेण शशशृङ्गादिकमप्यनुमातुं शक्यत इति यावत् ।
शब्दमात्रमेवैतत् ।
न त्वनुमानमिति सूचयितुं शब्दा इत्युक्तम् ।
न केवलमाकाशादीनां परिमाणोत्कर्षानन्त्यानुमानं प्रतिपक्षपराहतम् ।
अपि तु सम्प्रतिपन्नानि सर्वशृङ्ग्विशृङ्गान्तरवन्ति शृङ्गत्वाद्गोशृङ्गवत् ।
विमताः सर्वे पुत्राः पुत्रान्तरोपेताः पुत्रत्वाद्देवदत्तपुत्रवदिति शशशृङ्गादिसाधकानुमानाभाससमानयोगक्षेमं चेत्यर्थः ।
*7,461f.*
न वयमेवमाकाशादिपरिमाणोत्कर्षानन्त्यमनुमिमीमहे ।
येनातिप्रसङ्गः स्यात् ।
किन्तु विप्रतिपन्नो देशः स्वतः स्थूलेन सदृशेन सजातीयेन वा द्रव्यान्तरेण युक्तो देशत्वाद्धस्तादिदेशवत् ।
सो ऽप्येवं सो ऽप्येवम् ।
एवं काले ऽप्यनुमातव्यम् ।
नचैवं शशशृङ्गानुमानं शक्यम् ।
तस्यात्यन्तासतो ऽनुपलभ्यमानस्य गवादिशृङ्गेः सादृश्यसाजात्ययोरभावात् ।
नच आकाशादेरप्येकैकत्वात्सादृश्याद्यभावः ।
औपाधिकभेदेन तदुपपत्तेरित्यत आह- सदृशं चेति ॥
*7,462*
सदृशं च सजातीयं नास्मत्पक्षे किमेव हि
न्यायसुधा:
सम्प्रतिपन्नदेशादिना सदृशं सजातीयं (चा)वास्मत्पक्षे गगनादिपरिमाणोत्कर्षानन्त्यमनभ्युपगच्छतां पक्षे किमेव न भवति ।
किन्तु भवत्येवेति ।
तथाच सम्प्रतिपन्नदेशस्य ततः स्थूलेनात्मना सदृशेन सजातीयेन वोपेतत्वस्य सिद्धत्वात्सिद्धसाधनता स्यात् ।
आकाशादिपरिमाणोत्कर्षानन्त्यासिद्धेरर्थान्तरता चेति ।
सम्प्रतिपन्नदेशस्येश्वरादिमत्त्वं बाधितं सम्बन्धाभावादिति चेन्न ।
देशान्तरेणापि सम्बन्धाभावात् ।
एतेन शशविषाणादिसाधकानुमाने ऽपि बाधाभिधानं परास्तम् ।
देशान्तरानुमाने ऽपि साम्यात् ।
तदेवं परमाणुद्वयणुकयोराकाशादिपरिमाणोत्कर्षान्त्यस्य च साक्षिसिद्धतामनङ्गीकृत्य केवलानुमानवेद्यत्वस्वीकरणमनुपपन्नमित्युक्तम् ।
*7,464*
एवमागममनादृत्येश्वरधर्माद्यनुमानमप्ययुक्तमिति प्रसङ्गादाह- येनैवेति ॥
येनैव च प्रकारेणात्यसिद्धमनुमीयते ।
तेनैव शशशृङ्गादेः शक्यमस्तित्वकल्पनम् ॥ मनुव्_2,2.87च्-f ॥
न्यायसुधा:
अत्यसिद्धमित्यनेनागमानादरं दर्शयति ।
शशशृङ्गादेरित्यप्रामाणिकस्योपलक्षणम् ।
एतच्च तत्र तत्र लेशतो दर्शितम् ।
*7,471*
न(च) शशशृङ्गाद्यनुमानप्रतिबन्दीग्रस्तत्वमात्रेणैतेषामनुमानानामप्रामाण्यं युक्तम् ।
तथा सति धूमानुमानस्याप्यप्रामाण्यप्रसङ्गात् ।
तत्रापि हि शक्यते वक्तुं यदि धूमवत्त्वात्पवर्तो ऽग्निमांस्तदा पशुत्वाच्छशो ऽपि विषाणवान्यस्यादिति ।
अथोच्येत ।
तुल्ययोगक्षेमत्वे हि प्रतिबन्दीग्रहः ।
अन्यथातिप्रसङ्गात् ।
नचात्र तुल्ययोगक्षेमता धूमानुमानस्य व्याप्त्यादिसामर्थ्यसहितत्वात् ।
शशशृङ्गाद्यनुमानस्य तदभावादिति ।
सममेतत्प्रकृते ऽपि ।
प्रस्तुतानुमानानामपि व्याप्त्यादिमत्त्वादित्यत आह- प्रत्यक्षमिति ॥
प्रत्यक्षमागमो वापि भवेद् यत्र नियामकः ।
सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः
*7,471f.*
न्यायसुधा:
वाशब्दः समुच्चये ।
अपिरनुमानस्य समुच्चयार्थः ।
नियामको ग्राहकः ।
मानम् अनुमानमानत्वोपयोगिनी ।
अन्या प्रत्यक्षाद्यगृहीता ।
सन्दिग्धमूलतः सन्दिग्ध(ग्धा)व्यभिचारत्वतः ।
अव्यभिचारो हि साहित्यस्य व्याप्तित्वे मूलम् ।
तत्र प्रत्यक्षगृहीता व्याप्तिर्यथा धूमस्याग्निना ।
आगमगृहीता यथा ।
ब्राह्मणो न हन्तव्य इति ।
अनुमानगृहीता यथा ।
व्यतिरेकिप्रयोगे ।
एतदुक्तं भवति ।
प्रत्यक्षाद्यवधृतं हि व्याप्त्यादि अनुमानमाना(नता)ङ्गम् ।
न स्वयमात्रसिद्धम् ।
सन्दिग्ध(ग्धा)व्यभिचा(र)रित्वात् ।
समयानां सन्दिग्धमूलत्वाच्च ।
विद्यते च धूमाद्यनुमानानां प्रमाणावधृतं व्याप्त्यादीति न प्रतिबन्दीग्रहमात्रेण तद्भङ्गः ।
न परमाण्वाद्यनुमानानामिति प्रतिबन्दीग्रस्तत्वादप्रामाण्यमेव ।
ननु व्याप्त्याद्यभावे किं प्रतिबन्दीग्रहेण ।
तत एवाप्रामाण्यसिद्धेरिति ।
सत्यम् ।
प्रत्यक्षाद्यनवधृतव्याप्त्यादेरपि प्रामाण्ये ऽतिप्रसङ्गो वा तदप्रामाण्ये दृष्टान्तो वा प्रतिबन्दीग्रहेण द्योत्यत इत्यदोष इति ।
*7,474*
सत्यमेतत्प्रत्यक्षाद्यवधृतैव व्याप्तिरनुमानप्रामाण्योपयोगिनीति ।
सा च धूमानुमावत्परमाण्वाद्यनुमानेष्वप्यस्त्येव ।
धूमस्याग्निनेव महदारम्भकत्वादीनामपि सावयवत्वादिना साहित्यदर्शनादित्यत आह- सहेति ॥
सहदर्शनमात्रेण न व्याप्तिरवसीयते
न्यायसुधा:
न धूमादीमाप्यग्न्यादिभिः सहदर्शनमात्रेण व्याप्तिरवसीयते ।
येन महदारम्भकत्वादीनामपि सावयवत्वादिभिस्ततो ऽवसीयेत ।
तथा सत्यग्न्यादीनां धूमादिभिरपि व्याप्त्यध्यवसायप्रसङ्गात् ।
सहदर्शनमात्रस्य तत्रापि सत्त्वात् ।
व्यभिचारानुपलम्भे सति साहित्यदर्शनं व्याप्त्यध्यवसायहेतुरिति चेत् ।
किं सकलदेशकालनिष्ठो ऽनुपलम्भः, किं वा तद्विशेषनिष्ठः ।
नाद्यः ।
अस्मदाद्यशक्यत्वात् ।
न द्वितीयः ।
अतिप्रसङ्गादिति ।
*7,475*
कथं तर्हि व्याप्त्यध्यवसायः स्यादित्यत आह- यदैवेति ॥
यदैवाव्यतिरेकस्य ह्यक्षजं वागमो भवेत् ।
तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा नहि ॥ मनुव्_2,2.89च्-f ॥
न्यायसुधा:
अव्यतिरेके साध्याभिमतव्यतिरेकेणासत्त्वे ।
अस्य साधनाभिमतस्य धर्मस्य युक्तेर्व्याप्तिनिश्चयहेतुत्वे ऽनवस्था (स्या)नात् ।
तद्वयाप्तेरपि युक्त्यन्तरेण निश्चेतव्यत्वादित्यत उक्तम्-
तन्निर्धारितेति ॥
व्याप्तिशब्दो ऽध्याहार्यः ।
तेन प्रत्यक्षेणागमेन वा निर्धारितव्याप्तिकेत्यर्थः ।
अपरा साहित्यदर्शनमात्रनिबन्धना न हि ।
अयमर्थः ।
नियतः सम्बन्धो हि व्याप्तिर्न सम्बन्धमात्रम् ।
नियमश्च व्यभिचाराभावः ।
अतः साहित्य इव व्यभिचाराभावे ऽपि प्रमाणप्रवृत्तौ व्याप्तिसिद्धिः ।
नचैतदशक्यम् ।
अनुमित्यनुदये सर्वव्यवहारविलोपप्रसङ्गेन कार्यदर्शनादेव तत्सिद्धेः ।
प्रकारस्तु चिन्त्यते ।
तत्र धूमस्याग्निना सम्बन्धस्तावत्प्रत्यक्षेणावगम्यते ।
परिचितदेशकालयोर्व्यभिचारश्च नावगम्यते ।
देशान्तरादिगते तु व्यभिचारे सन्देहो ऽवशिष्यते ।
स च न तावद्वयभिचारचिह्नदर्शनजन्यः ।
किन्तु भूयःसहचरिततया दृष्टा अदृष्टव्यभिचारा अपि धर्मा व्यभिचारिणो दृष्टाः ।
धर्मश्चायमित्येवमुत्पद्यते ।
तत्र यद्ययमेतत्सहवृत्तिस्वभावस्तदान्यत्रापि सहैव वर्तेत ।
स्वभावस्यानपायात् ।
यदि चासहवृत्तिस्वभावस्तदात्रापि न सह वर्तेत ।
असहवृत्तिस्वभावस्यापि सहवृत्तिर्निमित्तान्तरायत्ता चेदत्रोपलभ्येत ।
सहवृत्तिस्वभावस्यापि निमित्तान्तराद्वयभिचारो भविष्यतीति तु निर्बीजा शङ्कां नोदेत्येव ।
सर्वव्यवहाराभावप्रसङ्गात् ।
तदेवं मीमांसासहकृतं प्रत्यक्षं धूमस्याग्निसम्बन्धं गृह्णद्वयभिचाराभावमप्याकलयतीति व्याप्तिमवधारयत्येव ।
अनुमानागमाभ्यां तु व्याप्तिग्रहप्रकारः सु(गम)ग्रह एवेति ।
*7,479*
नन्वनेनैव न्यायेन महदारम्भकत्वादीनामपि व्याप्तिनिश्चयसम्भवात्कथं परमाण्वादावनुमानाप्रवृत्तिरिति चेन्न ।
पक्षेतरत्वस्योपाधित्वसम्भवेन व्यभिचाराभावानिश्चयात् ।
अथ तस्योपाधित्वं नास्तीत्युच्येत दात बाधकमाह-
अन्यथेति ॥
अन्यथा सप्तमरसभवो ऽप्यनुमयाऽपतेत् ।
अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी
*7,479f.*
न्यायसुधा:
पक्षेतरत्वस्योपाधितामनादृत्य प्रमाणान्तरासहकृतेनैवानुमानेन परमाण्वादिसिद्धयभ्युपगम इत्यर्थः ।
मधुरो रसो लवणादिरसपञ्चकव्यतिरिक्तरसान्योन्याभाववान् रसत्वाल्लवणादित्याद्यनुमया ।
अनिष्यानि च सर्वाणि दहनशैत्यादीन्यापतेयुः ।
कुतः ।
यस्मादेवंविधानुमा कामचारिणी ।
ननु च सप्तमरसादेरनुपलम्भादिबाधितत्वात्पक्षेतरत्वोपाधिदुष्टत्वमनुमानानामिति चेत्समं प्रकृते ऽपि ।
परमाण्वादेरप्यनुपलम्भबाधितत्वात् ।
अयोग्यं तदिति चेत् ।
तुल्यं सप्तमरसादावपि ।
अनुमानप्रामाण्ये सप्तमरसादिसिद्धावयोग्यत्वं कल्प्यम् ।
कल्पिते च तस्मिन्ननुमानप्रामाण्यसिद्धिरित्यन्योन्याश्रयत्वमिति चेत् ।
एतदपि तादृगेव ।
अनुपभोग्यस्य सप्तमरसादेः कल्पने गौरवमिति चेत् ।
समाधिसाम्यम् ।
प्रमिते न गौरवं दोष इत्येतदपि समानम् ।
तस्मात्परमाण्वादेः साक्षिवेद्यत्वमङ्गीकृत्य प्रतिबन्दी मोचनीयेति कथं न तस्य साक्षिवेद्यत्वमिति ।
*7,482*
समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः
॥ ओं समवायाभ्युपगमाच्च साम्यादनवस्थितेः ओं ॥
ओं उभयथापि न कर्मातस्तदभावः ओं ॥
इति सूत्रम् ।
तत्"नित्यमेव च भावात्ऽ; इत्यागामिसूत्रव्याख्यानेनैव व्याख्यातं भविष्यतीति मन्वानस्तदपहाय हेत्वन्तरेण वैशेषिकादिसमयमपाकुर्वन्(त्)"समवायाभ्युपगमाच्च साम्यादनवस्थितेःऽ; इत्येतत्सूत्रं व्याचष्टे- कार्येति ॥
कार्यकारणयोश्चैव ...
न्यायसुधा:
समवाय ईर्यत इति वक्ष्यमाणमत्रापि सम्बद्धयते ।
अनेन समवायप्रतिपादकं परेषां"इहेति यतः कार्यकारणयोः स समवायःऽ; इति सूत्रमर्थतो ऽनुवदति ।
अत्र कार्यकारणशब्दावयवावयविवाचकौ ।
तौ चोपलक्षणपराविति सूचनार्थश्चशब्दः ।
एवशब्दः समवायस्येहप्रत्यसिद्धत्वं सूचयति ।
*7,484*
तदेतत्स्वयमेव विवृणोति- गुणादेरिति ॥
... गुणादेः पञ्चकस्य च ।
भिन्नस्यैव तु सम्बन्धः समवायो ऽन्य ईर्यते ॥ मनुव्_2,2.91ब्-द् ॥
न्यायसुधा:
गुणादेः पञ्चकस्येति गुणावयविक्रियासामान्यविशेषणामित्यर्थः ।
चशब्देन गुण्यादिपञ्चकस्य चेति समुच्चिनोति ।
ननु गुणगुण्यादिकमभिन्नं भिन्नाभिन्नं वा तत्किं समवायेनेत्यत उक्तम्- भिन्नस्यैवेति ॥
तुशब्दो विशेषार्थः ।
न ययोः कयोश्चिद्गुणगुणिनोः समवायः किन्त्वयुतसिद्धयोरेवेति ।
स गुणगुण्यादिस्वभाव एव चेन्न पदार्थान्तरसिद्धिरित्यत उक्तम्- अन्य इति ॥
ईर्यते वैशेषिकादिभिः, अतो ऽपि तद्दर्शनमयुक्तमिति शेषः ।
अयमर्थः ।
वैशेषिकादयो ऽवयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्तयोः विशेषनित्यद्रव्ययोरत्यन्तभेदमभ्युपगम्यात्यन्तभिन्नमेव समवायाख्यं सम्बन्धमभ्युपगच्छन्ति ।
ततो ऽप्यनुपपन्नभाषिण इति ।
*7,486*
ननु च गुणगुण्यादीनामत्यन्तभेदस्तावद्वयपदेशभेदादिप्रमाणसिद्धः ।
अन्यथा स्तम्भकुम्भादीनामप्यत्यन्तभेदो न स्यात् ।
अस्ति चेह तन्तुषु पटः, इह पटे रूपमिह मूर्ते कर्मेह गवि गोत्वमिह नित्यद्रव्ये विशेष इत्यबाधितः प्रत्ययः ।
न चेहेदमिति प्रत्ययो विनातिरिक्तेन सम्बन्धेनोपपद्यते ।
इह कुण्डे बदराणीति प्रत्ययस्य संयोगपूर्वकत्वदर्शनात् ।
स चायमयुतसिद्धयोः सम्बन्ध इति संयोगाद्भिद्यते ।
युतसिद्धयोर्हि सम्बन्धः संयोगः ।
द्रव्यमात्रवृत्तिश्च ।
तदेवं प्रमितस्य समवायस्याभ्युपगमे कथमयुक्तवादित्वं वैशेषिकादीनामित्यत आह- भिन्नत्वेति ॥
भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद् ध्रुवम्
न्यायसुधा:
भिन्नत्वसाम्यत इत्युपलक्षणम् ।
इहप्रत्ययसाम्यतश्चेत्यपि द्रष्टव्यम् ।
तस्य समवायस्य ।
ताभ्याम् अवयवावयव्यादिसम्बन्धिभ्यां सह ।
योगः सम्बन्धः ।
एतदुक्तं भवति ।
इह तन्तुषु पट इत्यादिप्रत्ययः सम्बन्धपूर्वको ऽबाधितेहप्रत्ययत्वादिह कुण्डे बदराणीति प्रत्ययवदिति समवायमनुमिमानेन यो ऽबाधितेहप्रत्ययः स सम्बन्धपूर्वक इति व्याप्तिरवश्यमङ्गीकरणीया ।
विद्यते चेह तन्तुपटयोः समवाय इत्यबाधितेहप्रत्ययः ।
तेन समवायस्यापि तन्तुपटाभ्यां समवायो ऽभ्युपगन्तव्य एव स्यात् ।
न चाभ्युपगम्यते ।
अतस्तत्र अनैकान्तिकमनुमानमिति ।
ननु तन्तुपटयोः समवायः सिद्धो न वा ।
सिद्धश्चेत्किमुत्तरकालभाविनानैकान्त्येन ।
नचेत्क्वनैकान्त्यम् ।
मैवम् ।
आपाततः प्रतीते सम्बन्धे व्यभिचारं दृष्ट्वा परावृत्तेरावश्यकत्वस्य विवक्षितत्वात् ।
*7,487*
नन्वत्र भिन्नत्वसाम्यं किमर्थमुपन्यस्तम् ।
नहि भिन्नत्वं हेतूकृतमिति ।
सत्यम् ।
अबाधितत्वद्योतनार्थं भिन्नत्वग्रहणम् ।
विभिन्नवस्त्वभावे खल्विह प्रत्ययो बाधितः स्यात् ।
इह तन्तुपटयोः समवाय इति प्रत्ययो ऽपि सम्बन्धपूर्वक एव तन्तुपटसमवायस्यैतत्कारणत्वादिति चेन्न ।
आधाराधेयतया प्रतीयमानयोः सम्बन्धस्य परेण सिसाधयिषितत्वात् ।
अन्यथा स्थाणुश्येनयोः संयोग इत्यत्र समवायासिद्धिप्रसङ्गात् ।
इन्द्रियार्थसन्निकर्षादिना सिद्धसाधनतापत्तेश्च ।
*7,489*
नन्वनवस्थितेरिति सूत्रं कथम् ।
इत्थम् ।
यदि व्यभिचारपरिहाराय समवायस्यापि समवायान्तरमुपेयते ।
तदानवस्थितिरिति ।
इह केचित्समवायं प्रत्यक्षमाचक्षाणाः, यत इति च विषयसप्तमीं व्याचक्षाणाः तत्स्थेम्ने अनुमानमाचक्षते ।
तेषामिहप्रत्ययस्य सम्बन्धपूर्वकत्वं नाम तत्प्रतीतिपूर्वकत्वमेव ।
तन्मते स्फुटैवानवस्था ।
ये तु प्रत्यक्षतां नाभ्युपगच्छन्ति ।
सम्बन्धस्य सत्तामात्रेणेहप्रत्ययकारणवत्वमाहुस्तेषाम्, अवस्थितिः सिद्धान्तः तद्विरोधो ऽनवस्थितिः इत्यनवस्थितिशब्दो ऽपसिद्धान्तवाची व्याख्यायते ।
यद्वेह कुण्डे बदराणीतिवत्सम्बन्धस्य प्रतीत्यैवेहप्रत्ययकारणत्वादत्रापि प्रतीतिमापाद्यानवस्थैव वक्तव्या ।
कुण्डबदरसंयोगस्य योग्यतया अवर्जनीयतया प्रतीतिर्नेहप्रत्ययकारणमिति कुत एषा कल्पना ।
सत्तामात्रेणेहप्रत्ययकारणत्वोपपत्तौ प्रतीतेरपि कारणत्वकल्पकाभावादिति चेन्न ।
सत्यपि संयोगे कुतश्चिद्वयवधानादप्रतीयमाने नेहबुद्धिर्भवति ।
भवति चासत्यपि संयोगे तद्विपर्ययादित्यन्वयव्यतिरेकयोः कल्पकाभावात् ।
स्वस्वामिभावादयो ऽपि हि ज्ञाता एव सम्बन्धनिमित्तव्यवहारहेतवो दृष्टा नान्यथा ।
न ते सम्बन्धा अद्विष्ठत्वादिति चेन्न ।
संयोगस्याप्यद्विष्ठताया वक्ष्यमाणत्वात् ।
किञ्चैवं समवायो ऽपि न सम्बन्धः स्यात् ।
तस्यानाश्रितत्वाभ्युपगमात् ।
नन्वेवं तर्हि नानैकान्त्यात् अनवस्थैव बाधितत्वेनाबाधितेहप्रत्ययत्वस्य तत्रावृत्तेरिति चेन्न ।
अनवस्थायाः साध्यबाधकत्वेन साधनाबाधकत्वात् ।
साध्यबाधेनैव साधनबाधनाभ्युपगमस्य व्याप्तिनिश्चयोत्तरकालीनत्वात् ।
तन्तुपटयोः समवाय इति प्रतीतिरपि सम्बन्धपूर्विकैव ।
किन्त्वरोपित एवासौ सम्बन्ध इति चेन्न ।
अनवस्थानिस्तारात् ।
आरोपितसम्बन्धपूर्वकत्वं हि सम्बन्धारोपपूर्वकत्वमेव, प्रतीतौ चेयमनवस्थोक्तेति कथं (तन्निरस्ता)निस्तारः ।
किञ्चैवं वदता सत्तयैव सम्बन्धस्य कारणत्वमिति मतं त्यक्तं स्यात् ।
*7,490*
अपि चाबाधितो ऽपीहप्रत्ययो यदि सम्बन्धारोपमात्रेण भवेत्तदा तन्तुपटादावपि किन्न भवेदिति समवायासिद्धिः ।
क्वचित्सिद्धस्य क्वचिदारोपः कुत्राप्यभावे तदसिद्धिरिति चेन्न ।
स्थाणुश्येनयोः सम्बन्धस्य सत्त्वात् ।
अन्यथा समवाये ऽपि समवायान्तरारोपे न स्यात्समवायान्तरस्य क्वाप्य(सत्त्वात्)सम्भवात् ।
समवाये भेद एवारोप्यते न समवायान्तरमिति चेन्न ।
तावन्मात्रेणेहप्रत्ययायोगात् ।
सम्बन्धिसम्बन्धभावो ऽप्यारोप्यत इति चेन्न ।
तर्हि तन्तुपटादावपि तदारोपमात्रेणेहप्रत्ययोपपत्तौ किं समवायेनेति ।
*7,497*
ननु समवाये ऽपीहेदमिति प्रत्ययः समवायाधीन एव ।
नचापसिद्धान्तो ऽनवस्था वा ।
तस्यैव समवायस्य स्वनिर्वाहकत्वात् ।
य एव हि समवायो ऽवयवादिष्ववयव्यादीनां सम्बन्धः, स एवावयवावव्यादिष्वात्मना सम्बन्ध इत्याशङ्कते- स इति ॥
स स्वनिर्वाहकश्चेत् स्याद् ...
न्यायसुधा:
सः अवयवावयव्यादिसमवायः ।
एवं तर्हि किं समवायेन, द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तेरिति परिहरति- द्रव्यमेवेति ॥
... द्रव्यमेव तथा न किम्
न्यायसुधा:
तर्हीति शेषः ।
तथा स्वनिर्वाहकत्वात् ।
*7,498*
किं कस्मात् ।
अयमाशयः ।
यदीहेदमिति बुद्धिर्नावश्यं स्वातिरिक्तसम्बन्धसापेक्षा ।
क्वचित्स्वनिर्वाहकत्वात् ।
तर्हि द्रव्यगुणादीनामिहेदमिति प्रत्ययो ऽपि नातिरिक्तसम्बन्धाधीनो ऽङ्गीकार्यः ।
द्रव्यस्यैव स्वनिर्वाहकतयापि तदुपपत्तेरिति ।
समवायः सम्बन्धात्मकत्वात् स्वनिर्वाहकः, न द्रव्यमिति चेन्न ।
तदसिद्धौ सम्बन्धत्वस्याप्यसिद्धेः ।
संयोगस्यापि स्वनिर्वाहकतापत्तेश्च ।
तस्यानित्यत्वान्नेति चेन्न ।
समवायनित्यत्वस्यासिद्धेरिति ।
एवं द्रव्याद्गुणादीनामत्यन्तभेदे ऽपि न तत्सम्बन्धः समवायलक्षणो ऽपरः सिद्धयति ।
समवायवद्द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तेः कल्पनालाघवा(त्व)च्चेत्युक्तम् ।
इदानीं गुणादीनां द्रव्यादत्यन्तभेदाभावाच्च न समवायसिद्धिरित्याशयवांस्तदत्यन्तभेदे परोपन्यस्तान्हेतूनपाकर्तुं तावदुपोद्घातमाह- विशेष इति ॥
*7,499*
विशेषस्तद्गतत्वादिर्यद्यभिन्ने ऽवसीयते ।
गुणक्रियादिरूपस्य निषेधः केन हेतुना
न्यायसुधा:
अभिन्ने समवाय इति शेषः ।
अवसीयते अङ्गीक्रियत इति यावत् ।
गुणक्रियादिरूपस्य विशेषस्येति शेषः ।
केन हेतुना न केनापि ।
इदमुक्तं भवति ।
समवाये तावदवयवावयव्यादिगतत्वमङ्गीकृतम् ।
"आश्रितत्वं चान्यत्र नित्यद्रव्येभ्यःऽ; इति वचनात् ।
नचानित्यद्रव्यगुरकर्मसामान्यविशेषणामिव समवायस्य तद्गतत्वं नाम समवायलक्षणवृत्तिः सम्भवति ।
तस्याभिन्नत्वात् ।
अतस्तद्गतत्वं (नाम) समवायस्वरूपमेवेत्यङ्गीकर्तव्यम् ।
परतन्त्रतयोपलब्धिस्तद्गतत्वमिति चेन्न ।
तस्याः समवायधर्मत्वानुपपत्तेः ।
तद्विषयत्वात्तद्धर्मत्वमिति चेन्न ।
विषयत्वस्यापि समवायस्वरूपा(त्व)नतिरेकात् ।
*7,500f.*
एवमस्तित्वाभिधेयत्वज्ञेयत्वसम्बन्धत्वादयो ऽपि समवाये ऽभ्युपगताः, न समवायस्वरूपाद्भिद्यन्ते ।
भेदं हि तेषां समवायेन सम्बन्धो वक्तव्यः ।
अन्यथा कथमेते तत्र स्युः ।
नच सम्बन्धो युक्तः, संयोगस्य गुणत्वेन द्रव्यमात्रवृत्तेः, समवायस्य चाभिन्नत्वात् ।
तत्र पृच्छामः ।
समवायस्य तद्गतत्वादिधर्माणां चाभेदे कथमपर्यायशब्दवाच्यत्वं, धर्मधर्मिभावः, षष्ठीप्रयोगो, ज्ञातत्वाज्ञातत्वम्, एकत्वानेकत्वमित्यादि युज्यत इति ।
नह्य(चा)त्रोपचारादिकल्पना युक्ता ।
मुख्यप्रयोगादेरदर्शनात् ।
न तद्गतत्वादि समवायतन्मात्रं, येनानुपपात्तः स्यात् ।
किन्तु समवायाभिन्नमपि तद्विशेषात्मकत्मकम् ।
अतो व्यपदेशभेदादि युज्यते ।
विशेषस्य भेदप्रतिनिधित्वादित्येवागतिकतय तत्र समाधिरभिधानीयः ।
तथाच यद्यभिन्ने ऽपि समवाये तद्गतत्वादिविशेषो ऽङ्गीक्रियते तदा गुणक्रियादिकमपि द्रव्यस्वरूपमेव सद्विशेषात्मकं भवतु न तु तन्मात्रम् ।
समवायधर्मास्तविशेषाः, गुणादयस्तु न द्रव्यविशेषा इत्यत्र विशेषहेत्वभावाद् इति ।
*7,504*
किमतो यद्येवमित्यत आह- द्रव्यमेवेति ॥
द्रव्यमेव ततो ऽनन्तविशेषात्मतया सदा ।
नानाव्यवहृतेर्हेतुर् ... ॥ मनुव्_2,2.94अ-च् ॥
न्यायसुधा:
समवायधर्मवद्गुणादीनां द्रव्यविशेषत्वादित्यर्थः ।
अनन्तशब्दो यत्र यावन्तो व्यवहाराः तावतामुपलक्षकः ।
नानाव्यवहृतेः व्यपदेशभेदादिरित्यर्थः ।
एतदुक्तं भवति ।
गुणगुण्यादेः अत्यन्तभेदे सिद्धे हि तत्सम्बन्धः समवायः सिद्धयति ।
गुणगुण्याद्यत्यन्तभेदस्तु न प्रामाणिकः ।
तथाहि न तावत्तत्र प्रत्यक्षं प्रमाणं, गवाश्वादिवदनुपलम्भात् ।
अतो गुणगुणिनावत्यन्तभिन्नावपर्यायशब्दवाच्यत्वात् ।
घटपटवदित्याद्यनुमानमेव वक्तव्यम् ।
तच्चानैकान्तिकम् ।
समवायस्य तद्धर्माणां (च) भेदाभावे ऽप्यपर्यायशब्दवाच्यत्वादन्यथासिद्धं च ।
यथा समवाये तद्गतत्वादिधर्माणां भेदभावे ऽपि विशेषपरनामकात्स्वभावविशेषादेवापर्यायशब्दवाच्यत्वादिकमुपपादनीयम् ।
गत्यन्तराभावात् ।
तथा गुणगुण्यादीनाम(त्यन्ता)भेदे ऽपि गुणादीनां द्रव्यविशेषत्वे(न द्र)तद्द्रव्यमेव ।
विशेषशक्तयैवापर्यायशब्दवाच्यत्वादिव्यवहारहेतुर्भविष्यति ।
तथाच विपक्षे बाधकाभावादप्रयोजकत्वं हेतूनामिति ।
*7,506*
यद्वा विशेषस्तद्गतत्वादिरित्यनेनैव गुणगुण्याद्यत्यन्तभेदसाधकानां हेतूनामनैकान्त्याप्रयोजकत्वे वर्णिते ।
यदि तद्गतत्वादिधर्माभिन्ने समवाये तद्गतत्वादिविशेषो ऽभ्युपेयते ।
विशेषणैव च व्यवहारा निर्वहिष्यन्ते ।
तदा व्यपदेशभेदादिहेतूनां व्यभिचारान्यथासिद्धिभ्यां आभासत्वात्केन हेतुना द्रव्यस्य गुणक्रियादिरूपस्य गुणक्रियादिस्वरूपत्वस्य निषेधः (करिष्यते) क्रियते ।
गुणगुण्याद्यत्यन्तभेदः केन हेतुना साधयिष्यत इति यावत् ।
अन्यथासिद्धिमेव प्रकटयन्नुपसंहरति- द्रव्यमेवेति ॥
समवायवदिति वक्ष्यमाणमत्रापि सम्बद्धयते ।
यथा समवायस्य तद्गतत्वादिविशेषात्मतया व्यपदेशभेदादिव्यवहारहेतुत्वम् ।
तथा द्रव्यमेव घटादिकं गुणक्रियाद्यनन्तविशेषात्मतया नानाव्यवहृतेर्हेतुर्भवतीति ।
*7,507*
नन्वौपचारिकत्वं वा भ्रान्तिमूलत्वं वा व्यवहाराणामङ्गीकृत्य हेतूनां दूषणं शक्यम् ।
तत्किं विशेषाङ्गीकारेण ।
नैवं शक्यम् ।
औपचारिकत्वादौ हि कदाचिन्मुक्तौ व्यवहारः स्यात् ।
न हि तीरादौ सदा गङ्गादिव्यवहारो ऽस्ति ।
नचैवं प्रकृते सदैवापर्यायशब्दवाच्यत्वादेः सत्त्वात् ।
यदाप्यभेदबोधाय रूपमेव घट इति वा विज्ञानं ब्रह्मेति वा व्यवह्रियते तदापि न पर्यायतामुपेत्य, तथाननुभवात् ।
अतो वक्तव्यमेवात्र निमित्तम् ।
तदिदमुक्तम्- सदेति ॥
*7,508*
नन्वनन्तविशेषात्मकमेकमेव द्रव्यमिति व्याहतमिति चेत् ।
किं माता वन्ध्येतिवत्साक्षाद्विरोधः, किंवा कृतकं नित्यमितिवद्वयाप्त्या ।
नाद्यः ।
यतो ऽनन्तत्वं सङ्खयाविशेषः, एकत्वं चाभेदः ।
न द्वितीयः ।
यत्रानेकत्वं तत्रावश्यं भेद इति व्याप्तौ हि स स्यात् ।
न चैवम् ।
भेदप्रतिनिधिना विशेषेणैव अनेकत्वसङ्खयानिर्वाहादित्याह- अनन्तत्वमिति ॥
... अनन्तत्वं विशेषतः
न्यायसुधा:
ईश्वराख्यद्रव्यविशेषणामनन्तत्वमन्यत्रानेकत्वमिति द्रष्टव्यम् ।
अत्रापि समवायवदिति सम्बद्धयते ।
एक एव हि समवायो ऽनेकधर्मात्मको ऽङ्गीक्रियते ।
*7,509*
नन्वयं नानाव्यवहारनिर्वाहहेतुर्विशेषो यदि द्रव्यात्मैव कथं तर्हि (तद्द्रव्य)द्रव्यस्य विशेषः स्यात् ।
तदीयताया भेदव्याप्तत्वात् ।
मैवम् ।
विनापि भेदेन तत्प्रतिनिधिना विशेषणैव विशेषस्य तदीयतोपपत्तेः ।
एवं तर्हि तस्यापि विशेषस्य विशेषत्वसिद्धये विशेषान्तरमङ्गीकर्तव्यमित्यनवस्थेत्यत आह- विशेषश्चेति ॥
विशेषश्च विशेषी सः स्वेनैव समवायवत्
न्यायसुधा:
यथा समवायः स्वेनैव समवायी, न सम्बन्धान्तरेणेत्यभ्युपगम्यानवस्था परेण पराक्रियते ।
तथा स द्रव्ये ऽनेकव्यवहारनिर्वाहेतुर्विशेषश्च स्वेनैव विशेषी न पुनर्विशेषान्तरेण ।
अतो न कश्चिद्दोष इति ।
समवायवदित्युपलक्षणम् ।
सत्तान्त्यविशेषवच्चेत्यपि द्रष्टव्यम् ।
यथा द्रव्यगुणकर्मसु सद्वयवहारहेतुः सत्ता स्वेनैव सती स्वीकृता ।
यथा च नित्यद्रव्येष्वत्यन्तव्यावृत्तिप्रत्यये हेतुरन्त्यो विशेषः स्वेनैवात्यन्तव्यावृत्तस्तथैवेति ।
*7,510*
अथापि स्यात् ।
गुणगुण्यादिभेदमभ्युपगच्छता मया इहेदमिति व्यवहारनिर्वाहाय समवायो ऽङ्गीक्रियते, तस्य चानवस्थापरिहाराय स्वनिर्वाहकत्वम् ।
अभेदं(अभ्यु)चाभ्युपगच्छता त्वयापर्यायशब्दवाच्यतादिसिद्धये विशेषो ऽङ्गीक्रियते, तस्य चानवस्थानिरासाय स्वनिर्वाहकत्वमिति पक्षद्वये समाने को विशेषो ऽभेदपक्षे, येन स परिगृह्यते ।
समवायस्याप्रामाणिकत्वमिति चेत् ।
समं विशेषे ऽपि ।
अपर्यायव्यवहारादिना स सिद्ध इति चेत् ।
तर्हि समवायो ऽपीहेदमित्यादिना सिद्ध इति तुल्यम् ।
तदनैकान्तिकमित्युक्तमिति चेत् ।
अपर्यायव्यवहारादिकमपि घटपटावनैकान्तिकमिति समानम् ।
अस्तु तर्हि गुणगुण्यादिभेदे व्यवहारादिसकमपि घटपटादवनैकान्तिकमिति समानम् ।
अस्तु तर्हि गुणगुण्यादिभेदे प्रमाणाभावो विशेष इति चेन्न ।
अभेदे ऽपि प्रमाणाभावात् ।
गवाश्चादिवद्विवेकेनानुपलम्भो अभेदे प्रमाणमिति चेत् ।
तर्हि व्यपदेशभेदादि भेदे प्रमाणमस्तीति समाधिसाम्यम् ।
तद्वयभिचारान्यथासिद्धिभ्यां निरस्तमिति चेत् ।
अभेदप्रमाणमपि तादृगेव ।
तस्यापि क्षीरनीरादौ व्यभिचारात् ।
अयुतसिद्धत्वेनान्यथासिद्धेश्च ।
तस्मान्निमित्तो ऽयमभेदपक्षपात इत्यत आह- कल्पनेति ॥
कल्पनागुरुतादोषात् पदार्थान्तरता नहि
न्यायसुधा:
पदार्थान्तरा गुणगुण्यादीनामिति शेषः ।
यद्यपि भेदाभेदपक्षयोः स्वनिर्वाहकसमवायविशेषाङ्गीकारेण साम्यं, तथापि भेदपक्षे कल्पनागुरुतादोषात् गुणगुण्यादीनां पदार्थान्तरता नाङ्गीक्रियते ।
कल्पनालाघवादभेद एवोपेयत इति ।
कथं भेदवादे कल्पनागौरवमित्यत आह- कल्पयित्वेति ॥
कल्पयित्वा षट् पदार्थान् साभावानपि केवलम् ।
एकस्मिन् स विशेषश्चेत् किं पूर्वं तस्य विस्मृतिः
न्यायसुधा:
केवलमित्येतत् षडित्यनेनैकस्मिन्नित्यनेन च सम्बद्धयते ।
एकस्मिन् समवाये, सः विचित्रव्यवहारहेतुश्चेदङ्गीक्रियत इति शेषः ।
किं कस्मात् ।
पूर्वं द्रव्य इत्यर्थः ।
तस्य विशेषस्य ।
*7,513*
अयमभिसन्धिः ।
व्यपदेशभेदादिप्रमाणबलमवम्ब्य वैशेषिकादिभिर्द्रव्यादयो भावपदार्थाः षडेव ।
अभावो ऽपि सप्तम इति कल्पितम् ।
समवाये प्रतीतं तद्गतत्वादिकं तु न समवायातिरिक्तम् ।
किन्तु स्वभावभेदापरनाम्ना विशेषेणैव तत्र व्यपदेशभेदाद्युत्पत्तिरिति च ।
तत्रान्ततो ऽप्यङ्गीकतर्व्येन व्यपदेशभेदादिनिर्वाहकेण विशेषेणैव द्रव्ये ऽपि तन्निर्वाहो वक्तव्यः ।
सप्तपदार्थीनिरूपणं न कर्तव्यम् ।
यद्वा द्रव्यवत्समवाये ऽपि तद्गतत्वादीनां भेद एव स्वीकार्यः ।
तेषां च द्रव्यादिष्वन्तर्भावासम्भवे सप्तपदार्थनियमस्त्याज्यः ।
विशेषकारणेन विना
क्वचिद्भेदस्य क्वचिद्विशेषस्याभ्युपगमे कथं कल्पनागौरवं न स्यात् ।
तदभावे वाभेदवादे कथं कल्पनालाघवं न भवेदिति ।
भेदप्रतीत्यप्रतीतिभ्यां विशेष इत्यादि तु निराकरिष्यते ।
अत्र द्विधाकल्पनप्रदर्शनार्थेनैव पूर्वार्धेन समवाये विशेषस्याङ्गीकर्तव्यतापि समथिर्ता वेदितव्या ।
अत एव केवलशब्दसम्बन्धः ।
सप्तैव हि पदार्थाः ।
नच तेषु समवायधर्माणामन्तर्भावः सम्भवतीति विशेषा एव तैर(ते ऽ)ङ्गीकर्तव्या इति ।
*7,516*
न केवलं सर्वथाङ्गीकार्येण विशेषेणैव गुणगुण्यादिव्यपदेशभेदाद्युपपत्तौ द्रव्यभेदमङ्गीकृत्य समवाय(एव) एकस्मिन्विशेषाभ्युपगमे कल्पनागौरवमिति भेदमतमपहायाभेदपक्षपातः क्रियते ।
किन्तु समवाये प्रमाणाभावादपि ।
*7,517*
तथा हि ।
न तावत्तत्र प्रत्यक्षं प्रमाणम् ।
कुण्डदध्नोः संयोग इतिवत्तन्तुपटयोः समवाय इत्यप्रतीतेः ।
सम्बन्धप्रतीतिरेव तत्प्रतीतिरिति चेन्न ।
तस्या असम्मतेः ।
एतेनायं तन्तुपटसम्बन्धप्रत्ययश्चक्षुर्जन्यो ऽनन्यथासिद्धतदन्वयव्यतिरेकानुविधायित्वात्पटप्रत्ययवत् ।
अयं तन्तुपटयोः सम्बन्धो योगजधर्माजन्यजन्यसाक्षात्कारविषयस्तन्तुपटसम्बन्धत्वादेतत्तन्तुपटान्तरसंयोगवदिति समवायप्रत्यक्षतासाधनमप्यपास्तम् ।
तन्तुपटसम्बन्धतत्प्रत्यययोः असिद्धयाऽश्रयासिद्धेः ।
सम्बन्धाप्रतीतौ शुक्लः पट इति सामानाधिकरण्यप्रतीतिर्न स्यात् ।
दण्डीकुण्डलीत्यादौ तस्य तत्पूर्वकत्वदर्शनादिति चेन्न, समवायो ऽस्तीत्यादौ व्यभिचारात् ।
*7,521f.*
नाप्यनुमानम् ।
इहेदमिति प्रत्ययस्य दूषितत्वात् ।
इह भूतले घटाभाव इति प्रत्यये व्यभिचाराच्च ।
भावमात्रविषयत्वेन विशेषणाददोष इति चेन्न ।
अभाववद्भावे ऽप्युपपत्तौ अन्यथासिद्धेः ।
इह घटे ज्ञानमिति प्रत्यये व्यभिचारापरिहाराच्च ।
बाधितो ऽयमिति चेन्न ।
अन्यथाप्रत्ययानुपलब्धेः ।
एतेन जात्यादिगोचरो विशिष्टव्यवहारः सम्बन्धिनियतो भावमात्रविषयाबाधितविशिष्टव्यवहारत्वात्सघटं भूतलमिति व्यवहारवदित्यपास्तम् ।
ज्ञातो घटः, अस्ति समवायः इत्यादौ व्यभिचारात् ।
*7,522*
एते तन्तव एतत्पटसम्बद्धा एतदाश्रयत्वाद्भूतलवत्, अयं पट एतत्तन्तुसम्बद्ध एतदाश्रितत्वादेतदाश्रिततृणादिवदित्यप्यसत् ।
तन्तुपटयोराश्रयाश्रयिभावासिद्धेः ।
इह तन्तुष्वयं पट इति व्यवहारसिद्धतत्प्रत्यात्तत्सिद्धिरिति चेन्न ।
इह समवाये ऽस्तित्वमित्यादौ व्यभिचारात् ।
भूतलरूपादयो भूतलसम्बद्धा भूतलविशेषणत्वात् घटवदित्यपि, भूतलविशेषणे ज्ञाने व्यभिचारादयुक्तम् ।
इह तन्तुष पट इत्यादिप्रत्यय एतञ्जनकसंयोगत्वरहितसम्बन्धजन्य इहेतिप्रत्ययत्वादिह कुण्डे बदराणीति प्रत्ययवत् ।
नचेह भूतले घटाभाव इति प्रत्यये व्यभिचारः तत्रापि चक्षुर्भूतलसंयोगादिजन्यत्वस्य सत्त्वात्, इत्यपि न युक्तम्, अयं पट एतज्जनकतन्तुरहितोपादानजन्यः पटत्वात्पटान्तरवदित्याभाससमानयोगक्षेमत्वात् ।
रूपादयः सम्बन्धवन्तः प्रमेयत्वाद्घटवदित्यप्यनुपपन्नम्, समवायाभावयोर्व्यभिचारात् ।
तत्रापि विशेषणविशेष्यभावाभ्युपगमान्नेति चेन्न, तस्य परेण सम्बन्धत्वानङ्गीकारात् ।
अङ्गीकारे वा तेनैवार्थान्तरत्वात् ।
मतुबर्थस्याभावाद्बाधितविषयत्वाच्च ।
समवायः स्वेनैव सम्बन्धी (इत्यादि) स्यादिति निरस्तम् ।
इदं चक्षुरेतज्जन्यसंयोगज्ञानत्वरहितसम्बन्धज्ञानजनकं चक्षुष्ट्वादन्यचक्षुर्वत्, अहं मन्निष्ठसंयोगज्ञानत्वरहितसम्बन्धज्ञानवानात्मत्वादात्मान्तरवत्, अयं काल इदानीन्तनसंयोगज्ञानत्वरहितसम्बन्धज्ञानवान्कालत्वादन्यकालवत् इत्यादीनि, आभाससमानयोगक्षेमत्वात्, विशेषणविशेष्यभावादिनार्थान्तरत्वाच्चापास्तानि ।
संयोगत्वं सम्बन्धव्यावृत्तम् जातित्वाद्गोत्ववदिति सिद्धसाधनम् ।
जातेः प्रतिव्यक्तिनियतत्वस्य वक्ष्यमाणत्वेनैकस्य संयोगत्वस्य संयोगान्तराद्वयावृत्तेः, विशेषणविशेष्यभावादितो व्यावृत्तेश्च ।
विवादाध्यासिता मृत् घटसम्बद्धा द्रव्यत्वादाकाशवदिति च घटान्तरसंयोगेनार्थान्तरम् ।
एतद्घटसम्बद्धेति निर्देशे ऽप्येतद्घटसम्बन्धमलब्ध्वा विनष्टद्रव्ये ऽनैकान्तिकम् ।
तत्रापि परम्परासम्बन्धो ऽस्तीति चेत् ।
तर्हि सिद्धसाधनम् ।
मृत्संयुक्तभूतलस्य घटसंयुक्तत्वात् ।
*7,523*
तन्तुपटौ नित्यसम्बद्धौ द्रव्यत्वादाकाशवदिति, दृष्टान्तस्य साध्यविकलत्वादपास्तम् ।
संयोगः स्वव्यतिरिक्तसम्बन्धाद्भिन्नः प्रमेयत्वाद्घटवदित्यत्र स्वव्यतिरिक्तपदेन स्वान्योन्याभावविवक्षायां सिद्धसाधनता ।
एकस्य संयोगस्य संयोगान्तराद्भिन्नत्वात् ।
संयोगत्वरहितत्वविवक्षायामप्रसिद्धविशेषणत्वम् ।
विशेषणविशेष्यभावादिना तत्समाधाने तेनैव सिद्धसाधनम् ।
अयं संयोग एतदन्यसंयोगत्वरहितसम्बन्धान्यो मेयत्वाद्घटवत् इत्याद्याश्च, आभाससमानयोगक्षेमत्वादुपेक्षणीयाः ।
तदेवं समवाये प्रमाणाभावान्न भेदपक्षो ऽङ्गीक्रियते ।
*7,531*
ननूक्तमत्राभेदपक्षो ऽपि तर्हि नाङ्गीकार्यो विशेषे प्रमाणाभावादिति तत्राह- येनेति ॥
येन प्रत्यक्षसिद्धेन व्यवहारो ऽखिलो भवेत् ।
भावाभावविभागेन यं विना न कथञ्चन ।
एतद्दृशे विशेषे ऽस्मिन् को द्वेषो वादिनां भवेत्
न्यायसुधा:
प्रत्यक्षसिद्धेनेत्यनेन प्रत्यक्षसिद्ध इति लभ्यते ।
येनाखिलो व्यवहारो भवेत् ।
यं विना न भवेदित्यन्वयव्यतिरेकाभ्यां विशेषकार्यत्वं व्यवहारस्य दर्शयता व्यवहारान्यथानुपपत्तिश्च विशेषे प्रमाणं तदनङ्गीकारे व्यवहारोच्छेदप्रसङ्गश्चेत्युक्तं भवति ।
अखिल इत्यस्यैव विवरणं भावाभावविभागेन विधिनिषेधभेदेन(इति) ।
द्विविधस्तावदिति शेषः ।
*7,532*
ननु भेदपक्षे ऽपि समवायभ्युपगमेनाखिलो ऽपि व्यवहारो घटिष्यते ।
अत्यन्ताभेदे ऽपि व्यावृत्तिस्वीकारेण भेदाभेदाभ्यां तु सुतराम् ।
तत्किं विशेषेणेत्यत उक्तम्- कथञ्चनेति ॥
एतादृशे सर्वव्यवहारनिर्वाहहेतौ को द्वेषः किन्निमित्तानुपादिता ।
प्रमाणाभावो ह्यनुपादाननिमित्तम् ।
सति प्रमाणे नानुपादाननिमित्तमस्तीत्यर्थः ।
मा भूद्वयवहार इत्यत उक्तम्- वादिनामिति ॥
उपलक्षणं चैतत् ।
ज्ञातृणां चेत्यपि द्रष्टव्यम् ।
विशिष्टविषयाभिज्ञाभिवदनलक्षणो ह्यत्र व्यवहारः प्रकृतः ।
*7,534*
किञ्चावयवावयव्यादिभेदे प्रमाणाभावाच्च तं परित्यज्याभेदपक्षो ऽङ्गीक्रियते ।
ननूक्तमत्राभेदे ऽपि प्रमाणं नास्तीति ।
तत्राह- अभेदेनेति ॥
अभेदेन प्रतीतिश्च कार्यकारणपूर्वके ।
अभावान्ते पदार्थे ऽस्मिन् सविशेषावसीयते
*7,534f.*
न्यायसुधा:
इहापि कार्यकारणग्रहणेनावयव्यवयवावुच्येते ।
पूर्वशब्देन गुणगुण्यादिकम् ।
अभावशब्देनान्योन्याभावो गृह्यते ।
तस्यैव धर्म्यभिन्नत्वात् ।
यद्वाभावतद्धर्मावनेनोपलक्ष्येते ।
अवसीयते साक्षिणा ।
तथाहि ।
तन्तुपटादिविषया बुद्धिरत्यन्तभिन्नघटपटादिविषयबुद्धितो विलक्षणानुव्यवसीयते उताविलक्षणा ।
न तावद्द्वितीयः ।
प्रतीत्यपलापानुपपत्तेः ।
आद्ये कथमभेदप्रतीतिर्नास्तीति शक्यं वक्तुम् ।
सम्बन्धेन वि(शे)शिष्यत इति चेन्न ।
कुण्डबदरप्रतीतितो ऽपि वैलक्षण्यानुभवात् ।
सम्बन्धिनोरयुतसिद्धत्वात्तथेति चेन्न ।
आधाराधेयभावेनावस्थानसमये तस्याकिञ्चित्करत्वात् ।
अतस्तन्तुपटयोः कुण्डबदरयोश्च भेदे सम्बन्धे च समाने कालान्तरभाविनः सम्बन्धविनाशादेः सम्बन्धिविभागादेर्वा प्रत्यक्षप्रतीतिं प्रत्युपयोगा(योगा)भावाद्वैलक्षण्यं नानुभूयेत ।
अनुभूयते च तन्तुपटादिबुद्धिः कुण्डबदरादिबुद्धेविर्लक्षणेत्यभेदविषयैव सावसीयते ।
*7,537*
किञ्च पटोत्पत्तेः प्राग्यावन्तं देशमवष्टभ्य तन्तवस्तिष्ठन्ति पटो ऽपि तावन्तमेव ।
नच मूर्तयोः समानदेशत्वं युज्यते ।
तेन ज्ञायते तन्त्वभिन्नः पट इति ।
नचावयवावयविनो रूपरसादि(वत्)द्वैतमनुभूयत इत्याद्यभेदप्रमाणं स्वयमूहनीयम् ।
*7,539f.*
नन्वभेदश्चेत्प्रत्यक्षेणैवेक्ष्यते ।
तदा कथं शुक्लः पटश्चलति(पट) इत्यादिसामानाधिकरण्यादिव्यवहारः ।
तस्य दण्डी कुण्डलीतिवद्भेदविषयत्वात् ।
नहि प्रतीतिविरोधी व्यवहारो भवतीत्यत उक्तम्- सविशेषेति ॥
विशेषेण विषयेण उपेता ।
अयमर्थः ।
यत्र केवलमभेदः प्रतीयते न तत्र सामानाधिकरण्यव्यवहारो भवति ।
यथा घटः कलश इति ।
अत्र त्वभेदः प्रतीयमानो विशेषेण सहित एव प्रतीयते ।
विशेषश्च भेदप्रतिनिधिः सामानाधिकरण्यव्यवहारं प्रसूत इति ।
*7,541*
नन्वभेदप्रतीतिमभिभूय विशेषप्रतीतिः स्वकार्यं कथं कुर्यात्, करोति चेदभेदप्रतीतिरपि विशेषप्रतीतिमभिभूय स्वकार्यं कथं न स्यात् ।
मैवम् ।
नहि प्रतीतिरस्तीत्येव व्यवहारः किन्तु प्रयोजने ऽपि सति ।
प्रयोजनं च सामानाधिकरण्यव्यवहारेणैव बहुलं लोकवेदयोः ।
यदा त्वभेदव्यवहारः प्रयोजनवांस्तदा सो ऽपि दृश्यत एव यथा विज्ञानमानन्दं ब्रह्मेत्यादि ।
*7,542*
यद्वा विशेषः प्रत्यक्षार्थापत्तिसिद्ध इत्युक्तम् ।
तत्कथमित्यतः प्रत्यक्षसिद्धतां तावदुपपादयति- अभेदेनेति ॥
अनुक्तसमुच्चयार्थश्चशब्दः ।
पदार्थ इत्येकवचनं जातिविषयम् अस्ति यतस्तस्मात्सा सविशेषावसीयत इति योजना ।
ततश्चायमर्थः ।
अस्ति तावदवयवावयव्यादिपदार्थसार्थे ऽभेदेन प्रतीतिः ।
कुण्डबदरादिप्रतीतितो ऽस्या व्यावृत्ततयाध्यवसायात् ।
नच अभेदमन्तरेण व्यावृत्तिहेतुरस्ति ।
अतो ऽसति निमित्तान्तरे सम्मतभेदवस्त्वन्तरप्रतीतितो व्यावृत्तेयमभेद एव विश्राम्यतीति ।
अस्ति च तथापि सामानाधिकरण्यादिव्यवहारः ।
तत्र यदीयमभेदमात्रविषया स्यात्तदा न सामानाधिकरण्यादिव्यवहारं कुर्यात् ।
घटः कलश इति व्यवहारादर्शनात् ।
ततो ज्ञायते ऽधिको ऽपि विषयो ऽस्या विद्यत इति ।
नच भेदो ऽसाविति वाच्यम् ।
भेदाभेदवादे ऽप्यन्तो विशेषस्याङ्गीकार्यत्वात् ।
तथा चेयमभेदप्रतीतिरिन्द्रियजा सविशेषावसीयत इति ।
*7,544*
प्रागुक्तं समवाये विशेषो ऽङ्गी(कर्तव्य)क्रियत इति तन्न तावदेव ।
किन्तु सर्वेष्वपि पदार्थेष्विति दर्शयन्विशेषस्य व्यवहारान्यथानुपपत्तिसिद्धतां चोपपादयति- सामान्यादीति ॥
सामान्यादिपदार्थेषु तन्निष्ठत्वादयो ऽखिलाः ।
कथं धर्मा निवार्यन्ते वस्त्वैक्ये ऽपि हि वादिभिः
न्यायसुधा:
तन्निष्ठत्वादयो व्यक्तिनिष्ठत्वादयः ।
कथमित्याक्षेपे ।
वस्त्वैक्ये ऽपि धर्मैक्ये ऽपि ।
कुतो न निवार्यत इत्यत उक्तम्- वादिभिरिति ॥
अविसंवादिव्यवहारसिद्धत्वादिति यावत् ।
एतदेव प्रपञ्चयति- कार्यस्येति ॥
कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः ।
कथं विशेषो नैवास्ति ... ॥ मनुव्_2,2.100अ-च् ॥
न्यायसुधा:
अस्ति तावदवयविनो ऽवयवनिष्ठत्वं नाम धर्मः ।
गुणानां केषाञ्चिद्रूपादीनामाश्रयव्यापित्वम् केषाञ्चित्संयोगादीनां प्रदेशवृत्तित्वम्, रूपादीनामुद्भूतत्वम्, सर्वेषां चतुर्विंशतित्वम् कर्मणश्च आश्रयव्यापित्वमनित्यत्वं पञ्चत्वं मूर्तनिष्ठत्वम्, सामान्यस्यापि द्रव्यगुणकर्मनिष्ठत्वम्, नित्यत्वमनुगतत्वम्, द्विविधत्वमित्यतिबहुलो ऽयं पदार्थधर्मसमूहः ।
न चायमाश्रयतो भिन्न एवेति युक्तम् ।
अस्ति च धर्मधर्म्यादिव्यवहारः ।
तन्तुषु पटः, प(घ)टो न भवति घ(प)ट इत्यादिः ।
स चायमत्यन्ताभेदे ऽनुपपद्यमानः स्वोपपादकं विशेषमवगमयतीति सर्वपदार्थेषु कथं विशेषो नैवास्ति ।
*7,546*
सत्यम् ।
सन्त्येव द्रव्यादिषु सप्तस्वपि पदार्थेषु ते ते धर्माः ।
किन्नामाश्रयतो भिन्ना एव ।
तथाच तत्सम्बन्धनिबन्धनतयैवोपपद्यमानो व्यवहारः सर्वपदार्थेषु न विशेषमाक्षेप्तुमलमित्याशयेन शङ्कते- स चेति ॥
*7,547*
... स च धर्मो ऽपरो यदि
न्यायसुधा:
न केवलं गुणादि द्रव्यादितो भिन्नम् ।
किन्तु सः तत्तन्निष्ठत्वादिधर्मश्च अपरः स्वाश्रयाद्भिन्नो यद्यङ्गीक्रियत इत्यर्थः ।
निराकरोति- षडिति ॥
षट्पदार्थातिरेकः स्यात् ...
न्यायसुधा:
तर्हि धर्माणां षड्भ्यः पदार्थेभ्यो ऽतिरेकः स्यात् ।
तथाच षडेव पदार्था सति नियमो भज्येतेति ।
ननु स्वाश्रयतो विभिन्ना अपि धर्मा न ष(ड्भ्यः)ट्पदार्थेभ्यो ऽतिरिच्यन्ते ।
किन्तु त एवान्योन्यविशेषणीभूता धर्मा इत्युच्यन्ते ।
यथाऽह"यद्यपि धर्माः षट्पदार्थेभ्यो न व्यतिरिच्यन्ते ।
किन्तु त एवान्योन्यापेक्षया धर्मधर्मिणश्च भवन्तिऽ; इत्रत ।
अन्यत्रापि"तेषां धर्मास्त एव परस्परं विशेषणीभूताःऽ; इति ।
तत्कथं नियमभङ्ग इति ।
मैवम् ।
तन्निष्ठत्वादीनां षट्सु पदार्थेष्वन्तर्भावयितुमशक्यत्वात् ।
तथाहि ।
"आश्रितत्वं चान्यत्र नित्यद्रव्येभ्यःऽ; इत्यभ्युपगतं कार्यद्रव्यगुणकर्मसामान्यविशेषसमवायानामवयवादिनिष्ठत्वं न तावद्द्रव्यादिकम् ।
गुणादिवृत्त्यनुपपत्तेः ।
नापि समवायः तस्य स्ववृत्त्यनुपपत्तेः ।
किञ्चाधार्याधारभूतयोः सम्बन्धः समवाय इष्यते ।
तथाच कथं स एवाधारित्वमाधारत्वं च स्यात् ।
तथा रूपादीनामाश्रयव्यापित्वं न द्रव्यादिष्वन्तर्भवति ।
तेषां गुणवृत्त्तिवासम्भवात् ।
समवायस्तूक्तरीत्या निरस्तः ।
अपि च वृत्तित्वमात्रं समवायः ।
व्याप्यवृत्तित्वं त्वतिरिक्तं निर्वक्तव्यर्(वाच्य)म् ।
कृत्स्ने स्वाश्रये समवायस्तदिति चेन्न ।
द्रव्यस्यासमुदितत्वेन कृत्स्नत्वाद्यनवकाशात् ।
स्वभावेन सहानवस्थानं व्याप्यवृत्तित्वमिति चेन्न ।
तस्याप्यन्तर्भाव्यत्वात् ।
अभावो ऽसाविति चेन्न ।
निराकरिष्यमाणत्वात् ।
*7,552*
एवं संयोगादीनां प्रदेशवृत्तित्वं निरस्तम् ।
उद्भूतत्वं च न जातिविशेषः ।
रूपत्वादिना परापरभावानुपपत्तेः ।
यदि हि रूपत्वं परं स्यात्तदा स्पर्शस्योद्भूतत्वं न स्यात् ।
यदि चोद्भूतत्वं परं भवेत्तदा सर्वमपि रूपमुद्भूतमिति चक्षुरादेरपि प्रतीतिः स्यात् ।
*7,553*
चतुर्विंशतित्वं च न सङ्खया, गुणानां निर्गुणत्वाङ्गीकारात् ।
उपचारो ऽयमिति चेन्न ।
निमित्ताभावात् ।
न तावदेकाथर्समवायो निमित्तम् ।
द्रव्ये चतुर्विंशतित्वनियमाभावात् ।
प्रत्येकं रूपादिषु तत्प्रसङ्गाच्च ।
अपर्यायचतुर्विंशतिशब्दवाच्यत्वमिति चेन्न ।
शब्दे ऽपि चतुर्विंशतित्वाभावात् ।
चतुर्विंशतिपुरुषोच्चारितापर्यायशब्दवाच्यत्वमिति चेन्न ।
बधिरादीनां रूपादिषु सङ्खयाव्यवहाराभावप्रसङ्गात् ।
एवमन्येषामपि धर्माणामन्तर्भावो निरसनीयः ।
*7,556*
कश्चिदाह ।
धर्मपदार्थो ऽभावे ऽन्तर्भवतीति ।
तदसत् ।
निषेधबुद्धिबोध्यत्वाभावात् ।
अभावे ऽभावानङ्गीकारेण तद्धर्माणामभावत्वायोगाच्च ।
द्रव्यादिषड्लक्षणशन्यतमराहित्यमभावत्वम् ।
नतु निषेधबुद्धिबोध्यत्वमिति चेन्न ।
लोकप्रतीतिमवधूय स्वकल्पनादरणे द्रव्यमेव भावास्तल्लक्षणरहितो ऽभाव इत्यपि कल्पनाप्रसङ्गात् ।
अतस्तत्तन्निष्ठत्वादयो द्रव्यादिधर्मास्तदात्मान एवाङ्गीकार्याः ।
तथाचाह"भावस्य स्वरूपमेवावस्थाभेदेनास्तित्वं ज्ञेयत्वमभिधेयत्वं चोच्यतेऽ; इति ।
नच विशेषमपहायावस्थाभेदः शक्यनिरूपणः ।
*7,557*
ननु धर्मा धर्मितो भिन्ना एव ।
नचोक्तदोषः ।
नैयायिकादिभिः परमाण्वारम्भवादिभिः षडेव पदार्था इति नियमस्यानङ्गीकृतत्वात् ।
धर्मपदार्थस्य पृथगङ्गीकृतत्वाच्च ।
तथाच भिन्नधर्मसंसर्गवशात्सर्वव्यवहारोपपत्तौ न तदन्यथानुपपत्त्या विशेषसिद्धिरित्यत आह- पदार्थेति ॥
... पदार्थानियमे ऽपि हि ।
धर्मस्य धर्मसन्तानादनवस्थाकरो भवेत् ॥ मनुव्_2,2.101ब्-द् ॥
न्यायसुधा:
पदार्थानां षडेवेति नियमाभावपक्षे ऽपि हि यस्माद्धर्मस्य धर्मसन्तानादनवस्थाया आकरो भवेदयं पक्षः, तस्माद्धर्मधर्माणामाश्रयाभेदे ऽवश्यमङ्गीकार्ये तत्र धर्मधर्म्यादिव्यवहारान्यथानुपपत्त्या विशेषो ऽङ्गीकरणीय इति योज्यम् ।
खनिः आकरः ।
*7,558*
एतदुक्तं भवति ।
धर्मपदार्थं द्रव्यादिभ्यो भिन्नमभ्युपगच्छन्प्रष्टव्यः ।
अस्तित्वादिधर्मेष्वप्यस्तित्वादिकमस्ति न वा ।
नेति पक्षे ऽनुभवविरोधः ।
अस्तित्वं न ज्ञेयं नाभिधेयमिति स्वक्रियाविरोधश्च ।
अन्यथा द्रव्यादिष्वपि तदभावापत्तिः ।
आद्ये तदाश्रयतो भिन्नमभिन्नं वा ।
आद्ये तत्राप्यस्तित्वाद्यन्तरमित्यनवस्था स्यात् ।
द्वितीये त्वस्ति तावत्तत्रापि धर्मधर्म्यादिव्यवहारः ।
स चानुपपद्यमानो विशेषं गमयतीति ।
किञ्च धर्मगता धर्मा यदि आश्रयाभिन्नास्तदा किं द्रव्यादिगतास्तित्वादिधर्मैरपराद्धम् ।
येन ते द्रव्यादितो भिद्येरन् ।
योगक्षेमसाम्यात् ।
ततस्तेषामेव द्रव्याद्यभेदे सति पुनर्व्यवहारान्यथानुपपत्त्या द्रव्यादिष्वेव विशेषसिद्धिः (इति) ।
*7,560*
नन्वस्त्येव द्रव्यादिधर्मेष्वस्तित्वादिष्वप्यस्तित्वादिकम् ।
तच्चाश्रयतो भिन्नमेव ।
नचैवं धर्मस्यानवधिकधर्मसन्तानादनवस्थादोषः ।
उत्पत्तिज्ञप्तिप्रतिबन्धकत्वाभावेनादोषत्वात् ।
यथाऽहुः"मूलक्षयकरीं प्राहुरनवस्थां हि दूषणम्ऽ; इति ।
यदर्थमुत्तरोत्तरानुसरणं तन्मूलमुत्पत्तिर्ज्ञप्तिर्वा ।
ततो भिन्ननिमित्ततयोपपद्यमानो व्यवहारो न विशेषमाक्षेप्तुमलमित्यत आह- सामान्यस्यापीति ॥
सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः ।
नाङ्गीकृतः ...
न्यायसुधा:
सामान्यस्य गोत्वादेः, सामान्यं सत्तालक्षणम् ।
गुणस्य च रूपादेः, सङ्खयापृथक्तवादिगुणः अत अनवस्थाभयादेव हि नाङ्गीकृतः ।
अयमाशयः ।
सामान्यस्यापि सामान्यं तावत्परेण नाङ्गीकृतम् ।
तथा गुणस्यापि गुणो नाङ्गीकृतः ।
तत्कस्मादिति वक्तव्यम् ।
न तावत्प्रतीत्यभावात् ।
सद्गोत्वं चतुर्विंशतिगुणा रूपाद्रसः पृथगिति प्रतिभासस्य दुरपह्नवत्वात् ।
नच न सद्गोत्वमित्यादि बाधकमस्ति येन प्रतीतस्यापि परित्यागः ।
गोत्वं न सत्तावदपरसामान्यशून्यत्वाद्विशेषवत्, गुणा न गुणवन्तो ऽद्रव्यत्वात्क्रियावदित्यादिबाधकमस्तीति चेन्न ।
विपक्षे बाधकाभावेनाप्रयोजकत्वात् ।
दृष्टान्तयोः(श्च)साध्यविकलत्वाच्च ।
यदि गोत्वादौ सत्ता स्यात्तदा सत्तायामपि स्यात् ।
तथा चात्माश्रयत्वमिति चेन्न ।
सत्तान्तरत्वोपपत्तेः ।
किञ्च प्रतीतेः किमात्माश्रयता करिष्यति ।
अन्यथा प्रमेयत्वादीनां केवलान्वयित्वं न स्यात् ।
आत्माश्रयभयाद्यतः प्रमेयत्वादिव्यावृत्तिः तस्यैव विपक्षत्वात् ।
उक्तं च"कथं स्ववृत्तिरिष्या चेद्यथान्यत्रेति गृह्यताम् ।
प्रमाणं शरणं वृत्तौ न भिन्नाभिन्नतेयताऽ; इति ।
गुणानामपि गुणवत्त्वे द्रव्यलक्षणयोगाद्द्रव्यतापत्तिरिति चेन्न ।
प्रतीतिमनुरुद्धय लक्षणान्तरस्य कर्तव्यत्वात् ।
तस्मात्सामान्ये सामान्यं गुणे च गुणः अनवस्थाभयादेव नाङ्गीक्रियत इत्येव वक्तव्यम् ।
यथाऽह"व्यक्तेरभेदस्तुल्यत्वं सङ्करो ऽथानवस्थितिः ।
रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहःऽ; इति ।
नचानवच्छिन्ना सामान्यपरम्परा गुणपरम्परा चोत्पत्तिज्ञप्तिप्रतिबन्धे हेतुः ।
तथाच यथा सा दूषणं तथा प्रकृतापि दूषणमेव ।
न चेत्सापि न स्यादिति सामान्यादेरपि सामान्याद्यङ्गीकार्यं स्यात् ।
यदि कथञ्चिज्ज्ञप्तिप्रतिबन्धकत्वं तत्र व्युत्पद्येत ।
तर्हि वयमप्यत्र तद्व्युत्पादयिष्याम इति ।
*7,565*
यदि कश्चिद्वैयात्याद्ब्रूयात् ।
अस्त्येव सामान्यस्यापि सामान्यं गुणस्यापि गुणो निर्बाधप्रतीतिसिद्धत्वात् ।
उत्पत्तिज्ञप्त्यप्रतिबन्धहेतोरनवस्थाया दोषत्वायोगात् ।
अतो नैतन्न्यायेन धर्मपरम्परानवस्थाभयान्निवारणीयेति ।
तत्राह- स चेति ॥
... स च यदि नानवस्था क्वचिद् भवेत्
न्यायसुधा:
स च गुणस्यापि गुणः ।
चशब्दात्सामान्यस्यापि सामान्यं यद्यङ्गीक्रियते तदा ब्रूमो नानवस्था क्वचिद्भवेदिति ।
*7,566*
अयमाशयः ।
एवं वदन्क्वचिदनवस्थादूषणमङ्गीकरोति न वेति वाच्यम् ।
नचेत् दूषणान्तरमपि नाङ्गीकुर्यात् ।
अविशेषात् ।
तथाच कथायां नाधिकारी स्यात् ।
नाद्यः ।
धर्मसामान्यगुणानवस्थाया अदूषणत्वे विमताया अपि दूषणत्वायोगात् ।
विशेषहेतोरभावात् ।
*7,567*
नन्वपर्यवसितपरम्परामात्रसाम्ये ऽपि यत्रोत्पत्त्यादिप्रतिबन्धकत्वं तत्र दूषणत्वम् ।
यत्र यदभावस्तत्रादूषणत्वमिति चेत् ।
किमर्थमुत्पत्त्यादिप्रतिबन्धकत्वमनुसरणीयम् ।
अनवस्था हि तर्कविशेषः ।
तर्कश्चानिष्यप्रसञ्जनम् ।
उत्पत्त्यादिप्रतिबन्धश्चानिष्यः ।
प्रामाणिकपरित्यागरूपत्वात् ।
उत्पत्त्यादेः प्रामाणिकत्वात् ।
अतस्तदप्रतिबन्धे तर्कत्वायोगात्कथं दूषणान्तरम् ।
एवमेव दूषणत्वे ऽतिप्रसङ्ग इत चेत् ।
किं प्रामाणिकपरित्याग एवानिष्य उताप्रामाणिकस्वीकारो ऽपि ।
नाद्यः ।
नियामकाभावात् ।
द्वितीये कथं न प्रकृतानवस्था दूषणम् ।
अत्यन्तभिन्नधर्मपरम्पराया अप्यप्रामाणिकत्वात् ।
अथाप्रामाणिकस्वीकारो न दूषणम् ।
तर्हि प्रामाणिकपरित्यागो ऽपि न (दूषणं) स्यादिति नानवस्था क्वचिद्दूषणं भवेत् ।
अथानिष्यापत्तिहेतुरनवस्थादूषणम् ।
न पुनरनिष्यरूपेति चेन्न ।
अनिष्यरूपैवानवस्था दूषणम् ।
नत्वनिष्यापत्तिहेतुरित्यपि वक्तुं शक्यत्वेन क्वचिदङ्गीकृताप्यनवस्था न दूषणं भवेत् ।
तस्मात्प्रामाणिकपरित्यागाप्रामाणिकपरिग्रहरूपा वा तद्धेतुर्वानवच्छिन्नपरम्परानवस्थेति वाच्यम् ।
अत एव नातिप्रसङ्गः ।
तथाच धर्मपरम्पराया अप्यनवस्थात्वेनाभेद एवाङ्गीकार्यः ।
एवं चोक्तन्यायेन व्यवहारान्यथानुपपत्त्या विशेषसिद्धिरिति ।
*7,570*
अपि च यो धर्मधर्मिणोर्भेदं समवायं चाङ्गीकृत्याभेदं विशेषं चावजानाति तेनानवस्थातो बिभ्यता गुणसामान्ययोर्गुणसामान्यप्रतीतिरेवापलपनीया ।
विनैव बाधकेन भ्रान्तिर्वा वाच्या ।
प्रतीत्यपलापादितो वा बिभ्यतो ऽनवस्था स्यादित्येकं सन्धित्सतो ऽन्य(त्प्र)च्च्यवते ।
अभेदं विशेषं चाङ्गीकुर्वतां तु नेदं दूषणद्वयमतो ऽपि तत्पक्षपात इत्याशयवानाह- अस्मत्पक्ष इति ॥
अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः ।
अनन्यत्वान्नानवस्था ... ॥ मनुव्_2,2.103अ-च् ॥
न्यायसुधा:
धर्मधर्मिणोः सविशेषाभेदवादिनां पक्ष इत्यर्थः ।
गुणाद्या गुणाः सामान्यानि च ।
तद्वन्तो गुणवन्तः ।
सामान्यवन्ति च ।
तेन चतुर्विंशतिगुणाः सद्गोत्वमित्यादिप्रतीतिविरोधो नास्तीति शेषः ।
अनन्यत्वात् धर्मधर्मिणोरिति शेषः ।
अप्रामाणिकापर्यवसितपरम्परारूपा ह्येषा ।
अनन्यत्वे कथं तद्वृत्तमिति तदवस्थः प्रतीतिविरोध इत्यत उक्तम्- विशेषतो हि तद्वन्त इति ॥
भेदसम्बन्धकार्यकारी हि विशेष इति ।
*7,571*
एवमवयवावयव्यादीनामभेदो ऽत्र निरूपितः ।
इदानीं क्वचिद्भेदाभेदावपि भवत इति तदपवादमाह- भेद इति ॥
... भेदो नाशे भवेत् तथा
न्यायसुधा:
यद्वा यद्यवयव्यादयो ऽवयवाद्यभिन्नाः ।
कथं तर्हि सत्स्वेवावयवादिषु विनश्यन्तीत्यत आह- भेद इति ॥
तथाशब्दः समुच्चये ।
अवयवादिषु सत्स्वेवावयव्यादीनां नाशे भेदो ऽभेदश्च भवेदित्यर्थः ।
अत्र नाश इत्युपलक्षणम् ।
यत्र सत्स्वेवावयवेष्ववयविनो ऽभावः सति गुणिनि गुणस्याभावस्तत्र भेदाभेदावित्यादि द्रष्टव्यम् ।
अन्यथा यत्रावयवावयव्यादीनां युगपद्विनाशस्तत्र भेदाभेदावुक्तौ न स्याताम् ।
इदमुक्तं भवति ।
सत्यपि तस्मिन्नसत्त्वादित्यनेन हेतुनावयव्यादीनामवयवादिभ्यो भेदमात्रं वा साध्यते ऽत्यन्तभेदो वा ।
आद्ये सिद्धसाधनता भागासिद्धिश्च ।
तथाहि ।
सत्यप्यु(त्यु)पादाने कदाचिदुपादेयमसत् ।
यथा पटः ।
एवं सत्यपि द्रव्ये केचिद्गुणा असन्तो यथा पाकजादयः ।
तथा सत्यप्या(त्येवा)श्रये काश्चित्क्रिया असत्यो यथा पटचलनादयः ।
जातिश्च काचित्सति जातिमत्यसती ।
यथा ब्राह्मणम् ।
तत्र भेदाभेदयोरङ्गीकाराद्भेदसाधनं सिद्धविषयम् ।
गगनतद्भागयोरीश्वराद्याश्रितज्ञानादिगुणक्रियाजातिष्वभावाद्भागासिद्धत्वं हेतोः इति ।
न द्वितीयः ।
कालात्ययापदिष्टत्वात् ।
अभेदस्य प्रागुपपादितत्वादुपपादयिष्यमाणत्वाच्चेति ।
*7,573*
स्यादेतत् ।
यथा भेदसाधकानां व्यपदेशभेदादीनां विशेषाश्रयेणैवान्यथासिद्धिरुक्ता ।
तथा सत्यपि तस्मिन्नसत्त्वस्यापि विशेषणैव निर्वाहः क्रियताम् ।
किं भेदाभेदाभ्युपगमेन ।
मैवम् ।
विशेषस्य भेदकार्यव्यवहारमात्रनिर्वाहकत्वेन विनाशं प्रत्यनिर्वाहकत्वात् ।
सकलभेदकायर्कारित्वे विशेषो भेद एव, न तत्प्रतिनिधिः स्यात् ।
किञ्चानेकाश्रितस्यावयविनो द्वित्वादेश्चाश्रयेणात्यान्ताभेदे सत्याश्रयणामपि परस्परमभेदः प्रसज्यते ।
तत्परिहारार्थं तावदवश्यं तत्र भेदो ऽङ्गीकरणीयः ।
नचावच्छेदकेन विना भेदाभेदभूमेः सङ्ग्रहः स्यादित्ययावदाश्रयभावित्वमेव ग्राह्यम् ।
तत्रापि विशेष एव सङ्करं वारयिष्यतीति तु निरस्तम् ।
किञ्च प्रमाणानुसारिणक्ष व्यवस्था नतु स्वेच्छानुसारिणी ।
प्रमाणं तु भेदाभेदाववगाहत इति वक्ष्यते ।
ननु अनित्यद्रव्याश्रिता एकत्वादयो ऽपि गुणाः किं भेदवन्तस्तेषामपि द्रव्यकार्यतया तदुत्तरक्षणभावित्वादिति ।
मैवम् ।
उक्तोत्तरत्वात् ।
उक्तं ह्येतत् ।
उपादानद्रव्यं गुणवदुपादेयतया परिणमत इति ।
*7,576*
ननु भेदाभेदावेकत्र विरुद्धौ ।
तत्कथमयावदाश्रयभाविनामवयविगुणकमर्सामान्यानामवयवादिभिर्भेदार्भेदाभ्युपगम इत्यत आह- विशेषमेवेति ॥
विशेषमेव संश्रित्य ...
न्यायसुधा:
भेदाभेदावेकत्र भवत इति सम्बन्धः ।
अवधारणं कालादिभेदव्यावृत्त्यर्थम् ।
*7,577*
कथं विशेषाश्रयणे विरोधशान्तिरित्यत आह- विरोध इति ॥
... विशेषो बलवान् यतः
न्यायसुधा:
बलवान्भेदकार्यकारण इति शेषः ।
ततो विशेषं समाश्रित्यैकत्र भेदाभेदौ भवत इत्यन्वयः ।
अयमर्थः ।
भेदो हि विरोधशान्तिहेतुः ।
तथाहि ।
क्वचिदाश्रयभेदो यथा मधुरायां देवदत्तसद्भावः स्रुघ्ने तदभावः ।
क्वचित्कालाभेदो यथा मधुरायामेव देवदत्तस्य भावाभावौ ।
क्वचित्प्रतियोगिभेदो यथा गवयो गोघटाभ्यां सदृशो विसदृशश्चेति ।
भेदप्रतिनिधिश्च विशेष इत्युक्तम् ।
अतः कथमसौ भेदाभेदावेकदैवैकत्रैव नावस्थापयेदिति ।
एवं तर्ह्यतिप्रसङ्गः ।
सर्वत्र विशेषमाश्रित्य विरोधस्योत्सादयितुं शक्यत्वादित्यत आह- दृष्टीति ॥
दृष्टिप्रमाणतश्चैव ...
*7,577f.*
न्यायसुधा:
दृष्टिश्च तत्प्रमाणं च ।
प्रमाणभूता दृष्टिरित्यर्थः ।
ततो भेदाभेदौ न विरुद्धाविति सम्बन्धः ।
चशब्दो विशेषेण सह दृष्टेः समुच्चये ।
न स्वेच्छामात्रेण भेदाभेदावित्युपेत्य विशेषेण विरोधाभावो ऽभिधीयते ।
येनातिप्रसङ्गः स्यादित्येवशब्दः ।
उक्तं तावदवयवावयव्याद्यभेदग्राहिणी दृष्टिरस्ति ।
सम्बद्धवस्तुबुद्धितो विलक्षणतयानुव्यवसायात् ।
अस्ति च भेदग्राहिणी सत्यपि तस्मिन्नसत्त्वादिति हेतुजनिता दृष्टिरिति ।
नचैते बाध्यबाधके ।
अन्यतराननुवृत्तिप्रसङ्गात् ।
नापि प्रतिपक्षभूते ।
प्रतिपत्तृणामुभयोदासीनतापत्तेः ।
चैवम् न ।
अतो द्वयोरपि प्रामाण्यतश्च भेदाभेदयोरवगतयोनर् विरोधः ।
तदिदमुक्तम्- प्रमाणत इति ॥
*7,579*
ननु भ(व)वेतां भेदाभेदवेकत्रैवैकदेव प्रमितौ ।
तथापि कथं विरोधशान्तिरित्यत आह- विरोध इति ॥
... विरोधो दर्शने कथम्
न्यायसुधा:
सहदर्शने सति कथं विरोधो वक्तुं शक्यते ।
सहदृष्टौ विरुद्धौ चेति विप्रतिषिद्धमिति भावः ।
एतदेव विवृणोति- विरोधो हीति ॥
विरोधो ह्यविरोधश्च यतो दर्शनमानगौ ।
ततो दृष्टे विरोधस्तु सद्भिरापाद्यते कथम्
*7,579f.*
न्यायसुधा:
सर्वत्र परस्परपरिहारेणैव सत्त्वदर्शनं महानवस्थानलक्षणविरोधे प्रमाणम् ।
क्वचित्सहदर्शनं चाविरोधे ।
अन्यस्यानिरूपणात् ।
अतः सहदृष्टे भेदाभेदलक्षणे वस्तुद्वये विरोधः कथमुच्येत ।
सहदर्शने ह्यविरोधः स्यात् ।
पुनर्विरोधकथने व्याघातानिवारणादिति ।
हिशब्देन शीतोष्णादौ रूपरसादौ च विरोधाविरोधयोर्दर्शनैकप्रमाणत्वं निदर्शयति ।
तुशब्दस्य दृष्टे त्विति सम्बन्धः ।
सद्भिर्विद्वद्भिरित्युपहासः ।
वैशेषिकादयो हि संयोगविभागशब्दात्मविशेषगुणानां तत्रैव तदैव भावाभावावुपेत्य सहदर्शनाद्विरोधो नास्तीति वदन्तः पुनरत्र सहदर्शने ऽपि विरोधमुद्भावयन्तः स्वव्याहतभाषिणः स्वोक्तविस्मरणशीलाः स्वदृष्टिपक्षपातिनः कथं सन्तः स्युः ।
सर्वत्रासहदृष्टयोर्यदि कश्चिदाग्रहमात्रेण सहावस्थानं मन्यते तं प्रत्येव विरोधोद्भावनं क्रियते- नान्यथेति ॥
*7,581*
धर्मधर्मिणोर्भेदाभेदौ क्वचिदिति सङ्क्षेपेणोक्तम् ।
तत्किं सर्वेष्वपि द्रव्येषूत केषुचिदेवेत्यपेक्षायामाह- अभिन्न इति ॥
अभिन्नो भगवान् स्वेन तदन्येन विभेदवान्
न्यायसुधा:
भगवानिति चेतनमात्रोपलक्षणम् ।
स्वेन स्वावयवगुणक्रियादिभिः ।
तदन्येन प्रकृतिजीवजडात्मना प्रपञ्चेनेत्येवं व्यवस्थितावेव भेदाभेदौ न त्वेकविषयावित्यर्थः ।
अयावद्द्रव्यभाविधर्मैर्भेदाभेदौ कुतो न स्यातामित्यत आह- नित्या इति ॥
नित्या धर्मास्तदीयास्तु सर्वे ऽस्मान्नैव भेदिनः
न्यायसुधा:
तुशब्दो ऽवधारणे ।
अस्मात् कारणम् ।
अस्मात् भगवतः ।
द्वित्वादिसङ्खयाव्यतिरिक्ता इति शेषः ।
*7,583*
क्व तर्हि भेदाभेदावित्यत आह- सामस्त्येति ॥
सामस्त्योच्छेदिनो ऽन्यत्र धर्मा उभयरूपकाः ।
भावे ... ॥ मनुव्_2,2.107अ-च् ॥
न्यायसुधा:
अन्यत्र परमेश्वरात् ।
जडे वस्तुनीति यावत् ।
सत्येव धमिर्णि सामस्त्येनोच्छेदवन्तो ये धर्मास्ते उभयरूपिणो भिन्नाभिन्ना इत्यर्थः ।
अभिभवव्यावृत्त्यर्थं सामस्त्येत्युक्तम् ।
यद्वा सामस्त्ये द्रव्यस्याविकलत्वे नाशाभावे ऽपि ये उच्छेदिन इति व्याख्येयम् ।
किं स्वसद्भाववेलायामभेदिनो ऽसद्भाववेलायां भेदिन इत्येवं कालभेदेन भेदाभेदावित्यत उक्तम्- भाव इति ॥
स्वसद्भावदशायामेवोभयरूपका इत्यर्थः ।
विनष्टस्यासत्त्वेन भेदचिन्तानवकाशात् ।
प्रागत्यन्ताभेदे विनाशासम्भवाच्च ।
कुतो भिन्नाभिन्ना इत्यत आह- त एवेति ॥
... त एव चोच्छेदात् तदन्ये च समस्तशः
न्यायसुधा:
प्रत्यक्षबलेन त एव धर्मिस्वरूपभूता एव उच्छेदात् सत्येव धर्मिण्यसत्त्वाद्धेतोस्तदन्ये ।
चशब्दौ मिथः समुच्चयार्थौ ।
समस्तश इत्ययावद्द्रव्यभाविविवक्षयोक्तम् ।
*7,584*
यदुक्तं यावदवयवभाविनो ऽवयविनो ऽवयवैरत्यन्ताभेदो ऽयावदवयवभाविनस्तु भेदाभेदाविति ।
तेनान्यदपि चोद्यं परिहृतमित्याह- अंशांशिनोरिति ॥
*7,585*
अंशांशिनोरभेदेन त्वंशसंयोग एव हि ।
अंशिनो नानवस्थातो यद्यप्यंशेष्वविश्रमः
न्यायसुधा:
तथा हि ।
सर्वदिक्ष्वपि सम्बन्धादिति यदंशतः संयोग इत्युक्तं तदयुक्तम् ।
अनवस्थापत्तेः ।
घटसंयोगो हि घटांशसंयोगपूर्वकः ।
सो ऽपि तदंशसंयोगपूर्वकः ।
नचेयं निरंशे परम्परा विश्राम्यतीति वाच्यम् ।
अंशपरम्पराया अविश्रमस्याप्यङ्गीकृतत्वात् ।
अतः पूर्वपूर्वसंयोगानुत्पत्तावुत्तरोत्तरानुत्पत्तिप्रसङ्गादंशतः संयोग इति नियमो नोपपद्यत इति ।
तदिदमसङ्गतम् ।
यद्यप्यंशत एव संयोगो यद्यपि चांशेष्वंशपरम्पराया अविश्रमस्तथाप्यंशांशिनोरभेदे नैवांशसंयोग एव हि यस्मादंशिनः संयोगो ऽतो नानवस्थेति ।
*7,586*
अयमभिसन्धिः ।
स्यादियमनवस्था यदि सर्वत्रांशत एव संयोग इति वदतामस्माकमंशिनः संयोगोंऽशसंयोगेनैव जायत इत्यभिप्रायः स्यात् ।
नचैवम् ।
किन्तु यो यस्य अंशिनः संयोगः स तदंशे वर्तते ।
निरंशस्य तु संयोगः क्व नाम वर्तताम् ।
अतः परमाण्वोः संयोगे सति तद्वृत्त्यर्थमंशो ऽङ्गीकरणीय इति ।
न ह्येवं सति काचिदनवस्थास्ति ।
अनवस्थितकार्यकारणभूतासिद्धसंयोगपरम्पराश्रयणाभावात् ।
एतावत्तु भवेत् ।
घटसंयोगः स्यात् ।
प्रमाणविरोधाच्च ।
घटसंयोगो घटवृत्तिरपि घटसंयोगः स्यात् ।
प्रमाणविरोधाच्च ।
घटसंयोगो घटवृत्तिस्तद्गुणत्वात्तद्रूपवदिति ।
घटांशवृत्तिः संयोगो न घटसंयोगः तदन्यवृत्तित्वात् ।
पटसंयोगवदिति ।
एतदप्यनवकाशम् ।
अंशांशिनोरभेदस्य साधितत्वात् ।
अतिप्रसङ्गो हि तदा स्याद्यदि पटवद्घटांशो ऽपि घटादत्यन्तभिन्नः स्यात् ।
अभेदे तु क्वातिप्रसङ्गः ।
अनुमानस्याप्याद्यस्य सिद्धसाधनता ।
अंशवृत्तेरेव घटवृत्तित्वात् ।
अंशावृत्तित्वे सति घटवृत्तित्वसाधने दृष्टान्तः साध्यविकलः स्यात् ।
द्वितीयस्तु हेतुः स्वरूपासिद्धो ऽन्यथासिद्धो वेति ।
यदि घटसंयोगो घटांशे वर्तते तर्हि घटांशसंयोगः क्व वर्तत इति चेत् ।
अनेन (एव) न्यायेन तदंशे सो ऽपि तदंश इति ब्रूमः ।
नचैवमनवस्था ।
सर्वे ऽप्यंशिसंयोगास्तत्तदंशवृत्तय इत्यत्रेतरापेक्षाया अभावात् ।
*7,588*
एवं तर्हि परमाणुवृत्तिरपि संयोगो घटसंयोगः स्यादिति चेत् ।
को नेत्याहेति ।
अंशसंयोग एव ह्यंशिनः संयोगो ऽतो नानवस्थेत्युक्तमनवस्थापरिहारं विवृणोति- एकस्मिन्निति ॥
एकस्मिन् जात एवान्यः संयोगो जायते यदि ।
अनवस्था तदैव स्यात् संयोगैक्ये भवेत् क्व सा
न्यायसुधा:
अवयवपरम्पराया अविश्रममभ्युपगम्यैकैकस्मिन्नवयवसंयोगे जात एवान्यो ऽवयवसंयोगो जायत इति यद्यङ्गीकुर्मस्तदैवानवस्था स्यात् ।
संयोगैक्ये अवयविसंयोगः क्रियातो जातस्तदवयवे वर्तते, अवयववृत्तेः संयोगादपरो ऽवयविनः संयोगो नास्तीति वादे तु, क्व सानवस्थेति ।
एतेनैतदपि निरस्तम् ।
यदाहुः ।
संयोगस्त्रिविधो ऽन्यतरकर्मजोभयकर्मजसंयोगजभेदात् ।
तत्रान्यतरकर्मजो यः क्रियावता निष्क्रियस्य, यथा स्थाणोः श्येनेन ।
उभयकर्मजस्तु विरुद्धदिक्क्रिययोः सन्निपातो, यथा मल्लयोः ।
संयोगजस्तु संयोगः कारणाकारणसंयोगात्कार्याकार्यसंयोगो, यथा हस्ततरुसंयोगात्कायतरुसंयोग इति ।
नहि हस्ततरुसंयोगातिरिक्तः कायतरुसंयोगो ऽस्ति ।
येनासौ तज्जन्यः स्यात् ।
प्रमाणाभावात् ।
किन्तु हस्तकर्मणा जनितो हस्तवृत्तिः संयोग एव हस्तकाययोरभेदात्कायसंयोगो भवति ।
अत एव हस्तस्याशुचिसंयोगे कायक्षालनादिविधयो ऽप्युपपद्यते ।
*7,591*
अत एव विभागजो ऽपि विभागो निरस्तः ।
द्विविधं हि तमाचक्षते ।
कारणाकारणविभागात्कारणविभागाच्चेति ।
तत्राद्यो यथा ।
हस्ततरुविभागात्कायतरुविभागः ।
द्वितीयो यथा ।
द्वितन्तुकावयवे तन्तौ कर्मोत्पन्नं तस्य तन्त्वन्तराद्विभागं करोति ।
विभागात्तन्त्वोः संयोगो नश्यति ।
ततो द्वितन्तुकविनाशः ।
तत इदानीं तन्त्वोर्वर्तमानो विभागः सक्रियस्यावयवस्य द्वितन्तुकसंयुक्ताकाशादिदेशाद्विभागं करोतीति ।
तत्राद्यस्तावदनुपपन्नः ।
हस्ततरुविभागातिरिक्तस्य कायतरुविभागस्यानुपलम्भात् ।
हस्तकर्मणा जनितो हि विभागो हस्तकाययोरभेदाद्धस्तकायगुणो भवति ।
अत एव विवादाध्यासितो विभागो न कर्मासमवायिकारणकः कर्मैकार्थासमवेतत्वात् ।
शब्दवदितयसिद्धतया निरस्तम् ।
*7,592*
द्वितीयस्त्वनुपपन्नतरः ।
तन्तुकर्मणैव तन्तोस्तन्त्वन्तरादाकाशादिदेशाच्च विभागोत्पत्त्युपपत्तौ क्रमकल्पनानुपपत्तेः ।
अन्यथाङ्गुलिकर्मणाङ्गुलेरङ्गुल्यन्तरादेव विभागो भवति आकाशादिदेशात्तु विभागादेवेति स्यात् ।
नन्वङ्गुलिकर्म अङ्गुलिविभागमाकाशादिविभागं च करोति ।
तयोर्विभागयोरविरुद्धत्वात् ।
तन्तुकर्म तु तन्त्वन्तरविभागमाकाशादिविभागं (च) न कर्तुमर्हति ।
तयोर्विभागयोः द्रव्यारम्भकसंयोगविरोधित्वाविरोधित्वरूपविरोधात् ।
नह्यविरुद्धात्कारणाद्विरुद्धकार्योत्पत्तिः सम्भवतीति ।
मैवम् ।
एकस्मादेव कर्मणः संयोगविभागजननाभ्युपगमात् ।
तन्तुकर्मरा द्रव्यारम्भकानारम्भकतन्त्वन्तराकाशसंयोगजन्माङ्गीकाराच्च ।
अन्यथा कारणाकारणसंयोगजसंयोगवत्कारणमात्रसंयोगजो ऽपि संयोगः स्वीकार्यः स्यात् ।
*7,595*
ननु संयोगस्य न स्वरूपतो विरोधो ऽस्ति ।
यतो द्रव्यानारम्भकद्रव्यसमवेत एव संयोगो द्रव्यानारम्भकः ।
द्रव्यानारम्भकं च द्रव्यं सप्तविधम् ।
आरब्धद्रव्यमन्त्यावयविस्पर्शरहितं विनश्यदवस्थं विनश्यदवस्थसंयोगं निष्फलारम्भं विजातीयं चेति ।
ततः कर्मणैव संयोगद्वयजन्मोपपत्तिरिति ।
एयं तर्हि विभागयोरपि को विरोधः ।
द्रव्यारम्भानारम्भप्रयुक्तत्वाद्विरोधप्रतीतेः ।
तन्तुद्वयविभागजनकं तन्तुकर्म न तन्त्वाकाशविभागजनकं द्रव्यारम्भकसंयोगविरोधिविभागजनककर्मत्वात् ।
द्रव्यान्रारम्भकसंयोगविरोधिविभागजनककर्मवत् इत्याभाससमानयोगक्षेमत्वात् ।
तन्तुकर्म न तन्त्वन्तरविभागजनकं कर्मत्वात् सम्प्रतिपन्नकर्मवदित्यपि प्रयोगसम्भवात् तत्र प्रमाणबाध इति चेत् ।
सममन्यत्रापि ।
विभागद्वययौगपद्यानुभवात् ।
तन्तुकर्म आकाशविभागजनकं कर्मत्वादिति प्रतिपक्षश्च ।
आकाशविभागे विभागेन कर्तव्ये कर्मणो निमित्तत्वाभ्युपगमात्सिद्धसाधनमिति चेन्न ।
जनकशब्दस्यासमवाय्यर्थत्वात् ।
*7,600*
एतेन विमतं कर्म द्रव्यारम्भकसंयोगविरोधितदविरोधिविभागजनकं न भवति कर्मत्वादिति निरस्तम् ।
विमतं कर्म द्रव्यारम्भकानारम्भकसंयोगारम्भकं न भवति कर्मत्वात् ।
श्येनकर्मवदित्याभासतुल्यत्वात्सत्प्रतिपक्षत्वाच्च ।
यदाकाशविभागजनकं कर्म न तद्द्रव्यारम्भकसंयोगविरोधिविभागजनकं यथाङ्गुलिकर्मेति व्याप्तेस्तन्तुकर्मणो गगनविभागजनकत्वे तन्त्वन्तरविभागजनकत्वं न स्यादिति चेन्नन ।
यद्यत्प्रदेशविभागजनकं न भवति न तत्तत्प्रदेशस्थद्रव्यविभागजनकमिति व्याप्तेराकाशदेशविभागाजनकत्वे तन्त्वन्तरादपि विभागजनकं न स्यादिति प्रतिप्रसङ्गसम्भवात् ।
*7,601*
किञ्च तन्तोराकाशविभागो यदि विभागजो न तु कर्मजस्तदा सकर्मकस्येवाकर्मकस्यापि कुतो न स्यात् ।
विभागस्योभयत्रापि साम्यात् ।
उत्तरविभागे कर्म निमित्तकारणमित्यतो नेति चेन्न ।
आद्यविभागजननेनैवोपक्षीणस्य कारणत्वानवधारणात् ।
अवधारणे वासमवायित्वस्य अनिवारणात् ।
अन्यथा तल्लक्षणस्यातिव्याप्तेरित्यलं विस्तरेण ।
*7,604*
एवं छलत्वेनानवस्थाप्रसङ्गं निराकृत्य प्रकारान्तरेण निराकरोति- अंश इति ॥
अंशिसंयोगस्यांशवृत्तित्वदृष्टेश्च नानवस्थादोष इत्यर्थः ।
दृष्टत्वे कथमदोषत्वमित्यत आह- दृष्ट इति ॥
अंशे संयोगदृष्टेश्च ...
न्यायसुधा:
आपादके ऽर्थे दृष्टे सति सा अनवस्थितिः का न दूषणमिति यावत् ।
एतदुक्तं भवति ।
यद्यंशतः संयोगः स्यात्तदानवस्था स्यात्ततश्च संयोगाभाव एवापद्येत ।
नचासौ युक्तः ।
तस्मान्नांशतः संयोग इति हि विपर्यये पर्यवसानं कर्तव्यम् ।
अनवस्थायास्तर्कत्वात् ।
विपर्ययापर्यवसायिनश्च तर्काभासत्वनियमात् ।
... दृष्टे का सानवस्थितिः
न्यायसुधा:
अत्रांशतः संयोगे न भवतीति को ऽर्थो यद्यंशिसंयोगस्यांशसंयोगपूर्वकतानियमो नास्तीति ।
तर्ह्येवमिति वदामः ।
यद्यंशिसंयोगोंऽशवृत्तिर्न भवतीति ।
तन्न ।
घटाद्यंशिसंयोगस्य तदंशवृत्तितायाः प्रत्यक्षदृष्टत्वेन विपर्ययपर्यवसानस्य बाधितत्वात् ।
घटसंयोगो घट एव वर्तते ।
किन्त्वव्याप्यवृत्तित्वात्तदंशवृत्तिरिवावभासत इति चेत् ।
केयमव्याप्यवृत्तिता नाम अन्या अंशवृत्तित्वात् ।
स्वाभावसमानाधिकरणत्वमिति चेन्न ।
विरुद्धत्वात् ।
दृष्टत्वादविरोध इति चेन्न ।
किमंशभेदेन भावाभावौ दृश्येते उत घट एवेति सन्देहात् ।
न ह्यविरुद्धविषयत्वे सति विरुद्धविषयताङ्गीकर्तुमुचिता ।
उपाधिभेदादविरोध इति चेत् ।
के त उपाधयः ।
अंशा एवेति चेत् ।
त एव सन्तु तर्हि संयोगावाभावाश्रयाः किमं(शि)शवृत्तित्वेन विरुद्धेन अङ्गीकृतेन ।
अंशांशिनोरभेदेनातिप्रसङ्गस्यापास्तत्वादिति ।
*7,609*
प्रतितर्कपराहतत्वाच्चातिप्रसङ्गो ऽयमित्याह- यदीति ॥
यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम्
न्यायसुधा:
यदि कारणानां संयोगस्तदंशवृत्तिर्न स्यात्तदा तदारब्धेषु कार्येषु कारणापेक्षया परिमाणोत्कर्षो न स्यादित्यर्थः ।
अयमभिसन्धिः ।
कारणपरिमाणापेक्षया कार्ये परिमाणोत्कर्षस्तावत्सर्वत्र प्रचयजन्यः ।
द्वितूलके तथा दर्शनात् ।
प्रचयहीनतूलद्वयजन्यरज्जुद्रव्ये तदभावोपलम्भाच्च ।
प्रचयश्च कारणयोः प्रशिथिलः संयोगः ।
प्रशिथिलता च संयोगस्य केषुचिदंशेषु वृत्तिः केषुचिदवृत्तिरेव ।
नान्या ।
अनिरूपणात् ।
ततः संयोगस्यांशवृत्तित्वाभावे प्रचयो ऽसौ न भवतीति कारणाभावादुत्कृष्टपरिमाणोत्पादो न स्यादिति ।
*7,610*
अस्त्वन्यस्य संयोगो यथातथा ।
प्रस्तुते परमाणौ संयोगस्यांशवृत्तित्वाभावे नातिप्रसङ्ग इति चेन्न ।
अन्वयव्यतिरेकाभ्यां कारणपरिमाणोत्कृष्टस्य कार्यपरिमाणस्य प्रचयाख्यांशवृत्तिसंयोगजत्वावधारणात्कारणाभावे च कार्याभावनियमात्परमाणुसंयोगस्यांशवृत्तित्वाभावे तत्कार्ये द्वयणुके परमाणुपरिमाणादुत्कृष्टपरिमाणं नोत्पद्येतेत्यस्यैव बाधकस्य सत्त्वात् ।
नन्विदमिष्यापादनम् ।
परमाणुतो द्वयणुके परिमाणोत्कर्षाभावादित्यत आह- परमाणोरिति ॥
परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः
*7,611*
न्यायसुधा:
परमाणुपरिमाणादणोद्वर्यणुकस्य महत्ता परिमाणोत्कर्षो नास्तीति वचो ऽद्भुतं स्वव्याहतं प्रमाणविरुद्धं चेत्यर्थः ।
अयमाढ्यो ऽयं परमाढ्य इतिवदणुपरमाणुशब्दाभ्यामेव परिमाणतारतम्यावगतेस्तदभाववचनं स्वव्याहतं भवति ।
द्वितन्तुकपरिमाणवद(संमृदि)समुदितावयवजन्यद्रव्यपरिमाणत्वेन द्वयणुकपरिमाणस्य परमाणुपरिमाणादुत्कर्षस्यानुमानावगत्वाच्चेति ।
ननु यत् कारणपरिमाणजन्यमुत्कृष्टपरिमाणं तदेव प्रचयजन्मय् ।
त्र्यणुकपरिमाणवद्द्वयणुकपरिमाणमपि कारणपरिमाणजन्यं न भवति ।
किन्तु कारणसंख्याजन्यमेव ।
तत्कथं परमाणोः प्रचयाभावे द्वयणुके परिमाणोत्कर्षानुत्पादापादनमित्यत आह- अणूनामिति ॥
अणूनां प्रथिमापेक्षां विनैव तृयणुके ऽपि सः ।
परमाणोर्महत्त्वं च विनेत्येतद् वचः कथम् ॥ मनुव्_2,2.111च्-f ॥
न्यायसुधा:
द्वयणुकानां परिमाणोत्कर्षापेक्षां विनैव संख्यामात्रेण त्र्यणुके स परिमाणोत्कर्षो जायते ।
तथा परमाणोर्महत्त्वं परिमाणोत्कर्षं विना केवलसंख्यया द्वयणुके परिमाणोत्कर्षो जायत इत्येतद्वचः कथं घटते ।
महद्दीर्घवद्वेति निरस्तत्वादिति भावः ।
चापिशब्दावितरेतरसमुच्चये ।
अत्र परिमाणमात्रग्रहणे कर्तव्ये प्रथिमेति महत्त्वमिति चोक्तिर्विसदृशपरिमारत्वस्यानपेक्षाहेतोः निराकरणं स्मारयितुमिति ।
*7,613*
अंशांशिनोरत्यन्ताभेदो भेदाभेदौ चेति यदुक्तं तद्विशदयति- अंशिन इति ॥
अंशिनो ऽंशैरभेदो ऽयमंशेन तु भिदाभिदा
न्यायसुधा:
यथा गगनादेर्यावदंशभाविनोंऽशिनः स्वांशैरत्यन्ताभेदस्तथा पटादेरंशिनो ऽपि सर्वैरंशैः अत्यन्ताभेदः एकैकांशेन तु भिदाभिदा ।
अयमित्युत्तरवाक्येन सम्बद्धयते ।
नन्वेतदयुक्तम् ।
सर्वतन्तुभावे ऽपि कदाचित्पटस्याभावात् ।
खण्डिते भेदाभेदस्वीकारात् ।
अत एकेनैव सर्वैरपि पटस्य भेदाभेदावेवोपचितौ ।
तथाचोक्तं ब्रह्मतर्के ।
"तन्तुभ्यो ऽन्यः पटः साक्षात्कस्य दृष्टिपथं गतः ।
अनन्यश्चेत्तन्तुभावे पटाभावः कुतो भवेत्ऽ; इति ।
उच्यते ।
व्यतिषङ्गविशिष्टा हि तन्तवो ऽवगम्यते ।
नच तद्भावे कदापि पटाभावः ।
तस्माद्वयतिषङ्गविशेषविशिष्टैः सर्वतन्तुभिः पटस्यात्यन्ताभेद एव ।
अविवक्षितव्यतिषङ्गैः सर्वतन्तुभिस्तु भेदाभेदावेवेति न कश्चिद्विरोधः ।
नन्वेवं तर्हि व्यतिषक्ततन्तुव्यतिरेकेण पटाभावे परमाणुपुञ्जवादापत्तिरिति ।
मैवम् ।
यथा हि गुणानां द्रव्याभेदे(ऽपि) न द्रव्यं निर्गुणम् ।
यथा च परेषां सामान्यादावतिरिक्तसत्ताभावे(ऽपि) नासत्त्वम् ।
तथा व्यतिषक्ततन्तव एव पटस्तथापि न पटाभावः ।
किन्तु सति व्यतिषक्तास्तन्तवः पटश्च ।
स च तेभ्यो न भिद्यते इति ।
कथमेतदिति चेत् ।
विशेषशक्तयैवेति ब्रूमः ।
*7,616*
ननु व्यतिषक्तसर्वतन्तुभ्यो ऽपि पटस्य भेदो ऽङ्गीकार्यः ।
तन्तुव्यतिषङ्गानन्तरं पटस्य जायमानत्वात् ।
कथं चैकैकतन्तुनाभेदः एकैकत्र पटबुद्धयभावादित्यत आह- सर्वेति ॥
सर्वप्रत्यक्षविषयः कथमेव ह्यपोह्यते
न्यायसुधा:
उक्तो ऽयमर्थः सर्वप्रत्यक्षविषयो यस्मात्तस्मात्कथमेवापोद्यते ।
एतदुक्तं भवति ।
अस्ति तावद्वयतिषक्तसर्वतन्तूनां पटस्य चाभेदे प्रत्यक्षम् ।
तत्प्रतीतेः सम्बद्धवस्तुद्वयप्रतीतिवैलक्षण्यस्य साक्षिसिद्धत्वात् ।
नच भेदे प्रमाणमस्ति ।
येन सो ऽपि स्वीकरिष्यते ।
जायतां नाम तन्तुव्यतिषङ्गं पटमाचक्ष्महे ।
किन्तु व्यतिषङ्गे सति यत्तन्तूनां विशिष्टं रूपम् ।
नचैकैकतन्तुपरित्यागे सर्वतन्तवो नाम सन्ति ।
अतस्तत्राप्यस्त्येवाभेदप्रतीतिः ।
एकैकत्र पटबुद्धयभावस्तु भेदमाक्षिपति ।
नतु प्रत्यक्षसिद्धमभेदमपवदतीति ।
*7,621*
अथापि स्यात् ।
अवयव्यादीनामवयवादिभिरभेदो नोपपद्यते ।
एको ह्यवयव्यनेके चावयवाः ।
तदभेदे ऽवयवानामप्यभेदो ऽवयविनो वा भेदः प्रसज्येत ।
तथा गुणाश्च केचिदनेकाश्रिताः ।
एकैव हि संयोग्वयक्तिर्द्वयोर्द्वयोर्वर्तते ।
तथा विभागव्यक्तिरपि ।
सङ्खया च द्विविधा ।
एकत्वानेकत्वभेदात् ।
तत्रैकत्वस्यैकद्रव्यगतत्वे ऽपि द्वित्वादिकमेनेकाश्रितम् ।
एवं पृथक्तवमपि द्विविधम् ।
एकपृथक्तवमनेकपृथक्तवं च ।
तत्रैकपृथक्तवस्यैकद्रव्यवृत्तित्वे ऽपि द्विपृथक्तवादिकमने(कद्रव्याश्रि)काश्रितमेव ।
एवंच गुणानां गुणिनैक्ये संयोगाद्याश्रयानेकद्रव्याभेदो वा संयोगादिभेदो वाऽपद्येत ।
सामान्यं चैकमनेकाश्रितम् ।
तस्य व्यक्तयभेदे व्यक्तीनामप्यभेदः सामान्यस्य वा भेदः प्रसज्येतेत्यतः संयोगविभागपृथक्तवानां तावदनेकाश्रितत्वं नास्तीत्याह- संयोगश्चेति ॥
संयोगश्च विभागश्च भेदश्चैव पृथक् पृथक्
न्यायसुधा:
भेद इति पृथक्तवमुच्यते ।
चशब्दा इतरेतरयोगे ।
पृथक्पृथगेव एकैकद्रव्याश्रिता एवेत्यर्थः ।
ततश्चैकेन गुणेनाभिन्नत्वे द्रव्ययोरप्यभेदः स्यादित्यतिप्रसङ्गस्यापादकासिद्धिः ।
अनेकद्रव्याभिन्नत्वे गुणस्यापि भेदः स्यादित्यस्येष्यापत्तिर्दूषणमित्युक्तं भवति ।
*7,624*
ननु घटपटसंयोगविभागभेदा घटपटसम्बन्धितयानुभूयते ।
तत्कथमेकैकाश्रिताः ।
तथात्वे चैकैकस्मिन्नेव संयुक्तादिप्रत्ययप्रसङ्ग इत्यत आह- अन्योन्येति ॥
अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते
न्यायसुधा:
प्रतियोगः प्रतियोगित्वम् ।
अन्योन्यस्य प्रतियोगो ऽन्योन्यप्रतियोगः ।
यत्संयोगादिरुभयोरपि दृश्यते तदन्योन्यप्रतियोगेन हि निमित्तेन ।
अत्रोभयोरपीत्यनेकोपलक्षणम् ।
भेदस्य बहुसम्बन्धितयापि प्रतीतेः ।
एतदुक्तं भवति ।
घटप्रतियोगिकः संयोगादिः पटे ऽस्ति ।
तथा पटप्रतियोगिको घटे ऽस्ति ।
तस्मादुभयसम्बन्धितया प्रतिभासो ऽतिप्रसङ्गाभावश्च युज्यत इति ।
*7,625*
स्यादेतद्यदि संयोगादीनामेकैकवृत्तित्वे प्रमाणं स्यात् ।
तदेव नास्तीत्यत आह- अन्योन्येति ॥
पृथक् पृथगेवेत्यनुवर्तते ।
अन्योन्यप्रतियोगेन हेतुना संयोगादिकमुभयोरपि पृथक् पृथगेव हि दृश्यते ।
अयमर्थः ।
पटो घटेन संयुक्तो घटाद्विभक्तो घटाद्भिन्न इति पटधर्मः संयोगादिघर्टप्रतियोगिकतया प्रतीयते ।
यश्च यत्प्रतियोगिको नासौ तद्धर्मः ।
यथा स्थविरप्रतियोगिकमपरत्वं न स्थविरधर्मः ।
तस्मान्नायं संयोगादिर्घटधर्मः ।
एवं घटधर्मः संयोगादिः पटप्रतियोगितयोपलभ्यमानो न पटधर्मो भवितुमर्हति ।
तथाच पृथक् पृथगेव संयोगादिरनेकधर्मो ऽवगम्यत इति ।
*7,626*
नन्वस्तु संयोगविभागयोरियं गतिः ।
नतु पृथक्तवे ।
यद्धि घटात्पटः पृथक् पटाच्च घटः पृथगित्यन्योन्यप्रतियोगिकतया प्रतीयते तदेकपृथक्तवं पृथक् पृथगेवाभ्युपगम्यते ।
यत्तु भिन्नाविमौ भिन्ना इमे इति प्रतीयते तदनेकपृथक्तवमनेकाश्रितमेव प्रतियोग्यनिरूप्यस्यैकाश्रित(श्रय)त्वे मानाभावादित्यत आह- भिन्ना इति ॥
भिन्ना इति तु भेदानां समुदायो हि दृश्यते ।
यथैव च पदार्थानाम् ... ॥ मनुव्_2,2.114अ-च् ॥
न्यायसुधा:
इमे भिन्ना इत्यादिप्रतीतौ भेदानां समुदायो ऽनेकत्वं हि दृश्यते ।
कथम् ।
यथैव च पदार्थानाम् ।
एतदुक्तं भवति ।
यथा हि शुक्ला इमे पटा इत्यादिप्रतीतावनेके पटा अनेकानि च तद्विशेषणानि शौक्लयान्यवभासन्ते ।
तथा भिन्ना इम इत्यादिप्रतीतावप्यनेके पदार्था अनेके च भेदाः प्रकाशन्ते इत्यभ्युपगन्तव्यम् ।
नच विशेषप्रमाणमस्ति ।
येनात्रान्यो विधिर्भविष्यतीति ।
एतेन संयुक्ताविमावित्यादिप्रतीतिरपि व्याख्याता वेदितव्या ।
*7,628*
नन्वनयोर्भेदो ऽमीषां भेद इति प्रतीतावनेकाश्रितं पृथक्तवमुपलभ्यते ।
तत्कथमेतदिति चेत् ।
किमत्रानेकस्य धर्मितयावभासं प्रमाणयसि, उत धर्मस्यैकत्वावभासम्, उतोभयावभासम् ।
पक्षत्रये ऽप्युत्तरमाह- अनयोरिति ॥
... अनयोर्भेद इत्यपि
इतो ऽमुष्यामुतो ऽप्यस्य भेदो दृष्टो द्विधर्मिकः
न्यायसुधा:
अस्यामपि प्रतीतावितो घटादमुष्य पटस्यामुतः पटादमुष्य घटस्य भेद इत्येवं द्विधर्मिको भेदो दृष्टः ।
तथाचानेकस्य धर्मित्वे ऽपि धर्मस्यैकत्वावभासासम्मतेर्नानेनाभिमतार्थसिद्धिरित्युक्तं भवति ।
अनेनैवानयोः संयोग इत्यादिप्रतीतिरपि व्याख्याता द्रष्टव्या ।
ननु वचनलिङ्गा हि वक्तुरभिप्रायाः ।
भेद इति चैकवचनं प्रयुज्यते ।
तेन अनुमीयते ऽस्यां प्रतीतावेक एव भेदो द्विधर्मिको दृष्ट इति ।
तस्मादन्योन्यप्रतियोगिकानेकधर्मिकानेकभेदविषयत्वं प्रतीतेर्न वक्तुं शक्यमित्यत आह- तत्रेति ॥
तत्रैकवचनं यत्तद् विप्राणां भोजनं यथा
*7,629*
न्यायसुधा:
तत्र अनयोर्भेद इत्यादिवाक्ये, भेदद्वये वा ।
भोजनमित्येकवचनं यथा तथेत्यर्थः ।
एतेन एकवचनेन प्रतीतेरेकार्थविषयत्वानुमाने ऽनैकान्तिकत्वं समुदायविषयत्वेनान्यथासिद्धिश्चेत्युक्तं भवति ।
अवयविनस्त्वेकत्वे ऽपि न कश्चिद्दोषः ।
आकाशस्य स्वावयवैरभेदवदवयवानामप्यभेदस्य अङ्गीकृतत्वात् ।
पटस्य च यादृशेन तन्तुसमुदायेनात्यन्ताभेदो ऽभिहितः स एक एव ।
व्यतिषक्तानां तन्तूनां विशिष्टाकारो ह्यसौ ।
स चागन्तुकत्वात्तन्तुभ्यो भिन्नाभिन्न एव ।
एकैकेन तन्तुना सर्वैश्चभेदे ऽपि भेदस्यापि विद्यमानत्वान्नान्योन्याभेदप्रसक्तिरिति स्वयमेवोह्यतामिति नोक्तम् ।
*7,631*
नन्वेवं तर्हि संयोगादेरप्येकैकाश्रितत्वं न वक्तव्यम् ।
अयावद्द्रव्यभावित्वेन भेदाभेदाभ्यामेवोक्ताक्षेपसमाधानादिति ।
सत्यम् ।
तथापि वस्तुस्थितिरियमुक्तेत्यदोषः ।
अपि चाजसंयोगे नायं समाधिः सम्भवति ।
स एव नास्ति प्रमाणाभावादिति चेन्न ।
परमाणोः आकाशादिसंयोगाङ्गीकारात् ।
सो ऽपि परमाणुकर्मज इति चेन्न ।
प्रागसयोगप्रसङ्गात् ।
अंशभेदान्नेति चेन्न ।
स्वाभाविकस्यानभ्युपगमात् ।
औपाधिकस्य च निराकरिष्यमाणत्वात् ।
किञ्चाकाशमीश्वरेण संयुज्यते द्रव्यत्वाद्घटवत् ।
नच मूर्तत्वमुपाधिर्विशेषणवैयर्थ्यात् ।
परिच्छिन्नपरिमाणवत्त्वेनैवालम् ।
परिच्छिन्नत्वविशेषणं तु व्यर्थमेव ।
आकाशमीश्वरेण न संयुज्यते अमूर्तत्वाद्रूपवदिति चेन्न ।
अद्रव्यत्वस्योपाधित्वादिति ।
*8,1*
इदानीं सामान्यस्यैकैकाश्रितत्वमाह- नस्त्वादिकमिति ॥
नरत्वादिकमप्येवं ...
न्यायसुधा:
एवं संयोगादिवदेकैकवृत्तीत्यर्थः ।
सामान्यमपीति वक्तव्ये ब्राह्मणत्वादेरयावद्द्रव्यभावित्वेनापि तत्र परिहारः सम्भवतीति ज्ञापयितुं नरत्वादिकमित्युक्तम् ।
उपपादनं च नैकप्रकारमिति योगविभागः ।
कुतो नरत्वादिकं प्रतिव्यक्तिभिन्नमित्यत आह- तत्तदिति ॥
... तत्तद्धर्मतयेयते
न्यायसुधा:
यथाहि नरेषूपलभ्यमानेषु तदीयं रूपादिकं प्रतिनियतमुपलभ्यते ।
तथा नरत्वादिकमपि तत्तन्नियतधर्मतयैवेयते दृश्यते इति प्रत्यक्षमुक्तम् ।
यद्वा यो ऽनेकाश्रितो धर्मो नासावेकैकप्रतीतौ प्रतीयते, यथा द्वित्वादि ।
प्रतीयते च नरत्वादिकमेकैकप्रतीतावतो नानुगतमित्यनुमानमनेन सूचयति ।
*8,4*
किञ्च नरत्वादिकं नानेकानुवृत्तं धर्मत्वाद्रूपादिवत् ।
अस्याभासोद्धारं करोति- नेति ॥
न सर्वधर्म एको ऽस्ति ...
न्यायसुधा:
सर्वधर्मः अनेकवृत्तिधर्मः ।
तेन धर्मत्वं न भग्नव्याप्तिकमिति शेषः ।
पक्षधर्मता तु स्फुटैवेति ।
नन्वनेकत्वसङ्खया तावदनेकाश्रिता ।
एकैकस्मिन्द्वित्वादेः ।
शङ्कितुमप्यशक्यत्वात् ।
नहि द्वित्वादिकमेकैकप्रतीतौ प्रतीयते ।
नच प्रतियोगिनिरूप्यम् ।
धर्मितयैवानेकेषामनुभवात् ।
अतो धर्मत्वहेतोस्तत्रानैकान्त्यमित्यत आह- समुदायस्त्विति ॥
... समुदायस्तु भिन्नगः
न्यायसुधा:
समुदायो ऽनेकत्वं भिन्नगो ऽनेकाश्रितः ।
सत्यमनेकत्वसङ्खयानेकाश्रिता ।
तथापि तदन्यत्वेन हेतुविशेषणाददोष इति भावः ।
सा चापेक्षाबुद्धिजन्यत्वादयावद्द्रव्यभाविनी भिन्नाभिन्नेति नाश्रययोरभेदापत्तिः ।
*8,6*
प्राभाकरास्त्वाहुः ।
सादृश्यं तावदेकमनेकानुगतं, तत्र धर्मत्वहेतोव्यर्भिचारः नच वाच्यं सामान्यमेव सादृश्यमतः पक्षे व्यभिचारचोदनेयमनुपपन्नेति ।
जातिसङ्करप्रसङ्गात् ।
अस्ति हि कयोश्चिदश्वरासभवक्तयोः सादृश्यं, तत्र यदि सादृश्यमश्वत्वात्परम् तदा सर्वेषामप्यश्वानां रासभसादृश्यं स्यात् ।
यदि चापरं तदा रासभव्यक्तावप्यश्वत्वं स्यात् ।
एवं रासभत्वे ऽपि वाच्यम् ।
न सादृश्यमश्वरासभवृत्ति ब्रूमः ।
किन्तु तदवयवृत्ति ।
द्रव्यगुणावयवकर्मवृत्तीनि सामान्यादेव हि सादृश्यनामन्यभ्युपगच्छामो ऽतो न जातिसङ्करदोष इति चेन्न ।
गौर्गवयेन सदृशीत्यादिव्यवहाराणाममुख्यत्वप्रसङ्गात् ।
नच सामान्यं प्रतियोगिनिरूप्यम् ।
तन्निरूप्यं च सादृश्यमिति स्फुटो ऽनयोर्भेद इत्यत आह- एतादृशं चेति ॥
एतादृशं च सादृश्यं पदार्थेषु पृथक् पृथक्
न्यायसुधा:
भवतु सादृश्यं सामान्यतो भिन्नं तथापि तत्पदार्थेषु पृथक् पृथगेवेति न तेन धर्मत्वहेतोर्व्यभिचारः ।
एतादृशमिति तत्रोक्तहेत्वतिदेशः ।
नहि सादृश्यस्यानेकवृत्तित्वे प्रमाणस्यानेन सादृश्यमस्यानेन शुक्लाविमावित्यादिवदुपपत्तेः ।
अनयोः सादृश्यमित्यादेश्चास्यानेन सादृश्यमस्यानेन सादृश्यमित्युपपत्तेः ।
एकवचनस्या (च) विप्राणां भोजनमित्यादिवदुपपन्नत्वत्प्रतियोगिनो धर्मित्वासम्भवाच्च ।
एकाश्रितत्वे ऽपि प्रतियोगिनिरूप्यत्वेनैकैकप्रतीतावपि अप्रतीतिसम्भवाच्चेति ।
*8,10*
नरत्वादिसामान्यस्य प्रतिव्यक्तिभिन्नत्वे ऽनुमानान्तरमाह- एकस्मिन्निति ॥
एकस्मिन् स विनष्टे ऽपि यतो ऽन्यत्रैव दृश्यते
न्यायसुधा:
एकस्मिन्नरे नष्टे तदाश्रितं नरत्वं तावन्नष्टम् ।
तथापि स नरत्वलक्षणो धर्मो ऽन्यत्र नरान्तरे दृश्यत एव यतो ऽतो ऽपि नरत्वादिकमित्युक्तेन सम्बन्धः ।
यद्वा विनष्टं विनाशः सह विनष्टेन वर्तत इति सविनष्टं तस्मिन्विनाशवतीति यावत् ।
अथवाऽश्रयेण सह विनष्टं सविनष्टं तस्मिन्निति योजना ।
अयमत्र प्रयोगः ।
नष्टानष्टवर्ति नरत्वं भेदवत् विरुद्धधर्माश्रयत्वाच्छायाऽतपवत् ।
नचासिद्धो हेतुः ।
नष्टाश्रयस्य नरत्वस्य नष्टत्वात् ।
अन्यस्य तु दृश्यमानत्वेन अविनष्टत्वात् ।
यद्वेदं नरत्वं विनष्टान्नरत्वाद्भिद्यते ऽविनष्टत्वाद्घटवत् ।
यदि वा तन्नरत्वमविनष्टान्नरत्वाद्भिद्यते विनष्टत्वाद्घटवदिति ।
*8,12*
भवेदेतद्यदि विनष्टनराश्रितमपि नरत्वं विनश्येत् ।
नचैतदस्ति तस्य नित्यत्वादित्यत आह- कुत इति ॥
कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते
न्यायसुधा:
नष्टनराश्रितस्यापि नरत्वस्य पुनः सत्त्वं न निष्प्रमाणकं प्रत्यक्षसिद्धत्वात् ।
नष्टानष्टनराश्रितं नरत्वं तावदेकम् ।
तच्चाविनष्टे नरे पुनरुपलभ्यते ।
अत एवानुमानमपि बाधितविषयमित्यत आह- एकत्व इति ॥
*8,13*
एकत्वे नास्ति मानं च ...
न्यायसुधा:
स्यातेदद्यद्येतयोरेकत्वे मानं स्यात् ।
नच तदस्तीत्यर्थः ।
नच प्रत्यभिज्ञानं प्रमाणम् ।
तस्य स्वरूपतः प्रमाणत्वेन सन्दिग्धत्वात् ।
चशब्देनान्योन्याश्रयत्वं समुच्चिनोति ।
एकत्वे हि पुनः (तस्य) सत्त्वसिद्धिस्तत्सिद्धौ चैकत्वसिद्धिरिति ।
*8,13f.*
एवं सामान्यादीनां प्रत्याश्रयं भेदे प्रत्यक्षानुमानान्युक्तवा श्रुतिमप्याह- श्रुतिरपीति ॥
... श्रुतिरप्याह सादरम्
भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि ।
स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः
अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः ।
न केनचिदभिन्नो ऽतो भगवान् स्वगुणैर्विना
इति ...
न्यायसुधा:
आह सामान्यादीनां प्रत्याश्रयं भेदमिति शेषः ।
भिन्नाः परस्परतो भेदवन्तः ।
अन्योन्यं भिन्ना धर्मा येषां ते भिन्नधर्माः ।
भिन्नधर्मा इत्यनेनाश्रयतो ऽपि भेदो ऽभिहित इति शङ्कानिरासार्थमुक्तम्- स्वैरिति ॥
स्वरूपैरपि यथा भगवान्मत्स्यादिभिः ।
स्वैः स्वैर्धर्मैरभिन्नाश्चेत्यस्यापवादो ऽनिवृत्तेति ।
अनिवृत्ते ऽप्याश्रये विनाशो येषां ते तथोक्ताः ।
यथाऽमघटश्यामतादयः ।
उभयरूपका भिन्नाभिन्नाः ।
न केनचिदिति श्रुतिः स्वप्रकृतमुपसंहरति ।
अत्र सर्वश इत्यादिवचनादुक्तविवरणाच्चादरः प्रतीयते ।
*8,15*
ननु घटादेरामद्रव्यस्याग्निना सम्बद्धस्य, अग्न्यभिघातान्नोदनाद्वा तदारम्भकेषु परमाणुषु, कर्माण्युत्पद्यन्ते ।
तेभ्यो विभागाः, विभागेभ्यस्संयोगविनाशाः ।
संयोगविनाशेभ्यः कार्यद्रव्यं विनश्यति ।
तस्मिन्विचष्टे परमाणुष्वग्निसंयोगादौष्ण्यापेक्षाच्छ्यामादीनां विनाशः ।
पुनरन्यस्मादग्निसंयोगादौष्ण्यापेक्षात्पाकजा जायन्ते ।
तदनन्तरं भोगिनामदृष्टापेक्षादात्माणुसंयोगादुत्पन्नपाकजेष्वणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगाद्द्वयणुकादिक्रमेण कार्यद्रव्यमुत्पद्यते ।
तत्र च कारणगुणप्रक्रमेण रूपाद्युत्पत्तिर्भवति ।
तत्कथमामघटश्यामत्वादीनामयावद्द्रव्यभावित्वमुच्यते ।
मैवम् ।
अत्र प्रमाणाभावात् ।
*8,19*
नोदनाद्युत्पत्तौ कर्मोत्पत्तिः प्रमाणम्, कर्मसु विभागाः, तेषु पूर्वसंयोगनिवृत्तिः, तत्र कार्यद्रव्यविनाशः, तत्र च पूर्वरूपादिपरावृत्तिः, तथा रूपाद्यन्तरोत्पत्तिः स्थूलद्रव्योत्पत्तौ प्रमाणम्, सा तदवयवपरम्परायाम्, सा द्वयणुके, तदुत्पत्तिः परमाणुसंयोगे, स च तत्क्रियायम्, सा तदवयवपरम्परायाम्, सा तदवयवपरम्परायाम्, सा द्वयणुके, तदुत्पत्तिः परमाणुसंयोगे, स च तत्क्रियायाम्, सादृष्टवदात्मसंयोग इति चेन्न ।
परमाणुष्विव कार्यद्रव्येषु पूर्वरूपादिनिवृत्तेरपूर्वरूपाद्युत्पत्तेरुपपत्तेः ।
पार्थिवावयविरूपादयः स्वाश्रयविनाशादेव विनश्यन्ति अवयविरूपादित्वात् दग्धपटरूपादिवत् ।
कारणगुणेभ्य एवोत्पद्यन्ते तत एव तद्वदेवेति चेन्न ।
क्वचित्सत्याश्रये ऽपि रूपा(दीनां वि)दिविनाशे ऽग्निसंयोगजत्वे च विरोधाभावात् ।
अन्यथा कार्यद्रव्यं संयोगविनाशादेव विनश्यति कार्यद्रव्यत्वात् द्वयणुकवदित्यादिकमपि स्यात् ।
*8,21f.*
नन्वग्निसंयोगः सर्वावयवेष्वस्ति न वा ।
नचेत्तत्र रूपादिविनाशोत्पादासम्भवः ।
तथा चावयवावयविनोर्विलक्षणरूपादिमत्त्वं स्यात् ।
आद्ये ऽग्न्यवयवानां सर्वत्र प्रवेशेन अवयविनाशस्यावर्जनीयत्वमिति चेत् ।
अवयविद्रव्याणां सच्छिद्रत्वेन प्रवेशोपपत्तेः ।
संस्थानापगमाभावेनावयविविनाशायोगात् ।
तथाविधस्यैवोदाहृतत्वादित्यलम् ।
*8,25*
एवं सामान्यस्यानेकवृत्तित्वं प्रमाणैरपाकृतम् ।
तदयुक्तम् ।
तस्यानेकवृत्तित्वाभावे बाधकसद्भावात् ।
*8,26*
तथाहि ।
सर्वेषु गोपिण्डेषु यद्यनुगतमेकं गोत्वसामान्यं न स्यात् तदा तत्र गोशब्दसङ्गतिग्रहणलक्षणा व्युत्पत्तिर्न स्यात् ।
वृद्धव्यवहारोपदेशादिना हि व्युत्पत्तिर्भवति ।
नच प्रतिपिण्डं व्यवहारादिकमस्ति ।
तेषामानन्त्येन व्युत्पत्तावेव पुरुषायुषपर्यवसानप्रसङ्गात् ।
अतो यत्रोपदेशादिकं तत्रैव व्युत्पत्तिर्व्यवहारश्चेति स्यात् ।
अथ विनैवैकेन निमित्तेनोपदेशाद्यभावे ऽपि गोपिण्डान्तरे गोशब्द(सङ्गतिं)सङ्केतं गृह्णीयात् ।
तदाश्वपिण्डे ऽपि किन्न गृह्णीयात् ।
अविशेषात् ।
अनुगतगोत्वे तु गोशब्दवृत्तिनिमित्ततयोपदेशादिनावगते नायं दोषः प्रादुष्यात् ।
तस्मादनेकेष्वेकशब्दसङ्गतिग्रहणान्यथानुपपत्त्यानुगतमेकमभ्युपगन्तव्यमेव ।
*8,28*
ननु कथं तर्हि सामान्यरहितेषु पृथिव्यादिषु भूतमूर्तादिशब्दसङ्गतिग्रहणम् ।
उच्यते ।
तत्रापि बाह्यैकेन्द्रियग्राह्यगुणाश्रयत्वेयत्तावच्छिन्नपरिमाणत्वाद्युपाधिनिबन्धनैव व्युत्पत्तिः ।
उपाधीनां व्यावृत्तत्वे ऽप्यनुगतसामान्याश्रयत्वेन दोषाभावात् ।
*8,34*
किञ्चानुगततन्तुत्वपटत्वादिसामान्याभावे कार्यकारणभावावधारणं न स्यात् ।
ततश्च कार्यार्थिनः कारणे प्रवृत्तिर्न स्यात् ।
*8,35*
कायर्कारणभावे ह्यन्वयव्यतिरेकौ वोपदेशो वा प्रमाणम् ।
नच व्यावृत्तेषु वस्तुष्वन्वयव्यतिरेकग्रहणमुपपद्यते ।
नियमव्यभिचारयोदुर्ज्ञानत्वात् ।
*8,36*
उपदेशश्चानन्तेषु न सम्भवत्येवेत्युक्तम् ।
*8,37*
अपि च व्याप्तिज्ञानमप्यनुगतसामान्याभावे ऽनुपपन्नं स्यात् ।
व्यावृत्तवस्तूनामन्वयव्यतिरेकावगमानुपपत्तेः ।
*8,37f.*
सामान्यापवादन्यायश्चानुगतसामान्याभावे न भवेत् ।
द्वयोः प्रमाणयोरेकस्वरूपविषयत्वे (ह्य)त्वन्यतरस्याप्रामाण्यमेव स्यात् ।
भिन्नविषयत्वे नापवादविषयो ऽस्ति ।
अस्ति च तावद्गौरयमित्यनुगताकारप्रत्ययः ।
नचासौ व्यावृत्तेषु सम्भवति ।
भ्रान्तत्वप्रसङ्गात् ।
नचैतत्सवर्मन्यापोहनिबन्धनम् ।
तस्यापि प्रतिपिण्डं व्यावृत्तत्वात् ।
अनुगतत्वे वा किमपराद्धं सामान्येन ।
तथाच विधिरूपः प्रत्ययो ऽपि समाहितः स्यात् ।
*8,40*
एवंचाङ्गीकार्ये गोत्वादेरनुगमे नित्यत्वमप्यनिवार्यमित्यत आह- व्युत्पत्तिरपीति ॥
... व्युत्पत्तिरपि हि सादृश्येनैव गम्यते
न्यायसुधा:
अपिपदं कार्यकारणभावावधारणादिसमुच्चयार्थम् ।
हिशब्दो यस्मादित्यर्थे ।
गम्यते अभ्युपगम्यते ऽवगम्यत इति ।
अस्ति तावत्सादृश्यं नाम पदार्थान्तरम् ।
गोसदृशो गवय इत्याद्यध्यक्षसिद्धत्वात् ।
तेनैव चोपपद्यते
व्युत्पत्त्यादिकम् ।
तस्मान्न तदर्थं गोत्वादेरनुगतत्वं कल्पनीयम् ।
*8,41*
सादृश्येन तावत् शब्दव्युत्पत्तिप्रकारं दर्शयितुमुपक्रमते- सर्वेष्विति ॥
सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते
*8,41f.*
न्यायसुधा:
बहवो हि शब्दसङ्गतिग्रहणोपायाः ।
तत्र यदोपदेशतो व्युत्पद्यते तदायं गौरित्युपदेशवाक्यं व्याप्तिग्राहकतयोपयुज्यते ।
कथम् ।
सादृश्योपधानेन सर्वेषु गोपिण्डेषु युगपदेककालमयमित्यादिशब्दः प्रवर्तते ।
अयं गौरित्यस्यायमेतत्सदृशाः सर्वे ऽपि गोशब्दवाच्य इत्यर्थो वक्त्रा अभिप्रेयते ।
श्रोत्रा चावधार्यत इति यावत् ।
द्वयोरपि सार्वत्रिकव्युत्पत्तिकामत्वेन वाक्यस्यैकपिण्डविषय(क)त्वकल्पनानुपपत्तेरिति भावः ।
*8,43*
यद्ययं गौरित्यादिवाक्यं नैकपिण्डमात्रविषयम् ।
किन्त्वयं चैतत्सदृशाश्च सर्वे गोशब्दवाच्या इति व्याप्तिपरं तदा सङ्गतिग्रहणोत्तरकालं गामानयेत्युक्ते गोशब्दात्सर्वगोप्रतिपत्तिः स्यात् ।
अभीष्यगोप्रतिपत्तिस्तु जायते सा कथमिति तटस्थस्य चोद्यं परिहरति- तथापीति ॥
तथापि प्राप्तितस्त्वेकवचनाच्च विशेषतः ।
अभीष्यावगतिश्च स्याच् ... ॥ मनुव्_2,2.122अ-च् ॥
न्यायसुधा:
यद्यप्युपदेशो नैकपिण्डविशेषगोचरस्तथापि गामानयेत्युक्ते ऽभीष्यगोपिण्डावगतिः स्यादेव ।
कथम् ।
प्राप्तितो योग्यत्वात् ।
अतीतानागतानामत्यन्तविप्रकृष्टदेशस्थानां गवामानयनयोग्यताभावमालोच्य तत्परित्याग इत्यर्थः ।
तर्हि सन्निहितसर्वगोप्रतिपत्तिः कुतो न भवति इति चेन्न ।
गामित्येकवचनात् ।
तथापि यस्य कस्यचिदेकस्य गोपिण्डस्य प्रतिपत्तिः स्यात् ।
नाभीष्यस्यैवेति चेन्न ।
शबलं बहुलां कालाक्षीमित्यादिविशेषणात् ।
एतदुक्तं भवति ।
गोशब्दाद्भवत्येव सर्वगोप्रतिपत्तिः ।
किन्तु लिङ्गप्रकरणादिबलात्पिण्डविशेषे कार्यप्रतिपत्तिरिति ।
*8,45*
अस्त्वयं गौरित्यादिवाक्यं व्याप्तिपरम् ।
ततः किमित्यत आह- शक्तिरिति ॥
... छक्तिः सादृश्यगा यतः
तादृशो ऽयं च तच्छब्द इति ज्ञापयति स्फुटम्
न्यायसुधा:
यतो वाचकत्वशक्तिः शब्दस्य सादृश्यगा सादृश्यसम्बन्धिनी सादृश्य(स्य) व्यापिकेति यावत् ।
अस्माद्वाक्यादवधारितेति शेषः ।
अतस्तां शक्तिं तत्तद्विषयतया सादृश्यं स्फुटं ज्ञापयति ।
कथमित्यतः प्रयोगप्रकारं दर्शयति- तादृश इति ॥
चो यस्मादित्यर्थे ।
अयं परिदृश्यमानो यस्मात्तादृश उपदेशकाले सन्निहितेन पिण्डेन सदृशस्तस्मात् ।
तच्छब्दः स शब्दो यस्य वाचको ऽसौ तथोक्तः ।
इतिशब्दः प्रकारवाची ।
अयमत्र समुदायार्थः ।
व्युत्पत्त्यर्थं तावन्नानुगतं किमप्यङ्गीकरणीयम् ।
सादृश्येनैव तदुपपत्तेः ।
नच वाच्यं सादृश्यमप्यनुगतं चेत्किं सामान्येनापराद्धम् ।
व्यावृत्तत्वे कथं सार्वत्रिकव्युत्पत्त्यङ्गमिति ।
नहि सादृश्यं शब्दशक्तिविषयतया प्रवृत्तिनिमित्ततया वा अभ्युपगम्यते ।
किन्नाम लिङ्गतया ।
यथा हि गन्धवत्त्वं न पृथिवीशब्दवाच्यम्, नापि तत्प्रवृत्तिनिमित्तम्, किन्तु पृथिवीत्ववत्या व्यक्तेः पृथिवीशब्दवाच्यत्वे लिङ्गमेव ।
तथा तेते व्यावृत्तामपि तदवबोधे लिङ्गतयोपयुज्यते ।
तथा हि ।
यदायं गौरित्युपदेशपूर्विका व्युत्पत्तिस्तदा तद्वाक्यं व्याप्तिग्राहकम् ।
अयं चैतन्यसदृशाश्च सर्वे गोशब्दवाच्या इत्येवम्परत्वात् ।
व्यवहारादिपूर्विकायां तु व्युत्पत्तौ भूयोव्यवहारादिदशर्ने सादृश्यव्याप्यतावगमो भवति ।
ततश्चैतद्वाक्यादिनावगतव्याप्तिरित्यनुमीयते"अयं गोशब्दवाच्यो भवितुमर्हति तत्सदृशत्वात् यस्तत्सदृशस्स गोशब्दवाच्यस्तथा चायं तत्सदृशस्तस्माद्गोशब्दवाच्यःऽ; इति ।
*8,49*
नन्वत्र को दृष्टान्तः ।
उपदेशकाले सन्निहितो गोपिण्ड इति चेन्न ।
तस्य तत्सदृशत्वाभावात् ।
मैवम् ।
दृष्टान्तनियमस्य निरस्तत्वात् ।
नच सास्नादिमत्त्वमेव लिङ्गमस्तु किं सादृश्येनेति वाच्यम् ।
तस्य गोत्ववत्प्रतिव्यक्तिव्यावृत्तत्वात् ।
सादृश्यस्य तु व्यावृत्तत्वे ऽपि प्रतियोगिनिरूप्यत्वेनानुगतफलसाधकत्वानुभवात् ।
सास्नादिमत्त्वस्यापि सादृश्योपहितस्य लिङ्गत्वमभ्युपगच्छामः ।
नच वाच्यं गोसादृश्यमश्वे ऽप्यस्तीति तत्रापि गोशब्दवाच्यतानुमानप्रसङ्ग इति ।
जातिनिमित्तत्वे ऽप्येवं प्रसङ्गस्य समानत्वात् ।
जातिविशेषो निमित्ततयाङ्गीक्रियते यो ऽव्यभिचारीति चेत् ।
तर्हि सादृश्यविशेष एव लिङ्गं यो लक्षणभूत इति वदामः ।
*8,52*
एतेन कार्यकारणभावावधारणादिकमपि समाहितं वेदितव्यम् ।
सादृश्येनैव तदुपपत्तेः ।
अन्त्यविशेषे हि न किञ्चिदनुगतमस्ति, नाप्यनुगताश्रय उपाधिः ।
तद्भावे द्रव्यगुणकर्मवदत्यन्तव्यावर्तकत्वस्वरूपहानिप्रसङ्गात् ।
तथाप्यस्ति तत्र विशेषशब्दव्युत्पत्तिः अत्यन्तव्यावृ(त्ति)त्तबुद्धिं प्रति कारणत्वावधारणमित्यादि ।
तत्र परेणापि लक्षणरूपं सादृश्यमेवादरणीयमिति ।
*8,54*
एवमनुगतसामान्यानभ्युपगमेनैव व्युत्पत्त्यादिकं समर्थितम् ।
यस्तु मन्यते अनुगतसामन्येनैव व्युत्पत्त्यादिकं नान्यथेति तस्य बाधकमाह- जातितश्चेदिति ॥
जातितश्चेत् कथं तासु ...
न्यायसुधा:
यद्यनुगतजातिनिमित्तैव सर्वत्र व्युत्पत्तिः कार्यकारणभावावधारणादिकं च स्यात् ।
तदा तासु जातिषु कथं जात्यादिशब्दव्युत्पत्तिरनुगतबुद्धिकारणत्वावधारणं, गोत्वं नित्यं जातित्वादित्यादिव्याप्तिज्ञानमित्यादिकं स्यात् ।
जातिषु जात्यभावेन तत्र व्युत्पत्त्यादिकं न स्यादित्यर्थः ।
*8,54*
यदि वैयात्यात्कश्चिद्ब्रूयात्"अस्ति जातिष्वपि जातित्वं नाम जातिस्तद्वशात्तत्र सवर्मुपपद्यतेऽ; इति, तं प्रत्याह- तत्र चेदिति ॥
*8,55*
... तत्र चेदनवस्थितिः
न्यायसुधा:
यदि तत्र जातिष्वपि जातित्वं नाम जातिरङ्गीक्रियते तदानवस्थितिः स्यात् ।
तथाहि गोत्वादिजातिषु जातिशब्दप्रवृत्तिनिमित्तं या जातित्वं नाम जातिः सा न तावत्स्वरूपे वर्तते ।
स्ववृत्तेरप्रामाणिकत्वात् ।
अतः स्वव्यतिरिक्तास्वेव जातिषु वर्तत इति वाच्यम् ।
तथाच स्वव्यतिरिक्तजातिषु जातिशब्दप्रवृत्तावियं निमित्तं स्यान्न तु स्वरूपे ऽपि ।
अतस्तस्यां तद्वयतिरिक्तासु जातिष्वेकस्य जातिशब्दस्य प्रवृत्तौ निमित्तं जात्यन्तरमङ्गीकरणीयम् ।
तत्राप्येवमेवेत्यनवस्थेति ।
ननु गोत्वादिजातिषु जातित्वप्रयुक्तो जातिशब्दः ।
जातित्वे तूपदेशाधीनो भवतु ।
तस्या एकत्वादिति ।
मैवम् ।
न ह्यस्माभिः सादृश्यमिव भवता जातिः (जाति)शब्दप्रवृत्तौ ज्ञापकतयोपेयते ।
येन क्वचिदुपदेशो निवेश्यते ।
किन्तु निमित्ततया ।
तत्रोपदेशोपन्यासस्य क्वोपयोगः ।
*8,56*
स्थानान्तरे ऽपि बाधकमाह- तथैवेति ॥
तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम्
न्यायसुधा:
यथा जातिविज्ञानं जातित्वाभावेन दूषितं तथैव व्यक्तिविज्ञानं व्यक्तीनां व्यक्तिशब्दवाच्यत्वविज्ञानं तन्निमित्तव्यक्तित्वजात्यभावेन दूषितम् ।
द्रव्यगुणकर्माणि खलु व्यक्तय उच्यन्ते ।
नच तत्र व्यक्तित्वं नाम सामान्यमस्ति ।
सत्तया परापरभावाभावात् ।
तस्मात्तत्र व्यक्तिशब्दवाच्यत्वज्ञानं न स्यात् ।
मा भूद्वयतिरिक्तं व्यक्तित्वं सत्तैव व्यक्तिशब्दप्रवृत्तौ निमित्तं भविष्यतीति चेन्न ।
सामान्यस्य पर्यायप्रवृत्तौ निमित्तत्वात् ।
सद्वयक्तिशब्दयोरपर्यायत्वात् ।
अन्यथा संयोग्यादिशब्दानामपि द्रव्यादिशब्दपर्यायत्वं स्यात् ।
*8,58*
ननु शब्दमात्रस्य जातिनिमित्तत्वात्सत्तया परापरभावशून्यमपि द्रव्यगुणकर्मसु व्यक्तित्वमस्त्येवेत्यतो नोक्तदोष इत्यत आह- यदीति ॥
यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः
*8,58f.*
न्यायसुधा:
तर्हि तस्य व्यक्तित्वस्यापि विशेषेषु व्यक्तिषु प्रवेशः स्यात् ।
तथा चानवस्थितिरिति योजना ।
तथा हि ।
यः शब्दो ऽनेकवाचकः स सर्वो जातिनिमित्तक इति स्वीकृत्य द्रव्यगुणकर्मसु व्यक्तित्वं नाम जातिर्यद्यङ्गीक्रियते ।
तर्हि तस्यामन्यासु च जातिषु जातिशब्दप्रवृत्तये जातित्वं जातिरङ्गीकर्तव्या स्यात् ।
ओमिति चेत् ।
तर्हि सा व्यक्तित्वजातिरपि जातित्वजातिं प्रति व्यक्तिः स्यात् ।
नच सा स्वरूपे वर्तते ततो द्रव्यादित्रये तस्यां च व्यक्तिशब्दप्रवृत्त्यर्थमपरं व्यक्तित्वमङ्गीकरणीयम् ।
तत्र पुनर्जातिशब्दप्रवृत्तये जातित्वमभ्युपगन्तव्यमिति सापि तदाश्रयतया व्यक्तिः स्यात् ।
तस्यां पुनर्व्यक्तित्वान्तरमित्येवमनवस्थेति ।
*8,60*
स्थलान्तरे बाधकमाह- कथमिति ॥
कथं स्वरूपत्वमपि ज्ञायते ऽनुगतं यदि ।
एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम् ॥ मनुव्_2,2.125अ-द् ॥
न्यायसुधा:
अत्र स्वरूपमित्यध्याहर्तव्यम् ।
ततश्चायमर्थः ।
यद्यनुगतसामान्यनिबन्धनैव सर्वत्र व्युत्पत्तिस्तदा सकलपदार्थस्वरूपं स्वरूपशब्दवाच्यतया कथं ज्ञायते ।
अनुगतस्य स्वरूपत्वसामान्यस्याभावात् ।
स्वरूपेषु स्वरूपशब्दव्युत्पत्तिर्न स्यादिति ।
ननु च सर्वस्वरूपेष्वनुगतं स्वरूपत्वमङ्गीक्रियते मयातो नोक्तदोष इत्यत उक्तम्"स्वरूपत्वमपि यद्यनुगतमङ्गीक्रियते तदा अनवस्थादिदूषितं भवतिऽ; इति ।
तथाहि ।
सर्वेषु स्वरूपेषु यत्स्वरूपशब्दप्रवृत्तिनिमित्तं स्वरूपत्वं नाम सामान्यमभ्युपगम्यते, तदपि तावत्स्वरूपेण ।
नच तत्र स्वयमेव वर्तते ।
आत्माश्रयत्वस्यालौकिकत्वात् ।
अतस्तस्मिन्नन्येषु च स्वरूपेषु स्वरूपशब्दप्रवृत्तये ऽन्यत्स्वरूपत्वं नाम सामान्यमङ्गीकार्यम् ।
तदपि स्वरूपमेवेत्यनवस्था ।
आदिपदेनान्त्यविशेषस्वरूपेषु स्वरूपत्वसामान्यमङ्गीकार्यम् ।
तदपि स्वरूपमेवेत्यनवस्था ।
आदिपदेनान्त्यविशेषस्वरूपेषु स्वरूपत्वसामान्याङ्गीकारे ऽत्यन्तव्यावृत्तिधीहेतुत्वं न स्यात् ।
समवायाभावस्वरूपे च सम्बन्धाभाव इति ज्ञातव्यम् ।
अनवस्थाद्यनिष्यप्रसङ्गस्य विपर्यये पर्यवसानं सूचयति- एकव्युत्पत्तिपर्यन्तमिति ॥
एकं केवलनुगतसामान्यहीनमिति यावत् ।
तस्मिन्व्युत्पत्तिरेकव्युत्पत्तिस्तत्पर्यन्तं तावदिदं दूषणमुपप्लवत एव ।
यावदनुगतसामान्यनिबन्धनैव सर्वत्र व्युत्पत्तिरिति पक्षं परित्यज्य सामान्यहीने ऽपि व्युत्पत्तिमङ्गीकुर्यादित्यर्थः ।
अनवस्थादिपरिहारायानुगतसामान्येन विनापि व्युत्पत्तिरङ्गीकरणीयेति भावः ।
*8,61f.*
नन्विदं सकलमप्यसङ्गतम् ।
तथाहि ।
यदुक्तं"जातितश्चेत्युक्तं तासुऽ; इति, तत्तावदसत् ।
जातिषु जात्यन्तराभावे ऽपि नित्यत्वे सत्यनेकानुगतत्वेनोपाधिना जातिशब्दव्युत्पत्त्युपपत्तेः ।
अस्तु वा जातिषु जातित्वं नाम जातिः ।
न चानवस्था ।
जातित्वे जातिशब्दस्य स्वरूपनिबन्धनत्वोपपत्तेः ।
"तथैव व्यक्तिविज्ञानम्ऽ; इत्येतदप्यसत् ।
व्यक्तित्वाभावे ऽपि जातिव्यञ्जकत्वोपाधिना द्रव्यादिषु व्यक्तिशब्दप्रवृत्त्युपपत्तेः ।
व्यक्तित्वजात्यङ्गीकारे ऽपि नानवस्था ।
व्यक्तित्वे व्यक्तिशब्दस्य स्वरूपनिमित्तत्वसम्भवात् ।
यदपि"कथम्ऽ; इत्यादि तदयुक्तम् ।
प्रमाणगम्यत्वोपाधिनैव स्वरूपशब्दव्युत्पत्त्युपपत्तेः ।
स्वरूपत्वाभ्युपगमे ऽपि नानवस्था ।
तत्र स्वरूपशब्दस्य स्वरूपमात्रनिबन्धनत्वात् ।
अन्त्यविशेषेषूपाधिनिबन्धन एवेति न रूपहानिः ।
समवायादौ स्वरूपमेव सम्बन्ध इत्यतो न कश्चिद्दोष इत्याशङ्कां परिहरन्ननुगतसमान्यदूषणमुपसंहरति- कल्पनेति ॥
कल्पनागौरवात् तेन युक्ता नानुगकल्पना
न्यायसुधा:
सर्वत्र व्यावृत्तमेव वाच्यं शब्दप्रवृत्तौ निमित्तं च ।
व्युत्पत्तिस्तु सादृश्यनिबन्धनेत्येकरूपकल्पनेन सर्वसामञ्जस्ये क्वचिदनुगतं सामान्यं निमित्तं क्वचिदुपाधिः क्वचित्स्वरूपमेवेत्यनेककल्पने कल्पनागौरवं स्यादित्यर्थः ।
तेन बाधकसद्भावेन साधकाभावेन च ।
नन्वनुगतत्वाभावे कथं गोत्वादिकं सामान्यम् ।
अननुगतत्वे ऽपि गुणकर्मवदवान्तरभेदस्य कल्पनीयत्वादिति ।
*8,64*
एवं समवायं स्वरूपतो निराकृत्येदानीं यत्समवायस्य सर्वत्रैकत्वं नित्यत्वं च"तत्त्वं भावेनऽ; इति सूत्रेणोक्तम्, तत्त्वं, समवायस्य सर्वत्रैकत्वं नित्यत्वं च, भावेन, सत्तया व्याख्यातमिति ।
तदपि निरागिकीषुरादौ तावदेकत्वं निराकर्तुं पीठमारचयति- औपाधिकेति ॥
औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः ।
अन्यत् ... ॥ मनुव्_2,2.126अ-च् ॥
*8,65*
न्यायसुधा:
औपाधिकः पाचकयाजकादिः विशिष्टो नीलाग्निमदादिः ।
आद्यग्रहणादुपलक्षितग्रहणम् ।
अपिशब्दो दूषणान्तरसमुच्चयार्थः ।
तद्वस्तूपाध्यादित्रयम् ।
किंशब्दस्योभयतः सम्बन्धः ।
तत उपाध्यादित्रयात् ।
वस्त्वित्येतदौपाधिकविशिष्टाद्यमित्यनेनापि सम्बद्धयते ।
*8,65f.*
अयमर्थः ।
समवायस्य सर्वत्रैकत्वं वदतेदं तावद्विविच्यताम् ।
एक एव पुरुषः पचनयजनादिभिरुपाधिभिरवच्छेदकैर्धर्मैः पाचको याजकश्चेत्याद्यभिधीयते, स पाचकयाजकादिरौपाधिको ऽर्थः किं पचनाद्युपाधिपुरुषतत्सम्बन्धेभ्यो ऽनन्य उतान्य इति ।
तथा समानाधिकरणं व्यावर्तकं विशेषणम् ।
यथोत्पलस्य नीलं रूपं पर्वतस्य चाग्निः ।
व्यधिकरणं तु व्यावर्तकमुपलक्षणम् ।
यथा नीलरूपगतं नीलत्वमुत्पलस्य ।
*8,66*
अन्ये तु कायर्प्रवेशाप्रवेशाभ्यां विशेषणोपलक्षणयोर्भेदमाचक्षते ।
यथा लम्बकर्ण आनीयतां चित्रगुरानीयतामिति ।
अपरे तु शाब्दसामानाधिकरण्याभ्याम् ।
यथा दण्डी देवदत्तो जटाभिस्तापस इति ।
केचित्पुनर्व्यवच्छित्तिसमये सत्त्वासत्त्वाभ्याम् ।
तत्र विशिष्टं नीलमग्निमान्वा विशेषणविशेष्यतत्सम्बन्धेभ्यो ऽनन्यत् अन्यद्वा ।
उपलक्षितं चोपलक्षणोपलक्ष्यतत्सम्बन्धेभ्यो ऽनन्यत् अन्यद्वेति ।
तत्रान्यत्वपक्षस्तावदनुभवाभ्युपगमोपपत्तिविरुद्धत्वादसम्भावित एव ।
नहि पाचकादिः पचनादित्रयातिरिक्तो ऽनुभूयते ।
नच योग्यस्याननुभवे सत्त्वं सिद्धयति ।
नाप्यग्निमदादिः पर्वताद्यतिरिक्तो ऽनुभूयते ।
अतिरिक्तत्वे चौपाधिकविशिष्टादेर्द्रव्याद्यन्तर्भावासम्भवात् ।
षट्पदार्थातिरेकप्रसङ्गेनाभ्युपगमविरोधः स्यात् ।
यदि चौपाधिकविशिष्टाद्यमतिरिक्तं स्यात् तदा पाचकमानयेत्युक्ते पुरुषाद्यानयनं न क्रियेतेत्याद्युपपत्तिविरोधः ।
*8,70*
नन्ववच्छित्तिरौपाधिकत्वं, व्यवच्छित्तिश्च वैशिष्ययं त्रितयाद्भिन्नमेवेति चेन्न ।
अवच्छित्तेरनिरूपणात् ।
सा किमुपाधिसम्बन्धो वा पुरुषस्यैकत्वं वा स्वगतो भेदो वा ।
आद्ये न त्रयातिरेकः ।
द्वितीये त्वनौपाधिकादविशेषः ।
तृतीये त्वसत्त्वप्रसङ्गः ।
व्यवच्छित्तिर्वैशिष्यमिति चायुक्तम् ।
तस्या नीलादिपदार्थत्वाभावात् ।
सा हि वैशिष्ययप्रतीतिफलविषयतया अनुभूयते ।
*8,71f.*
विशेषणविशेष्यसम्बन्धावगाह्येकं वा विज्ञानमविरलमनेकं वा विशिष्टमिति कश्चित् ।
यथाऽह"विशेषणं
विशेष्यं च तत्सम्बन्धफलार्पकम् ।
ज्ञानरूपं स्वसामर्थ्याद्विशिष्टमिति कीर्तितम्ऽ; इति ।
तन्न ।
विशिष्टस्य बाह्यार्थतयानुभवात् ।
अन्यथा साध्यधर्मविशिष्टः पक्षः ।
सो ऽनुमानेन प्रज्ञापनीय इत्याद्ययुक्तं स्यात् ।
तस्मादतिरेकपक्षो ऽनुपपन्न एव ।
*8,74*
अस्तु तर्ह्यैपाधिकविशिष्टाद्यं त्रितयानन्यदित्यत आह- तदेवेति ॥
... तदेव चेदग्निमत्त्वं किं तत्र भण्यते
*8,74f.*
न्यायसुधा:
प्रतिदत्तिसौकर्यायोदाहरणनिष्ठतया मतुपा प्रश्नः कृतो ऽग्निमत्त्वमिति ।
धूमाद्यनुमानसाध्यं विशिष्टमित्यर्थः ।
औपाधिकादेरप्युपलक्षणमेतत् ।
अयमर्थः ।
अग्निमदादिविशिष्टं च यदि विशेषणविशेष्यतत्सम्बन्धेभ्यो ऽनन्यदङ्गीक्रियते ।
तदापि वक्तव्यम् ।
किं तत्त्रितयमपि प्रत्येकं विशिष्टमुता(तत्र)न्यतमम् ।
द्वितीये ऽपि किं विशेषणभूतो ऽग्निरेवाग्निमच्छब्दार्थः, उत विशेष्यरूपः पर्वतः, अथ सम्बन्धः संयोगलक्षणः ।
संयोगपक्षे ऽपि किं निर्विशेषणसंयोगः किंवाग्निना संयोगः ।
उत्तरत्रापि किमग्निसंयोगमात्रम् ।
उत पर्वतस्याग्निसंयोग इति ।
एवं पाचकादेरपि पचनादित्रयानन्यत्वे विकल्पो द्रष्टव्यः ।
*8,76*
अन्त्यपक्षातिरिक्तान्सर्वपक्षानपाकरोति- अग्नीति ॥
अग्निसंयोगमात्रं चेद् भवेत् तत् सिद्धसाधनम्
न्यायसुधा:
अग्निसंयोगमात्रमिति सर्वपक्षोपलक्षणम् ।
चेत् अग्निमच्छब्दार्थ इति शेषः ।
तत् धूमवत्त्वाद्यनुमानमग्निपर्वतसंयोगानां समस्तानां व्यस्तानामग्निना संयोगस्य चाग्निमच्छब्दवाच्यविशिष्टत्वे धूमानुमानं सिद्धसाधनं स्यात् ।
विशिष्टस्यानुमानसाध्यत्वात् ।
अग्न्यादेर्विशिष्टस्य मानान्तरत एव सिद्धत्वादिति ।
*8,77*
अस्तु तर्हि पर्वतस्याग्निना संयोगो विशिष्टरूपो ऽग्निमच्छब्दार्थो ऽनुमानसाध्य इत्यन्तिमः पक्षः ।
तत्रोक्तदोषाभावात् ।
पर्वतमग्निसंयोगानां समस्तानां व्यस्तानामग्निसंयोगस्य च सिद्धत्वे ऽपि पर्वतस्याग्निना यः संयोगस्तस्यानुमानतः प्रागसिद्धेरिति शङ्कते- भूधरस्येति ॥
भूधरस्याग्निसंयोगो यदि षष्ठयर्थ एव कः
न्यायसुधा:
अग्निमच्छब्दार्थो विशिष्टो ऽनुमानसाध्य इति शेषः ।
दूषयितुं पृच्छति- षष्ठयर्थ इति ॥
पर्वतस्याग्निसंयोगस्य च सिद्धत्वे ऽपि पवर्तस्य यो ऽग्निसंयोगः स न सिद्ध इत्यतः स एव विशिष्टो ऽग्निमच्छब्दार्थो ऽनुमानवेद्य इति वदता पर्वतस्येति षष्ठया निर्दिष्यः सम्बन्ध एव विशिष्टो ऽग्निमच्छब्दार्थो ऽनुमानवेद्य इत्युक्तं भवति ।
अन्यस्य सर्वस्य सिद्धत्वात् ।
षष्ठयर्थाश्च सम्बन्धा वैयाकरणैरनेके गणिताः ।
अतः को ऽत्र सम्बन्धो विवक्षित इति प्रश्नार्थः ।
एवशब्दः तस्यैव प्राधान्यद्योतनार्थः ।
*8,78*
उत्तरं शङ्कते समवाय इति ।
समवायो यदि ह्य् ...
न्यायसुधा:
संयोगो हि गुणः पर्वतश्च गुणी गुणगुणिनोश्च समवायः सम्बन्ध इति प्रसिद्धमिति हिशब्दार्थः ।
षष्ठयर्थ इति वर्तते ।
निराकरोति- अस्य चेति ॥
... अस्य चैकत्वात् सिद्धसाधनम्
न्यायसुधा:
पर्वतादेरिवास्य समवायस्य च सिद्धत्वादिति शेषः ।
सिद्धसाधनं धूमाद्यनुमानमिति शेषः ।
कथं समवायस्य सिद्धत्वमित्यत उक्तम्- एकत्वादिति ॥
यस्तन्तुपटयोः समवायः स एव हि पर्वताग्निसंयोगयोः समवायः परेणाङ्गीकृतः ।
तन्तुपटयोः समवायश्च प्रत्यक्षेण वानुमानेन वा सिद्ध एवेति ।
अयमत्र समुदायार्थः ।
यद्येक एव सर्वत्र समवायः स्यात्तदा सर्वानुमानानां सिद्धसाधनता स्यात् ।
यद्यपि याथार्थ्यमेव प्रामाण्यं तथापि शब्दवत्परार्थानुमानस्य परापेक्षया प्रवृत्तत्वात्सिद्धसाधनता दोष एव ।
*8,78f.*
तथा हि ।
सर्वमप्यनुमानं न वस्तुस्वरूपमात्रपरम् ।
तस्यासिद्धावाश्रयासिद्धेः ।
सिद्धौ च सिद्धसाधनत्वात् ।
किन्तु केनचिदुपहितं वा विशिष्टं वोपलक्षितं वेति वक्तव्यम् ।
तच्च विशिष्टादिकं न विशेषणादित्रयादन्यदेवेति युक्तम् ।
अनुपलम्भादिबाधात् ।
त्रयानन्यत्वे ऽपि न विशेषणमात्रम् ।
तस्य अनुमानात्प्राक् सिद्धत्वात् ।
असिद्धौ चाप्रसिद्धविशेषणत्वापत्तेः ।
अग्नेरेवाग्निमच्छब्दार्थत्वे मतुपो वैयर्थ्यापत्तेश्च ।
नापि धर्मिस्वरूपमात्रम् ।
उक्तदोषात् ।
पर्वतो ऽग्निमानित्येतयेरेकार्थत्वापत्तेश्च ।
नच सम्बन्धमात्रम् ।
संयोगो हि क्वचित्सम्बन्धः स्यात् यथाग्निपर्वतयोः ।
क्वचित्समवायः यथा रासद्रूपानुमाने ।
द्वावपि स्वरूपतः सिद्धाविति सिद्धसाधनमेव ।
संयोगमात्रस्य सिद्धत्वे ऽप्यग्न्यादिसंयोगः साध्य इत्यपि न वाच्यम् ।
तस्यापि महानसादौ सिद्धत्वात् ।
अथ पर्वतादेरग्न्यादिसंयोगः साध्यः ।
अत्रापि विवेक्तव्यम् ।
कस्यात्रासिद्धया साध्यत्वमिति ।
अन्यस्यासम्भवात् ।
षष्ठयर्थस्य समवायस्येति वक्तव्यम् ।
स च सर्वत्रैक एव चेत्पुनः सिद्धसाधनतैव स्यात् ।
अतः सर्वानुमानोच्छेदप्रसङ्गात्सर्वत्र समवायैक्यमयुक्तमिति ।
*8,80*
ननु तन्तुषु पटादिसमवायः पर्वताग्निसंयोगादिसमवायश्च यद्यपि स्वरूपेणैक एव, तथापि तन्तुपटादिपर्वताग्निसंयोगाद्युपाधिनिमित्तः समवायस्य भेदो ऽप्यस्ति ।
ततः सिद्धत्वे ऽपि साध्यत्वमुपपद्यत इत्यत आह- यदीति ॥
यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते
न्यायसुधा:
यदि अस्य समवायस्य साध्यत्वसिद्धयर्थमौपाधिको भेद इष्यते तदैकत्वं कुत इष्यते ।
समवायस्यैकत्वं हि न सङ्खयाविशेषः ।
निर्गुणत्वात् ।
किन्त्वभेदः ।
नच भेदाभेदौ क्वापि परेणाङ्गीकृतौ ।
तस्मात्समवाये भेदस्याङ्गीकृतौ तद्विरुद्धो ऽभेदो नाङ्गीकर्तुमुचित इति ।
ननु स्वाभाविकमेकत्वं स्वाभाविकेनैव भेदेन विरुद्धयते न पुनरौपाधिकेन ।
स्वभावतः अभिन्ने ऽपि गगनादावौपाधिकभेददर्शनात् ।
समवाये चौपाधिक एव भेदो ऽभ्युपगतः ।
तत्कथं स्वाभाविकैकत्वाङ्गीकारो ऽनुचित इत्यत आह- नेति ॥
*8,80f.*
नानिर्वाच्यं हि तेनेष्यमत औपाधिकान्ययोः ।
सत्यत्वात् को विशेषः स्यान् ... ॥ मनुव्_2,2.129अ-च् ॥
*8,81*
न्यायसुधा:
विरुद्धाभिमतयोरविरोधो हि कालभेदेन भवति ।
यथा तत्रैव भूतले तस्यैव घटस्य भावाभावयोः ।
देशभेदेन वा ।
यथा तदैव तस्यैव घटस्यास्तित्वनास्तित्वयोः ।
व्यक्तिभेदेन वा ।
यथा तत्रैव भूतले यदैकस्य घटस्य भावस्तदैव घटान्तरस्याभावः ।
पारमार्थिकत्वापारमार्थिकत्वाभ्यां वा ।
यथा गगने रूपतदभावयोः ।
तत्र तावत्समवाये ऽभेदभेदयोर्नाद्यं विधात्रयं सम्भवतीति परस्यापि सम्प्रतिपन्नम् ।
नापि चतुर्थी विधा सम्भवति ।
समवायभेदस्यापारमार्थिकत्वमसत्त्वमनिर्वाच्यत्वं वा ।
आद्ये सिद्धसाधनत्वं तदवस्थमेव ।
द्वितीये त्विदमुपतिष्ठते ।
हि यस्मात्तेन वैशेषिकादिनानिर्वाच्यं वस्तु नेष्यमतो ऽसत्त्वानिर्वाच्यत्वाभावादौपाधिकस्य स्वाभाविकस्य च सत्यत्वात्को विशेषः स्यात् ।
औपाधिकस्यापि स्वाभाविकवत्सत्यत्वात्पारमार्थिकत्वापारमार्थिकत्वलक्षणस्य विरोधशान्तिहेतोः अभाववादौपाधिकत्वाद्युक्तया न किञ्चित्कृतं स्यादिति भावः ।
*8,82*
इष्यते समवायभेदस्यानिर्वाच्यत्वं मया चेत्तदा को दोष इति चेदपसिद्धान्त इत्याह- मायेति ॥
... मायावाद्यन्यथा भवेत्
न्यायसुधा:
अनिर्वाच्यवस्त्वङ्गीकारे वैशेषिकादिरपि मायावादी भवेदित्यर्थः ।
ननु प्रकारभेदेनापि विरोधशशन्तिर्भव(विष्य)ति ।
यथा तत्रैव तदैव नीलपटसद्भावे ऽपि पीतपटाभावः ।
तथा समवाये ऽप्यौपाधिको भेदो न स्वाभाविकमभेदं विरुणद्धीत्यत आह- उपाधीति ॥
उपाधिजन्यं तद्गम्यमिति वौपाधिकं भवेत्
न्यायसुधा:
उपाधिशब्दात्तृतीयासमर्थाज्जन्यगम्ययोः शेषिके ठकि कृते सति औपाधिकमिति भवति ।
ततः किमित्यत आह-उभयत्रेति ॥
उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः
न्यायसुधा:
एवं सति समवायभेदस्यौपाधिकत्वं नामोपाधिजन्यत्वं वोपाधिगम्यत्वं वा वक्तव्यम् ।
तथाच पक्षद्वये ऽप्यनन्ताः समवायाः स्युः ।
तत्कथमित्यत आह- इतस्तत इति ॥
सर्वदेशकालगतानामवयवावयव्याद्युपाधीनामनन्तत्वादिति शेषः ।
उपाधीनामनन्तत्वे ऽपि समवायानन्त्यं कुत इत्यत आह- भिन्नत्वमिति ॥
भिन्नत्वं चैव तेष्वस्ति ...
*8,82f.*
न्यायसुधा:
चो यस्मादित्यर्थे ।
नह्यौपाधिको भेदो नामोपाधीनामेव भेदः ।
तथा सति समवायस्येति न स्यात् ।
उक्तदोषपरिहारश्च न भवेत् ।
किन्तु तेषु समवायेष्वेवोपाधिजन्यं तदवगम्यं वा भिन्नत्वमस्ति ।
भेदहेतवश्चोपाधयो ऽनन्ता इति कथं न समवायानन्त्यम् ।
तथाप्यौपाधिकमेव तदानन्त्यमित्युक्तस्य किमायातमित्यत आह- क इति ॥
*8,83*
... को विशेष उपाधिगे
न्यायसुधा:
उपाधिगस्तत्सम्बन्धी औपाधिक इति यावत् ।
औपाधिकभेदे को विशेषो येनासावभेदं न विरुणद्धीत्यर्थः ।
*8,84*
एतदुक्तं भवति ।
नीलपटसद्भावे ऽपि पीतपटाभाव इत्यत्र हि यदि विशिष्टविषयौ विधिनिषेधौ, तदा भिन्नविषयत्वेन विरोधाभावः ।
नीलपीतपटयोर्भिन्नत्वात् ।
नचैवं प्रकृते ।
भेदविशेषाभावे ऽपि भेदान्तराभ्युपगमापत्तेः ।
तथा चैकत्वोक्तिरयुक्तैव ।
नहि पार्थिवपरमाणौ रूपादयो ऽग्निसंयोगजा न त्वाप्यपरामाणुरूपादय इव स्वाभाविका इत्येतावता रूपादिरहितो ऽसौ भवति ।
यदि च विशेषणविषयौ तदा समवाये भेदो ऽस्त्येव ।
स तु सम्बन्धिभिरुपाधिभिः कृतो न त्वकृत्रिम इत्युक्तं स्यात् ।
तथाच घटादिभेदेन तुल्य इति रिक्तैवाभेदोक्तिः ।
उपाधीनां च सर्वदानपायान्न भेदस्यागन्तुकत्वं युक्तमिति ।
*8,86*
उपाधिगम्यमौपाधिकमिति पक्षमङ्गीकृत्योक्तदोषाभावं शङ्कते- अविद्यमान एवेति ॥
अविद्यमान एवान्यः समवायो ऽधिगम्यते ।
उपाधिना ... ॥ मनुव्_2,2.131अ-च् ॥
*8,86f.*
न्यायसुधा:
सत्यमुपाधिगम्यत्वादौपाधिकः समवायभेदो ऽधिगमश्च न प्रमा ।
येनासौ भेदः पारमाथिर्कः स्यात् ।
किन्तु विभ्रम एव ।
नचैवं भेदस्यास्त्त्वप्राप्त्या सिद्धसाधनतातादवस्थ्यमिति वाच्यम् यतो ऽविद्यमान एवान्यः समवायो ऽधिगम्यते तत्तदुपाधिनेति ब्रूमः ।
यथा अङ्गुल्यवष्टब्धनयनाद्युपाधिवशादविद्यमान एव द्वितीयश्चन्द्रो ऽधिगम्यते ।
तथा तैस्तैः सम्बन्धिलक्षणोपाधिभिरविद्यमाना एवानेके समवायाः प्रतीयन्ते ।
त एते समवाया औपाधिकभेदाभिन्ना इत्युच्यन्ते ।
त एव चाग्निमदादिशब्दवाच्या अनुमानसाध्या विशिष्टाकाराः ।
तथा च न समवायैकत्वहानिः ।
चन्द्रवदारोपितानामनेकत्वे ऽप्यनारोपितस्यैकत्वाविरोधात् ।
नाप्यनुमानानां सिद्धसाधनता ।
तथाविधसमवायानां प्रागसिद्धत्वादिति ।
परिहरति तद्गमकमिति ।
*8,87*
... तद्गमकमनुमानं न मा भवेत्
न्यायसुधा:
यद्यप्यस्मिन्पक्षे न सिद्धसाधनं धूमाद्यनुमानम् ।
तथापि तद्गमकमविद्यमानसमवायसत्तां प्रतिपादयदनुमानजातं दहनशैत्यानुमानमिव बाधितविषयतया न प्रमाणं भवेत् ।
उपलक्षणं चैतत् ।
उपाधीन्विना समवायावभासस्य क्वाप्यभावात्सर्वत्रापि तस्याविद्यमानतैव स्यादित्यपि द्रष्टव्यम् ।
तदेवं सर्वानु(धूमाद्यनु)मानानां सिद्धसाधनत्वादिप्रसङ्गान्न समवायैक्यमुपपन्नमिति ।
एतच्चोपलक्षणम् ।
आगमापन्हवश्च समवायैक्ये स्यात् ।
पदार्थानां तत्संसर्गाणां च सिकतावद्विशकलितानां सिद्धत्वात् ।
*8,88*
इदानीं समवायस्य नित्यत्वं निराकरोति- एवमेवेति ॥
एवमेवासतः सत्तसमवायो जनिर्मता
न्यायसुधा:
यथा समवायस्य सर्वत्रैकत्वाङ्गीकारे सर्वानुमानानां सिद्धसाधनत्वादिदुष्टत्वमुक्तम् ।
एवमेव तन्नित्यत्वाभ्युपगमे प्रागसतः सत्तासमवायो जनिर्दुष्या मता ।
समवायनित्यत्वे न कस्यापि जनिः स्यादित्यर्थः ।
तत्कथमित्यत आह- तत्रापीति ॥
तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम्
*8,88f.*
न्यायसुधा:
उक्तदोषाणां सिद्धसाधनत्वादीनाम् ।
तथाहि ।
प्रागसतः सत्तासमवायो जनिरिति परेण जनिलक्षणमभिहितम् ।
तत्र यदि समवायो नित्यः स्यात्तदा तल्लक्षणा घटजनिः प्राक्कुलालादिव्यापारादस्तीति तदर्थस्य तस्य सिद्धसाधनता स्यात् ।
ज्ञप्तौ हि सिद्धस्यापि साधनं घटते ।
किन्तु क्वचिदनपेक्षत्वमित्येव ।
कृतौ तु प्राक्सिद्धस्य साधनमेवाशक्यमिति कुलालादिव्यापारस्य निष्फलत्वं स्यात् ।
अथ समवायस्य नित्यत्वे ऽपि प्रागसतः सत्तासमवायः साध्यः अस्तो को दोष इति चेन्न ।
समवायैक्यव्याघातात् ।
औपाधिकः समवायस्य भेद इति चेत् ।
यथासम्भवं सर्वमुक्तमनुसन्धेयम् ।
नहि प्रागसद्विषयो व्यापारः सम्भवति ।
तस्य सत्कारणातिरिक्तकर्तव्याभावात् ।
सत्कारणस्य सत्तासमवायानतिरेकात् ।
स्वरूपलाभः कुलालादिव्यापारसाध्य इति चेत् ।
एवं तर्हि किमपरेण सत्तासमवायेन ।
तदेवं समवायस्यैकत्वनित्यत्वे सर्वथाप्ययुक्ते इति ।
यद्वा समवायनिराकरणप्रसङ्गात्परोक्तं विशिष्टादेर्जनेश्च स्वरूपं तन्मतासामाञ्जस्यप्रदर्शनायौपाधिकेत्यादिना निराकृतं(च) वेदितव्यम् ।
*8,91*
नन्वेतत्सर्वं व्याहतम् ।
युष्माभिरपि लोकवेदव्यवहारं परिपालयद्भिर्विशिष्टादेः अङ्गीकरणीयत्वात् ।
तत्राप्युक्तदोषानुषङ्गादित्यतो विशिष्टादिनिरूपणे तावद्दोषाभावं स्वमते दर्शयति- अस्मदिति ॥
अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः ।
नास्ति दोषः क्वचिद् ... ॥ मनुव्_2,2.133अ-च् ॥
न्यायसुधा:
विशिष्टाकारो न विशेषणं नापि सम्बन्धः ।
किन्नाम विशेष्यम् ।
नच तन्मात्रम् ।
द्विविधो हि विशिष्टाकारः ।
यावद्विशेष्यभाव्ययावद्विशेष्यभावी च ।
तत्राद्यो विशेष्येणात्यन्ताभिन्नः ।
यथेश्वरः स्वरूपेण सर्वज्ञः ।
एवं यत्र यत्र विशेषणसम्बन्धो यावद्विशेष्यभावी तत्र तत्र विशिष्टप्रकारो ऽपि तथाभूतो विशेष्येणात्यन्ताभिन्नो द्रष्टव्यः ।
तथापि विशेषस्य भेदप्रतिनिधेः सर्वपदार्थेष्वङ्गीकृतत्वेनेश्वरः सर्वज्ञ इत्यपर्यायशब्दप्रवृत्त्याद्यनुपपत्तिदोषो नास्ति ।
ईश्वर एव सर्वज्ञ इत्यभेदस्तावत्प्रमितः ।
भेदे तु न निरवकाशं प्रमाणमस्तीति ।
*8,91f.*
द्वितीयस्तु विशेष्येण भिन्नाभिन्नः ।
यथा पवर्तेनाग्निमान् ।
यथा हि संयोगविशेषसचिवास्तन्तवः पटाकारेण परिणमन्ते ।
तथाऽगन्तुकविशेषणसम्बन्धाद्विशेष्यस्वरूपं विशिष्टाकारेण परिणमते ।
तत्र यद्यपि भेदाभेदौ वस्तुनः स्वरूपभूतौ तथाप्यस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतो न सङ्करदोषः ।
तदिदमुक्तम्- क्वचिदिति ॥
अत्यन्ताभेदस्थले भेदाभेदस्थले चेत्यर्थः ।
*8,94*
यद्वा क्वचिदित्यौपाधिकादित्रय इत्यर्थः ।
तस्याप्युक्तप्रकारत्वात् ।
एतेन भेदहीने ऽप्याकाशादावौपाधिको भेदो दृष्ट इत्य(प्य)पास्तम् ।
विशेषनिबन्धनानामेवाकाशाद्यंशानां घटाद्युपाधिभिः स्फुटीकरणादिति ।
जनिनिरूपणे दोषाभावं स्वमते दर्शयति- अस्मदिति ॥
विशेषस्य परिणामस्य जनित्वेनाङ्गीकृतत्वतो न कश्चिद्दोषो ऽस्तीति योजना ।
मृदादीनां घटाद्याकारापत्तिरेव घटादिजनिर्न तु समवाय इत्यर्थः ।
*8,95*
स्यादेतत् ।
क्वचिद्भावो विशेष्यो विशिष्टाकारश्चाभावो दृश्यते ।
यथा घटो न जानाति प्रकृतिर्न कर्त्रीति ।
क्वचिच्चाभावो विशेष्यो विशिष्टाकाराश्च भावः प्रतीयते ।
अभावो ऽस्ति ।
अभावः प्रमेय इति ।
नच विधिनिषेधात्मनोर्भावाभावयोरभेदो युज्यते ।
तत्कथं विशेष्याभिन्नं विशिष्टमुच्यत इत्यत आह- भावो हीति ॥
... भावो ह्यभावश्च स एव हि
न्यायसुधा:
क्वचिदित्यनुवर्तते ।
यो भावः स एव क्वचिदभावो भवति ।
यश्चाभावः स एव क्वचिद्भावो भवतीत्येतदुभयं प्रसिद्धमेवेत्यर्थः ।
वाक्यार्थद्वयप्रसिद्धिद्योतनार्थं हिशब्दद्वयम् ।
तत्कथमित्यत आह- अभावस्य चेति ॥
अभावस्य च धर्माः स्युर्भावास्तेषां च ते ऽखिलाः
न्यायसुधा:
अस्ति तावदिदं यदभावस्यापि भावा धर्माः स्युस्तथा तेषां च भावानां च ते ऽभावा धर्माः स्युरिति ।
अखिला इति बहुत्वोपलक्षणम् ।
एतदपि नाङ्गीकरोमीत्यत आह- प्रत्यक्षेति ॥
प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम्
न्यायसुधा:
प्रत्यक्षग्रहणमुपलक्षणार्थम् ।
यस्मादभावस्यापि भावा धर्माः सन्ति भावस्य चाभावा इत्येतत्सर्वं प्रत्यक्षादिप्रमाणतः सिद्धम् ।
अतो न वारयितुं शक्यम् ।
*8,97*
अस्त्वभावभावयोर्भावाभावधर्मवत्त्वम् ।
तथापि भावस्याभावत्वमभावस्य च भावत्वं क्वचिदस्तीत्यत्र किमायातमित्यत आह- सर्व इति ॥
*8,98*
सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा
न्यायसुधा:
यतो ऽभावाभावयोर्भावाभावधर्मवत्त्वं सिद्धम् ।
सिद्धश्च धर्मधर्मिणोरभेदत्वेन कारणत्वेन सर्वे भावाः पदार्था अभावाश्च भवन्ति ।
अभावश्च सर्वे पदार्था भावा भवन्तीत्युक्तमुपपन्नमित्यर्थः ।
यद्येवं भावस्याप्यभावत्वमभावस्य च भावत्वं तर्हि द्रव्यादयो भावा एव प्रागभावादयस्त्वभावा एवेति सर्वत्र प्रसिद्धो भावाभावविभागः कथमित्यत आह- तथापीति ॥
तथापि प्रथमं बुद्धेर्यो निषेधस्य गोचर ः ।
सो ऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः
न्यायसुधा:
निषेधस्य बुद्धेरिति सामानाधिकरण्यम् ।
परो भावः ।
यद्यप्येषो ऽर्थः प्रागेवोक्तस्तथापि प्रसङ्गात्पुनः स्मारित इत्यदोषः ।
*8,99*
अभावभावयोर्भावाभावधर्मवत्त्वं प्रत्यक्षादिसिद्धमित्युक्तम् ।
तत्कथमित्यत आह- तस्मादिति ॥
तस्मात् प्रध्वस्तभेदादि सदित्येवावगम्यते
न्यायसुधा:
प्रध्वस्तं प्रध्वंसो भेदः पृथक्त्वम् ।
आदिपदेन प्रमेयत्वादिग्रहणम् ।
यस्मादभावस्य भावधर्मत्वमस्ति ।
तस्मादेव हि प्रध्वंसाभावादेः पृथक्त्वप्रमेयत्वादिभावधर्मजातमस्त्येवेत्यवगम्यते ।
प्रत्यक्षादिनेति योजना ।
प्रध्वंसः प्रागभावाद्वा घटाद्वा पृथक् प्रमेयो ऽभिधेयश्चेत्यवगम्यते ।
अभावस्य (च)धर्मानभ्युपगमे तद्विरोधः स्यादिति ब्रूमः ।
घटः पटो न भवतीति भावस्यान्योन्याभावधर्मत्वं स्फुटत्वान्न प्रदर्शितम् ।
एवमभावयोर्भावाभावात्मकत्वं सामान्यतः प्रसाध्य प्रकृते योजयति- अस्तीति ॥
अस्त्यभावो ऽस्ति च ध्वंसो देहाभावश्च भस्मता
इत्यादि युज्यते सर्वं ...
*8,99f.*
न्यायसुधा:
तस्मादित्यनुवर्तते ।
यत एवमभावस्य भावत्वं भावस्य चाभावत्वमुपपादितम् ।
तस्मादभावो ऽस्ति प्रध्वंसो ऽस्ति ।
देहाभावो भस्मतेत्यभावस्य विशेष्यत्वं भावस्य च विशिष्टत्वं तयोश्चाभेदस्तथा घटो न जानातीति भावो विशेष्यो ऽभावश्च विशिष्टाकारस्तयोश्चाभेद इत्युक्तं युज्यत इत्यर्थः ।
*8,100*
यदि भावाभावयोरेकत्वं न विरुद्धं तदा घटो ऽपि स्वाभावात्मा किन्न स्यादित्यत आह प्रत्यक्षादिति ।
... प्रत्यक्षादिप्रमाणतः
न्यायसुधा:
सिद्धमिति शेषः ।
भावाभावयोर्विशेष्यविशिष्टयोरैक्यं प्रत्यक्षादिप्रमाणसिद्धं नतु घटतदभावयोः ।
अतो नातिप्रसङ्ग इत्यर्थः ।
यद्वा भावाभावयोर्धर्मधर्मिभावो धर्मधर्मिणोश्च अभेदः प्रामाणिक इत्येतत्किं भावाभावयोर्विशेष्यविशिष्टयोरैक्यस्योपपादकं किंवा सम्भावनाहेतुः ।
आद्ये तूक्तो ऽतिप्रसङ्गः ।
द्वितीये साधकं वाच्यमित्यत्रेदमुक्तम् ।
अनेन क्वचिदित्युक्तं विवृतं भवति ।
*8,101*
अथवा भावो हीत्यादिना परिणामवादः प्रपञ्च्यते ।
तथाहि ।
केचित्परिणामवादिनः सत एवाभिव्यक्तिं जनिमाहुः ।
तद्व्युदासार्थमाह- भावो हीति ॥
अत्र भावाभावशब्दौ सदसत्परौ ।
यः कारणत्वाभिमतो मृत्पिण्डः स कार्यघटात्मनाभावः स एव तदात्मना भावश्च ।
यद्वा स घटः प्रागुत्पत्तेर्भावः सन्, स एव तदभावो ऽसंश्च ।
अथवा यः कुलालादिव्यापारात्प्रागभावो घटात्मनासन्मृत्पिण्डः स एव तदनन्तरं भावो घटात्मना सन् भवतीति ।
एतदुक्तं भवति ।
कार्यं कारणेन भिन्नाभिन्नम् ।
तत एव प्रागुत्पत्तेः सदसत् ।
अतः कारणं प्राक्कारकव्यापारादकार्यात्मकं सत्कार्यरूपतामापद्यते यत्सा जनिरिति ।
नन्वेकस्यैव भिन्नत्वमभिन्नत्वं च सत्त्वमसत्त्वं च विरुद्धमित्यतो यथैकस्यैव भावत्वमभावत्वं च न विरुद्धम् ।
तथैतदपीत्यादौ सम्भावनां तावदुपदर्शयन्नेकैकस्य भावत्वमभावत्वं च उपपादयति- अभावस्येति सार्धश्लोकद्वयेन ।
पूर्ववदेव व्याख्यानम् ।
*8,101f.*
अस्त्वियं सम्भावना ।
निश्चायकं किमित्यतो भेदासत्त्वयोः परेणाप्यङ्गीकृतत्वादभेदसत्त्वे प्रमाणेन साधयति- तस्मादिति ॥
प्रध्वस्तस्य घटादेर्भेदः प्रध्वस्तभेदः ।
आदिपदेनानुत्पन्नस्य कारकत्वं गृह्यते ।
"नष्टानामपि वस्तूनां भेदो नैव विनश्यतिऽ; इति यत्प्रध्वस्तभेदस्य सत्त्वमवगम्यते यच्च घटो जायते घटं जनयतीत्यनुत्पन्नस्यापि कर्तृत्वं कर्मत्वं(च) वा ।
तत्तस्मात्कार्यस्य कारणाभेदात्प्रागुत्पत्तेर्विनाशोत्तरं च सत्त्वादेव हि युज्यते ।
नह्यत्यन्तासत्त्वमापन्नस्य स्वरूपभेदः सन्निति युज्यते ।
नाप्यत्यन्तासतः कारकत्वम् ।
नच कार्यस्य पृथगेव सत्त्वमस्ति ।
अनुपलम्भात् ।
अतः सत्त्वं कारणाभेदश्चाङ्गीकरणीयः ।
नच विनैव बाधकेनोपचारत्वकल्पना युक्ता ।
अतिप्रसङ्गात् ।
तदिदमुक्तमवगम्यत एवेति ।
न केवलं व्यवह्रियत इत्यर्थः ।
अभावस्य च भावाः स्युर्धर्मास्ते च प्रत्यक्षादिप्रमाणसिद्धत्वाद्युज्यन्त एव न तु निराकरणार्हा इत्युक्तम् ।
तद्विशदयति- अस्तीति ॥
आदिपदेन घटादेर्भावस्य पटान्योन्याभावधर्मत्वं गृह्यते ।
*8,105*
स्यादेतत् ।
अन्योन्याभावस्य भावधर्मत्वे ऽपि तस्य भावात्पृथक्त्वेन कथं भावस्याप्यभावत्वमुच्यते ।
अन्योन्याभावस्य भेदत्वाद्भेदस्य च स्वरूपत्वाङ्गीकारादिति चेन्न ।
स्वरूपभेदस्यान्योन्याभावातिरिक्तत्वात् ।
यच्चोक्तमभावे ऽपि पृथक्त्वमस्तीति तदसत् ।
प्रमाणाभावात् ।
स्वरूपभेदेनैवासङ्करोपपत्तेः ।
पृथक्त्वस्य च स्वरूपभेदातिरिक्तत्वादित्यत आह- अन्योन्येति ॥
अन्योन्याभावभेदौ च पृथक्तवं च पृथक् पृथक्
यत् कल्पयन्ति तच्चैव कल्पनागौरवाद् गतम्
*8,106*
न्यायसुधा:
पृथक् पृथग्विभिन्नानीत्यर्थः ।
चशब्दो दूषणान्तरसुच्चयार्थः ।
गतं प्रागेव निराकृतम् ।
अनेन पुनरुक्तिदोषः परिहृतो भवति ।
कथं कल्पनागौरवादिकमित्यत आह- पर्यायत्वेनेति ॥
पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि
न्यायसुधा:
क्रमप्रयोज्यत्वेनेत्यर्थः ।
सर्व एव लौकिका वैदिकाश्च ।
*8,107*
अत्र मायावादिनश्चोदयन्ति ।
स्वरूपभेदानतिरिक्तयोरन्योन्याभावपृथक्त्वयोर्भावाभावधर्मत्वोपलम्भात्सर्वपदार्थानामपि भावाभावात्मतासिद्धिरिति यदुक्तं तदयुक्तम् ।
भेदस्य वस्तुस्वरूपत्वानुपपत्तेः ।
तथाहि ।
भेदस्तावद्विदारणात्मा ।
भिदिर्विदारण इति विदारणार्थभिदिधातुरूपत्वाद्भेदशब्दस्य ।
तस्य च विदारणात्मनो भावस्वभावत्वे तस्यापि विदारणं स्यात् ।
तथा तदेकदेशानामपि भेदः स्वभाव इति तत्राप विदारणं भवेदित्यनेन क्रमेण सर्वशून्यता स्यात् ।
किञ्च भेदस्य वस्तुस्वरूपत्वे न तत्रैकता समवेयात् ।
अभेदैकार्थसमवायिन्या एकताया भेदेन विरोधात् ।
एकत्वाभावे ऽनेकत्वमपि न स्यात् ।
तत्समाहररूपत्वात् तत्कार्यत्वाद्वा तस्य ।
एकत्वानेकत्वविकलं च शून्यमेवापद्यते ।
*8,107f.*
अपि च यदि भेदो वस्तुस्वरूपं स्यात्तदा प्रतियोग्यनपेक्षः प्रसज्येत ।
स्वरूपस्यानपेक्षत्वात् ।
नहि घटात्पटस्य भेद इतिवत् घटात्पट इति प्रतीतिरस्ति ।
घटो भिन्नो घटस्य भेद इति विशेषणविशेष्यभावसम्बन्धप्रतिभासो ऽपि भेदस्य वस्तुस्वरूपत्वे दुघर्टः स्यात् ।
नहि स्वयमेव स्वस्य विशेषणं सम्बन्धि वा भवति ।
संशयविपर्ययौ चैवमुच्छिद्येयातम् ।
भेदाग्रहनिमित्तरौ हि तौ भवतः ।
तत्र यदि धर्मिणमवगाह्य तौ भवतस्तदा तत्स्वभावभूतो भेदो ऽपि गृहीत इति क्व तयोरवकाशः ।
न चेन्निर्विषयत्वात्सुतराम् ।
यदि चास्मदयं भिन्न इति प्रतियोगिघटिततया प्रतीयमानो भेदो वस्तुनः स्वरूपं स्यात् ।
तदा तस्य सपरिकरस्य भेदस्य स्वरूपे ऽन्तर्भावात्प्रतियोगिनो ऽपि स्वरूपतया निमज्जनादद्वैतमतमेव पर्यवस्येदिति ।
*8,108*
तानपाकरोति- भेदस्येति ॥
भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् ।
अद्भुततास्ते यतो ऽन्यस्य प्रतियोगित्वमिष्यते
न्यायसुधा:
तुशब्दः प्रकृताद्वैशेषिकादेर्व्यवच्छिन्दन्ये त्विति सम्बद्धयते ।
स्वरूपत्वे भेद्यवस्तुस्वरूपत्वे ।
शून्यतां सर्वस्यापीति शेषः ।
चशब्दः पूर्वोक्तदूषणसमुच्चयार्थः ।
अद्भुता आश्चर्याः ।
न लौकिकेष्वेवंविधा दृश्यन्ते नापि परीक्षकेष्विति यावत् ।
तत्कथमित्यतः शून्यतापत्तिं तावन्निराकरोति- यत इति ॥
यो भेदो यस्य स्वरूपमिष्यते तं भेदं प्रति ततो ऽन्यस्यैव वस्तुनः प्रतियोगित्वमिष्यते यतस्तस्मादद्भुतास्त इति सम्बन्धः ।
*8,111*
अन्यस्य प्रतियोगित्वे ऽपि कथमुक्तदोषपरिहार इत्यत आह- प्रतियोगिनो हीति ॥
प्रतियोगिनो हि भेदो ऽयं नतु स्वस्मात् कथञ्चन
न्यायसुधा:
हिशब्दः पूर्ववद्धेतौ ।
अयमित्येवम्भावस्य प्रत्यक्षादिसिद्धतां सूचयति ।
स्वस्मात् धर्मिस्वरूपात् ।
इदमुक्तं भवति ।
विदारणात्मा हि भेदो यस्य यतस्तं ततो विदारयेत् ।
नतु यं कमपि यतः कुतश्चित् ।
न(हि)च घटस्वरूपस्य भेदस्य घट एव प्रतियोगी येन स्वस्मिन्विदारणं स्यात् ।
किन्तु घटादय एव ।
ततो विदारणं तु नानिष्यम् ।
तस्य शून्यतानापादकत्वादिति ।
किञ्च भिद्यते ऽनेनेति यदि भेदशब्दः करणसाधनो भवेत् तदा भेदः कमपि विदारयेत् ।
भावसाधनत्वाङ्गीकारात् ।
अतो ऽभ्युपगम्यैव करणसाधनतामयं परिहारः अभिहित इत्याशयवानाह- कथञ्चनेति ॥
इदमुदितमिति शेषः ।
*8,112*
किञ्च विदारणमपि लवित्रादि यत्सम्बन्धि तद्विदारयति ।
नतु स्वात्मानम् ।
अतो धर्मभेदवादे कथञ्चिदिदं वक्तव्यम् ।
स्वरूपभेदवादे तु क्वास्यावकाशः ।
भेदस्य वस्तुस्वरूपत्वे न तत्रैकता समवेयादित्यप्यनेनैव निरस्तम् ।
नह्येकतानेकते स्वरूपेण विरुद्धे ।
एकस्यैव घटस्यान्यापेक्षयानेकत्वदर्शनात् ।
किन्तु यदपेक्षयानेकस्तदपेक्षयैवैक इति विरुद्धम् ।
तत्र घटस्य परस्मात्प्रतियोगिन एव भेद इति ।
तदपेक्षयैवानेकत्वं स्वापेक्षया त्वेकत्वमिति को विरोधः ।
अपि चैकत्वानेकत्वयोः सामानाधिकरण्यं वा विरुद्धं धर्मधर्मिभावो वा ।
आद्ये नैकताया भेदेन विरोधः ।
भेदस्य स्वरूपत्वेनैकतासामानाधिकरण्याभावात् ।
न द्वितीयः ।
एकं द्वित्वमिति दर्शनात् ।
एकत्वानेकत्वाभावे ऽपि शून्यत्वं कुतः ।
वैशेषिकादीनां गुणादिवन्मायावादिनां ब्रह्मवदगुणस्यापि सत्त्वोपपत्तेरिति ।
*8,114*
ननु भेदो वस्तुस्वरूपं चेत्प्रतियोगिनिरूप्य एव न स्यात् ।
स्वरूपस्य तदभावात् ।
अतो नायं परिहारो युज्यते ।
तथाच स्वस्मिन्नेव विदारणे पुनः शून्यतैवेति चेन्न ।
स्वतः परतो ऽपि व्याप्त्यसिद्धेः ।
यथा(हि) परनिरूप्यमपि ब्रह्मणो जीवैक्यं ब्रह्मस्वरूपत्वं मायावादिनाङ्गीकृतम् अस्माभिश्च परत्वादिकं द्रव्यस्वरूपम् ।
तथा प्रतियोगिनिरूप्यस्यापि भेदस्य वस्तुस्वरूपत्वे को विरोधः ।
*8,115*
किञ्च भेदो वस्तुस्वरूपमिति ब्रुवाणो वस्तुस्वरूपस्यापरनिरूप्यत्वं कथमभ्युपेयात् ।
एतावत्तु स्यात् ।
एकस्यैव वस्तुनः प्रतियोगिप्रतीतिमपेक्ष्यानपेक्ष्य च प्रतीतिः कथम् ।
तत्रापि न सैव प्रतीतिरुभयीं गतिमश्नुते ।
किन्तु प्रतीतिद्वयमेतत् ।
तच्चैकस्मिन्नपि वस्तुनि विशेषबलमवलम्ब्य समञ्जसं भविष्यतीति भेदस्य परप्रतियोगितोपपत्तेः कुतः स्वस्मिन्विदारणापत्तिः ।
*8,117*
अस्तु वा स्वरूपविदारणम् ।
तथापि शून्यतापादनमयुक्तमेवेत्याशयवानाह- विभागेनेति ॥
विभागेनाल्पतैव स्यात् कुत एव च शून्यता
न्यायसुधा:
लोष्ठादेः खल्ववयविभागेन लोष्ठादिविनाशे सत्यल्परिमाणावयवावशेषो ऽवगतो, नतु सर्वशून्यता ।
तथा सर्वत्रापि विभागेनाल्पताल्पावयवावशेषतैव स्याच्छून्यता तु कुत एव स्यात् ।
ननु च पञ्चषेषु स्थलेषु विदारणेनाल्पाल्पतराल्पतमवस्त्ववशेषे ऽप्यन्ततः कस्यचिदवयवजातस्य शून्यतायां सर्वशून्यता स्यादित्यत आह- नेति ॥
न शून्यानां हि संयोगाद् भावो वस्तुन इष्यते
*8,117f.*
न्यायसुधा:
यत्संयोगेन हि यद्वस्तूत्पन्नं तस्मिन्विदारणे सति संयोगनाशाद्वस्तुनाशानन्तरं तदवशेषो भवति ।
यथा तन्तुसंयोगेनोत्पन्ने घटे तन्तुविदारणसंयोगनाशक्रमेण विनष्टे तन्त्ववशेषः ।
एवंच यदि केषाञ्चित्परमाल्पानां वस्तूनां शून्यसंयोगादुत्पत्तिः स्यात्तदा विदारणे सति संयोगनाशेन कार्यनाशे शून्यावशेषः स्यात् ।
नचैवं प्रामाणिकैरिष्यते ।
अतो ऽसङ्गतं सर्वशून्यतापादनमिति ।
भावो जन्म ।
*8,118*
ननु शून्यत्वं नाम नात्यन्तासत्त्वमापाद्यत्वेन विवक्षितम् ।
किन्तु सूक्ष्मतमत्वमेव ।
तच्चानिष्यमित्यत आह- विदारणेति ॥
विदारणार्थो धातुश्च विभागगुणवाचकः
न्यायसुधा:
स्यादेतद्यदि भेदो विदारणात्मा भवेत् ।
नचैवम् ।
प्रमाणाभावात् ।
अङ्गीकृत्यैव तु पूर्वः परिहारो ऽभिहितः ।
ननूक्तमत्र भेदशब्दादेव भेदस्य विदारणात्मकत्वमवगम्यते ।
स हि भिदेर्धातो रूपम् ।
स च विदारणार्थतया व्याख्यात इति ।
अत्रोत्ररम् ।
यदा भिदिधातुर्विदारणार्थो विवक्षितस्तदा भेदशब्दो विभागाख्यगुणवाचको न त्वन्योन्याभावलक्षणभेदवाचक इति ।
एतदुक्तं भवति ।
"क्रियावाचित्वमाख्यातुमेकैको ऽर्थः प्रदर्शितः ।
प्रयोगतो ऽनुगन्तव्या अनेकार्था हि धातवःऽ; इति वचनाद्भिदिर्विभागवचनो ऽन्यत्ववचनश्च ।
भिन्नो घट इत्युक्ते स्फुटित इति गम्यते ।
भिन्नं गगनं घटादित्यन्यदिति विज्ञायते ।
तत्र विभागो विदारणात्मा नान्यत्वम् ।
तदेव चात्र प्रकृतं न विभाग इत्यन्यतालक्षणस्य भेदस्य वस्तुस्वरूपत्वे विदारणप्रसङ्गेनात्यल्पतापादनमप्यसङ्गतमेव, छलत्वादिति ।
ननु विभागस्यान्यत्वस्य च को विशेषो येनैवमुच्यत इति चेन्न ।
गुणग्रहणेनैव परिहृतत्वात् ।
विभागो हि गुणतया वैशेषिकादिभिरुपात्तः ।
अन्यता चान्योन्याभाव इति स्फुटो भेदः ।
*8,120*
यस्तु गुणादिप्रक्रियां न मायावादी मन्यते ।
तं बोधयितुमाह- अविदारणे ऽपीति ॥
अविदारणे ऽपि ह्यास्यस्य भिन्नावोष्ठौ तु तस्य च
न्यायसुधा:
आस्यस्येत्यास्यसम्बन्धिनोरोष्ठयोर्ग्रहणम् ।
तस्य च मायावादिन एव ।
यदा हि मायावादी निरुत्तरतया तूष्णीमास्ते तदा तदीययोरोष्ठयोर्विदारणलक्षणविभागाभावे ऽप्योष्ठौ भिन्नावन्योन्याभावलक्षणभेदवन्तौ भवत एव ।
यदभावे च यदस्ति तत्ततो ऽन्यदिति च प्रसिद्धमेव ।
अतो विभागाद्भेदो ऽर्थान्तरमेवेति ज्ञायते ।
तस्य चेत्यनेन नातः परं स्वरूपभेदे काचिदनुपपत्तिः सम्भावितास्तीति सूचितम् ।
ननु कथं नास्ति ।
विशेषणविशेष्यभावानुपपत्त्यादेरपरिहृतत्वादिति चेन्न ।
स्वरूपत्वे ऽपि विशेषबलेन विशेषणविशेष्यभावसम्बन्धावभासोपपत्तेः ।
अन्यथाऽनन्दं ब्रह्म आनन्दं ब्रह्मण इत्यादेरनुपपत्तिप्रसङ्गात् ।
संशयविपर्ययानुपपत्तिरपि नास्ति ।
सविशेषत्वेन ज्ञाताज्ञातत्वोपपत्तेः ।
अन्यथाऽत्मस्वरूपे स्वयंप्रकाशमाने तत्स्वरूपमात्राणामद्वितीयत्वानन्दत्वादीनामपि प्रकाशनीयमान्न जातु कस्यचित्संशयविपर्ययौ स्याताम् ।
अविद्यावशात्तत्र तथेति चेत् ।
अत्रापि सादृ(श्यादिव)श्यवशात्तथेति सन्तोष्यव्यम् ।
*8,121*
यच्चाद्वैतपर्यवसानमुक्तम् ।
तत्कुत इति वक्तव्यम् ।
यदि मन्येत यथा हि लम्बकर्ण आगतो, नीलमानीयतामित्यादौ परिकरवतो यद्भवति तत्परिकरस्यापि, तथा प्रतियोगिघटितस्य भेदस्य धर्मिस्वरूपत्वे प्रतियोगिनो ऽपि त(त्र निम)न्निमज्जनं स्यादिति तत्र किं सम्भावनयेदमुच्यते उत व्याप्त्या ।
नाद्यः ।
प्रशिथिलमूलत्वात् ।
न द्वितीयः ।
चित्रगुरानीयतां काशीनिवासी समागत इत्यादौ तदभावात् ।
पारमार्थिकीं दृष्टिमवलम्बमानस्य तदपि असिद्धमिति चेत् ।
अहो पक्षपातो ऽस्य यत्परस्यानिष्यं प्रसञ्जयन्व्याप्तिग्रहणाय लौकिकं दृष्टान्तं बहुमन्यते व्यभिचारे तु तत्रोदास्ते ।
परसिद्धेन परस्यैवानिष्यापादनमिति चेत् ।
तर्हि मूलशैथिल्यमपि परः स्वसिद्धेन प्रतिपत्स्यते ।
वैचित्र्यं किन्निमित्तमिति चेत् ।
व्यावर्तकत्वमात्रेण प्रतियोगिनामुपयोगादिति ब्रूमः ।
*8,123*
तदेवं स्वपरमतावलोकानपेक्षयैव दोषोद्भावनादुपेक्षणमेवोन्मत्तवाक्यवन्मायावादस्योचितम् ।
किन्निराकरणेनेत्याशयवानुपसंहरति- अत इति ॥
अत उन्मत्तवाक्यत्वान्मायावादो ऽभ्युपेक्षितः
न्यायसुधा:
नन्वेवंविधं मतं सिद्धान्तविरुद्धत्वात्सूत्रकृता कुतो ऽत्र न निराकृतमित्येतदनेन परिह्रियते ।
उपेक्षितः सूत्रकारेणेति शेषः ।
एवं समवायं निराकृत्येदानीं सम्बन्धप्रसङ्गेन सम्बन्धिनामपि गुणादीनां प्रसक्तत्वादीश्वरगुणसङ्खयाविप्रतिपत्तिं निराकरोति- नचेति ॥
न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः ।
ईश्वरो ऽष्टगुणत्वेन प्रमेयो ऽप्रमितत्वतः
न्यायसुधा:
ईश्वरो ऽष्टगुणत्वेन अष्टावेव गुणा अस्य सन्तीत्येवंरूपेण, न प्रमेयो न प्रतिपत्तव्यः ।
कुतः अप्रमितत्वतः अष्टगुणत्वे प्रमाणाभावात् ।
किन्त्वमन्दसदानन्दस्यन्द्यनन्तगुणार्णवः प्रमेयः ।
अर्णव इवार्णवः, क्षीरार्णवः सुधास्यन्दी भवति ।
अयञ्चानल्पविदोषानन्दसुधास्यन्दी ।
सो ऽनन्ता गुणाः शुभपदार्थाश्चिन्तामणिप्रभृतयो ऽस्मिन्नित्यनन्तगुणः ।
अयमप्यानन्दादयो ऽनन्ता गुणा अस्मिन्नित्यनन्तगुणः ।
अमन्दसदानन्दस्यन्दी चासावनन्तगुणश्चासावर्णवश्चेति विग्रहः ।
*8,124*
अष्टगुणत्ववदनन्तगुणत्वे ऽपीश्वरस्य प्रमाणं नास्तीत्यत आह- मयीति ॥
मय्यनन्तगुणे ऽनन्ते गुणतो ऽनन्तविग्रहे ।
अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः
नारायणः परो ऽशेषचेतनेभ्यः परं पदम् ।
इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते
अनन्तगुणता विष्णोः ...
*8,124f.*
न्यायसुधा:
अनन्ता असङ्खयाता गुणा यस्यासावनन्तगुणः ।
गुणतो ऽनन्त इति गुणानां प्रत्येकमनवधिकत्वमनन्तावान्तरविशेषवत्त्वं चाभिप्रेयते ।
अनन्तविग्रह इत्यन्तं भगवद्वाक्यम् ।
उत्तरं वेदवाक्यम् ।
गुणमाहात्म्येति सामान्यविशेषाभ्यामुक्तम् ।
माहात्म्यं परिमाणातिशयः ।
परं पदमित्युद्दिश्यान्यदुच्यत इति न लिङ्गव्यत्ययदोषः ।
नन्वेतानि वचनान्युपचरितार्थानि किन्न स्युरित्यत आह- कथमेवेति ॥
... कथमेव ह्यपोद्यते
न्यायसुधा:
बाधकवशाद्धि मुख्यार्थो ऽपोद्यते ।
नचात्र तदस्तीत्यतो ऽनन्तगुणता विष्णोः कथमेवापोद्यते ।
*8,126*
यच्च वैशेषिकादिभिरीश्वरज्ञानेच्छाप्रयत्नानामखण्डत्वमुक्तं तदप्यसत् ।
"अनन्तं गुणतःऽ; इति प्रत्येकं गुणानामनन्तविशेषवत्त्वस्यागमसिद्धत्वात् ।
तदनङ्गीकारे बाधकं चाह- यदीति ॥
यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारिताः
कथं तत्तद्विषयता सार्वज्ञ्यार्थं विधीयते ।
औपाधिकविशेषस्तु पूर्वमेव निराकृतः
*8,126f.*
न्यायसुधा:
तत्तद्विषयता घटादिविषयता, विधीयते अस्तित्वेनाङ्गीक्रियते ।
मा भूत्तत्तद्विषयत्वमित्यत उक्तम्- सार्वज्ञार्थमिति ॥
उपलक्षणं चैतत् ।
सर्वकर्तृत्वाद्यर्थं चेत्यपि द्रष्टव्यम् ।
अत्रानन्तविशेषा इति यथागमसिद्धोक्तिः ।
वस्तुतस्तु यदि ईश्वरज्ञानादि निर्विशेषं स्यात्तदा तत्तद्विषयत्वं न स्यात् ।
तदा च तस्य सार्वज्ञादिकं न स्यात् ।
सर्वविषयज्ञानवान्हि सर्वज्ञो नाम ।
तथा सर्वकार्योत्पत्तिविषयेच्छाप्रयत्नवान्सर्वकर्ता ।
सर्वकार्यविनाशविषयेच्छादिमांश्च सर्वसंहर्ता ।
अङ्गीकृतं च सार्वज्ञादि परेण परमेश्वरस्य ।
अतस्तदर्थं ज्ञानादेस्तत्तद्विषयतया भाव्यम् ।
कथं च तथा सति निर्विशेषत्वमिति ।
*8,127*
एतनैदपि निरस्तम् ।
यदाहुः ।
"अनित्यं हि ज्ञानादि कर्मकारकतया विषयसहितत्वमपेक्षेत ।
नित्यस्य तु किं विषयेणऽ; इति ।
विषयाणां चानन्त्यादनन्तविशेषतासिद्धिः ।
*8,128*
स्यादेतत् ।
निर्विशेषमेवेश्वरज्ञानं ज्ञप्तिरूपम् ।
तत्तु तैस्तैर्घटाद्युपाधिभिस्तत्तद्विषयमिति व्यपदिश्यते ।
एवमखण्डैव तस्येच्छास्त्वित्येवमाकारा ।
तथापि तैस्तैः सृष्टयाद्युपाधिभिः सिसृक्षा सज्जिहीर्षेत्याद्युच्यते ।
तथा प्रयत्नो ऽपि ।
अतः स्वतो विशेषाभावे ऽप्यौपाधिकविशेषवशात्तत्तद्विषयता सार्वज्ञादिकं च युक्तमित्यत आह- औपाधिकेति ॥
औपाधिको ऽपि विशेषो ऽस्ति न वा ।
अस्ति चेत्कथं निर्विशेषत्वम् ।
न चेत्पुनः सार्वज्ञाद्यभाव इत्यादिपूर्वोक्तन्यायेनैव निरस्तमित्यर्थः ।
किञ्चोपाधिर्ज्ञानादिसम्बद्धो विशेषमापादयेदसम्बद्धो वा ।
आद्ये सम्बन्धो विषयविषयिभावातिरिक्तो नास्तीति पूर्वमेव तद्विषयतैष्यव्या ।
द्वितीये ऽतिप्रसङ्गः ।
अपि चास्त्वित्येवमाकारेणैवेच्छादिना सृष्टयादिकं भवति उत सृष्टयादिकं भवत्वित्येवमाकारेण ।
नाद्यः ।
अतिप्रसङ्गात् ।
द्वितीये स्वतः सविशेषत्वमित्येषा दिक् ।
*8,129*
वैशेषिकादयः केचिदीश्वरज्ञानं स्वप्रकाशं न भवतीत्याहुः ।
तानपाकरोति- स्वप्रकाशत्वमपीति ॥
स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् ।
कथं सर्वज्ञता तस्य ... ॥ मनुव्_2,2.148अ-च् ॥
न्यायसुधा:
यैस्त्विति सम्बन्धः ।
केचिद्वैशेषिकादयः स्वप्रकाशतामङ्गीकुर्वन्तीत्येतत्सूचयितुं तुशब्दः ।
ज्ञानस्य ईश्वरज्ञानस्य ।
तेषां पक्ष इति शेषः ।
तस्य ईश्वरस्य ।
कथं स्वप्रकाशत्वाभावे सर्वज्ञताभाव इत्यत आह- स्वेति ॥
*8,130*
... स्वज्ञानाधिगमं विना
न्यायसुधा:
स्वज्ञानाधिगमाभावादित्यर्थः ।
एकमेव हीश्वरज्ञानं तच्च स्वव्यतिरिक्तमेव विषयीकरोति न तु स्वरूपमिति कथमीश्वरः सर्वज्ञः स्यादिति ।
स्वप्रकाशज्ञानाभावे ऽपीश्वरस्य सार्वज्ञसम्भवं शङ्कते- ज्ञानमिति ॥
ज्ञानं विश्वाधिगं त्वेकं तज्ज्ञानविषयं परम् ।
इति ज्ञानद्वयेनैव सर्ववित् परमेश्वरः
इति चेद् ...
न्यायसुधा:
विश्वाधिगं स्वव्यतिरिक्तसमस्तविषयम् ।
तज्ज्ञानं विषयो यस्य तत्तथोक्तम् ।
स्यादयं दोषो यदीश्वरस्यैकमेव ज्ञानं स्यान्न चैवम् ।
द्वे खल्वीश्वरज्ञाने ।
तत्रैकं स्वव्यतिरिक्तद्वितीयज्ञानसहितसर्वविषयम् ।
द्वितीयं तु तज्ज्ञानविषयीकारि ।
एवंच ज्ञानस्य स्वविषयत्वाभावे ऽपीश्वरस्यैवंविधज्ञानद्वयेनैव सर्ववित्त्वमुपपद्यत इति ।
तथापीश्वरस्यासार्वज्ञं तज्ज्ञानस्य वा स्वप्रकाशत्वं दुष्परिहरमित्याशयवानुत्तरमाह- एष एवेति ॥
... एष एवार्थस्तज्ज्ञानावसितो यदि ।
स्वप्रकाशत्वमेव स्याज् ... ॥ मनुव्_2,2.150अ-च् ॥
न्यायसुधा:
आस्तां तावत्सजातीयात्मविशेषगुणयौगपद्यानुपपत्तिः ।
ज्ञानद्वयवानहं, ज्ञानद्वयेन सर्वज्ञो ऽस्मि, इदं मे ज्ञानमेतज्ज्ञानविषयं एतच्चैतद्विषयमित्यादिरेष एवार्थ ईश्वरेण ज्ञायते न वा ।
नेति पक्षे तस्य सार्वज्ञं न स्यात् ।
आद्ये किमेतयोरन्यतरेणोत ज्ञानान्तरेण ।
प्रथमस्येदमुत्तरम् ।
एष एवार्थस्तयोरन्यतरेण ज्ञानेनावसितो विषयीकृतो यदि तदा तस्य ज्ञानस्य स्वप्रकाशत्वं स्यादेवेति ।
तत्कथमित्यत आह- ज्ञानं हीति ॥
... ज्ञानं ह्येतद् विशेषणम्
न्यायसुधा:
यद्यप्येतज्ज्ञानं न निष्कृष्टं स्वस्य स्वविषयतामापद्यते ।
तथापि ज्ञानविषयस्यैतस्य ज्ञानद्वयानहमित्यादेरर्थस्य विशेषणं भवत्येव ।
तथाच विशिष्टार्थविषयत्वे विशेषणभूतस्वविषयत्वमवर्जनीयमेव ।
नहि दण्डिसाक्षात्कारे दण्डो न स्फुरतीति युक्तमिति ।
*8,131*
द्वितीये दोषमाह- ज्ञानान्तरेणेति ॥
ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः
न्यायसुधा:
ज्ञानान्तरेण तृतीयेन ज्ञानेन ।
यद्येषो ऽर्थो विषयीक्रियते ।
अत्र अस्मिन्पक्षे अनवस्थितिः ज्ञानद्वयवानीश्वर इति नियमाभावो भवेत् ।
यस्तु ज्ञानत्रयवानिति नियमं मन्यते स प्रष्टव्यः ।
किं ज्ञानत्रयवानहमस्मीत्यादिकमर्थमीश्वरो वेत्ति न वेति ।
द्वितीये तु पुनरसार्वज्ञम् ।
आद्ये किमेतत्त्रयान्यतमेन, उत चतुर्थेन ।
नाद्यः ।
स्वप्रकाशतापत्तेः ।
द्वितीये पुनरनवस्थैव ।
एवं ज्ञानान्तरपरम्पराभ्युपगमव्यसनं दुर्वारं स्यात् ।
*8,132*
नन्वनन्तानीश्वरज्ञानान्यभ्युपगच्छामि को दोष इति चेन्न ।
कल्पनागौरवाद्वरमेकस्यैव ज्ञानस्य स्वप्रकाशत्वाभ्युपगम इत्याशयवानुपसंहरति- स्वप्रकाशत्वमिति ॥
स्वप्रकाशत्वमेतस्माद् दुर्निवार्यं समापतेत्
न्यायसुधा:
ननु ज्ञानं न स्वप्रकाशं वस्तुत्वादित्यादेः विरुद्धं(दि) स्वप्रकाशत्वं कथमङ्गीकर्तुमुचितमिति चेत् (न) ।
यत् वस्तु, न तत्स्वप्रकाशमिति व्याप्तिज्ञानं स्वात्मानं न विषयीकरोति चेन्न सर्वोपसंहारवद्वयाप्तिसिद्धिः ।
विषयीकरणे तु स्वप्रकाशत्वं दुर्निवारमित्याशयवतो वोपसंहारः ।
*8,133*
यदुक्तमीश्वरो ऽनन्तगुण इति तदनुपपन्नम् ।
चतुर्विंशतेरधिकानां गुणानामभावात् ।
तत्रापि केषाञ्चिदीश्वरे ऽनुपपत्तेः ।
तस्मादुपपन्नैरष्टभिरेव गुणैरुपपन्नो भगवानिति ।
मैवम् ।
शौर्यौदायर्प्रागल्भ्यप्रभृतीनां गुणानां भावात् ।
परेण स्वीकृतेष्वपि केषाञ्चिदनुपपत्त्यभावाच्च ।
तथाहि ।
सुखं तावदीश्वरस्य कुतो नाङ्गीकर्तव्यम् ।
ईश्वरः सुखरहितो दुःखरहितत्वाद्घटवत् ।
सुखवांश्चेददुःखवान्प्रसज्यते देवदत्तवदिति विपक्षे बाधकोपपन्नादनुमानादिति चेत् ।
तत्रानुग्राहकस्य तर्कस्य तावद्दूषणमाह- सुखवानिति ॥
*8,134*
सुखवान् दुःखवांश्च स्यादिति व्याप्तिश्च नो भवेत्
न्यायसुधा:
कथं व्याप्त्यभाव इत्यत आह- निर्दुःखत्वमिति ॥
निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते
*8,134f.*
न्यायसुधा:
यद्यपि सुखित्वं दुःखित्वेन सहचरितं देवदत्तादावुपलब्धम् ।
तथापीश्वरे निर्दुःखे ऽपि वाच्यं प्राक् प्रसञ्जानाद्वयाप्तिग्रहणवेलायामेवेदं व्याप्तिभङ्गोद्भावनमिति ।
सर्वत्राप्येवं वक्तुं शक्यत्वेनोक्तदोषानिस्तारादिति ।
मैवम् ।
स्वाभ्युपगममात्रेणापादनस्थले व्याप्तिभङ्गाभिधाने सत्येवमेतत् ।
नचैवं प्रकृते ।
श्रुतिबलेनैवेश्वरे सुखित्वस्य दुःखित्व(स्य)व्यभिचारोपपादनात् ।
तदिदमुक्तम्- श्रुत्यैव भण्यत इति ॥
प्रत्येकं सम्बन्धादेकवचनम् ।
*8,135*
कासौ श्रुतिरित्यतो ऽर्थतस्तामुदाहरति- य इति ॥
यो ऽशनायापिपासे च शोकादींश्चातिवर्तते ।
आनन्दं ब्रह्मणो विद्वान् विपाप्मेत्यादिका च सा
न्यायसुधा:
अनेन"यो ऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येतिऽ; इति श्रुतिमुपादत्ते ।
विपाप्मेत्यनेन"य आत्मापहतपाप्माऽ; इत्यादिश्रुतिम् ।
सा निर्दुःखत्वाद्यभिधात्री ।
नन्वानन्दश्रुतेर्दुःखाभावविषयत्वोपपत्तेर्न श्रुत्यवष्टम्भेन प्रसङ्गमूलभूतव्याप्तिभङ्गो वक्तुं शक्यत इत्यतो ऽङ्गीकृत्य तावत्सोपाधिकत्वमाह- ईश्वरस्येति ॥
*8,136*
ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि ।
उक्ते किमुत्तरं ब्रूयाच्छ्रुत्यनादरतत्परः
न्यायसुधा:
तथेष्टत्वं दुःखी भवत्वितीष्टत्वम् ।
दुःखित्वोपाधिः दुःखित्वप्रयोजकम् ।
अपिपदेनाधर्मादिमत्त्वं समुच्चिनोति ।
अनादरो विना बाधकेन प्रतीतार्थपरित्यागः ।
मा भूत्तावत् श्रुत्यवष्टम्भेन व्याप्तिभङ्गः, सोपाधिकतया तु भविष्यति ।
सोपाधिकसम्बन्धस्य व्यभिचारनियमादिति ।
यः सुखी स दुःखी भवत्वितीश्वरेच्छाविषय एवेति नियमान्नायमुपाधिरित्यत आह- न चेति ॥
न चात्मदुःखितेच्छा स्यादत एतन्निवार्यते
न्यायसुधा:
ईश्वरस्य हि"आनन्दं ब्रह्मणो विद्वान्ऽ; इत्यादिश्रुतेः सुखित्वे ऽपि नोपाधिमत्त्वम् ।
कस्याप्यात्मदुःखितेच्छाभावादत एतदुपाधेर्व्याप्याभिमतव्यापकत्वं निवायर्ते ।
यद्यप्ययं नियमो न दर्शनमात्रेण सिद्धयति ।
अतिप्रसङ्गात् ।
नियामकं तु नास्तीति वक्तुं शक्यते ।
तथापि श्रुत्यर्थपरित्यागं वारयितुं प्रसङ्गापादनायेदमुदितमिति द्रष्टव्यम् ।
भवेदेतद्यद्यानन्दश्रुतिः सुखवादिनी स्यान्न चैतदस्ति ।
तस्या दुःखाभावपरत्वादिति चेत् ।
किं बाधकादियं श्रुतिः स्वार्थात्प्रच्याव्यते उतैवमेव ।
न तावद्द्वितीयः ।
दुःखाभावश्रुतेरप्यन्यथयितुं शक्यत्वेन तर्कस्येष्यापत्तितापत्तेः ।
आद्ये न तावत्प्रत्यक्षमागमो वा बाधको ऽस्ति ।
ततः सुखित्वे दुःखित्वप्रसङ्गो वा निर्दुःखत्वानुमानं वा बाधकमिति वाच्यम् ।
तदुभयमपि व्यप्तिबलप्रवृत्तं वा स्यात्सहदर्शनमात्रबलप्रवृत्तं वा ।
नाद्यः ।
इतरेतराश्रयत्वप्रसङ्गात् ।
सिद्धे हि श्रुतेः स्वार्थप्रच्यावने तर्कानुमानयोर्व्याप्तिसिद्धिस्तत्सिद्धौ च श्रुतेः स्वार्थात्प्रच्यावनसिद्धिरिति ।
*8,138*
नन्वेतद्भवतामपि समानम् ।
श्रुतेः स्वार्थपरत्वे तर्कानुमानयोर्व्याप्तिभङ्गः, सति च तस्मिन् श्रुतेः स्वार्थपरत्वमिति ।
मैवम् ।
यतः प्रतीतार्थपरित्याग एव बाधकमपेक्षते ।
न स्वार्थपरत्वं, बाधकाभावम् ।
तस्य प्रतीत्यैव सिद्धत्वात् ।
द्वितीये त्वतिप्रसङ्गः स्यादित्याह- सहेति ॥
सहदर्शनमात्रेण श्रुतीनामपलापकः
यज्ञादेरपि पापस्य हेतुत्वं हिंसया युतेः ।
नानुमाति कथं ... ॥ मनुव्_2,2.156अ-च् ॥
न्यायसुधा:
आपाद्येन साध्येन वा सहदर्शनं यस्यापादकस्य साधनस्य वा तत्सहदर्शनम् ।
श्रुतीनाम् ईश्वरस्यानन्दवादिनीनाम् अपलापकः स्वार्थप्रच्यावकः ।
यज्ञादेरित्यादिपदेन गोभ्यो यवसदानं गृह्यते ।
युतेः योगात् ।
यदि सहदर्शनमात्रेणानन्दश्रुत्यर्थालापः क्रियेत ।
तदा या हिंसा सा पापहेतुरिति सहदर्शनेन ज्योतिष्योमादिश्रुत्यर्थापलापो ऽपि क्रियतामविशेषादिति भावः ।
*8,139*
नन्वविशेषो ऽसिद्धः ।
हिंसात्वपापसाधनत्वयोः ।
साहचर्ये निषिद्धत्वस्योपाधेः विद्यमानत्वात् ।
नच सुखित्वदुःखित्वसम्बन्धे कश्चिदुपाधिरस्ति ।
ईश्वरस्य तथेष्टत्वमुपाधिस्त्विदानीमपि गह(नं प्रवि)ननिविष्य इत्याशङ्कते- तत्रेति ॥
... तत्र यद्युपाधिर्निषिद्धता
न्यायसुधा:
अस्तीत्युच्यत इति शेषः ।
केयं निषिद्धता नाम ।
अकर्तव्यतया श्रुत्युक्तत्वमिति चेत् ।
केयमकर्तव्यतापि करणानर्हता वा कर्तुरनिष्यहेतुता वा ।
नाद्यः ।
ब्रह्महिंसाया अपि क्रियमाणत्वात् ।
द्वितीये ऽपि किं साक्षादनिष्यसाधनत्वं परम्परया वा ।
नाद्यः ।
हिंसानन्तरमेव दुःखोत्पादादर्शनात् ।
द्वितीये तु पापसाधनतयोक्तत्वमुपाधिरित्युक्तं स्यात् ।
एवंचात्राप्युपाधिसद्भावादविशेष एवेति परिहरति- अदुःखित्वेनेति ॥
अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत्
न्यायसुधा:
"अदुःखित्वेनानुक्तिरितिऽ; दुःखित्वेनोक्तिरित्यर्थः ।
कासौ देवदत्तादीनां श्रौती दुःखित्वोक्तिरित्यत आह- अदुःखमिति ॥
अदुःखमितरत् सर्वं जीवा एव तु दुःखिनः ।
तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते ॥ मनुव्_2,2.157च्-f ॥
इति श्रुतिर् हि परमा ...
न्यायसुधा:
प्रवर्तते दुःखप्रहाणसाधनं परमात्मानं प्रतिपादयतीत्यर्थः ।
*8,141*
एवमनुमानानुग्राहकं तर्कं निराकृत्येदानीमीश्वरो न सुखी निर्दुःखत्वाद्घटवदित्यनुमानमपि दूषयति- श्रुत्युक्तिरिति ॥
... श्रुत्युक्तिर् यदि कारणम् ।
किं कार्यमनुमानेन गळस्तनसमेन हि ॥ मनुव्_2,2.158ब्-द् ॥
न्यायसुधा:
कारणं प्रमायाः ।
"आनन्दं ब्रह्मणो विद्वान्ऽ; इत्यादिश्रुतिः प्रमाणं न वा ।
नेति पक्षे अपसिद्धान्तः ।
आद्ये तद्बाधितत्वेनाजागलस्तन इव विवक्षितार्थासाधकमनुमानमुपेक्षणीयमिति भावः ।
ननु श्रुतिः प्रमाणमेव किन्त्वनुमानविरुद्धत्वात्प्रतीतार्थं परित्यज्य दुःखाभावपरतया व्याख्यातव्येत्याशङ्कय, नैवम्, अनुमानस्य श्रुतिबाधकत्वादर्शनात् ।
क्वचिदुपजीव्यत्वादिनैव बाधकत्वात् ।
एवमेव बाधकत्वाभ्युपगमे त्वतिप्रसङ्गः स्यादित्याह- अनुमानेनेति ॥
अनुमानेन यद्यर्थः श्रुतिदृष्टो व्यपोद्यते ।
पूर्वोक्तेन प्रकारेण नेश्वरो धर्म एव च ।
स्यात् तत्फलं च ... ॥ मनुव्_2,2.159अ-ए ॥
न्यायसुधा:
पूर्वोक्तेन शास्त्रयोनिसूत्रोक्तेन ।
नेश्वरः स्यात् श्रुतिदृष्टो ऽपीश्वरो ऽनुमानविरोधात्त्याज्यः स्यादिति भावः ।
धर्मश्च नैव स्यात्तत्फलं च नैव स्यादित्यत्राप्येवमेव तात्पर्यम् ।
यज्ञक्रिया नादृष्टफलहेतुः क्रियात्वान्निष्ठीवनादिक्रियावत् ।
धर्मो वा न सुखसाधनमदृष्टत्वादधर्मवदित्याद्यनुमानसम्भवात् ।
अतिप्रसङ्गस्य विपर्यये पर्यवसानमाह- तेनेति ॥
... तेनात्र श्रुतिरेव प्रमा भवेत्
न्यायसुधा:
यस्मादुपजीव्यत्वादिरहितेनानुमानेनानन्दश्रुतेर्बाधाभ्युपगमे ऽनिष्यप्रसङ्गस्तेन कारणेनैषा श्रुतिरत्रेश्वरस्यानन्दवत्त्व एव प्रमा प्रमाणं भवेन्न पुनरन्यथा योज्येति ।
जोस्हि-1
*8,143*
मा भूत् श्रुतिरप्रमाणं, मा च भूदनुमानबाधयार्ऽथान्तरपरा, तथाप्यनुमानस्य बाधिका कुतः, प्रतिरोधिका तु भवेदित्यत आह- ईशस्येति ॥
ईशस्यानुमया सिद्धेः श्रुतिर्धमिर्प्रमा भवेत् ।
तया सर्वगुणैः पूर्ण उक्त ईशो यतस्ततः
अनानन्दानुमा तस्य धर्मिग्राहिविरोधतः ।
न प्रमाणं भवेत् ... ॥ मनुव्_2,2.161अ-च् ॥
न्यायसुधा:
अनुमयेति श्रुतिव्यतिरिक्तप्रमाणोपलक्षणम् ।
धर्मिप्रमा धर्मिग्राहकं प्रमाणम् ।
अनुमानं हि प्रमाणान्तरेण सिद्धे धर्मिणि प्रवर्तते नान्यथा ।
अत्र चेश्वरो धर्मी न चासावनुमानेन सिद्धयतीति समर्थितं प्राक् ।
प्रत्यक्षाद्यविषयत्वं तु परस्यापि सम्मतम् ।
ततः परिशेषात् श्रुतिरेव धर्मिणः परमेश्वरस्य ग्राहिकेत्येष्यव्यम् ।
तथाचानेनानुमानेन श्रुतिप्रामाण्यमनुमतम् ।
अन्यथा स्वस्यानुत्थानप्रसङ्गात् ।
सा चोपजीव्या श्रुतिरीश्वरमानन्दवन्तमाचष्टे ।
ततस्तद्विरोधादनुमानमप्रमाणमेव ।
अग्निस्वरूपग्राहकप्रत्यक्षविरुद्धतच्छैत्यानुमानवदिति ।
नच वाच्यं यः सर्वज्ञ इत्यादिवाक्यमनुमानस्योपजीव्यं नानन्दवादीति ।
सर्वस्यापि वेदस्यैकवाक्यत्वेनार्ध(ज)चरतीयायोगात् ।
अन्यथाग्निग्राहकमेवोपजीव्यम् ।
नतु तदौष्ण्यग्राहकमित्यपि स्यात् ।
*8,144*
अनेनैव न्यायेनेश्वरस्य विग्रहराहित्याद्यनुमानमपि सर्वं श्रुतिविरुद्धत्वादप्रमाणमेवेत्याशयवानुपसंहरति- तस्मादिति ॥
... तस्मान्नानुमात्रोपयोगिनी
न्यायसुधा:
अत्र ईश्वरवाक्ये ।
अत एव सर्वगुणैः पूर्ण इत्युक्तम् अन्यथाऽनन्दवानित्यवक्ष्यत् ।
*8,145*
अनुपपत्त्यन्तरं वैशेषिकादिदर्शने दर्शयन्"नित्यमेव च भावात्ऽ; इति सूत्रं व्याख्याति- नित्येच्छत्वादिति ॥
नित्येच्छत्वात् परेशस्य परमाणुसदात्वतः ।
अदृष्टकालयोश्चैव भावात् कार्यं सदा भवेत्
*8,145f.*
न्यायसुधा:
वैशेषिकादयो हि कालविशेषे द्वयणुकादिप्रक्रमेण महाभूतसृष्टिमभ्युपगच्छन्ति ।
तत्तदीयप्रक्रियापर्यालोचनायां नोपपद्यते ।
किन्तु तत्पक्षे कार्यं सदा भवेत् ।
यदाभिलष्टते ततः प्रागपि भवेत् ।
कुतः ।
कारणसामग्रीसम्पत्तिनिबन्धनो हि कार्योत्पत्तेः कालनियमः ।
तत्रादिसृष्टौ परमाणवः समवायिकारणभूतास्तावत्सदा विद्यन्ते ।
निमित्तकारणं चेश्वरेच्छा नित्यैव ।
तथा कालो दि(क्च)क् ।
यद्यप्यदृष्टं धर्माधर्मसमाख्यातं न नित्यं तथापि प्रलये ऽस्तीत्यङ्गीक्रियत एव ।
वृत्तिलाभस्तदा नास्तीति चेन्न ।
तस्यापीश्वरेच्छादिकारणकस्य तद्भावे ऽभावानुपपत्तेः ।
अत एव परमाणुसंयोगस्यासमवायिकारणस्याभावान्न सदा सृ(सदादिसृ)(महदादिसृ)ष्यिरिति निरस्तम् ।
संयोगानुत्पादस्याप्यनुपपत्तेः ।
तदसमवायिकारणकर्माभावादिति चेन्न ।
तदनुत्पादस्याप्ययोगात् ।
नचातो ऽन्यद्वयणुकादेः कारणमस्ति ।
यद्वैकल्यादभिलषितसमयात्प्राक् कार्याभावो भवेत् ।
सत्यां चाभिमतसामग्षां कार्यानुदये पश्चादपि नोत्पद्येत ।
नियामकाभावादिति ।
सदात्वं सदातत्वनम् ।
भावात् प्रलये ऽपीति शेषः ।
एवशब्दस्य सदैवेति सम्बन्धः ।
कार्यं भवेदिति चाभ्युपगम्योक्तम् ।
वस्तुतस्तु तत्पक्षे कदापि द्वयणुकाद्युत्पत्तिर्न सम्भवति ।
विनाशकारणस्येश्वरेच्छादेः सदातनत्वेन सत्प्रतिपक्षत्वात् ।
कार्योत्पत्तिसहकृतमेवेश्वरेच्छादिकं विनाशकारणमित्यङ्गीकारे ऽप्युत्पत्त्यनन्तरमेव विनाशः प्रसज्येतेति ।
अत एव सृष्टयादीति वक्ष्यति ।
*8,147*
स्यादेवं यदि कालमात्रं सृष्टेर्वा संहारस्य वा कारणं स्यात् ।
नचैवम् ।
किन्तु कालविशेष एवातस्तद्भावाभावाभ्यां सृष्टिसंहारनियमो घटते ।
तथा नेश्वरेच्छामात्रं सृष्टयादिहेतुः किन्तु तद्विशेष एव ततस्तद्भावाभावप्रयुक्ता सृष्टयादिव्यवस्था स्यादिति चेन्न ।
किं कालदेशादेरौपाधिको भेदः, किंवा स्वाभाविकः ।
नाद्यः ।
निरस्तत्वात् ।
द्वितीये त्वपसिद्धान्त इत्याह- नहीति ॥
न हि कालविभेदो ऽस्ति तत्पक्षे ...
न्यायसुधा:
हिशब्देन"आकाशकालदिशामेकैकत्वात्ऽ; इत्यादितद्वाक्यं स्मारयति ।
कालेतीश्वरेच्छाया अप्युपलक्षणम् ।
*8,148*
नन्विदं दूषणं भवतामपि समानम् ।
तथाहि ।
महदाद्युपादानकारणं प्रकृतिर्नित्यैव ।
तथा निमित्तकारणमीश्वरेच्छाकालादिकमपि ।
तदेव च प्रलयकारणम् ।
अतः सृष्टिप्रलयसमयनियमो भवतामपि दुर्घट इत्यत आह- अस्मन्मत इति ॥
... ऽस्मन्मते हरेः ।
विशेषकाल एवैतत्सृष्टयादीच्छा सदातना ॥ मनुव्_2,2.163ब्-द् ॥
न्यायसुधा:
यद्यप्यस्मन्मते हरेरिच्छा सदातना ।
प्रकृत्याद्युपलक्षणमेतत् ।
तथापि विशेषकाल एवैतस्य महदादेः सृष्टयादि भवतीति योजना ।
अस्माभिः काले स्वभावत एव भेदो ऽभ्युपगम्यते ।
तथा च कालविशेषस्यैव सृष्टिं संहारं च कारणत्वात्तद्भावाभावाभ्यां सत्स्वपीतरकारणेषु सृष्टयादिसमयनियमो युज्यत इति भावः ।
ननु कालविशेष इति वाच्यम् ।
मैवम् ।
विशिष्टत इति विशेषः, स चासौ कालश्चेति विग्रहग्रहणात् ।
ननु सदातनीति भवितव्यम् ।
मैवम् ।
नायं ट्युट्युलोरन्यरतः प्रत्ययः ।
किन्तु भ(भा)वार्थे तनप्रत्ययो ऽयम् ।
अथवा तनेति तनोते रूपमेतत् ।
*8,149*
ननु ते कालभेदा यदि नित्यास्तदा स प्रसङ्गस्तदवस्थः ।
व्यर्थश्च कालभेदाभ्युपगमः ।
अनित्यत्वे तत्कारणं वाच्यमिति चेत् ।
सत्यम् ।
उपादानं तु प्रकृतिरेव ।
निमित्तमाह- विशेषाश्चेति ॥
*8,150*
विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा
न्यायसुधा:
न केवलं महदादि किन्तु कालस्य विशेषाश्च क्षणलवादयः ।
एवशब्दस्य हरेरेवेति सम्बन्धः ।
सदेत्यनेन न युगपत्सर्वक्षणसृष्टिर्येन तेषामपि क्षणिकत्वं स्यात् ।
किन्तु निरन्तरप्रवाहतयेत्युक्तं भवति ।
*8,152*
ननु कालविशेषाणां परमेश्वराज्जन्म कुतः प्रमाणात्सिद्धमित्यत आह- सर्व इति ॥
सर्वे निमेषा इति हि श्रुतिरेवाह सादरम्
न्यायसुधा:
"सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधिऽ; इति श्रुतिरेव कालविशेषाणामीश्वराज्जनिमाह हि इत्यर्थः ।
विशेषणद्योतत इति विद्युत्तस्मात्परमपुरुषात्सर्वे निमेषाः कालभेदा अधिजज्ञिरे यतास्वं जायन्त इति ।
नन्वेषा श्रुतिः कालोपाधीनामीश्वराज्जननमाह, नतु कालस्य ।
तथा सति काष्ठाकलामुहर्ताश्चेत्युत्तरवाक्यस्य पौनरुक्त्यप्रसङ्गात् ।
नहि सर्वनिमेषातिरिक्तं काष्ठाकलादिकमस्ति ।
उपाधयस्तु निमेषादिरूपाः पृथगेवेति न तत्र पुनरुक्तिदोष इत्यत उक्तम्- सादरमिति ॥
यत्सर्वनिमेषजन्माभिधाय पुनः काष्ठादिजन्माभिधत्ते तदादरार्थमित्यतो न पुनरुक्तिदोषः ।
उपाधिभेदस्तु नोपपद्यत इत्युक्तमेवेति ।
*8,155*
ननु निमेषादिशब्दा अक्षिपक्ष्मसंयोगादिवाचिनो न साक्षात्कालाभिधायिनः ।
अतो नेयं श्रुतिर्व्यक्तं कालस्यैवेश्वराज्जन्म प्रतिपादयितुमलमित्यतो ऽत्र स्पष्टां श्रुतिं चाह- उदीरयतीति ॥
उदीरयति कालाख्यशक्तिमित्यस्य वागपि
न्यायसुधा:
"सो ऽन्तःशरीरे ऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाणःऽ; इति अस्य ईश्वरस्य वागपि कालस्येश्वरादुत्पत्तिमाहेत्यर्थः ।
कालात्मिकां कालाख्यां सहकारिशक्तिमुदीरयाणो जनयन्नित्यर्थः ।
अत्र कालशब्दादीश्वरस्य जगत्सृष्टौ शक्तित्वाभिधानाच्च नार्थान्तरकल्पनावकाशः ।
*8,156*
स्यादेतत् ।
कालस्तावत्सर्वोत्पत्तिमतां निमित्तम् ।
नच कालस्योत्पत्तौ कालान्तरमस्ति ।
तत्कथं तस्योपपत्तिः ।
पूर्वकालः परकालस्य निमित्तमिति चेन्न ।
इदानीं जातस्तदानीं जात इत्यधिकरणतया कालस्य कारणतावधारणात् ।
अधिकरणस्य कार्योत्पत्तिसमानकालीनताया गेहे जातो गोष्ठे जात इत्यादौ निश्चितत्वादित्यत आह- कालस्येति ॥
कालस्य कालगत्वेन न विरोधो ऽपि कश्चन
न्यायसुधा:
कालस्योत्पत्त्यङ्गीकारे न केवलं साधकसद्भावः ।
किन्तु कश्चन विरोधो ऽपि नास्तीति योजना ।
एतच्च प्रपञ्चयिष्यते ।
एवं स्वमते कालविशेषभावाभावप्रयुक्तः सृष्टयादेः समयनियम इति समर्थितम् ।
प्रकारान्तरेण तं समर्थयते- असङ्खयातेति ॥
असङ्खयातविशेषत्वादिच्छाया अपि सर्वदा
*8,156f.*
न्यायसुधा:
सर्वदा विद्यमानाया इति शेषः ।
सर्वदा विद्यमानाया अपीश्वरेच्छयाः शक्तिव्यक्तिरूपावस्थितसिसृक्षात्वाद्यसङ्खयातविशेष(वत्त्वा)त्वात् तद्वयक्त्यव्यक्तिप्रयुक्तः सृष्टयादेः समनियमो युज्यत इत्यर्थः ।
यद्यपि कालभेदमात्रेण कृतसमाधानमेतत् ।
कालविशेषे स्रक्ष्यामीत्येवंरूपत्वाद्भगवदिच्छाया न मोघत्वमापद्यते ।
तथापि वस्तुस्थितिरियं दर्शिता वेदितव्या ।
*8,157*
कालस्य कालगत्वेनेत्युक्तं, तत्र किं कालः स्वगतः किं वा कालान्तरगतः ।
नाद्यः ।
स्वस्कन्धारोहणवद्विरुद्धत्वात् ।
न द्वितीयः ।
तदभावात् ।
भावे वा कालान्तरसृष्टिवैयर्थ्यात् ।
तस्याप्युत्पत्तौ कालान्तराङ्गीकारप्रसङ्गादित्यतः सप्रमाणकमुक्तं विवृणोति- ईश इति ॥
ईशो देशश् च कालश् च स्वगता एव सर्वदा
न्यायसुधा:
देश इत्यव्याकृताकाशाभिधानम् ।
स्वगता इत्युक्त्या प्राप्तां देशकालयोः स्वातन्त्र्यशङ्कां वारयति- ईशाधीनाविति ॥
*8,158*
ईशाधीनौ च तौ नित्यं तदाधारौ च तद्गतौ ।
इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु
तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि ।
स्यात् कालः स तदैवेति कालस्य स्वगतत्वतः
न्यायसुधा:
विशेषणमात्रेण सत्ताप्रतीतिप्रवृत्तीनां परमेश्वरायत्तत्वमुच्यते ।
श्रुतिरपीति साक्षिणं समुच्चिनोति ।
यतः कालस्य स्वगतत्वं श्रुतिः प्राह साक्षिणा च सिद्धम् ।
अतः कालस्य स्वगतत्वतः ।
स कालस्तदैव स्यादितीशः सदैव स्वोद्दिष्य एव काले ।
तत्तत्कालसृष्टिमेव वाञ्छतीत्यन्वयः ।
*8,158f.*
एतदुक्तं भवति ।
कालातिरिक्तकार्याणामेव कालो ऽधिकरणतया कारणं न कालस्य ।
केवलं श्वो घटं स्रष्टास्मीतिवत्कालसृष्टिं वाञ्छतः परमेश्वरस्याधिकरणतयोद्देश्यः कालः क इति प्रश्नो ऽवशिष्यते ।
तत्र यः सृज्यः स एवेत्युत्तरम् ।
नहि सृज्यस्य प्राक् सत्त्वमस्ति ।
येनोद्देश्यत्वं सत्त्वमपेक्षेत ।
अधिकरणाधिकर्तव्यता चैकस्यैव श्रुत्यादिसिद्धा विशेषबलाच्चोपपद्यते ।
अतो न कालस्योत्पत्तौ काचिदनुपपत्तिरिति ।
*8,160*
यदुक्तं यदेश्वरेच्छा सिसृक्षाकारा व्यज्यते तदा महदादिसृष्टिभर्वति ।
यदा तु सञ्जिहीर्षारूपा सम्पद्यते तदा संहारो भवतीति ।
तत्रेदं वैचित्र्यं किन्निमित्तमिति वाच्यम् ।
नच कालविशेषो निमित्तमिति युक्तम् ।
तस्येश्वरेच्छायत्तत्वात् ।
नापि पुरुषार्थायत्तम् ।
पारतन्त्र्यापत्तेरित्यत आह- स्वभावादेवेति ॥
स्वभावादेव हीच्छैषा ...
न्यायसुधा:
एषा विचित्रा ।
तस्मात्कालविशेषाणामीश्वराधीनत्वे नेतरेतराश्रयदोषापत्तिरिति हिशब्दार्थः ।
कुत एतदित्यत आह- देवस्येति ॥
... देवस्यैव इति श्रुतेः
न्यायसुधा:
एतदवगम्यत इति शेषः ।
*8,161*
अपर आह ।
किमनया कालादिवैचित्र्यकल्पनया ।
यावता कारणानां कार्याणां च स्वभावादेव समयनियमोपपत्तेः ।
अन्ततो ऽपि हि स्वभाववादो ऽभ्युपगन्तव्यः ।
ततो वरमादावेव स्वभाववादाभ्युपगम इति ।
अत आह- स्वभावो ऽपीति ॥
स्वभावो ऽपि परेशेच्छावश इत्युदितः पुरा
न्यायसुधा:
पुरा"चेतनानां विशेषो यःऽ; इत्यादौ ।
स्वभाववादमभ्युपगच्छतापि तन्नियामकतयेश्वरो अङ्गीकार्यः ।
ततस्तत्रैकत्रैव स्वभावानुसरणे प्रमाणायत्ते ऽङ्गीकार्ये किमनेकत्र तदभ्युपगमेनेति भावः ।
न केवलं पूर्वोक्तमेव प्रमाणं स्मर्तव्यम् ।
किन्तु प्रमाणान्तरमप्यस्तीत्याह- नित्या इति ॥
नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः
न्यायसुधा:
तत इत्यस्य श्रुतावेव परामर्शविषयो द्रष्टव्यः ।
श्रुतिः सर्वस्येश्वराधीनतामाहेति शेषः ।
*8,162*
अनुपपत्त्यन्तरं वैशेषिकादिमते दर्शयन्, ॥
ओं रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ओं ॥
ओं उभयथा च दोषात् ओं ॥
इति सूत्रद्वयं व्याचष्टे- रूपेति ॥
रूपादिमत्त्वाच् च विपर्ययो दर्शनात्
उभयथा च दोषात्
रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता
अनुमेया ...
न्यायसुधा:
परमाणोरिति जात्यपेक्षमेकवचनम् ।
पार्थिवादीनां चतुर्विधानां परमाणूनां नित्यतामुपयान्ति वैशेषिकादयः ।
तदनुपपन्नम् ।
पाथिर्वाः पाथसीयास्तैजसाश्च परमाणवो ऽनित्या रूपवत्त्वात्पटवत् ।
यद्वा चतुर्विधा अप्यनित्याः स्पर्शवत्त्वात्पटवत् ।
एवं पार्थितवा आप्याश्चानित्या रसवत्त्वात्पटवत् ।
पार्थिवा अनित्या गन्धवत्त्वात्तद्वदेवेत्याद्यनुमानविरुद्धत्वात् ।
नच सावयवत्वमुपाधिः ।
गुणादौ साध्याव्याप्तेः ।
नच द्रव्यत्वावच्छिन्ने साध्ये ऽस्योपाधित्वम् ।
यद्रूपादिमत्तत्सावयवमिति साधनव्यापकत्वात् ।
नच धर्मिग्राहकविरोधः ।
साक्षिणैव परमाणुसिद्धेरुक्तत्वात् ।
अनित्यत्वे च परमाणूनां न मूलकारणत्वसिद्धिः ।
यदि च रूपादिमन्तो ऽपि परमाणवो नानित्यास्तदा घटादयो ऽप्यनित्या न स्युरविशेषात् ।
तथा(च)पि न परमाणूनां मूलकारणत्वम् ।
नचेश्वरे हेतूनां व्यभिचारः ।
भौतिकत्वेन विशेषणात् ।
तथाच वक्ष्यति ।
"भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मतेऽ; ।
इति ।
*8,164*
नन्वस्माभिर्भूतसूक्ष्माणां नित्यताङ्गीक्रियते ।
तत्कथमेवमनुमीयते ।
मैवम् ।
नहि परमाणवो भूतसूक्ष्माणि, किन्नामाहं(कारो)मात्रोपचितानि ।
विकृताकाराश्च अनित्या एवेति ।
*8,165*
अपरिग्रहाच् चात्यन्तम् अनपेक्षा
॥ ओं अपरिग्रहाच्चात्यन्तमनपेक्षा ओं ॥
इति सूत्रं व्याचष्टे- श्रीतीनां चेति ॥
... श्रुतीनां च विरुद्धत्वान्न तन्मतम् ।
उपादेयमतश्चायमविरुद्धः समन्वयः
न्यायसुधा:
सम्बन्धमात्रे षष्ठी ।
अन्यथा तृतीया स्यात् ।
श्रुतयश्च"आत्मन आकाशःऽ; इत्याद्यास्तत्र तत्रोदाहृता ज्ञातव्याः ।
वैशेषिकादिमतस्यानुपादेयत्वे सिद्धे किं लब्धमित्यत आह- अतश्चेति ॥
अयं सकलगुणपूर्णपरब्रह्मविषयः ।
अविरुद्ध इति न वैशेषिकासिदमतविरोदेनासमञ्जसो मन्तव्य इति भावः ।
॥ इति श्रीमन्न्यायसुधायां वैशेषिकाधिकरणम् ॥
*8,166*
[======= ज्न्य्स्_2,2.विइ: समुदायाधिकरण =======]
॥ अथ श्रीमन्न्यायसुधायां समुदायाधिकरणम् ॥
समुदाय उभयहेतुके ऽपि तदप्राप्तिः
॥ ओं समुदाय उभयहेतुके ऽपि तदप्राप्तिः ओं ॥
अथेदानीं सौगतमतमपाक्रियते ।
ते च चतुर्विधाः ।
वैभाषिकाः सौत्रान्तिका माध्यमिका योगाचाराश्चेति ।
तत्र जगत्सत्यमेव परमाणुमयमाचक्षाणानां वैशेषिकादीनां निरसनप्रसङ्गादनतिभेदं वैभाषिकसौत्रान्तिकमतमादौ तावन्निराक्रियते ।
विप्रतिपत्तिं दर्शयंस्तन्मतमुपन्यस्यति- वैभाषिकाश्चेति ॥
वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत्
न्यायसुधा:
आहुरिति वक्ष्यमाणेन सम्बन्धः ।
क्षणिकं क्षणमात्रावस्थायि ।
मुद्गराभिघातादीनां विनाशहेतूनां प्रतिक्षणमनुपलम्भात्कथं क्षणभङ्गित्वमित्यत उक्तम्- स्वरसेति ॥
स्वभावेनैव क्षणिकं स्वभाव एवायं वस्तुनो यद्विनाशित्वम् ।
तत्र का कारणापेक्षा ।
मुद्गरादयो ऽपि न वस्तुविनाशहेतवः ।
किन्नाम घटादितः कपालादेर्विसदृशकार्यस्योत्पत्तौ निमित्तभूता एवेति ।
*8,169*
ननु च कारणानां क्रियया संयोगे सति तत्समवेततया तत्परिणामतया वा कार्येणोत्पत्तव्यम् ।
तत्कार्येणाप्येवमिति कथं क्षणिकत्वं जगत इत्यत आह- अणूनामिति ॥
अणूनां समुदायं च ...
न्यायसुधा:
जगदाहुः ।
अणुसमुदाया एव गोघटादिबोधबोध्याः ।
नतु तदतिरिक्तो ऽवयवी नामास्ति ।
येन क्षणिकता विरुध्येत ।
अणुमात्रमिति वक्तव्ये समुदायग्रहणमेको महानिति प्रत्यक्षप्रत्ययविरोधपरिहारार्थम् ।
प्रत्येकमणूनामप्रत्यक्षत्वे ऽनेकत्वे ऽमहत्त्वे ऽपि तत्समुदायस्य प्रत्यक्षत्वादि युज्यत इति भावः ।
समुदायो हि मेलकेन (केनचित्) पुंसा भवति ।
नचास्मदादिस्तथेतीश्वरो ऽभ्युपगन्तव्यः स्यात् ।
तथावयव्यनभ्युपगमे गोघटादिविलक्षणाकारता न स्यादित्यत आह- कालेति ॥
... च कालकर्मनिमित्ततः
उत्पत्तिकाले युक्तानाम् ...
*8,170*
न्यायसुधा:
कालकर्मणी च ते निमित्ते च ततः ।
उत्पत्तिकाले आदिसृष्टौ ।
अन्यदा तु निमित्तान्तरमस्तीति भावः ।
युक्तानां सन्निकृष्टतयोत्पन्नानामणूनां समुदायमिति सम्बन्धः ।
कर्मादिवशादेव तथा तथा सन्निकृष्टाः परमाणवो जायन्ते ।
यता यथा गोघटादिविचित्राकारावभासः स्यात् ।
तत्र किमीश्वरेण ।
किं वावयविना ।
सिद्धान्तिनापि हि कर्मादिकं निमित्तमङ्गीकर्तव्यम् ।
संयोगश्चावयव्युत्पादानुगुणः ।
तावतैव सर्वमुपपद्यत इत्रत ।
*8,171*
किमनात्मप्रपञ्च एव क्षणिको नेत्याह- आत्मानमिति ॥
... आत्मानं च क्षणस्थितिम्
न्यायसुधा:
क्षणिकत्वहेतोः सत्त्वस्य सर्वत्र साम्यादिति भावः ।
क्षणिकत्वे प्रत्यभिज्ञाविरोध इत्यत आह- नित्यमिति ॥
नित्यं सन्तानमेतेषां ...
न्यायसुधा:
एतेषां अणूनाम् ।
सन्ताविषया प्रत्यभिज्ञेति भावः ।
नचैवं सत्त्वस्यानैकान्त्यात् ।
सन्तानस्य सत्त्वाभावात् ।
*8,172*
एवं सामान्यतो निरूप्य विभागमाह- पञ्चेति ॥
.... पञ्चस्कन्धात्मना स्थितम्
न्यायसुधा:
जगद्वृक्षं पञ्चस्कन्धात्मना स्थितमाहुः ।
पञ्चस्कन्धानाह- संस्कारेति ॥
संस्काररूपविज्ञानसञ्ज्ञादुःखात्मना स्थितिः
न्यायसुधा:
स्थितिः स्कन्धानामिति शेषः ।
समनन्तरप्रत्ययः संस्कारस्कन्धः ।
रूपरसगन्धस्पर्शशब्दात्मकाः परमाणवो रूपस्कन्धः ।
निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः ।
सविकल्पकं ज्ञानं संज्ञास्कन्धः ।
वेदनापरपर्यायं दुःखं चैकस्कन्धः ।
अत्र रूपस्कन्धो बाह्यः ।
अन्ये चत्वार आभ्यन्तरा इत्याहुरिति सम्बन्धः ।
*8,173*
सुखादीनां पदार्थान्तरेण विद्यमानत्वात्कथं पञ्चैव स्कन्धा इत्यत आह- दुःखाभावादिति ॥
दुःखाभावं सुखं चाहुर् ...
*8,174*
न्यायसुधा:
चशब्देन केचित्सुखं वेदनास्कन्धे ऽन्तर्भावयन्तीति सूचितं भवति ।
यद्वानुक्तसमुच्चयार्थश्चशब्दः ।
यथा मूर्ताभाव एवाकाशं, रूपादय एव पृथिव्याद्याः, सङ्खयादयस्तु गुणाः पृथगनुपलम्भान्न सन्त्येव ।
देशान्तरोत्पाद एव कर्मप्रत्ययालम्बनम् ।
क्षणिकस्य वास्तवकर्मायोगात् ।
सन्निकृष्टविप्रकृष्टतयोत्पाद एव संयोगादिव्यवहारगोचरः ।
अतद्वयावृत्तिरेव गोत्वादिसामान्यबुद्धिबोध्येत्यादि ।
... अरूपज्ञानसन्ततिम्
मोक्षं ...
न्यायसुधा:
अरूपेति ।
सन्तन्यमानं ज्ञानमेवात्मा तस्य विषयोपप्लवः संसारः ।
अरूपा निर्विषया या ज्ञानसन्ततिस्तामेवे मोक्षमाहुर्नान्यमित्यतो न पञ्चस्कन्धप्रक्रियाभङ्ग इति ।
*8,175*
एवं वैभाषिकसौत्रान्तिकयोः साधारणं मतमुपन्यस्यावान्तरभेदं तु निराकरणप्रस्ताव एव विवक्षुर्यत्तावदुक्तं परमाणुसमुदाय एव गोघटादिप्रपञ्चो न त्ववयवी कश्चिदस्तीति तन्निराकर्तुं समुदाय उभयहेतुके ऽपि तदप्राप्तिरिति सूत्रं व्याचष्टे- स इति ॥
... स समुदायो हि नैकस्मादेव युज्यते
न्यायसुधा:
यो ऽयं गोघटादिबुद्धिविषयत्वेनाभ्युपगतः समुदायः स किमेकपरमाणुहेतुकः, किंवा अनेकपरमाणुहेतुकः ।
नाद्यः ।
एकस्मात्परमाणोः समुदायोत्पादानुपपत्तेः ।
न ह्येकैकस्मिंस्तरौ तरुसमुदायबुद्धिः कस्यापि विद्यते ।
समुदायकल्पनं वानर्थकमापद्येत ।
महत्त्वैन्द्रियकत्वयोरसमर्थितत्वात् ।
अनेन अपिशब्दलब्धो ऽर्थो दर्शितः ।
द्वितीयं निराकरोति- नेति ॥
नोभयोश्चो- ...
न्यायसुधा:
उभयग्रहणमनेकमात्रोपलक्षणम् ।
सकाशादिति शेषः ।
चशब्देन समुदायो युज्यत इत्यनुकृष्टते ।
कुतो न युज्यत इति चेत् ।
अनेकहेतुकत्वे ऽपि किमसमुदितानेकहेतुको ऽथ समुदितानेकहेतुक इति वक्तव्यम् ।
आद्ये सर्वत्र(त्रापि)गोघटादिबुद्धिप्रसक्तिः ।
असमुदितपरमाणूनां सर्वत्र भावात् ।
समुदायस्य च तन्मात्रहेतुकत्वात् ।
समुदायाङ्गीकारवैयथ्यर्प्रसङ्गश्च ।
द्वितीयानुपपत्तौ हेतुमाह- उभयत्वमिति ॥
... श्चोभयत्वं यत् समुदायव्यपेक्षया
न्यायसुधा:
यद्यस्मादुभयत्वं समुदितानेकत्वं समुदायसापेक्षम् ।
जाते हि समुदाये ऽनेकेषां समुदितत्वं (सं)भवति ।
तस्मान्नेति सम्बन्धः ।
*8,177*
समुदितानेकत्वस्य समुदायसापेक्षत्वे ऽपि कुतस्ततः समुदायोत्पादो न युज्यत इत्याशङ्कां परिहरत्सूत्रार्थमुपसंहरति- अत इति ॥
अतो ऽन्योन्याश्रयत्वेन समुदायो न युज्यते
न्यायसुधा:
समुदायस्य समुदितानेकेषां चेतरेतरापेक्षोत्पत्तिकत्वेनेत्यर्थः ।
समुदायानु(त्पत्तौ) चाणूनां महानेक इति प्रत्यक्षबुद्धिगोचरतायोगादवश्यमङ्गीकरणीयो ऽवयवीति ।
किञ्चायं समुदायः किं परमाणूनां संयोगः किंवानेकत्वसङ्खया ।
उत द्रव्यान्तरम् ।
नाद्यद्वितीयौ ।
अनङ्गीकारात् ।
अङ्गीकारे ऽप्यतीन्द्रियाश्रितयोस्तयोरैन्द्रियकत्वानुपपत्तिः ।
तृतीये स एवावयवी ।
सांवृतो ऽसाविति चेत् ।
तर्हि पुनर्महानित्यादिप्रमानुपपत्तिस्तदवस्थैव ।
भ्रान्तिरियमिति चेत्(न) ।
भ्रान्तेरभ्रान्तिपूर्वकत्वेन क्वचिन्महत्त्वादेर्वास्तवत्त्वप्रसङ्गात् ।
अनादिवासनावशादानादिरेवेयं भ्रान्तिरिति चेन्न ।
नीलादिज्ञानस्यापि तथात्वप्रसङ्गात् ।
*8,179*
ननु विषममिदमुच्यते ।
अवयविनि बाधकसद्भावात् ।
तथाहि ।
अवयवी किमवयवेषु प्रत्येकं कार्त्स्येन वर्तते ।
किं वैकदेशेन ।
आद्ये ऽनेकत्वप्रसङ्गः ।
न द्वितीयः ।
तस्यावयवान्विहायैकदेशाभावात् ।
भावे वा(त) अत्रापि वृत्तिविकल्पप्रसङ्गात् ।
किञ्च केषुचित्तन्तुषु चलत्सु तद्गतो ऽवयवी चलति न वा ।
नेति पक्षे युतसिद्धिप्रसङ्गः ।
आद्ये तु निश्चलावयवाश्रितो न चलतीति चलाचलत्वलक्षणो विरुद्धधर्माध्यासः ।
एवमावृत्तानावृतत्वरक्तारक्तत्वलक्षणावपि विरुद्धधर्माध्यासौ द्रष्टव्याविति ।
उच्यते ।
नास्माभिरवयवेभ्यो ऽत्यन्तभिन्नो ऽवयवी गृह्यते ।
किन्तु तत्परिणामविशेष एव ।
तत्र कुतो वृत्तिविकल्पावकाशः ।
चलाचलत्वादिविरोधस्तु भेदाभेद(दादि)विरोधवदपाक्रियत इति नावयविनि बाधकसद्भावः ।
नच वाच्यं समुदायो भवद्भिरङ्गी(क्रिय)कृत एव त(तश्च)त्राक्षेपसमाधानसाम्यमिति ।
यतो ऽनेकेषामेककालदेशकार्याद्यवच्छेदेन मेलनं समुदायो ऽभ्युपगम्यते ।
स चामिलितेभ्य एव भव(ती)ति ।
स्थायितानां च तत्सम्भवो न क्षणभङ्गवाद इति वक्ष्यति ।
*8,181*
उक्तमर्थमाक्षिप्य समादधत्सूत्रम् ओं इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ओं ॥
इति ।
तत्राक्षेपांशं तावद्वयाचष्टे- अन्योन्येति ॥
इतरेतरप्रत्ययत्वाद् इति चेन् नोत्पत्तिमात्रनिमित्तत्वात्
अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम्
स्यात् तत्सदातनत्वे ऽपि तच्च सामीप्यहेतुकम् ।
इति चेत् ... ॥ मनुव्_2,2.177अ-च् ॥
न्यायसुधा:
भवेदिदमन्योन्याश्रयत्वं यद्ययं समुदायः कादाचित्कः स्यात् ।
नचैवम् ।
सदातनं त्विममभ्युपगच्छामः ।
एवं तर्हि सृष्टिप्रलयव्यवस्था न स्यादिति चेन्न ।
यतस्तस्य समुदायस्य सदातनत्वे ऽपि पुंसः समुदायत्ववेदनं स्यात् ।
कदाचिदिति शेषः ।
ततस्तदपेक्षया सृष्टयादिव्वयस्थोपपद्यत इति भावः ।
समुदायस्य सदातनत्वे तद्वेदनमपि कुतः कादाचित्कमित्यत उक्तम्- तच्चेति ॥
तत्समुदायत्ववेदनं परमाणुसामीप्यहेतुकम् ।
नच सामीप्यं सदास्तीति वेदनस्य कादाचित्कत्वमिति ।
समुदायत्ववेदनस्य सामीप्यहेतुकता कुत इत्यत (उक्तं) आह- अन्योन्येति ॥
अन्योन्यपरमाणुज्ञानापेक्षया हि तद्भवति ।
नचान्योन्यज्ञानं सामीप्येन विना भवतीति ।
ननु वेदनमेव पुमानिति सौगता मन्यन्ते ।
तत्कथं पुंसो वेदनमिति ।
उच्यते ।
ज्ञानं हि द्विविधं भवति ।
प्रवृत्तिज्ञानमालयज्ञानं चेति ।
तत्रालयज्ञानं प्रवृत्तिज्ञानदुःखसंस्कारास्पदं पुमानित्युच्यते ।
प्रवृत्तिज्ञानं तु समुदायत्ववेदनमिति न विरोधः ।
एतदुक्तं भवति ।
अनेके परमाणव एव समुदायः ।
तदनेकत्वं च समुदायत्वम् ।
तन्मिलितेष्विव विरलेष्वपि विद्यते ।
किन्तु न सदा समुदायत्ववेदनं भवति ।
इतरपरमाणुसहितेतरपरमाणुसहितेतरपरमाणुज्ञाने सति हि समुदायत्वज्ञानं भवति ।
अपेक्षाबुद्धेरनेकत्वव्यञ्जकत्वात् ।
नचेतरेतरपरमाणुज्ञाने सति हि समुदायत्वज्ञानं भवति ।
अपेक्षाबुद्धेरनेकत्वव्यञ्जकत्वात् ।
नचेतरेतरपरमाणुज्ञाने सति हि समुदायत्वज्ञानं भवति ।
म(थु)धुरापाटलीपुत्रस्थितयोर्वृक्षयोरितरेतरप्रत्ययो दृष्टः ।
किञ्चाधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययाश्चत्वारो हि ज्ञानहेतवः ।
अधिपतिरिन्द्रियम् ।
नच विरलानां परमाणूनामिन्द्रियालम्बनविरलपरमाणुभ्यस्तदालम्बनतया तथातथा सन्निकृष्टाः परमाणवो जायन्ते ।
अनधिपतीन्द्रियेभ्यश्चाधिपतीन्द्रियाणि ।
अथेदानीं समनन्तरप्रत्ययबलादेको महानिति ज्ञानमुत्पद्यते ।
तेन नान्योन्याश्रयत्वम् ।
नापि सृष्टयाद्यनुपपत्तिरिति ।
एतेन पक्षान्तरमपि सूचितम् ।
विरलपरमाणुभ्यः सन्निकृष्टाः परमाणवो जायन्ते ।
तदेव तेषां समुदायत्वम् ।
अतो न कश्चिद्दोष इति ।
*8,185*
समाधानांशं व्याचष्टे- कार्येति ॥
... कार्यसम्भूतिमात्रव्यापृतिकारणम्
नतु कार्यविशेषेषु व्यापृतं कारणं भवेत्
न्यायसुधा:
कार्यसम्भूतिमात्रे व्यापृतिर्यस्य तत्तथोक्तं कारणं कार्यसम्भूतिमात्रव्यापृतिः यतस्ततो नेति शेषः ।
यथानुतमेतन्न परिहारक्षमम् अतो ऽभिप्रायमाह- न त्विति ॥
विशिष्टन्त इति विशेषाः ।
कार्याण्येव विशेषाः कार्यविशेषाः ।
कारणमिति जातावेकवचनम् ।
कारणानि खलु स्वसदृशकार्यजननव्यापाराणि ।
नतु विसदृशकार्यजनने व्यापृतानीत्यर्थः ।
किमतो यद्येवमित्यत आह- अत इति ॥
*8,186*
अतो ऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः ।
संयोगिरूपराहित्यान्नैव तज्ज्ञानतापि हि ॥ मनुव्_2,2.178च्-f ॥
न्यायसुधा:
सदृशकार्यजनकत्वनियमादित्यर्थः ।
संयोगिरूपे ग्राह्यग्राहकरूपे ये अर्थेन्द्रिये तयोः कार्ययोः कारणता संयोगिरूपकारणता ।
अर्थेन्द्रिययोः संयोगिरूपकारणता (अर्थेन्द्रियसंयोगिरूपकारणता । ) सा नैवोपपद्यते ।
कुतः ।
हि यस्मात्कारणस्यात्मनो नैव तज्ज्ञानतास्तीति योजना ।
इदमुक्तं भवति ।
कारणं हि सदृशकार्यजननस्वभावं (वा) स्यात्, विसदृशकार्यजननस्वभावं वा, उभयस्वभावं वा, अनुभय(जनन)स्वभावं वा ।
*8,186f.*
तत्र यत्राद्यः कल्पो ऽङ्गीक्रियते तदेन्द्रियानालम्बनेभ्यो विरलपरमाणुभ्यस्तथाभूता एव परमाणवो जायेरन् ।
न पुनः कदाचिदिन्द्रियालम्बनभूता मिलिताः ।
इन्द्रियेभ्यश्चार्थानधिपतिभ्यस्तथाविधान्येवेन्द्रियाण्युत्पद्येरन् ।
न जात्वर्थाधिपतीन्द्रियाणि ।
आत्मानश्चासमुदायज्ञानात्तादृश एवात्मा जायेत ।
न कदाचित्तज्ज्ञानवान् ।
अन्यथा कारणपरमाण्वादीनामपीन्द्रियालम्बनत्वादिकमभ्युपगन्तव्यं स्यात् ।
इतरथा सदृशकार्यजननस्वभावभङ्गापत्तेः ।
उभयथा समुदायवेदनस्य कादाचित्कत्वं नोपपद्यत इति ।
*8,188*
द्वितीयमाशङ्कते- विशेषेति ॥
विशषषकार्यजनकं यदि कारणमिष्यते
न्यायसुधा:
तथाचेन्द्रियानालम्बनविलपरमाण्वादिभ्यस्तदालम्बनमिलितपरमाण्वादिजनिरुपपद्यत इति भावः ।
निराकरोति- कुत इति ॥
कुतः समानरूपत्वं कार्याणामपि सर्वशः
न्यायसुधा:
तर्हीति शेषः ।
सर्वशो ऽपि कार्याणामिति सम्बन्धः ।
अत्र कार्यग्रहणं परमतानुसारेण ।
कारणस्य विसदृशकायर्जननस्वभावतायामाकपालभावात्सर्वेष्वपि घटक्षणेषु घटाकारता न स्यात् ।
किन्तु घटक्षणाद्गजक्षणस्ततो गर्दभक्षण उत्पद्यते ।
तथा नीलक्षणात्पीतक्षणस्ततः कपोतक्षणो जायेत ।
नीलानुवृत्तिस्तु न स्यादिति ।
*8,190*
अस्तु तर्ह्युभयस्वभावं कारणमिति तृतीयः पक्ष इति चेन्न ।
विरोधेनैकस्याप्यजननप्रसङ्गात् ।
अविरोधे त्वाह- अत इति ॥
अतो ऽनियत्या यत्किञ्चिद् यस्य कस्यापि कारणम्
न्यायसुधा:
प्रकृतपक्षद्वयं समाहृत्यात इति परामृशति ।
अनियत्या घटो घटस्यैव नीलोनीलस्यैवेति नियतिं विना ।
यत्किञ्चित् घटादिकं नीलादिकं वा ।
यस्य कस्यापि घटादेरघटादेर्नीलादेरनीलादेश्च ।
कारणं स्यात् ।
घटक्षणस्योभयविधकार्यजननस्वभावत्वे ऽसौ तदुभयं जनयेत् ।
तथा चोपलभ्येतेति यावत् ।
केचिदिदं वाक्यं पूर्ववाक्यशेषतया व्याचक्षते ।
सर्वशो ऽपि कार्याणां समानरूपत्वं न स्यात् ।
किन्तु विसदृशकार्यजननस्वभावत्वाद्घटादिकं गजादेः कारणं स्यादिति ।
न चतुर्थः ।
अर्थक्रियारहितस्यासत्त्वप्राप्तेः ।
अर्थक्रियाकारित्वं सत्त्वमिति (हि)सौगताः ।
ननु च कार्यजननमात्रं वस्तुनः स्वभाव इत्यङ्गीकुर्मो न तूक्तेषु कमपि पक्षमित्यत आह- अत इति ॥
बुद्धिस्थमिमं कल्पमत इति परामृशति ।
अतिप्रसङ्गस्तु न तिरोहितः ।
*8,192*
स्यादेतत् ।
यथा भवन्मते प्रमाजननस्वभावत्वे ऽपीन्द्रियादेर्देषसहकारिवशादप्रमाजननम्, तथा कारणस्य सदृशकार्यजनकत्वे ऽप्यदृष्टादिसहकारिसामर्थ्यात्कदाचिद्विसदृशकार्यजननं भविष्यति ।
यद्वा यथा साङ्खयानामिन्द्रियादीनि प्रमाप्रमाजननस्वभावानि ।
तत्राप्रमाप्रतिपक्षाणां गुणानामुपनिपाते प्रमामेवोपजनयन्ति, प्रमाप्रतिपक्षाणां दोषाणामुपनिपाते त्वप्रमाम्, तथा कारणस्योभयस्वभावत्वे ऽप्यदृष्टादिवशात्तदन्यतरजन्मोपपत्स्यते ।
अथवा यथा नैयायिकादीनामिन्द्रियादीनि ज्ञानमात्रजननस्वभावानि ।
गुणादिसहकार्युपनिपातेन प्रमाद्यु(त्प)पपत्तिः, तथा कारणं कार्यजननस्वभावमेव ।
अदृष्टादिसहकारिसमवधानात् (तु) तत्सदृशं विसदृशं वा जनयिष्यतीत्यत आह- अदृष्टमपीति ॥
अदृष्टमपि तस्यैव विशेषापादकं कुतः
न्यायसुधा:
अत्रादृष्टग्रहणमुपलक्षणम् (सहकारिमात्रस्य) ।
*8,193*
अदृष्टमपि विशेषस्य, आद्ये विसदृशकार्यजनकत्वस्य द्वितीयऽन्यतरप्रतिबन्धस्य, तृतीये तूभयजनकत्वस्यापादं कुत इत्येकं वाक्यम् ।
तथाहि ।
पूर्वपूर्वतराद्यदृष्टक्षणाविशेषानापादकास्तदापादका वा ।
आद्ये त्वस्यादृष्टक्षणस्य विशेषापादकत्वं न सिद्धयति ।
कारणाभावात् ।
विशेषानापादकादृष्टक्षणाजन्यो ऽप्य(यम)दृष्टक्षणः सहकारिवशाद्विशेषमापादयिष्यतीति चेन्न ।
तत्सहकारिण्यप्यस्य साम्यात् ।
(अ)तत्रापि सहकार्यनत्रानुसरणे गौरवमिति ।
तस्यैव कारणस्य विशेषापादकं कुत इत्यपरं वाक्यम् ।
तथाहि ।
विशेषापवादकमप्यदृष्टं किं विवक्षितस्यैव कारणस्य विशेषमापादयति, कारणमात्रस्य वा ।
नाद्यः ।
नियामकयोः कारणज्ञापकयोरभावादिति ।
येभ्य इन्द्रियानालमबनविरलपरमाणुभ्यस्तदालम्बनमिलितपरमाणूत्पत्तिराशास्यते ।
यतश्चार्थानधिपतेरिन्द्रियादर्थाधिपतीन्द्रियस्य ।
यस्माच्च समुदायज्ञानरहितादात्मनस्तद्वदात्मोत्पादः ।
तदिदं तस्यैवेत्युच्यते ।
*8,195*
उभय(त्रापि द्वि)त्र द्वितीयौ कल्पौ दूषयति- यस्येति ॥
यस्य कस्यापि यत्किञ्चिद् विशेषमुपपादयेत्
न्यायसुधा:
अत्रापि यत्किञ्चिददृष्टं विशषमुपपादयेदित्येकं वाक्यम् ।
यदि पूवर्पूर्वतराद्यदृष्टस्याप्यस्ति विशेषापादकत्वं तर्हि तदपि पूवर्पूर्वतरादिपरमाण्वादौ विशेषमापादयेदेव ।
समर्थस्य क्षेपानभ्युपगमात् ।
तथाच समुदायप्रतीतेः समयनियमो न स्यादिति ।
यस्य कस्यापि विशेषमुपपादयेदिति द्वितीयम् ।
यदि कारणमात्रस्य विशेषापादकमदृष्टमङ्गीक्रियते तदा सर्वेषामपि कारणानां विशेषमुपपादितम् ।
तथाच घटपरमाणुमेलने सर्वेषामपि मेलनं स्यात् ।
नतु कुत्राप्यभिलषितपरमाण्ववस्थानं भवेत् ।
नच युगपत्सर्वसमुदायो दृश्यत इति ।
जोस्हि-2
*8,196*
अथ मतम् ।
सर्वमिदं स्वव्याहतम् ।
तथाहि ।
तन्तवो यदि सदृशकार्यजननस्वभावास्तदा तन्त्वन्तरमेव जनयेयुर्न तु पटम् ।
यदि च विसदृशकार्यजननस्वभावास्तदा न तेभ्यः पार्थिवपटस्योत्पत्तिः स्यात् ।
किन्तु पाथसीयं किमपि जायेत ।
उभयस्वभावत्वं तु विरुद्धम् ।
अनुभयस्वभावत्वे पटस्याप्यनुत्पत्तिः ।
सहकारिवशाद्वयवस्थाङ्गीकारे सहकारिष्वपीदं समानम् ।
अथोच्येत ।
अस्ति(स्तु)तावत्तन्तुपटयोः कार्यकारणभावः ।
प्रमितस्यापन्हवानर्हत्वात् ।
स च यथा यथोपपद्यते तथा तथा कल्पयिष्यत इति ।
सममेतत्समापीत्यत आह- कार्यं चेति ॥
कार्यं च कारणं चैव यत्किञ्चिद् यस्य कस्यचित्
भवेन्नियामकाभावाद् ...
*8,197*
न्यायसुधा:
नित्यविनाशित्व इतयेतद्वक्ष्यमाणमत्रापि सम्बद्धयते ।
यत्किञ्चिन्नीलादिकं यस्य कस्यचिदेव पीतादेः कार्यं स्यात् ।
यत्किञ्चित्पीतादिकं यस्य कस्यचिदेव नीलादेः कारणं स्यात् ।
कुतः ।
नीला नीलस्यैव कार्यं स्यात् न पीतस्य ।
नीलमेव नीलस्य कारणं न पीतमि(त्यत्र)तिनियामकाभावादिति योजना ।
चशब्दौ मिथः समुच्चये ।
एतदुक्तं भवति ।
सम्भवति स्थिरवादे परिहारो ऽयम् ।
यद्यत्र समवेतं यद्येनाकारेण परिणतं वा तत्तस्य कारणं कार्यं चेति नियामकसद्भावेन कायर्कारणभावावधारणे सति तदुपपादककल्पनोपपत्तेः ।
क्षणभङ्गुनये तु पूर्वोत्तरक्षणयोर्निरन्वयविनाशोत्पादयोः कायर्कारणभावावधारणोपाय एव नास्ति ।
समवायपरिणामयोरभावात् ।
तथाच कस्य बलादुपपादकं कल्पयिष्यत इति ।
*8,198*
समवायपरिणामयारभावे ऽपि यद्यदपेक्षया पूर्वभावि तदेव तस्य कारणम् ।
यच्च यदपेक्षया पश्चाद्भावि तदेव तस्य कार्यमित्यवधारणोपपत्तेर्नियामकाभावो ऽसिद्ध इत्यतः कार्यनियमं तावन्निराकरोति- इदमस्यैवेति ॥
*8,197*
... इदमस्यैव कारणम् ।
इति नित्यविनाशित्वे केन मानेन गम्यते ॥ मनुव्_2,2.182ब्-द् ॥
न्यायसुधा:
इदं नीलम(स्य नील) स्यैव कारणम्, न तु पीतस्य, इत्येवं नीलस्य नीलकार्यत्वं, नित्यविनाशित्वे निरन्वयविनाशोत्पादपक्षे, केन मानेन न केनापि ।
पश्चाद्भावमात्रस्य नी(लस्येव पीतस्यापि)लापेक्षयेव पीतापेक्षयापि सत्त्वादिति भावः ।
सादेश्यं सारूप्यं वा नियामकमिति चेन्न ।
विरलपरमाणुभ्यो मिलितानां मिलितेभ्यश्च विरलानामुत्पत्त्यङ्गीकारात् ।
कारणनियममप्यपाकरोति- इदं नेति ॥
इदं न जायते ऽमुष्मादित्यत्रापि न कारणम्
न्यायसुधा:
इदं नीलममुष्मात्पीतान्न जायते किन्तु नीलादेवेत्यत्र नीलस्य कारणत्वावधारणे ऽपि, कारणं प्रमाणं, नास्ति ।
नीलस्येव पीतस्यपि नीलापेक्षया पूर्वभावितायाः सत्त्वादिति भावः ।
*8,199f.*
ननु यथा भवतां समवायपरिणामयोरभावे ऽपि कुविन्दपटयोः कार्यकारणभावावधारणं तथा ममापि भविष्यतीत्यत आह- इदमस्येति ॥
नित्यविनाशित्वे आत्मन इति शेषः ।
युज्यते ऽस्माकं निमित्तकारणकार्ययोस्तद्भावावधारणमन्यत्रानुपक्षीणान्वयव्यतिरेकाभ्याम् ।
नतु परस्य ।
अस्माभिरन्वयव्यतिरेकानुसन्धातुरात्मनः स्थायित्वाभ्युपगमात् ।
परेण(च) क्षणिकतास्वीकारात् ।
नहि तथाविधो ऽन्वयव्यतिरेकयोरन्यत्रानुपक्षयस्य चावधृतेरीष्य इति भावः ।
योजना तु पूर्ववदेव ।
*8,200*
एवं समुदायं निराकृत्य सर्वस्य क्षणिकतामधुना प्रमाणाभावेन तद्विरोधेन चापाकर्तुमुत्तरो ग्रन्थः ।
तथाहि ।
न केवलं समुदायो नोपपद्यते ।
किन्नाम सर्वस्य क्षणिकता च ।
तत्र प्रमाणाभावात् ।
ननु प्रत्यक्षं क्षणिकतामर्थानामवगमयति ।
तद्धि वर्तमानमात्रगोचरमर्थस्य वतर्मानक्षणमात्रसम्बन्धिनीं सत्तामवगाहते ।
न पूर्वोत्तरक्षणसम्बन्धनीमपि ।
तत्कथं क्षणिकत्वमर्थानामप्रामाणिकमिति ।
उच्यते ।
किमिदं क्षणिकत्वं नाम ।
किं क्षणसम्बन्धिसत्त्वम् ।
किंवा क्षणमात्र एवोत्पत्तिनाशवत्त्वम् ।
यद्वा क्षणान्तरासम्बन्धित्वे सत्येकक्षणसम्बन्धित्वम् ।
आद्यस्त्विष्य एव ।
स्थायिनो ऽप्यर्थस्यैकक्षणसत्तास्वीकारात् ।
द्वितीयतृतीयौ दूषयति- विनाशेति ॥
विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः
न्यायसुधा:
अनेकपदार्थसम्बन्धित्वेन बहुवचनम् ।
चशब्दस्तृतीयपक्षसमुच्चयार्थः ।
एवशब्दस्य नैवेति सम्बन्धः ।
सदातनाः प्रतिक्षणभाविन्यः ।
प्रत्यक्षं खल्वर्थानां वतर्मानकालसत्तामवगाहते न पुनः क्षणमात्रभाविनावुत्पत्तिविनाशावपि ।
नापि क्षणान्तरसम्बन्धित्वम् ।
तथाच कथं तेन क्षणिकता सिद्धयेदिति ।
*8,202*
ननु च प्रत्यक्षं पूर्वोत्तरक्षणवतिर्त्वमप्यर्थस्य गृह्णाति न वा ।
नाद्यः ।
वर्तमानमात्रग्राहित्वात् ।
द्वितीये तु प्रत्यक्षानुपलम्भेन पर्वोत्तरक्षणयोरसत्त्वसिद्धेः क्षणिकतैव सि(ध्येदिति)द्धेति चेत् ।
द्वितीयं तावदुररीकुमर्ः ।
नचैवं क्षणिकतासिद्धिः ।
योग्यानुपलम्भस्यैवासत्त्वगमकत्वात् ।
नच पूर्वोत्तरकालवर्तिना प्रत्यक्षयोग्या ।
वतर्मानमात्रग्राहितायाः परेणैवोक्तत्वात् ।
अस्तु वाऽद्यः पक्षः ।
कस्याचित्प्रत्यक्षस्य वर्तमानमात्रग्राहित्वे ऽपि तदेवेदमिति प्रत्यभिज्ञानलक्षणस्य तदभावादित्याशयेनाह- दृश्यत इति ॥
दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु
न्यायसुधा:
विषयीक्रियत इत्यर्थः ।
तृतीयार्थे तसिः ।
एकस्यैवानेकक्षणसम्बन्धित्वं स्थिरत्वम् ।
एतेन न केवलं प्रत्यक्षं क्षणिकतां न गोचरयति ।
किन्तु स्थायि(तां)त्वमपि गोचरयतीत्यपीति वदता परपक्षे प्रमाणविरोधः स्वपक्षे प्रमाणसद्भावश्चोदितो भवति ।
*8,203*
अनेन"अनुस्मृतेश्चऽ; इति सूत्रं कृतव्याख्यानं वेदितव्यम् ।
सर्ववस्तुष्वित्यनेन सौगतानां प्रत्यभिज्ञानिराकरणं वैशेषिकादिमतमेव स्पृशति न त्वस्मन्मतमिति सूचयति ।
तथाहि ।
किमनया प्रत्यभिज्ञया नित्यत्वेनाभ्युपगतेषु परमाण्वादिषु स्थिरत्वं साध्यते किंवा घटादिषु ।
नाद्यः ।
तेषामतीन्द्रियत्वेन प्रत्यभिज्ञाप्रत्यक्षगोचरत्वस्याभ्युपगन्तुमशक्यत्वात् ।
न द्वितीयः ।
घटादिषु परेणापि प्रत्यभिज्ञाया भ्रान्तित्वस्य स्वीकार्यत्वात् ।
यदा हि घटादौ सूच्यग्रादिनैको ऽपि परमाणुरपैति तदा नष्टव्यमेव तदारब्धेन द्वयणुकेन ।
विभागेनासमवायिकारणस्य संयोगस्य नष्टत्वात् ।
द्वयणुकनाशे समवायिकारणनाशात्त्र्यणुकनाश इत्यनेन क्रमेण घटनाशो ऽप्यवश्यम्भावी ।
नच परमाणुः प्रत्यक्षो येन तदपगमानपगमौ प्रत्यक्षेण शक्यनिश्चयौ ।
नच वाच्यं निबिडावयवेषु स्फटिकादिषु प्रत्यभिज्ञया स्थिरत्वं सेत्स्यतीति ।
तत्रापि परमाण्वपगमाभावस्य प्रत्यक्षेण निश्चेतुमशक्यत्वात् ।
निबिडावयवत्वं च न विभागायोग्यावयवत्वम् ।
विभागस्य प्रत्यक्षसिद्धत्वात् ।
किन्तु घटादितो ऽप्युत्कृष्टकारणापेक्षत्वम् ।
नच तद्विशेषाभावः शक्यो ऽस्माभिरवगन्तुम् ।
दृश्यते हि कालतः स्फटिकादावपि गुरुत्वापकर्षः ।
नचावयवानपगमे स सम्भवतीति ।
नापि गुणादौ स्थायित्वं प्रत्यभिज्ञया सिद्धयति ।
तस्यापि कस्यचिदतीन्द्रियत्वात् ।
कस्यचिद्घटादितुल्यत्वात् सामान्यादिकं तु स्वरूपतो नास्त्येव ।
सत्त्वे ऽपि रूपादिसमानमेवेति शङ्कितप्रामाण्यं प्रत्यभिज्ञानं न कुत्रापि स्थैर्यसिद्धौ प्रमाणयितुं युक्तमिति ।
*8,206*
अत्रोच्यते ।
स्यादयं दोषः परमाण्वारम्भवादिनाम् ।
न परिणामवादिनामस्माकम् ।
तदेव (हि) वस्त्ववयवोपचयापचयाभ्यामन्यथा विक्रियते ।
न पुनरन्यदेव भवतीति हि परिणामवादिनो मन्यन्ते अतः प्रत्यक्षयोग्येषु सर्ववस्तुषु प्रत्यभिज्ञया स्थिरत्वग्रहणं युक्तमेवेति ।
ननु भवन्मते ऽपि प्रत्यभिज्ञा (भ्रम एव) भ्रान्तिरेव ।
परिणामवादे पूर्वोत्तरवस्तुनोर्भेदाभेदाङ्गीकारात् ।
तदेवेदमिति च प्रत्यभिज्ञयात्यन्ताभेदस्यावगाहनात् ।
उच्यते ।
यदा तु (यदि हि) पूर्वोत्तरकालभाविनोरभेदः प्रत्यभिज्ञाविषयो ऽङ्गीक्रियते ।
तदा सावधारणस्य प्रत्यभिज्ञानस्य भ्रमत्वे ऽपि तदिदमिति तु न भ्रमः ।
तेनैव च स्थायित्वसि(द्धि)द्धेः ।
यदा तु कालादिद्वयसम्बन्धो विषयस्तदा सावधारणमपि न भ्रम इति ।
नन्विदं प्रत्यभिज्ञानं परिलूनपुनर्जातकुन्तलापादाविव भ्रान्तं किन्न स्यादिति चेत् (न) ।
बाधकाभावात् ।
एवमेव भ्रा(न्त)न्तित्वाभ्युपगमे नीलादिप्रत्ययानामपि तथात्वापत्ते(त्वप्राप्ते)ः ।
नच प्रत्यक्षं बाधकमित्युक्तम् ।
*8,211*
प्रत्यक्षस्याबाधकत्वे ऽप्यनुमानं बाधकं भविष्यतीति शङ्कते- फलादीनामिति ॥
फलादीनां विशेषेण सर्वत्राप्यनुमीयते
***[नोते: जुम्प् इन् वेर्से नुम्बेरिन्ग्, नो लचुन इन् तेxत्!]***
सत्त्वेन क्षणिकत्वं चेदाकाशस्याविशेषतः ।
अविशेषो ऽखिलस्यापि सत्त्वात् किं नानुमीयते
*8,211f.*
न्यायसुधा:
आदिपदेन देहदीपादिग्रहणम् ।
विशेषेण परिमाणभेदेन, क्षणिकत्वं (तावत्)अनुमीयत इति सम्बन्धः ।
ततस्तद्दृष्टान्तेन सर्वत्र फलादिव्यतिरिक्ते ऽपि वस्तुनि सत्त्वेन हेतुना पञ्चस्कन्धा इत्यनुमानं स्थिरत्वविषयप्रत्यभिज्ञाया बाधकं भविष्यति ।
नच फलादिदृष्टान्तः साध्यविकलः ।
यद्विरुद्धपरिमाणं तन्नाना दृष्टं यथा घटपटौ, विरुद्धपरिमाणं च फलादिकं पूर्वोत्तरक्षणयोः, इत्यनुमानेन फलादीनां क्षणिकतासिद्धेरिति ।
परिहरति- आकाशस्येति ॥
अविशेषतः पूर्वोत्तर(क्षण)योर्भेदरहितत्वतः, अविशेषः पूर्वोत्तरक्षणयोर्भेदराहित्यम् ।
अखिलस्यापि विप्रतिपन्नस्य ।
इदमुक्तं भवति ।
यत्सत्तदक्षणिकम् यथाऽकाशम् ।
सच्च नीलादीति प्रत्यनुमानप्रतिरुद्धत्वेनानुमानस्याभासत्वान्न प्रत्यभिज्ञाबाधकत्वं सम्भवतीति ।
नचाकाशदृष्टान्तः साध्यविकलः ।
"आकाशो द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम्ऽ; इत्रत परेणैवाङ्गीकृतत्वात् क्षणिकतासाधकस्य परिमाणभेदादेराकाशे ऽभावाच्च ।
तदिदमु(मप्यु)क्तं अविशेषतः परिमाणभेदादिरहितत्वत इति ।
*8,213*
यद्वाऽकाशस्याविशेषतः परिमाणभेदरहितत्वतः ।
तद्दृष्टान्तेनाखिलस्यापि फलादेरविशेषः पूर्वोत्तरकालयोः परिमाणभेदाभावः सत्त्वात् किं नानुमीयत इति योजना ।
एतदुक्तं भवति ।
नानुमानं प्रत्यभिज्ञाया बाधकं भवितुमर्हति ।
अनुमानस्य प्रत्यक्षतो दुबर्लत्वेन तद्बाध्यत्वात् ।
अन्यथा फलादिकं परिमाणभेदरहितं सत्त्वादाकाशवदित्यप्यनुमानप्रसङ्गात् ।
नह्यत्र प्रत्यक्षादिबाधं विना कश्चिद्दोषो ऽस्ति ।
तथाच तद्दृष्टान्ते क्षणिकत्वसाधकस्यासिद्धत्वात्साध्यविकलता स्यात् ।
ततः प्रत्यक्षविरोधेनैवास्यानुमानस्याप्रामाण्यम् ।
अन्यथान्योन्याश्रय(ता)प्रसङ्ग इत्येव वक्तव्यम् ।
तच्च समं प्रकृते ऽपीति ।
एतेन"आकाशे चाविशेषात्ऽ; इति सूत्रं व्याख्यातं भवति ।
तदनेन क्षणिकत्व(ता)साधकानुमानस्य सत्प्रतिपक्षत्वं बाधितविषयत्वं च वदताऽकाशे ऽ(ना)नैकान्त्यमपि सूचितम् ।
भवदनुमानस्यापि फलादिनानैकान्त्यमिति चेन्न ।
तत्रापि क्षणिकताभावस्य वक्ष्यमाणत्वात् (इति) ।
*8,214*
भवेदिदं यद्याकाशस्य सत्त्वं स्यात् ।
नचैतदस्ति ।
मूर्ताभावत्वादाकाशस्य ।
भावत्वं हि सत्त्वमत्र विवक्षितम् ।
सस्वरूपत्वे ऽपि वा सत्त्वे, अभावो निःस्वरूप इत्यङ्गीकृतमित्याशङ्कयाह- यदीति ॥
यद्याकाशस्य सत्त्वं न कुत एव नरादिषु
न्यायसुधा:
यद्याकाशस्य सत्त्वं नास्तीत्यङ्गीकृत्य प्रत्यनुमाने ऽतिप्रसङ्गानुमाने च दृष्टान्तस्य साधनवैकल्यं स्वानुमानस्यानैकान्तिकत्वाभावश्चोच्यते ।
तदा देहादिषु सत्त्वं कुत एव सिद्धमिति ब्रूमः ।
तथाच परकीयस्यापि दृष्टान्तस्य साधनवैकल्यं स्यात् ।
यदि च विधिमुखप्रत्ययवेद्यत्वाद्देहादीनां भावत्वं प्रमाविषयत्वात्सत्त्वं चोच्यते ।
तदाऽकाशे ऽपि समानमिति ।
प्रमाणान्तरेणाकाशस्याभावत्वं वारयितुमुपोद्घातमाह- स धर्मीति ॥
सधर्मिप्रतियोगित्वमाकाशस्यावगम्यते
*8,216*
न्यायसुधा:
यत्राभावः स धर्मी ।
यस्याभावः स प्रतियोगी ।
तदुभयवत्त्वमभावस्य नियामकं व्यापकम् ।
यो ऽभावः स सर्वो ऽपि धर्मिप्रतियोगिसहित एव ।
यथा घटाद्यभावः ।
स हि भूतलादिधर्मिणा घटादिप्रतियोगिना चोपेत एवेति ।
नन्विदमनुपपन्नम् ।
अभावस्य हि धर्मिप्रतियोगिसाहित्यनियमः किं देशतः स्यात्, किंवा कालतः ।
आद्ये धर्मिणा सादेश्यं तावन्नास्ति ।
भूतलस्य स्वाश्रये, अभावस्य तु भूतले वृत्तेः ।
प्रतियोगिना तु विरुद्धमेव ।
द्वितीयस्तु यद्यपि धर्मिणा कथञ्चित्स्यात् ।
तथापि प्रतियोगिना नास्त्येव ।
प्रागभावप्रध्वंसाभावयोः प्रतियोगिभिन्नकालत्वनियमादित्याशङ्कां परिहरन्नभावस्य धर्मिप्रतियोगिसाहित्यव्याप्तत्वमुपपादयति- तौ विनेति ॥
तौ विना न ह्य् अभावश् च क्वचिद्दृष्टः कदाचन ॥ मनुव्_2,2.187*अब् ॥
न्यायसुधा:
अत्र दृष्ट इति प्रकरणात्तौ विनेति तज्ज्ञानं विनेत्यथर्ः ।
चशब्दो ऽभावो दृश्यमानो धर्मिप्रतियोगिप्रतीतावेव दृश्यत इत्यन्वयसमुच्चयार्थः ।
हिशब्देनान्वयव्यतिरेकयोः प्रसिद्धत्वं सूचयति ।
तदनेनान्वयव्यतिरेकाभ्यामभावप्रतीतेर्धर्मिप्रतियोगिप्रतीतिपूर्वकतया व्याप्तिरुपपादिता भवति ।
यद्वा तावि(ति)त्यनेन न ज्ञानमुपलक्षणीयम् ।
अभावः प्रतीयमानो धर्मिप्रतियोगिघटित एवात्रेदं नास्तीत्यादिरूपेण प्रतीयते ।
नतु तौ विना केवल इत्यन्वयव्यतिरेकाभ्यामेकज्ञानसम्बन्धेन व्याप्यव्यापकभावोपपादनमेतदित्यवगन्तव्यम् ।
प्रातर्गजाद्यभावज्ञानं त्वन्यथोपपादयिष्यामः ।
*8,219*
किमतो यद्येवमभावस्य यद्येवमभावस्य धर्मिप्रतियोगिसाहित्यं प्रतीतौ व्यापकमित्यत आह अधर्मीति
अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते ॥ मनुव्_2,2.187*च्द् ॥
न्यायसुधा:
प्रतीतावभावस्य व्यापकं सधर्मिप्रतियोगित्वमाकाशात्तावद्वयावर्तर्(त्य)ते ।
यस्मादाकाश इत्येवावगम्यते न त्वत्रेदं नास्तीति ।
इयमपि (च) वस्तुतो मूर्ताभावगोचरैव प्रतीतिः प्रलयादिवन्नञ्वर्जिताभिलापसम्बन्धादतादृशीव प्रकाशत इति चेन्न ।
नीलादिप्रतितेरपि तथात्वप्रसङ्गात् ।
अनानुभाविकत्वस्योभयत्रापि साम्यात् ।
तथाच परस्याप्यसिद्धयाद्यापातः ।
व्यापकनिवृत्त्या(च) व्याप्यनिवृत्तिरवश्यंभाविनीत्याकाशस्य नाभावत्वमिति ।
तदयं प्रयोगः ।
आकाशो नाभावः धर्मिप्रतियोगिनौ विनैव प्रतीयमानत्वाद्रूपवदिति ।
किञ्च मूर्ताभावमाकाशं वदता यो धर्मी तस्योच्यते स एवास्माकमाकाश इति नाम्नयेव विवादो ऽवशिष्यते ।
वक्ष्यते चैतद्वियदधिकरण इति ।
*8,220*
सूत्रद्वयार्थमुपसंहरति- स्वीकारेति ॥
स्वीकारत्यागतो ऽदृष्टदृष्टयोः सर्ववस्तुषु ।
गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः
न्यायसुधा:
अदृष्टस्य क्षणिकत्वादेः स्वीकृति(कार)तो दृष्टस्य स्थिरत्वादेस्त्यागतः ।
असौ सौगतः ।
अधिकं स्वत इति शेषः ।
उन्मत्तमपि स्वस्मादधिकविवेकवन्तं (स्था)ख्यापयतीत्यर्थः ।
न ह्युन्मत्तः सर्वत्राप्रमितं स्वीकरोति नापि प्रमितं त्यजतीति ।
*8,220f.*
ननु (च) यदि नीलादिकं न स्यात्तदा सन्न स्यात् ।
अर्थक्रियाकारित्वं हि सत्त्वम् ।
व्याप्तं च क्रमयौगपद्याभ्याम् ।
तृतीयप्रकाराभावात् ।
नच स्थिरे तत्सम्भवः प्रसङ्गतद्विपर्ययाभ्याम् ।
तथाहि ।
स्थायीभावः किं (स्वी)स्वकीयामर्थक्रियां क्रमेण कुर्याद्युगपद्वा ।
आद्ये कालान्तरभाविनीमर्थक्रियां प्रतीदानीं समर्थो न वा ।
प्रथमे तामपीदानीं(नीमेव) कुर्यात् ।
समर्थस्य क्षेपायोगात् ।
द्वितीये तदापि न कुर्यात् ।
इदानीमसमर्थो ऽपि तदानीं समर्थत्वात्करिष्यतीति चेत् ।
तदा सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्माध्यासो भावं भिन्द्यात् ।
द्वितीये त्वाद्यक्षण एव कर्तव्यस्य सर्वस्य कृतत्वात् द्वितीयादिक्षणे ऽसत्त्वमवर्जनीयमेव ।
तदेवमनुकूलतर्कबललब्धप्रतिबन्धस्य क्षणिकत्वानुमानस्य बलवत्त्वात्प्रत्यभिज्ञाप्रत्यनुमाने तद्बाधिते न स्थैर्यसाधनायालमिति ।
मैवम् ।
एषां तर्काणां प्रतितर्कपराहतत्वादिनाऽभासत्वात् ।
*8,223*
तथाहि ।
यद्यात्मानात्मप्रपञ्चः सर्वो ऽपि क्षणिकः स्यात्तदा प्रमाप्रमारूपः सर्वो(कलो)ऽप्यनुमानागमप्रत्यभिज्ञालक्षणो व्यवहारो लुप्येत ।
तर्कस्याप्यस्य नोत्थानं स्यात् ।
तस्य तज्जातीयस्य वा तेन तज्जातीयेन वा सह भूयः सम्बन्धावगमे (न)त तादात्म्यतदुत्पत्त्यवधारणेन (वा) चोपाध्यभावा(द्य)वधारणेन वा व्यभिचाराभावनिश्चये सति व्याप्त्यवधारणम् ।
अवधृतव्याप्तेश्च पक्षदर्शनं लिङ्गदर्शनं च ।
ततो ऽनुभूतव्याप्तिस्मरणम् ।
अथ यन्मया व्याप्तत्वेन ज्ञातं लिङ्गं तदत्र पक्षे ऽस्तीत्यनुसन्धानम् ।
अथेदानीमनुमितिरित्यनुमानप्रक्रिया ।
न ह्येतत्सर्वं क्षणिकस्यात्मनः सम्भवति ।
येन हि सकृत् धूमो दृष्टो नष्ट एवासौ ।
कस्य भूयोदर्शनं कस्य च व्याप्त्यवधारणादि ।
यस्मिंश्च पर्वते धूमो दृष्टो नष्ट एवासौ ।
कुत्र पुनर्व्याप्तिलिङ्गानुसन्धानम् ।
कुत्र च साध्याध्यवसायः ।
*8,224*
एवमागमे ऽप्येकैकवर्णश्रवणानि, पदानुसन्धानम्, समयग्रहः, पुनः पदश्रवणम्, समयस्मरणम्, वाक्यार्थज्ञानमित्यनेकसंवि(कानुसन्धा)न्धानम्, नात्मनः क्षणिकतायामुपपद्यते ।
प्रत्यभिज्ञानमपि येन पूर्वावस्थो ऽर्थो ज्ञातस्तेनैव तस्य वा तत्सदृशस्य वा दर्शने भवति ।
तत्कथं क्षणिकस्यात्मनः स्यात् ।
*8,225*
अनुमानेन तर्को ऽपि व्याख्यातः ।
प्रतिक्षणमात्मनो ऽनात्मनश्च भेदे ऽप्यनुमा(ना)द्यङ्गीकारे ऽतिप्रसङ्गः स्यात् ।
यस्य कस्यचिद्वयाप्तिज्ञाने नारिकेलद्वीपवासिनो ऽप्यग्निप्रमा (भवेत्) स्यात् ।
पर्वते लिङ्गदर्शनेन ह्रदे ऽप्यग्निरनुमीयेतेत्यादि ।
पूर्वोत्तरक्षणवर्तिनामात्मनां पर्वतादीनां च कार्यकारणभावादुपपन्नो ऽनुमानादिव्यवहार इति चेत्(न) ।
अन्यत्वस्यानपायात् ।
अन्यथोपाध्यायशिष्यबुद्धयादावपि प्रसङ्गात् ।
*8,226*
अथ मतम् ।
कारणक्षणाः कार्यक्षणेषु संस्कारानपर्यन्ति ।
अतः पूर्वपूर्वात्मसंस्कारयोगिनामुत्तरोत्तरेषामात्मनामनुमानादिव्यवहारो युज्यते ।
पर्वतादयो ऽपि (पूर्व)पूर्वसंस्कारभाजः पक्षादित्वमश्नुवते इति ।
एतन्निराकरणाय सूत्रम् ।
ओं उत्तरोत्पादे च पूर्वनिरोधात् ओं ॥
इति ।
तद्वयाचष्टे- उत्तरेति ॥
उत्तरोत्पादे च पूर्वनिरोधात्
उत्तरोत्पत्तिमात्रेण विनाशात् पूवर्वस्तुनः ।
न संस्कारार्पकत्वं च युज्यते कस्यचित् क्वचित्
*8,227*
न्यायसुधा:
कस्यचित् कारणस्य, कचित् कार्ये ।
ततः किमित्यत आह- अत इति ॥
अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः
न्यायसुधा:
आत्मनः क्षणिकत्वात्संस्कारापर्णस्य चा(वा)सम्भवादित्यर्थः ।
यन्मया व्याप्तत्वेन ज्ञातं तदत्र विद्यत इत्यादि यथा भवति तथा न ज्ञेयं ज्ञातुमशक्यम् ।
ततश्चानुमा कुतः ।
आगमादेरप्युपलक्षणमेतत् ।
नन्वस्ति तावदनुमानादिव्यवहारः, सर्वलोकसिद्धस्यापह्नवायोगात् ।
तद्बलेनालौकिकमप्यसहभाविनः संस्कारार्पकत्वं कल्पयिष्यत इत्यत आह- एकत्वमिति ॥
एकत्वमनुभूतिस्थं त्यक्तवा निर्मानका भिदा ।
कुत आत्मादिकेषु स्याद् ... ॥ मनुव्_2,2.190च्-ए ॥
न्यायसुधा:
किमनुमानादिव्यवहारान्यथानुपपत्तिमात्रेणालौकिकं कल्पनीयम्, किंवाऽत्मादेः क्षणिकत्वे ऽपि सति ।
नाद्यः ।
आत्मादेः स्थायित्वेनैव तदुपपत्तेः ।
द्वितीयस्तु स्यात् ।
यद्यात्मादेः क्षणिकत्वं सिद्धं स्यात् ।
नच तदस्ति ।
प्रमाणबाधितत्वान्निष्प्रमाणकत्वाच्चेति भावः ।
एकत्वं भिदेत्यत्र पूर्वोत्तरकालयोरिति शेषः ।
अनुभूतिस्थं प्रत्यभिज्ञासिद्धम् ।
कुतो ऽङ्गीकार्येत्यध्याहारात्समानकर्तृतासिद्धिः ।
*8,229*
ननु च प्रत्यभिज्ञानं भ्रान्तमित्युक्तम् ।
तत्कथमात्मादेरैक्यं ततः सिद्धयेदित्यत आह- वल्येवेति ॥
... बल्येवानुभवो यतः
न्यायसुधा:
तर्कबलेनानुमाने निरवकाशतया प्रबले सति हि तद्विरोधात्प्रत्यभिज्ञानं भ्रान्तं स्यात् ।
यदा तु तर्कस्योक्तविधयाऽभासत्वं, तदा कुतः क्षणिकत्वानुमानप्राबल्यम् ।
कुतश्च प्रत्यभिज्ञायास्तद्बाधः ।
अबाधितश्च प्रत्यभिज्ञानुभवो यतो बल्येव ।
अत आत्मादेरेकत्वं तेन सिद्धमिति सम्बन्धः ।
एतेनानुमानसिद्धस्य भेदस्य कथं निर्मानकत्वमित्यपि परास्तम् ।
तदुपजीव्यस्य तर्कस्याद्याप्यनवस्थानात् ।
*8,230*
नन्वस्तूत्तरोत्पाद एव पूर्वस्य निरोधस्तथापि कुतः पूर्वस्योत्तरस्मिन्संस्कारानाधायकत्वमित्यत आह- कार्यकारणयोश्चेति ॥
कार्यकारणयोश्चैककालीनत्वं विना कथम् ।
पूर्वसंस्कारयोगी स्यादुत्तरो नियमेन च
न्यायसुधा:
उत्तरोत्पाद एव पूर्वस्य निरोधात्कायर्कारणयोरेककालीनत्वं तावन्नास्तीति लभ्यते ।
एककालीनत्वं च विना पूर्वाहितसंस्कारयोगित्वमुत्तरस्य न युज्यते ।
नियमेन चेत्यनेन क्वचिदपि न युज्यते कुतः सर्वत्रेति सूचयति ।
यद्वैककालीनस्य एव संस्कारार्पकत्वं दृष्टं न भिन्नकालत्व इति व्याप्तेरित्यर्थः ।
नन्वेककालीनत्वाभावे ऽपि कुतः संस्कारार्पकत्वं न स्यादित्यत आह- सम्बद्धा एवेति ॥
सम्बद्ध एव संस्कारमन्यत्रादत्तते ऽखिलाः ।
असम्बद्धः कथं पूर्व उत्तरे वासनाकरः
*8,231*
न्यायसुधा:
यस्मात् अखिलाः संस्काराधायकाश्चाम्पककुसुमादयः पदार्थास्तैलादिभिः सम्बद्धा एव अन्यत्र तैलादौ संस्कारमादधते, नासम्बद्धा इत्यस्ति नियमः ।
नच भिन्नकालीन(ल)योः सम्बन्धो युज्यते ।
तस्मादुत्तरेणशसम्बद्धः पूर्वस्तस्मिन्नुत्तरे वासनां न कुर्यादिति ।
उक्तमर्थं बुद्धयारोहार्थं सङ्कलय्याह- एककालतयेति ॥
एककालतया योगं विना संस्कारतः कथम्
न्यायसुधा:
अत्रैककालतया विना कार्यकारणयोर्योगो न युज्यते ।
योगं विना कारणस्य कार्ये संस्कारार्पकत्वं च न घटते, संस्कारतो विना कथमनुमानादिव्यवहार इत्यध्याहारेण योजना ।
संस्कारापर्कत्वं च न घटते, संस्कारतो विना कथमनुमानादिव्यवहार इत्यध्याहारेण योजना ।
यदीदं सङ्कलनं न क्रियेत तदा पूर्वो(क्तहेतूनां)क्तानां प्रत्येकं संस्कारानाधयकत्वे हेतुत्वं ज्ञायेत ।
सर्वत्र साध्यनिर्देशात् तत्र को दोषः ।
उक्ताकाङ्क्षाकुण्ठितत्वमेवेति ।
अत्रैते प्रयोगाः ।
पूर्वक्षण उत्तरक्षणे संस्काराधायको न भवति, तेनासम्बद्धत्वात् ।
यो येनासम्बद्धो नासौ तत्र संस्काराधायकः, यथा सम्प्रतिपन्नः ।
यद्वा यो यत्र संस्काराधायकः स तत्सम्बद्ध एव दृष्टो यथा सम्मतः ।
असम्बद्धस्यापि संस्काराधायकत्वे मृगमदो वसनमिव सर्वं वासयेदविशेषात् ।
असम्बद्धश्च पूर्व उत्तरेण ।
ततो भिन्नकालीनत्वात् ।
सम्प्रतिपन्नवत् ।
भिन्नकालीनयोरपि सम्बन्धे ऽतिप्रसङ्गः ।
भिन्नकालीनश्च पूर्वं उत्तरेण ।
तदुत्पाद एव विनष्टत्वात् ।
संमतवत् ।
प्रागेव नष्टस्य तेनैककालीनत्वशङ्का एव व्याहतेति ।
ननु लाक्षारसाहितबीजपूरकुसुमलौहित्यवत्किन्न स्यादिति चेत्(न) ।
तत्रापि निरन्वयविनाशोत्पादानभ्युपगमात् ।
अत्र च परसिद्धन्यायेन परस्य बोधनान्नाश्रयासिद्धयादि शङ्कनीयमिति ।
*8,236*
भवेदेतद्यदि कारणस्य कार्योत्पाद एव विनाशः स्यात् ।
स एव कुतः सिद्ध इत्यत आह- क्षणमात्रमिति ॥
क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु
न्यायसुधा:
कार्यकारणयोस्तावदुत्तरपूर्वत्वमावश्यकम् ।
यौगपद्ये कायर्कारणभावव्याघातात् ।
ततः पूर्वक्षणवर्ति कारणं यदि कायर्क्षणे ऽपि स्यात्तदा सर्ववस्तूनामङ्गीकृतं क्षणमात्रमवस्थानं भज्येत ।
अतः क्षणिकत्वाभ्युपगम एवोत्तरोत्पादे च पूर्वनिरोधं गमयतीति ।
स्यादेतत् ।
कारणं क्षणस्य पूर्वविभागे लब्धसत्ताकं मध्यविभागे कार्यमुत्पाद्यापरविभागे तत्र संस्कारमाधाय नश्यतीत्यङ्गीकारे न को ऽपि दोष इत्यत आह- पूर्वेति ॥
पूर्वमध्यापरकलारहितः क्षण इष्यते
न्यायसुधा:
अत्र विभागमात्रं कलोच्यते ।
पूर्वापरयोरभावे तन्निरूप्यमध्याभावः सिद्धः ।
इष्यते सौगतैः ।
*8,237*
एवं तर्कस्य प्रतितर्कपराहतिमभिधायेदानीं यथा स्थायिनः सत्त्वानुपपत्तिरेवं क्षणिकस्यापि तदनुपपत्तेरनुकूलता नाम तर्कदोष इति प्रतिपादयितुं सूत्रम् ओं असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ओं ॥
इति ।
तद्वयाचक्षाणस्तावद्विकल्पेन तत्पृच्छति- पूर्वेति ॥
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा
पूर्वभावभवं कार्यमुत तन्नाशसम्भवम्
*8,237f.*
न्यायसुधा:
अर्थक्रियाकारित्वं हि सत्त्वं परस्याभिमतम् ।
तच्च वक्ष्यमाण(वि)कल्पद्वय(येन)व्याप्तम् ।
तृतीयप्रकारानिरूपणात् ।
नच तत्क्षणिके सम्भवति ।
तथाहि क्षणिकाद्भावाद्भवत्कार्यं किं पूर्वस्य कारणस्य भावे भवति ।
कारणसत्तासमानकालीनसत्तमिति यावत् ।
उत तस्य कारणस्य नाशे सति सम्भवतीति ।
*8,238*
आद्ये दोषमाह- यौगपद्यमिति ॥
यौगपद्यं सति भवेदुत्पाद्यानामशेषतः
न्यायसुधा:
सति कारणे ।
कार्यं भवति चेत् तर्हीति शेषः ।
क्षणिकं हि कारणम् ।
कार्यं च तत्सत्तासमानकालीनसत्तं चेत्कार्यकारणयोः सहोत्पाद इत्युक्तं स्यात् ।
क्षणे विभागाभावस्योक्तत्वात् तत्तत्कार्याणामप्ययमेव न्याय इति तत्सन्तानभाविना(प्य)मशेषकार्याणां यौगपद्यं स्यात् ।
तच्च प्रत्यक्षादिविरुद्धमिति ।
अत्र यद्यपि युगपद्भवतोः कार्यकारणभावानुपपत्तिरपि दूषणम् ।
तथापि तच्छिष्यैरेव ज्ञातुं शक्यत इति,"उभयथा च दोषात्ऽ; इति सूत्रे कथितमिति वा(चा)त्र नोक्तम् ।
द्वितीयं निराकरोति- विनाशे चेदिति ॥
विनाशे चेन्न तत्कार्यं ...
न्यायसुधा:
कारणस्य कार्यं भवेत्तर्हीति शेषः ।
तत्तस्य कार्यं न भवतीत्यापन्नम् ।
अन्यथा सर्वस्य सर्वं कार्यं स्यात् ।
न ह्यानन्तर्यमात्रेण कार्यकारणभावः ।
तथात्वे विनाशकार्यत्वप्रसङ्गात् ।
आनन्तर्यस्यान्यापेक्षयापि सत्त्वात् ।
सादेश्यादेरपाकृतत्वात् ।
एवमन्यस्यापि कार्यं न भवतीति न कार्यं स्यादकारणं वा ।
उभयथापि पूर्वस्यार्थक्रियाविरहादसत्त्वप्राप्तिरिति ।
सूत्रकृता सौगताभ्युपगतं पक्षं प्रधानीकृत्य दूषणमुक्तम् ।
भाष्यकृता त्वभावस्य भावसापेक्षत्वात्तेन क्रमेणातो ऽर्थविरोधाभावः ।
*8,241*
नन्वस्ति तावत्प्रतिक्षणं कार्योत्पत्तिः ।
नच कार्यं कारणेन विनोत्पत्तुमलम् ।
तथा सति नित्यं सत्त्वमसत्त्वं वे(चे)त्यापत्तेः ।
अतः कार्योत्पत्तिरेवान्यतरपक्षदोषमाभासयिष्यति ।
पक्षान्तरं वा ग्राहयिष्यतीत्यत आह- कार्योत्पत्तौ चेति ॥
... कार्योत्पत्तौ च का प्रमा
न्यायसुधा:
स्यादेतद्यदि प्रतिक्षणं कार्योत्पत्तिः प्रमाणवती स्यात् ।
न चैतदस्ति ।
नच स्वाङ्गीकारमात्रेणार्थान्तराक्षेपसामर्थ्यमतिप्रसङ्गादिति ।
नन्वस्ति, यत्सत्तत्क्षणिकं यथा देहादि, सच्च विवादपदमिति प्रतिक्षणं कार्योत्पत्तौ प्रमाणमिति चेन्न ।
अस्यैव निराक्रियमाणत्वात् ।
देहादीनाम(देह)पि क्षणिकत्वाभावेन दृष्टान्तस्य साध्यविकलत्वाच्च ।
ननु देहादेः पूर्वोत्तरक्षणयोः परिमाणभेदेन भेदसिद्धौ क्षणिकत्वसिद्धिरित्युक्तमित्यस्य आह- अभेदे ऽपीति ॥
अभेदेन विशेषेण देहदीपफलादिषु ।
विशेषदर्शनं युक्तमस्माकम् ... ॥ मनुव्_2,2.196अ-द् ॥
*8,241f.*
न्यायसुधा:
पूर्वोत्तरक्षणयोरिति शेषः ।
विशेषेण आरम्भवादद्वैलक्षण्येन ।
आदिपदेनाङ्कुरादि ।
विशेषदर्शनं परिमाणभेददर्शनम् ।
अस्माकं परिणामवादिनां मते ।
अयमथर्ः ।
आरम्भवादिनो हि परिमाणं यावद्द्रव्यभाव्यभ्युपयन्ति ।
अवयवसङ्खयातिशयानतिशयायत्तत्वात्परिमाणभेदस्य ।
अवयवापचये द्रव्यविनाशस्यावयवोपचये च तदुत्पादस्यावर्जनीयत्वात् ।
अतस्तेषां परिमाणभेदो द्रव्यं भिन्द्यादेव ।
अस्माकं त्ववस्थितमेव द्रव्यमवयवोपचयापचयाभ्यां त(त्त)त्परिमाणकतया विक्रियत इति दर्शनम् ।
तत्र परिमाणभेदो न भेदमाक्षिपतीति ।
*8,242*
किञ्च फलादीनां पूर्वोत्तरक्षणयोर्भेदः साध्यते, उताभेदाभावः ।
आद्ये सिद्धसाधनम् ।
भेदस्यास्माभिरप्यङ्गीकृतत्वात् ।
तावता क्षणभङ्गासिद्धेः ।
द्वितीये दोषमाह- अनुभूतित इति ॥
... अनुभूतितः
विशेषदर्शनं मानं यदि न स्थैर्यदृक् कुतः
न्यायसुधा:
तदिदं फलमिति प्रत्यभिज्ञया पूर्वोत्तरक्षणयोरभेदसिद्धेर्बाधितविषयमनुमानमिति शेषः ।
भ्रान्ता प्रत्यभिज्ञा नाभेदं साधयितुमलमिति चेत् ।
तर्हि भ्रान्तं परिमाणभेददर्शनं न भेदसाधनायालमिति ब्रूमः ।
परिमाणभेददर्शनं बाधकाभावात्प्रमाणमेवेति चेत्तत्राह- विशेषेति ॥
*8,243*
तर्हि स्थैर्यदृक्कुतो न मानम् ।
तस्या अपि बाधकरहितत्वात् ।
विशेषदर्शनं बाधकमिति चेत् ।
तर्हि स्थैर्यदर्शनं कुतो न बाधकम् ।
अतो ऽनुपलभ्यमानविशेषयो(रनयोर्)बाध्यबाधकभावायोगादन्योन्यप्रतिपक्षताननुभवाच्चान्यतरपक्षपातं परित्यज्य भेदाभेदविषयतयैव व्यवस्थापनं युक्तम् ।
अन्यथा दृष्टान्ते साध्यसन्देहेनापि परानुमानं दुष्यं स्यादिति ।
एवं तर्काङ्गान्तरवैकल्यं स्वयमूहनीयम् ।
*8,244*
नन्वेतानि सूत्राणि कुतो व्युत्क्रमेण(मतो)व्याख्यातानि ।
उच्यते ।
उपोद्घातप्रक्रियया सूत्रकारेणैवादौ बाधकानि निराकृत्यान्ते निष्कण्टका प्रत्यभिज्ञोपन्यस्ता ।
भाष्यकारेण तु सुबोधत्वाय शिष्याकाङ्क्षाक्रमेणादौ प्रत्यभिज्ञामभिधायानन्तरं तद्बाधकानि परिहृतानीति ।
*8,245*
दुःखाभावं सुखं चाहुरिति यदनूदितं तन्निराकरोति- दिगिति ॥
दिक्सुखे च खदृष्टान्ताद् भावौ सच्चेत् क्वचिद् भवेद्
न्यायसुधा:
स्वदृष्टान्तादित्याकाशस्य भावत्वे यो न्यायो ऽभिहितस्तस्मादिति हेत्वतिदेशः ।
धर्मिप्रतियोगिनिरपेक्षमेव विधिरूपेण प्रतीयमानत्वादित्यर्थः ।
सद्भावः क्वचिद्भवेच्चेत्तद्दृष्टान्तेनेति शेषः ।
अनेनान्यथा रूपादिनामपि भावत्वं न स्यादविशेषादिति बाधकं सूचयति ।
यद्यपि दिशो नाकाशाद्भिद्यन्ते ।
तथाप्याकाशस्य भागसद्भावं ज्ञापयितुं तासां ग्रहणम् ।
एकवचनं तु जात्यभिप्रायम् ।
एतेनाकाशे चाविशेषादिति सूत्रं प्रकारान्तरेण व्याख्यातं भवति ।
आकाशादीनां भावत्वसमर्थनेन पञ्चस्कन्धात्मकं विश्वमिति निरस्तम् ।
आत्मनो ज्ञानात्मकत्वं तु नास्माकं अनिष्यम्(विरुद्धम्) ।
क्षणभङ्गिताया निरस्तत्वात् ।
ज्ञानस्यापि ग्राहकतायाः परेणाभ्युपगतत्वात् ।
मोक्षस्तु चतुर्थे परीक्षिष्यते ।
*8,247*
स्यादेतत् ।
वैभाषिकसौत्रान्तिकयोर्यः साधारणः स्वमतविरुद्धः सिद्धान्तः स एव निराकृतः ।
यस्तु सौत्रान्तिकस्य सिद्धान्तविशेषः"प्रमाणं तावद्विविधम् ।
प्रमेयद्वैविध्यात् ।
तत्र ज्ञानातिरिक्तः सर्वे ऽपि रूपादिप्रपञ्चो ऽनुमेय एव न तु प्रत्यक्षः ।
ज्ञानं (तु) नीलाद्याकारं प्रत्यक्षवेद्यम्ऽ; इति ।
स कस्मान्न निराकृत इत्यत आह- विश्वमिति ॥
विश्वं प्रत्यक्षगं त्यक्तवा तयोर्यो ऽनुमितं वदेत् ।
मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता
न्यायसुधा:
तयोः वैभाषिकसौत्रान्तिकयोर्मध्ये यः सौत्रान्तिको विश्वं रूपादिकं प्रत्यक्षगं त्यक्त्वा रूपादेर्विश्वस्य प्रत्यक्षवेद्यतां वैभाषिकादिभिरभ्युपगतामनभ्युपगम्येति यावत् ।
अनुमितं वदेत् रूपादेर्विश्वस्यानुमानवेद्यतामङ्गीकुर्यात् ।
मायावादिना तुल्यं वर्तत इति मायावादिवत् ।
एतदुक्तं भवति ।
यथा सर्वान्दुःसमयानपाकुर्वता(ऽपि) सूत्रकृता न मायावादो ऽत्र पादे निराकृतः ।
तस्यात्यन्तनिर्दलस्योपेक्षैव कार्या ।
न त्वीषत्सदलैः साङ्खयादिसमयैः सह निरास इति ज्ञापनार्थम् ।
तथा बाह्यानुमेयतावादो ऽपीति ।
ननु मायावादः सूत्रोत्पत्त्युत्तरकालभावी ।
तस्य कथं निरासप्रसक्तिः ।
मैवम् ।
"अनादिकालतो वृत्ताःऽ; इत्यक्तत्वात् ।
अन्यथा साङ्खयादिनिरासस्याप्यप्रसक्तेरिति ।
व्यास-3
*8,249*
नन्वप्रतिषिद्धमनुमानं भवतीति न्यायेन नीलादेर्विश्वस्याप्रत्यक्षत्वं सूत्रकारस्याभिमतमेवेति कुतो न कल्प्यते ।
(नैवं) नचैवं शक्यम् ।
प्रमाणाविरुद्धः प्रमाणानुसारी च सूत्रकारस्याभिप्रायः कल्पनीयः ।
नचायमर्थस्तथेत्याशवानाह- सर्वेति ॥
सर्वप्रमाणसिद्धं यद् बुद्धेर्भेदेन सर्वदा ।
कथं नु तस्य बुद्धित्वं ... ॥ मनुव्_2,2.199अ-च् ॥
न्यायसुधा:
अयमत्रोत्तरक्रमः ।
नीलादेरर्थस्याप्रत्यक्षत्वं न वक्तुं शक्यते ।
नीलादिप्रतीतेरपरोक्षतायाः साक्षिसिद्धत्वात् ।
इन्द्रियव्यापारभावभावित्वेनानुमानसिद्धत्वाच्च ।
अथ मतम् ।
येनार्थेन यज्ज्ञानं जायते तत् तदाकारं भवति ।
तच्च ज्ञानं स्वप्रकाशतया स्वगतं नीलाद्याकारमपि साक्षात्कुरुते ।
अतो ऽपरोक्षतयोपलभ्यमानस्य नीलाद्याकारनिकरस्य बुद्धिगतत्वान्न कश्चिद्दोष इति ।
अत्रेदमुपतिष्ठते ।
यदपरोक्षतयावभासमानं नीलाद्याकारचक्रं बुद्धेर्भेदेन सर्वदा सर्वप्रमाणसिद्धम् ।
तस्य कथं नु बुद्धित्वमङ्गीक्रियते ।
बहिर्मुखतयेदन्तेन ह्ययं नीलाद्याकारो ऽपरोक्षमवभासते ।
न जात्वन्तर्मुखतयाहं नीलमिति ।
तथा नीलापरोक्षज्ञानसमनन्तरं नीलार्थी नियमेन बहिः प्रवर्तते ।
तेनानुमीयते ऽनेन बहिरर्थ एव साक्षात्कृत इति ।
न ह्यन्यत्र ज्ञानमन्यत्र प्रवृत्तिरिति युज्यते ।
अतिप्रसङ्गात् ।
मध्ये ऽनुमानं तु निरसिष्यते ।
एवमाप्तो ऽपि किमपरोक्षतया पश्यसीति पृष्टो ऽङ्गुलिं प्रसार्येदमिति बाह्यमेव ब्रवीत्यतस्त्रिभिरपि प्रमाणैरपरोक्षतयावभासमानस्य नीलाद्याकारस्य बुद्धितो भेद एवावसीयते ।
न चेदं सर्वं भ्रान्तम् ।
कदाप्यन्यथाप्रतीत्यभावात् ।
विनैव बाधकेन भ्रान्तित्वाभ्युपगमे ऽतिप्रसङ्गात् ।
अतो ऽपरोक्षतयावभासमानो नीलाद्याकारो बाह्य एव, नतु बुद्धिगत इति ।
*8,251*
किञ्च बाह्यार्थस्याप्रत्यक्षत्वे तदसिद्धिरेव स्यात् ।
प्रमाणाभावात् ।
तथाच बाह्यार्थाभ्युपगमो रिक्तः स्यादित्याह- विश्वमिति ॥
... विश्वमन्यच्च किम्प्रमम्
न्यायसुधा:
अन्यत् ज्ञानमिति शेषः ।
का प्रमा यस्य तत् किंप्रमम् ।
अनुमेयो बाह्याकार इति चेत्(न) ।
सर्वथासिद्धस्य पक्षीकरणायोगात् ।
लिङ्गाभावाद्वयाप्त्यसिद्धेश्च ।
स्यादेतत् ।
बुद्धिगतस्तावदाकारो ऽपरोक्षमवभासते ।
स कादाचित्कत्वात्किमपि कारणमेपक्षमाणो बाह्यं नीलाद्यनुमापयिष्यतीति ।
मैवम् ।
बाह्यतयैव नीलाद्याकारस्य स्फुरणात् ।
कुत्र चेदमुलब्धम्, यत्कादाचित्कं तत्कारणवदिति ।
ज्ञान एवेति चेत्(न) ।
बाह्याप्रत्यक्षत्ववादे तत्रापि कारणत्वानवधारणात् ।
ज्ञानं पूर्वज्ञानकारणकमुपलब्धमिति चेत् ।
तर्ह्याकारो ऽपि पूर्वाकारजन्यः कल्प्यताम् ।
किं बाह्यार्थव्यसनेन ।
नीलज्ञानानं(नोत्पादान)न्तरं पीतज्ञानोत्पाददर्शनान्नेति चेत्(न) ।
सदृशजन्यत्वस्य परेण क्वाप्यनुप(गन्तव्य)लब्धत्वात् ।
*8,253*
किञ्च वासनादिकमान्तरमेव सहकारीकृत्य विसदृश(मेव)मपि ज्ञानं जनयतीति कल्पनीयम् ।
न बाह्यम् ।
दृष्टेनैव कथञ्चिदुपपत्तावदृष्टकल्पनानुपपत्तेः ।
अतो बाह्यो ऽ(प्यर्)थः प्रत्यक्षसिद्ध इति शङ्कानास्पदत्वादिदं मतमत्र न दूषितमित्युक्तम् ।
यद्वा स्फुटतरानल्पदोषत्वेन शिष्यैरेव हेयतया ज्ञातुं शक्यत्वादित्याशयेनाह- सर्वेति ॥
सर्वलोको बिभेत्यञ्जो यस्मादनुभवात् सदा ।
तस्यापलापिनः किं न निष्प्रमाणकवादिनः
न्यायसुधा:
माध्यमिकादयो ऽपि बाह्यार्था(द्वय)नपह्नुवाना अपि ह्यनुभवाद्बिभ्यतः सांवृवसत्त्वाद्यभ्युपयन्ति ।
ततः सर्वैरनुसरणीय एवायमनुभवः ।
तमपि यः सौत्रान्तिको ऽपलपति, अनुभवसिद्धाया अपरोक्षस्य नीला(द्या)कारस्य बाह्यताया अपाकरणात् ।
तथा निष्प्रमाणकं वदति, नीलाद्याकारस्य बुद्धिस्थतायां प्रमाणाभावात् ।
तस्य(स्याप्य) अनुभवस्य अपलापिनः निष्प्रमाणकवादिनस्तस्य सौत्रान्तिकस्य किं दूषणं न भवेत् ।
सर्वमपि भवेदिति ।
*8,254*
"एकत्वमनुभूतिस्थम्ऽ"खदृष्टान्तात्ऽ"तस्यापलापिनःऽ; इति परपक्षे तत्र तत्रानुभवविरोधो ऽभिहितः ।
स कथमित्यतो ऽभिनयेन तं दर्शयति- सो ऽहमिति ॥
*8,255*
सो ऽहं तदिदमेवाहं सुखी सद् गगनं दिशः ।
सत्या इत्याद्यनुभवाः सदा तत्प्रतिपक्षगाः
न्यायसुधा:
अत्र स एवाहमित्यात्मैकत्वाग्राही प्रत्यभिज्ञानुभवो दर्शितः ।
तदिदमित्यनात्मन ।
अहं सुखीति सुखस्य विधित्वानुभवः ।
सत् भावरूपं गगनं, दिशः सत्या भावरूपा इति गगनस्य (च) दिशां च भावत्वानुभवः ।
आदिपदादिदं नीलं नाहं नीलमित्यादेः (परिग्रहः) ग्रहणम् ।
तत्प्रतिपक्षगाः तदभ्युपगताथर्विरुद्धविषयाः ।
वैभाषिकसौत्रान्तिक(मत)समयनिराकरणमुपसंहरति- अत इति ॥
अतो निर्मानमखिलप्रमाणप्रतिपक्षगम् ।
दुर्मतं को नु गृह्णीयाद् विनासुरततिं क्वचित्
न्यायसुधा:
अखिलप्रमाणप्रतिपक्षगं सर्वप्रमाणविरुद्धार्थविषयम् ।
अत एव दुर्मतम् ।
दिङ्नागप्रभृतिभिर्बहुभिर्गृहीतत्वात्कथं को नु गृह्णीयादित्याक्षेप इत्यत उक्तम्- विनेति ॥
सत्पुरुषविषय एवायमाक्षेप इति भावः ।
नचैवं निराकरणवैयर्थ्यम् ।
उक्तार्थानुसन्धाने को नु गृह्णीयादिति व्याख्यानादिति ।
॥ इति श्रीमन्न्यायसुधायां समुदायाधिकरणम् ॥
*8,257*
[======= ज्न्य्स्_2,2.विइइ: असदधिकरण =======]
॥ अथ श्रीमन्न्यायसुधायां शून्यवादापाकरणम् ॥
॥ ओं नासतो ऽदृष्टत्वात् ओं ॥
माध्यमिकमतमत्रापाक्रियते ।
तस्योक्तार्थविरुद्धतां दर्शयितुं तत्तावदुपन्यस्यति- अपर इति ॥
नासतो ऽदृष्टत्वात्
अपरः शून्यमखिलं मनोवाचामगोचरम् ।
निर्विशेषं स्वयम्भातं निर्लेपमजरामरम्
अशेषदोषरहितमनन्तं देशकालतः ।
वस्तुतश्च ... ॥ मनुव्_2,2.204अ-च् ॥
न्यायसुधा:
अपरो माध्यमिकः, "इति ब्रूमःऽ; इति वक्ष्यमाणेन सम्बन्धः ।
शून्यमेव तत्त्वं न ततो ऽन्यदस्तीति शेषः ।
ननु पञ्चस्कन्धास्ततो ऽतिरिक्ताः सन्तीत्यत उक्तम्- अखिलमिति ॥
पञ्चस्कन्धात्मकमखिलं जगच्छून्यमेव, न ततो ऽन्यदित्यथर्ः ।
तच्छून्यं कुतः सिद्धमित्यत उक्तम्- स्वयम्भातमिति ॥
स्वयंभातत्वं च न स्वकर्मकप्रकाशत्वम् ।
किन्त्वपराप्रकाश्य(श)त्वमेवेत्याशयेनोक्तम्- मन इति ॥
प्रमाणमात्रोपलक्षणमेतत् ।
कुतः प्रमाणाविषयत्वं शून्यस्य, निर्धर्मकत्वात् ।
सधर्मक एव प्रमाणप्रवृत्तिरित्युक्तम्- निर्विशेषमिति ॥
निखिलजगदात्मकं चेच्छून्यम्, तर्हि तद्धर्मा लेपजरामरणदुःखपरिच्छेदादयस्तस्यैव स्युरिति कथं निर्विशेषत्वादिकमित्यत आह- निर्लेपमिति ॥
लेपो धर्माधर्मसम्बन्धः ।
दोषा दुःखादयः ।
वस्तुतश्चानन्तं वस्त्वन्तरप्रतियोगिकान्योन्याभावरहितम् ।
यद्वा शुद्धं सर्वगतं नित्यं सर्वात्मकं शून्यमभिलप्यते ।
तत्कथं निर्विशेष(मु)मित्युच्यत इत्यत एतदुक्तम् ।
लेपादिदोषाभावमात्रेण शुद्धमुच्यते ।
देशादिपरिच्छेदाभावमादाय सर्वगतत्वादिवादो, नतु कमपि धर्ममाश्रित्येति ।
*8,260*
उपायोपेयभावावस्थितपदार्थख्यापनं शास्त्रधर्मः ।
अतस्तत्त्वविषयां विप्रतिपत्तिं दर्शयित्वा विप्रतिपन्ने उपायोपेये दर्शयति- तदस्मीति ॥
... तदस्मीति नित्योपासापरोक्षितम् ।
रागादिदोषरहितं तद्भावं योगिनं नयेत् ॥ मनुव्_2,2.204च्-f ॥
न्यायसुधा:
तच्छून्यमहमस्मीति नित्योपासयापरोक्षीकृतम् ।
तच्छून्यं रागादिदोषरहितं योगिनं तद्भावं शून्यत्वलक्षणं मोक्षं नयेदिति सम्बन्धः ।
यथोक्तम् ।
"प्रदीपस्येव निर्वाणं विमोक्षस्तस्य तायिनः(तापिनः) (भाविनः)ऽ; इति ।
*8,261*
यदि शून्यमुक्तरूपं कथं तर्ह्यखिलं शून्य(मित्युक्त)मित्यत आह- तस्यैवेति ॥
तस्यैवानादिसंवृत्त्या नानाभेदात्मकं जगत् ।
सदिवाभाति ... ॥ मनुव्_2,2.205अ-च् ॥
*8,261f.*
न्यायसुधा:
शून्यस्यैव ।
संव्रियते ऽनयेति संवृतिरविद्या ।
संवृतेः सत्यत्वे ऽद्वैतहानिरारोपितत्वे तु संवृत्यन्तरापेक्षेत्यतो ऽनादीत्युक्तम् ।
नानाभेदात्मकं पञ्चस्कन्धात्मकम् ।
शून्याविद्याकल्पितत्वादखिलं शून्यमित्युच्यते ।
न पुनस्तदेव तदिति ।
तत्किमसदेवेदम् ।
तथात्वे वा कथं सदिति प्रतिभासः ।
सत्त्वारोपात् ।
*8,263*
पक्षान्तरमाह- सत्यत्वमिति ॥
... सत्यत्वं सांवृतं तस्य चेष्यते
न्यायसुधा:
तस्य आरोपितस्य अपि जगतः, सांवृतं सत्यत्वमिष्यते ऽतो न सत्प्रत्ययविरोधः ।
अस्ति चेत् जगतः सत्त्वं कथं तर्ह्यसत् ।
येन सदिवाभातीत्युक्तमित्यत आह- पारमार्थिकेति ॥
पारमार्थिकसत्त्वं तु शून्यादन्यस्य न क्वचित्
न्यायसुधा:
सर्वथाबाध्यत्वं पारमाथिर्क(स)त्त्वं तदभावादसदिदं जगदुद्गीयत इति ।
पारमार्थिकसत्त्वाभावे कथं जगत्यर्थक्रियादिव्यवहार इत्यत आह- सांवृतेनैवेति ॥
सांवृतेनैव सत्येन व्यवहारो ऽखिलो भवेत्
न्यायसुधा:
अखिलो हानोपादानोपेक्षाभिज्ञाभिवादनार्थक्रियालक्षणः ।
व्यवहारस्याप्यसत्त्वात् ।
स्वप्न इवेति शेषः ।
पारमार्थिकसत्त्वमेव व्यवहारविरोधि ।
तस्य सर्वक्रियारहितत्वात् ।
नतु तदभाव इति भावेनोक्तम्- सांवृतेनैव सत्त्वेनेति ॥
*8,265*
सृष्टिप्रलयविष(यं)ये विगानं दर्शयति- शून्यादिति ॥
शून्यात् संवृतियोगेन विश्वमेतत् प्रवर्तते ।
सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् ।
इति ब्रूते ... ॥ मनुव्_2,2.207अ-ए ॥
*8,266*
न्यायसुधा:
सृष्टिकाले प्रवर्तत जायते ।
शून्यस्य निष्क्रियत्वात्कथं विश्वकर्तृत्वमित्यत उक्तम्- संवृतियोगेनेति ।
अन्ते प्रलयकाले ।
स्तिमितं निष्क्रियम् ।
अनेन क्रियाविभागादिन्यायेन या विश्वस्य सत्यत्ववादिनां प्रलयप्रक्रिया सा निराक्रियते ।
स्वाप्नगजादिरिवेति शेषः ।
एवमुपन्यस्तमतनिरासाथर्त्वेनाधिकरणमवतारयति- तमुद्दिश्येति ॥
... तमुद्दिश्य जगाद जगतां गुरुः
न्यायसुधा:
यत्तावदुक्तं शून्यादेवेदं जगदुत्पद्यत इति तद्यथाश्रुतमपाकर्तुं सूत्रम् ओं नासतो ऽदृष्टत्वात् ओं इति ।
तद्वयाचष्टे- नासत इति ॥
*8,267*
नासतो ऽदृष्टत्वात्
[सेचोन्द् तिमे!]
नासतो जगतो भावो ...
न्यायसुधा:
असतः सर्वविशेषनिर्मुक्तत्वेन गगनकुसुमसमानाच्छून्याज्जगतो भावो जन्म नोपपद्यते ।
कुत इत्यत आह- न हीति ॥
... नहि दृष्टासतो जनिः ।
सतः क्वचित् ...
न्यायसुधा:
सतो भवतः कार्यस्येति यावत् ।
क्वचित् ।
असतो जनिर्न दृष्टा यतः ।
अत्र सर्वत्र शून्यस्यासत्त्वमापाद्य
दूषणाभिधानमिति ज्ञातव्यम् ।
*8,268*
स्यादेतत् ।
प्रमाणाभावः प्रमेयाभावं साधयति ।
न पुनः प्रमाणविशेषाभावः ।
मा हि भूदस्मदादिप्रत्यक्षव्यावृत्त्या धर्माद्यभावसिद्धिः ।
तदत्रापि प्रमाणाभावादिति हेतुर्वक्तव्यः ।
"अदृष्टत्वादितिऽ; प्रत्यक्षाभावकथनं तु कथम् ।
अनैकान्तिकत्वादित्यत आह- प्रमाणं चेति ॥
... प्रमाणं च दृष्टिरेवाखिलाद् वरम्
न्यायसुधा:
दृष्टिः प्रत्यक्षमेव अखिलात् अनुमानादगमाच्च वरं प्रमाणम् ।
अयमभिसन्धिः ।
नासतो जगतो भाव इति प्रतिज्ञाय कुत इत्याकाङ्क्षायां तत्र प्रमाणाभावादिति हेतुं मनसि निधाय कतं तत्र प्रमाणाभाव इति जिज्ञासायामनुमानागमयोः प्रत्यक्षमूलत्वेन ततः प्रत्यक्षमेव वरं प्रमाणमिति, आदावदृष्टत्वादिति तदभावो ऽयं दर्शितो नतु प्रधानप्रतिज्ञायां हेतुत्वेन, येनोक्तदोषः स्यादिति ।
तर्ह्यनुमानाद्यभावो (ऽपि) वक्तव्य इत्यत आह- प्रमाणं चेति ॥
अयमाशयः ।
वेदादेः शून्यवादिना प्रामाण्यं नाङ्गीक्रियते ।
तदीयागमस्य त्वस्माभिरित्यतो नास्त्यत्रागमः सम्प्रतिपन्न इति शिष्यैरेव शक्यते ज्ञातुम् ।
प्रत्यक्षाभावेनानुमानस्याप्यभावः सिद्ध एव ।
प्रत्यक्षस्यानुमानोपजीव्यत्वात् ।
प्रत्यक्षेण क्वचिदुपलब्धमेव ह्यनुमानेन (क्वचित्सा)साधनीयम् ।
अतो ऽनुमाना(द्य)भावस्यानुक्तावपि लाभाददृष्टत्वादित्येवोक्तं सूत्रकृतेति ।
अत एव प्रागुक्तम्- क्वचिदिति ॥
*8,270*
मा भूच्छून्याज्जगदुत्पत्तौ प्रत्यक्षं प्रमाणम् ।
मा च भूदागमः ।
तथाप्यनुमानं भविष्यति ।
असतः सदुत्पत्तौ प्रत्यक्षाभावेन दृष्टानुमानानुपपत्तावपि सामान्यतो दृष्टस्योपपत्तेः ।
कारणस्य हि सत्त्वे निषिद्धे ऽसत एव जन्म सेत्स्यतीत्याशङ्कयानुमानानां तर्कप्रतिघातं वक्तुं सूत्रम्- ओं उदासीनानामपि चैवं सिद्धिः ओं इति ॥
तद्वयाचष्टे- यद्येवमिति ॥
उदासीनानाम् अपि चैवं सिद्धिः
यद्येवं सप्तमरसान्मधुरादिव पीनता ।
भवेज्जनस्य मार्जारृङ्गं गोरिव घातकम्
न्यायसुधा:
यद्यसत एव यत्किञ्चित्कार्यं जायेत तदा मधुरादिव सप्तमरसाञ्जनस्य पीनता स्यात् ।
गोः शृङ्गमिव मार्जारृङ्गमपि जनस्य घातकं भवेदविशेषादित्यनेन एवं सत्युदासीनानां हेयो(पादेयो)पेक्षणीयबुद्धयविषयाणां सप्तमरसादीनामपि सकाशात् पीनत्वादिकार्यस्य सिद्धिः प्रसज्येतेति सूत्रं व्याख्यातं भवति ।
*8,273*
प्रकारान्तरेण व्याख्याति- कार्यार्थीति ॥
कार्यार्थी कारणं सच्च नोपादद्यात् कथञ्चन
न्यायसुधा:
यद्यसत एव कार्यमुत्पद्यते तदा पटादिकार्यार्थी कुविन्दादिः सत् तन्त्वादिकारणं सर्वथा नोपाददीत ।
असत एव पटाद्युत्पत्तेः ।
अतिप्रसङ्गान्तरमाह- नेति ॥
न प्रवर्तेत चेष्याय शून्यादेवेष्यसम्भवात्
न्यायसुधा:
न केवलमसतः कार्योत्पत्तौ सत्कारणोपादानानुपपत्तिः ।
किन्त्विष्याय पटाद्युत्पादाय न प्रवर्तेत ।
न प्रयतेत च ।
कुतः ।
शून्यादेवेष्यसम्भवात् ।
एतेन तन्त्वाद्युपादानादु(द्यु)दासीनानां चिकीर्षादिरहितानां च पुंसां पटादिसिद्धिः स्यादिति सूत्रं व्याख्यातं भवति ।
*8,274*
प्रकारान्तरेण व्याख्याति- देशेति ॥
देशकालादिनियमो निंह शून्यात् सतो भवेत्
न्यायसुधा:
शून्यात्सतः शून्यादेव भवतः कार्यस्य देशकालावस्थानियमो न भवेत् ।
तथाहि ।
यदि जगच्छून्यादेव भवेत् तदा गोधूमाः कृष्णभूमौ सम्पद्यन्ते न पाण्डुभूमौ ।
वसन्ते किंशुकाः पुष्पिता भवन्ति ।
न वर्षासु ।
त्रिहायिण्येव गौर्गर्भं धत्ते नान्यथा ।
सतुषा एव व्रीहयो ऽङ्कुरानुत्पादयन्ति नेतरथेत्यादिदेशकालादिनियमः कार्योत्पत्तौ न स्यात् ।
शून्यस्य सर्वत्राविशिष्टत्वात् ।
अनेनोदासीनानां देशकालादिनियमानपेक्षाणामपि कार्याणां सिद्धिरुत्पत्तिः स्यादिति सूत्रं व्याख्यातं भवति ।
शून्यादेव कार्योत्पत्तौ कुर्त्रुपादाननिमित्तापेक्षा न स्यादिति समुदायार्थः ।
*8,275*
नन्वादिसृष्टावेव शून्यात्कार्योत्पादं ब्रूमो न सर्वदा ।
अन्यदा तु कर्त्रादिकाणगणादेव ।
अतो नातिप्रसङ्ग इत्यत आह- पुरुषेति ॥
पुरुषेच्छानुसारेण यदि किञ्चित् प्रजायते
किं नानुमीयते तद्वद् वस्तुत्वात् पुरुषाद् भवः ।
सर्वस्यापि ... ॥ मनुव्_2,2.212अ-च् ॥
न्यायसुधा:
किञ्चिदित्यधुनातनं कार्यम् ।
वस्तुत्वात् कार्यत्वात् ।
सर्वस्यापीति ।
आदिकालीनस्यापि कार्यस्येत्यर्थः ।
अनने ना पुरुषः, सतः आदिकालीनस्य कार्यस्य कर्तानुमातव्यः ।
कुतः ।
दृष्टत्वात् अधुनातनानां कार्याणां पुरुषकर्तृत्वस्य निश्चितत्वादिति प्रथमसूत्रं प्रकारान्तरेण व्याख्यातं भवति ।
सूत्रभाष्ययोः पुरुषग्रहणं तु उपादानाद्युपलक्षणम् ।
*8,276*
नन्विदं सर्वमपि स्वव्याहतम् ।
तथाहि ।
यदुक्तं नासतो ऽदृष्टत्वादिति ।
तत्सतः कारणत्वे ऽपि समानम् ।
नहि सतः कारणत्वमपि क्वाप्यावयोः सम्मतम् ।
ननु च मधुरादिव गोः शृङ्गमिवेत्यादिना सतः सृष्टिसंहारकारित्वं निदर्शितम् ।
मैवम् ।
सर्वस्यापि जगतो ऽसत्त्वेन तदन्तःपातिनो मधुरादेरपि सत्त्वाभावात् ।
यश्चायमतिप्रसङ्गः"असतः कारणत्वे सप्तमरसादेरपि मधुरादि(वत्) कार्यकारित्वप्रसङ्गःऽ; इति ।
सो ऽपि सतः कारणत्वे तन्त्वादीनां मृदादिकार्यकारित्वप्रसङ्गेन तुल्यः ।
तथापि कारणत्वमात्रं सतो ऽस्तीति चेत् (न) ।
तत्सत्त्वासम्मतेरुक्तत्वात् ।
नहि सकलविक्रियातीतस्य कारणत्वं शक्यसम्भावनम् ।
मधुरादीनां सप्तमरसादीनां चासत्त्वाविशेषे ऽपि सद्बुद्धिभावाभावाभ्यां विशेषात् ।
यदपि कार्यार्थीत्यादि ।
तदीश्वरस्य सर्वकारणत्वे तत एव पटादिसम्भवात्तन्त्वाद्युपादानं न स्यात् ।
कुविन्दादेरिच्छादिकं च व्यर्थं स्यादिति समानम् ।
एतेन देशकालादीति प्रसङ्गो ऽपि समीकृतो वेदितव्यः ।
यच्च पुरुषेच्छानुसारेणेत्युक्तम् ।
(तदपि) तन्महदादिकार्यस्य कुलालादिजन्यतासाधनसमानयोगक्षेममिति ।
*8,278*
अत्र यद्विश्वस्यासत्त्वमुक्तं तत्तावन्निराकर्तुं सूत्रम् ओं नाभाव उपलब्धेः ओं ॥
इति ।
तद्वयाचष्टे- नचेति ॥
नाभाव उपलब्धेः
... नचाभावो विश्वं सदिति गम्यते
यतो ...
न्यायसुधा:
भवतीति भावः ।
न भावो ऽभावः ।
असदिति यावत् ।
सदिति गम्यते यत इत्यनेन विश्वसत्यत्वे प्रत्यक्षं प्रमाणमुक्तं वेदितव्यम् ।
प्रत्यक्षेण सदित्यनुभूयमानमपि विश्वमसच्चेत्को दोष इत्यत आह- अनुभवेति ॥
... ऽनुभवरोधे तु वचनं वादिनः कुतः
न्यायसुधा:
अनुभव(वि)रोधे तु क्रियमाण इति शेषः ।
(तत्र) यदि सत्त्वेनोपलभ्यमानमप्यसत्स्यात्तदोत्तरं वदत्यपि शून्यवादिति नोक्तं त्वयेत्यतस्ते ऽप्रतिभेति ब्रुवाणं परं प्रति शून्यवादिनः स्ववचनसाध(नो)कोपायाभावात्पराजय एवापद्येत ।
यदि च प्राश्निकाद्यवगतं कथं मद्वचनं नास्तीति ब्रूयात् तदाङ्गीकृतं प्रत्यक्षस्य प्रामाण्यमिति सत्त्वेन तदवगतं विश्वं कतमसत्स्यादिति ।
*8,279*
उक्तदोषपरिहारं शङ्कते- स्वप्नेति ॥
स्वप्नभ्रान्तिवदेवेदं संवृत्त्यैवोपलभ्यते
यदि सत्त्वेन ...
न्यायसुधा:
स्वप्नश्च भ्रान्तिश्च तयोरिव स्वप्नभ्रान्तिवत् ।
यद्यपि परस्य स्वप्नो ऽपि भ्रन्तिरेव ।
तथापि गोबलीवर्दन्यायेन लोकव्यवहारमपेक्ष्य पृथगुक्तिः ।
यथा स्वप्ने भ्रान्तौ चासदेव गजादिकं सपादिकं च सदित्युपलभ्यते तथासदेवेदं विश्वं स(त्यत्वे)त्त्वेनोपलभ्यते ।
एतदेव विश्वस्य शून्यकारणत्वं नाम ।
नापरम् ।
तत्र कथं सदित्युपलम्भेन विश्वस्य स(त्य)त्वसिद्धिः ।
नचैवमधिष्ठानस्य द्रष्टुः करणानां तद्दोषाणां च सत्त्वमङ्गीकार्यम् ।
अन्यथा भ्रान्तिवैचित्र्याद्यनुपपत्तिरिति वाच्यम् ।
असत्प्रकाशनशक्त्या संवृत्यैव सर्वस्योपपत्तौ तदङ्गीकारवैयथ्र्यात् ।
एवंच न वचनासिद्धिः ।
सांवृतसत्त्वस्य वचनस्य प्रत्यक्षेणैव सिद्धेः ।
तावतैव व्यवहारोपपत्तौ पारमार्थिकसत्त्वस्योपयोगाभावादिति ।
*8,282*
एतत्परिहाराय ओं वैधर्म्याच्च न स्वप्नादिवत् ओं ॥
इति सूत्रम् ।
तद्वयाचष्टे- किञ्चेति ॥
वैधर्म्याच् च न स्वप्नादिवत्
... किञ्चात्र भ्रमो नैव निवर्तते
न्यायसुधा:
भवेदेवं यदि प्रपञ्चे रज्जुसर्पादाविव सत्त्वप्रत्ययो भ्रमः स्यात् ।
नचैवम् ।
तथात्वे अत्र प्रपञ्चे सत्वभ्रमः किमिति नैव निवर्तते ।
ज्ञानानां भ्रमत्वावधारणं हि बाधबोधाधीनम् ।
सम्प्रतिपन्नस्थले तथा दर्शनात् ।
प्रत्ययत्वमात्राधीनत्वे प्रागपि बाधबोधोदयाद्रज्जुसर्पादिज्ञाने लौकिकपरीक्षकाणां भ्रमत्वावधारणं स्यात् ।
नचैवं क्वचिद्दृष्टम् ।
नच प्रपञ्चसत्तावगमस्य बाधकं पश्यामः ।
ततो न भ्रमत्वावधारणं युक्तमिति ।
स्वप्नस्य भ्रान्तित्वाभावो, भ्रमस्य चाधिष्ठानाद्यपेक्षानियमः, सांवृतसत्त्वस्य व्यवहारनिर्वाहकत्वस्याभावश्चान्यत्र समर्थितो ऽत्रानुसन्धेयः ।
*8,284*
स्यादेतत् ।
किं प्रपञ्चप्रत्ययस्येदानीं बाधो नास्तीत्युच्यते ।
उतोत्तरकाले ऽपि ।
आद्ये न तावता भवतो ऽपि विश्वसत्यत्वावधारणं, शुक्तिरजतादौ तदयोगात् ।
द्वितीयस्तु नास्ति ।
प्रपञ्चप्रत्ययो बाधिष्यते प्रत्ययत्वात्सम्प्रतिपन्नवत् ।
इत्यागामिबाधसिद्धेरित्यत आह- अनादेरिति ॥
अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते ।
निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात् ॥ मनुव्_2,2.214च्-f ॥
न्यायसुधा:
अनादितो ऽनुवृत्तस्येत्यर्थः ।
विश्वस्य तत्प्रत्ययस्य, निवृत्तिः बाधः ।
निवर्तेत बाध्येत ।
यदि प्रत्ययत्वात्प्रपञ्चप्रत्ययस्य बाधो ऽनुमीयते, तदावश्यं बाधप्रत्ययस्यापि बाधेन भाव्यम् ।
अन्यथा प्रत्ययत्वहेतोस्तत्र व्यभिचारापत्तेः ।
बाधकप्रत्ययस्य बाध्यत्वे प्रपञ्चप्रत्ययस्य याथार्थ्यसिद्धिः ।
तिष्ठतु तावत्परमार्थचिन्ता, व्यावहारिके तु तथा दृष्टमेव ।
न केवलमिदमापादनं किन्तु सम्भावितं चैतत् ।
यत्प्रपञ्चप्रत्ययस्य याथार्थ्यं तन्नास्तिताप्रत्ययस्य बाध्यत्वात् ।
अनादितो ऽनुवृत्तस्यानेकसजातीयविजातीयसंवाद(व)तो याथार्थ्यसम्भवात् ।
कादाचित्कस्य संवादविधुर(रुद्ध)त्वेन भ्रमत्वसम्भवादिति ।
*8,285*
ननु च प्रपञ्चनिवृत्तिर्नाम शून्यमेव ।
तच्च परमार्थरूपं न कल्पितमदृष्टत्वात् ।
तत्कथं तत्प्रत्ययस्य बाध्यता स्यात् ।
किन्तु प्रपञ्चस्य दृष्टत्वेन कल्पितत्वसम्भवात्तत्प्रत्यय एव बाध्यः ।
हेतुश्च प्रपञ्चप्रत्ययत्वेन विवेक्तव्य इत्यत आह- दृष्टस्येति ॥
दृष्टस्य भ्रान्तिता चेत् स्याददृष्टे न भ्रमः कुतः
न्यायसुधा:
भ्रान्तिताभ्रमशब्दाभ्यां कल्पितत्वमुच्यते ।
इदमुक्तं भवति ।
विपरतीमेतदुक्तं यत्सर्वप्रमाणदृष्टस्य प्रपञ्चस्य कल्पितत्वमादाय तत्सत्ताप्रत्ययस्य बाध्यत्वस्वीकरणम् ।
केनापि प्रमाणेनादृष्टस्य शून्यस्याकल्पितत्वं गृहीत्वा तत्सत्त्वप्रत्ययस्याबाध्यत्वोपादानम् ।
प्रामाणिकमकल्पितम् अप्रामाणिकं चाङ्गीक्रियमाणं कल्पितमिति सर्वसम्मतत्वादिति ।
*8,286*
एतदेव दृष्टान्तेन दर्शयति- गवामिति ॥
गवामशृङ्गिभावेन नहि स्याच्छशशृङ्गिता
न्यायसुधा:
अशृङ्गिभावेन सहितेति शेषः ।
कश्चिद्गवां शृङ्गितवमस्तीत्याह- कश्चिच्छशस्येति ।
तत्र परोक्तरीत्या गवां शृङ्गिता कल्पिता, दृष्टत्वात् ।
शशशृङ्गिता त्वकल्पितादृष्टत्वादिति स्यात् ।
न ह्येवं लोके प्रतीतिः लोकानुसारेणैव च परमार्थो बोद्धव्यो नान्यथा ।
लोकन्यायस्यैव तद्बोधोपायत्वादिति ।
तदेवं प्रत्यक्षबलेन विश्वसत्यता साधिता ।
तद्बाधकशङ्का च परिहृता ।
ततः किं सिद्धमित्यतो यदुक्तं पूर्वपक्षिणा सतो ऽपि कारणत्वे प्रमाणाभाव इति तत्परिहृतमिति वदन्समीकरणान्तरमपि परिहरति- अस्माकं त्विति ॥
अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च ।
उक्तभङ्गयाऽगमानां च प्रामाण्याद् युज्यते ऽखिलम्
*8,286f.*
न्यायसुधा:
सत्कारणत्ववादिनाम् अखिलं परेणाक्षिप्तं युज्यते ।
कथम् ।
बाधविधुरेण प्रमाणेन जगतः सत्यत्वसिद्धौ मधुरादीनां पुष्ययादिकारणानां सत्त्वसिद्धेः ।
तन्त्वादीनां च विचित्रस्वभावतया प्रमाणेन सिद्धानां न मृदादिकार्यकारित्वप्रसङ्गः ।
नहि सत इवासतो ऽपि स्वभावभेदो ऽसत्त्वव्याघातात् ।
प्रमाणेनैव सतः कारणत्वोपलब्धेरनुपपत्तिराभासभूतैव ।
प्रमाणेन सत्तया प्रमितानां मधुरादीनां सद्बुद्धिमात्रवैलक्षण्यकल्पना त्ययुक्तैव ।
अन्यथा सद्बुद्धयावगतात्सप्तमरसादपि पीनता सती स्यात् ।
ईश्वरस्य सर्वकारणत्वे ऽपि तन्त्वाद्यपेक्षा पुरुषप्रयत्नाद्यपेक्षा देशकालादिनियमश्च युज्यत एव ।
तन्त्वाद्यपेक्षयैव कार्यमुत्पद्यतामितीश्वरस्य प्रसादात् सङ्कल्पात् ।
नचैवं निर्विशेषस्य शून्यस्य सङ्कल्पो युज्यते ।
नचैतदप्रामाणिकम् ।
आरम्भणाधिकरणोक्तरीत्यात्रागमानुमानादीनां प्रमारत्वात् ।
नच वेदाद्यागमप्रामाण्यमसिद्धम् ।
प्रथमसूत्रोक्तरीत्याऽगमप्रामाण्यस्य सिद्धत्वात् ।
अनुमाने ऽतिप्रसङ्गो ऽप्यागमप्रामाण्येनैवापास्त इति ।
ब्रह्मादीन्सृष्टयादावीश्वरस्तेषु कृपयापेक्षते परमेश्वरनियोगानुष्ठाने तेषां परमपुरुषार्थलाभादिति ज्ञापयितुं प्रसादादित्युक्तम् ।
*8,289*
प्राग्विश्व(स्य)सत्यत्वसाधनायोपन्यस्तस्य प्रत्यक्षस्यान्यथासिद्धिमाशङ्कय तत्परिहारत्वेन वैधर्म्याच्च न स्वप्नादिवदिति सूत्रं व्याख्यातम् ।
इदानीं विश्वमिथ्यात्वे पराभिहितस्य अनुमानस्य दूषकत्वेनापि (तद्वया)व्याख्यातुं मिथ्यात्वे ऽनुमानं तावच्छङ्कते- दृश्यत्वादिति ॥
दृश्यत्वाद् विमंत मिथ्या स्वप्नवच्चेद् ...
न्यायसुधा:
सर्वं मिथ्येत्युक्ते सम्प्रतिपन्नमिथ्यात्वे शुक्तिरजतादौ सिद्धसाधनता, शून्ये बाधः (च) स्यात् ।
अतः सत्यत्वमिथ्यात्वाभ्यां विमतमित्युक्तम् ।
विमतं गगनादिकं मिथ्या दृश्यत्वात् स्वप्नवदित्यनुमानेन विश्वमिथ्यात्वसिद्धेः कथं (तत्स)सत्यत्वमङ्गीक्रियत इत्यर्थः
*8,291*
दूषयितुं पृच्छति- इयं चेति ॥
... इयं च मा
न्यायसुधा:
तिष्ठतु तावद्विश्वम् ।
इयं च मा इदमेव दृश्यत्वानुमानम् ।
मिथ्या सत्यं (त्या वे) वेति शेषः ।
आद्यं दूषयति- मिथ्येति ॥
मिथ्या चेत् साध्यसिद्धिर् न ...
न्यायसुधा:
नहि शब्दे ऽविद्यमानेन चाक्षुषत्वेन शब्दानित्यत्वं सिद्धयतीति भावः ।
द्वितीये दृश्यत्वं दृश्यमदृश्यं वा ।
प्रथमं दूषयति- व्यभिचार इति ॥
... व्यभिचारो न चेद् भवेत्
न्यायसुधा:
दृश्यत्वं मिथ्या न चेदथ च दृश्यम् ।
तदा (दृश्यत्वस्य) दृश्यत्व एव व्यभिचारो भवेत् ।
द्वितीये त्वज्ञानासिद्धता हेतोरिति भावः ।
*8,292*
स्यादेतत् ।
मिथ्यैव दृश्यत्वमिति ब्रूमः ।
नचैवं साध्यासाधकत्वम् ।
वर्णदैर्घ्यादीनां मिथ्याभूतानामपि साधकत्वस्योभयसिद्धत्वात् ।
चाक्षुषत्वादीनां त्वारोपाभावात् ।
आरोपे ऽप्यसांव्यावहारिकत्वादसाधकत्वं, न तु मिथ्यात्वादित्यत आह- साधकत्वमिति ॥
साधकत्वमसत्यस्य साध्यं विप्रतिपत्तितः
न्यायसुधा:
यत्रोदाहरणे मिथ्यात्वं सम्प्रतिपन्नं तत्र साधकत्वे, यत्र च साधकत्वं संमतं तत्र मिथ्यात्वे विप्रतिपत्तितो ऽसत्यस्य साधकत्वं साध्यमेव, न पुनरस्माकं सिद्धमिति ।
*8,293*
विप्रतिपत्तौ साधकत्वं मिथ्यात्वं वा साधयिष्यामीति चेत् ।
किं सत्येन प्रमाणेनोत मिथ्याभूतेन ।
आद्ये तूक्तमेवोत्तरम् ।
द्वितीये दोषमाह- तस्य चेति ॥
तस्य च- ...
न्यायसुधा:
नहि क्वाप्यस्माकं मिथ्याभूतस्य साधकत्वं सम्मतम् ।
अतस्तस्यापि साधकत्वं साध्यमेव ।
तस्यापि साधकत्वं साधयिष्यामीत्यत आह- इतीति ॥
... इत्यनवस्था स्यात् ...
न्यायसुधा:
पूर्वोक्तप्रकारेणेत्यर्थः ।
नहि सर्वमसत्यं साधकमित्येकं प्रमाणमस्ति ।
नापि सद्वादी कदापि सत्त्वासत्त्वोदासीनेन प्रमाणेन साध्यसिद्धिमङ्गीकुर्यात् ।
येनानवस्थाशान्तिर्भवेदिति ।
*8,294*
एवमसिद्धिव्यभिचाराभ्यामनुमानं निराकृत्य प्रमाणबाधं चाह- सत्त्वं चेति ॥
... सत्त्वं चास्यानुभूतितः
न्यायसुधा:
अस्य प्रपञ्चस्य ।
अनुभूतितः सिद्धमतो बाधितविषयं चानुमानमिति शेषः ।
न केवलं दृश्यत्वानुमानस्यानेन दोषेणाभासत्त्वं, किन्तु यदन्यदपि प्रपञ्चमिथ्यात्वे ऽनुमानं जडत्वं वा परिच्छिन्नत्वं वा परैरुच्यते तस्यापीत्याह- अनुभूतीति ॥
अनुभूतिविरोधेन मिथ्यात्वे मा न काचन
न्यायसुधा:
उपलक्षणमेतत् ।
पूर्वोक्तव्यभिचारासिद्धिभ्यां चेत्यपि द्रष्टव्यम् ।
तथाहि ।
जडत्वादिकं सत्यं मिथ्या वा ।
आद्ये जडत्वादिमन्न वा ।
प्रथमे व्यभिचारः ।
द्वितीये ऽपसिद्धान्तः ।
मिथ्या चेत्साध्यसिद्धिर्नेति ।
*8,295*
भवेदसत्त्वमनुमानानां यद्यनुभवविरोधो भवेत् ।
न चासावस्ति, मिथ्यात्वापरपर्यायं बाध्यत्वं ह्यनुमानसाध्यम् ।
नच तदभावः प्रत्यक्षेण वेद्यः ।
तस्य वर्तमानमात्रविषयत्वेन कथञ्चिद्वर्तमानकालीनाबाधाभावविषयत्वे ऽपि कालान्तर(गत)भाविबाधाभावविषयत्वायोगादित्यत आह- अतीतेति ॥
*8,296*
अतीतानागतौ कालावपि नः साक्षिगोचरौ
न्यायसुधा:
अत्रातीतग्रहणं प्रासङ्गिकम् ।
न केवलं वर्तमान इत्यपेरर्थः ।
नः सर्वेषाम् ।
अन्यथा तद्विशिष्टव्यवहारानुपप(त्ते)त्तिरिति भावः ।
*8,297*
किमतो यद्येवमवर्तमानो ऽपि कालः साक्षिगोचर इत्यत आह- तदिति ॥
तत्सम्बन्धितया सत्त्वमपि ...
न्यायसुधा:
कालान्तरसम्बन्धितया सत्त्वमबाध्यत्वम् ।
न केवलं वर्तमानकालीनबाधाभावो ऽनुभववेद्यः ।
किन्तु सर्वकालगतो ऽपीत्यर्थः ।
तत्कथमित्यत उक्तम्- दृष्टस्येति ॥
... दृष्टस्य साक्षिगम्
न्यायसुधा:
प्रत्यक्षादिप्रतीतिविषयस्य ।
प्रत्यक्षादिप्रतीतीनां प्रामाण्यस्य साक्षिणा ग्रहणादिति भावः ।
*8,298*
नहि विषयस्य त्रैकालिकाबाध्यत्वमनन्तर्भाव्य तत्प्रतीतेः प्रामाण्यं शक्यग्रहणम् ।
यदि प्रतीतिं गृह्णन् साक्षी तत्प्रामाण्यग्रहणस्वभावत्वात्तद्गृह्णंस्तद्विषयस्य त्रैकालिकाबाध्यत्वं व्यवस्थापयेत्तदा शुक्तिरजतादिप्रतीतेरपि स एव ग्राहक इति तस्या अपि प्रामाण्यं गृह्णीयात् ।
तथाच तद्विषयस्यापि रजतादेस्त्रैकालिकाबाध्यत्वं सिद्धयेदित्यतो दृष्टशब्दं व्याख्याति- दृढेति ॥
दृढदृष्टं तु यद् दृष्टं दृष्टाभासस्ततो ऽपरम्
न्यायसुधा:
यन्निर्देषत्वेनावधृतया प्रतीत्या विषयीकृतं, तदेव दृष्टमित्युक्तम् ।
कुतः ।
इतरस्य सम्मुग्ध(स्य)दृष्टस्य दृष्टाभासत्वात् ।
मुख्यामुख्ययोश्च मुख्यग्रहणस्य न्याय्यत्वात् ।
कृतव्युत्पादनं चैतत्प्राक् ।
*8,299*
सत्प्रतिपक्षाणि च दृश्यत्वाद्यनुमानानीत्याशयवानाह- भ्रान्तेरिति ॥
भ्रान्तेः संवृतिसत्यस्य विशेषो ऽव्यभिचारवान् ।
तेनाप्यङ्गीकृतः सम्यक् स नः सत्यत्वमेव हि ॥ मनुव्_2,2.220द्-f ॥
*8,299f.*
न्यायसुधा:
भ्रान्तिविषयत्वेन सम्प्रतिपन्नाच्छुक्तिरजतादिकादित्यर्थः ।
संवृतिसत्यस्य तथात्वेनाभ्युपगतस्य विश्वस्य विशेषो वैलक्षण्यम् अव्यभिचारवान् कदाचित्क्वचिदपि सम्प्रतिपन्नमिथ्याभावे अवर्तमानः ।
तेन शून्यवादिनापि, सम्यगिति असन्देहेन ।
स एव विशेषो, नः अस्माकं मते विश्वस्य सत्यत्वं साधयिष्यतीति शेषः ।
ततः सत्प्रतिपक्षाणि दृश्यत्वाद्यनुमानानीति ।
अत्र तेनापि सम्यगङ्गीकृत इत्यनेन पक्षधर्मता समर्थिता ।
अव्यभिचारवानित्यनेन तु व्याप्तिः ।
अयमत्र प्रयोगः ।
विश्वं कालत्राबाध्यम्, प्रातीतिकविलक्षणत्वात् ।
व्यतिरेकेण शुक्तिरजत(तादि)वदिति ।
*8,300*
ननु च शुक्तिरजतादीनां प्राक् शून्यतत्त्वज्ञानाच्छुक्त्यादिज्ञानेनैव निवृत्तिः भवति ।
प्रपञ्चस्य तु शून्यज्ञानेन कदाचिन्निवृत्तिर्भविष्यतीत्येवं मया प्रातीतिकसांवृतयोः वैलक्षण्यमङ्गीकृतम् ।
नचेदं विश्वसत्यत्वे भवता हेतूकर्तुं शक्यम्, विरोधादित्यत आह- विज्ञानादिति ॥
विज्ञानाद् व्यभिचारो ऽस्य कदाचित् स्यादिति प्रमा ।
नैव दृष्टा ... ॥ मनुव्_2,2.221अ-च् ॥
न्यायसुधा:
व्यभिचारो निवृत्तिः ।
नायं विशेषो ऽङ्गीकर्तुं शक्यते, अप्रामाणिकत्वात् ।
न ह्यप्रामाणिकेन शृङ्गेणाश्वो ऽन्यतो वि(शि)शेष्यमाणो दृश्यत इति ।
नन्विदं कदाचिद्बाधिष्यते दृश्यत्वाच्छुक्तिरजतादिवदित्यनुमानस्य सत्त्वात्कथमत्र प्रमाणाभाव इत्यतः (तस्यो)स्वोक्तं दोषं स्मारयति- प्रमेति ॥
... प्रमा सा च न भवेत् स्वविरोधतः
न्यायसुधा:
या च शङ्कयते सेत्यर्थः ।
स्वविरोधत इति ।
स्वविषयस्य स्वस्य च बाध्यत्वापादकत्वादित्यर्थः ।
अन्यथा व्यभिचारापत्तेः ।
यस्य विषयो ऽसन्(यत्)स्वयं च बाध्यं, कथं तत्प्रमाणं भवेत् ।
अतो ऽस्य विशेषस्याप्रामाणिकत्वेनाङ्गीकर्तुमशक्यत्वे यो ऽन्यो विशेषः प्रामाणिकः प्रमाणाविरोधी चाङ्गीकर्तव्यः, सो ऽस्माकं सत्यत्वे हेतुर्भविष्यतीति ।
स च प्रमाणगम्यत्वमर्थक्रियाकारित्वं चेति हृदयम् ।
*8,301*
ननु तर्ह्येवमेव कुतो नोच्यते ।
तथोच्यमाने प्रमाणानां तत्त्वावेदकत्वमथर्क्रियायाः सत्त्वमसति तदभाव इत्यादि बहु संविधेयं स्यात् ।
लाघवार्थं त्वेवमुक्तं, तदपि यथावसरमुपपादितमेव ।
*8,303*
यद्वा प्रपञ्चस्याबाध्यत्वे परिशेषप्रमाणमनेनोक्तम् ।
तथाहि ।
जगतो बाध्यत्वमबाध्यत्वं च प्रसक्तम् ।
तृतीयप्रकाराभावात् ।
बाध्यत्वं च प्रसिद्धपदार्थतत्त्वज्ञानेन, अन्येन वा ।
तत्राद्यं वादिप्रतिवादिभ्यामनभ्युपगमात् ।
द्वितीयं तु प्रमाणाभावनिरस्तम् ।
परिशेषादबाध्यत्वमेव सिद्धयतीति ।
अथवा व्यापकानुपलब्धिलिङ्गकमनुमानम्(अनेन)एतेन श्लोकद्वयेनोक्तम् ।
बाध्यत्वं हि प्रसिद्धपदार्थतदितरतत्त्वज्ञाननिवत्यर्त्वेन व्याप्तम् ।
तच्च व्यापकमनभ्युपगमप्रमाणाभावाभ्यां जगतो व्यावर्तमानं स्वव्याप्यं बाध्यत्वमिति व्यावर्तयति ।
जोस्हि-4
*8,304*
एवं प्रपञ्चमिथ्यात्वानुमानानि निराकृत्येदानीं तदनुग्राहकत्वेन, सत्यत्वप्रत्यक्षस्य प्रतिकूलत्वेन च परोत्प्रेक्षितं तर्कमपि निराकर्तुमाशङ्कते- भेद इति ॥
भेदो विशेष्यधर्म्यादिग्रहणापेक्षया यदि ।
अन्योन्याश्रयताहेतोर्दुर्गाह्य इति यन् ... ॥ मनुव्_2,2.222अ-द् ॥
न्यायसुधा:
आदिपदेन विशेषणप्रतियागिनोर्ग्रहणम् ।
यदि गृह्यत इति शेषः ।
तर्हीति च ।
अयमर्थः ।
यदि प्रपञ्चो सांवृतो न स्यात्तदा प्रत्यक्षो ऽप्यसौ न स्यात् ।
तथाहि ।
अनेकमेदभिन्नो हि प्रपञ्च इष्यते ।
भेदस्य चाप्रत्यक्षतायां सो ऽप्यप्रत्यक्ष एव ।
विना भेदेन तत्प्रतीतावद्वितीयशून्यप्रतीत्यापत्तेः ।
नच भेदप्रतीतिरुपपद्यते ।
भेदो हि प्रतीयमानो घटपटौ भिन्नाविति घटपटयोविर्शेषणतया, घटपटयोर्भेद इति ताभ्यां विशेष्यतया वा प्रत्येतव्यः ।
भेद इत्येव प्रतीतेरभावात् ।
यद्वा घटात्पटो भिन्न इति, घटात्पटस्य भेद इति वा घटप्रतियोगितया पटधर्मिकतया च भेदग्रहणमेष्यव्यम् ।
तत्रोभयत्राप्यन्योन्याश्रयत्वं, विशेष्ययोर्घटपटयोर्ज्ञाने सति हि तद्विशेषणतया भेदो ज्ञातव्यः ।
नहि देवदत्तादर्शने दण्डस्य तद्विशेषणतया दर्शनं युज्यते ।
विशेष्यज्ञानं च भेदापेक्षम् ।
नहि भेदाप्रतीतौ घटपटाविति द्वित्वविशिष्टार्थप्रतीतिः सम्भवति ।
एवं विशेष्यतया भेदप्रतीतावपि द्रष्टव्यम् ।
तथा धर्मिप्रतियोगिज्ञाने सति भेदज्ञानम् तन्निरूप्यत्वात् ।
भेदज्ञा(न एव)ने सति च धर्मिप्रतियोगिनोर्ज्ञानम् ।
नहि भेदाग्रहे धर्मिप्रतियोगिभावो ऽवगन्तुं शक्यते ।
तथात्वे घटाद्घटस्य भेद(इत्यपि) प्रतीतिः स्यात् ।
नच परस्पराश्रयाणि कार्याणि सम्भवन्ति ।
*8,305*
अतो वास्तवत्वे भेदस्य प्रतीत्यनुपपत्तौ प्रपञ्चस्यापि तदापत्तेरविचारितरमणीयः संवृतिभय एवायमङ्गीकरणीय इति ।
निराकरोति- नेति ॥
... न तत्
*8,310*
न्यायसुधा:
यदुक्तं भेदस्य दुर्ग्राह्यत्वं तन्नास्तीत्यर्थः ।
तत्कथमित्यत आह- स्वरूपमिति ॥
स्वरूपं वस्तुनो भेदो ...
न्यायसुधा:
यत् यस्माद्भेदो वस्तुनः स्वरूपं तस्मात् तस्य वस्तुनो ग्र(हे)हणे सति पश्चाद्भेदग्रह इति नास्ति ।
किन्तु वस्तुग्रह एव भेदग्रहः ।
तथाच क्वान्योन्याश्रयत्वं येन भेदो दुर्ग्रहः स्यादिति ।
... यन्न तस्य ग्रहे ग्रहः
न्यायसुधा:
यस्माद्वस्तुनो ग्रहे तस्य भेदस्याग्रहो नास्ति तस्माद्भेदो वस्तुनः स्वरूपमिति सम्बन्धः ।
अयमत्र प्रयोगः ।
विमतो भेदो घटस्वरूपं भवितुमर्हति घटग्रहे ऽगृह्यमाणत्वरहितत्वात् घटस्वरूपवदेवेति ।
यदि अत्र तस्य ग्रहे गृह्यमाणत्वादित्येवोच्येत तदा घटपटाविति घटज्ञानेन ज्ञायमानेन पटेनानैकान्तिकत्वं स्यात् ।
तदर्थं"तस्य ग्रहे ऽग्रहो नऽ; इत्युक्तम् ।
नहि घटग्रहे गृह्यमाणो ऽपि पटो घटग्रहे सर्वथा गृह्यत एवेति नियमो ऽस्ति ।
यज्ज्ञाने यत्सर्वथोपलभ्यते तत्तत्स्वरूपमिति व्याप्तावुच्यमानायां दण्डिज्ञाने दण्डो ऽप्यवश्यं स्फुरत्येव ।
नचासौ दण्डिनः स्वरूपमित्यतो विशेषनिष्ठैव व्याप्तिरभिधातव्या ।
*8,311*
किञ्च विशिष्टं नाम विशेषणसम्बन्धनिमित्तो विशेष्यस्याकारभेद इति पी न विशिष्टप्रत्यये विशेषणस्फुरणमस्ति ।
किन्नाम विशेषणज्ञानं विशिष्टज्ञानकारणम् ।
आशुभावाच्च न क्रमो लक्ष्यते ।
यद्वा घटभेदौ पक्षीकृत्य नियमेनान्यतरप्रतीतावन्यतरस्य स्फुरणेनान्योन्याभिन्नत्वं साध्यम् ।
नहि दण्डिप्रतीतौ दण्ड(स्य)स्फुरणे ऽपि, दण्डप्रतीतौ सर्वथा दण्डि(नः)स्फुरणमस्तीति ।
*8,314*
भवेदेतद्यदि भेदो वस्तुग्रह एव गृह्येत ।
नचैवम् ।
किन्नाम वस्तुप्रतीत्युत्तरकालमेव ।
निर्विकल्पके (हि) च प्रत्यये वस्तुमात्रमवभासते ।
भेदस्त वस्तुदर्शनोत्तरकालं प्रतियोगिस्मरणे सत्यवभासते ।
यथा सादृश्यमभावश्चेत्यत आह- अन्यथेति ॥
अन्यथास्यामुना भेद इति वक्तुं न युज्यते
न्यायसुधा:
यदि भेदो वस्तुप्रतीतौ न प्रतीयेत तदास्यामुना भेद इत्युत्तरकालं सविकल्पक(वि)ज्ञानमपि न जायेत ।
तथाच तथा व्यवहारो ऽपि न स्यात् ।
अस्यामुनेति (हि) धर्मिप्रतियोगितया वस्तुद्वयमुद्दिश्य भेदो ज्ञायते ।
न चागृहीतभेदं तथोद्देष्युं शक्यते ।
एकस्मिन्नपि तत्प्रसङ्गात् ।
भेदसत्तामात्रेण तदुपपत्तिरिति चेत्(न) ।
दूरस्थवनस्पत्योरभेदप्रत्ययाभावप्रसङ्गात् ।
दोषात्तत्र तथेति चेन्न ।
भेदस्य स्वरूपसत्तयैवोपयोगे दोषस्याकिञ्चित्करत्वादिति ।
*8,316*
न केवलं वस्तुदर्शने भेदस्फुरणमनभ्युपगच्छतो ऽस्यामुना भेद इति पश्चात्कालीनं सविकल्पकज्ञानं तथा व्यवहारश्च नोपपद्यते ।
किं तर्हीत्यत आह- अगृहीत इति ॥
अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः ।
स्यात् ... ॥ मनुव्_2,2.224अ-च् ॥
न्यायसुधा:
यदि घटदर्शने ऽपि तद्भेदो न दृष्टस्तद(दा)नन्तरं स्मर्यमाणरो गृह्यमाणो वा प्रतियोगी पटो ऽपि विना भेदेनोपलब्धव्यः ।
भेदादर्शने चावश्यमभेदज्ञानं स्यात् ।
तथा चोत्तरकालं स्वस्मात्स्वयं भिन्न इति सविकल्पको भेदग्रहः स्यादिति ।
अस्वेवमित्यत आह- प्रतीतीति ॥
... प्रतीतिविरोधाच्च ...
न्यायसुधा:
चशब्दस्योत्तरत्र सम्बन्धः ।
पटाद्घटो भिन्न इत्येव हि सविकल्पिका प्रतीतिरनुभूयते ।
न जातु स्वस्मात्स्वयं भिन्न इति ।
अतः प्रतीतिविरोधादेवंविधः सविकल्पकग्रहो नाङ्गीकर्तुमुचित इति शेषः ।
किञ्च यदि स्वस्वात्स्वयं भिन्न इति सविकल्पको भेदग्रहः स्यात् ।
तदा कदाचित्तथाविधो वाग्व्यवहारो ऽपि स्यात् ।
नचैवमित्याह- नहीति ॥
... नहि कश्चित् तथा वदेत्
*8,317*
न्यायसुधा:
एतेन किमिकप्रतीतिविरोधः उत सर्वप्रतीतिविरोधः ।
नाद्यो व्यभिचारात् ।
न द्वितीयः ।
असिद्धेरित्यपि परास्तम् ।
कदापि कस्यचिदपि तथा व्यवहाराभावेन विपरीतव्यवहारेण च सर्वप्रतीतिसिद्धेरिति ।
अतो वस्तुप्रतीतावेव भेदस्य स्फुरणात्तत्स्वरूपत्वमेवेति ।
*8,318*
नन्वेवं भेदस्य वस्तुस्वरूपत्वेन तत्प्रतीतिभेदाभावादितरेतरसापेक्षत्वस्य सुतरामभावान्नान्योन्याश्रयत्वमित्युक्तम् ।
तत्र किं भेदो धर्मिणः स्वरूपम्, उत प्रतियोगिनो ऽपि ।
न तावद्द्वितीयः ।
एकस्यैव भेदस्योभयस्वरूपत्वे ऽद्वैतप्रसङ्गात् ।
आद्ये तु यद्यपि धर्मिज्ञानभेदज्ञानयोर्नान्योन्याश्रयत्वम् ।
तथापि प्रतियोगिज्ञानापेक्षयान्योन्याश्रयत्वं कथं परिहरणीयम् ।
मैवम् ।
भेदस्य स्वरूपतो ज्ञाने प्रतियोगिविशेषज्ञानानपेक्षणात् ।
प्रतियोगिस्वरूपज्ञाने चैतद्भेदज्ञानानपेक्षणात् ।
अस्तु तर्हि विशेषज्ञाने ऽन्योन्याश्रयत्वम् ।
तद्धि घटात्पटो भिन्न इत्युत्पद्यते ।
तत्र धमिर्णो भेदेन प्रतिपन्नस्य वा प्रतियोगिता, अन्यथा वा ।
नतावद्द्वितीयः ।
स्वतो ऽपि भेदप्रतीत्यापत्तेः ।
आद्ये प्रतियोगिस्वरूपभेदप्रतीतौ धर्मिणः प्रतियोगितायां स एव न्यायः ।
तथाच पटाद्घटस्य भेदप्रतीतौ घटात्पटस्य भेदप्रतीतिरित्यन्योन्याश्रयत्वमिति ।
मैवम् ।
वस्तुतो ऽन्योन्यप्रतियोगिकयोर्घटपटस्वरूपभेदयोः प्रतीतयोः सतोरसति सादृश्यादौ प्रतिबन्धके ऽन्योन्यप्रतियोगिकतया विशिष्टभेदप्रतीतौ बाधकाभावादिति ।
*8,321*
एवं स्वमतेन भेदप्रतीतावन्योन्याश्रयत्वं परिहृत्य भिन्नभेदवादिनां परिहारमाह- धर्मित्वेति ॥
धर्मित्वप्रतियोगित्वतद्भेदा युगपद् यदि ।
विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते
न्यायसुधा:
उपलक्षणं चैतत् ।
धर्मिप्रतियोगिनौ चे(त्यपि)ति द्रष्टव्यम् ।
तद्भावो विशेषणत्वं विशेष्यत्वं च ।
अत्र विशेषणविशेष्ययोरन्यतरत्वाद्भेदस्य पृथग्ग्रहणाभावः ।
अयमर्थः ।
किं निर्विकल्पकप्रतीतावन्योन्याश्रयत्वमुच्यते उत सविकल्पकप्रतीतौ ।
नाद्यः ।
तत्र धर्मिप्रतियोगिस्वरूपयोस्तद्भावयोस्तद्भेदस्य भेदयोर्वा युगप(दुभय)दवभासनात् ।
तथा विशेषण(विशेष्य)भूत(भाव)योर्घटपटयोर्भेदस्य च तद्भावयोश्च युगपत्प्रतीतेः ।
युगपदेव
सर्वस्येन्द्रियसन्निकृष्टत्वात् ।
दर्शनयोग्यत्वाच्च ।
ननु धर्मिप्रतियोगिनोर्विशेषणविशेष्ययो(श्च)ः तद्भावो ऽपरो भिन्नभेदवादिभिर्नेष्यते ।
तत्कथमेतत् ।
मैवम् ।
भूषणकारादिभिस्तस्याङ्गीकृतत्वात् ।
तेषामेव चायं परिहार इति ।
ननु यत्र प्रतियोगी पश्चात्प्रतीयते तत्र युगपदवभासो नास्तीति तद्दृष्टान्तेन सर्वत्राप्येवमनुमीयत इति चेन्न ।
असन्निहितवत्सन्निहितस्याप्यज्ञानसाधने प्रतितिविरोधात् ।
यत्र(च)प्रतियोगी न सन्निहितस्तत्रापि धर्मिधर्मित्वभेदानां तावद्युगपत्प्रतीतिर्नानुपपन्ना ।
तदिदमुक्तम्- को विरोध इति ॥
को विरोधः ...
न्यायसुधा:
द्वितीयं निराकरोति- स्वरूपेणेति ॥
... स्वरूपेण गृहीतो भेद एव तु ।
अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते
*8,321f.*
न्यायसुधा:
अस्यामुष्मादित्युपलक्षणम् ।
अनयोर्भेदो भिन्नाविमावित्यपि ग्राह्यम् ।
निविर्कल्पकप्रतीतार्थानामन्योन्यवैशिष्ययमात्रं सविकल्पकज्ञाने ऽवभासते नाधिकमिति न तत्रापीतरेतराश्रयत्वमिति ।
तथा(चा)हुर्भिन्नभेदवादिनः ।
एकस्यामेव निर्विकल्पिकायां संविदि भेदस्य भेदिनोश्च युगपदवभासने सति तत्रैकं भेदिनमव(धिं कृत्वै)धीकृत्यैतस्मादयं भिन्न इति सविकल्पकबोधोदया(त्कथम)न्न व्यतिरिक्तभेदपक्षे ऽन्योन्याश्रयत्वमिति ।
*8,324*
ननु किमर्थमयं परमतोपन्यासः ।
भेदपार्थक्यमन्तरेण विशेषप्रतीतावस्माकम(प्येवमे)प्ययमेव परिहार इति ज्ञापनार्थम् ।
तर्हीदमेव वाक्यं तथा व्याख्यायताम् ।
नै(चै)वं (शं)शक्यम् ।
तद्भेदश्चेति पृथग्भेदग्रहणविरोधात् ।
विशेषणविशेष्यभावेन ग्रहणमपि न धर्मिप्रतियोगिप्रकाराद्भिद्यत इति वैशेषिकपरीक्षायामुक्तम् ।
अतो नात्र व्युत्पादनमपि कृतमिति ।
*8,327*
एवमापादकानभ्युपगमेनान्योन्याश्रयत्वप्रसङ्गं निराकृत्येदानीं दूषणान्तरं प्रतिजानीते- किञ्चेति ॥
किञ्च ...
न्यायसुधा:
अन्यच्चेत्यर्थः ।
कथमिति चेत् ।
किमत्र यदि धर्म्यादिप्रतीत्यपेक्षया भेदः प्रतीयेत तदान्योन्याश्रयत्वं स्यादि(त्या)त्येवापाद्यते, किंवा यदि भेदः प्रतीयेत तदान्योन्याश्रयत्वं स्यादिति ।
आद्ये दोषमाह- भेद इति ॥
... भेदः कथं ग्राह्य इति यः परिपृच्छति ।
धर्म्यादिभेदग्रहणात् तेनोक्तो ऽन्योन्यसंश्रयः
न्यायसुधा:
कथमित्याक्षेपे ।
परिपृच्छतीति मृदूक्तिः ।
आक्षिपतीति यावत् ।
धर्म्यादिभेदग्रहणात् धर्म्यादिग्रहणसापेक्षभेदग्रहणात् ।
कथमिदं लभ्यते ।
धर्म्यादिपदस्य तद्ग्रहणोपलक्षणत्वात् ।
आदिपदस्य च कारणार्थस्याऽवृत्तेः ।
तदेतत्परस्परं व्याहतमिति शेषः ।
तथाहि ।
भेदो दुर्ग्रह इति प्रतिज्ञाय तदुपपत्तये हीदमुच्यते ।
अनेन च यदि भेदो धर्म्यादिप्रतीतिमपेक्ष्य प्रतीयेत तदान्योन्याश्रयत्वं स्यात् ।
तथाच न प्रतीयेतेत्यापादनेन प्रतीयते चातो न धर्म्यादिग्रहणापेक्षा तत्प्रतीतिरिति लब्धं भवेत् ।
तथाच"भेदो दुर्ग्रहःऽ"प्रतीयते चऽ; इत्येतयोः कथं न पूर्वोत्तरविरोध इति ।
*8,329*
द्वितीये पृच्छामः ।
किं परेण क्वापि भेदो न गृहीतः किंवा क्वचिद्गृहीत इति ।
आद्यं दूषयति- अन्यत्वेति ॥
अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः
न्यायसुधा:
यद्यन्यत्वं क्वापि न गृहीतं तदान्योन्याश्रयत्वापादनमेव न शक्यम् ।
निराश्रयत्वात् ।
तद्धि प्रतीतयोर्द्वयोः कार्यकारणभावाश्रयणे सत्यापद्यते ।
अन्ततो वादिप्रतिवादिनोः दूष्यदूषकयोरापाद्यापादकयोर्भेदाग्रहे ऽनुत्थानमेवापादनस्य ।
द्वितीयं दूषयति- अन्यत्वमिति ॥
अन्यत्वं यदि सिद्धं स्यात् कथमन्योन्यसंश्रयः
न्यायसुधा:
सिद्धं प्रतीतम् ।
अन्योन्याश्रयत्वे हि भेदप्रतीतिरेव न स्यात् ।
नह्यन्योन्याश्रयाणि कार्याणि क्वापि दृष्टानि प्रकल्प्यन्ते ।
तथाचास्ति चेद्भेदप्रतीतिः नूनमाभासभूतमेवेदमन्योन्याश्रयत्वमप्रतिबन्धकत्वादिति ।
अस्ति भेदप्रतीतिः सा न प्रमेति तु तात्पर्यमिति चेन्न किमन्योन्याश्रयत्वमन्योन्योत्पादं प्रतिबधनातीति मतं, किंवा तद्धर्मम् ।
आद्ये कथमप्रमापि भेदप्रतीतिरुत्पद्यते ।
न द्वितीयः ।
अन्ययोरन्योन्याश्रयत्वमन्यत्तु लुप्यत इत्यस्यान्यायत्वात् ।
सांवृती प्र(तीति)तिपत्तिरिति चेत् ।
तत्किं पट; सांवृत इति येभ्यस्तन्तुभ्यो जातस्तेषामेव कारणं भ(व)विष्यतीति ।
*8,331*
नन्वनेनास्य तर्कस्य किं दूषणमुक्तं स्यादित्यत आह- एतादृशस्येति ॥
एतादृशस्य वक्तारावुभौ जात्युत्तराकरौ ।
मायी माध्यमिकश्चैव ... ॥ मनुव्_2,2.229अ-च् ॥
न्यायसुधा:
न केवलमेतज्जात्युत्तरं किन्तु यदन्यदपि तदीयं वचनम् ।
तथाहि ।
भेदस्यापि भेदान्तरभेद्यत्वे ऽनवस्थेति ।
तथा भिन्ने भेदनिवेशश्चेत्तेनैव भेदेन भिन्नतायामात्माश्रयत्वं, भेदान्तराङ्गीकारे त्वनवस्था ।
अभिन्ने भेदनिवेशश्चेत्स्वतो ऽपि पटस्य भेदापत्तिरिति ।
तथा न तावत्प्रत्यक्षेण भेद एव दृश्यते ।
भेद इत्येव प्रतीतेरनुभवात् ।
वस्तुनो ऽपि प्रतीतौ न तावद्भेदपूर्वं वस्तुप्रतीतिः ।
उक्तदोषात् ।
नापि वस्तुप्रतीतिपूर्विका भेदप्रतीतिः ।
अभेदेन प्रतीते भेदप्रतीतावतिप्रसक्तेः ।
नच युगपत् ।
भेदप्रतीतिं प्रति वस्तुप्रतीतेः कारणत्वेन यौगपद्यायोगात् ।
नच प्रकारान्तरमस्तीति ।
तथा सत्तावत्कारणं वा कारणे सत्ता वा ।
आद्ये कारणस्यासत्त्वम् ।
द्वितीये ऽसत एव कारणत्वमित्यादि ।
तत्सर्वं जात्युत्तरमिति ज्ञापयितुमेतादृशस्येत्युक्तम् ।
सर्वस्यापि स्वव्याघातकत्वात् ।
भेदस्य सत्तायाश्च स्वरूपातिरिक्तयोरयुक्तयोः (क्तायाः) (क्ततायाः) अयुक्तायाः) एवाङ्गीकरणाच्च ।
कतमेयं जातिरिति चेन्न ।
सामान्यलक्षणसद्भावे ऽस्य निर्बन्धस्य व्यर्थत्वात् ।
अहेतुप्रसङ्गनित्यसमास्वन्तर्भावाच्च ।
मायाशब्दस्य व्रीह्यादित्वान्मायीति साधुः ।
शून्यवादिनिरासे(नैव)न मायावादो ऽपि निरस्तो वेदितव्य इत्यतिदेशज्ञापनाय मायी चेत्युक्तम् ।
एवशब्दस्योत्तरत्रत सम्बन्धः ।
*8,339*
नन्वेतदन्योन्याश्रयत्वादिकं सूत्रकृतैव कुतो न निराकृतमित्यत आह- तदिति ॥
... तदुपेक्ष्यौ बुभूषुभिः
न्यायसुधा:
तस्माज्जात्युत्तराकरत्वादुपेक्ष्यावेव ।
नतु परिहाराय प्रतिवादीकर्तव्यौ ।
एतदुक्तं भवति ।
सदलमेव पूर्वपक्षिवचनं निराकर्तव्यं भवति न निर्दलम् ।
अन्यथातिप्रसङ्गात् ।
एतच्च जात्युत्तरत्वेन निर्दलमित्युपेक्षितं सूत्रकृता ।
अस्माभिस्तु शिष्यव्युत्पादनाय निराकृतमिति ।
स्यादेतत् ।
शून्यावादी शून्यं जगत्कारणं मन्यते ।
मायावादी तु ब्रह्म ।
तत्कथं नासतो ऽदृष्टत्वादित्यादिशून्यवादनिरासाय मायावादे ऽतिदेशः ।
मतवैषम्ये ऽतिदेशासम्भवादित्यत आह- यदीति ॥
यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः
न्यायसुधा:
तस्मादतिदेशो युक्त इति शेषः ।
तत्कथमित्यत आह- नहीति ॥
नहि लक्षणभेदो ऽस्ति निर्विशेषत्वतस्तयोः
*8,340*
न्यायसुधा:
लक्षणभेदेन हि विप्रतिपन्नो भेदो बोधनीयः ।
ना(चा)सौ शून्यब्रह्मणोः सम्भवति ।
द्वयोरपि निर्विशेषत्वाङ्गीकारात् ।
ननु निर्विशेषत्वेन बाह्यलक्षणभेदाभावे ऽपि सत्यज्ञानानन्तानन्दात्मकत्वं ब्रह्मणः स्वलक्षणं मायावादिनाङ्गीकृतम् ।
न शून्यस्य शून्यवादिना ।
तेन ब्रह्मशून्ययोर्भेदो भविष्यतीत्यत आह- अनृतादीति ॥
अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम्
न्यायसुधा:
ब्रह्मणः सत्यज्ञानाद्यात्मकत्वं नामानृतजडादिविरोधित्वमेवाभिमतं मायावादिनो ऽन्यस्यासम्भवात्,"अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुद्धम्ऽ; इति तद् व्याख्यानाच्च ।
अनृतादिविरोधित्वं च शून्यवादी शून्यस्यापि मन्यते ।
"जाड्यसंवृतिदुःखान्तपूवर्देषविरोधि यत्ऽ; इति वचनात् ।
ततो नैतदपि भेदकमिति युक्त एवातिदेशः ।
*8,341*
स्यादेतत् ।
प्रपञ्चमिथ्यात्वानुमाननिरासार्थं वैधर्म्याच्च न स्वप्नादिवदिति सूत्रम् ।
तत्र यत्"भ्रान्तेः संवृविसत्यस्यऽ; इति दूषणमुक्तम् ।
तदेव वैधर्म्यादिति सूत्रे प्रतीयते ।
यत्पुनरुक्तं दृश्यत्वस्य सत्यत्वे तत्रैव व्यभिचारप्रसङ्गात्तस्य मिथ्यात्वं वाच्यम् ।
तथाचासाधकत्वमिति तत्सूत्रे न दृश्यते ।
तत्कथमेतद्वयाख्यानमित्यत आह- स्ववाक्येति ॥
स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः
तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः ।
अप्रयत्नान्निराचक्रे ... ॥ मनुव्_2,2.232अ-च् ॥
न्यायसुधा:
अत्र वाक्यमिति हेतुवाक्यार्थो दृश्यत्वं लक्ष्यते ।
तत्पक्ष इति विषयसप्तमी ।
तन्मिथ्यात्वसाधनविषय इति यावत् ।
इति शब्दो हेतौ ।
अप्रयत्नात् प्रयत्नमविधाय,"वैधर्म्याच्च न स्वप्नादिवत्ऽ; इत्यनेन निराचक्र इति सम्बन्धः ।
एतदुक्तं भवति ।
दृश्यत्वस्य मिथ्यात्वं शून्यवादिनैवाभ्युपगतम् ।
मिथ्याभूतस्या(चा)साधकत्वं सुप्रसिद्धमेव ।
अत ए(वै)तद्विषये सद्वादिनः किमपि कृत्यं नास्त्येव ।
स्फुटदूणव्युत्पादने सूत्रत्वव्याघातात् ।
तस्मादेतद्दूषणव्युत्पादने सूत्रकृता प्रयत्नो न विहितः ।
अस्माभिस्तु तदभिप्रायः स्फुटीकृत इति ।
*8,342*
तथापि"सत्त्वं चास्यानुभूषितःऽ; इति यत्प्रपञ्चमिथ्यात्वस्य प्रत्यक्षविरुद्धत्वमुक्तम् ।
यच्च"मिथ्यात्वे मा न काचनऽ; इति निष्प्रमाणत्वं, तदुभयं सूत्रे न दृश्यत इत्यत आह- चेति ॥
... चेति दृष्टिविरुद्धताम् ।
निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत् ॥ मनुव्_2,2.232द्-f ॥
न्यायसुधा:
अस्य मिथ्यात्वस्य ।
नन्वनुक्तसमुच्चयार्थेन चशब्देनेदं दूषणद्वयं सूचितमिति यथा व्याख्यायते ।
तथा तदपि चाशब्दार्थतया व्याख्यायताम् ।
किमनुक्तत्वाङ्गीकारेण ।
मैवम् ।
"न कृत्यं प्रतिवादिनःऽ; इत्युक्त्वात् ।
सूत्रे हेतुविशेषस्यानुपादानान्निष्प्रमाणकत्वं ज्ञापितमित्यस्तु ।
किं चाशब्दस्योभयसूचकत्वग्रहणेन ।
न ।
सति शब्दे सावकाशज्ञापकादरणानुपपत्तेः ।
स्वप्नादिवदिति सूत्रं स्वप्नवदिति व्याख्यातम् ।
को ऽत्राभिप्रायः ।
उच्यते ।
बहुस्थलेषु गृहीतेयं व्याप्तिरित्यतो न व्यभिचारमर्हतीति पूर्वपक्षिणो ऽभिमानं सूचयितुं सूत्रकारेणादिपदं प्रयुक्तम् ।
तथापि प्रयोगवेलायामेक एव दृष्टान्त उपादेयो ऽन्यथाऽधिक्यं प्रस(ज्यते)ज्येतेति ।
यथाऽह ।
हेतूदाहरणादिकम् अधिकमिति ।
एतज्ज्ञापनाय भाष्यकारेण स्वप्नवदित्येवोक्तमिति सर्वं सुस्थम् ।
॥ इति श्रीमन्न्यायसुधायां असदधिकरणम् ॥
*8,344*
[======= ज्न्य्स्_2,2.इx: अनुपलब्ध्यधिकरण =======]
॥ अथ श्रीमन्न्यायसुधायां अनुपलब्ध्यधिकरणम् ॥
॥ ओं न भावो ऽनुपलब्धेः ओं ॥
अत्र योगाचाराणां मतमपाक्रियते ।
तदर्थं तदुपन्यस्यति- ज्ञानमेवेति ॥
न भावो ऽनुपलब्धेः
ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते
न्यायसुधा:
विज्ञानमेव तत्त्वं, न रूपादयश्चत्वारः स्कन्धाः, इति योगाचारा मन्यन्त इत्यथर्ः ।
विज्ञानाङ्गीकारे ऽपि विशेषमाह- एकमिति ॥
अद्वितीयमित्यर्थः ।
ननु ज्ञेयमपि रूपादिकं प्रत्यक्षादिसिद्धं तत्कथं विज्ञानमेव तत्त्वमित्यत आह- अखिलेति ॥
ज्ञानमेव ज्ञेयकारम् ।
न ज्ञेयं नाम ज्ञानाद्भिन्नमस्तीत्यर्थः ।
कुतो ज्ञेयस्य ज्ञानात्मकत्वमित्यत आह- प्रभासत इति ॥
ज्ञानं हि प्रकाशते ।
तेन प्रकाशमानत्वस्य ज्ञानत्वेन व्याप्तौ सिद्धायां नीलादेरपि प्रकाशमानस्य ज्ञानत्वं सिद्धमित्यर्थः ।
यद्वा प्रभासते नीलादिना सहैवेति शेषः ।
तेन"सहोपलम्भनियमादभेदो नीलतद्धियोःऽ; इत्युक्तं भवति ।
*8,346*
नन्वयुक्तो ज्ञानज्ञेययोरभेदः ।
भेदस्य प्रतिभासनात् ।
एकमिति चायुक्तम् ।
विज्ञानसन्ततीनां भेदस्य एकैकस्यापि सन्ततौ विज्ञानभेदस्य च विद्यमानत्वात् ।
किञ्च आस्तामन्यो भेदः ।
भेदाभावस्तावदभ्युपगम्यते ।
तेनैव विज्ञानस्य सद्वितीयत्वाप्राप्तेर्नैकत्वमुपपद्यत इत्यत आह- तत्रेति ॥
तत्र सन्ततिभेदश्च स्वभेदो भेद एव च ।
कल्पिताः प्रतिभासन्ते नानासंवृतिभूमिषु ॥ मनुव्_2,2.233च्-f ॥
न्यायसुधा:
तत्र ज्ञानज्ञेययोः भेद इति सम्बन्धः ।
सन्ततिभेदः सन्ततीनां परस्परं भेदः ।
स्वभेदः एकैकस्यामपि सन्ततौ पूर्वोत्तरज्ञानभेदः ।
कल्पिता एवेति सम्बन्धः ।
नानासंवृतिभूमिषु अनेकाज्ञानस्थानेष्वन्तःकरणेषु ।
यद्वा नानासंवृतिकारणकासु वासनास्विति निमित्तसप्तमी ।
तदुक्तम्"भेदस्तु भ्रन्तिबुद्धयैव दृ(दृश्य इन्दा)श्येतेन्दाविवाद्वयःऽ; इति ।
*8,347*
एवमनूदितं मतमपाकरोति- इत्येतदपीति ।
इत्येतदपि नो युक्तं ...
*8,348*
न्यायसुधा:
पूर्वमतसमुच्चयार्थो ऽपिशब्दः ।
अनेन"न भावेऽ; इति सूत्रांशो व्याख्यातः ।
जगत् भावो ज्ञानं न भवतीत्यर्थः ।
भवतेरनुभवार्थत्वात् ।
उपसर्गा हि धातुलीनास्यार्थस्य व्यञ्जका एव ।
*8,350f.*
कुतो न युक्तमिति चेत् ।
किं ज्ञेयं स्वरूपेणासदेव विज्ञाने समारोपितं विज्ञानात्मक(मित्यु)मुच्यते, किं वा परमार्थसत एव ज्ञेयस्य जगतो विज्ञानात्मकत्वं भेदमात्रं त्वसदिति ।
आद्यस्त्वतीताधिकरणरीत्या निरस्तः ।
न द्वितीयः ।
जगतो ज्ञानाभेदे प्रमाणाभावात् ।
न तावत्तत्र प्रत्यक्षमस्तीत्याह- न हीति ॥
... न हि ज्ञानतया जगत् ।
भासते ...
न्यायसुधा:
अनेनानुपलब्धेरित्येतद्वयाख्यातं भवति ।
मा भूत्प्रत्यक्षेण ज्ञानार्थयोरभेदसिद्धिः ।
प्रकाशमानत्वाद्यनुमा(नात्तु)नेन तु भविष्यतीत्यत आह- अनुभवस्यैवेति ॥
... अनुभवस्यैव विरुद्धत्वादपेशलम्
तन्मतं ...
न्यायसुधा:
सम्बन्धमात्रे षष्ठी ।
एवशब्देनानुभवस्यानुमानतः प्राबल्यं सूचयति ।
तन्मतं तदभिमतमनुमानमिति शेषः ।
ज्ञानज्ञेययोरैक्यमिति (च) वा ।
ज्ञानज्ञेययोः स्फुटं भेदस्यैव साक्षिसिद्धत्वात्कालात्ययापदिष्टत्वमनुमानस्येत्यर्थः ।
अनेनानुपलब्धेरित्येतदुपलब्धिविरोधादिति च व्याख्यातम् ।
ननु भेदग्राहकं प्रत्यक्षं भ्रान्तमिति चेन्न ।
बाधकाभावात् ।
अनुमानं बाधकमिति तु न वाच्यम् ।
प्रत्यक्षस्यानुमानतो बलवत्त्वात् ।
अन्यथा कालातीततोच्छेदप्रसङ्गात् ।
प्रत्यक्षस्य भ्रा(न्ति)न्तत्वे ऽनुमानप्रामाण्यं तस्मिंश्च प्रत्यक्षस्य भ्रान्तत्वमित्यन्योन्याश्रयत्वाच्चेति ।
*8,353*
अनुमानविरोधं चानुमानस्य प्रतिपादयितुं सूत्रम् ओं क्षणिकत्वाच्च ओं ॥
इति ।
तद्वयाचष्टे- क्षणिकत्वाच्चेति ॥
क्षणिकत्वाच् च
... क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः ।
ज्ञेयस्योक्तप्रकारेण ... ॥ मनुव्_2,2.235अ-च् ॥
न्यायसुधा:
आशुतरविनाशित्वादित्यर्थः ।
नच ज्ञानस्य क्षणिकत्वं भ्रान्तम् ।
अबाधितप्र(तीति)त्ययसिद्धत्वात् ।
स्थिररूपतः आशुतरविनाशितारहित(त्वात्)त्वतः ।
अनुस्मृतेश्चेत्याद्युक्तप्रकारेण ।
अत्र क्षणिकत्वाक्षणिकत्वलक्षणविरुद्धधर्माध्यासं भेदहेतुं वदताऽन्तरबाह्यत्वादिरनेको विरुद्धधर्मसंसर्ग उपलक्षितो बोद्धव्यः ।
*8,354*
एवं प्रत्येकं निराकृतानि बौद्धमतानि साधारणदोषेण दूषयितुं सूत्रम्- ओं सवर्थानुपपत्तेश्च ओं ॥
इति ।
तद्वयाख्याति- सर्वेति ॥
सर्वथानुपपत्तेश् च
... सर्वश्रुतिविरोधतः ।
अनुभूतिविरुद्धत्वादपि पक्षा इमे ऽशिवाः ॥ मनुव्_2,2.235द्-f ॥
न्यायसुधा:
श्रुतिप्रामाण्यस्य समर्थितत्वादवैदिकं प्रत्यपि श्रुतिविरोधकथनं युक्तमेव ।
अभ्युपगतश्रुतिप्रामाण्यं (शिष्यं) प्रति वा ।
तेषां पक्षाणामशिवत्वमनेन ज्ञाप्यत इति ।
नन्वनुभूतिविरोधः प्रागुक्त एव पुनः कस्मादुच्यते ।
उपसंहारार्थमित्यदोषः ।
यद्वा तदीयप्रमेयान्तरे ऽपीति ।
॥ इति श्रीमन्न्यायसुधायां अनुपलब्ध्यधिकरणम् ॥
*8,355*
[======= ज्न्य्स्_2,2.x: नैकस्मिन्नधिकरण =======]
॥ अथ श्रीमन्न्यायसुधायां नैकस्मिन्नधिकरणम् ॥
॥ ओं नैकस्मिन्नसम्भवात् ओं ॥
जैनमतमत्र निराक्रियते ।
निराकार्यांशज्ञापनाय तदुपन्यस्यति- आहेति ॥
नैकस्मिन्न् असंभवात्
आह क्षपणको विश्वं सदसद् द्वयमद्वयम् ।
द्वयाद्वयमतत्सर्वं सप्तभङ्गिसदातनम्
न्यायसुधा:
द्विविधं तावद्विश्वं, जीवाजीवात्मकं निरीश्वरम् ।
तत्पुनः षड्द्रव्यात्मकम् ।
तानि च द्रव्याणि जीवधर्माधमर्पुद्गलकालाकाशनामानि ।
तत्र जीवास्त्रिविधाः ।
बद्धा योगसिद्धा मुक्ताश्चेति ।
धर्मो गतिहेतुर्जगद्वयापी ।
अधर्मः स्थितिहेतुर्व्यापक एव ।
पुद्गलो रूपरसगन्धस्पर्शवत् द्रव्यम् ।
तत् द्विविधम् ।
परमाणुरूपं सङ्घातरूपं च ।
कालः, अभूद्भवति भविष्यतीति व्यवहारहेतुरप्यणुरूपः ।
आकाश एको ऽनन्तप्रदेशश्च ।
स द्विविधो लोकाकाशो ऽलोकाकाशश्चेति ।
(ए)तेष्वणुव्यतिरिक्तान्यस्तिकायशब्दानि ।
अनेकदेशवर्तिनि द्रव्ये ऽस्तिकायशब्द(प्र)वृत्तेः ।
ते च जीवास्तिकायो धर्मास्तिकायो ऽधर्मास्तिकायः पुद्गलास्तिकाय आकाशास्तिकाय इति पञ्च ।
अत्र च मोक्षोपयोगिनः सप्त पदार्था जीवाजीवास्रवबन्धनिर्जरसंवरमोक्षाः ।
जीवो ज्ञानदर्शनसुखवीर्यगुणः ।
अजीवो जीवोपभोग्यं वस्तुजातम् ।
अस्रवः तद्भोगोपकरणमिन्द्रियादिकम् ।
बन्धो द्विविधः ।
घातिकाघातिकचतुष्ययभेदात् ।
आद्यं जीवगुणानां ज्ञाना(नन्दा)दीनां प्रतिबन्धकम् ।
द्वितीयं शरीरसंस्थानतदभिमानतत्स्थितितत्प्रयुक्तसुखदुःखहेतुभूतम् ।
निर्जरो मोक्षसाधनं तपः ।
संवर इन्द्रिय(निरोधः) निग्रहः ।
मोक्षः स्वाभाविकात्मस्वरूपाविर्भावः ।
मोक्षग्रहणेनैव मोक्षमार्गो ऽपि सङ्गृहीतः ।
स च सम्यग्ज्ञानसम्यग्दर्शनसम्यक्चारित्र्याख्यरत्नत्रयात्मकः ।
तदेतद्विश्वं सप्तभङ्गि प्रत्येकं सप्तप्रकारकमा(मित्या)ह क्षपणकः ।
कथम् ।
सदित्येकप्रकारः ।
असदिति द्वितीयः ।
द्वयं सदसदात्मकमिति तृतीयः ।
अद्वयम् अवक्तव्यमिति चतुर्थः ।
द्वयाद्वयमिति पञ्चमषष्ठौ ।
तत्र सदवक्तव्यं चेति पञ्चमः, असदवक्तव्यं चेति षष्ठः ।
अतत्सर्वमिति सप्तमः ।
सर्वमिति सदसदात्मकम्, अतदिति अवक्तव्यम् ।
*8,362*
अत्र सप्तभङ्गित्वनिरासार्थं नैकस्मिन्नसम्भवादिति सूत्रं व्याचष्टे- नैतदिति ॥
नैतत् पदार्थ एकस्मिन् युक्तं दृष्टिविरोधतः
*8,363*
न्यायसुधा:
एतत्सप्तप्रकारत्वं कुतः ।
असम्भवात् ।
सो ऽपि कथं, दृष्टिविरोधतः ।
सर्वं हि स्वोपाधौ सत् परोपाधावसत् ।
स्वरूपेण भावो ऽन्यात्मत्वादिनाभावः ।
द्रव्यरूपेण नित्यमवस्थाभेदेन अनित्यम् ।
स्वरूपादिनाभिन्नं स्वगुणादिना भिन्नाभिन्नमित्येव प्रतीयते ।
नातो ऽन्येन प्रकारेण ।
अतो व्यवस्थया नियमग्राहकप्रत्यक्षादिविरोधेनासम्भवादयुक्तमेवानेकान्तमतमिति ।
नन्वेकान्तदर्शनस्य मिथ्यादृष्टित्वेन न तद्विरोधो ऽसम्भवमाहवतीत्यत आह- भावेति ॥
भावाभावतया विश्वं येन रूपेण मीयते ।
तद्रूपमेव तदिति नियमः केन वार्यते ॥ मनुव्_2,2.237च्-f ॥
न्यायसुधा:
येन रूपेणेत्यस्यैव विवरणं भावाभावतयेति ।
तच्च व्यवस्थितसदसत्त्वाद्युपलक्षणं बोद्धव्यम् ।
यद्वा भावाभावतयान्येन च येन सत्त्वादि(ना)रूपेणेति योजना ।
अथवा येन भावाभावतया रूपेणेति सामानाधिकरण्येन योज्यम् ।
यदि वा भावाभावतयेत्यस्य विशेषणमेतत् ।
येन व्यवस्थितेन रूपेणेति ।
केन प्रमाणेनेत्याक्षेपः ।
भवेदेतन्नियमदर्शनस्य मिथ्यादृष्टित्वम् ।
यदि दृष्टस्य नियमस्य निवारकमनेकान्तसाधकं प्रबलप्रमाणं स्यात् ।
न चैतदस्ति ।
नच बाधकेन विना प्रत्ययानां मिथ्यात्वं कल्पयितुं युक्तमतिप्रसङ्गादिति ।
नियमस्य बाधकमाशङ्कते- तत्तदिति ॥
तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मना ।
यदि ... ॥ मनुव्_2,2.238अ-च् ॥
न्यायसुधा:
सद्वादिनो हि सत्त्वं विश्वस्य प्रमाणैः प्रातिष्ठिपस्तदनङ्गीकारे दोषांश्च न्यरूपयन् ।
एवमसद्वादिनो ऽप्यसत्त्वस्थापनं तदनङ्गीकारे दूषणं च व्युत्पादितवन्तः ।
तथान्ये ऽपि स्वपक्षसाधनं तदनभ्युपगमे बाधनं च कृतवन्तः ।
तथाच यदि स(त्य)त्वं नाङ्गीक्रियते तदा तु तदुपन्यस्तं प्रमाणमुपरुध्येत दूषणं चानुषज्येत ।
एवमसत्त्वाद्यनङ्गीकारे ऽपि ।
अतस्तद्दोषपरिहारार्थं तत्तत्प्रमाणानुसरणार्थं च तत्तदात्मता विश्वस्य मया स्वीकृता ।
तथाचानेकान्ते प्रबलप्रमाणसद्भावात्कथं नियमे बाधकाभाव इति ।
परिहरति- तैरिति ॥
*8,365*
... तैरखिलैर्देषैर्लिप्यते चलदर्शनः
न्यायसुधा:
तर्हीति शेषः ।
इदमत्र वक्तव्यम् ।
सद्वादिमतानुसरणसमये ऽसत्त्वादिभङ्गीरङ्गीकरोषि (वा) न वेति ।
एवमसद्वादिचरणशरणप्रवेशवेलायां सत्त्वादिप्रकारानूरीकरोषि वा न वेति ।
एवमन्येष्वपि पक्षेषु विकल्पः ।
यद्याद्यस्तदासौ अचलदर्शनः सदा सकलपक्षाङ्गीकारवान् तैर्देषैरखिलै(तैरखिलैर्देषै)र्लिप्यते ।
तथाहि ।
सद्वादिनो हि न केवलं सत्त्वे प्रमाणं तदनङ्गीकारे च दूषणं च व्युत्पाद्य निवृत्ताः ।
किन्त्वसत्त्वादिपक्षेषु दोषानपि व्युत्पादितवन्तः ।
एवमसद्वादिनो ऽपि नासत्त्वे प्रमाणं तदनभ्युपगमे बाधकं चाभिधायैवोपरता, किन्नाम सत्त्वादिपक्षेषु दोषानपि उपपादितवन्तः ।
एवमन्ये ऽपि ।
तथाच सकलपक्षकक्षीकारे (तु) तत्तद्वाद्युक्तपक्षान्तरदोषलेपः कथं न स्यात् ।
अथ मन्यसे ।
न ते दोषाः किन्त्वाभासाः ।
ते च नानेकान्तवादं बाधन्त इति ।
तदा कथं तानि प्रमाणानि ।
अनङ्गीकारे दोषाश्च नाभासाः ।
(ये नानुम)येनानुसरणीयाः ।
तसम्त्तत्तद्वादिव्युत्पादितप्रमाणाद्यनुसारेण सप्तभङ्गीरङ्गीकुर्वाणेन तदुक्तविपक्षदोषानुसारेण तत्परित्यागो ऽपि कार्यः स्यात् ।
तथा चाङ्गीकारपरित्यागाभ्यामुभयत आकृष्टो ऽयं कष्टां दशामाविष्यः स्यात् ।
नन्वेकान्तो द्वेधा ।
क्रमाक्रमभेदात् ।
तत्र क्रमानेकान्ते तावन्नाङ्गीकारपरित्यागौ विरुद्धौ ।
अक्रमानेकान्ते ऽपि येन रूपेण नित्यत्वं तेनैवानित्यत्वमित्याद्यनङ्गीकारान्न विरोधः ।
तथाच सप्तभङ्गयङ्गीकारिणा मया तानि प्रमाणानि दूषणानि च व्यवस्थापितानि भवन्तीति नोक्तदोषः ।
मैवम् ।
तत्तत्प्रमाणादीनां व्यवस्थानर्हत्वात् ।
न खलु तत्त(त्प्रमाणवा)द्वादिभिस्तानि तानि प्रमाणादीनि सावकाशान्युपन्यस्तानि ।
तस्मात्सर्वेष्वपि (वादिषु) वादेषु परमास्तिकस्य कथितैव गतिः ।
*8,366*
अपि चैवमपि सप्तभङ्गयङ्गीकारो निर्मूल एव ।
न ह्येवंवादिनो वादिनः प्रसिद्धाः ।
सम्भावनया तदङ्गीकारे च न सप्तत्वपरिनिष्ठा ।
सम्भावनावका(को)शस्य निःसीमत्वात् ।
किञ्च सर्वाङ्गीकारपक्षे स्यादस्ति च नास्ति चेति पक्षात्स्यादस्ति स्यान्नास्तीति पक्षद्वयं न भिद्यते ।
द्वितीयपक्षे तु चलदर्शन इत्येव दूषणम् ।
अपसिद्धान्ती स्यादिति ।
तदेवं सप्तभङ्गयङ्गीकारः प्रमाणविरुद्धो ऽप्रामाणिकश्चेत्युक्तम् ।
अखिलैर्देषैर्लिप्यत इत्यनेन परस्परव्याहतिश्चेत्यपि सूचितम् ।
जोस्हि-5
*8,368*
एवम्भूतस्यापि सप्तभङ्गिनयस्य स्वीकारे ऽतिप्रसङ्गं चाह- अतिहायेति ॥
अतिहाय प्रमाणाप्तं नियमं सदसत्तया ।
अशेषमाविरुद्धं च निर्मानं व्याहतं सदा
सर्वप्रकारं वदतो दृष्टहानिरमग्रहः ।
स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि
न्यायसुधा:
अशेषमाविरुद्धं वदत इत्यस्योपपादनं व्यवस्थितया सदसत्तया प्रमाणाप्तनियममतिहायेति ।
सर्वे प्रकारा यस्य विश्वस्य तत्तथोक्तम् ।
ततश्चासौ प्रकारश्चेति वा ।
ननु क्रमानेकान्ते तावत्कालभेदेन न व्याघातः ।
अक्रमानेकान्ते ऽपि रूपभेदेनेत्यत उक्तम्- सदा सर्वप्रकारं वदत इति ॥
सदेति रूपाभेदस्याप्युपलक्षणम् ।
*8,369*
अयमाशयः ।
यदि क्रमेण वा रूपभेदेन वानेप्रकारत्वम् तदा नायमनेकान्तवादः समर्थनीयः ।
सर्वैरपि वादिभिरङ्गीकृतत्वात् ।
नहि को ऽपि वादी पदार्थानां कालतो रूपतश्चावस्थावैचित्र्यमनङ्गीकुर्वाणो ऽस्ति ।
यं प्रत्यनेकान्तवादावतारः सङ्गच्छेत ।
केवलं क्षणभङ्गो वात्यन्तसत्कार्यवादो वावस्थावतोरत्यन्तभेदो वापाकरणीयः ।
अतः अनेकान्तवादमवतारयता क्षपणकेन सदा रूपाभेदेनैव च सर्वप्रकार(क)त्वमित्येव वक्तव्यम् ।
तथाच न व्याघातनिस्तार इति ।
*8,370*
अशेषमाविरुद्धं सदा सर्वप्रकारत्वं वदतो दृष्टहानिः स्यात् ।
निर्मान च सदा सर्वप्रकारं वदतो अमग्रहो अप्रामाणिकस्वीकारः स्यात् ।
व्याहतं सदा सर्वप्रकारं वदतः स्वव्याहतत्वं स्यादिति योजना ।
दृष्टहानाद्यनुषङ्गिदोषान्तरसङ्ग्रहार्थमित्याद्या इत्युक्तम् ।
हिशब्दः सर्वत्र प्रसङ्गहेतुसूचनार्थः ।
अयमर्थः ।
यदि प्रमाणविरुद्धमपि सर्वप्रकारत्वं विश्वस्य स्वीक्रियते तदा दहनशैत्यं वा गवालम्भनादेर्धर्मसाधनत्वादिकं वा(चा)ऽङ्गीकार्यं स्यात् ।
प्रमाणविरोधेन प्रतिपक्षनिराकरणं च न स्यात् ।
किन्तु प्रत्यभिज्ञादिविरुद्धमपि क्षणिकत्वादिकमङ्गीकर्तव्यं स्यात् ।
अविशेषात् ।
यदि चाप्रामाणिकमपि सर्वप्रकारत्वमुररीक्रियते तदा खरविषाणादिकं वा गोमांसादिभक्षणस्य धर्मसाधनत्वं चोररीकरणीयं स्यात् ।
प्रमाणाभावेन परमतनिरासो ऽपि न कार्यः स्यात् ।
तद(प्य)भ्युपगमनीयमेव भवेदविशेषात् ।
तथाच दूष्योपादेयहीनस्य शास्त्रनिर्माणमपि न स्यात् ।
यदि च व्याहतमपि सर्वप्रकारत्वमङ्गीकुर्यात् तदा मातुरपि वन्ध्यत्वं, जिनोपदेशस्य प्रमाणतयाभ्युपगतस्याप्यप्रामाण्यं, बद्धस्यापि मुक्तत्वं, मुक्तस्यापि बद्धत्वं, सिद्धस्यापि रागित्वं, श्वपचस्यापि सिद्धत्वमित्यादिसर्वमप्यङ्गी(कुर्यात्)कार्यं स्यात् ।
अन्यथानेकान्तभङ्गप्रसङ्गात् ।
एवंच न शास्त्रप्रणयनप्रयासः कार्यः ।
मत्तोन्मत्तादिभिरेवास्य कृतत्वादिति ।
*8,371*
एवं विश्वस्य क्षपणकोक्तं सर्वप्रकारत्वं निराकृत्य तदुक्तमर्थान्तरमपि निराकर्तुमनुवदति- वक्तीति ॥
वक्ति स्वप्रभमात्मानं देहमानं ...
*8,371f.*
न्यायसुधा:
क्षपणक इति वर्तते ।
स्वप्रभं स्वप्रकाशं, देहस्य मानं परिमाणमिव मानं यस्यासौ तथोक्तः ।
अत्र देहमानत्वमेव विप्रतिपन्नो ऽर्थः ।
स्वप्रभत्वं तु सम्मतमेवास्माकम् ।
यद्वा स्वप्रभमिति क्रियाविशेषणम् ।
विना प्रमाणेन स्वीयया प्रभयोत्प्रेक्ष्यैव वक्तीति ।
अथवानेन देहपरिमाणत्वे जैनोक्तं प्रमाणाभावसमनुवदति ।
तत्र स्वशब्देन स्वीयो देह उच्यते ।
तत्र प्रभा यस्यासौ तथोक्तः ।
तथाच प्रयोगः ।
देवदत्तात्मा, तद्देह एव, तत्र सर्वत्रैव च विद्यते ।
तत्रैव तत्र सर्वत्रैव च स्वासाधारणगुणाधारतयोपलम्भात् ।
यो यत्रैव, यत्र सवर्त्रैव स्वासाधारणगुणाधारतयोपलभ्यते, स तत्रैव, तत्र सर्वत्र च विद्यते ।
यथा देवदत्तगृह एव तत्र सर्वत्रैव चोपलभ्यमानस्वासाधारणभास्वरत्वादिगुणः प्रदीपः ।
तथाचायं तस्मात्तथेति ।
अन्यथा कमनीयतनयालिङ्गनेन सर्वत्राह्ला(दाक)दकरस्य (स्व)सुखस्याननुभवप्रसङ्गः ।
तथाच सर्वाङ्गीणरोमाञ्चादिकार्यानुदयः स्यादिति ।
यद्वा प्रदीपस्येव स्वानपायिनी प्रभा यस्यासौ स्वप्रभ इति ।
*8,374*
अत्रात्मनः कायपरिमाणत्वनिरासार्थं सूत्रम् ॥
ओं एवञ्चात्माकात्स्नर्यम् ओं ॥
इति ।
तस्य तात्पर्यमाह- तदपीति ॥
एवं चात्माकार्त्स्न्यम्
न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः
... तदप्यलम् ।
दुष्यं नानाशरीरेषु प्रवेशादन्यथाभवात् ॥ मनुव्_2,2.241ब्-द् ॥
न्यायसुधा:
कुतः ।
अकात्स्नर्यादिप्रसङ्गादिति शेषः ।
पिपीलिकादिदेहस्थस्य तत्परिमाणस्यात्मनः कर्मविपाकवशाद्गजगवयादिदेहप्राप्तौ तत्राकात्स्नर्यं स्यात् ।
गजादिदेहगतस्य च तत्परिमाणस्य पिपीलिकादिदेहे ऽतिरेकः स्यादित्युभयथा कायपरिमाणत्वानुपपत्तिरेवेति ।
एतदर्थत्वेन (वा) च नानाशरीरेष्विति वाक्यं योज्यम् ।
तत्रान्यथाभावादिति कायपरिमाणत्वाभावापत्तेरित्यर्थः ।
*8,375*
स्यादेतत् ।
यं यं देहं प्राप्नोत्यात्मा तत्तत्परिमाणो भवत्यतो नोक्तदोष इत्याशङ्कानिरासार्थं सूत्रम् ओं नच पर्यायादप्यविरोधो विकारादिभ्यः ओं ॥
इति ।
तस्य तात्पर्यमाह- तदप्यलमिति ॥
चित्तस्थं परिमाणपर्यायं तच्छब्देन परामृशति ।
"नानाशरीरेषु प्रवेशादन्यथाभावात्ऽ; इति स्थूलसूक्ष्मशरीरेषु प्रवेशात्स्थूलसूक्ष्मपरिमाणोपज(न)ने सति परिमाणतद्वतोरत्यन्तभेदानभ्युपगमादात्मन एवान्यथाभावप्रसङ्गादित्यर्थः ।
*8,376*
अस्त्वात्मन एवान्यथाभावास्ततः को दोष इत्यत आह- अन्यथेति ॥
अन्यथाभावि यद् वस्तु तदनित्यमिति स्थितिः ।
तन्मते ... ॥ मनुव्_2,2.242अ-च् ॥
न्यायसुधा:
स्थितिः व्याप्तिः ।
तन्मत जैनदर्शने ।
अङ्गीकृतेति शेषः ।
ततो ऽपि किमित्यत आह- तदिति ॥
... तदनित्यत्वं ...
न्यायसुधा:
यत एवं व्याप्तिर्यतश्चान्यथाभावित्वमङ्गीकृतं तत् तस्मादात्मनो ऽनित्यत्वमापततीति शेषः ।
अत्र दृष्टान्तः- पुद्गलेति ॥
... पुद्गलस्यानिवारितम्
*8,377*
न्यायसुधा:
इवशब्दो ऽध्याहार्यः ।
पुद्गलस्य देहस्येवेति ।
यद्वा पुद्गलशब्दो जरज्जैनैरात्मवाचित्वेन स्वीकृत इत्यत्रात्मवाची ।
(यद्वा) यदि वा स्वमतेनायमात्मनि प्रयुक्तः ।
यथाऽहुः ।
"पुद्गलो निरययं गिरन्ऽ; इति ।
नन्ववस्थापर्यायरूपेणा(प्या)त्मनो ऽप्यनित्यत्वमङ्गीक्रियत एव ।
तत्कथमनित्यत्वापादनमित्यतो वा पुद्गलस्य देहस्येवेत्युक्तम् ।
यथा देहस्य देहाकारनामपरित्यागेन भस्मीभावलक्षणानित्यत्वं तथाविधमातम्नो ऽप्यापाद्यत इति ।
ननु अन्यथाभावस्यैवं विधानित्यत्वेन व्याप्तिर्नास्ति परमाण्वादौ व्यभिचारात् ।
तत्कथमापादनम् ।
मैवम् ।
परिमाणव्यत्ययलक्षणस्यान्यथाभावस्यैवंविधानित्यत्वव्याप्तत्वेन देहादौ दृष्टतया तद्वतो ऽप्यात्मनस्तथाविधानित्यत्वस्य निवारयितुमशक्यत्वात् ।
तदिदमुक्तम्- अनिवारितमिति ॥
*8,378*
नन्वस्मन्मतवद्भवन्मते ऽप्यात्मनो ऽन्यथाभावो ऽस्त्येव सुखदुःखाभ्यामुच्चनीचत्वाभ्युपगमात् ।
अन्यथाभाविनश्च देहादेरनित्यतोपलब्धा ।
तस्माद्भवन्मते ऽप्यात्मनो ऽनित्यता दुर्वारेत्यत आह- नेति ॥
नानित्यतास्मत्पक्षे तु चैतन्यादेर्विशेषिणः ।
लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचित्
*8,378f.*
न्यायसुधा:
अन्यथाभाववतो ऽप्यात्मनः प्रसज्यत इति शेषः ।
तत्कथमित्यत आह- चैतन्यादेरिति ॥
अस्मन्मत इति वर्तते ।
अनित्यतेति च ।
तुशब्दो ऽवधारणे ।
अस्मन्मते चैतन्यादेर्लक्षणस्य निवृत्तावेव विशेषिणो लक्षणवतो ऽर्थस्यानित्यता स्यात् ।
नतु जैनानामिवान्यथाभावमात्रेण ।
एतदुक्तं भवति ।
यस्य वस्तुनो यल्लक्षणं तन्निवृत्तिरूपो ऽन्यथाभाव एव तदनित्यतानिबन्धनं नान्यथाभावमात्रमिति ।
एवं तर्हि शब्दादिलक्षणाभावाद्गगनादीनां महाप्रलये विनाशः स्यात् ।
चेष्याश्रयत्वाभावाच्छरीरस्य सुप्त्यादौ विलयो भवेदित्यत उक्तम्- विशेषिणो लक्षणस्येति ॥
विशेषवतो लक्षणस्य न तु लक्षणमात्रस्येत्यर्थः ।
*8,379*
किमतो यद्येवमित्यत आह- नेति ॥
तदिति सामान्येन वाक्यार्थं परामृशति ।
अनित्यत्वकारणत्वेनोक्तं विशेषिणो लक्षणस्य निवर्तनं चेतने क्वचिदपि न स्यात् ।
अतस्तस्यानित्यतापि न स्यात् ।
यद्वा तदिति लक्षणपरामशर्ः ।
चेतने वर्तमानं क्वचिन्न निवर्तत इति शेषः ।
*8,380*
विशेषिणो लक्षणस्य निवृत्तौ लक्षस्यानित्यता स्यादित्युक्तम् ।
तद्विशदयति- ओतेति ॥
ओतप्रोतात्मकत्वं तु पटे देहे ऽङ्गसंस्थितिः ।
इत्यादिलक्षणस्यैव निवृत्तौ स्यादनित्यता
न्यायसुधा:
ओतप्रोतात्मकत्वं नाम तन्तूनां संयोगविशेषः पटे लक्षणमिति शेषः ।
अङ्गसंस्थितिः करचरणाद्यङ्गानां सन्निवेशविशेषः ।
आदिशब्दः प्रकारवचनः ।
अनित्यता लक्ष्यस्येति शेषः ।
यावल्लक्ष्यभाविनां लक्षणानां निवृत्तिरेव लक्ष्यानित्यत्वनिमित्तम् ।
तादृशं चात्मनश्चैतन्यम् ।
तच्च कदापि न निवर्तते इति कथं तस्य विनाशप्रसङ्ग इति ।
यदुक्तमात्मा स्वप्रभ इति तदप्यसत् ।
स्वप्रभावतः प्रदीपादेरिव रूपस्पर्शापत्तेः ।
रूपादिमत्वाच्च विनाशित्वापत्तेः ।
यद्रूपादिमत्तदनित्यत्वमिति परेणैव व्याप्तेरङ्गीकृतत्वात् इति ।
*8,381*
ननु सिद्धान्ते ऽप्यात्मनो रूपादिमत्त्वमङ्गीक्रियत एव ।
रूपादिमतो ऽनित्यत्वमिति व्याप्तिश्च ।
"रूपादिमत्त्वाच्च विपर्ययो दर्शनात्ऽ; इत्युक्तत्वात् ।
तत्कथमनित्यत्वपरिहार इत्यत आह- भौतिकं त्विति ॥
भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते
*8,382*
न्यायसुधा:
तुशब्दो विशेषार्थः ।
स एव भौतिकमिति विवृतः ।
न रूपादिमात्रमित्येवार्थः ।
नच भौतिकं रूपादिकमात्मन्यस्ति ।
तस्मान्नानित्यताप्रसङ्ग इति भावः ।
यथा भवद्भिरन्यथाभावो विशेष्यते ।
यावल्लक्ष्यभावि(विशेष)लक्षणव्यावृत्तिरूपो ऽन्यथाभावो ऽनित्यत्वव्याप्त इति ।
रूपादिमत्त्वं च भौतिकत्वेन ।
तथास्मन्मते ऽपि विशेषणप्रक्षेपे नोक्तदोष इत्यत आह- नैवमिति ॥
नैवं तस्य ...
न्यायसुधा:
तस्य क्षपणकस्य मते नैवमन्यथाभावो रूपादिमत्त्वं च विशेष्यते ।
किन्तु सामान्यमेवानित्यत्वव्याप्ततयाङ्गीक्रियते ततो नोक्तदोषपरिहार इत्यर्थः ।
तत्कथमित्यत आह- अन्यथेति ॥
... अन्यथाभावो यस्यानित्यत्वमीरितम्
रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये
न्यायसुधा:
भूभूधरादेजर्गतो नाशित्वसिद्धये यस्यान्यथाभावस्तस्यानित्यत्वमीरितं क्षपणकेन ।
तथाशब्दः समुच्चये ।
रूपादियुक्तस्याप्यनित्यत्वमीरितमिति ।
यद्वा यत् रूपादियु(क्तं तत्त)क् तत्तथानित्यमीरितमित योजना ।
तस्येत्यत यस्येत्यनेनान्वयः ।
अन्यथा तु यच्छब्दश्रवणात्तच्छब्दाध्याहारः ।
पूर्ववाक्यात्तस्येत्यनुवर्तते वा ।
एतच्चोपपादयिष्यते ।
*8,383*
उक्तमुपसंहरति- व्याप्त्येति ॥
व्याप्त्या तयान्यथाभावादात्मनो ऽनित्यता भवेत्
न्यायसुधा:
यदन्यथाभावि तदनित्यं यच्च रूपादिमत्तदनित्यमिति व्याप्त्या ।
अन्यथाभावादित्युपलक्षणम् ।
रूपादिमत्त्वाच्चेत्यपि द्रष्टव्यम् ।
स्यादेतत् ।
सम्प्रतिपन्नव्याप्तिकव्याप्यारोपो(ण) अनिष्यव्यापकारो(पः)पणं तर्कः ।
अत्र च न चेद्वयाप्तिः सम्मता कथं तर्हि तर्कत्वम् ।
मैवम् ।
व्याप्यवद्वयाप्तेरपि पराभ्युपगतत्वे ऽपि तर्कत्वाविरोधात् ।
एवमेव क्वचिदाश्रयस्योभयासम्मतावपि न दोषः ।
वक्ष्यति चैतत्"परन्यायैस्तु दूषणम्ऽ; इति ।
*8,385*
क्षपणोक्तं प्रमेयान्तरं निराकर्तुं सूत्रम् ओं अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषात् ओं ॥
इति ।
तत्रान्त्यावस्थितेश्चेत्येतावत्तावद्वयाख्याति- नित्येति ॥
अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः
नित्योर्ध्वगतिरप्येषा या मुक्तिरिति कथ्यते ।
अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा
*8,386*
न्यायसुधा:
अपिशब्दः प्रमेयान्तरनिराकरणसमुच्चयार्थः ।
चशब्दः परिमाणपर्यायेण सह समुच्चये ।
या एषा नित्योर्ध्वगतिर्मुक्तिरिति जैनैः कथ्यते सा च कथमात्मनो विकृतिर्नो भवेत् ।
भेवेदेव ।
तत्कथम् ।
अलोकाकाशमाप्तस्य ।
प्राक् लोकाकाशस्थो ह्ययमात्मा निरन्तरोर्ध्वगत्यालोकाकाशमाप्नोति ।
तथाचान्यथाभावादात्मनो ऽनित्यत्वापत्तिरिति भावः ।
अनेनान्त्या (या)अवस्थितिः सन्ततोर्ध्वगतिलक्षणा ।
ततश्चात्मनो ऽनित्यत्वापत्तिरिति सूत्रखण्डस्यार्थ उक्तो भवति ।
नन्वन्यथाभावमात्रमनित्यत्वस्य प्रयोजकमिति न तावद्भवदीयः पक्ष इत्युक्तम् ।
नापि मदीयः पक्षः ।
तत्कथं प्रदेशविशेषसंयोगमात्ररूपान्यथात्वेन मुक्तात्मनो ऽनित्यत्वप्रसञ्जनमित्यतो जैनपक्षो ऽयमिति समर्थयितुं तावत्पृच्छति- कीदृशश्चेति ॥
*8,387*
कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते
न्यायसुधा:
क्षपणकेन हि क्षित्यादेः सर्वस्य नित्यत्वाद्यनेकान्तं समर्थयमानेन द्रव्यपर्यायाभ्यां नित्यत्वमनित्यत्वं चेत्युक्तम् ।
द्रव्याकारस्य कदाप्यनपायान्नित्यत्वम् ।
पर्यायो ऽन्यथाभावः तस्मादनित्यत्वमिति ।
तत्र वक्तव्यम् ।
कीदृशो ऽत्रान्यथाभावो नाशं प्रति हेतुतयेष्यते ।
किं संस्थानादिलक्षणापगमरूपो वा, सधारणो वेति भावः ।
आद्यं शङ्कते- संस्थानेति ॥
संस्थानापगमश्चेत् ...
न्यायसुधा:
संस्थानग्रहणं लक्षणोपलक्षणम् ।
नाशहेतुतयेष्यत इति सम्बन्धः ।
प्रतिषेधति- स नेति ॥
... स नहि भूसागरादिषु
न्यायसुधा:
वक्तुं शक्यत इति शेषः ।
कुतो नेत्यत आह- स न हीति ॥
यावल्लक्ष्यभाविलक्षणापगमलक्षणो ऽन्यथाभावो भूसागरादिषु पक्षैकदेशभूतेषु न हीदानीं प्रमितस्ततो हेतोः सन्दिग्धासिद्धत्वं स्यादित्यर्थः ।
प्रमितत्वे तु तस्यानित्यत्वे ऽपि संशयो नास्तीत्यनुमानं व्यर्थमापद्यते ।
*8,388*
तर्हि द्वितीयो ऽस्त्विति शङ्कते- यः कश्चिदिति ॥
यः कश्चिदन्यथाभावो यदि ...
न्यायसुधा:
पूर्ववदेव सम्बन्धः ।
अविवक्षितविशेष इत्यर्थः ।
एवं तर्हि मुक्तात्मनो ऽप्यनित्यत्वापादनं सुस्थितमिति भावेनाह- मुक्तिश्चेति ॥
... मुक्तिश्च तादृशी
न्यायसुधा:
तादृशी अन्यथाभावस्वरूपा ।
एवमप्यात्मनो नित्यत्वे भूभूधरादीनामपि नित्यत्वं स्यात् ।
अन्यथा हेतोरनैकान्त्यात् ।
तदिदमुक्तं सूत्रकृता ।
"उभयनित्यत्वात्ऽ; इति ।
अवयवोपचयापचयलक्षणो ऽन्यथाभावो ऽनित्यत्वे हेतुरिति चेत् (न) ।
स्फटिकादौ पक्षैकदेशे सन्दिग्धत्वात् ।
रूपादिमत्त्वं सविशेषणमुपादीयते चेत्को दोष इति चेन्न ।
परस्य वैयर्थ्यप्रसङ्गात् ।
नहि परो रूपादिमत्किञ्चिन्नित्यमभ्युपैति ।
आत्मनस्तु प्रभया रूपादिमत्त्वमापादितमेव ।
यद्वा आत्मनो रूपादिमत्त्वं स्वसिद्धान्त एव ।
रूपादिमतो ऽनित्यत्वमिति व्याप्त्यङ्गीकारे पूर्वोक्तानित्यत्वप्रसङ्गो व्याख्यातव्यः ।
*8,391*
क्षपणकोक्तमर्थान्तरं दूषयितुमनुवदति- देहेति ॥
देहमाने विकारः स्यादिति स्थास्नूननात्मनः
आह ...
*8,391f.*
न्यायसुधा:
देहमाने देहमानत्वे ।
प्रमिते (सती)ति शेषः ।
विकारः स्यात् स्थावराणां सात्मकत्वाङ्गीकृतावात्मन इति शेषः ।
इति स मा भूदित्येवमर्थम् ।
स्थास्नून् वृक्षादीन् ।
अनात्मनः आत्मानधिष्ठितान् ।
आह क्षपणकः ।
अत्र क्षपणकः स्थावराननात्मन आहेत्येतावत्येव वक्तव्ये यदात्मनो देहपरिमाणत्वस्य प्रमितत्वात् वृक्षादीनामपि सात्मकत्वे तत्परिमाणत्वापत्तावङ्कुरावस्थायामणुमात्रस्य महावृक्षावस्थायां च महतो विकारित्वं विकारित्वादनित्यत्वं च प्रसज्येत ।
तन्मा प्रासाङ्क्षीदित्येतद(प्रसञ्जीत्येवमर्)थति हेतुकथनं, तत्पूर्वोक्तप्रमेयदृढीकरणार्थम् ।
यदि विकारित्वमात्रमनित्यत्वे प्रयोजकं जैनो नाभ्युपेयात् ।
तदा विकारित्वेनानित्यत्वप्रसङ्गाद्बिभ्यता स्थावराणामनात्मत्वं यत्तेनाभ्युपगतं तदनुपपन्नं स्यात् ।
नहि स्थावराणां सात्मकतायामात्मनो लक्षणापगमो भवति ।
किन्त्वन्यथाभावमात्रमिति ।
यद्वा दूषणसौकर्यार्थं हेत्वनुवादः ।
*8,393*
तदिदं विकारित्वापत्तिभयात्स्थावराणामनात्मत्वाङ्गीकरणमयुक्तम् ।
तथा सति हस्त्यादिशरीराणामप्यनात्मत्वस्याङ्गीकायर्त्वप्रसङ्गात् ।
तत्कथमित्यत आह- हस्त्यादीति ॥
... हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभावः
न्यायसुधा:
पिपीलिकादिदेहस्थस्य तत्परिमाणस्य हस्त्यादिदेहेषु प्राप्तेष्वन्यथाभावः स्यात् हि तस्मात् इति ।
अथवा शरीरमात्रस्यानात्म(क)त्वमापाद्य तदुपपादनमिदं क्रियते ।
हस्त्यादिसर्वदेहेष्वपि आत्मनो ऽन्यथाभावः स्यात् ।
उत्पत्तिसमये
देहानां हस्तवित(स्त्यादिमा)स्तिमात्रपरिमाणत्वात् यौवने तूत्कृष्टपरिमाणत्वादिति ।
अनेनाविशेषादिति सूत्रखण्डस्यार्थ उक्तो भवति ।
*8,394*
ननु च विषमो ऽयमुपन्यासः ।
अल्पैव हि हस्त्यादिदेहेष्वात्मनो विकृतिः ।
वृक्षादौ तु महती ।
ततो वृक्षादीनामनात्मत्वे हस्त्यादीनामपि त(दुप)दापादनमनुचितमित्यत आह- अणुदेहस्येति ॥
अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या ।
देहव्याप्त्यै विशेषः कस्तस्याः स्थास्नुतनौ च नुः ॥ मनुव्_2,2.250च्-f ॥
*8,394f.*
न्यायसुधा:
अणुदेहस्य पिपीलिकादिदेहस्य जीवस्य गजत्वे प्राप्ते ।
यद्वोत्पत्तिसमये अणुदेहस्य हस्तवितस्त्यादिपरिमितदेहस्य, महागजत्वे प्राप्ते देहव्याप्तौ (या) यावती विकृतिः, स्थास्नुतनौ च नुः पुरुषस्य, या विकृतिस्तस्यास्तस्याश्च परस्परं को विशेषः ।
न को ऽपि ।
अयमर्थः ।
आत्मनः किं महती विकृतिरनित्यत्वहेतुत्वादनभ्युपगन्तव्या ।
किंवा विकृतिमात्रम् ।
नाद्यः ।
महत्त्वस्यापरिनिष्ठितत्वात्परिनिष्ठाकल्पने केषुचिद्वृक्षादिषु तदभावात् ।
तदनुरोधेनापि परिनिष्ठाङ्गीकारे हस्त्यादावपि तद्भावात् ।
द्वितीये तूभयोर्विकारित्वेनाविशेषाद्वृक्षादिवत् हस्त्यादावपि अनात्मत्वमङ्गीकार्यम् ।
हस्त्यादिवद्वृक्षादीनामपि सात्मकत्वं न परित्याज्यमिति ।
एतेन अविशेषादित्यस्यार्थान्तरमुक्तं वेदितव्यम् ।
*8,396*
स्यादेतत् ।
न वयं विकारित्वापत्तिभयाद्वृक्षादीनामनात्मकत्वमाचक्ष्महे ।
किन्तु सात्मकत्वे प्रमाणाभावात् बाधकप्रमाणसद्भावाच्च ।
वृक्षादीनां देहत्वे तद्वयापकमिन्द्रियवत्त्वमपि स्यात् ।
नच तदस्ति ।
तत्कार्यस्य श्रवणादेरभावात् ।
सो ऽपि तज्ज्ञापकस्याभावात् ।
अदेहत्वे च न सात्मकत्वं शिलादिवदित्यत आह- गीतादिति ॥
गीतात् पुष्पफलावाप्तिः स्पर्शात् कार्श्यं रसात् स्थितिः ।
अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् ॥ मनुव्_2,2.251अ-द् ॥
न्यायसुधा:
गीतात्तावद्वृक्षस्यापि पुष्पफलावाप्तिर्दृश्यते ।
तया श्रवणमनुमीयते ।
विमतः श्रवणवान् गीतसान्निध्ये सति लब्धविकासत्वाद्राजादिवदिति ।
न चायं स्वभाव एव ।
राजादेरपि तत्प्रसङ्गात् ।
श्रवणेन च श्रोत्रसद्भावो ऽनुमीयते ।
एवं शीतोष्णस्पर्शविशेषात्कार्श्यं दृश्यते ।
तेन सुकुमारशरीरवत्स्पर्शज्ञानमनुमीयते ।
तेन च त्वगिन्द्रियसत्त्वम् ।
तथोदकादिरसात्स्थितिरशुष्यतो ऽवस्थानं दृश्यते ।
तेन सम्मतदेहवद्रसज्ञानं ततो रसनेन्द्रियसद्भावो ऽनुमीयते ।
एवं कमनीयकान्तावलोकनेनोत्कोरकत्वं तिलवृक्षस्योपलभ्यते ।
तेन दर्शनकामौ ।
ततो नयनमनसी सिद्धयतः ।
धूपोपयागेन चातिशयदर्शनाद्घ्राणसिद्धिरिति प्रसिद्धशरीराविशेषात्स्थावराणामनात्मता न सिद्धयेत् ।
केचिन्मूले निषिक्तानामपामुपरि सर्पणादाध्यात्मिकवायुसम्बन्धमनुमाय सात्मकत्वमनुमियते ।
तदसत् ।
भस्मगुलिकादौ व्यभिचारात् ।
एतेनाविशेषादित्येतत्प्रकारान्तरेण व्याख्यातं भवति ।
*8,397*
"वक्ति स्वप्रभम्ऽ; इत्यादिकमुत्सूत्रितं कस्माद्वर्णितमिति मन्दाशङ्कां निवारयितुं सूत्रारूढं करोति- एवञ्चेति ॥
एवञ्चात्माकार्त्स्न्यमिति तत एवाह वेदवित्
*8,398*
न्यायसुधा:
इति त्रिसूतीमिति शेषः ।
तत एव तदर्थमेव ।
उक्तस्यार्थस्य प्रतिपादनार्थमेव ।
एवमन्यत्रापि सूत्रानुपन्यासेन व्याख्याने ऽपि नैवमाशङ्कनीयमिति ज्ञापयितुमिदमभिहितमिति ।
॥ इति श्रीमन्न्यायसुधायां नैकस्मिन्नधिकरणम् ॥
*8,399*
[======= ज्न्य्स्_2,2.xइ: पत्युरधिकरण =======]
॥ इति श्रीमन्न्यायसुधायां पत्यरधिकरणम् ॥
॥ ओं पत्युरसामञ्जस्यात् ओं ॥
इह महादेवं पुरस्कृत्य प्रवर्तमानानां मतमपाक्रियते ।
ते चतुर्विधाः शैवाः पाशुपताः कालामुखा महाव्रताश्चेति ।
तेषां सत्यप्यवान्तरभेदे साधारणमेव प्रमेयं वेदवादस्यातिविरुद्धत्वादपाकर्तुमनुवदति- सर्वज्ञत्वादिकैरिति ॥
पत्युर् असामञ्जस्यात्
सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् ।
जगद्विचित्ररचनाकर्तारं दोषवर्जितम्
आहुः पाशुपतास् ...
*8,399*
न्यायसुधा:
पशुपतेरिमे पाशुपता इति चतुर्विधा अपि गृह्यन्ते ।
ते सदाशिवं जगद्विचित्ररचनाकर्तारमाहुः ।
ततो जन्माद्यस्य यत इत्युक्तमसदिति ।
अज्ञानादिदोषयुक्तं कथं जगत्कर्तारमाहुरित्यत उक्तम्- दोषवर्जितमिति ॥
सार्वज्ञाद्यभावे ऽज्ञानादिवर्जनं चेतनस्य नोपपद्यत इत्यतः सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तमित्युक्तम् ।
यद्वा सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं दोषवर्जितमिति प्रधानलक्षणविरुद्धार्थोपन्यासः ।
जगद्विचित्ररचनाकर्तारमिति श्रौतब्रह्मलक्षणविरुद्धार्थोक्तिः इत्यवगन्तव्यम् ।
*8,401*
तदेतद्दूषयितुं पत्युरसामञ्जस्यादिति सूत्रतात्पर्यमाह- तच्चेति ॥
... तच्च बहुश्रुतिविरोधतः ।
नोपादेयं मतं ह्य् ... ॥ मनुव्_2,2.253अ-च् ॥
न्यायसुधा:
चशब्दः पूर्वतनैः(मतैः) सह समुच्चयार्थः ।
हिशब्दो हेतौ ।
तत् पशुपतेः सर्वजगत्काणत्वादिकं मतं नोपादेयम् ।
कुतः ।
पत्युः पशुपतेः ।
असामञ्जस्यात् दोषित्वात् ।
तदनङ्गीकारे च बहुश्रुतिविरोध इति योजना ।
कास्ताः श्रुतय इत्यतस्ता उदाहरति- अस्येति ॥
... अस्य देवस्य स्तुहि गर्तगम्
उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् ।
यद् विष्णोरुपमं हन्तुं रुद्रमाकृष्टते मया
धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः ।
घ्नञ्छिश्नदेवानेको ऽसावासीन्नारायणः परः
तस्माद् रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् ।
यज्ञेन यज्ञमयजन्ताबध्नन् पुरुषं पशुम्
यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा
न्यायसुधा:
अनेन"अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभुथे हविर्भिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्यं वर्तिरश्चिवाविरावत्ऽ; इति ।
(ऋ.7-40-5) श्रुतिमुपादत्ते ।
*8,401f.*
"स्तुहि गर्तगम्ऽ; इत्यनेन"स्तुहि श्रुतं गर्तमदं युवानं मृगं न भीममुपहत्नुमुग्रम् ।
मृळा जरित्रे रुद्र स्तवानो ऽन्यं ते अस्मान्निवपन्तु सेनाऽ; इति (ऋ.2-33-11) ।
"उत्पिपेषऽ; इत्यनेन"रुद्रस्य त्वेव धनुरार्त्निः रि उत्पिपेषऽ; इति ।
"गृणीषःऽ; इत्यनेन"कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् ।
भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मऽ; इति (ऋ.2-33-12) ।
"पदम्ऽ; इत्यनेन"तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् ।
पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनाम्ऽ; इति (ऋ.5-3-3) ।
"यं कामयेऽ; इत्यनेन"यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्ऽ; इति (ऋ.10-125-5) ।
"माऽ; इत्यनेन"मा शिश्नदेवा अपि गुरृतं नऽ; इति ।
"घ्नन्ऽ; इत्यनेन"घ्नंच्छिश्नदेवां अभिवर्पसा भूद्ऽ; इति ।
"एकोसौऽ; इत्यनेन"एको नारायण आसीन्न ब्रह्मा नच शङ्करःऽ; इति ।
"तस्मात्ऽ; इत्यनेन"स रुष्यः स प्रसन्नो यद्रुष्यो यत्प्रसन्नस्तस्माद्रुद्रसम्प्रसादावभूताम्ऽ; इति ।
"वैष्णवम्ऽ; इत्यनेन"तेषां मखं वैष्णवं यश आर्छत्ऽ; इति ।
यज्ञेनेति, अबध्नन्निति, यो भूतानामिति प्रसिद्धम् ।
*8,402*
कथमेताभिः श्रुतिभिः पशुपतेनिर्र्देषत्वं विरुद्धमित्यतस्तासां तात्पर्यमाह- इत्यादीति ॥
इत्यादिश्रुतिसामर्थ्यात् पारतन्त्र्यं जनिर्मृतिः
पराधीनपरप्राप्तिरज्ञत्वं प्रळये ऽभवः ।
प्रतीयन्ते ... ॥ मनुव्_2,2.258अ-च् ॥
न्यायसुधा:
अभवः अभावः ।
प्रतीयन्ते पशुपतेरिति शेषः ।
*8,403*
"अस्य देवस्यऽ; इत्यनेन पराधीनपदप्राप्तिः प्रतीयते ।
मीळ्हुषः सेचकस्य, एषस्य इच्छारूपस्य, अस्य विष्णोर्देवस्य, प्रमृथे प्रभरणे पूजायामिति यावत् ।
हविर्भिः कृते सति वया बन्धको रुद्रो, रुद्रियं महित्वं रौद्रं पदं, विदे विविदे लेभे, हि यथा तथा हे अश्विनौ युवामपि इरावत् अन्नवत्, वर्ति वर्तनं, यासिष्यं अयासिष्य प्राप्तवन्तौ स्थ इति ।
"स्तुहिऽ; इत्यनेन स्तावकतया पारतन्त्र्यम् ।
हे रुद्र त्वं श्रुतं प्रसिद्धं, गर्तसदं हृदयगुहानिवासं, युवानं, मृगं न भीमं सिंहमिव भीषणम्, उग्रम् उग्राणां दैत्यानाम्, उपहन्तुनम् उपहन्तारं, नृहरिं, स्तुहि स्तौषि ।
स एवं स्तवान स्तुवंस्त्वं, जरित्रे स्तोत्रे, त्वां स्तुवन्तं माम् ।
मृळ मृडय सुखस्य ।
ते सेनाश्चास्मदन्यमेव निवपन्तु घ्नन्त्विति ।
"रुद्रस्यऽ; इत्यनेनाज्ञत्वं पारतन्त्र्यं मृतिश्च ।
आरोपितं धनुर्हनाववष्टभ्यावस्थितस्य रुद्रस्य शिरो ज्यायां (वभ्रिरू)कामरूपेणेन्द्रेण छिन्नायामुत्क्षिप्ता धनुरार्त्निरुत्पिपेष चिच्छेदेति ।
"कुमारःऽ; इत्यनेनापि पारतन्त्र्यं जनिश्च ।
हे रुद्र कुमारः पुत्रो भवान् जगद्वयामोहनाय कैलासमुपयन्तं, त्वां वन्दमानं पितरं कृष्णं प्रति ननाम ।
तेन स्तुतस्त्वं भूरेः पुरुषार्थस्य दातारं सत्पतिं गृणीषे स्तौषि स्तुतवानसि ।
एवम्भूतस्त्वमस्माभिः स्तुतः अस्मे ऽस्मभ्यं भेषजा भेषजानि संसारव्याधिनिरसनानि ज्ञानानि रासि ददासि देहीति ।
"तव श्रियःऽ; इत्यनेन पराधीनपदप्राप्तिर्जनिः पारतन्त्र्यं च ।
हे रुद्र यत् येभ्यस्ते जनिम जन्माभूत्ते मरुतो ब्रह्मणो ऽतीतवर्तमानास्तव श्रिये सम्पदे चारु सुन्दरं चित्रमाश्चर्यं उपमं उप समीपे मा लक्ष्मीर्यस्य संवहनकर्त्री तत्तथोक्तम् ।
यद्विष्णोः पदं मर्जयन्तः शोधितवन्तः क्षालितवन्तः ।
तत्त्वया हृदि निधायि न्यधायि ।
तेन कारणेन त्वं गोनां गवां (वाचां) मध्ये गुह्यं नाम नारायणादिकं पासि जपोपदेशादिना पालयसीति ।
"अहम्ऽ; इत्यनेन मृतिः ।
अहं ब्रह्मद्विषे ब्रह्मद्विषां दैत्यानां शरवे हिंसकं रुद्राय रुद्रं हन्तवै हन्तुमेव प्रलये धनुरातनोमि विस्तारयामीति ।
*8,404*
"यम्ऽ; इत्यनेन पराधीनपदप्राप्तिः ।
अहं यं यं रुद्रं कर्तुं कामये तं तमुग्रं रुद्रं कृणोमि करोमि एवं तं ब्रह्माणं तमृषिं तं सुमेधां सुमेधसं करोमीति ।
"माऽ; इत्यनेनाज्ञत्वम् ।
अतीतानागतवर्तमाना गुह्याभिमानिनो देवा रुद्रा अपि नो ऽस्माकमुपास्यमृतं ज्ञानरूपं ब्रह्म मागुर्न ज्ञातवन्त इति ।
घ्नन्नित्यनेन मृतिः ।
गुह्याभिमानिदेवान्घ्नन्नीश्वरो वर्पसा बलेन सर्वमभ्यभूदभिभूतवानिति ।
"एकःऽ; इत्यनेन प्रलये ऽभावो जनिश्च ।
"तस्मात्ऽ; इत्यनेन जनिः ।
परमेश्वररोषजो रुद्र इत्यर्थः ।
सम्प्रसादो ब्रह्मा ।
"तेषाम्ऽ; इत्यादिवाक्यैः पारतन्त्र्यम् ।
तेषां देवानां यशो, वैष्णवं मखं विष्णुमखे पशुत्वेन नियुक्तं रुद्रमार्छत्प्राप्तवदिति ।
देवा यज्ञेन रुद्रेण पशुना यज्ञं विष्णुमयजन्तेति ।
देवाः पुरुषं रुद्रं पशुमबध्नन्निति ।
यो भूतानामधिपती रुद्रः स विष्णोराज्ञारूपायां तन्त्यां चरति वृषा प्रसिद्धतन्त्यामिवेति ।
*8,408*
एतासां श्रुतीनामेतदर्थत्वोपपादनं त्वचार्येणैवान्यत्रोदाहृतेभ्यो वाक्येभ्यष्टीकातश्चावगन्तव्यम् ।
अत एव सामर्थ्यादित्युक्तम् ।
*8,409*
सूत्रार्थमुपसंहरति- सदोषत्वादिति ॥
... सदोषत्वान्नेशः पशुपतिस्ततः
न्यायसुधा:
ततः श्रुतिबलेन सदोषत्वात्पशुपतिः ईशो जगत्कर्ता न भवति ।
दोषि(णो)यज्ञदत्तस्येव जगत्कर्तृत्वानुपपत्तेरिति ।
*8,410*
युक्त्यन्तरेण शिवस्य जगत्कर्तृत्वमपाकर्तुं सूत्रम् ओं सम्बन्धानुपपत्तेश्च ओं ॥
इति ।
तस्यार्थमाह- अशरीरत्वत इति ॥
संबन्धानुपपत्तेश् च
अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् ।
कर्तृत्वेन न युज्येत ... ॥ मनुव्_2,2.259अ-च् ॥
न्यायसुधा:
तस्य शिवस्य ।
अशरीरस्यापि गगनादेर्जगता सम्बन्धदर्शनात्कथमेतदित्यत सम्बन्धमेवे व्याख्याति ।
क्वचित् कार्ये ।
कर्तृत्वेनेति ।
कायर्कर्तृत्वलक्षणः सम्बन्धो न युज्यत इत्यर्थः ।
क्वचिदित्यनेन कुतः सर्वकर्तृत्वमिति सूचयति ।
अयमत्र प्रयोगः ।
शिवो न कर्ताशरीरत्वात् सुप्तप्रलीनवदिति ।
ननु शिवः सिद्धो न वा ।
न द्वितीयः ।
आश्रयासिद्धेः ।
आद्ये तु कर्तृत्वेनैव सिद्ध इति धर्मिग्राहकमानविरोधः ।
किञ्च भवन्मते(ऽपि) शिवस्य कर्तृत्वं शरीरित्वं चाङ्गीक्रियत एव ।
तथा चापसिद्धान्तान्यतरासिद्धी स्यातामिति ।
उच्यते ।
इदमत्राकूतम् ।
पशुपतेर्जगत्कारणत्वं वदन्प्रष्टव्यः ।
किं पाशुपतादिशास्त्राण्यनुमानानि (चा)वाऽश्रित्येदमुच्यते, उत श्रुत्यादिकम् ।
आद्ये त्वतिप्रसङ्गो ऽयमुच्यते ।
यदि पाशुपताद्याश्रित्येदमुच्यते तर्हि तस्याशरीरत्वमपि ततः सिद्धमिति तदप्यङ्गीकार्यं स्यात् ।
तथाच कर्तृत्वानुपपत्तिरिति ।
अत एव न युज्यतेति लिङ्प्रयोगः ।
द्वितीये तु वक्ष्यत इति ।
एवञ्च न कश्चिद्दोषः ।
शिवस्वरूपस्य अस्माकं श्रुत्यादितः सिद्धेराश्रयासिद्धयभावात् ।
परसिद्धेनाशरीरत्वेन कर्तृत्वाभावापादनाद्धर्मिग्राहकविरोधाद्यभावात् ।
एतेन पाशुपतादिविरोधात् श्रुतयो ऽन्यथा योज्या इति निरस्तम् ।
*8,412*
नन्वशरीरस्यापि कर्तृत्वे बाधकाभावाद्वयाप्तिविधुरो ऽयं प्रसङ्गः ।
कारकप्रयोक्तृत्वं हि कर्तृत्वं न शरीरित्वमित्यत आह- देहिन इति ॥
... देहिनो ज्ञानदृष्टितः
न्यायसुधा:
सत्यं कारकप्रयोक्तृत्वमेव कर्तृत्वं न शरीरित्वमिति ।
तच्च न प्रयत्नेन विना सम्भवति ।
न चेच्छामन्तरेण प्रयत्नः ।
नच ज्ञानाद्विनेच्छा ।
नच शरीरादृते ज्ञानम् ।
देहिनामेव जाग्रतां ज्ञानदर्शनात् ।
अदेहिनां सुप्तप्रलीनानां चादर्शनात् ।
ततः कर्तृत्वस्य व्यापकं शरीरं शिवाद्वयावर्तमानं तदपि व्यावर्तयतीति ।
*8,413*
ननु ज्ञानजन्मन्येव शरीरस्योपयोगः ।
ज्ञानस्येन्द्रियजन्यत्वात् ।
इन्द्रियाणां च शरीरसंयोगनियमात् ।
नित्यज्ञानश्च भगवाञ्छिव इति किं तस्य शरीरेणेति ।
एवं तर्हि प्रयत्नजन्मन्येवेच्छोपयोगिनीति नित्यप्रयत्नस्येच्छापि न स्यात् ।
तथेच्छोत्पत्तावेव ज्ञानमुपयुज्यत इति नित्येच्छस्य ज्ञानमपि न स्यात् ।
*8,413f.*
अथ न प्रयत्नमात्रं कर्तृत्वम्, अपि तर्हि ज्ञानेच्छे अपि ।
परिदृष्टसामर्थ्यकारकप्रयोक्तृत्वं कर्तृत्वमिति हि वृद्धा इति चेत् ।
तथापीच्छात्यागे बाधकाभावात् ।
कुतश्चैवं कल्पनीयम् ।
कुलालादौ तथा दर्शनादिति चेत् ।
किं तत्र शरीरं न दृष्टम् ।
दृष्टमप्यनुपयुक्तमिति चेत् ।
किन्नियमाभावादेवमाश्रीयते, अन्यत्रोपक्षयाद्वा ।
नाद्यः ।
व्यभिचाराभावात् ।
शरीरप्रेरणे ऽपरं शरीरं नास्तीति चेन्न ।
तेनैव सशरीरत्वात् ।
न द्वितीयः ।
निरस्तत्वात् ।
अन्यथा ज्ञानादीनामप्यनुपयोगप्रसङ्गः ।
कुतश्चास्य नित्यज्ञानत्वसिद्धिः ।
आगमादिति चेन्न ।
परस्पराश्रयप्रसङ्गात् ।
सिद्धे ह्यागमप्रामाण्ये नित्यज्ञानेश्वरसिद्धिस्तत्सिद्धौ चागमस्य तत्प्रणीतत्वेन प्रामाण्यसिद्धिरिति ।
*8,416*
उक्तदोषपरिहारमाशङ्कय तन्निरासाय सूत्रम् ओं करणवच्चेन्न भोगादिभ्यः ओं ॥
इति ।
तन्नेत्यन्तं तावद्वयाचष्टे- नचेति ॥
करणवच् चेन् न भोगादिभ्यः
न च देहादिवद् विश्वमस्य स्याद् ...
न्यायसुधा:
यदुक्तमशरीरत्वाच्छिवस्य कर्तृत्वानुपपत्तिरिति ।
तदसत् ।
कुलालादयो हि कर्तारो दण्डादिकं साक्षात्प्रयत्नेनाधिष्ठातुमनीशानास्तदधिष्ठानाय साक्षात्प्रयत्नाधिष्ठेयं स्यात् ।
ततः किमपरेण शरीरेण ।
अत एव भगवान्विश्वमूर्तिरिति गीयते ।
न चादिसृष्टेः प्राक् कारकाभावः ।
मायादेरनादेर्विद्यमानत्वात् ।
अन्यथा सृष्टयनुपपत्तेरिति ।
आदिपदेनेन्द्रियाणां वक्ष्यमाणस्याधिष्ठानस्य च सङ्ग्रहः ।
तदिदं नोपपद्यत इत्यर्थः ।
कुतो नेत्यतः सौत्रहेतुं व्याख्याति- भोगेति ॥
... भोगसम्भवात्
*8,417*
न्यायसुधा:
यदि शिवस्य कारकग्रामः साक्षात्प्रयत्नाधिष्ठेयः स्यात्तदा स तस्य सुखदुःखानुभवलक्षणभोगहेतुः स्यात् ।
साक्षात्प्रयत्नाधिष्ठेये ऽस्मदादिशरीरे तथा दर्शनात् ।
कर्मार्जितस्यैव तथात्वमिति चेन्न ।
साक्षात्प्रयत्नाधिष्ठेयत्वेन तथाभावस्याप्यापत्तेर्भोगादिमतश्च नेश्वरत्वम् ।
अतः शिवस्य भोगादिप्रसङ्गान्नेयं कल्पना युक्तेति ।
जोस्हि-6
हेत्वन्तरेण शिवस्य विश्वकर्तृत्वं निराकुर्वत् ओं अधिष्ठानानुपपत्तेश्च ओं ॥
इति सूत्रं व्याचष्टे- अधिष्ठान इति ॥
अधिष्ठानानुपपत्तेश् च
अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन् प्रतीयते
न्यायसुधा:
यः कर्ता कुलालादिः स पृथिव्यादावधिष्ठाने स्थित एव घटादिकार्यं कुर्वन्प्रतीयते ।
नतु निरधिष्ठानः कश्चित्किञ्चित्कुर्वाणः ।
अनेन व्यतिरेकाविनाभावेन निरधिष्ठानत्वस्याकर्तृत्वेन व्याप्तिरुपपादिता भवति ।
ततः किमित्यत आह- नास्येति ॥
*8,418*
नास्याधिष्ठानयोगो ऽस्ति भूतानां प्रळये तदा
न्यायसुधा:
अस्य शिवस्य ।
तदा आदिसृष्टिसमये ।
कुतो नास्ति ।
प्रागुत्पन्नानां पृथिव्यादीनां महाभूतानां प्रलये सति ।
तस्मात्कर्तृत्वमपि तस्य नोपपद्यत इति शेषः ।
ननु कारकाणामेव अधिष्ठानत्वं भविष्यति ।
मैवम् ।
साधिष्ठानस्य चेतनस्य भोगादिप्रसक्तेरुक्तत्वात् ।
नन्वयं निरधिष्ठानत्वहेतुः कर्तुर्विपक्षात्कुलालादिर्वाकर्तुः सपक्षाद्घटादेरपि व्यावृत्तत्वादसाधारणः ।
मैवम् ।
गगनादौ सपक्षे वृत्तेः ।
नन्विदं सूत्रद्वयं व्युत्क्रमेण कुतो व्याख्यातम् ।
सम्बन्धानुपपत्त्यधिष्ठानानानुपपत्त्योरुभयोरपि परिहारः करणवच्चेदित्यनेन निरस्यत इति ज्ञापनार्थम् ।
यदि खलु यथाक्रममेव व्याख्यायेत ।
तदा सन्निहिताधिष्ठानानुपपत्तिपरिहारनिरासकमेवेदं ज्ञायेत ।
व्युत्क्रमेण तु उभयमध्ये व्याख्याने सत्युभयसम्बन्धि विज्ञायत इति ।
अत एव भाष्ये ऽधिष्ठानादिरूपमित्युक्तमत्र तु देहादिवदिति ।
*8,419*
ननु युक्तं कुलालस्याधिष्ठानसापेक्षत्वं शरीरित्वम् ।
शरीरं हि गुरुत्वात्प्रसक्तपतनं तत्प्रतिबन्धाय स्पर्शवदधिष्ठानमपेक्षते ।
अनवस्थितशरीरस्य कर्तृत्वायोगात् ।
ईश्वरस्य तु शरीरविधुरस्य किमधिष्ठानमेव ।
इहेदं जातमित्यदिव्यवहारस्तु गगनादिकमाश्रित्योपपत्स्यत इत्यत आह- अदेहश्चेदिति ॥
अदेहश्चेदसार्वज्ञः शिलाकाष्ठादिवत् सदा
न्यायसुधा:
सदेत्यनेन व्याप्तिमुपपादयति ।
अत एव शिलाकाष्ठादिवदित्यनेकदृष्टान्तोपादानम् ।
तथाच कुतः सावर्ज्ञम् ।
कुतश्च सर्वकर्तृत्वमिति भावः ।
स्यादेतत् ।
न सर्वथा सदाशिवः अशरीरः ।
किन्तु लीलया शरीराण्यपि गृह्णाति ।
ततो नायं दोषः ।
नच भोगादिप्राप्तिः ।
लीलया गृहीतस्य विग्रहस्य तदहेतुत्वादित्यत आह- देही चेदिति ॥
देही चेदन्तवानेव यज्ञदत्तनिदर्शनात्
*8,420*
न्यायसुधा:
अन्तवान्मरणवान्स्यात् ।
उपलक्षणं चैतत् ।
दुःखादिमांश्च स्यादित्यपि द्रष्टव्यम् ।
नन्वसौ विग्रहो न तद्धेतुरित्युक्तम् ।
मैवम् ।
शरीरं न भोगायतनं चेत्यस्य व्याहतत्वात् ।
शरीरत्वेनैव तदनुमानाच्च ।
तदिदमाह- एवेति ॥
एतेन"अन्तवत्त्मसर्वज्ञता वाऽ; इति सूत्रं व्याख्यातं भवति ।
पाठक्रमादर्थक्रमो गरीयानित्यतो व्युत्क्रमेण व्याख्यानम् ।
*8,421*
नन्वेवं शिवस्य जगत्कारणत्वमपाकुर्वतां को ऽभिप्रायः ।
किमकर्तृकमेवेदं विश्वमिति ।
किंवा विष्णुकर्तृकमिति ।
नाद्यः ।
कार्यस्याकर्तृकत्वे विरोधात् ।
अपसिद्धान्तप्रसक्तेश्च ।
न द्वितीयः ।
विष्णावपि कर्तर्यभ्युपगम्यमाने दोषाणामेषां समानत्वेन (स्व)व्याहतत्वात् ।
तथाहि यदुक्तमसामञ्जस्यं शिवस्य तत्तावद्विष्णावपि समम् ।
"जनितोत विष्णोःऽ; इत्यादौ जन्मादिदोषश्रवणात् ।
सम्बन्धानुपपत्त्यादिकं तु स्फुटमेवेत्यत आह- नचेति ॥
नचैतदखिलं विष्णौ ...
न्यायसुधा:
एतदखिलं दोषजातं, विष्णावपि विश्वस्य कर्तर्यभ्युपगते समानमिति न वाच्यम् ।
कुतः ।
श्रुत्यैव सकलदोषपरिहारेण विष्णोर्विश्वकारणत्वस्य प्रतिपादितत्वात् ।
ननु पशुपतेरप्येवमागमैरनुमानैश्च जगत्कारणता प्रतिपादितैव ।
ततः को विशेष इत्यत आह- श्रुतीति ॥
... श्रुतिप्रामाण्यगौरवात्
न्यायसुधा:
पाशुपतादितो ऽपि श्रुतीनां प्रामाण्यस्य गुरुत्वात् ।
एतदुक्तं भवति ।
पाशुपतादिकं हि शिवे जगत्कर्तरि सर्वज्ञे सिद्धे तत्प्रणीतत्वेन प्रमाणत्वेन निश्चीयेत ।
निश्चिते च तत्प्रामाण्ये शिवस्यैवंविधस्य सिद्धिरित्यन्योन्याश्रयता दुरवधारणप्रामाण्यम् ।
अन्यतः शिवस्यैवंविधतासिद्धावलमनेन ।
न चान्यत्तादृशं प्रमाणमस्ति ।
अनुमानानां दूषितत्वात् ।
नचैवं श्रुतिप्रामाण्यम् ।
अपौरुषेयत्वेन करणदोषाणां बाधकप्रत्ययस्य चाभावे सति तस्य निष्कम्पमेव स्वतो निश्चितत्वात् ।
अतो निश्चितप्रमाणभावया श्रुत्या विधूतावद्यगन्धं विष्णोर्जगत्कारणत्वं सिद्धयत्येवेति ।
*8,423f.*
कास्ताः श्रुतय इत्यतस्ता उदाहरति- मन इति ॥
मनोबुद्धयङ्गितां विष्णोर्लक्षयामो य एव सः
स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता ।
देहो विष्णोर्न ते विष्णो वासुदेवो ऽग्रतो ऽभवत्
एको नारायणस्त्वासीन्न ब्रह्मा नच शङ्करः ।
अजस्य नाभावध्येकमर्पितं मात्रया परः
सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः
आनन्द एक एवाग्र आसीन्नारायणः प्रभुः ।
प्रियं तस्य शिरे मोदप्रमोदौ च भुजौ हरेः
आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत् क्वचित् ।
मनसो ऽस्याभवद् ब्रह्मा ललाटादपि शङ्करः
पक्षयोर्गरुडः शेषो मुखादास सरस्वती ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
*8,424*
न्यायसुधा:
अनेन"बुद्धिमनो ऽङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामाह ।
बुद्धिमान्मनोवानङ्गवान्प्रत्यङ्गवान्ऽ; इति श्रुतिमुपादत्ते ।
"य एवऽ; इत्यनेन"यदात्मको भगवांस्तदात्मिका व्यक्तिः किमात्मको भगवान्ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मकःऽ; इति ।
ऊर्जिता बलवती ।
सर्वत्राप्रतिबद्धा ।
एतदातमको भगवांस्ततस्तस्य देहो ऽप्येतदात्मक इति श्रुतिलब्धो ऽर्थः ।
"न ते विष्णौऽ; इत्यनेन"न ते विष्णो जायमानो न जातो देवमहिम्नः परमन्तमापऽ; इति ।
"वासुदेवःऽ; इत्यनेन"वासुदेवो वा इदमग्र आसीत्ऽ; इति ।
"मात्रयाऽ; इत्यनेन"परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्तिऽ; इति ।
कथमेताभिः श्रुतिभिरभिप्रेतार्थसिद्धिरित्यतस्तासां तात्पर्यमाह- इत्यादीति ॥
इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः ।
विष्णोर्देहाज्जगत् सर्वमाविरासीदितीयते
न्यायसुधा:
नित्यश्चासौ गुणात्मा चेति तथोक्तः ।
तस्मात् ।
तत्र"बुद्धिःऽ; इति श्रुत्या विष्णोर्देहवत्त्वमवगम्यते ।
अङ्गं देहः, प्रत्यङ्गानि हस्तादीनि, लक्षयामहे ज्ञापयामः ।
कथं बुद्धिमानित्यादि ।
"यदात्मको भगवान्ऽ; इत्यनया भगवतो देहस्य ज्ञानादिगुणात्मकत्वात् ।
व्यक्तिः देहः ।
"न ते विष्णौऽ; इत्यना भगवो देहस्य ज्ञानादिगुणात्मकत्वमनादिनित्यत्वम् ।
जातादिभिरप्राप्यमहित्वस्यान्यथानुपपत्तेः ।
"वासुदेवःऽ; इति श्रुतिद्वयेनानादिनित्यदेहत्वम् ।
"अजस्यऽ; इत्यनया देहवत्त्वं तस्याप्यजत्वम् ।
"परो मात्रयाऽ; इत्यनया देशकालगुणैरपरिच्छिन्नतनुत्वम् ।
"सद्देहःऽ; इत्यादिश्रुतिद्वयेन जन्मादिदोषरहितगुणात्मदेहवत्त्वम् ।
सद्देहो जन्मादिदोषरहितदेहः ।
सुखगन्धः सुगन्धः ।
ज्ञानभा न तु तैजसभाः ।
ज्ञानज्ञान इत्यादेरतिशयितज्ञान इत्यादिरित्यर्थः ।
प्रियादिशब्दाः सुखविशेषवाचिनः ।
अन्यत् प्राकृतादिकम् ।
"मनसःऽ; इत्यादिश्रुतिद्वयेन देहवत्त्वं ततो जगतो जन्म च ।
"ब्राह्मणो ऽस्यऽ; इत्यादिवाक्यशेषात् ।
पक्षयोः पार्श्वयोः ।
*8,424f.*
अत्र कासुचित् श्रुतिषु विवक्षितार्थो न स्फुटं प्रतीयते ।
किन्तूपपत्तिसाध्य इत्याशयवतोक्तम्- बलादिति ॥
आविरासीदित्यनेन सत्कार्यवादं सूचयति ।
ईयते ज्ञायते ।
अत्र सकलजगत्कारणत्वस्यैव श्रुतिसिद्धत्वे सर्वदोषपरिहारः सिध्यत्येव ।
नहि दोषेषु सत्सु तत्सम्भवति ।
तथापि देहाभावप्रयुक्तानि दूषणानि प्रयुक्तानि ।
तस्य च देहस्य ज्ञानानन्दादिगुणात्मकत्वेन जननादिदोषपरिहारो ऽपि सिद्धः ।
जनितोतेत्यादिवाक्यं तु बह्वीभिर्निरवकाशादिभिः श्रुतिभिः विरुद्धमन्यथाव्याख्येयम् ।
तदिदमुक्तम्- सन्दर्भबलादिति ॥
*8,428*
स्यादेतत् ।
देहो ज्ञानानन्दादिगुणात्मानादिनित्यश्चेत्येतच्छशो विषाणवानितिवद्विरुद्धम् ।
यो देहः स भौतिको जन्मादिमानिति नियमदर्शनात् ।
ततो विष्णोर्देहमङ्गीकृत्य तस्याभौतिकत्वाद्यङ्गीकारे शशस्यापि विषाणित्वमङ्गीकार्यमित्यतो देहस्याभौतिकत्वादिना विरोधं तावदपाकरोति- मानसत्त्वादिति ॥
मानवत्त्वाद् विरोधः को ...
न्यायसुधा:
क इत्याक्षेपे ।
नास्ति विरोध इत्यर्थः ।
इदानीं शशविषाणप्रतिबन्दीं मोचयति- नेति ॥
... नामानं क्वचिदिष्यते
न्यायसुधा:
अङ्गीकुर्मः शशविषाणमपि ।
यदि परमेश्वरविग्रहस्यानन्दाद्यात्मकत्वमस्ति प्रामाणिकं स्यात् ।
नचैवम् ।
नह्यप्रामाणिकं केनापि कदापि क्वचिदप्येष्युं शक्यत इति ।
ननु प्रामाणिकत्वे ऽपि विरोधाभावः कथमित्यत आह- अविरोध इति ॥
अविरोधो विरोधश्च मानेनैव हि गम्यते
न्यायसुधा:
ययोः क्वचित्सहदर्शनं तयोरविरोधः ।
ययोस्तु नियमेन व्यधिकरणतयैव दशर्नं तयोः विरोध इत्येवं सहदर्शनासहदर्शनलक्षणेन मानेन (हि) वस्तूनामविरोधविरोधाववगन्तव्यौ ।
तन्नियमाकस्यान्यस्याभावात् ।
अतः प्रमाणेन सहदृष्टे ऽर्थे विरोधः कथं स्याद्वयाघातादिति ।
उपसंहरति- अत इति ॥
*8,429*
अत उक्तं समस्तं च वासुदेवस्य युज्यते
न्यायसुधा:
प्रमाणैः सहदृष्टे ऽर्थे विरोधस्यानाशङ्कनीयत्वात् ।
उक्तम् उदाहृताभिः श्रुतिभिः ।
समस्तं चिदानन्दाद्यात्मकनिरवद्यविग्रहेण जगत्कारणत्वम् ।
एतच्चारूपवदेवेत्यादिना वक्ष्यमाणं शिष्यहितैषिणाऽचार्येणात्रोक्तमिति ज्ञातव्यम् ।
नन्वेतदस्माकमपि समानम् ।
तथाहि ।
यद्यपि पाशुपतादिकमशक्यावधारणप्रमाणभावम् ।
तथापि"ज्ञात्वा शिवं शान्तिमत्यन्तमेति ।
ऽ"एको रुद्रो न द्वितीयाय तस्थे ।
ऽ"स इमान् लोकानीशत ईशनीभिःऽ; इत्याद्याः श्रुतयस्तावच्छिवस्य जगज्जन्मादिहेतुतामाचक्षते ।
शिवादिनामोपेतत्वात् ।
नच तथाविधस्यासमञ्जसत्वं सम्भवतीत्युदाहृताः श्रुतयो ऽन्यथा योज्याः ।
अतः सम्बन्धानुपपत्त्यादिकं श्रुतिरेवाभासयिष्यति ।
तद्घटकं वा किमपि कल्पयिष्यतीत्यत आह- शिवादीति ॥
शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः
न्यायसुधा:
भवेदेवं यद्येताः श्रुतयः शिवपराः स्युः ।
नचैवम् ।
किन्तु शिवादिनामयुक्ता अपि विष्णुविषया एव ।
नन्वेतत्कुतः ।
एवं सत्यस्माभिरपि वक्तुं शक्यत एव ।
एको नारायण इत्याद्या अपि श्रुतयः शिवपरा इति ।
मैवम् ।
शिवादिनाम्नां विष्णौ शक्तिमत्त्वात् ।
नारायणादिनाम्नां शिवे शक्त्यभवात् ।
अत्रापि किं मानमित्यत आह- नामानीति ॥
*8,430*
नामानि सर्वाणि च यमेको यो देवनामधाः ।
विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम्
न नारायणनामानि तदन्येष्वपरे हरौ ।
इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः
न्यायसुधा:
अनेन"नामानि विश्वाभि न सन्ति लोकेऽ; इत्यादिकां श्रुतिमुपादत्ते ।
"एकःऽ; इत्यनेन ।
"यो देवानां नामधा एक एवेति ।
नामानि धत्त इति नामधाः ।
नान्यस्य वाचकानि ।
न तदन्येषु वर्तन्ते ।
अपरे शिवादिशब्दाः ।
उक्तः समन्वयश्च तत्र मानमिति सम्बन्धः ।
समन्वयग्रहणेनैतदपि परिहृतम् ।
एता अपि श्रुतीरहं शिवादिवि(ववि)षयतया व्याख्यास्यामीति ।
उपक्रमादिभिर्लिङ्गादिभिश्च भगवत्परतया निश्चितत्वादिति ।
*8,431*
मा भूच्छतिभिः शिवस्य जगत्कारणत्वावधारणं शैवपुराणैस्तु भविष्यति ।
नच तान्यपि विष्णुपराणि ।
उपक्रमादिबलेन शिवविषयतया निश्चितत्वादित्यत आह- पुराणानीति ।
पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत् प्रमा
न्यायसुधा:
पुराणाद्यैः वैष्णवैः ।
विरुद्धत्वात् प्राक् प्राबल्यचिन्तायाः सत्प्रतिपक्षत्वात् ।
तदुत्तरं बाधितत्वाच्च ।
तत् तत्र, शिवस्य जगत्कारणत्वे ।
न केवलं वैष्णवादिपुराणादिविरुद्धत्वादप्रमाणं शैवपुराणम् ।
किन्तु शैवप्रमाण(पुराण)विरुद्धत्वादपीत्याह- तदिति ।
तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः
न्यायसुधा:
तद्विरुद्धेषु शैवपुराणादिविरुद्धेषु शिवजगत्कारणादिषु नो मानम् ।
शैवपुराणमिति शेषः ।
कथं शैवपुराणस्य शैवपुराणविरोध इत्यत आह- पूर्वेति ॥
एतच्चान्यत्र दर्शितम् ।
किञ्च शैववैष्णवपक्षपातशून्यब्राह्मपुराणविरुद्धत्वाच्च शैवपुराणं विमते ऽर्थे न मानमित्याह- समेति ॥
समब्राह्मविरोधाच्च ...
न्यायसुधा:
इदमप्यन्यत्र दर्शितम् ।
एवं तर्हि वैष्णवानामपि पुराणादीनामप्रामाण्यं स्यात् ।
तेषामपि शैवब्राह्मपुराणविरुद्धत्वात्पूर्वापरविरोधाच्चेत्यत आह- नियमादिति ॥
*8,432*
... नियमाद् वैष्णवेष्वपि
न्यायसुधा:
एकप्रकारत्वात् ।
पूर्वापरविरोधाभावात् ।
शैवादिपुराणानामेतत्प्रतिबन्धकत्वाद्यसामर्थ्यादित्यपेरर्थः ।
तेषां नाप्रामाण्यमिति शेषः ।
ननु वैष्णवेष्वपि पुराणादिषु शिवादीनां जगत्कारणत्वादिकं विष्णुना तदीयस्तुत्यादिकारणं च प्रतीयत एव ।
तत्कथं नियम उच्यत इत्यत आह- मोहार्थमिति ॥
मोहार्थमुक्तितश्चैव ...
न्यायसुधा:
शिवादीनां जगत्कारणत्वादेरयोग्यजनव्यामोहनार्थमेवोक्तिः, चशब्दाद्विष्णुना शिवस्तुत्यादेर्मोहार्थं कृतस्यानुवादतश्च नियमो न विरुद्ध इति ।
कथं शैवपुराणादीनां प्रतिरोधकत्वाद्यसामथ्यर्मित्यत आह- मोहार्थमिति ॥
शैवपुराणादीनां मोहार्थमेव उक्तितः कृतत्वात् ।
चशब्देन वैष्णवानां तत्त्वज्ञानाथर्मेव कृतत्वात् ।
अत्र चार्थे ऽन्यत्र प्रमाणान्युक्तानि ।
*8,433*
अधिकरणार्थमुपसंहरति- विष्णुरिति ॥
... विष्णुरेको गुणार्णवः
न्यायसुधा:
तस्मादिति सिद्धमिति शेषः ।
ननु स्कन्दादिमतान्यप्युक्तार्थविरोधीनि सन्ति तानि कुतो ऽत्र न निराक्रियन्त इत्यत आह- स्कन्देति ॥
स्कन्दसूर्यगणेशादिमतानि न्यायतो ऽमुतः ।
निराकृतान्य् ... ॥ मनुव्_2,2.276अ-च् ॥
न्यायसुधा:
अमुतो न्यायतः पाशुपतमतनिराकरणन्यायतः ।
अतो न निराक्रियन्त इति शेषः ।
कथमनेन न्यायेन तन्निराकरणमित्यत आह- अशेषेणेति ॥
... अशेषेण सिद्धान्तस्याविशेषतः
न्यायसुधा:
कात्स्नर्येन तदीयसिद्धान्तानां पाशुपतसिद्धान्तस्य चाविशेषतः ।
केवलदेवतान्तरपरिग्रहेणैव सिद्धान्तभेदः ।
प्रक्रिया तु सर्वत्र समानैव ।
अतः पूर्वनिराकरणन्यायेनैव तन्निराकरणं युक्तमेवेति भावः ।
॥ इति श्रीमन्न्यायसुधायां पत्युरधिकरणम् ॥
*8,434*
[======= ज्न्य्स्_2,2.xइ: उत्पत्त्य्(अशक्त्य्)अधिकरण =======]
॥ अथ श्रीमन्न्यायसुधायां उत्पत्त्य(शक्त्य)धिकरणम् ॥
॥ ओं उत्पत्त्यसम्भवात् ओं ॥
शाक्तं मतमत्रापाक्रियते ।
न निराकर्तव्यमेवैतत् ।
स्कान्दादिमतवदस्यापि पूर्वन्यायेनैव निरस्तत्वात् ।
यथा हि ।
पत्युरित्यस्य स्थाने स्कन्दस्येत्यादि पठित्वासामञ्जस्ये तदनुसारिण्यः श्रुतय उदाह्रियन्ते ।
सम्बन्धानुपपत्त्यादिकं च तद्विषयं योज्यते ।
तथा शक्तावपि वक्तुं शक्यमेव(ते) ।
अन्यथा स्कन्दादिशर्नमपि पृथगपाकरणीयं स्यात् ।
अथोच्येत ।
शाक्तमते पाशुपतादाचारभेदादेर्विद्यमानत्वात्तत्सिद्धान्ताविशेषो नास्तीति ।
तन्न ।
सौरादिमतेष्वपि तस्य विद्यमानत्वात् ।
अथ किं तेन ।
देवताविशेषपरिग्रहमन्तरेणोक्तार्थविरुद्धो दूष्यो ऽथर्ः सर्वत्र समान एवेति ब्रूषे ।
तच्छाक्ते ऽपि समानमित्यतो नैतदपि पृथगपाकरणीयमित्यत आह- निराकृताविति ॥
उत्पत्त्यसंभवात्
निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् ।
दूष्यते ... ॥ मनुव्_2,2.277अ-च् ॥
न्यायसुधा:
सत्यम् ।
स्कन्दादिवच्छाक्तस्यापि मतस्य न पाशुपताद्विशेषः ।
अत एवोक्तदोषग्रामविषयत्वमपि ।
तथापि तत्रासाधारणस्य दूषण(स्यापि वि)स्य विद्यमानत्वात्तद्विवक्षया शक्तिमतं पृथग्भङ्गया दूष्यते सूत्रकारेण ।
उत्पत्त्यसम्भवो हि शाक्तस्यैवासाधारणदोषो न तु पुरुषदैवतानाम् ।
एतच्च वक्ष्याम इति ।
*8,436*
एवमधिकरणारम्भमुपपाद्येदानीं शाक्तमत(स्थिति)मुपन्यस्यति- महतीति ॥
... महती देवी ह्रीङ्करी सर्वकारणम् ।
त्रिपुराभैरवीत्यादिनामभिः साभिधीयते ॥ मनुव्_2,2.277च्-f ॥
न्यायसुधा:
शक्तिमतमिति वर्तते ।
सर्वस्यागामिना इतिशब्देन सम्बन्धः ।
देवी महती सर्वोत्कृष्टेति शक्तिमतमिति ।
कथं महतीत्यत उक्तम्- सर्वकारणमिति ॥
सकलजगत्सृष्टयादिकारणत्वात् सार्वज्ञादिसर्वगुणवती समस्तदोषदूरा भ(ग)वतीत्यतः सर्वोत्कृष्टेति ।
नन्विदं शास्त्रमन्योन्यव्याहतं कथं प्रमाणं स्यात् ।
भुवनेश्वरीतन्त्रे हि सैव महती सर्वकारणमिति चोच्यते ।
त्रिपुरातन्त्रे तु त्रिपुरैव ।
तथा भैवरीतन्त्रे भैरवी ।
एवं कुब्जिकादितन्त्रेष्वन्या चान्या च ।
नच बह्वीनां सर्वोत्तमत्वमुपपद्यत इत्यत उक्तम् ।
ह्रीङ्कारी त्रिपुरा भैरवीत्यादिनामभिः सा भगवत्येकैवाभिधीयते ।
अतो न (नान्योन्य) व्याघात इति ।
शाक्ताश्च त्रिविधाः ।
महावामा मध्यवामा अणुवामाश्चेति ।
एत एव क्वचिच्छाक्तशाम्भवाऽणशब्दैरुच्यन्ते ।
तत्राद्यानां मतविशेषं दर्शयति- तस्या इति ॥
तस्याः सदाशिवाद्याश्च जायन्ते देवमानुषाः ।
भूतभौतिकमप्येतदिति ... ॥ मनुव्_2,2.278अ-द् ॥
न्यायसुधा:
तस्याः केवलाया एव शक्तेः ।
सदाशिवग्रहणेन मतान्तराद्भेदो दर्शितः ।
तत्र सदाशिवस्य शक्तितो जन्मानभ्युपगमात् ।
एवमुपन्यस्तं महावाममतं तावदयुक्तमित्याह- तदिति ॥
... तन्नोपपद्यते
*8,437*
न्यायसुधा:
निरन्तरोपन्यस्तं महावाममतं तदिति परामृशति ।
कुत इत्याकाङ्क्षायां सूत्रम् उत्पत्त्यसम्भवादिति ।
तद्वयाख्यातुं तावद्वयाप्तिमुपपादयति- दृष्टेति ॥
दृष्टा पुम्भ्यः सदा सृष्टिः स्त्रीपुम्भ्यो वा विशेषतः ।
केवलाभ्यो नहि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात्
नार्च्यं महावाममतं ...
*8,438*
न्यायसुधा:
अत्र सृष्टिशब्देनापत्त्योत्पत्तिर्विवक्षिता न सृष्टिमात्रम् ।
तस्य केवलाभ्यो ऽपि स्त्रीभ्यो दर्शनात् ।
सदेति व्यभिचाराभावं सूचयति ।
वाशब्दस्तुशब्दार्थः ।
विशेषतः प्राचुर्येण ।
केषाञ्चिदेव हि द्रोणादीनां सृष्टिः केवलेभ्यः पुरुषेभ्यो दृष्टा ।
नन्वचतुरादिसूत्रेण स्त्रीपुंसेभ्य इति भवितव्यम् ।
स्त्रीपुंभ्य इति कथम् ।
"समासान्तो विधिरनित्यःऽ; इति भविष्यति ।
यद्वा द्वन्द्वात्परः समासान्तो ऽसौ निपातितः ।
अत्र तु स्त्रीभिः सहिताः पुमांसः (स्त्रीमुमांसस्ते)तेभ्य इति न द्वन्द्व इति न भविष्यति ।
केवलाभ्यः पुरु(षानुग्रहहीनाभ्यः)षाननुगृहीताभ्यः ।
ततः किमित्यतः सूत्रं व्याख्याति- तत इति ॥
यत एवं व्याप्तिर्यतश्च प्रकृता(तिः) केवला ।
शिवादीनां ततो जन्माङ्गीकारात् ।
ततः कारणात्ततः शक्तेरपत्योत्पत्त्यसम्भवात् इत्यर्थः ।
*8,439*
अयमत्र प्रयोगः ।
आदिकालीनापत्त्योत्पत्तिर्न केवलस्त्रीकृता(कर्तृका) अपत्योत्पत्तित्वात् ।
यापत्त्योत्पत्तिः सा न केवलस्त्रीकर्तृका ।
यथा सम्प्रतिपन्ना ।
सा हि कदाचित् पुरुषमात्रात्क्वचित्पुरुषानुगृहीताभ्यः स्त्रीभ्यो दृष्टा ।
न पुनः क्वापि केवलाभ्यः स्त्रीभ्यो दृष्टा ।
येनोक्तव्याप्तेर्व्यभिचारः स्यादिति ।
यद्वा शक्तिर्नापत्त्यप्रसवित्री केवलस्त्रीत्वात्सम्प्रतिपन्नकेवलस्त्रीवत् ।
अत्र केवलाभ्यो न हि स्त्रीभ्य इत्यन्वयकथनं दृष्टेत्यादि तद्वयभिचारपरिहारार्थमिति ज्ञातव्यम् ।
यदि वा केवलस्त्रीत्वान्नापत्यप्रसवित्री चेच्छक्तिः स्यात्तदा केवलपु(लात्पु)रुषत्वात् पुरुषोत्तमो ऽपि तथा न स्यादित्याक्षेपमपाकर्तुं प्रागेव दृष्टेत्याद्युक्तम् ।
असिद्धं च केवलत्वं तस्य लक्ष्मीपतेरित्याशयेन स्त्रीपुंभ्य इत्युक्तम् ।
केवलाभ्य इति तु व्याप्त्युपपादकम् ।
अथवा यत्"निराकृतौ विशेषस्य भावात्ऽ; इत्यनेनास्य दोषस्यासाधारणत्वमुक्तम् तदुपपादनाय दृष्टेत्याद्युपन्यासः ।
*8,441*
इदानीमधिकाशङ्कया मतान्तरमुत्थापयति- वामैरिति ॥
... वामैरन्यदुदीर्यते
न्यायसुधा:
मध्यवामैरित्यर्थः ।
अन्यत् महावामसिद्धान्तात् ।
किं तदित्यत आह- शिवेति ॥
शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः
इति ...
न्यायसुधा:
शिव उपसर्जनं यस्याः सा शिवोपसर्जना ।
इदमित्यस्यैव व्याख्यानं समन्ततो देशे काले च वर्तमानं कार्यमिति ।
एतदुक्तं भवति ।
नोत्पत्त्यसम्भवो ऽस्मन्मते ऽस्ति ।
अस्माभिः शिवसहितायाः शक्तेर्विश्वप्रस(भ)वस्याङ्गीकृतत्वात् ।
नचैवं (त)द्वयोः सर्वोत्कृष्टत्वं विरुद्धमापद्यते ।
शिवस्य शक्तिं पत्युपसर्जनत्वाङ्गीकारादिति ।
एतत्प्रतिषेधति- तच्चेति ॥
... तच्चोपपन्नं न ...
न्यायसुधा:
अत्राप्युत्पत्त्यसम्भवस्यापरिहारादिति भावः ।
न च कर्तुः करणम्
... शिवस्याकरणत्वतः ।
अदेहत्वाद् ...
*8,441f.*
न्यायसुधा:
अकरणत्वत इत्यस्यैव स्वपदस्य वर्णनमदेहत्वादिति ।
यद्वाकरणत्वतो ज्ञानादिकारणाभावादित्यर्थः ।
तदेव कथमित्यतो ऽकरणत्वतो निरिन्द्रियत्वादित्युक्तम् ।
तदपि कुत इत्यत उक्तमदेहत्वादिति ।
एतदुक्तं भवति ।
देहवता हि शिवेनापत्योत्पत्तौ शक्तेः साचिव्यमाचरणीयम् ।
न विदेहेन ।
तस्य प्र(वि)लीनवदिन्द्रियादिविज्ञानादिविकलस्य तदनुपपत्तेः ।
नच शिवदेहोत्पत्तौ केवलायाः शक्तेः शक्तिरस्ति ।
प्रागुक्तदोषात् ।
अन्यथात्रापि तथोपपत्तौ शिवाङ्गीकारवैयर्थ्यापत्तेश्च ।
नच शिवसहितायाः ।
विदेहस्य साहाय्यकरणानुपपत्तेः ।
अतः अङ्गीकृतस्यापि शिवस्याजागलस्तनायितत्वेनात्राप्युत्पत्त्यसम्भव एवेति ।
मतान्तरमुत्थापयति- अपि हीति ॥
... अपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम्
अणुवामा ...
*8,443*
न्यायसुधा:
अन्ये ऽपीत्यन्वयः ।
तानेव विशेषनाम्नाऽह- अणुवामा इति ॥
अस्य मतस्य लोके प्रचुरतां सूचयितुं हिशब्दः ।
सर्वज्ञमित्युपलक्षणम् ।
जगत्सृष्टयाद्युपयुक्तसकलकारणोपेतम् ।
इदमुक्तं भवति ।
शिवसहिता शक्तिर्जगज्जननीत्यभ्युपच्छतो मम नोक्तदोषः ।
शिवस्य स्वाभाविकसार्वज्ञादिमत्त्वेन देहेन्द्रियानपेक्षणात् ।
लीलाविग्रहग्रहणेन शक्तिसाहाय्यकरणस्या(सम्भोगस्या)प्युपपत्तेरिति ।
तदिदं दूषयति- न तदिति ॥
... न तद्युक्तम् ...
न्यायसुधा:
कुत इत्यत्र सूत्रम् ओं विज्ञानादिभावे वा तदप्रतिषेधः ओं ॥
इति ।
तस्यार्थः ।
शिवस्य विज्ञानादिभावे अङ्गीकृते तस्य मतस्य प्रतिषेधो न क्रियत इति ।
नन्विदं मतमनुमानं न वा ।
नाद्यः ।
उक्तार्थविरुद्धत्वात् ।
न तद्युक्तमित्यस्य चायोगात् ।
द्वितीये कथं तदप्रतिषेध इत्युक्तम् ।
कथं च न तद्युक्तमित्यत्रास्य हेतुत्वमित्यतस्तदप्रतिषेध इति निवेशयितुमुत्सूत्रं तावद्धेतुमाह- ईशेति ॥
विज्ञानादिभावे वा तदप्रतिषेधः
... ईशवादप्रवेशनात्
न्यायसुधा:
शैवमतप्रवेशापत्तेरित्यर्थः ।
*8,444*
ननु शैवाः सार्वज्ञादिगुणोपेतं शिवमेकमेवाभ्युपयन्ति ।
शाक्तास्तु शिवं शक्तिं चेत्यस्ति महान्सिद्धान्तभेदः ।
तत्कथं शाक्तानां शैवमतानुप्रवेश इत्यत आपादितदोषो ऽयमित्याशयवानाह- सार्वज्ञादीति ॥
सार्वज्ञ्यादिगुणैर्युक्तं गुरुकल्पनया द्वयम्
न युज्यते ...
न्यायसुधा:
सत्यं शाक्तैः सार्वज्ञादिगुणैर्युक्तं शिवशक्त्याख्यं द्वयमभ्युपगतमिति ।
तत्तु न युज्यते ।
कल्पनागौरवात् ।
तथाहि ।
न तावत्सार्वज्ञाद्युपेतं प्रत्यक्षेण सिद्धम् ।
परचित्तवृत्तीनां परं प्रत्यतीन्द्रियत्वात् ।
नाप्यागमेन ।
शक्तागमस्य प्रामाण्यसन्देहात् ।
अपौरुषेयागमस्य परेण प्रामाण्यानादरणात् ।
आदरणे वा तत एव स्वमतहानेः ।
ततः प्रपञ्चरचनानुपपत्त्यैव तथाविधं वस्तु कल्पनीयम् ।
एकेनैव सार्वज्ञादिमता सर्वं निर्वहत्येव ।
तथाच वृथा तथाभूत(वस्तु)द्वयकल्पने कल्पनागौरवमेव ।
अत एकमेव तादृशं वस्त्वङ्गीकार्यमिति ।
ततः किमित्यत आह- तत इति ।
... ततस्त्वीश एक एव प्रयोजकः
न्यायसुधा:
उक्तहेतोरेकस्यैव सार्वज्ञादिमतो ऽङ्गीकार्यत्वे केवलशक्तेरङ्गीकृतावुत्पत्त्यसम्भवप्रसङ्गादीश एव सार्वज्ञाद्युपेतः प्रपञ्चरचनायाः प्रयोजकः शाक्तैरङ्गीकर्तव्यः स्यात् ।
एवञ्च कथं न शैवमतप्रवेशः शाक्तमतस्येति ।
*8,445*
किमतो यद्येवम् ।
शाक्तस्यापसिद्धान्तेन पराजयः स्यादिति चेत्सत्यम् ।
तावतापि भगवत्सिद्धान्तानवकॢप्तिरेव ।
शैवमतस्यापि भवत्सिद्धान्तविरोधित्वेन निराकतर्व्यत्वादित्यतस्तदप्रतिषेध इति सूत्रांशं सोपपत्तिकं निवेशयति- उक्तेति ॥
उक्तदोषश्च तत्पक्ष इति नैवात्र दूष्यते
न्यायसुधा:
यतः शैवपक्षो निरन्तरातीताधिकरण एवोक्तदोषो ऽतो ऽत्र न पुनर्दूष्यते पुनरुक्तिदोषभयादिति ।
एवं प्रत्येकमपाकृतानि त्रीण्यपि मतानि साधारणदूषणेन निराकर्तुं सूत्रम् ।
ओं विप्रतिषेधाच्च ओं इति ॥
तद्व्याचष्टे- श्रुतीति ॥
विप्रतिषेधाच् च
श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः ।
सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम्
न्यायसुधा:
सतां मध्ये जुगुप्सितत्वात् गोप्तुमिष्टत्वात् ।
यद्वा कर्तृकर्मणोः कृतीति कर्तरि षष्ठी ।
सद्भिर्निन्दितत्वादित्यर्थः ।
हिशब्देन श्रुत्यादीनां प्रसिद्धतां द्योतयति ।
*8,447*
केचिदिमां चतुःसूत्रीं भागवतमतनिराकरणपरतया व्याचक्षते ।
तथाहि ।
पाञ्चरात्रिका वासुदेवात्सङ्कर्षणो नाम जीवो जायते सङ्कर्षणात्प्रद्युम्नसंज्ञकं मनो जायते ।
प्रद्युम्नादनिरुद्धसंज्ञको ऽहङ्कारो जायत इति प्रक्रियामाहुः ।
तत्र सूत्रम्- उत्पत्त्यसम्भवादिति ॥
वासुदेवात्सङ्कर्षणो नाम जीवो जायत इति तावदयुक्तम् ।
जीवभ्योत्पत्त्यसम्भवात् ।
उत्पत्तिमतो हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरन् ।
ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात् ।
न जायते(न)म्रियत इत्यादिश्रुतिस्मृतिविरोधाच्च ।
नच कर्तुः करणम् ।
सङ्कर्षणसंज्ञकाज्जीवात्प्रद्युम्नसंज्ञकस्य मनसो जन्मापि पञ्चरोत्रोक्तं नोपपद्यते ।
नहि लोके कर्तुर्देवदत्तादेः (करणं) परश्वधाद्युत्पद्यमानं करणं दृश्यते ।
यदा चोत्पद्यते तदा कर्मैव न करणम् ।
जीवस्य कर्ता मनश्च करणम् ।
ततस्तन्न ततो जनिमद्भवितुमर्हति ।
एतस्माज्जायते प्राणो मनःसर्वेन्द्रियाणि चेतांश्वरादेव मनोजननश्रवणाच्च ।
एतेन प्रद्युम्नादनिरुद्धसंज्ञको ऽहङ्कारो जायत इत्यपि प्रत्युक्तम् ।
अथापि स्यात् ।
नैवैते सङ्कषर्णादयो जीवादिभावेनाभिप्रेयन्ते ।
किं तर्हीश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वरैर्धर्मैरन्विता अभ्युपगम्यन्ते ।
तस्मान्नायं दोष इति ।
अत्र परिहारं पठति विज्ञानादिभावे वा तदप्रतिषेधः ।
परमात्मनो वासुदेवस्येव सङ्कर्षणादीनामपि विज्ञानादिषाड्गुण्यसद्भावे तत एव चेश्वरत्वे ऽभ्युपगम्यमाने ऽपि तस्योत्पत्त्यसम्भवदोषस्याप्रतिषेधः ।
प्रकारान्तरेण प्राप्नोत्येवायमुत्पत्त्यसम्भवदोषः ।
तथाहि ।
न तावदेते चत्वारः परस्परं भिन्नाः ।
अनेकेश्वरकल्पनायां गौरवादिदोषापत्तेः ।
अभेदे तु कथं स्वत एव स्वस्योत्पत्तिः सम्भवेत् ।
निरतिशयत्वात् ।
नचैते भगवद्व्यूहाश्चतुःसङ्खयायामेवावतिष्ठेरन् ।
तद्व्यूहानामनन्तत्वाभ्युपगमात् ।
विप्रतिषेधाच्च ।
परस्परविरोधश्च पञ्चरात्रे भवति ।
ज्ञानैश्वर्यबलवीर्यशक्तितेज्सां भगवतो गुणा इति क्वचिदुच्यते ।
आत्मान एवैते भग(वतो)वन्तो वासुदे(वा इ)वस्येति क्वचिद्भगवत्स्वरूपत्वमित्यदि ।
वेदप्रतिषेधश्चात्र भवति ।
भगवाञ्छाण्डिल्यः षडङ्गं वेदमधीत्य तस्मिन्महत्याम्नाये निष्ठामनधिगच्छन्यः सर्वपरो धर्मो यस्मान्न भूयो ऽस्ति कथं तं विद्यामित्येवं बलवद्विवेकमातिष्ठमानो बभूव ।
तत्र भगवते शाण्डिल्याय भगवता सङ्कर्षणेन व्यक्तेन शब्दवच्छास्त्रं प्रोक्तमिति वेदनिन्दादर्शनात् ।
तथा चान्यत्र ।
"अधीता भगवन्वेदाः साङ्गोपाङ्गाः सविस्तराः ।
श्रुतानि च मयाङ्गानि वाको वाक्ययुतानि च ।
"न चैतेषु समस्तेषु संशयेन विना क्वचित् ।
श्रेयोमार्गं प्रपश्यामि येन सिद्धिर्भविष्यतिऽ; इति ।
तस्मादयुक्तं पञ्चरात्रशास्त्रमिति ।
*8,448*
तामिमामपव्याख्यां प्रत्याख्याति- पञ्चरात्रेति ॥
पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि ।
सूत्राण्यतिविरुद्धं तद् ... ॥ मनुव्_2,2.285अ-च् ॥
न्यायसुधा:
आचक्षते व्याचक्षते ।
यदित्यस्यार्थे यदिशब्दः ।
तद्वयाख्यानमति(अति)शयेन विरुद्धं स्वव्याहतं प्रमाणान्तरप्रतिहतं चेत्यर्थः ।
तत्कथमित्यतः स्वव्याहतिं तावदुपपादयति- यत इति ॥
... यत आह स भारते
न्यायसुधा:
यस्मात्सूत्रकार एव भारते पञ्चरात्रस्य प्रामाण्यमाह ।
तस्मादत्र तन्निराकरणे सूत्रकारस्य स्ववचनव्याहतिः स्यादित्यर्थः ।
*8,449f.*
तद्भारतवचनमुदाहरति- पञ्चरात्रस्येति ॥
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।
ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद् विशिष्टते
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप ।
एकान्तभावोपगता वासुदेवं विशन्ति ते
इति ...
*8,450*
न्यायसुधा:
"साङ्खयं योगः पाशुपतं वेदारण्यकमेव च ।
ज्ञानान्येतानि भिन्नान्युताहो नेति चोच्यताम्ऽ; इति ।
ज्ञानकारणत्वज्ज्ञानशब्दवाच्यानि साङ्खयादीनि शास्त्राण्यन्योन्यविरुद्धान्युताविरुद्धानीति प्रश्नस्य"साङ्खयं योगः पाशुपतं वेदारण्यकमेव च ।
ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणाऽ; इति परिहारो ऽभिहितः ।
ततः पुनर्वस्तुविकल्पानुपपत्तेः परस्परविरुद्धानां सर्वेषां प्रामाण्ययोगादेतेषु किं प्रमाणमिति जिज्ञासायां,"साङ्खयस्य वक्ता कपिलःऽ; इत्यादिना साङ्खयादीनामनाप्तकर्तृत्वमभिधाय प्राग्वेदारण्यकपदोपलक्षितस्य पञ्चरात्रस्य परमाप्तत्वेन नारायणेन प्रणीतत्त्वात्प्रामाण्यमित्यनेन वाक्येनोच्यते ।
वेदानां त्वपौरुषेयतया स्वत एव प्रामाण्यं सिद्धमेवेति नोक्तम् ।
फलवत्प्रवृत्तिजनकत्वादपि पञ्चरात्रस्य प्रामाण्यमिति ।
पञ्चरात्रविद इत्यनेन वाक्येनोच्यते ।
यथाक्रमपरा देवतातारतम्यपराः ।
एकान्तभावोपगताः अव्यभिचारिणीं भक्तिं प्राप्ताः ।
प्रकारान्तरेण स्वव्याहतिमाह- गीता चेति ॥
... गीता च तच्छास्त्रसङ्क्षेप इति हीरितम्
न्यायसुधा:
तच्छास्त्रसङ्क्षेपः पञ्चरात्रसङ्क्षेप इति हीरितम् ।
"ब्रह्मरुद्रेन्द्रसूर्याणां यद्दत्तं विष्णुना पुरा ।
पञ्चरात्रात्मकं ज्ञानं व्यासो ऽदात्पाण्डवेषु तत् ।
तेषामेवावतारेषु सेनामध्ये ऽर्जुनाय च ।
प्रादाद्गीतेति
विनिर्दिष्यं(विज्ञातं)(विख्यातं) सङ्क्षेपेणायुयुत्सवेऽ; (ते) इत्यादिना पुराणवाक्येनेति शेषः ।
ततः प्रमाणतया पञ्चरात्रसङ्क्षेपरूपां गीतां प्रणीतवतो बादरायणस्य पञ्चरात्रप्रामाण्यमनुमतमेवेति पुनरत्र तन्निराकरणे कथं स्वव्याहतिर्न भवेदिति ।
स्वव्याहतिं प्रकारान्तरेण दर्शयति- वेदेनेति ॥
वेदेन पञ्चरात्रेण भक्तया यज्ञेन चैव हि
दृश्यो ऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि ।
इति वाराहवचनं ... ॥ मनुव्_2,2.289अ-च् ॥
*8,451*
न्यायसुधा:
एवं वराहपुराणे भगवद्दर्शनसाधनत्वेन वेदवत्पञ्चरात्रस्य प्रामाण्यमभ्युपगम्येह पुनस्तन्निराकरणे व्याघात एवेति ।
*8,452*
एवं स्वव्याहतिमुपपाद्य प्रमाणान्तरविरोधं दर्शयति- श्लोका इति ॥
... श्लोका इति वचः श्रुतौ
*8,452f.*
न्यायसुधा:
वचः अस्तीति शेषः ।
"ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरस इतिहासपु(सःपु)राणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानिऽ; इत्यस्यां श्रुतौ ऋग्वेदादिप्रमाणोद्देशप्रसङ्गे श्लोका इति पञ्चरात्रमुपात्तम् ।
"पञ्चरात्रविदो मुख्याःऽ; इति प्रकृतपञ्चरात्रविषयत्वेन"ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः ।
कृतं शतसहस्रं हि श्लोकानां हितमुत्तमम्ऽ; इति श्लोकशब्दस्य भारते प्रयोगात् ।
छन्दोगश्रुतौ ऋग्वेदो यजुर्वेद इत्यारभ्यैकायनमिति पञ्चरात्रमुच्यते ।
तत्समाख्यया श्लोकशब्दः पञ्चरात्रविषयो ऽशेषो(ऽवगम्यते)ज्ञायते ।
अतः श्रुत्या पञ्चरात्रप्रामाण्यं सिद्धमिति तदप्रामाण्यवादः श्रुतिविरुद्धः ।
स्पष्टश्रुतिविरोधं च दर्शयति- वेदैश्चेति ॥
*8,453*
वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः
न्यायसुधा:
वेदपञ्चरात्रोक्तप्रकारेणणेत्यर्थः ।
संहिताभेदात्पञ्चरात्रैरिति बहुवचनम् ।
परस्परविरुद्धशास्त्रद्वयानुसारेण कथं ध्यानमित्यत उक्तम्- पञ्चरात्रं चेति ॥
इत्यादिवेदवचनैश्च पञ्चरात्राप्रामाण्यकथनं विरुद्धमिति शेषः ।
ततः किमित्यत आह- पञ्चरात्रमिति ॥
पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते
इत्यादिवेदवचनैः पञ्चरात्रमपोद्यते ।
कथमेव ... ॥ मनुव्_2,2.291अ-च् ॥
न्यायसुधा:
यत एवं पञ्चरात्रनिराकरणं स्वव्याहतं प्रमाणान्तरव्याहतं च ।
अतो ऽत्र सूत्रकारेण पञ्चरात्रं अपोद्यते दूष्यत इति कथमे(वं)व वक्तुं शक्यते ।
नहि व्याहतभाषी भगवानिति ।
*8,454*
स्यान्मतम् ।
नास्त्ययं व्याघातः ।
"यो ऽसौ नारायणः परो ऽवक्तात् प्रसिद्धः परमात्मा स आत्मनाऽत्मानमनेकधा व्यूह्य व्यवस्थितः ।
तमित्थम्भूतं षाड्गुण्यविग्रहं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैः पञ्चकालाभि(धैर)धानैरनेककालमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपाद्यतेऽ; इत्यादेः पञ्चरात्रादितस्यार्थस्य स्वीकृतत्वात् ।
तत्परतैव भारतादिवाक्यानामुपपत्तेरिति ।
मैवम् ।
एवं सति साङ्खयादिशास्त्रेष्वप्युपादेयांशस्य विद्यमानत्वेन विशेषतः पञ्चरात्रप्रामाण्याभिधानानुपपत्तेः ।
कृत्स्नस्येति विशेषणानुपपत्तेश्च ।
"ऋगाद्या भारतं चैव पञ्चरात्रमथाखिलम् ।
वेदार्थपूरकं ज्ञेयं पञ्चरात्रं यतो ऽखिलम्ऽ; इत्यखिलशब्दविरोधाच्चेति ।
*8,455*
इतश्च न पञ्चरात्रदूषणं युक्तमित्याह- अत्रेति ॥
... अत्र दोषः कः ...
न्यायसुधा:
अत्र पञ्चरात्रे को दोषो येन तन्निराक्रियेत न को ऽपीत्यर्थः ।
ननु कथं दोषो नास्ति जीवोत्पत्तेरसम्भावितायास्तत्रोक्तत्वादित्यतो ऽङ्गीकारवादेनाह- उत्पत्तिरिति ॥
... उत्पत्तिर्ज्ञो ऽत इत्यपि
इहैवोक्ता ...
न्यायसुधा:
किं जीवोत्पत्यभिधानमात्रं पञ्चरात्राप्रामाण्यहेतुतयोपादीयते ।
उताभूतभवनरूपजीवोत्पत्त्यभिधानम् ।
आद्ये तूत्पत्तिमात्रं इहैव, प्रमाणतयाभ्युपगते मीमांसाशास्त्रे,"ज्ञो ऽत एवऽ; इति सूत्रेणोक्तम् ।
अपिपदेन"सर्व एव (वै) त आत्मानो व्युच्चरन्तिऽ; इति श्रुतावुक्तेति समुच्चिनोति ।
ततो वेदतन्मीमांसयोरप्यप्रामाण्यं स्यात् ।
अन्यथा हेतोरनैकान्त्यापत्तेरिति भावः ।
"ज्ञो ऽत एवऽ; इति सूत्रार्थे विप्रतिपन्नं प्रति श्रुतिरेवोदाहतर्व्या ।
स्यादेतत् ।
द्वितीय एव हेतुरुपादीयते ।
नचासौ श्रुतिसूत्रयोर्वर्तते ।
तत्र हि प्राग्विद्यमानस्यैव जीवस्य देहाद्युपाध्यपेक्षयैवोत्पत्तिरुच्यते ।
नत्वभूतभावलक्षणेत्यत आह- नचेति ॥
... नचाभूतभावस्तत्रापि कथ्यते
*8,456*
न्यायसुधा:
तत्रापि पञ्चरात्रे ऽपि ।
यथा हि श्रुतिसूत्रयोः प्रतीतमपि जीवजननमभूतभवनं विहाय उपाधिविषयं व्याख्यायते ।
तथा पञ्चरात्रोक्तमपि तत्तथा व्याख्यायताम् ।
ततश्च स्वरूपासिद्धो हेतुरिति भावः ।
जोस्हि-7
*8,457*
नु विषमो ऽयमुपन्यासः ।
श्रुतिसूत्रयोः खलु"अनादिमायया सुप्तःऽ; ।
"नानादित्वात्ऽ; इत्यादिनानादिकर्म(कर्मादि)सम्बन्धो ऽभिधीयते ।
न ह्यभूत्वा (भवतो)भाववतो जीवस्यासावुपपद्यते ।
अतस्तदनुरोधात्तत्र प्रतीतमपि जीवजननमन्यथा नेतव्यमेव ।
नच तथाविधं बाधकमिहास्ति ।
येन मुख्यार्थं परित्याज्यामुख्यार्थं प्रतिपद्येमहि ।
ततो मुख्यार्थे ग्राह्ये न हेतोरसिद्धिरित्यत आह- अनादीति ॥
अनादिकर्मणा बद्धो जीवः संसारमण्डले
वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः
न्यायसुधा:
तद्वचः पञ्चरात्रवाक्यम् ।
श्रुतिसूत्रवत्पञ्चरात्रे ऽपि जीवस्यानादिकर्मसम्बन्धाभिधानात्तदनुरोधेन तत्रोक्तं जीवजननमप्यन्यथाव्याख्यातव्यमेव ।
पक्षपाते कारणाभावात् ।
तथाच हेतोरसिद्धिस्तदवस्थेत्यर्थः ।
अथापि स्यात् ।
न कुत्रापि वेदादौ संसारसादित्वादिकं जीवानामभूत्वाभवनज्ञापकं स्पष्टमुक्तम् ।
अतः सावकाशमिदमन्यथा योज्यमेवेति चेत् ।
एतदपि समानमत्रेति भावेनाह- नहीति ॥
*8,458*
न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित्
न्यायसुधा:
अनेनैव न्यायेन"नच कर्तुः करणम्ऽ; इत्येतदप्यपाकरणीयम् इति ।
तथाहि ।
किं करणं कर्तुर्न जायत इति व्याप्तिः किं वा यस्यां क्रियायां यत्करणं तत्तत्क्रियाकर्तुर्न जायत इति ।
नाद्यः ।
व्यभिचारात् ।
अन्यथा करणानामनुत्पत्तिप्रसङ्गात् ।
न द्वितीयः ।
प्रकृते ऽपि तथाभावासिद्धेः ।
एतस्माज्जायत इति श्रुतिविरोधो ऽपि किं जीवान्मनसो जननमात्राभ्युपगमे स्यात् ।
उत जननविशेषाभ्युपगमे ।
नाद्यः ।
"अन्नमशितं त्रेधा विधीयतेऽ; इत्यादिश्रुतेः प्रत्यहं मनसो जीवादुत्पत्तेः ।
न द्वितीयः ।
तथात्वस्य प्रकृते ऽप्यसम्मतेः ।
एवं मनसो ऽप्यहङ्कारजन्मनि दोषः परिहरणीयः ।
*8,460*
एवं जीवादिपदानां यथाश्रुतार्थाभ्युपगमेन सूत्रद्वयारोपितदोषपरिहारो ऽ(वि)भिहितः ।
इदानीं वासुदेवात्सङ्कषर्णो नाम जीवो जायत इत्यादिवाक्यस्य परकल्पितादर्थादर्थान्तरमाह- जीवेति ॥
जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु ।
वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा
मनो ऽभिमानिनः कामस्यैवं ...
न्यायसुधा:
जीवशब्दस्य प्रवृत्तिनिमित्तमुपपादयितुं जीवाभिमानीत्युक्तम् ।
सङ्कर्षणस्य भगवतो जनेरभावात्तद्व्युदासाय नाम्ना सङ्कर्षणस्य शेषस्येत्युक्तम् ।
प्रोक्ता वासुदेवादित्यादिना वाक्येन ।
ततः सङ्कर्षणात् ।
तथाशब्दः समुच्चये ।
जनिः प्रोक्तेत्यर्थः ।
मनोभिमानिनः कामस्येत्यस्य पूर्ववदेव प्रयोजनम् ।
एवंशब्देन प्रद्युम्नादनिरुद्धसंज्ञको ऽहङ्कारो जायत इत्यत्राप्युक्तव्याख्यानन्यायमतिदिशति ।
प्रद्युम्नादहङ्काराभिमानिनः कामपुत्रस्यानिरुद्धस्य जनिः प्रोक्तेति ।
*8,461*
नन्वेवमप्युत्पत्त्यसम्भवदोषस्तदवस्थः शेषादीनामपि जीवत्वादिति ।
मैवम् ।
न ह्यत्र सङ्कर्षणादीनामुत्पत्तिरुच्यते ।
किन्तु जायत इत्रत जनिरुच्यते ।
जनिश्च प्रादुर्भावः ।
जनी प्रादुर्भाव इति पठन्ति ।
प्रादुर्भावश्च शरीरोत्पत्तौ जीवस्य सुप्रसिद्धः ।
तदिदमुक्तं जनिः प्रोक्तेति ।
अत एव पूर्वो ऽभ्युपगमवादः ।
अर्थान्तरमप्याह- साक्षादिति ॥
... साक्षाद्धरेः क्वचित् ।
सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः ।
व्यूह उक्तो ... ॥ मनुव्_2,2.295ब्-ए ॥
न्यायसुधा:
शेषादयो ऽपि (हि) भगवदंशत्वाद्धरित्वेनोच्यते ।
तद्व्युदासाय साक्षादित्युक्तम् ।
साक्षाद्धरेरेव सङ्कर्षणादिनाम्ना व्यूह उक्त इत्यन्वयः ।
नन्वत्रोक्तं तदप्रतिषेधो हरेरुत्पत्त्यभावादित्यत उक्तं व्यूहो विभाग एवोक्तो न तूत्पत्तिरिति ।
यदप्युक्तं किमेते ऽन्योन्यं भिन्ना उत नेति ।
तस्योत्तरं हरेः एकस्यैवेति ।
नन्वेवं तर्हि निरतिशयत्वात्कथं स्वस्मादेव स्वस्य विभाग इत्यत उक्तम्- नित्येति ॥
किन्नाम दुर्विभाव्यं भगवति यत्प्रमितमित्यर्थः ।
यदप्युक्तं नैवेते भगवद्व्यूहाश्चतुःसङ्खयामेव परिनिष्ठिताः अनन्तत्वादिति ।
तत्रोत्तरं क्वचिदिति ।
कालविशेषे प्रयोजनविशेषे चेत्यर्थः ।
अनभिज्ञो भ(ग)वान्भागवतसम्प्रदायस्य ।
आदिकाले हि भगवान्नारायणो निजमुक्तिपदप्रदानाद्यर्थं वासुदेवादिचतुर्व्यूहो बभूव ।
ततः कालान्तरे प्रयोजनान्तरार्थं दशद्वादशादिव्यूहो जातः ।
सेयं शुद्धसृष्टिरिति पाञ्चरात्रिकैरभिधीयते ।
तदपेक्षया चतुर्व्यूहवर्णनं कथं नामानुपपन्नमिति ।
एवमधिकारिविशेषाराधनार्थमियमुक्तिर्युक्तैव ।
यथोक्तम् "एकमूर्तिश्चतुर्मूतिरथवा पञ्चमूर्तिकः ।
द्वादशादिप्रभेदो वा पूज्यते सज्जनैर्हरिःऽ; इति ।
*8,463*
अर्थान्तरकथनस्य प्रयोजनमाह- अन्यथेति ॥
... ऽन्यथानूद्य कथं दुष्टत्वमुच्यते
न्यायसुधा:
एवमर्थान्तरविवक्षया प्रयुक्तस्य वाक्यस्यान्यथानुवादं विधाय दूषणाभिधानं कथं क्रियते ।
छलप्रसङ्गादिति ।
नच जीवादिशब्दानामनुपपत्तिः ।
भगवत एव मुख्यतः प्राणधारणादिमतस्तदथर्त्वात् यच्च विप्रतिषेधाच्चेति सूत्रार्थतया कल्पितं परस्परव्याघातो ऽस्ति पञ्चरात्र इति ।
तदपि नित्याचिन्त्योरुशक्तित इत्यनेनैव परिहृतम् ।
भगवच्छक्त्यैव गुणगुण्यादिव्यवहारोपपत्तिरिति ।
समर्थितश्च भेदपदे ऽभिषिक्तः प्रमितसर्वनिर्वाहहेतुर्विशेषः ।
यदप्युक्तं शाण्डिल्यवृत्तान्तकथने पञ्चरात्रस्य वेदविद्वेषः प्रतीयत इति ।
तत् निराकरोति- यदीति ॥
यदि विद्याच्चतुर्वेदानितिवद् वेदपूरणम् ।
पञ्चरात्रादिति कुतो द्वेषः शाण्डिल्यवर्तने
*8,463f.*
न्यायसुधा:
"यदि विद्याच्चतुर्वेदान्साङ्गोपनिषदान्द्विजः ।
नचेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणःऽ; इत्यत्र वाक्ये यथेतिहासपुराणादितो वेदपूरणमभिप्रेयते ।
तथात्रापि पञ्चरात्राद्वेदपूरणमेवाभिप्रेतं इति व्याख्याने सति, शाण्डिल्यवर्तने ऽभिधीयमाने पञ्चरात्रस्य वेदविद्वेषः प्रतीयत इति कुतः ।
न प्रतीयत इत्यर्थः ।
यद्वैवं वाक्यद्वये समाने सति शाण्डिल्यवर्तनाभिधायिन्येव वाक्ये भवतो द्वेषः कुतो येन यदि विद्यादित्येतदितिहासपुराणयोर्वेदपूरकत्वाभिप्रायमादाय"भगवान् शाण्डिल्यःऽ; इत्यादिकं पञ्चरात्रस्य वेदविरोधित्वाभिप्रायमिति व्याख्यायत इति ।
*8,464*
अयमत्रोत्तरक्रमः ।
यद्येतद्वाक्यबलात्पञ्चरात्रस्य चेदविरोधित्वं कल्प्यते ।
तदा यदि विद्यादिति वाक्यबलादितिहासपुराणयोरपि तत्कल्प्यतां विशेषाभावात्(मविशेषात्) ।
अथ तत्र इतिहासादेर्वेदपूरकत्वमभिप्रायः ।
अत्रापि स एव कल्प्यताम् ।
विशेषाभावात् ।
"इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्ऽ; इत्युत्तरवा(क्यविरो)क्यानुरोधात्तथा कल्पनं युक्तमिति चेत् ।
अत्रापि"वेदार्थपूरकं ज्ञेय पञ्चरात्रम्ऽ; इत्यादिवाक्यानुरोधात्तथा कल्पनमिति न कश्चिद्विशेषः ।
अन्यत्र विद्वेषादिति परमसंहितावाक्यमप्येवमेव व्याख्यातव्यम् ।
अपव्याख्याननिराकरणमुपसंहरति- अतः परमेति ॥
अतः परमशास्त्रोरुद्वेषादुदितमासुरैः ।
दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम्
*8,465*
न्यायसुधा:
वीक्षायामपि न क्षमं व्यधिकरणमित्यर्थः ।
तर्हि कस्मादुदितमित्यत उक्तम्- परमेति ॥
परमशास्त्रं पञ्चरात्रम् ।
द्वेष एव किं निबन्धन इत्यत उक्तम्- आसुरैरिति ॥
भागवतशास्त्रे हि स्वाभाविक एव हि विद्वेषो ऽसुराणाम् ।
नतु दोषदर्शननिमित्तः ।
एते चासुरसम्बन्धिनस्तत्स्वभावाश्च वृत्तिकाराः ।
आसुरैरेवोक्तं नतु सूत्रकारेणेत्यनेन तस्मान्नायं सूत्रार्थः, किन्तु शाक्तमतनिरास एवेत्युक्तं भवति ।
एतेनैतदपि प्रत्युक्तम् ।
यत्केचिदिदमधिकरणं साङ्खयादिवत्पञ्चरात्रस्याप्यप्रामाण्यमाशङ्कय तन्निरासार्थमिति वर्णयन्ति ।
तथाहि ।
उक्तरीत्या"उत्पत्त्यसम्भवात्ऽ"नच कर्तुः करणम्ऽ; इति सूत्रद्वयेन पञ्चरात्राप्रामाण्यं पूर्वपक्षयित्वा विज्ञानादिभावे वा तदप्रतिषेध इति सिद्धान्तितम् ।
वाशब्दात्पक्षो विपरिवर्तते ।
विज्ञानं चादि चेति परंब्रह्म विज्ञानादि, सङ्कर्षणप्रद्युम्नानिरुद्धानामपि परब्रह्मभावे सति तत्प्रतिपाद(कस्य)नस्य शास्त्रस्य प्रामाण्यं न प्रतिषिद्धयते ।
विप्रतिषेधाच्च प्रतिषिद्धा हि जीवोत्पत्तिरस्मिन्नपि तन्त्रे ।
यथोक्तं परमसंहितायां ।
"अचेतना परार्था च नित्या सततविक्रिया ।
त्रिगुणा कर्मणां क्षेत्रं प्रकृते रूपमुच्यते ।
प्राप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च ।
स ह्यनादिरनन्तश्च परमार्थेन निश्चितःऽ; इति ।
*8,465f.*
पञ्चरात्राप्रामाण्यशङ्कायां प्राप्तायामेव हि तन्निरासाय प्रयासः साथर्कः स्यात् ।
नच व्यधिकरणानि दूषणानि तच्छङ्कां प्रापयितुमीशते ।
नहि छलोत्तराण्येतावदधिकरणं प्रयोजयन्ति ।
अतिप्रसङ्गात् ।
प्रकरणाननुगुरं चैतत् ।
परमतनिरासो ह्यत्र प्रकृतो न तु स्वमतसमर्थनम् ।
कृतं च तत्"न विलक्षणत्वात्ऽ; इत्यादिना ।
सूत्राक्षराननुरूपं चैतद्वयाख्यानम् ।
नह्यत्र विज्ञानादिपदं ब्रह्मणि क्वचित्प्रयुक्तम् ।
तदप्रतिषेध इति च व्यर्थम् ।
न प्राज्ञत्वादित्येव वक्तव्यम् ।
लघु चैवं सूत्रं व्यक्तं च स्यात् ।
तस्मादुक्त एव सूत्रार्थ इति स्थितम् ।
*8,467*
पादार्थमुपसंहरति- अतो ऽशेषेति ॥
अतो ऽशेषजगद्धाता निर्दोषोरुगुणार्णवः ।
नारायणः श्रुतिगणतात्पर्यादवसीयते
न्यायसुधा:
साङ्खयादिविरोधिसमयानां निरस्तत्वात्प्रथमाध्याये यत्सकलश्रुतिसमन्वयेन भगवतो लक्षणद्वयं साधितं तन्निर्णीतमेवेत्यर्थः ।
*8,467f.*
स्यादेतत् ।
"न निगृह्य कथां कुर्यात्ऽ; इत्यादिस्मृतिनिषिद्धं परनिराकरणमिदं न कार्यमेव ।
तत्कुतः साङ्खयादिनिराकरणं कृतमिति चेन्न ।
अस्य निषेधस्य सद्विषयत्वात् ।
कुतः सङ्कोच इति चेत् ।
श्रुतिस्मृत्योः श्रुतेर्बलवत्त्वात् ।
श्रुतौ च परनिराकरणस्य कर्तव्यतया अवगतत्वादित्याशयवान्"अन्धन्तमः प्रविशन्ति ये ऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ।
विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुतेऽ; इति मन्त्रद्वयमर्थतो ऽनुवदति- अन्धमिति ॥
*8,468*
अन्धं तमः प्रविशन्ति ये त्वविद्यामुपासते ।
ततो भूय इवाप्स्यन्ति ये तस्या नैव निन्दकाः
ततो विद्यामविद्यां च यो जानात्युभयं सह ।
दोषज्ञानादतीत्यैतान् विद्ययामृतमश्नुते
मूल पाठ: Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0