भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसुधा · अध्याय 2.1

2.1.1

न्यायसुधा:
पूर्णाः प्रत्येकं निरवधिकाः ।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य चतुर्थपादः ॥ ॥
अध्यय 2, पद 1
॥ अथ श्रीमन्न्यायसुधायां स्मृत्यधिकरणम् ॥
*5,1*
यत्पदं वेदसंवेद्यं कटाक्षेणापि वीक्षितुम् ।
न क्षमन्ते विमतयस्तमुपासे श्रियः पतिम् ॥ 1 ॥
एकवाक्यता(दि)सिद्धये प्रथमाध्यायार्थसङ्गतत्वेन द्वितीयाध्यायार्थं विवक्षुरबुद्धिस्थेन सङ्गतेर्दर्शयितुमशक्यत्वात् प्रथमाध्यायार्थं तावदनुवदति- उक्त इति ॥
उक्तः समन्वयः साक्षाद् ...
न्यायसुधा:
(सकल)जगज्जन्मादिनिमित्तकारणे सार्वज्ज्ञसर्वैश्वर्याद्यनन्तगुणपरिपूर्णे ऽविद्याद्यवद्यगन्धविधुरे परे ब्रह्मणि नारायणे स्वरवर्णपदवाक्यमहावाक्यरूपस्य समस्तस्य शास्त्रस्य, साक्षात्परममुख्यया वृत्त्या नतु लक्षणया, तथा महातात्पर्येण नतु पारार्थ्येन समन्वयः प्रथमे ऽध्याये समर्थित इत्यर्थः ।
यद्यपि समन्वयशब्देनैव साक्षादित्यर्थो लभ्यते ।
तथापि परकीयसंशब्दव्याख्याननिरसने ऽवहितैर्भवितव्यमिति सूचनाय तद्वयाख्यानमिदं कृतमित्यदोषः ।
अथवा समन्वयशब्देन मुख्यया वृत्त्यान्वयः प्रतीयते ।
परममुख्यया तु वृत्त्या अन्वयं दर्शयितुं साक्षादित्युक्तम् ।
यद्वा न प्रधानपरमाण्वादिनिरासनेन उपादानत्वादिप्रतिपादनेन च परम्परया किन्तु साक्षादेवेत्यनेनाचष्टे ।
*5,8*
एवं प्रथमाध्यायार्थमभिधाय तत्सङ्गतत्वेन द्वितीयाध्यायार्थमाह- अविरोध इति ॥
... अविरोधो ऽत्र साध्यते
न्यायसुधा:
अत्रोक्ते ऽर्थे ऽविरोधो विरोधाभावो ऽत्र व्याचिख्यासिततया बुद्धिसन्निहिते द्वितीये(ऽध्याये) साध्यते ।
अनेनास्याध्यास्यातीताध्यायेन कार्यकारणभावलक्षण(णा)सङ्गतिः सूचिता भवति ।
सकलशास्त्रस्य समन्वयेन जगज्जन्मादिकारणत्वे समस्तगुरपूर्णत्वे ऽशेषदोषविधुरत्वे च परस्य ब्रह्मणो ऽभिहित एव(हि) तत्र विरोधः स्फुरति ।
नान्यथा निराश्रयत्वात् ।
विरोधस्फूर्तावेव तदभावसाधनस्यावसरो नेतरथा ।
अप्राप्तप्रतिषेधायोगात् ।
अतो ऽतीताध्यायार्थस्य कारणत्वमेतदध्यायार्थस्य कार्यत्वं निश्चीयते ।
अथवा श्रुतिसमन्वयेनोपपादितो ऽप्यर्थो न तावच्छ्रोतॄणां दृढनिरूढो भवति, यावदत्र प्रतीते विरोधाभावो न साध्यते ।
विरोधेन श्रुतीनामेवाप्रामाण्यशङ्कनात् ।
तथा चानुपपादितकल्प एवापद्यते ।
विरोधाभावसाधने तु भवत्येव दृढनिरूढः ।
यथोक्तम् ।
"विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयःऽ; इति ।
अतो विपरीतकार्यकारणभावलक्षणा अनयोस्सङ्गतिः ।
ननूक्तार्थे विरोधस्तत्र तत्रैव परिहृतः ।
किमत्र परि(तत्किमपरमव)शिष्यते यदर्थमध्यायान्तरारम्भः ।
सत्यम् ।
प्रतिवक्ष्यत्यत्राचार्यः ।
*5,16*
नन्वेवमध्यायस्याविरोधलक्षणैकार्थत्वेनैकवाक्यत्वे सति पादभेदः किन्निबन्धनः ।
तत्राप्यस्य पादस्य प्राथम्यं किन्निबन्धनमित्यपेक्षायामाह-चतुर्विधस्येति ॥
चतुर्विधस्य तस्यादौ यौक्तस् ...
न्यायसुधा:
तस्याविरोधस्य ।
निर्धारणे षष्ठी ।
आदौ प्रथमपादे ।
अविरोधः साध्यत इत्यनुवर्तते ।
चतुर्विधस्य तस्येत्यनुवादात्स चतुर्विध इति लभ्यते ।
*5,17*
तदयमर्थः ।
यद्यप्युक्ते ऽर्थे विरोधाभाव इत्येको ऽर्थः ।
तथापि युक्तिसमयश्रुतिन्यायोपेतश्रुतिविरोधाभावरूपावान्तरभेदेन स चतुर्विधो भवति ।
तत्प्रतिपादनेन चतुर्णां पादानां भेदो युज्यते ।
तस्य चतुर्विधस्यापि विरोधाभावस्य मध्ये युक्तिविरोधाभावः प्रथमपादे साध्यते ।
सर्वेषामपि विरोधानां युक्त्युपजीवितवेन तद्विरोधस्य प्रबलतया तदभावसाधनस्य प्राथम्योपपत्तेः ।
युक्तिपुरस्कारेण युक्त्युपजीवित्वेन तद्विरोधस्य प्रबलतया तदभावसाधनस्य प्राथम्योपपत्तेः ।
युक्तिपुरस्कारेण प्रवर्तना(मानत्वा)च्च विचारशास्त्रस्येति ।
ननु कथमभावस्य चातुर्विध्यम् ।
उच्यते ।
चतुर्विधा हि विरोधिनो(न्यो)युक्त्यादयः ।
तदुपधानाद्विरोधो ऽपि चतुर्विधो ऽभिधीयते ।
ततस्तत्प्रतियोगिको ऽभावो ऽपि तथोच्यते ।
अत एव यौक्त इत्युपपन्नम् ।
अभावस्यापि परम्परया युक्तिसम्बन्धित्वात् ।
अथवाविरोधपदसन्निधापितो विरोधस्तस्येति परामृशते ।
तथाच विरोधस्य युक्त्याद्युपधानेन चतुर्विधत्वात्तदभावसाधनेन पादभेदो युज्यते ।
चतुर्विधस्य तस्य विरोधस्य मध्ये यौक्तो विरोध आदावुक्तप्रकारेण प्रबलो यतस्तस्मात्तदभावो ऽत्रादौ साध्यत इति योजनीयम् ।
यद्वा तस्येति विरोधिपरामर्शो ऽयम् ।
तस्याप्यविरोधपदेन बुद्धिसन्निहितत्वात् ।
अविरोधो हि विरोध(निरूपण)धीननिरूपणः ।
विरोधश्च विरोधिना विना नोपपद्यते ।
ततश्च विरोधिनो युक्त्यादिभेदेन चतुर्विधत्वा(त्त)द्विरोधाभावसाधनेन पादभेदोपपत्तिः ।
चतुर्विधस्यापि तस्य विरोधिनो मध्ये युक्तेः प्रबलत्वादादौ यौक्तो युक्तिसम्बन्धी विरोधाभावः साध्यत इति योज्यम् ।
*5,20*
प्रथमाधिकरणे विशेषमाह- तत्रापीति ॥
... तत्रापि च स्मृतेः

2.1.2

*5,20f.*
न्यायसुधा:
अपिपदमादावित्यस्यानुकषर्णार्थम् ।
तत्र युक्तिविरोधाभावप्रतिपादके ऽपि पाद इत्यनौचित्यशङ्कासूचनार्थं वा ।
चशब्देनाविरोधः साध्यत इत्येतदनुकृष्टते ।
स्मृतेः पाशुपतादिकायाः ।
यद्यपि स्मृतेरित्यस्य न नञर्थेन सम्बन्धो घटते विरोधश्च समासे गुणभूतः ।
तथापि बुद्धया विविक्तेन तेन सम्बन्धः सम्भवति ।
*5,22*
युक्तिविरोधपरिहारलक्षणे ऽत्र पादे स्मृतिविरोधपरिहारो न कर्तव्यो ऽसङ्गतत्वात् ।
कर्तव्यतायां वा प्राथम्यं कुत इत्यत आह- तस्या इति ॥
तस्याश्चतुःस्वरूपत्वात् ...
न्यायसुधा:
तस्याः पाशुपतादिस्मृतेर्युक्तिसमयादिविरोधिचतुस्स्वरूपत्वात् ।
एतदुक्तं भवति ।
पाशुपतादिस्मृतयो हि स्वयमाप्ताभिमतवाक्यतया समयरूपा अपि स्वाभिमतार्थे युक्तीः श्रुतीश्च संवादयन्त्यो युक्तिसमयादिविरोधिचतुष्ययरूपाः ।
ततश्चोक्ते ऽर्थे तद्विरोधपरिहारो ऽध्याये ऽन्तर्भवत्येव ।
किन्तु पादचतुष्ययार्थसङ्गतो ऽ(प्य)यं न निष्कृष्टैकत्रैव पादे ऽन्तर्भवति ।
ततो ऽध्यायादौ तदन्ते वा वक्तव्यः ।
प्रथमातिक्रमे च कारणं न किञ्चिदस्तीत्याद्याधिकरणे निरूप्यत इति ।
एवञ्च तत्रापि च स्मृतेरित्ययमुक्तस्यापवादो भवन्नपि न सर्वथेत्युक्तं भवति ।
समयादिविरोधस्यापि परिहारेण निष्कृष्टपादार्थाभावाद्युक्तिविरोधपरिहारस्यापि भावेनान्तर्भावसम्भवाच्च ।
*5,23*
एकस्यैवाधिकरणस्य पादचतुष्ययार्थसम्बन्धेन चतुस्स्वरूपत्वकथन(नेन)प्रसङ्गच्छिष्याणां शास्त्रे बहुमानोत्पादनायान्यदपि चातुर्विध्यं वक्ति- प्रत्येकमिति ॥
... प्रत्येकं चतुरात्मकाः ।
पादाः सर्वे तदंशाश्च ...
न्यायसुधा:
चत्वारो ऽपि पादाः प्रत्येकं चतुरात्मकाः पादचतुष्ययार्थवन्तो द्रष्टव्याः ।
तद्यथा ।
युक्तिविरोधपरिहारलक्षणो ऽप्ययं पादः समयादित्रयविरोधपरिहारात्मको ऽपि भवति ।
तथा समयविरोधपरिहारलक्षणो ऽपि द्वितीयो युक्त्यादित्रयविरोधपरिहारात्मको ऽपि भवतीत्यादि ।
पादा इत्येवोक्ते सन्निहितत्वादेतदध्यायगता एवेति ज्ञायते ।
तदर्थं सर्वे इत्युक्तम् ।
सर्वाध्यायसम्बन्धिनो ऽपीत्यर्थः ।
यो यदध्यायगतः पादः स तदध्याय(गत)पादचतुष्ययार्थवानवधे(से)यः ।
न केवलमेवं पादाः, किन्तु तदंशाश्च ते पादा अंशा येषां ते तदंशा अध्याया इत्यर्थः ।
प्रथमाध्यायः समन्वयस्येवाविरोधादित्रयस्यापि प्रतिपादको भवतीत्यादि ।
पादानां चतुरात्मकत्वे ऽधिकरणानां तथात्वं सिद्धमेव ।
न चैवमध्यायादिभेदानुपपत्तिः पौनरुक्त्यदोषश्चेति वाच्यम् ।
विवक्षाभेदेन सामञ्जस्यात् ।
यदा प्रथमः समन्वयस्यार्थो विवक्ष्यते न तदा तदर्थतेतरेषामित्यादि ।
*5,24*
अन्यदादि चातुर्विध्यं शास्त्रस्य दर्शयति- मूर्तीनामिति ॥
व्यास -(8)
... मूर्तीनां वर्णमाऽगमात्

2.1.3

न्यायसुधा:
चतसृणां वासुदेवादिमूर्तीनां प्रतिपादकत्वेनापि चतुरात्मकत्वं ज्ञातव्यमिति योजना ।
नन्वेतदुक्तमेव, पुनः कस्मादुच्यत इत्यत आह- वर्णमिति ॥
अत्रागमादित्याङ्गद्वयस्योपश्लेषो द्रष्टव्यः ।
तत्राद्यस्यारभ्येत्यर्थः ।
द्वितीयो ऽभिविधौ ।
आगम इति चतुरध्यायिशास्त्रमुच्यते ।
ततश्चायमर्थः ।
न केवलं प्रत्यक्षरं प्रतिपदं प्रतिसूत्रं प्रत्यधिकरणं किन्त्वेतच्छास्त्रगतमेकं वर्णमारभ्य आ सर्वशास्त्रात्, प्रत्यधिकरणं प्रतिपादं प्रत्याध्यायं समस्तेन शास्त्रेण च चतस्रो मूर्तयः प्रतिपाद्यन्त इत्यर्थः ।
कुत एतदवगन्तव्यमित्यत आह- आगमादिति ॥
बृहत्तन्त्रादेरित्यर्थः ।
*5,26f.*
एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तीः सङ्क्षेपेणाह- आप्ततेत्यादिना ॥
आप्तता समतादृष्टिश्रुतिसाम्यबलाद्भवाः ।
सर्वानुसारो लघुता विशेषादर्शनाफले

2.1.4

इष्यसिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ।
एता एव त्वतिबला सिद्धान्तस्य नियामकाः

2.1.1

न्यायसुधा:
उक्तार्थं स्मृतिविरोधेनाक्षिप्य समादधत्सूत्रम् ओं स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ओं ॥
इति ।
अस्यार्थः ।
यदुक्तं परस्य ब्रह्मणो विष्णोः सकलजगज्जन्मादिकारणत्वं सार्वज्ञ्यादिसकलगुणपूर्णत्वं समस्तदोषदूरत्वं च तदयुक्तम् ।
पाशुपतसाङ्खयबौद्धार्हतादिस्मृतिविरुद्धत्वात् ।
ता हि शिवप्रभृतीनामेव जगज्जन्मादिकारणत्वादिकं प्रतिपादयन्ति ।
नच तासामन्यो ऽवकाशो ऽस्ति येन प्रतीते ऽप्यर्थे तात्पर्याभावं प्रतीमः ।
अन्यथा तासां स्मृतीनामनवकाशेनाप्रामाण्यलक्षणदोषप्रसङ्ग इति ।
तन्न ।
पुरुषोत्तमस्यैव पञ्चरात्रादिस्मृतिभिरखिलजगत्कारणत्वादेरुक्तत्वात् ।
अपर(न्य)था तासां पाशुपतादि(स्मृति)भ्यो ऽन्यासां पञ्चरात्रादिस्मृतीनामवकाशान्तराभावेनाप्रामाण्यदोषप्रसङ्गादिति ।
तत्राक्षेपस्तावदयमयुक्तः ।
श्रुतिसमन्वयेनास्यार्थस्य साधितत्वात् ।
श्रुतिविरुद्धानां(च) स्मृतीनामप्रामाण्यस्येष्टत्वात् ।
श्रुतिसमन्वयन्यायेन पाशुपतादिस्मृतीनामपि परब्रह्मणि समन्वयेन शिवार्चनादिपरत्वेन वा सावकाशत्वाच्च ।
समाधानमपीदमयुक्तम् ।
सकलशास्त्रप्रमाणकत्वमुक्तार्थस्याभिधायेदानीं स्मृतिमात्रोपादाने कारणाभावात् ।
पराभिधित्सितं दोषमवबुद्धय श्रुतिपरित्यागस्त्वयुक्तः ।
किन्तु स परिहर्तव्यः ।
अन्यथा प्रागपि श्रुतिरनादेया स्यात् ।
किञ्च पञ्चरात्रादिस्मृतीनामप्रामाण्यं परस्येष्यमेव ।
वासुदेवार्चनादिपरतया सावकाशतापि तेन सम्भाव्येत ।
साम्यापादनमात्रे ऽपि परस्यैव जयो निश्चयप्रतिबन्धकत्वादित्यतो निर्दलं पूर्वपक्ष तावदुज्जीवयति- आप्तैरिति ॥
*5,27*
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात्

2.1.5

आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रतिः ।
पिपीलिकालिपिनिभा वारयेत सर्वगा हि ते

2.1.6

न्यायसुधा:
अयमिहाभिसन्धिः पूर्वपक्षिणः ।
श्रुतिविरोधेन स्मृतीनामप्रामाण्यमभिलषता प्रबलदुर्बलत्वे सर्वथा समर्थनीये ।
अन्यथातिप्रसङ्गात् ।
न तावत्प्रामाण्यकारणभावाभावाभ्यां प्राबल्यदौर्बल्ये ।
प्रामाण्यस्य स्वतस्त्वेनाङ्गीकृतत्वात् ।
वैपरीत्याच्च ।
वाक्यप्रामाण्ये हि कारणं वक्तुराप्तत्वम् ।
वक्तारश्च स्मृतीनामाप्ताः ।
न श्रुतेः ।
अपौरुषेयत्वेनाङ्गीकृतत्वात् ।
अत एव समूलत्वनिर्मूलत्वाभ्याम् ।
स्मृतीनामाप्तिमूलत्वात् ।
श्रुतेस्तदभावात् ।
नापि कृत्तिमत्वाकृत्रिमत्वाभ्याम् ।
स्वरूपतो ऽप्रयोजकत्वात् ।
उक्तरीत्या वैपरीत्याच्च ।
तदिदमुक्तमाप्तै रुद्रकपिलकमलासनादिभिः उक्तमर्थं शिवादीनां जगत्कारणत्वादिकं, पिपीलिकालिपिनिभा बुद्धिपूर्वप्रणयहीना, श्रुतिः, कथं वारयेत् न कथमपीति ।
*5,30f.*
नन्वौदुम्बरीं स्पृष्ट्वोद्गायेदित्यादिश्रुतिविरुद्धानामौदुम्बरी सर्वा वेष्ययितव्येत्यादिस्मृतीनामप्रामाण्यमुपलब्धं तथात्र स्यात् ।
न स्यात् ।
वैषम्यात् ।
श्रुतिमूलतयाभिमता हि ताः स्मृतयो ऽतस्तासां मूलश्रुत्यनुमापकत्वेन प्रामाण्यमिष्यम् ।
नच श्रुतिविरुद्धायाः स्मृतेर्मूलश्रुत्यनुमापकत्वं सम्भवतीत्यप्रामाण्यमेव युक्तम् ।
यथाऽह जैमिनिः"विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्ऽ; इति ।
नचैवं प्रकृते ।
पाशुपतादिस्मृतीनां शिवादिप्रत्यक्षमूलत्वेन श्रुतिमूलत्वाभावात् ।
तदिदमाह- प्रत्यक्षतो दृष्ट्वेति ॥
ननु तर्हि स्मृतीनामुक्तरीत्या सावकाशत्वान्निरवकाशश्रुतिविरोधेनाप्रामाण्यमस्तु ।
मैवम् ।
वैपरीत्यात् ।
स्मृतयो हि विस्पष्टवादिन्यो न विवक्षितार्थात्प्रच्यावनमर्हन्ति ।
श्रुतयस्त्वस्फुट(स्पष्ट)विक्षिप्तवादिन्यो ऽव्यवस्थितालौकिकशाब्दलक्षणविषया अशक्याध्ययनानन्तापरिपूर्णवाक्यरूपा नार्थविशेषनिष्ठा लक्ष्यन्ते ।
अत एव भवतां मीमांसायासः ।
एतदप्युक्तं प्रकर्षेणोक्तमिति ।
विस्पष्टमुक्तमित्यर्थः ।
पिपीलिकालिपिनिभेति च ।
अस्फुटे(स्पष्टे)त्यर्थः ।
*5,33*
किञ्च श्रुतयस्तावदविस्पष्टार्थाः ।
प्रणेतृव्याख्यानसम्प्रदायविकला न स्वतन्त्राः कमप्यर्थं प्रतिपादयितुमीशते ।
किन्तु सहजसिद्धेन योगर्धिलब्धेन वा प्रत्यक्षेणाशेषार्थदर्शिनामाप्तानां वचनमनुसृत्य नेतव्याः ।
यथोक्तम् ।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेदिति ।
इतिहासपुराणग्रहणमुपलक्षणम् ।
तथाच कथं पाशुपतादिस्मृत्युक्तार्थनिवारणाय समर्थास्स्युः ।
तदिदमुक्तं पिपीलिकालिपिनिभा संवादेन विना कमप्यर्थं प्रतिपादयितुमसमर्था श्रुतिर्यद्वचनसंवादापेक्षिणी तैरेवाप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं वारयेत् ।
स्वतन्त्र(स्वातन्त्र्य)दशायामप्रतिपादकत्वात् ।
पारतन्त्र्ये तु विरोधाभावादेव ।
किन्तु तदनुसारेणैव नेतव्येति ।
*5,34*
भवेदेतद्यदि पाशुपतादिस्मृतिप्रणेतॄणामाप्तत्वं स्यात् ।
तदेव कुत इत्यत आह- सर्वगा हीति ॥
सर्वं गच्छन्त्यवगच्छन्तीति सर्वगाः ।
आप्तत्वोपलक्षणमेतत् ।
ते रुद्रादयः ।
हीति तत्र प्रमाणप्रसिद्धिं द्योतयति ।
अथवा सर्वज्ञत्वमेवात्र प्रमाणप्रसिद्धया साध्यते ।
*5,35*
तत एवान्यस्य सिद्धेः ।
तथाहि ।
हरिहरहिरण्यगर्भास्तावत्सर्वज्ञतया श्रुतीतिहासपुराणेषु प्रसिद्धाः ।
तत्र हरेरेवावतारा बुद्धर्षभकपिलाः सौगतादिस्मृतिप्रणेतारः ।
तथाच तेषां मोहाभावेन रागद्वेषयोरप्यभावात् विप्रलिप्सा च निवर्तते ।
किञ्च ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण तेषां निश्चीयन्ते ।
किञ्च ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण तेषां निश्चीयन्ते ।
ज्ञानं तु यथार्थमयथार्थं वा स्यात् ।
इच्छापि प्रतिपिपादयिषा वा विप्रलिप्सा वेति सन्देहो ऽवशिष्यते ।
तत्राभ्यासदशापन्नो ऽयमर्थो ऽस्येति सामान्यतो निश्चये भवत्येव तस्य ज्ञानस्य यथार्थत्वनिश्चयः यथाभ्यासदशापन्नमिदमरण्यममीषां म्लेञ्छानामतो ऽस्मिन्नेते मार्गाभिज्ञा इति पान्थानामेव निश्चयः ।
विप्रलिप्सा च हेतुदर्शनेन व्याप्ता हेतौ सति स्यात् ।
स च द्विरूपः ।
स्वोपकारः परापकारो वा ।
न तावत्पान्थेषु विमार्गेण प्रतिष्ठमानेषु म्लेञ्छानां कश्चित्स्वोपकारः ।
स्वस्य गृहीतत्वात् ।
शरीरस्य च करणीयान्तरभावात् ।
भावे वा परित्यागायोगात् ।
नापि द्वितीयः ।
न ह्यनुन्मत्ता अनपकारिणमपकुर्वते ।
नापि परापकारमात्रं पुरुषार्थः ।
तथा सति सर्वः सर्वमपकुर्यादिति ।
एवं विप्रलिप्सापि निवार्यते ।
अनभ्यासदशापन्ने तु विषये प्रमाणान्तरसंवादात्प्रवृत्तिसामर्थ्याद्वा मोहविप्रलिप्सयोर्निवृत्तिरित्यतो म्लेञ्छा अप्याप्ता भवन्ति ।
किमुत महानुभावा रुद्रादय इति ।
*5,38*
एवं पूर्वपक्षसूत्राभिप्रायमभिधाय सिद्धान्तसूत्रतात्पर्यमाह- इति चेदिति ॥
इति चेद् यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः ।
किं नाशेषविदो ... ॥ मनुव्_2,1.6अ-च् ॥
न्यायसुधा:
तन्नेति शेषः ।
कुतः ।
निश्चिते हि पाशुपतादिस्मृतिप्रामाण्ये तद्विरुद्धं विष्णोस्सर्वजगत्कारणत्वादिकमसत्स्यात् ।
न चैवम् ।
सत्प्रतिपक्षत्वात् ।
आस्तां तावच्छतिः ।
पञ्चरात्रादिस्मृतयो हि विष्णोरेव सकलजगत्कारणत्वादिकमभिदधाना दृश्यन्ते ।
*5,38f.*
ननु विरुद्धयोः प्रमाणयोः साम्ये सति सत्प्रतिपक्षता स्यात् ।
न चैवं प्रकृते ।
पाशुपतादिस्मृतीनामाप्तप्रणीतत्वात् विस्पष्टवादित्वेन निरवकाशत्वाच्च ।
पञ्चरात्रादिस्मृतीनां तदभावादित्यत आह- यदीति ॥
अशेषज्ञा अशेषविद इत्याप्तत्वोपलक्षणम् ।
हरिपूर्वका हरिमनुप्रभृतयः पञ्चरात्रादीनामपि तदुपेयम् ।
नच विशेषहेतुरस्तीति भावः ।
उपलक्षणं चैतत् ।
विस्पष्टवादित्वेन निर(रान)वकाशत्वं च द्रष्टव्यम् ।
*5,40*
किमतो यद्येवमित्यत आह- मानमिति ॥
... मानं ह्य् उभयत्र समं भवेत्

2.1.7

न्यायसुधा:
हिशब्दो हेतौ ।
यस्मादेवं तस्मादुभयत्र पूर्वपक्षसिद्धान्तयोर्मानं स्मृतिद्वयं समं भवेत् ।
तथा च पाशुपतादिस्मृतीनां सत्प्रतिपक्षत्वं स्थितमिति शेषः ।
ननु ये विरुद्धे प्रमाणे न तयोः साम्यम् ।
शुक्तिरजतज्ञानयोस्तदभावदर्शनात् ।
ये च समे न तयोर्विरोधः ।
पटशुक्लो दीर्घश्चेत्यत्र तदभावात् ।
तत्कथं पाशुपतादिस्मृतेः सत्प्रतिपक्षत्वसम्भवः ।
सम्भवे ऽपि जितं परेण ।
सिद्धान्तनिर्णयस्यायोगादित्यत आह- मानमिति ॥
उभयत्र द्वयोस्स्मरणयोर्मध्ये यत्समं सह मया मूलप्रमाणेन वर्तते, तदेव मानमन्यदप्रमाणम् ।
एतदुक्तं भवति ।
विशेषानिर्धारणायामेव सत्प्रतिपक्षत्वम् ।
वस्तुतस्तु समूलं मानमन्यदमानमिति ।
ननु समूलत्वेन प्रामाण्यावधारणे प्रामाण्यस्य परतस्त्वापत्तिः ।
मैवम् ।
परस्परविरोधेनाप्रामाण्यशङ्काप्राप्तौ समूलत्वेन तदपनयनात् ।
तथोभयत्र स्मरणे यत्पञ्चरात्रादिस्मरणं समं समूलप्रमाणं संवादिपमाणान्तरोपेतं च, तदेव मानं भवेन्न तु पाशुपतादिकम्, मूलाद्यभावात् ।
अतो नोक्तदोष इति योज्यम् ।
वक्ष्येते हि श्रुतिमूलत्वतत्संवादित्वे च पञ्चरात्रादीनाम् ।
*5,42*
ननु कथं पाशुपतादिस्मृतीनां निर्मूलत्वात् ।
यावता पशुपतिप्रभृतीनामाप्तिस्तत्र मूलमुदितेत्यत आह- न चेति ॥
नचाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः
न्यायसुधा:
तत्र शिवादिषु निश्चयोपायाभावादिति शेषः ।
ननूक्तमत्र"सर्वगा हि तेऽ; इति ।
मैवम् ।
"नित्यं वृद्धिक्षयोपेतम्ऽ; इत्यादिना परमपुरुषादितरेषां सार्वज्ञ्याभावस्योक्तत्वात् ।
श्रुत्यादीनां चोपचरितत्वात् ।
नन्वस्ति तावद्विष्णोरनुपचरितसार्वज्ञ्यम् ।
शिवादीनामप्युपायोपेयविषयम् ।
किं गङ्गावालुकाकीटसङ्खयापरिज्ञानेन ।
सत्यम् ।
न तावत्तत्त्वज्ञानमेवाप्तिः ।
विप्रलम्भके ऽतिव्याप्तिरित्याह- व्यभिचरत इति ॥
*5,43f.*
अथोच्येत सर्वज्ञानां मोहाभावात्तन्मूलयो रागद्वेषयोरभावे विप्रलिप्सापि निवर्तत इत्याप्तिनिश्चय इति ।
किं तत्र सर्वे ऽपि तीर्थकरा आप्ता इत्यङ्गीकृत्यैवमनुमीयते ।
उत स्वस्वाभिमतमेकमेव ।
आद्यं दूषयति- व्यभिचारत इति ॥
पञ्चरात्रादिस्मृतिप्रणेतरि नारायणे अस्याङ्गीकारस्य भग्नत्वादित्यर्थः ।
अभङ्गे वा सिद्धं
नः समीहितम् ।
यद्वा व्यभिचारो ऽन्योन्यविरोधः ।
नहि परस्परविरुद्धवादिनः सर्वे ऽप्याप्ता इत्यङ्गीकर्तुमुचितम् ।
वस्तुविकल्पप्रसङ्गात् ।
द्वितीयं पराचष्टे- व्यभिचारत इति ॥
यस्य तीर्थकरस्याप्तत्वं नाङ्गीक्रियते ।
तत्रैव सार्वज्ञ्यस्य व्यभिचारादित्यर्थः ।
नच तत्र सावर्ज्ञ्यं नाङ्गीक्रियत इति युक्तम् ।
समानन्यायत्वात् ।
अथ हेतुं विशिंष्यात्तदा सन्दिग्धासिद्धयादिकम् ।
*5,45f.*
यदप्युक्तं ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण निश्चीयन्त इति ।
तन्न ।
अपटुकरणानामप्युपदेशदर्शनेन व्यभिचारादित्याह- व्यभिचरत इति ॥
उपदेशविशेषणे चोक्तो दोषः ।
निश्चीयतां ज्ञानम्, तस्य याथार्थ्यं तु कुतः ।
अभ्यासदशापन्नो ऽयम् अर्थो ऽस्येति सामान्यनिश्चये सति तत्सिद्धिरिति नेत्याह- व्यभिचारत इति ॥
व्यभिचारः विप्रकर्षः तेषामेव सन्निधानं दुर्लभमस्मदादीनां, दूरे तदीयाभ्यासावधारणमिति भावः ।
विनेयवचनपरम्परया तदवधारणमिति चेत्(न) ।
तीर्थकरान्तरे व्यभिचारादित्याह- व्यभिचारत इति ॥
तासु तासु स्मृतिष्वभिनिविष्याः सर्वे ऽपि हि तं तमाचार्यं तत्र तत्रार्थे ऽभ्यासवन्तमेवाचक्षते ।
नच तदीयं ज्ञानं यथार्थमेवाङ्गीकर्तुं शक्यं, त्वत्सिद्धान्तविरोधित्वात् ।
अन्यथा त्वदीयसिद्धान्तस्यावास्तवत्वापातादित्याह- व्यभिचारत इति ॥
व्यभिचारः विरोधः ।
इच्छापि विप्रलिप्सा कुतो नेति वाच्यम् ।
स्वोपकारपरापकाररूपहेतुदर्शनाभावादिति चेत् तत्किं स्मृतिप्रणेतारस्सर्वे ऽपि न विप्रलम्भकाः ।
अद्धेति चेत् ।
अस्य नियमस्य बुद्धादिषु भग्नत्वादित्याह- व्यभिचरत इति ॥
नियमे च स्वव्याघातः ।
यस्य कस्यापि विप्रलम्भकत्वे, हेतुदर्शनाभावस्य तत्रैव व्यभिचारः ।
नहि तत्तत्पुरुषविशेषानुसंहितास्ते ते प्रयोजनविशेषाः पिशितनयनैरस्मदादिभिरवधारयितुं शक्यन्त इत्याशयेनाह- व्यभिचारत इति ॥
केनापि प्रमाणेन हेतूपलम्भाभावो ऽविप्रलम्भहेतुरिति चेन्न ।
सन्दिग्धत्वात् ।
प्रयोजनाभावो ऽविप्रलम्भहेतुः ।
प्रयोजनाभावश्च परवञ्चनस्यापुरुषार्थत्वादतत्साधनत्वाच्च निश्चीयत इति चेन्न ।
सम्प्रतिपन्नविप्रलम्भकेषु व्यभिचारादित्याह- व्यभिचारत इति ॥
अपुरुषार्थमपि पुरुषार्थतया विभ्रम्य वञ्चयत्यसाविति चेत् ।
किं तावता ।
प्रकृतस्तु विवेकितया नैवमिति चेन्न ।
तीर्थकरान्तरे अविद्यमानस्य विवेकस्यास्मिन्नवधारणानुपपत्तेः ।
अथ विश्वहितोपदेशार्थं प्रवृत्त्या विप्रलम्भाभावो ऽनुमीयत इति चेन्न ।
बुद्धादिषु तत्साम्येन व्यभिचारादित्याह- व्यभिचारत इति ॥
अथ ते न तथा, किन्त्वयोग्यजनव्यामोहनार्थमिति चेत् ।
प्रकृतो ऽपि न तथेति कुतो निश्चितम् ।
निश्चयोपायस्येतरत्रापि तुल्यत्वात् ।
*5,49f.*
यदप्युक्तं प्रमाणान्तरसंवादान्मोहविप्रलिप्सयोर्निवृत्तिरिति तदसत् ।
प्रमाणान्तरं हि न तावत्प्रत्यक्षम् ।
अतीन्द्रियत्वाद्विप्रतिपन्नार्थस्य ।
अनुमानं चेद्वयभिचारो बुद्धादिषु ।
आभासमेव तत् मदीयं त्वनुमानमेवेति चेन्न ।
यतो निवारयिष्यामस्तव(वचन)चमत्कारं मा त्वरिष्ठा इत्याशयेनाह- व्यभिचारत इति ॥
अथागमः स किं वेदादिरुत तद्विरुद्धं स्मृत्यन्तरमथवा स्वयूथ्यरचितं ग्रन्थान्तरम् ।
न प्रथमद्वितीयौ ।
विरोधित्वेन संवादासम्भवादित्याह- व्यभिचारत इति ॥
नापि तृतीयः ।
बुद्धादिप्रणीतस्मृतीनामपि स्वयूथ्यपुरुषान्तरवचनसंवादित्वेन व्यभिचारादित्याह- व्यभिचारत इति ॥
ते ऽपि सन्दिग्धाप्तभावा इति चेन्न ।
प्रकृतेष्वपि तन्निश्चयोपायाभावात् ।
*5,52*
यच्चोक्तं प्रवृत्तिसामर्थ्याद्वयामोहविप्रलिप्सयोर्निरास इति ।
तदयुक्तम् ।
प्रवृत्तिसामर्थ्यं हि ततो ऽर्थमवबुद्धय प्रवृत्तस्य फलोपलम्भः ।
नच विप्रतिपन्नस्मृतिफलं स्वर्गापवर्गलक्षणं प्रत्यक्षेणेक्ष्यते ।
इन्द्रियाणां तादृगार्थाविषयत्वादित्याह- व्यभिचारत इति ॥
आभिमुख्येन चारो ऽभिचारस्तदभावो व्यभिचारः ।
नाप्यनुमानेन ।
स्मृतित्वादेर्व्यभिचारित्वात् ।
अन्यस्य चाभावादित्याह- व्यभिचारत इति ॥
अथागमेन ।
सो ऽपि न तावत्सम्प्रतिपन्नो ऽस्ति ।
नच विप्रतिपन्नेन ।
तस्य बौद्धादिविषये ऽपि विद्यमानत्वेन व्यभिचारादित्याह- व्यभिचारत इति ॥
*5,53*
स्यादेतत् ।
द्विविधा खलु शिवादिप्रणीता स्मृतिः ।
एका तावददृष्टं फलमुद्दिश्य प्रवृत्ता ।
परा तु सम्पदादिकं दृष्टम् ।
तत्र दृष्टार्थायाः प्रवृत्तिसामर्थ्यं प्रत्यक्षेणोपलभ्यते ।
ततस्तत्प्रणेतुराप्तत्वमिति ।
तन्न ।
तथापि विप्रतिपन्नस्मृतेराप्तिमूलत्वे प्रमाणाभावात् ।
तत एवास्या अपि तत्सिद्धिरिति चेन्न ।
व्यभिचारात् ।

न ह्येकत्राप्तेन सर्वत्रापि तथा भाव्यमिति नियमो ऽस्ति ।
तथा च सति सर्वासामपि स्मृतीनामाप्तिमूलतापातात् ।
तत्रापि दृष्टार्थानां प्रवृत्तिसामर्थ्योपलम्भादित्याह- व्यभिचारत इति ॥
अङ्गीकृत्य चेदमुदितम् ।
दृष्टार्थानामपि तासां बहुलं (फल)व्यभिचारो दृश्यते ।
तथाच कथं तद्दृष्टान्तेनेतरासामाप्तिमूलतानुमानमित्याह- व्यभिचारत इति ॥
किञ्च फलव्यभिचारतस्तदंशस्यानाप्तिमूलत्वस्थितौ पशुपतिप्रणीतत्वादेस्तत्र व्यभिचारतः कथमनुमानं स्यादित्याह- व्यभिचारत इति ॥
तदेवं पाशुपतादिस्मृतीनामाप्तिमूलत्वानिश्चयेन निर्मूलानां पञ्चरात्रादिस्मृतिविरोधेनाप्रामाण्यमेव युक्तम् ।
*5,54*
तदनेन"इतरेषां चानुपलब्धेः, एतेन योगः प्रत्युक्तःऽ; इति सूत्रद्वयं व्याख्यातं भवति ।
यच्चेतरेषां महदहङ्कारादितत्त्वानामनुपलब्धेश्च साङ्खयस्मृतेरप्रामाण्यमिति व्याख्यानम् ।
तत्प्रत्यक्षानुपलब्धेर्वेदान्तेष्वपि व्यभिचारतः सर्वथानुपलब्धेरसिद्धेरुक्तत्वादयुक्तमिति ।
*5,55*
ननु पञ्चरात्रादिस्मृतयो ऽपि फलं व्यभिचरन्ति ।
क्वचित्तदुक्तानुष्ठाने ऽपि दृष्टफलानुपलम्भात् ।
अतस्तासामप्रामाण्यान्न तद्विरोधेन पाशुपतादिस्मृतीनामप्रामाण्यम् ।
अन्यथा फलव्यभिचारस्यानैकान्तिकत्वमित्यत आह- न चेति ॥
नचास्या व्यभिचारे ऽपि हीयते मानता क्वचित्

2.1.8

न्यायसुधा:
अस्याः पञ्चरात्रादिस्मृतेः क्वचिद्वयभिचारे ऽपीति सम्बन्धः ।
कुतो न हीयत इति चेत् ।
किमदृष्टार्थायाः प्रामाण्याभावो ऽभिधीयते, उत दृष्टार्थाया एव ।
नाद्यः ।
यतः फलव्यभिचारे हेतौ क्वचिद् दृष्टार्थायां वर्तमाने अस्या अदृष्टार्थायां फलव्यभिचारे, तत एवाप्रामाण्ये सत्यप्यस्या अदृष्टार्थायास्ताववन्मानता न हीयते ।
कारणाभावात् ।
तद्विरोधादेव च पाशुपतादीनामप्रामाण्यमुक्तम् ।
दृष्टार्थाया अप्रामाण्यवचनं तु प्रकृतानुपयुक्तमित्यभिसन्धिः ।
*5,57*
अथ दृष्टार्थायाः फलव्यभिचारेणाप्रामाण्ये सति तत एवादृष्टार्था अप्यप्रमाणं भविष्यतीति चेन्न ।
तत इति किं तेन हेतुनोत तेन दृष्टान्तेन ।
नाद्यः ।
क्वचिद्वयभिचारे(णा)ऽप्रामाण्ये ऽप्यस्या मानता हीयत इति न युक्तम्, व्याप्त्यभावात् ।
न द्वितीयः ।
क्वचिद्वयभिचारे ऽप्रामाण्ये(ऽपि) अस्या मानता हीयत इत्येतन्न युक्तम् ।
हेत्वभावात् ।
नारायणवाक्यत्वादेर्व्यभिचारात् ।
मा हि भूत्सकलमपि नारायणवाक्यमप्रमाणम् ।
दृष्टार्थायां फलव्यभिचारे अप्रामाण्ये च सत्यस्या अपि मानता शङ्कास्पदत्वेन हीयत इति च न वाच्यम् ।
अत्र हेतुमाह- निर्दोषेति ॥
निर्दोषवाक्यमूलत्वान् न च तद्युक्तिमूलता ॥ मनुव्_2,1.7* ॥
*5,58*
न्यायसुधा:
निर्दोषवाक्यं वेदः तद्युक्तिः समर्थप्रवृत्तिजनकत्वं प्रामाण्यावधारणस्य यत इति शेषः ।
अयमभिसन्धिः ।
किमिदं दृष्टार्थायाः पञ्चरात्रादिस्मृतेः फलव्यभिचारेणाप्रामाण्यानुमानम् ।
तत एवेतरस्या अप्यप्रामाण्यशङ्कनं च स्वातन्त्र्येण क्रियते किंवा प्रतिबन्दीग्रहणम् ।
आद्यं तूत्तराधिकरणे निराकरिष्यामः ।
न द्वितीयः ।
प्रतिबन्दीग्रहणं हि प्रमेयसाध्ये भवति ।
न चैवं प्रकृते ।
परेण खलु फलसंवादादिना पाशुपतादिस्मृतेराप्तिमूलत्वप्रामाण्ययोरनुमितयोरस्माभिस्तन्न्यायेन फलविसंवादं प्रदर्श्य दोषो ऽभिहितः ।
यदि नाम पञ्चरात्रादिस्मृतिप्रामाण्यावधारणं फलसंवादयुक्त्याऽशास्येत ।
स्यादिदं तदा प्रतिबन्दीग्रहणम् ।
न चास्माभिः पञ्चरात्रादिप्रामाण्यावधारणस्य तद्युक्तिमूलतोपेयते ।
न चैवं तत्प्रामाण्यावधारणं निर्मूलं स्यादिति वाच्यम् ।
बोधकत्वेन स्वतःसिद्धत्वात् ।
अप्रामाण्यशङ्कानिवृत्तिः कुत इति चेदाप्तिमूलत्वेनेत्युक्तम् ।
तदवधारणं निर्मूलमिति चेन्न ।
श्रुतिसंवादनिबन्धनत्वादिति ।
ननु श्रुतेरेव वक्तृगुणहीनाया न प्रामाण्यमित्यतो निर्दोषवाक्येत्युक्तम् ।
बोधकत्वेनैव हि प्रामाण्यं व्यवस्थापितं तच्च वाक्यत्वाच्छतेरुभयसम्मतम् ।
दोषस्तु तदपवादकः ।
न चापौरुषेये स सम्भवतीति निष्कम्पमेव श्रुतिप्रामाण्यमिति वक्ष्याम इत्यर्थः ।
अस्यां दशायां श्रुतिविरोधेनापि पाशुपतादिस्मृतीनामप्रामाण्यं शक्यसाधनम् ।
यदप्युक्तम्"इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्ऽ; इति तत्तथा किन्त्वविरुद्धानामेवोपायत्वं न तु विरुद्धानाम् ।
नचैवमितरेतराश्रयत्वम् ।
श्रुत्यर्थनिश्चयस्य स्मृतिसंवादैकनिबन्धनत्वाभावादिति ।
*5,62*
ननु च पञ्चरात्रादिस्मृतीनां प्रामाण्यमङ्गीकुर्वाणैः सर्वथा प्रवृत्तिसामर्थ्यमङ्गीकरणीयम् ।
व्यभिचारस्य च कर्तृकरणादिवैगुण्यनिबन्धनत्वमभ्युपेयम् ।
अन्यथा फलव्यभिचारि च प्रमाणं चेति व्याघातापातात् ।
तथाच फलसंवादेनापि प्रामाण्यादिसाधनं सुशकमेवेति किमुच्यते, नच तद्युक्तिमूलतेति सुहृद्भावेन पृच्छन्तं प्रत्याह- वेदोक्तस्येति ॥
वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ।
नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते

2.1.9

न्यायसुधा:
वैदिकग्रन्थोपदिष्यानुष्ठाने वेदोक्ता निषेकादिसंस्कारा एवाधिकारतामापद्यन्त इति वेदोक्तस्येत्युक्तम् ।
यद्वा वेदशब्देन पञ्चरात्रादयो ऽपि गृह्यन्ते ।
अधिकारस्येत्युपलक्षणम् ।
साधनानुष्ठानस्येत्यपि द्रष्टव्यम् ।
दुर्निरूपत्वमस्मदाद्यप्रत्यक्षत्वम् ।
सदेति स्वभावत एव न तु देशादिव्यवधानेनेत्यर्थः ।
नियमो व्यभिचारो वा फलस्येति शेषः ।
हिशब्दो यस्मादित्यर्थे ।
तस्मात्फलसंवादेन प्रामाण्यादि नानुमीयत इति शेषः ।
एतदुक्तं भवति ।
प्रमितं खलु लिङ्गमनुमितेः करणम् ।
न सत्तामात्रेण ।
अतिप्रसङ्गात् ।
अत्र (च) एवं प्रयोक्तव्यम् ।
पञ्चरात्रादिकं प्रमाणम् ।
समर्थप्रवृत्तिजनकत्वात्सम्प्रतिपन्नवदिति ।
तस्य चायमर्थः ।
एतद्विहितसाधनानुष्ठानवद्भिस्तत्फलस्य नियमेन प्राप्तेरिति ।
नचैतल्लिङ्गं शक्यावधारणम् ।
व्यभिचारस्य बहुलमुपलम्भेन नियमस्य प्रत्येतुमशक्यत्वात् ।
तदवधारणे च काकतालीयतायाः शङ्कनात् ।
तत्रैतावद्वक्तव्यम् ।
कार्यं कारणसामग्रीसम्पाद्यं नतु तदेकदेशेन ।
तथात्वे ऽतिप्रसक्तेः ।
प्रकृते चोभयकुलशुद्धिवैदिकनिषेकादिसंस्काराद्यधिकारपूर्वकं विशुद्धाभिसन्ध्यादिमता सम्यगनुष्ठित कर्म असति प्रतिबन्धके, सति चेश्वरेच्छादौ हि सहकारिणि, सम्पदादिफलजननायालम् ।
तथा च यत्र फलं नोपलब्धं तत्राधिकारादिवैगुण्यमितरत्र तु तत्साद्गुण्यमित्यतो नियमनिश्चय इति ।
न चैतद्युक्तम् ।
परगतयोरधिकारादिभावाभावयोरस्मदादिभिरवगन्तुमशक्यत्वात् ।
नहि खलु परकीयपितृपितामहादीनां मानसादिविशुद्धिर्धा, निषेकादिसमीचीनता वा, मन्त्राणामयातयामत्वादिकं वा द्रव्यादीनां शुचित्वादिकं वा, अर्वाचीनैरवगन्तुं शक्यते ।
तथाचास्य फलनियम एव व्यभिचारस्तु वैगुण्यनिमित्त इति वास्तु ।
व्यभिचार एवास्य ।
क्वचित्फलोपलम्भस्तु काकतालीयो ऽन्यनिमित्त एवेति वा भवत्विति सन्देहो न निवर्तते ।
नच सन्दिग्धेन प्रामाण्यानुमानं युज्यते ।
प्रामाण्यसिद्धयुत्तरकालं तु व्यभिचारस्य वैगुण्यनिमित्तताकल्पनायामितरेतराश्रयत्वं स्यात् ।
वेदसंवादेन तु प्रामाण्ये ऽवधारिते शक्यते फलव्यभिचारस्यान्या गतिः कल्पयितुम् ।
अतो वेदसंवादेनैव प्रामाण्यं पञ्चरात्रादीनामवधार्यते न प्रवृत्तिसामर्थ्येनेति ।
*5,67*
एवं न्यायसाम्याभावेन प्रतिबन्दी मोचिता ।
यदपि प्रतिबन्दीमाददानस्य विवक्षितम् ।
यथा च पञ्चरात्रादिप्रामाण्यमभिलषता फलव्यभिचारस्याधिकारादिवैकल्यनिबन्धनता कल्प्या तथाहमपि पाशुपतादिस्मृतिषु कल्पयिष्यामीति, तदयुक्तं वैषम्यादित्याह- अधिकारो हीति ॥
अधिकारो हि सुलभः कथितो ऽन्यागमेष्वलम् ।
वेदोक्तो ह्य् अधिकारस्तु दुर्लभः सर्वमानुषैः

2.1.10

न्यायसुधा:
अधिकारग्रहणं साधनस्याप्युपलक्षणम् ।
अन्यागमेषु पाशुपतादिषु कथितो ऽधिकारो ऽलं सुलभो ऽनायाससाध्यः ।
कुतः ।
यस्मादन्यागमेषु तथा कथितः ।
तथाच तद्वैकल्यकल्पनमसम्भावनाप्रतिहतम् ।
वेदोक्तस्त्वधिकारो विशुद्धसन्तानजत्वादिः सर्वमानुषैर्दुर्लभ इति प्रसिद्धमेव ।
अतस्तद्वैकल्यकल्पनं सम्भावितमेवेति ।
*5,68*
ननु कथमन्यागमेष्वधिकारः साधनं च सुलभमुक्तमित्यतो लेशेन दशर्यति- अन्यागमेष्विति ॥
अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् ।
मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते

2.1.11

न्यायसुधा:
यद्भावाः तरेण महता तपसा विना वा(न)ऽलभ्यं तदपीत्यर्थः ।
यतित्वादिकमपीति वा ।
चण्डालजन्मनामपि किमु क्षत्रियादीनामिति वा ।
विप्रा एव ये कमर्णा चण्डालास्तेषां कथञ्चित्प्रत्यापत्तिर्वैदिकैरप्यङ्गीक्रियत इत्यतश्चण्डालजन्मनामित्युक्तम् ।
चण्डालेषु जन्म येषामिति वा ।
चण्डालसम्बन्धित्वाच्चण्डालं जन्म येषामिति वा तथोक्ताः ।
क्रमशो मण्डलान्तःप्रवेशेनेत्यनेनेदमुच्यते ।
यो यावज्जातिव्यवहितस्तस्य तावन्ति मण्डलानि पूज्यानि (कल्प्यानि) ।
तत्र यद्यन्मण्डलं प्रविशति तत्तज्जातीयो भवति ।
चरममण्डलप्रवेशे तु विप्रः सम्पद्यत इत्यन्यागमेषु प्रतिपाद्यत इति सम्बन्धः ।
तथा चोक्तम्
"दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात् ।
कापालं व्रतमास्थाय यतिर्भवति मानवःऽ; ॥
इति ।
एतदधिकारसौलभ्यमुदाहरणम् ।
एवं साधनसौलभ्यमपि द्रष्टव्यम् ।
यथाऽहुः कापालिकाः ।
"मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारदः ।
भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति ।
कर्णिका रुचकं चैव कुण्डलं च शिखामणिः ।
भस्म यज्ञोपवीतं च मुद्राषट्कं प्रचक्षते ।
आभिर्मुद्रितदेहस्तु न भूय इह जायते (कायभाक्)ऽ; इत्यादि ।
तथा कालामुखा अपि ।
रुद्राक्षकङ्कणं हस्ते जटा चैका च मस्तके ।
कपालं भस्मना स्नानं लकुटं (च कला) कलशार्चनम्ऽ; इत्यादि ।
*5,69*
ननु यथाधिकारसाधनयोः सौलभ्यमुक्तमेवं तद्दौर्लभ्यमपि तत्रैवोक्तमिति चेत्तर्हि न केवलं फलसंवादेन पाशुपतादीनामप्रामाण्यम् ।
किन्नाम परस्परविसंवादेनापीत्याह- अधिकारमिति ॥
*5,70*
अधिकारं दुरापाद्यमुक्तवातिसुलभं पुनः ।
अशक्यं साधनं चोक्तवा सुशकं तत्फलाप्तये ।
उच्यते ऽतस्तदुक्तं हि व्यभिचारि फले ऽपि तु

2.1.12

कथं प्रमाणतां गच्छेन् ...

2.1.4

न्यायसुधा:
यस्मात्क्वचिदधिकारं दुरापाद्यमुक्त्वा पुनरपि सुलभं ब्रवीति, यस्माच्च तत्फलाप्तये सम्पदादिफलाप्तये, साधनमशक्यमुक्त्वा सुशकं चोच्यते ।
यस्माच्च तदुक्तं साधनं फले ऽपि विषये व्यभिचारि अतस्तदुक्तं सा पाशुपताद्युक्तिः कथं प्रमाणतां गच्छेन्न कथमपीत्यर्थः ।
दुर्लभत्वोक्त्यनुरोधेन सौलभ्यवचनं प्ररोचनार्थं व्याख्यायताम् ।
तथाच फलविसंवादो ऽप्यधिकारादिवैगुण्यनिमित्तो भविष्यति यथा पञ्चरात्रादाविति चेन्न ।
वैषम्यात् ।
युक्तं हि पञ्चरात्रादिषु तथा कल्पनम् ।
श्रुतिमूलत्वेन प्रामाण्यस्य निश्चिततया कल्पकस्य विद्यमानत्वात् ।
पाशुपतादौ तु तदभावेन विसंवादस्याप्रामाण्यनिबन्धनतोपपत्तौ कल्पकाभावात् ।
क्वचित्संवादस्तु काकतालीयो वा गुडजिह्विकानिमित्तो वा भविष्यति ।
तदिदमुक्तं तुशब्देन ।
तदुक्तं त्विति सम्बन्धः ।
तदेवं पाशुपतादीनामपस्मृतित्वान्न तद्विरोधेनोक्तार्थासम्भवः शङ्कनीय इति स्थितम् ।
॥ इति श्रीमन्न्यायसुधायां स्मृत्यधिकरणम् ॥
[======= ज्न्य्स्_2,1.इइ: नविलक्षणत्वाधिकरणम् =======]
*5,71*
॥ अथ श्रीमन्न्यायसुधायां नविलक्षणत्वाधिकरणम् ॥
॥ ओं न विलक्षणत्वादस्य तथात्वं च शब्दात् ओं ॥
परिहृतः स्मृतिविरोधः ।
सम्प्रति युक्तिविरोधः परिह्रियते ।
तथाहि ।
श्रुत्यादिसमन्वयेन खलु जगज्जन्मादिकारणत्वं ब्रह्मणो निरूपितम् ।
तत्र श्रुतेरेव प्रामाण्यं तावद्दुर्लभम् ।
यद्धि फलव्यभिचारि तदप्रमाणं दृष्टम् ।
यथा विप्रलम्भकवाक्यम् ।
फलव्यभिचारिणी च श्रुतिः ।
पुत्रकामेष्ययाद्यनुष्ठाने ऽपि कदाचित्पुत्रजन्माद्यनुपलब्धेः ।
अन्यथा फलानुपलब्ध्योक्तं पाशुपताद्यप्रामाण्यमपि न स्यात् ।
एकदेशे चाप्रामाण्ये तन्न्यायेनैकदेशान्तरस्याप्यप्रामाण्यानुमानं सुलभमेव ।
किञ्च यदबुद्धिपूर्वकं तदप्रमाणं यथा पिपीलिकालिपिः ।
अबुद्धिपूर्वकश्च वेदो ऽपौरुषेयत्वाङ्गीकारात् ।
पौरुषेयत्वे च मूलप्रमाणशून्यत्वादप्रमाणमेव, विप्रलम्भकवाक्यवत् ।
अपि चाप्ताप्रणीतवाक्यत्वादुन्मत्तवाक्यवदप्रामाण्यं वेदस्यानुमेयम् ।
यदा वेदस्य ई(एता)दृशी दशा तदा का वातस्मृतीतिहासपुराणानां फलव्यभिचारादि(दोष)खर्खराणां प्रामाण्यस्य ।
तथाच वेदादिसमन्वयेन न जगज्जन्मादिकारणत्वं ब्रह्मणः सिद्धयतीत्येवं प्राप्ते तत्प्रतिविधानाथर्स्य न विलक्षणत्वादिति सूत्रस्य तात्पर्यमाह- नित्यत्वादिति ॥
न विलक्षणत्वाद् अस्य तथात्वं च शब्दात्

2.1.13

... नित्यत्वात् पुरुषोद्भवैः ।
उज्खितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥ मनुव्_2,1.12च्-द् ॥
न्यायसुधा:
वेदवाक्यमिति शेषः ।
अयमर्थः ।
बोधकत्वेन खलु करणानां प्रामाण्यं दोषात्तु, कदाचिदपनीयते ।
वेदवाक्यं च बोधकत्वेन वादिप्रतिवादिसम्मतम् ।
अन्यथा फलव्यभिचारो ऽपि तत्र(स्य) न स्यात् ।
वाक्ये च प्रामाण्यस्यापवादका दोषा अबोधकत्वविपरीतबोधकत्वादयःसर्वे ऽपि वक्तृदोषनिबन्धना एव ।
अन्वयव्यतिरेकाभ्यां तदवगमात् ।
वेदवाक्यं च नित्यत्वादपौरुषेयत्वात्पुरुषदोषनिबन्धनैः सर्वदोषैर्वर्जितं स्वत एव प्रामाण्यमाप्नोति ।
प्रामाण्ये च निश्चिते सति फलव्यभिचारस्य सामग्रीवैकल्यं वा प्रतिबन्धकसद्भावो वा कारणं कल्पयिष्यते ।
अन्यथा सिद्धानन्यथासिद्धयोरनन्यथासिद्धस्य बलवत्त्वादिति ।
अत्रैते प्रयोगा भवन्ति ।
वेदः प्रमाणं बोधकत्वे सति विपरीतबोधकत्वात्सम्प्रतिपन्नवत् ।
विमतो विपरीतबोधको न भवति अनाप्ताप्रणीतवाक्यत्वात्सम्प्रतिपन्नवाक्यवत् ।
विमतो अनाप्तप्रणीतो न भवति अपौरुषेयत्वाद्वयोमवत् ।
विमतः फलव्यभिचारो वैकल्यादिनिबन्धनो भव(वितुमर्ह)ति प्रमाणसिद्धफलव्यभिचारत्वात् चरकाद्युक्तफलव्यभिचारवदिति ।
*5,77*
स्यादेतत् ।
नित्यत्वमेव वेदस्य कुतः ।
प्रागुक्तसामान्यसिद्धिपरिशेषाभ्यामिति ब्रूमः ।
ये तु स्वयूथ्या वेदप्रामाण्यमङ्गीकृत्यापि तन्नित्यतां नानुमन्यन्ते तान्प्रति सूत्रसूचिताभिः श्रुतिभिस्तामुपपादयति- विरूपेति ॥
विरूप नित्यया वाचा ...

2.1.14

न्यायसुधा:
अनेन"तस्मै नूनमभिद्यवे वाचा विरूप नित्यया ।
वृष्णे चोदस्व सुष्युतिम्ऽ; इति श्रुतिमुपादत्ते ।
अत्र वाचो नित्यत्वमुच्यते ।
न वेदस्य ।
तदपि बहुकालीनत्वं भविष्यतीत्यतो"नित्ययानित्यया स्तौमि ब्रह्म तत्परमं पदम्ऽ; इति"श्रुतिर्वाव नित्यानित्या वाव स्मृतयो याश्चन्या वाचःऽ; इति श्रुतिमुपादत्ते- नित्ययेति ॥
... नित्ययानित्यया सदा ।
इत्यादिश्रुतिभिर्वेदो नित्य इत्यवगम्यते ॥ मनुव्_2,1.13ब्-द् ॥
न्यायसुधा:
व्यास -(9)
*5,78*
व्याख्यानान्तरनिरासाय नित्ययेत्येतत्सदा विद्यमानयेति व्याख्यातम् ।
वाक्यशेषे हि बहुकालीना अपि स्मृतीरनित्यपक्षे निक्षिप्य श्रुतिमेव नित्यामाह ।
पौरुषेयतामपि श्रुतयो ऽभिदधतीति चेन्न ।
आप्तोक्तत्वस्य दुरवधारणतायाः प्रागुक्तत्वेन पौरुषेयत्वे प्रामाण्यावधारणानुपपत्तिप्रसङ्गेन दुर्बलत्वात् ।
प्रामाण्यस्य स्वतस्त्वेनापौरुषेयत्वे ऽपि कारणाभावात्प्रामाण्यं न स्यादिति प्रसङ्गस्याभासत्वात् ।
प्रबलश्रुत्यनुसारेण तत्तत्पुरुषप्रवर्तितत्वमेव तासामर्थो ऽवगन्तव्यः ।
तथाच"ऋचः सामानि जज्ञिरेऽ"ऋग्वेद एवाग्नेरजयतऽ; इत्याद्युपपन्नं भवति ।
न ह्येकं वाक्यमनेककर्तृकमपि सम्भवति ।
सम्भवति त्वनेकप्रवर्तितमिति ।
*5,81*
यदपि पिपीलिकालिपिवदबुद्धिपूर्वकत्वादप्रामाण्यं श्रुतेरिति, तन्निराकरोति- पिपीलिकेति ॥
पिपीलिकालिपिश्चापि प्रमाणमविरोधतः
न्यायसुधा:
चो यस्मादित्यर्थे ।
बोधकत्वसमुच्चये वा ।
तस्मात् दृष्टान्तस्य साध्यविकलत्वादसदनुमानमिति शेषः ।
न केवलं श्रुतिः किन्तु पिपीलिकालिपिरपीत्यपेरर्थः ।
अप्रामाण्यं खलु पिपीलिकालिपेरबोधकत्वेन वा स्याद्विपरीतबोधकत्वेन वा ।
नाद्यः ।
अनुभवविरुद्धत्वात् ।
अन्यथा पुरुषलिपेरप्यबोधकत्वं स्यात् ।
तथाच तद्वैयर्थ्यमापद्येत ।
अपि चैवं सत्याकाशादिकमेवोदाह्रियेत तत्किं पिपीलिकालिपिगवेषणया ।
न द्वितीयः ।
तद्धि बलवत्प्रमाणविरोधतः कल्पनीयमन्यथातिप्रसङ्गात् ।
नच पिपीलिकालिपिबोधिते ऽर्थे प्रमाणविरोधो ऽस्ति ।
अतः कथमसावप्रमाणं स्यात् ।
स्यादेतत् ।
लिपिस्तावन्न प्रमाणं पृथक् ।
अनुप्रमाणत्रित्वाभ्युपगमात् ।
नच प्रत्यक्षागमयोरन्तर्भवति ।
अतल्लक्षणत्वात् ।
अतो ऽनुमानमेवेति वाच्यम् ।
तच्च लेखकबुद्धिस्थशब्दविषयं वा तदवबुद्धार्थविषयं वा स्यात् ।
न चैतत्पिपीलिकालिपौ सम्भवति ।
प्रमाणबाधितत्वात्तत्कथमसौ प्रमाणमिति ।
मैवम् ।
तथा सत्येडमूकलिपेरप्यप्रामाण्यप्रसङ्गात् ।
भवतु साप्रमाणमितरा त्वनुमानमिति चेन्न ।
एडमूकलिपेरपि सांव्यावहारिकत्वदर्शनात् ।
किञ्चेतरत्राप्यनुमाने किमेडमूकव्यावृत्त्यर्थं किमपि विशेषणमुपादेयमुत नेति वाच्यम् ।
नाद्यः ।
सन्दिग्धासिद्धिप्रसङ्गात् ।
निर्णीतलेखकैव लिपिरनुमानमिति चेन्न ।
अनिर्णीतलेखकाया अपि सांव्यावहारिकत्वात् ।
न द्वितीयः ।
एडमूकलिपावनैकान्त्यात् ।
अथ मूललेखकबुद्धिस्थशब्दार्थानुमाने न को ऽपि दोष इति मतम् ।
तदपि न ।
पिपीलिकालिपावनैकान्त्यात् ।
तद्वयावर्तने च सन्दिग्धासिद्धेः ।
नहि पिपीलिकालिपेः पुरुषलिपेरस्ति कश्चिद्विशेषो येन नेयं पिपीलिकालिपिरिति निश्चिनुयात् ।
तस्मात्पुरुषलिपिरपि पदमिव पदार्थस्य वर्णानां स्मरणहेतुरेष्यव्या ।
तत्समं पिपीलिकालिपावपि ।
स्मृतेश्च प्रमितत्वं वक्ष्यामः ।
*5,85*
ननु प्रमात्वे ऽपि स्मृतेर्न तद्धेतुमात्रस्य प्रामाण्यम् ।
प्रमात्रादीनामपि तत्प्रसङ्गात् ।
किन्तु साधकतमस्यैव ।
तच्च मन एवेति सिद्धान्तः ।
लिपिदर्शनादिकं तु संस्कारो द्वेधाभिधसहकारिसम्पादनेनैव चरितार्थमिति कथं तस्य प्रामाण्यम् ।
मैवम् ।
अर्थसन्निकर्षलक्षणावान्तरव्यापारसहितं हीन्द्रियं प्रत्यक्षं नेन्द्रियमात्रम् ।
मनसश्च स्मरणोदये संस्कारोद्बोध एवार्थसन्निकर्षः ।
तथाच चक्षुष इवार्थोपसर्पणतत्संयोगसहितस्य प्रामाण्यमेवं लिपिदर्शनतदुद्बुद्धसंस्कारसहितस्यैव मनस इति कथं न लिपेः प्रामाण्यम् ।
केवलायास्तु नास्तीति चेत् ।
श्रुतेरपि तन्नाङ्गीक्रियत एवेति ।
नन्वत्र प्रमाणशब्दो भावसाधनो वा स्यात्कारणसाधनो वा ।
आद्ये पिपीलिकालिपिः प्रमाणमिति सामानाधिकरण्यं न स्यात् ।
द्वितीये तु प्रमाणीति भवितव्यम् ।
कथं वेदाः प्रमाणं स्मृतिः प्रमाणमिति ।
प्रमाणमिति सामान्येनोद्दिश्य वेदादित्वविधानात् ।
अन्यथा तत्रापि दौर्घट्यमेवेति ।
मैवम् ।
भावसाधनत्वाभ्युपगमात् ।
सामानाधिकरण्यं तु भाक्तमिति ।
*5,89*
ननु च श्रुतेः सम्यगनुभवसाधनत्वेन प्रामाण्यमिष्यं नतु स्मारकत्वेन ।
तथाच न श्रुतिः सम्यगनुभवसाधनबुद्धिपूर्वकत्वात्पिपीलिकालिपिवदित्यनुमास्यत इत्यत आह- यथेति ॥
यथा द्रौणेरुलूकेन कृतमप्यास बोधकम्

2.1.15

अविरुद्धं ...
न्यायसुधा:
यथाबुद्धिपूर्वकमप्येकेनोलूकेन कृतमनेककाकनाशनमश्वत्थाम्नो ऽहमेक एवानेकान्वधिष्यामीत्यस्यार्थस्य बोधकं सम्यगनुभवं प्रति साधनं जातम् ।
तथा श्रुतिरबुद्धिपूर्वापि सम्यगनुभवसाधनम् ।
एतदुक्तं भवति ।
अबुद्धिपूर्वकत्वं किमनादित्वं विवक्षितम्, सादित्वे ऽपि बुद्धिजन्यत्वाभावो वा प्रतिपाद्याथर्बुद्धिपूर्वकत्वाभावो वानेनैतदेवं प्रतिपादयिष्यामीत्यभिसन्धिपूर्वकतावैधुर्यं वा ।
नाद्यः ।
पिपीलिकालिपावभावात् ।
गगनमेव दृष्टान्तो भविष्यतीति चेत् ।
तथापि श्रुतेरनादित्वस्य परेणानङ्गीकृतत्वेनासिद्धेः ।
न द्वितीयः ।
उत्पद्यमानं बुद्धिजन्यमेवेति मयाङ्गीकृतत्वात् ।
न तृतीयचतुर्थौ ।
उलूककृतव्यापारे व्यभिचारादिति ।
यद्यपि प्रत्यक्षे व्यभिचारो ऽत्र वक्तुं शक्यते ।
तथापि ज्ञातकारणसजतीयत्वेन शक्यपरिहारो ऽसाविति नोदितः ।
अनुमानमात्रे सुवचो ऽपि चेतनव्यापारविषयस्य तथाभूत एव शाकुने प्रदर्शयितुमुचित इति न प्रदर्शितः ।
ननु शाकुनमर्थविसंवाद्यपि दृश्यते ।
सत्यम् ।
यत्तु प्रमाणाविरुद्धं तद्वयभिचारस्थलं भविष्यतीति भावेनोक्तम्- अविरुद्धमिति ॥
शाकुनमात्रे व्यभिचारस्य दर्शयितुं शक्यत्वे ऽप्यागमिकत्वेन विसंवादानर्हतयेदमुदाहृतम् ।
नन्वासेति कथम् ।
अस्तेर्भूरित्यस्य नित्यत्वात् ।
विभक्तिप्रतिरूपकं चाव्ययं भवतीति वचनादव्ययमेतदिति न दोषः ।
विभक्तिप्रतिरूपकमित्युच्यते ।
नचैवं विभक्तिरस्ति ।
न नास्ति ।
आमन्तानुप्रयोगस्य विद्यमानत्वात् ।
*5,96*
नन्वेवं तर्हि प्रयुज्यते ।
श्रुतिर्न सम्यगनुभवसाधनं शब्दत्वे सत्यबुद्धिपूर्वकत्वादिति ।
यद्वा श्रुतिर्नागमो ऽबुद्धिपूर्वकत्वादिति ।
अबुद्धिपूर्वकत्वं च विवक्षितार्थतत्त्वज्ञानपूर्वकत्वाभावः ।
आद्य(स्यापि)स्य पिपीलिकालिपावप्रवेशे ऽप्युन्मत्तवाक्यं दृष्टान्तो भविष्यति ।
न चोन्मत्तवाक्यमपि प्रमाणं प्रमाणविरुद्धत्वादित्यत आह- विरुद्धं त्विति ॥
... विरुद्धं तु विरोधादेव बाधितम्
न्यायसुधा:
प्रमाणविरुद्धं यदुन्मत्तवाक्यं तत् प्रमाणविरोधादेव बाधितमयथार्थमिति यावत् ।
न तूक्तहेतुभ्यामिति ।
सोपाधिकतामनेनाचष्टे ।
अत एवाप्ताप्रणीतवाक्यत्वहेतुरप्यपास्तः ।
अयमभिसन्धिः ।
न तावत्सम्यगनुभवसाधनत्वाभावो ज्ञानसाधनत्वाभावेन ।
ज्ञानसाधनत्वस्योभयसिद्धत्वात् ।
नापि स्मृतिसाधनत्वेन ।
अननुभूतविषयत्वसम्मतेः ।
ततो विपरीतबोधकत्वेनैवेति वाच्यम् ।
एवं द्वितीयप्रयोगे ऽपि न तावदनागमत्वमशब्दत्वेन ।
शब्दत्वस्योभयसम्मतत्वात् ।
तस्मादयथाथर्त्वेनेति वक्तव्यम् ।
एवं तृतीयप्रयोगे ऽपि साध्यनिष्कषर्ः कर्तव्यः ।
तथाच तत्र प्रमाणबाधितत्वमुपाधिः ।
यद्वानुभवसाधनत्वावच्छिन्ने प्रथमसाध्ये, वाक्यत्वावच्छिन्ने द्वितीयसाध्ये बोधकत्वावच्छिन्ने तृतीये चायमुपाधिरिति ।
नन्वस्योपाधेर्यदयथार्थं तत्प्रमाणविरुद्धमिति साध्यव्यापकत्वे ऽपि साधनाव्यापकत्वं कथमित्यत आह- विरोधेति ॥
विरोधादर्शनात् ...
न्यायसुधा:
पक्षीकृतायां श्रुतावुक्तसाधनसद्भावे ऽपि प्रमाणविरोधस्यादशर्नात् ।
साधनाव्यापकत्वमिति शेषः ।
अत्र विरोधाभावादिति वक्तव्ये ऽदर्शनादित्युक्तं विरोधाभावसाधनार्थमिति द्रष्टव्यम् ।
*5,100*
किमतो यद्येवं प्रमाणविरुद्धत्वमुपाधिरिति चेत् ।
उपाधेः प्रतिपक्षोन्नायकत्वस्य वक्ष्यमाणत्वेनानुमानानां सत्प्रतिपक्षत्वमित्याशयेनाह- तस्मादिति ॥
... तस्माद् वेदप्रामाण्यमिष्यते

2.1.16

न्यायसुधा:
यस्मात्प्रमाणविरुद्धत्वमयथार्थत्वस्य व्यापकं व्यावृतं च पक्षीकृताद्वेदात् ।
व्यापकनिवृत्तौ व्याप्यनिवृत्तिरवश्यम्भाविनी ।
तस्माद्वेदप्रामाण्यमेष्यव्यम् ।
अयमत्र प्रयोगः ।
वेदो नायथार्थः प्रमाणाविरुद्धत्वात्प्रत्यक्षवत् ।
यद्वा वेदो यथार्थो बोधकत्वे सति प्रमाणाविरुद्धत्वात्प्रत्यक्षवत् ।
एवं वेदः सम्यगनुभवसाधनमनुभवसाधनत्वे सति प्रमाणविरुद्धत्वात्प्रत्यक्षवत् ।
वेद आगमो वाक्यत्वे सति प्रमाणाविरुद्धत्वात्सम्प्रतिपन्नवदिति ।
एवं वाक्यत्वावच्छिन्ने साध्ये ऽनाप्तप्रणीतत्वमुपाधिस्तद्विपर्ययेण च प्रतिपक्षो ऽभिधेय इति ।
*5,103*
अस्त्वेवं वेदप्रामाण्यम् ।
पञ्चरात्रादिस्मृतीनां तु कथम् ।
नहि ता अप्यपौरुषेयाः ।
येन प्रामाण्यमवधार्य फलव्यभिचारमन्यथा नेष्याम इत्यत आह- तन्मूलत्वादिति ॥
तन्मूलत्वात् स्मृतीनां च ...
न्यायसुधा:
प्रामाण्यमिष्यत इति सम्बन्धः ।
यद्यपि भगवद्रचितानां वेदा(दर्)थमुपलभ्य रचितत्वं वेदमूलत्वं नास्ति ।
तस्य स्वतः सर्वज्ञत्वम् ।
तथापि तमनुसृत्य रचितत्वं तन्मूलत्वमिह विवक्षितमिति नोक्तदोषः ।
अयमत्र प्रयोगः ।
पञ्चरात्रादिस्मृतिः प्रमाणं प्रमाणमूलत्वात्प्रमाणसंवादित्वात्सम्प्रतिपन्नवदिति ।
यद्वा विमतं प्रमाणं वेदसंवादित्वात्पराभ्युपगतार्हिंसादिवाक्यवत् ।
आप्तवाक्यत्वमुपाधिरिति चेत् (न) ।
प्रत्यक्षादौ साध्याव्यापनात् ।
वाक्यत्वावच्छिन्नसाध्यव्यापकत्वाददोष इति चेन्न ।
तथापि वेदेतरवाक्यत्वावच्छिन्नसाधनेनोपाधेः पक्षे साधनसौलभ्यात् ।
सति चैवं स्मृतीनां प्रामाण्ये तद्बलेन फलव्यभिचारो ऽप्यन्यथयितव्य इति ।
ननु चोक्तार्थविरुद्धवादीन्यपि स्मृतीतिहासपुराणान्युपलभ्यन्ते ।
तेषां प्रामाण्यसाधने च बहुविप्लवः स्यादित्यत आह- विरोध इति ॥
... विरोधो यत्र न क्वचित्
न्यायसुधा:
पूर्वेणैवान्वयः ।
यासां स्मृतीनां सर्वथा प्रमाणविरोधो नास्ति तासामेव पक्षीकरणान्न कश्चिद्दोष इत्याशयः ।
नन्वेवं सति वेदमूलत्वोपन्यासो व्यर्थः ।
ज्ञानजनकानामवश्याङ्गीकरणीयेन विरोधाभावेनैव प्रामाण्यसिद्धेरिति चेन्न ।
फलव्यभिचारलक्षणविरोधदर्शनेनासिद्धिप्रसङ्गात् ।
प्रामाण्येन तदपनयने चेतरेतराश्रयत्वापातात् ।
वेदमूलत्वेन तु प्रामाण्ये सिद्धे न को ऽपि दोष इति ।
*5,107*
अप्रामाण्यप्रयोजकस्य प्रमाणविरोधस्याभावान्न श्रुतिस्मृत्योरप्रामाण्यमित्युक्तम् ।
तदयुक्तम् ।
श्रुत्याद्युक्त(स्य) ईश्वरसार्वज्ञादेरीश्वरो न सर्वज्ञः पुरुषत्वात् ।
यज्ञदत्तवत् ।
इत्याद्यनुमानविरुद्धत्वादित्यत आह- विरोधो ऽपीति ॥
विरोधो ऽपि स एवोक्तः प्रत्यक्षेणागमेन वा

2.1.17

*5,108f.*
न्यायसुधा:
प्रकृतसम्बन्धार्थो ऽपिशब्दः ।
यच्छब्दो ऽध्याहार्यः ।
विरोधादेव बाधितमित्यप्रामाण्यप्रयोजकतयोक्तो विरोधो ऽपि स एव यः प्रत्यक्षेणागमेन वा स्यात् ।
न पुनरनुमानेन ।
अयमभिसन्धिः ।
अप्रामाण्यप्रयोजकतया यदस्माभिरभिहितं तत्पक्षे ऽप्युपपादयितुं खलु परस्यायं प्रयत्नः ।
अस्माभिश्च प्रत्यक्षागमविरोध एव तथाभिप्रेतो नानुमानविरोधः ।
तथाच पक्षे तद्व्युत्पादनं प्रकृतासङ्गतमेव ।
स्वतन्त्रानुमानविरोधं तूत्तरत्र निराकरिष्यति सूत्रकृदिति ।
ननु प्रमाणविरोध एवाप्रामाण्ये प्रयोजको ऽस्तु किं प्रत्यक्षेणागमेन वेति विशेषणेन ।
तथा चोक्तनुमानविरीधाद्वेदादेरप्रामाण्यमिति ।
मैवम् ।
वक्ष्यामो ह्यत्र ब्रह्मादिवस्तुषु प्रमाणं वेद एवैक इति वैदिके ऽर्थे ऽनुमानस्यानवकाशम् ।
यत्र च यस्याप्रवेशो न तस्य तद्बाधकम् ।
नहि नयनं स्पर्शापबाधनस्येष्ये ।
तथाच कथमनुमानं वेदा(द्यर्)थबाधकेन तदप्रामाण्ये प्रयोजकं स्यात् ।
प्रकृतं च वेदादिकमेवेति ।
*5,109*
नन्वेवं (सति) तर्हि वेदार्थमीमांसा नारम्भणीया स्यात् मीमांसाया युक्त्यनुसन्धानात्मकतवादित्यत आह- आगमेनेति ॥
आगमेनागमस्यैव विरोधे युक्तिरिष्यते
न्यायसुधा:
एवशब्दो विरोध इत्यतः परो द्रष्टव्यः ।
निर्णयार्थमिति शेषः ।
एतदुक्तं भवति ।
अनुमानं हि धर्म्यादिप्रमितिमपेक्षते ।
नच धर्म्यादिरूपं ब्रह्मादिकं वेदादृते सिद्धयतीति तदनपेक्षायामाश्रयासिद्धयादिकम्, अपेक्षायां तु विरोधिनो धर्म्यादिग्राहकविरोध इत्येवं वैदिके ऽर्थे ऽनुमानस्यानवकाशो ऽभिधिस्तितः ।
मीमांसायां तु क्वचिदागमस्यागमान्तरेण विरोध एवार्थनिर्णयार्थं युक्तिरुपादीयते ।
सा खल्वन्यतरागम(प्रामाण्य)मुपोद्बलयन्त्य(न्त्या)न्यतरागमबाधया ऽर्थनिर्णयाय प्रभवति ।
अन्यतरागमसिद्धधर्म्याद्याश्रयणेना(येण)श्रयासिद्धयाद्यनवकाशात् ।
अन्यतरागमस्य धर्म्यादिग्राहकत्वाभावेनाप्रबलस्य, आगमसूचितयोपपत्तेस्ततो दुर्बलस्य, अकिञ्चित्करत्वात् ।
तदेवमेवंविधोपपत्तेरागमिके ऽप्यर्थे सावकाशत्वादुपपन्ना मीमांसेति ।
*5,110*
अपि च प्रत्यक्षागमविरोधो ऽपि न स्वरूपेणाप्रामाण्यं प्रयोजयति ।
किन्तु तयोरुपजीव्यत्वादिना प्राबल्ये सत्येव दुर्बलयोः स्वयं बाधितत्वेन समबलयोः प्रतिबन्धमात्रहेतुत्वेनाप्रामाण्यनिश्चयानुपपत्तेः ।
उपजीव्यादिविरोधेन चाप्रामाण्यं भवद्वेदस्य न सर्वथायथार्थत्वलक्षणम् ।
किन्नाम प्रतीतार्थप्रच्यावनमात्रम् ।
अपौरुषेयतया निर्दोषस्य सर्वथाप्रामाण्यानुपपत्तेः ।
तथाचान्यार्थकल्पनावश्यं कार्येत्याशयवानाह- उपजीव्येति ।
उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना

2.1.18

न्यायसुधा:
उपलक्षणमेतत् ।
निरवकाशत्वादिकमपि ग्राह्यम् ।
भवत्वेवं ततः किम् ।
वेदोपजीव्यत्वादिकं च प्रत्यक्षागमयोरेव प्रायेण सम्भवति ।
युक्तेस्तु क्वचिदेव ।
पुरुषत्वादियुक्तेस्तु नास्त्येव ।
अतश्च न तद्विरोधेन वेदस्याप्रामाण्यं मन्तव्यमित्याशयेनाह- प्रत्यक्षमिति ॥
*5,111*
प्रत्यक्षमुपजीव्यं स्यात् प्रायो युक्तिरपि क्वचित् ।
आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता

2.1.19

न्यायसुधा:
वेदस्येत्यनुवर्तते ।
स्यादित्यतः परमितिशब्दो ऽध्याहार्यः तत्त्वमसीत्यादिवेदस्य प्रत्यक्षमुपजीव्यम् ।
युक्तिरपि क्वचिद्वेदस्योपजीव्येति सम्बन्धः ।
यथा"प्राणा वा अणवःऽ; इत्यादेः ।
आगमैकप्रमाणकेषु विष्ण्वादिविषयेषु प्रवर्तमानं"जनितो ऽत विष्णोःऽ; इत्यादिवेदं प्रति निरनिष्यो निरवद्य इत्यादेस्तस्य वेदो(दस्यो)पजीव्यतेत्यर्थः ।
एवं निरवकाशत्वादिकमपि प्रत्यक्षागमयोरेव प्रायेण सम्भवति युक्तेस्तु क्वचिदेव ।
तच्च न प्रकृतयुक्तेरित्यपि द्रष्टव्यम् ।
*5,115*
आगमयोः परस्परविरोधे सत्यन्यतरागमाश्रयेण युक्तेरनुप्रवेशोपपत्तेर्युक्ता मीमांसेत्युक्तम् ।
तदनुपपन्नम् ।
असार्वत्रिकत्वात् ।
नहि सर्वत्रागमयोः परस्परविरोध एव मीमांसावतार्यत इत्यत आह- युक्त इति ॥
युक्तो ऽयुक्तश्च यद्यर्थ आगमस्य प्रतीयते ।
स्यात् तत्र युक्त एवार्थो ... ॥ मनुव्_2,1.19अ-च् ॥
न्यायसुधा:
तत्र तर्ह्ययमभिसन्धिः ।
सत्यमेतत्क्वचिदेवायं न्याय इति ।
तथापि यत्र नैवं तत्रैकस्यैवागमस्यानेकार्थप्रतीतौ युक्त्यनुसारिणमर्थमुपादाय तदनुगुणतद्विरुद्धार्थपरित्यागः क्रियत इति नोक्तनियमभङ्गः ।
केवलयुक्तेर्वैदिके ऽर्थे ऽनुप्रवेशस्यानङ्गीकृतत्वात् ।
नापि मीमांसानुपपत्तिः ।
अन्यतरवैदिकार्थानुसारिण्या युक्तेरङ्गीकृतत्वादिति ।
*5,116*
प्राक् पुरुषत्वादियुक्तिविरोधेनागमस्याप्रामाण्यं न वाच्यमित्युक्तम् ।
इदानीं तु युक्तिरेवासौ प्रत्यक्षागमविरोधेनाप्रमाणम् ।
तस्यास्तदुजीवित्वेन ततो दुर्बलत्वादित्याशयवानाह- युक्तिश्चेति ॥
... युक्तिश्च त्रिविधा मता

2.1.20

न्यायसुधा:
यद्वा यत्सिद्धवत्कृत्य तत्र मीमांसारम्भानुपपत्तिः परिहृता तदिदानीं दर्शयितुमाह- युक्तिश्चेति ॥
चशब्दः प्रकृतानुसन्धानार्थः ।
कथं त्रैविध्यमित्यत आह- व्याप्तिरिति ॥
व्याप्तिः प्रत्यक्षता यस्या युक्तिगाऽगमगा तथा
न्यायसुधा:
यस्या युक्तेः साध्येन व्याप्तिः प्रत्यक्षगा प्रत्यक्षावगता सैका ।
युक्तिगा युक्त्यवगता यस्या व्याप्तिः सा द्वितीया ।
तथाऽगमगा आगमावगता यस्या व्याप्तिः सा तृतीयेति ।
एवं त्रिविधेति योज्यम् ।
उपलक्षणं चैतत् ।
धर्(मार्)म्यादिग्राहकभेदेनापि त्रैविध्यं द्रष्टव्यम् ।
एतच्च स्पष्टयिष्यामः ।
*5,117*
एवं तर्हि या युक्तिमूला युक्तिः सा नागमाद्युपजीविनीति तस्य बाधिका ।
तदबाध्या च भवत्वित्यत आह- प्रत्यक्षेति ॥
*5,118*
प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी

2.1.21

न्यायसुधा:
तत्र तासु त्रिविधासु युक्तिषु ।
प्रत्यक्षागमूलेति ।
प्रत्यक्षमूलाऽगममूला चेत्यर्थः ।
युक्तिमूलापि हि युक्तिरन्ततः प्रत्यक्षागममूलैव(द्र)एष्यव्या ।
अन्यथा तन्मूलयुक्तेनिर्र्मूलत्वमनवस्था वाऽपद्येत ।
तथाच प्रत्यक्षाद्यपेक्षत्वेन साम्ये ऽपि बहुसंविधानानपेक्षयोः प्रत्यक्षागममूलयोर्युक्त्योः प्रबलत्वं तदपेक्षायास्तु युक्तिमूलाया दुर्बलत्वं युक्तमेव ।
तथाच प्रबलयोर्(युक्त्योर्)यदेदृशी दशा तदा का (वार्ता) दुर्बलाया युक्तेरागमबाधनादाविति ।
*5,119*
तदेवमप्रामाण्ये प्रमाणविरोधस्यैव प्रयोजकत्वाच्छत्यादेश्च प्रत्यक्षागमविरोधाभावात् ।
अनुमानविरोधस्याप्रयोजकत्वान्नाप्रामाण्यम् ।
किन्नाम बोधकत्वेन स्वत एव प्रामाण्यमित्युपपादितम् ।
तदेतत्प्रमाणाप्रमाणविवेकमविदुषां दुरवधारणमित्युद्देशलक्षणविभागपरीक्षाभिस्तन्निरूपणार्थमुत्तरो ग्रन्थसन्दर्भः ।
नच सांव्यावहारिकत्वात्प्रमाणादेः किं तन्निरूपणेनेति वाच्यम् ।
तथापि स्वरूपसङ्खयाविषयफलगोचराणां वादिविवादानां विद्यमानत्वेन निरूपणार्हत्वात् ।
यद्यप्येषो ऽर्थस्तर्कशास्त्रस्य विषयो न मीमांसाशास्त्रस्य ।
तथापि शिष्यहितैषिणा भाष्यकृता प्रसङ्गागतो निरूप्यते ।
यथा पूवर्मीमांसाभाष्यकारेणेत्यदोषः ।
अत एव प्रमाणलक्षणादौ निरूपितस्यार्थस्य पुनरत्र निरूपणं न दोषाय ।
एकीकृत्य निरूपणस्यापि शिष्यहितार्थत्वात् ।
*5,121*
तत्र निर्धारित(निर्ज्ञात)स्वरूपस्यैव सङ्खयादिजिज्ञासा ।
लक्षणं च तन्निर्धारणोपायः ।
नच सामान्यलक्षणेन विना विशेषलक्षणा(स्या)वसर इत्यतः प्रमाणसामान्यलक्षणं प्रथमं तावदाह- याथार्थ्यमेवेति ॥
याथार्थ्यमेव मानत्वं ...
*5,122*
न्यायसुधा:
अत्र कश्चिदाह ।
किमर्थं लक्षणमुच्यते ।
किं सजातीयविजातीयव्यवच्छिन्नलक्ष्यप्रतीत्यर्थम् ।
उत प्रमाणत्वादिप्रतीतये तच्चिह्नोपदर्शनमिदम् ।
उत प्रमाणादिशब्दप्रवृत्तिनिमित्तावधारणार्थम् ।
अन्यस्मै कस्मैचित्प्रयोजनाय वा ।
*5,124*
नाद्यः ।
तस्या एव दुरवधारणत्वात् ।
तथा हि ।
किं सजातीयेति प्रमाणत्वेन (सजातीयत्वं) विवक्षितं रूपान्तरेण वा ।
नाद्यः ।
स्वव्यवच्छेदावधेः सजातीयादव्यावृत्तत्वेन व्यवच्छेदकत्वानुपपत्त्या व्यावृत्तिस्वीकारेणा(च)व्यापकत्वात् ।
नापि द्वितीयः ।
विजातीयपदोपदानवैयर्थ्यात् ।
अस्ति हि प्रमेय(त्वादिना)सर्वसाजात्यम् ।
अथ ज्ञानत्वेन विशेषेण साजात्यं विवक्षित्वेदमुच्यते ।
तर्हि लक्ष्यस्यापि ज्ञानत्वादिना साजात्याद्वयवच्छेद्यकोटिप्रविष्यतया सङ्ग्राह्याभावप्रसङ्गः ।
लक्ष्यस्य यज्ज्ञानत्वादिभिः सजातीयं तद्वयवच्छेद्यम् ।
नच लक्ष्यस्य लक्ष्यं सजातीयम् ।
षष्ठयर्थस्य सम्बन्धस्य भेदे व्यवस्थितत्वादिति चेत् ।
एवं तर्हि लक्ष्यापेक्षया भिन्नाद्वयवच्छेद इत्येवोच्यतां कृतं ज्ञानत्वादिना साजात्येन प्रकृतानुपयोगिना वर्णितेन ।
यदा च लक्ष्यादन्यत्व परेषामवगतं तदा परेभ्यो ऽन्यत्वमपि लक्ष्यस्यार्थादवगम्यत इति सिद्धमग्रतो लक्षणप्रयोजनमिति वैयर्थ्यमेव स्याल्लक्षणाख्यानस्य ।
*5,125*
अपि च न तावदनेन लक्षणेनानवगतेनैव व्यवच्छिन्नप्रतीतिसम्भवः ।
अतिप्रसङ्गात् ।
नापि ज्ञातेन ।
दुरवधारणत्वात् ।
न तावल्लक्षणं प्रत्यक्षम् ।
निर्दोषाक्षोद्भवत्वादेरप्रत्यक्षविशेषणत्वम् ।
नापि कार्येण लिङ्गेन तदनुपपत्त्या वा तदवगमः ।
ताभ्यां सामान्यतः कारणमात्राक्षेपेण कारणगतानुगतरूपासिद्धावेकरूपलक्षणासिद्धेः ।
कार्यस्यैकजात्यादेकजातीयकारणसिद्धिरिति चेत् ।
तर्हि कार्यगतैकजात्यस्य पूर्वमवश्यं प्रत्येतव्यत्वाङ्गीकारे(ण) तत एव सजातीयविजातीयव्यवच्छेदप्रति(दोष)पत्तिरस्तु ।
कृतमनया पारम्पर्यकुसृष्टया ।
नन्वेतावतापि न प्रकृतलक्षणखण्डनं (सं)भवति ।
अव्याप्तेरतिव्याप्तेर्वानुद्भावनादिति चेत् ।
मैवम् ।
प्रथमभावितयावश्याभ्युपेयतया लघोरुपायात्साध्यसिद्धौ सम्भवत्यां चरमभावितया अवश्यानुष्ठेयत्वाभावेन गुरावुपाये प्रवर्तमानस्य तवैवेदं (दूषरो)दोषोद्भावनम् ।
प्रदीपे प्रदीपं प्रज्वाल्य तमोनिरासाय यतमानस्यैव पुंसः ।
नहि तत्र कश्चिद्दीपदोषः ।
किन्तु तथाकारी पुरुष एव पर्यनुयोज्यः ।
सर्वसाधनसाधारणो वायं दोषः ।
यत्सम्भवदेवंविधलघूपायत्वं नाम स्वरूपासिद्धिरिव सर्वप्रमाणानाम् ।
तस्मान्मा नाम भूदतिव्याप्त्यादिदोषः ।
सामान्यदोषादेव दुष्यं लक्षणमिति ।
*5,132*
एतेन द्वितीयो ऽपि निरस्तः ।
प्रमाणत्वाद्यवगममन्तरेण तदवगमानुपपत्तेस्तदवगमायास्य प्रतीतावन्योन्याश्रयप्रसङ्गः ।
अस्तु वान्यदपि लक्षणे किञ्चिल्लिङ्गम् ।
तथापि तदेव लक्ष्याविनाभूततया लक्षणमुपन्यस्यतां सन्निहितप्रतिपत्तिकत्वात् ।
न तदवश्यं व्यापकं वक्तव्यम् ।
लिङ्गत्वस्य व्याप्यत्वेनैवोपपत्तेरिति चेन्न, यत्र लिङ्गमव्यापकत्वान्नास्ति तत्र लक्षणस्य प्रमाणाभावात्प्रत्येतुमशक्यत्वेन कथं ततः प्रामाण्याद्यवगमः ।
यदा च क्वचिल्लक्ष्यजातीय एव प्रमाणाभावाल्लक्षणम(स्या)नवधारणीयतया लक्ष्यव्यापकतानवगमे ऽपि लक्षणम् ।
तदा किमपराद्धं लिङ्गान्तरेणाव्यापकेन ।
अथ यत्र तल्लक्षणे लिङ्गं नास्ति तत्र लिङ्गान्तरात्प्रत्येतव्यम् ।
तथापि (तावेवा)ते एवास्तां लक्ष्ये लिङ्गम् ।
किं लक्षणानुमानपूर्वकं तदनुमानकल्पनया ।
अथ तथा(विधं)लिङ्गद्वयं यत्तत्प्रत्येकमव्यापकतया न लक्षणम् ।
तदनुमितं तु तथात्वाल्लक्षणमिति चेन्न ।
लक्ष्यानुमानस्य लक्षणप्रयोजनस्योभाभ्यामेव सिद्धेः कृतं व्यापकेन तेन ।
*5,135*
नापि तृतीयः ।
स ह्येवंरूपः यद्यथार्थं तत्प्रमाणमिति व्यवहर्तव्यमिति ।
अयमनुपपन्नः ।
सर्वत्र लक्षणस्य ज्ञातुमशक्यत्वात् ।
प्रमाणत्वादिना तदवगमे तदेवास्तु व्यवहारनियमनिदानम् ।
अव्यवहितप्रतिपत्तिकत्वादित्यावेदितम् ।
*5,136*
अत एव न चतुर्थः ।
कल्पनागौरवदोषश्चाधिकः ।
*5,137*
(नापि) न पञ्चमः ।
तादृशस्य दर्शयितुमशक्यत्वादिति ।
अत्रोच्यते ।
अस्तु तावत्सजातीयविजातीयव्यवच्छिन्नलक्ष्यप्रतीत्यर्थं लक्षणमिति पक्षः ।
सास्नादिमान्गौरिति विदितलक्षणसम्बन्धो हि यं पिण्डं सास्नादिमन्तं पश्यति तं नायमश्वादिर्नापि घटादिरिति प्रतिपाद्यते ।
ननु व्यवच्छेदो ऽन्योन्याभावो भेद इत्यनर्थान्तरम् ।
भेदश्च वस्तुस्वरूपमेव ।
तथाच लक्ष्यस्वरूपप्रतिपत्तिरेव तत्प्रतिपत्तिरिति कृतं लक्षणेन ।
अथ लक्ष्यप्रतीतिनिरपेक्षमेव लक्षणेन व्यवच्छेदो बोध्यत इति मतम् ।
तन्न ।
निराश्रयस्य तस्य बोध(दर्श)यितुमशक्यत्वादिति ।
सत्यं स्वरूप(वस्तु)प्रतीतिरेव भेदप्रतीतिरिति ।
तथापि प्रतियोगिविशेषघटिततदवगमाय लक्षणस्योपयोगः ।
असङ्कीर्णतया गोपिण्डं पश्यन्नपि हि न तावदयं नाश्वो न घट इति प्रत्येति यावल्लक्षणं नावगच्छति ।
सास्नादिमत्वं तदा प्रतीतमिति चेन्न ।
सास्नादिमान् गौरित्येवमवगमस्य विवक्षितत्वात् ।

अत एव सजातीयेत्यादिविशेषणोपादानम् ।
*5,139*
यदत्रोक्तं किं सजातीयेत्यादि ।
तदसत् ।
पौरुषेयवचसां पुरुषविवक्षाधीनत्वेन नियन्तुमशक्यत्वात् ।
लक्ष्यातिरिक्तं हि
सजातीयविजातीयतया द्वैराश्येन विवक्ष्यते ।
यथा यथार्थज्ञानतत्साधनस्य प्रमाणस्य ज्ञानं तत्साधनं च सजातीयम् ।
यन्न ज्ञानं नापि तत्साधनं तद्विजातीयम् ।
यथा च प्रत्यक्षस्यानुमानादिकं सजातीयं, विजातीयं तु घटादिकम् ।
एवमन्यत्रापि विवेक्तव्यमिति ।
एवं तर्हि लक्ष्यापेक्षया भिन्नाद्वयवच्छेद इत्युक्तं स्यादिति चेत् ।
को नेत्याह ।
नहि को ऽपि स्वस्थात्मा स्वस्मादेव व्यवच्छेदं लक्षणप्रयोजनमाचक्षति(ष्ये) ।
*5,140*
यदत्रोक्तं यदा चेत्यादि ।
तसदङ्गतम् ।
वस्तुतो यल्लक्ष्याद्भिन्नं ततो व्यवच्छेदावगमार्थत्वाल्लक्षणस्य प्रतिपादकस्य यद्यपि लक्ष्यान्यत्वज्ञानमलक्ष्ये(वश्या)पेक्षितम् तथापि प्रतिपाद्यस्यातद(तदन)पेक्षितम् तथापि प्रतिपाद्यस्तद(तदन)पेक्षत्वान्न दोषः ।
तस्यापि पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य सजातीयविजातीयपदोपात्तलक्ष्यान्य(त्व)ज्ञानं विना लक्ष्यस्य अलक्ष्यान्यत्वज्ञानं लक्षणप्रयोजनं न सिद्धयतीति कश्चित् ।
तदनुपपन्नम् ।
नहि लक्ष्यान्यव्यावृत्तिर्लक्षणवाक्यप्रतिपाद्या ।
किन्नाम तज्ज्ञानं लक्षणप्रयोजनत्वेनोच्यते ।
लक्षणवाक्यार्थ एव प्रतिपाद्येन बोद्धव्यः ।
*5,141*
यदप्यपि चेत्यादिना पृष्टम् ।
तत्रावगतमेव लक्षणं व्यावृत्तलक्ष्यज्ञानमुपजनयतीति वदामः ।
नच तस्य दुरवधारणता ।
यथायथं प्रत्यक्षादिना तदवधारणात् ।
यत्र लिङ्गात्तदवगमस्तत्र तत एव लक्षणप्रयोजनसिद्धेर्व्यर्था परस्पराकुसृष्टिरिति चेन्न ।
प्रयोजनसद्भावे गौरवस्याप्यनादरण(प्यादरण)सम्भवात् ।
यथेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वेनाक्षोद्भवत्वमनुमाय तेन प्रत्यक्षं लक्ष्यते ।
तत्रान्वर्थसंज्ञाज्ञापनं प्रयोजनम् ।
एवमन्यत्रापि द्रष्टव्यम् ।
गौरवमनुरुद्धय प्रयोजनमवधीर्यतामिति चेन्न ।
पुरुषाभिप्रायाणां नियन्तुमशक्यत्वात् ।
गरीयांश्च प्रतिपत्तौ गौरवात्प्रमेयाधिक्यलाभः ।
प्रयोजनाभावे तु परम्पराकुसृष्टिरिति चेन्न ।
प्रयोजनसद्भावे गौरवस्याप्यनादरण(प्यादरण)सम्भवात् ।
यथेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वेनाक्षोद्भवत्वमनुमायतेन प्रत्यक्षं लक्ष्यते ।
तत्रान्वर्थसंज्ञाज्ञापनं प्रयोजनम् ।
एवमन्यत्रापि द्रष्टव्यम् ।
गौरवमनुरुद्धय प्रयोजनमवधीर्यतामिति चेन्न ।
पुरुषाभिप्रायाणां नियन्तुमशक्यत्वात् ।
गरीयांश्च प्रतिपत्तौ गौरवात्प्रमेयाधिक्यलाभः ।
प्रयोजनाभावे तु परम्पराकुसृष्टिरनादरणीयैवेति तदीयदोषताव्युत्पादनं नास्माकमनिष्यम् ।
एतेन द्वितीयतृतीयचतुर्था अपि समाहिता वेदितव्याः ।
लक्षणावधारणोपायस्योक्तत्वात् ।
गौरवस्य च समाहितत्वात् ।
*5,144*
ननु तथापि किं तत्त्वम् ।
यथायथं चतुष्ययमपि ।
तथाहि ।
क्वचिल्लक्ष्यातिरिक्तं लक्षणं भवति ।
यथा गन्धवती पृथिवीति ।
क्वचिल्लक्ष्यानतिरिक्तम् ।
यथा पृथिवीत्ववती पृथिवी, यथार्थं प्रमाणमित्यादि ।
तत्राद्यं लक्ष्यस्वरूपप्रतिपत्तिकारणं भवत् तस्यान्वयो व्यवच्छेदतच्छब्दव्यवहर्तव्यते च प्रतिपादयति ।
द्वितीयन्तु प्रवृत्तिनिमित्तं भवद्वयवहारमात्रकारणं भवति ।
तत्र सिद्धांशेन पक्षीकरणमसिद्धांशेन साध्यत्वं स्वयमूहनीयम् ।
*5,147*
ननु लक्षणं व्यावृत्तं व्यावर्तयत्युताव्यावृत्तम् ।
आद्ये स्वव्यावृत्तिर्लक्षणान्तराधीना न वा ।
न प्रथमः ।
तत्रापि लक्षणापेक्षायामनवस्थापातात् ।
न द्वितीयः ।
लक्ष्येऽपि तत्प्रसङ्गात् ।
निनिर्मित्तकार्याभ्युपगमे कादाचित्कतानुपपत्तेश्च ।
नान्त्यः ।
अतिप्रसङ्गादेवेति ।
उच्यते ।
लक्षणमपि व्यावृत्तमेव व्यावर्तयति ।
तदपि लक्षणेनैव ।
न चैवमनवस्था ।
प्राङ्निर्ज्ञातेष्वर्थ्र्षु व्यवस्थानात् ।
यस्तु काष्ठलोष्ठयितः कञ्चित्पदार्थं वा कस्यचित्किञ्चिच्छब्दवाच्यत्वं वा न वेत्ति नासौ लक्षणशास्त्रेऽधिक्रियते ।
किन्नामोपदेशादिना विदितपदतदर्थसङ्गत्यादिः स्वतन्त्रव्यवहाराद्यर्थं लक्षणमपेक्षत इति ।
*5,149*
अथापि स्यात् ।
किमवगतं लक्षणं फलहेतुः, किंवानवगतम् ।
न तावच्चरमः ।
तदभिधानवैयर्थ्यप्रसङ्गात् ।
अभिधानस्य ज्ञानोत्पादनो(पयोगि)पायत्वात् ।
तस्य चानवगतस्यैव फलसाधनत्वाभ्युपगमात् ।
आद्ये किमन्यस्मात्तदवगम उत त्वदीयाल्लक्षणवाक्यात् ।
यद्यन्यस्मात् ।
कृतममुना लक्षणाभिधानप्रयासेन ।
अभिधानस्य ज्ञानोत्पादातिरिक्तप्रयोजनाभावात् ।
तस्यान्यत एव सिद्धेः ।
अन्त्ये किमिदं त्वदभिधानमाप्तोपदेशतया लक्षणं बोधयत्युत लिङ्गादिभावेन ।
न तावच्चरमः ।
त्वद्वचनलक्षणाविनाभावादेर्दर्शयितुमशक्यत्वात् ।
नापि प्रथमः ।
परं प्रति भवत्याप्तत्वसिद्धेः ।
सिद्धौ हि प्रतिज्ञामात्रादेव साध्यसिद्धेर्हेत्व(त्वाद्य)भिधानमनर्थकं स्यात् ।
ननु प्रतिवादिनं प्रति लक्षणाभिधानं नार्थवत् ।
तेन वाद्याप्तभावानङ्गीकारात् ।
किन्तु शिष्यार्थं लक्षणमुच्यते शास्त्रे ।
स हि सर्वस्य शास्त्रस्य कर्तारमाप्तमेव मन्यते ।
तस्माच्छिष्यं प्रत्याप्तवचनतयैव लक्षणवाक्यमर्तं प्रतिपादयिष्यतीति ।
मैवम् ।
यदि न प्रतिवादिनं प्रति शास्त्रं किन्तु शिष्यं प्रति तदा प्रतिज्ञामात्रादेवाप्तवचनाच्छिष्यस्यार्थनिश्चयोपपत्तेर्हेत्वाद्यभिधानमनर्थकतामापन्नं शास्त्रे ।
अथ भवतु प्रतिवादिनमपि प्रति (तच्छा)शास्त्रवाक्यं यत्र हेत्वाद्युपात्तम्, लक्षणवाक्यं तु शिष्यमेव प्रति प्रयोजकं प्रतिपन्नशास्त्रकाराप्तभावमिति मन्यसे ।
तदप्यनुपपन्नम् ।
शास्त्रान्तरसाध्यत्वादस्यार्थस्य ।
अस्ति हि समयग्राहकं शास्त्रं मुनिभिः प्रणीतं नामलिङ्गानुशासनव्याकरणादीति ।
*5,149f.*
अत्र ब्रूमः ।
उक्तं ह्येतदवगतमेव लक्षणं फलहेतुरिति ।
तदवगमश्च यथायथं प्रत्यक्षादिप्रमाणादित्यपि ।
नच यथार्थं प्रमाणमिति सास्नादिमान्गौरिति वाक्यस्य लक्षणं प्रतिपाद्यमभ्युपगच्छामः ।
येनान्यतः सिद्धत्वात्तस्येदमनर्थकं स्यात् ।
किन्तु यो लक्षणमन्यतो जानाति, न जानाति च व्यवहारनिदानत्वादिना, तं प्रति तदवबोधायेदं वाक्यम् ।
तथाहि ।
अयं गौरित्याद्युपदेशादिनैकस्यां व्यक्तौ गोशब्दार्थतयावगतायां किमियमेव व्यक्तिः (एवम्) उतान्यापीति जिज्ञासमानं प्रत्यन्यत्रापि गोशब्दार्थतां विजिज्ञापयिपुरुषदेशादेरानन्त्यादिना कर्तुमशक्यतवादिदं व्याप्तिविषयं वाक्यमाह"यः सास्नादिमान्स गोशब्दार्थःऽ; इति ।
इदं च नाप्तोपदेशतयैव व्याप्तिबोधकम् ।
अपि तु प्रयोगान्तरवत्प्रतीताया व्याप्तेः स्मारकत्वेन ।
अप्रतीतायास्तु तदेव जिज्ञासाजननद्वारेण प्रमोत्पादकत्वेनोपयुज्यते ।
स्मृतव्याप्तिश्च यां यां व्यक्तिं सास्नादिमतीमवलोकयति ।
तां तां गोशब्दार्थतयानुमिनोतीति को दोषः ।
*5,150*

यद्वा यः पृथिवीति पदं वा व्यक्तिविशेषस्य तदथर्तां वावगच्छंस्तत्प्रवृत्तिनिमित्तं जिज्ञासते तं प्रति पृथिवीत्ववती प्रथिवीति पृथिवीत्वं पृथिवीशब्दप्रवृत्तिनिमित्तमुच्यते ।
तत्र यस्य वक्तर्याप्तताबुद्धिः स तावता सन्तुष्यति ।
अपरं प्रति त्वव्याप्त्यादिशून्यत्वादिति वाक्यशेषः प्रवर्तते ।
अथवास्ति गौर्नामार्थ इति विदितवतो यत्र तत्र गवि घटादावश्वादौ च गोबुद्धौ प्रसक्तायां गोः स्वरूपावधारणमुखेनेतरव्यवच्छेदं कुर्वत्सास्नादिमानेव गौर्न तु तद्विरही घटादिरश्वादिर्वेति वाक्यं प्रयुज्यते ।
इदमपि पूवर्वदाप्तत्वावधारणानवधारणाभ्यां द्वयां गतिमवलम्बत इति किमत्रानुपपन्नम् ।
व्यास -(10)
*5,155*
नन्वत्र तावदेवं प्रयोक्तव्यम् ।
अयं गोत्वेन व्यवहर्तव्यः सास्नादिमत्त्वादिति ।
तत्र किं गौर्व्यवहारस्य विशेषणं गोशब्दो वा ।
आद्ये यद्यसौ गोविशिष्टं व्यवहारं नाज्ञासीत् तदा कथं पुरोवर्तिव्यक्तौ तस्य कर्तव्यतामनुमानादपि जानीयात् ।
न ह्यविदिताग्निरनुमानादग्निसम्बन्धं बोधयितुं शक्यः ।
अथाज्ञासीत्तदा ज्ञातज्ञापकत्वेन व्यर्थमनुमानम् ।
न द्वितीयः ।
तदा ह्ययं गोशब्दाभिधेयः सास्नादिमत्त्वदित्यनुमानं स्यात् ।
तत्र चातिप्रसङ्गः ।
तत्र एव जबगडदशादिशब्दाभिधेयत्वमपि साध्यं स्यात् ।
ते सामान्यतो ऽप्यर्थवत्तया न प्रसिद्धाः ।
नैवं गोशब्द इत्यस्ति विशेष इति चेत् ।
तथापि शशविषाणादिशब्दाभिधेयत्वं साध्यताम् ।
ते ऽप्यसद्विषयतयैव प्रसिद्धाः ।
गौरस्तीत्यादिप्रयोगाद्गोशब्दो नैवमिति चेत् ।
एवमपि स्वस्तिमतीत्यादिशब्दवाच्यतानुमानं गोमात्रे स्यात् ।
अथ सत्यपि गोत्वे तदन्यत्र तदप्रयोगान्नेति चेत् ।
एवं तर्हि यत्र सास्नादिमत्त्वं नास्ति तत्र गोशब्दप्रयोगो ऽपि नास्ति, यत्र सास्नादिमत्त्वमस्ति तत्र सर्वत्रास्तीति यो जानीते तं प्रति लक्षणाभिधानमिति स्यात् ।
स च व्यवहारान्तरवदन्वयव्यतिरेकाभ्यामेव वाच्यवाचकभावमवधारितवानिति व्यर्थमनुमानमिति ।
*5,155f.*
मैवम् ।
उभयत्रापि दोषाभावात् ।
केवलव्यतिरेकित्वे हि कथञ्चिदेतदभिधातुं युक्तम् ।
उपदेशादिना विशेषणेन गवा विशेषितं व्यवहारमवगतवो हि तदन्यत्र तत्कर्तव्यतानुमानसाध्येत्यङ्गीकारे को विरोधः स्यात् ।
शब्दविशेषितव्यवहारकर्तव्यतासाधने ऽतिप्रसङ्गः किं बोध्यस्य बोधकस्य वेति वाच्यम् ।
नाद्यः ।
तेन तद्वयाप्तेरनवगतत्वात् ।
अवगतत्वाच्च गोशब्दवाच्यताव्याप्तेः ।
न द्वितीयः ।
तेनापि पूर्वं वृद्धवचनादिना तथैव व्याप्तेरवगतत्वात् ।
प्रयोगभावाभावाभ्यां बाधस्य निर्णीतत्वाच्च ।
नहि बोध्यो बाधपरिचयशून्य इत्येतावता परिचितबाधेनापि बोधकेन विपरीतं बोधनीयम् ।
विप्रलम्भकत्वापातात् ।
तत्त्वनिर्णयार्थत्वाच्च वादकथानुसारिणः शास्त्रस्येति ।
एवं पक्षान्तरे ऽप्यनुमानप्रयोगप्रकारो बोद्धव्यः ।
*5,161f.*
यदप्युक्तं शास्त्रान्तरसाध्यत्वादयमर्थो न वक्तव्य इति ।
तदयुक्तम् ।
न ह्येवमस्माभिः प्रतिज्ञातं यत्सर्वथा शास्त्रान्तरसाध्यं तन्नोच्यत इति ।
न चैवं शास्त्रसाङ्कर्यमाशङ्कनीयम् ।
विषयप्रयोजनभेदात् ।
यदि च शास्त्रान्तरसाध्यो ऽप्यर्थो भवदीयशास्त्रस्य विषयः तर्हि व्याकरणादिसाध्यमन्यदपि कस्मान्नोच्यत इति चेन्न ।
सन्दिग्धत्वसप्रयोजनत्वसदसद्भावाभ्यां वैषम्यात् ।
सन्दिग्धतादिसद्भावे ऽपि यदवचनं तदुक्तदिशा शिष्यैरेव शक्यज्ञानत्वादिति यत्किञ्चिदेतत् ।
अन्यथा परस्यापि कुलीरस्येव स्वापत्ययुक्तिहतत्वं स्यात् ।
तेनापि हि स्मृतिरूपः परत्र पूर्वदृष्टावभासो ऽध्यास इत्यादीनि लक्षणानि स्वशास्त्रे निबद्धानि ।
सूत्रकृता च जन्माद्यस्य यत इति ।
तत्रैते दोषास्तानि लक्षणानि किं समास्कन्दन्त्युत नेति वक्तव्यम् ।
न तावद्द्वितीयः ।
सामान्यसमानन्यायत्वात् ।
नाद्यः ।
दुष्योपादानस्य पराजयहेतुत्वात् ।
दोषास्कन्दितान्यपि तानि व्यवहारं निर्वहन्तीति चेन्न ।
आपाततो ऽपि दुष्यानां तथात्वे कथमुन्मत्तभाषितानामपि तद्भावो न स्यात् ।
नहि तेषामनिर्वाहकत्वे ऽनुपपत्तेरन्यत्कारणमस्ति ।
*5,168*
किञ्चैवं वदता प्राग्ब्रह्मसाक्षात्काराद्बाध्यमव्यावहारिकं ब्रह्मसाक्षात्कारबाध्यं व्यावहारिकमिति मतमपि परित्यक्तं स्यात् ।
नह्ययं ब्रह्मसाक्षात्कारो नापि बाधः ।
*5,170*
किञ्चैवमस्मदीयमपि लक्षणं कुतो न व्यवहारं निर्वहेत् ।
नच व्यवहारनिर्वाहातिरिक्तं किमपि तत्साध्यमभिलषामः ।
भवदभिलषिता पारमार्थिकता बाध्यत इति चेत् ।
किं लक्षणस्योत लक्ष्यस्य ।
नाद्यः ।
तथाहि ।
विमतमपारमार्थिकमप्रयोजनाभिधानत्वादित्याद्युक्तं स्यात् ।
न चास्यास्मान्प्रति व्याप्तिः शक्याभिधाना ।
किञ्चास्मिन्पक्षे ऽध्यासलक्षणानुपपत्तिश्च भवता न परिहरणीया ।
तस्या व्यवहारनिर्वाहाविरोधात् ।
पारमार्थिकतानिषेधौपयिकत्वेनेष्यसाधनत्वाच्च ।
एतेनातिव्याप्त्यादिदोषो ऽपि नापरमार्थ(पारमार्थिक)ता साधकः ।
अलक्षणतासाधकस्तु स्यात् ।
न द्वितीयः ।
अनुपपद्यमानलक्षणत्वेन लक्ष्यमिथ्यात्वसाधने ब्रह्मणि व्यभिचारात् ।
उक्ताया लक्षणानुपपत्तेस्तल्लक्षणे ऽपि साम्यात् ।
*5,171*
किञ्चाध्यासलक्षणमुपपन्नं न वा ।
आद्ये सपक्षाप्रवेशः साधनस्य ।
द्वितीये तदनुपपत्तिनिरासायासो व्यर्थः स्यादित्यास्तां विस्तरः ।
*5,172*
अर्थं नातिवर्तत इति यथार्थं, तस्य भावो याथार्थ्यं, तदेव मानत्वं मानशब्दप्रवृत्तिनिमित्तं मालक्षणमिति यावत् यद्यपि सास्नादिमान्गौरितिवद्यथार्थं प्रमाणमित्युक्ते ऽपि भवत्येव लक्ष्यलक्षणभावप्रतीतिः ।
तथापि तद्वदेव लक्ष्यं लक्षणातिरिक्तं शङ्कयेत ।
ततश्च पृथङ्निरूप्यमपि स्यात्तन्मा शङ्कीति याथार्थ्यमेव मानत्वं न तु सास्नादिमत्त्वाद्गोत्वमिव ततो ऽतिरिक्तमित्युक्तम् ।
*5,174*
ननु किमिदं लक्षणं नाम ।
लक्ष्यस्यासाधारणो धर्मः ।
यावस्त्वेकः शब्दो निवेशयितुमिष्यः, यावन्ति चेतरस्माद्वयावर्तनीयानि तान्युच्यन्ते लक्ष्याणीति ।
*5,175*
नन्वसाधार(णो)णधर्मश्चेल्लक्षणमव्यापकस्यापि तदा लक्षणतापत्तिः ।
अतिव्याप्त्यसम्भवाविव अव्याप्तिरपि हि लक्षणदोषः ।
उच्यते ।
लिङ्गतया हि लक्षणमुपयुज्यते ।
नच व्यापकता लिङ्गत्वोपयोगिनी ।
व्याप्यत्वेनैव तदुपपत्तेः ।
इतरथा धूमादीनामलिङ्गतापातात् ।
किन्नाम पक्षीकृतदृष्टान्तीकृतव्यापकतात्वपेक्षितैव ।
उपायत्वेनोपन्यस्तस्याभावे तदुपेयप्राप्तेरसम्भवात् ।
उभयधर्मभूताया व्याप्तेरन्यतराभावे दर्शयितुमशक्यत्वात् ।
तथाच तदानीं लिलक्षयिषितमात्रव्याप्तित्वं लक्षणस्यापेक्षितम् ।
तच्च लक्ष्यस्य धर्म इत्युक्तमेव ।
अव्यापकत्व(धर्म)स्य लक्षणदोषतावादस्तु सर्वस्यापि लिलक्षयिषितत्वे द्रष्टव्यः ।
*5,178*
यद्वान्यत्र लक्षणान्तराभावनिश्चयनिमित्ता तदुक्तिः ।
वस्तुतस्त्वेकमिवानेकमपि स्वस्वाश्रये व्यावृत्त्यादिकं कुर्वद्भवत्येव लक्षणम् ।
अत एव कणादः क्रियावद्गुणवत्समवायिकारणमिति क्रियावत्त्वमपि द्रव्यलक्षणत्वेनाह ।

क्रियावद्ग्रहणमन्यार्थमिति चेत् ।
तत्किमव्यापकस्य लक्षणतानुपपत्तेरन्यथाव्याख्यानमुत निमित्तान्तरात् ।
नान्त्यः ।
तददर्शनात् ।
न प्रथमः ।
अनुपपत्तेरपाकृतत्वात् ।
*5,181*
ननु (च) अत्र पृथिव्यादीनि नवापि पक्षीकृत्यैतानि द्रव्याणि क्रियावत्त्वादिति प्रयोक्तव्यम्, क्रियावन्त्येव वा मूर्तानि ।
नाद्यः भागासिद्धेः ।
न द्वितीयः ।
अनध्यवसितत्वात् ।
तत्कथं नानुपपत्तिः ।
मैवम् ।
कैश्चिदनध्यवसितस्य दोषतानङ्गीकारात् ।
येषां च स दोषस्तेषामप्युपदेशादिना घटादेर्द्रव्यत्वनिश्चये सति तदितरमूर्तपक्षीकारेण द्रव्यत्वसाधने कीदृशो दोषः स्यादित्यलम् ।
*5,182*
केचिद्वादिनो विज्ञानस्य प्रामाण्यमास्थिषत ।
अपरे तु तत्कारणस्य ।
तत् किमत्र तत्त्वम् ।
द्वयमपीति ब्रूमः ।
प्रमितिः प्रमाणम्, प्रमीयते ऽनेनेति प्रमाणमिति भावकरणयोः प्रमाणशब्दस्य सामर्थ्यात् ।
यद्यपि ल्युट् भावकारणयोरिवाधिकरणे ऽपि स्मर्यते ।
तथापि प्रमाणशब्दस्याभिधानाभावान्न तत्र वृत्तिः ।
कृत्तद्धितसमासानामभिधानाधीनत्वात् ।
नन्वस्ति विप्राः प्रमाणमित्यधिकरणे ऽपि प्रयोगः ।
मैवम् ।
विप्राणां प्रमायां (प्रमां प्रति) स्वातन्त्र्येण कर्तॄणामधिकरणत्वाभावात् ।
नहि क्रियाधारो ऽधिकरणम् ।
किन्नाम कर्तृकर्मणोः क्रियाश्रययोर्धारणक्रियां प्रति य आधारस्तत्कारकम् ।
तस्मात्तदीयविज्ञानस्य वाक्यस्य वा प्रामाण्याद्विप्राः प्रमाणमित्युपचर्यते ।
यदि तर्हि विज्ञानं तत्कारणं च प्रमाणं द्वयमपि ।
तत्रोभयत्र याथार्थ्यापरपर्यायं प्रामाण्यं किमेकप्रकारं वर्तते, उतानेकप्रकारम् ।
आद्ये विज्ञानं केवलप्रमाणं प्रत्यक्षानुमानागमलक्षणं तत्कारणमनुप्रमाणमिति सिद्धान्तविरोधापातः ।
द्वितीये लक्षणस्यानुपपत्तिः ।
प्रकारद्वयस्यान्योन्यस्मिन्नवर्तनेनाव्याप्तत्वादित्यत आह- तदिति ॥
... तन्मुख्यं ज्ञानशब्दयोः
न्यायसुधा:
करणभूतयोः प्रत्यक्षानुमानयोस्त्वमुख्यमिति शेषः ।
एतच्च (स्पष्टी)स्फुटीकरिष्यते ।
*5,185*
स्यादेतत् ।
यदि याथार्थ्यं प्रमाणलक्षणं स्यात् ।
नच तत्सम्भवत्यतिव्याप्तेः ।
तथाहि ।
योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यं चेति यताशब्दार्थाः ।
अर्थशब्दश्चाभिधेयधनवस्तुप्रयोजननिवृत्तिषु वर्तते ।
तत्र सादृश्यार्थस्य यथाशब्दस्य तावदत्र न परिग्रहः ।
"यथासादृश्येऽ; इत्यव्ययीभावविधाने विशेषणात् ।
समासान्तरस्य च असामर्थ्यादिप्रतिहतत्वात् ।
अत एव यथार्थानुभवः प्रमेत्यत्र किं याथार्थ्यमर्थसादृश्यमित्यादिः कस्यचित्प्रश्चो ऽनुपपन्नः ।
नापि योग्यतावीप्सार्थस्य ।
वाक्यशेषा(दोषा)भावेनार्थयोग्यताया (अर्थानां) अर्थवीप्साया वा प्रामाण्यापत्तेः ।
तस्मात्पदार्थाननिवृत्त्यर्थस्येदं ग्रहणम् ।
अर्थशब्दस्याभिधेयवाचिनो ग्रहणे अव्याप्तिप्रसङ्गात् विषयापरपर्यायवस्वचनस्यैव ग्रहणम् ।
तथा चार्थं विषयं नातिवर्तते न व्यभिचरति यत्तत्प्रमाणमित्युक्तं स्यात् ।
एतच्च सकर्मकक्रियामात्रे ऽस्ति ।
नहि गमनं गम्यमतिवर्तते, नापि छिदा छेद्यम् ।
यदेव(हि) गत्यादिना प्राप्यं तदेव गम्यादि ।
ततो नेदं लक्षणमित्यत आह- अर्थत्वमिति ॥
अर्थत्वमर्यतैव स्यान् ...
*5,186*
न्यायसुधा:
अर्थतैव ज्ञेयतैवार्थत्वमर्थशब्दप्रवृत्तिनिमित्तमस्माकं विवक्षि(ता)तं स्यात् ।
नतु विषयत्वमित्यर्थः ।
एतदुक्तं भवति ।
यथाशब्दस्य पदार्थानतिवृत्तिवाचित्वमङ्गीकृतमेव ।
अर्थशब्दस्तु न विषयपर्यायो गृह्यते ।
किन्तु ज्ञेयवाची ।
यद्यपि न तत्र तस्य रूढिस्तथाप्यर्यत(इत्यर्थ)इति व्युत्पत्या तद्वाचितास्त्येव ।
अर्तेरौणादिकस्य थन्प्रत्ययस्य प्रसिद्धत्वात् ।
गत्यर्थानां च ज्ञानार्थत्वादिति ।
नन्वर्थतेति कथम् ।
"अर्यः स्वामिवैश्ययोःऽ; इति विशेषणात् ।
मैवम् ।
स्वामित्वोपचारात् ।
अर्थो हि ज्ञानाद्यपेक्षया प्रधानं विवक्ष्यते ।
*5,195*
किमतो यद्येवं ज्ञेयतैवार्थत्वमित्यत आह- नेति ॥
... न क्रियार्थेषु सा मता

2.1.22

न्यायसुधा:
क्रियार्थेषु क्रियाविषयेषु सा अर्यता ।
तदभावाच्च न यथार्थता ।
क्रियास्विति नातिव्यापकं प्रमारलक्षणमिति शेषः ।
नन्वेतावतापि नातिव्याप्तिपरिहारः ।
गमनादीनामपि ज्ञेयानतिवृत्तित्वात् ।
नहि तद्विषयो ग्रामादिः सर्वथा न ज्ञेय इति शक्यते वक्तुम् ।
तदत्यन्ताभावप्रसङ्गादिति ।
मैवम् ।
यथा हि पितरि साधुर्मातरि साधुरितिवाक्यं यत्किञ्चित्पित्रादौ साधुत्वेन न पर्यवस्यति, किन्तु स्वीये पित्रादौ ।
तत्कस्य हेतोः ।
पित्रादिशब्दानां सम्बन्धिशब्दत्वात् ।
सम्बन्धिशब्दानां ह्येष महिमा ।
अन्यथा पितुर्धनमुपादद्यादित्यादौ बहुविप्लवः स्यात् ।
सति चैवं शब्दमहिमानमनादृत्य प्रत्यवतिष्ठमानः छलवादितया जीयेत ।
तथा प्रकृते ऽपि ज्ञेयशब्दस्य सम्बन्धिशब्दत्वात्स्वज्ञेयं नातिवर्तते यत् तत्प्रमाणमित्युक्तं स्यात् ।
नच गम(ने)नोपाधिना गमनेन वा निमित्तेन ग्रामो ज्ञेयः ।
येन तमनतिक्रम्य वर्तमानं गमनं यथार्थं स्यात् ।
किन्तु गम्य एव ।
तत्कथमतिव्याप्तिः ।
भवति च घटादिर्ज्ञानतत्कारणाभ्यामुपाधिनिमित्ताभ्यां ज्ञेय इति ।
तदिदमुक्तं क्रियार्थेषु सा न मता शब्दार्थतत्त्वविदुषामिति ।
ननु तथाप्यन्योन्याश्रयत्वमात्माश्रयत्वं वा, स्वशब्देन प्रमाणस्याभिधानादिति चेन्न ।
ज्ञानतत्कारणमात्रोपादनेन लक्षणस्य व्याख्यातत्वात् ।
स्वगुण(ग्राहक)ग्रहणमिन्द्रियं श्रोत्रमित्यत्र यथेति ।
*5,198*
ननु किमिदं प्रमाणस्य ज्ञेयाव्यभिचारित्वं नाम ।
किं प्रमेयव्याप्यत्वं किं वा यावत्प्रमेयगोचरत्वम् ।
आद्ये ऽपि व्याप्तिः किं देशतः किंवा कालतः ।
न प्रथमः ।
प्रमाणासमानदेशार्थविषयप्रमाणेष्वव्याप्तेः ।
न द्वितीयः ।
अतीतादिविषयप्रमाणाव्याप्तेः ।
नान्त्यः ।
असर्वज्ञज्ञानानां तत्कारणानां वाप्रामाण्यप्रसङ्गादिति ।
मैवम् ।
अद्वैतागमादेस्तत्त्वावेदकत्वलक्षणं प्रामाण्यमभ्युपगच्छता परेणा(पि) तस्या)प्यस्यार्थस्य निर्वक्तव्यत्वात् ।
परेणाङ्गीकृतमुपादायास्माभिर्व्यवह्रियते न तु किमपि लक्षणं व्यवस्थाप्यत इति चेन्न ।
स्वप्रतिपत्ताववश्याश्रयणीयत्वाद्वयवस्थायाः ।
नहि स्वप्रकाशं तत्त्वमित्येतावता विना वेदान्ताधिगमं तदधिगमः शक्यो ऽङ्गीकर्तुम् ।
अथावेदितस्य सत्त्वं तत्त्वावेदकत्वमिति निर्ब्रूयात्तदा विभ्रमे ऽतिव्याप्तिः स्यात् ।
तत्राप्यावेदितस्येदमाकारस्य सत्त्वात् ।
अथ यावदावेदितस्य सत्त्वं तत्त्वावेदकत्वं सदेकगोचरत्वमिति यावदिति वदेत्, तदेवास्माकमपि याथार्थ्यमिति वदामः ।
*5,202*
नन्वेवमपि भ्रमे ऽतिव्याप्तिः ।
न हीदमंशो वा रजतत्वादिजातिर्वा तत्सम्बन्धः समवायो वा तत्तादात्म्यं वा न सत् ।
अन्यत्र सत्त्वे ऽप्यत्रासदिति चेत् ।
नहि देवदत्तो गृहे ऽसन्नित्यसन्नेव ।
नचायमस्त्यस्माकं प्रसङ्गः ।
अधिष्ठानेतरस्य सर्वस्यानिर्वचनीयतयाङ्गीकारादिति ।
मैवम् ।
अस्माभिरपि तस्यात्यन्तासत्त्वस्वीकारात् ।
*5,205*
अथ मतं किं विषयसत्त्वं तदानीमभिमतमुत पूर्वमथ पश्चाद्यद्वा सर्वदाथवा यदाकदाचिद्यदि वा यद्यद्देशकालयोर्यथाप्रतीतं तस्य तद्देशकालयोस्तथात्वेन ।
नाद्यः ।
अतीतानागतविषयप्रमाणाव्यापनात् ।
न द्वितीयः ।
वर्तमानानागतविषयाव्याप्तेः ।
पाकरक्ते ऽपि घटे नीलप्रतीतौ विभागोत्तरकालं संयुक्तप्रत्यये वातिव्याप्तेश्च ।
न तृतीयः ।
अतीतादिविषयाव्याप्तेः ।
भाविपाकजरागे कुम्भे श्यामे ऽपि रक्तपित्तिना रक्तताप्रतिभासे ऽतिव्याप्तेश्च ।
न चतुर्थः ।
अनित्यविषयाव्याप्तेः ।
न पञ्चमः ।
पूर्वोक्तविभ्रमे ऽतिव्याप्तेः ।
नापि षष्ठः ।
देशकालप्रमाणाव्याप्तेः ।
नहि देशकालयोर्देशकालान्तरमस्तीति ।
मैवम् ।
देशकालयोरपि स्वसम्बन्धेन निरूपणस्य वक्ष्यमाणत्वात् ।
यद्वा यद्यथाभूतं प्रतीतं तस्य तथाभूतस्य सत्त्वमित्युक्त एव नातिप्रसङ्गः ।
देशकालयोरपि विशेषणान्तरवत् यथाभूतमित्यनेनैव गृहीतत्वात् ।
विशेषानुक्तेरुक्तदोषा(प्राप्ते)प्रसक्तेश्च ।
*5,208*
तथात्रप निश्चायकाभावेनासम्भवीदं लक्षणम् ।
तथाहि ।
ज्ञानयाथार्थ्यं किमदुष्यकरणजन्यत्वेनावधारणीयम्, उत दुष्यकरणाजन्यत्वेन, अथ प्रवृत्तिसामर्थ्येन, यद्वा ज्ञानान्तरसंवादेन, किंवा विसंवादाभावेन ।
नाद्यः ।
तस्यापि दुरवधारणत्वात् ।
ज्ञानयाथार्थ्येन तदनुमाने चेतरेतराश्रयत्वापत्तेः ।
नित्यज्ञानेषु तदभावाच्च ।
न द्वितीयः ।
अशक्यावधारणत्वात् ।
न तृतीयः ।
सर्वत्र तदभावात् ।
न चतुर्थः ।
सुखादिज्ञाने तदभावात् ।
ज्ञानमात्रसंवादाङ्गीकारे च धारावाहिकविभ्रमे(ऽपि) तद्ग्रहापत्तिः ।
यथार्थज्ञानसंवादाभ्युपगमे तु तत्तद्याथार्थ्यावधारणेनानवस्था ।
न पञ्चमः ।
असञ्जातबाधभ्रमेष्वपि तदापातात् ।
पुरुषदेशकालविकल्पानुपपत्तेश्चेति ।
मैवम् ।
तथा सति वेदान्तजनितविज्ञानस्यापि याथार्थ्यानवधारणप्रसङ्गात् ।
विषयसत्यत्वात्तदवधारणमिति चेत्तदेव कथम् ।
ज्ञानसामर्थ्यादिति चेत् ।
किं ज्ञानमात्रस्य सामर्थ्यमुत यथार्थतया निश्चितस्य ।
आद्ये शुक्तिरजतादेरपि सत्यतापत्तिः ।
द्वितीये(ऽपि) किमेतस्यैव ज्ञानस्योत ज्ञानान्तरस्य ।
न प्रथमः ।
परस्पराश्रयप्रसङ्गात् ।
न द्वितीयः ।
अनवस्थाद्यापातात् ।
*5,212*
अथ मन्येत स्वत एव विज्ञानानां प्रामाण्यग्रहः बाधेन क्वचिदपोद्यते ।
नच ब्रह्मज्ञानस्य बाधः सम्भवति ।
यथाशक्ति परीक्षायामपि तददर्शनात् ।
निर्मूलशङ्कायाश्च अनुदयात् ।
निरवधिकस्य निस्साक्षिकस्य बाधस्यादर्शनात् ।
अवध्यादिस्वीकारे च तस्यैव ब्रह्मत्वेन बाधितुमशक्यत्वादिति ।
तदेतत्समानमस्मन्मते ऽपि ।
विवृतश्चायमर्थस्तत्र तत्रेत्युपपन्नं याथार्थ्यस्य प्रमाणलक्षणत्वमिति ।
तन्मुख्यं ज्ञानशब्दयोरिति न युक्तम् ।
तथा सति ज्ञानवच्छब्दस्यापि केवलत्वापत्तेः ।
इत्याशङ्कां सोपपत्तिकं परिहरति- ज्ञानार्थ इति ॥
ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम्
न्यायसुधा:
यस्माज्ज्ञानार्थे ज्ञानविषये ज्ञेयता मुख्या शब्दार्थे शब्दविषये तदनन्तरं ज्ञेयतामुख्येति यावत् ।
तस्माज्ज्ञान एव याथार्थ्यलक्षणं प्रामाण्यं मुख्यं, शब्दे त्वमुख्यम् ।
तथाच न तस्य केवलत्वापत्तिरित्यर्थः ।
ज्ञानार्थेष्वर्यता मुख्येति प्रकृतत्वाद्वक्तव्ये ऽर्यतापि गतिकर्मसु विद्यत इति गतावतिव्याप्तिस्तदवस्थेत्याशङ्कानिरासाय ज्ञेयतेत्यर्यताव्याख्यानं कृतम् ।
इदमुक्तं भवति ।
न ज्ञानसमकक्षतया शब्दे याथार्थ्यं मुख्यम् ।
किन्तु करण(मात्रा)त्रयापेक्षया ।
ज्ञान एव मुख्यं याथार्थ्यं करणेष्वपि निर्धारणायां शब्दे मुख्यम् ।
तदेते परममुख्यमुख्ये एकीकृत्य तन्मुख्यं ज्ञानशब्दयोरित्युक्तमिति ।
*5,215*
यद्वा तन्मुख्यं ज्ञानशब्दयोरित्यत्रैवायमर्थो व्याख्यातव्यः ।
तथाहि ।
तद्याथार्थ्ये ज्ञाने मुख्यं करणेषु त्वमुख्यम् ।
करणेष्वपि किमेकप्रकारमनेकप्रकारं वेति जिज्ञासायां शब्दे मुख्यं प्रत्यक्षानुमानयोरमुख्यमित्युक्तम् ।
अत्र च शब्दशब्दने वेदमेवाधिकुरुते भगवान्मुनिः ।

तन्मुख्यताकथनस्यैव मीमांसोपयोगित्वात् ।
अन्यथा व्यर्थाया जिज्ञासायास्तत्परिहारस्य चासङ्गतिप्रसङ्गात् ।
यद्यपि ज्ञान(शब्द)शब्दौ द्वन्द्वनिर्दिष्यौ तथापि करणेष्वमुख्यमित्यत आह- ज्ञानार्थ इति ॥
शब्द इत्युपलक्षणम् ।
प्रत्यक्षानुमानयोरपीति द्रष्टव्यम् ।
व्याख्यानं तु पूर्ववत् ।
शब्दस्य स्वशब्देनोपादानं (तु) पूर्वत्र ज्ञानसमकक्षतया प्रतीतिं वारयितुमिति ।
*5,216*
ज्ञाने मुख्यं याथार्थ्यं करणेष्वमुख्यम् ।
तत्रापि शब्दे मुख्यमित्युक्तम् ।
तत्र ज्ञानकरणयोर्याथार्थ्यस्य मुख्यत्वामुख्यत्वोपपादनाय तद्विषययोर्ज्ञेयताया(यां) मुख्यामुख्यत्वे हेतुतयोक्ते ।
तदुपपादनार्थमाह- यथार्थेति ॥
*5,217*
यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः

2.1.23

न्यायसुधा:
सोपस्कराणि वाक्यानि भवन्ति ।
तेन ज्ञानं साक्षाद्यथार्थमित्यादौ पठितव्यम् ।
बहुवचनमाद्यर्थे ।
युक्त्यादय इत्यर्थः ।
तेन जनका इत्युपपन्नम् ।
अव्ययीभावस्य क्लीबाव्ययत्वं छन्दस्तुल्यत्वेनानाश्रित्य यथार्था इत्युक्तम्, कथञ्चिद्बहुव्रीहितामाश्रित्य वा, यद्वा भावप्रधानाद्यथाथर्शब्दान्मत्वर्थे ऽर्श आदित्वादच याथार्थ्योपेता इत्यर्थः ।
तदयमर्थः ।
ज्ञानमेव हि विषयस्य ज्ञेयस्य ज्ञेयतायां साक्षादुपाधिर्भवति ।
ज्ञातताया निराकरिष्यमाणत्वात् ।
अतस्तद्विषयस्य (एव)ज्ञेयत्वं मुख्यमिति ज्ञानस्यैव मुख्यतो याथार्थ्यम् ।
युक्त्यादिकरणानि तु विषयस्य ज्ञेयतायामुपाधिभूतं ज्ञानं जनयन्तीति तद्विषयस्य ज्ञेयत्वममुख्यम् ।
तत एव तेषां याथार्थ्यमप्यमुख्यमिति ।
*5,224*
अत्र"यथार्थज्ञानजनका यथार्थाःऽ; इत्युक्तिस्तु परमसाध्यमपि सूचयितुम् ।
युक्तेरमुख्यतायामादित्वेन ग्रहणं त्रिष्वप्यपकर्षसूचनार्थम् ।
आगमयुक्त्योरुत्कर्षापकर्षौ तत्रतत्र समर्थिताविति नेहोक्तम् ।
*5,225*
किमतो यद्येवं ज्ञानस्य याथार्थ्यं मुख्यं प्रत्यक्षादिकरणानां चामुख्यमित्यत आह- अनुप्रमाणमिति ॥
अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः
*5,225f.*
न्यायसुधा:
अत्रापि ज्ञानं केवलप्रमाणमिति प्रथमं पठितव्यम् ।
हि यस्मादेवमत इति सम्बन्धः ।
अनुप्रमाणमित्येकवचनं बहुवचनार्थे ।
सुपां सुलुगिति स्मरणात् ।
अथवाक्षयुक्तवचांसीति द्वन्द्वनिर्दिष्यानामपि बुद्धया विवेकेन प्रत्येकमनुप्रमाणमिति सम्बन्धः ।
यद्वानुप्रमाणानुवादेन अक्षादित्वकथनमत्रेति न दोषः ।
अवान्तरव्यापारमविवक्षित्वा करणधर्मिण एव विवक्षया(क्षेत्यु)क्षमित्युक्तम् ।
अन्यथा प्रत्यक्षमिति वक्तव्यम् ।
वच इत्यागमोपलक्षणम् ।
*5,227*
नचैवमप्यव्याप्तिर्लक्षणस्येति वाच्यम् ।
ज्ञानमेव यथार्थं करणानि तु तज्जनकतया तथोपचर्यन्त इत्यङ्गीकारे हि सा स्यात् ।
न चैवम् ।
यथावस्थितार्थविषयित्वस्योभयत्रापि साम्यात् ।
ज्ञानविषय एव हि करणानां विषयः ।
नहि कमप्यविषयीकुर्वन्त्येव तानि ज्ञानं जनयन्ति ।
नाप्यन्यविषयाणि ।
अतिप्रसङ्गात् ।
केवलं विषयस्य ज्ञेयतां ज्ञानमुपाधितया करणानि तु तज्जनकतया सम्पादयन्तीत्येतावन्तं विशेषमाश्रित्य केवलानुप्रमाणभेदः समथिर्तः ।
यदि चैतावताप्यव्याप्तिदोषस्तदा सर्वत्रापि यत्किञ्चिद्वैलक्षण्यस्य वक्तुं शक्यत्वादतिप्रसङ्गः स्यादिति ।
*5,229*
अयमत्र समुदायार्थः ।
यथार्थं प्रमाणम् ।
तद् द्विविधम् ।
केवलमनुप्रमाणं च ।
तत्र यथार्थज्ञानं केवलम् ।
तत्साधनमनुप्रमाणम् ।
केवलमपि द्विविधम् ।
चैतन्यं वृत्तिरूपं चेति ।
चैतन्यमपि त्रिविधम् ।
उत्तममध्यमाधमभेदात् ।
तत्रोत्तमं यथार्थमेव ।
मध्यमं मिश्रम् ।
अधममयथार्थमेवे ।
द्वितीयमपि केवलं प्रत्यक्षानुमानागमजभेदात्त्रिविधमेवेति ।
अनुप्रमाणमपि प्रत्यक्षानुमानागमभेदात्त्रिविधमेवेति ।
*5,230f.*
ननु तथापि काकतालीये ऽतिव्याप्तिरपरिहार्या ।
तथाहि ।
पाणौ पञ्च वराटकान्पिधाय कश्चित्कञ्चित्पृच्छति मम करे कति वराटका इति ।
सच पृष्टो ऽजाकृपाणीयन्यायेनाह- पञ्चेति ॥
तदेतत्प्रष्टुर्वक्तुश्च ज्ञानं यथार्थमिति प्रमाणं प्रसज्यते ।
नच निस्साधनं तदुत्पन्नमिति तत्साधनस्यापि प्रमाणत्वापातः ।
यादृच्छिकसंवादिलिङ्गविभ्रमादिष्वप्येवं प्रसङ्गो दुर्वार इति ।
मैवम् ।
वक्तुर्ज्ञानस्य संशयत्वेनाप्रसङ्गात् ।
तत्र(च)पाक्षिकव्यवहारस्तु वैयात्यनिबन्धनः ।
न स्वज्ञाननिबन्धनः ।
अन्यथा विप्रलम्भकस्यापि तादृशनिश्चयापत्तौ विपर्यस्ताविशेषप्रसङ्गात् ।
एतेनाहार्यनिश्चयकल्पनमप्यपास्तम् ।
प्रष्टुस्तु प्रागूर्ध्वं च ज्ञानं (यथार्थ)प्रमाणमेव ।
तन्मूलं च प्रत्यक्षम् ।
वाक्यजनितमपि पार्श्वस्थादेर्विज्ञानमेवमेव ।
वाक्यं तु यादृच्छिकसंवादि ।
यादृच्छिकसंवादिलिङ्गविभ्रमवाक्याभासजन्यस्य केवलप्रमाणत्वे ऽपि न तयोः प्रामाण्यम् ।
तथाहि ।
न तावत्तत्र बाष्पस्य बाष्पतया (वि)ज्ञातस्य वा यथार्थज्ञानसाधनत्वं वक्तुं शक्यम् ।
नापि धूमस्य असतः साधनत्वायोगात् ।
सत्त्वे ऽप्यपरामृष्टत्वात् ।
ततो धूमत्वेन ज्ञातस्य बाष्पस्य बाष्पविषयस्य धूमविभ्रमस्य वेति वक्तव्यं, नच तत्सम्भवति ।
तज्जातीयस्य सर्वत्र कार्यो(करणिकाक्रियो)(कारणकार्यो)त्पत्तिरापन्नेति चेन्न ।
लिङ्गविभ्रमस्य लौकिककार(कर)णत्वे ऽपि पारिभाषिकसाधनत्वाभावस्योक्तत्वात् ।
वाक्याभासस्यापि प्रामाण्यप्रसङ्गो ऽनेन निरस्तः ।
तस्य प्रामाण्यप्रसङ्गे ऽपि न काचिदस्माकं क्षतिः ।
नहि तार्किकाणामिवास्माकमाप्तोक्ततया प्रामाण्यानुमानादिकमस्ति ।
*5,238*
यद्वा निर्दोषतया साधनं विशिष्टते ।
निर्दोषता च लिङ्गज्ञानादेर्यथार्थत्वादिलक्षणा व्याख्येया ।
तथात्वे निर्दोषं ज्ञानसाधनमनुप्रमाणमित्येवास्तु ।
कृतं यथार्थेति ज्ञानविशेषणेनेति चेत्(न) ।
तत्फलितार्थस्यैव निर्दोषग्रहणेन वर्णितत्वात् ।
निर्दोषकरणजं ज्ञानं याथार्थ्यं न व्यभिचरतीति स्वरूपकथनं वा तदिति ।
*5,240*
ननु दर्शनान्तरोक्ते लक्षणे सति किमपूर्वनिर्माणेनेत्यत आह- प्रामाण्यमिति ।
प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते

2.1.24

याथार्थ्यमेव प्रामाण्यशब्दार्थो यद् विवक्षितः
न्यायसुधा:
यद्यदा याथार्थ्यमेव प्रामाण्यशब्दार्थो विवक्षितो भवति तदैव यथार्थयोः स्मृत्यनुवादयोः प्रामाण्यं न हीयते ।
दर्शनान्तरोक्तलक्षणकक्षीकारे तु तैः स्वलक्षणस्य व्यापकतया अङ्गीकृतत्वात् ।
स्मृत्यादौ तदभावात्प्रामाण्याभाव एव प्रसज्यत इति युक्तं तदनादरेण लक्षणान्तरनिर्माणमिति ।
*5,240f.*
तथाहि अनधिगतार्थगन्तृ प्रमाणमिति मीमांसकोक्तस्य लक्षणस्य स्मृत्यादावभावः स्फुटः ।
तस्याधिगतगोचरत्वात् ।
अनुभूतिः प्रमाणमिति प्राभाकरो(भास्करो)क्तं लक्षणमपि न तत्रास्ति ।
स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरिति निर्वचनात् ।
तथा प्रमाव्याप्तं प्रमाणं प्रमाकरणं प्रमाणमिति नैयायिकोक्तमपि ।
तैरपि यथार्थानुभवः प्रमेति व्याख्यातत्वात् ।
अत एव प्रमासामग्री प्रमारमिति निरस्तम् ।
अविसंवादिविज्ञानं प्रमाणमिति सौगतोक्तमपि ।
तदभिप्रेतस्यार्थजत्वादेरविसंवादस्याभावात्स्मृत्यादेरव्यापकम् ।
स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणमिति जैनोक्तमपि न स्मृत्यादौ वर्तते ।
तस्यापूर्वार्थविषयत्वाभावात् ।
ननु स्मृतिरपूर्वार्थविषया ।
तदित्युल्लेखात् ।
तस्य चानुभवेनाविषयीकरणादिति चेत्(न ।
तथा सत्यपूर्वग्रहणस्य व्यवच्छेद्याभावप्रसङ्गात् ।
धारावाहिकं तद्वयवच्छेद्यमिति चेन्न ।
अनेकान्त(ता)वादे पदार्थानां क्षणिकत्वस्याङ्गीकृतत्वेन धारावाहिके(कविभ्रमे)ऽप्येवमपूर्वार्थताभ्युपगमसौलभ्यात् ।
मा भूद्वात्र स्मृतिप्रामाण्यहानिर्दोषः ।
धारावाहिके तु तद्धानिरवर्जनीया ।
तदपि स्मृत्यनुवादपदाभ्यामुपलक्ष्यत इति ।
*5,245*
ननु भवत्पक्षे ऽपि स्मृतेः प्रामाण्यं हीयत एव ।
तस्या याथार्थ्याभावात् ।
नहि यादृशो ऽर्थः स्मर्यते यदा, तादृश एवासौ तदा ।
पूर्वावस्थाया वर्तमाने निवृत्तत्वात् ।
अनिवृत्तौ हि पूर्वतैव न स्यात् ।
नच निवृत्तपूर्वावस्थतयैव तमर्थं स्मृतिरालम्बते ।
पूर्वावस्थानिवृत्तावनुभवाप्रवृत्तेः ।
ननु समानविषयत्वे ऽपि स्मृत्यनुभवयेरनुभवो यथार्थो न तु स्मृतिरिति कुत एतत्नुभवकाले तस्यार्थस्य तादवस्थ्यात् ।
स्मृतिकाले त्वतादवस्थ्यात् ।
ननु पूर्वं तावत्तदवस्थ एवासावसीदेतावतैव ज्ञानमस्तु यथार्थम् ।
न ।
पाकरक्ते ऽपि श्यामताप्रत्ययस्य यथार्थत्वप्रसङ्गात् ।
नन्वतीतश्यामताप्रत्ययस्तत्र यथार्थ एव ।
सत्यम् ।
तद्विषयस्य तदानीमेव तदवस्थात्वम् ।
नतु स्मर्यमाणावस्थस्तदानीं तदवस्थः ।
तस्मात्स्मृतिरयथार्थैव ।
मैवम् ।
अपसिद्धान्तापातात् ।
तथाहि ।
उपलब्धिहेतुः प्रमाणमित्यत्र संशयादावतिव्याप्तिमाशङ्कय प्रकृतयाथार्थ्येनोपलब्धिर्विशेषिता ।
तस्यापि स्मृतिहेतावतिव्याप्तिमाशङ्कयोपलब्धिशब्दो ऽनुभववचनो न ज्ञानसामान्यवचन इत्युक्तं वाचस्पतिना ।
तेन ज्ञायते तेनाभ्युपगतं स्मृतेर्याथार्थ्यमिति ।
अन्यथा याथार्थ्येन स्मृतौ व्यावृत्तायां पुनर्न शङ्केत ।
शङ्कमानो वा तमेव परिहारमनतिदिशन्नुपलब्धिपदमनुभूतिपरतया न व्याकुर्यात् ।
यथार्थानुभवः प्रमा सम्यगनुभवसाधनं प्रमाणमित्यादीनि न्यायविदां वचनान्यपीममेवार्थमवगमयन्ति अन्यथा द्वयङ्गविकलत्वात्स्मृतेरनुभवपदव्यावर्त्यता न स्यात् ।
काणादैरपि प्रत्यक्षलैङ्गिकस्मृत्यार्षभेदेन विद्याचातुर्विध्यमङ्गीकुर्वाणैर्यथार्थत्वं स्मृतेरङ्गीकृतम् ।
*5,246*
यदपि"नहि (यदा)यो यादृशःऽ; इत्यादि, तदनेन किमुक्तं भवति ।
स्मरणकाले ऽर्थस्य तदवस्थात्वाभावादयाथार्थ्यं स्मृतेरिति वा, पूर्वावस्थानिवृत्तेरविषयीकरणादिति वा, अनिवृत्तपूर्वावस्थत्वेन विषयीकरणादिति वा ।
आद्ये ऽतीतानागतविषयानुमानागमप्रामाण्यप्रच्युतिः ।
अतीतादिविषयस्य तदानीमसत्त्वात् ।
द्वितीये सर्वप्रमाणाप्रामाण्यप्रसङ्गः ।
कस्यापि सर्वात्मना विषयीकरणाभावात् ।
तृतीये त्वसिद्धिः ।
न ह्यनिवृत्ततदवस्थो ऽसाविति स्मृतिरालम्बते ।
किन्तु तदासौ तादृश इति ।
तदवस्थानिवृत्त्यनिवृत्त्योस्तूदासीनैव ।
नन्वनुभवेन"तदा(ऽसौ) तादृशःऽ; इत्यविषयीकृतं तथा विषयीकुर्वाणाः कथं याथार्थ्यं लभन्त इति चेत् न ।
स्यादिदम् यद्यनुभवानुसारित्वं याथार्थ्यमिति वदामः ।
अर्थानुसारित्वं तु तथेत्युक्तम् ।
अनुभवे ऽन्याकारे कुतस्त्यो ऽयं स्मृतेरन्याकार इति चेत् ।
किमयं नास्तीत्यभिमानः, उत निर्हेतुक इति वा, यद्वा प्रश्नमात्रम् ।
नाद्यः ।
साक्षिसिद्धत्वात् ।
न द्वितीयः ।
व्याघातात् ।
तृतीये ऽनुभवस्यापि कुतस्त्यः ।
स्वहेतुसमासादित इति चेत्तुल्यम् ।
यदि च संस्कारमात्रजन्यता स्मृतेः स्यात् ।
(स्यात्त)तदा कथञ्चिद्वैसादृश्यानुपपत्तिः ।
मानसं तद्धि विज्ञानमिति वक्ष्यते ।
तस्माद्वैयात्यमात्रनिमित्तं स्मृतियाथाथ्यर्निराकरणम् ।
तथाच स्मृत्यनुवादप्रामाण्यसङ्ग्रहाय लक्षणान्तररचनमिति सूक्तम् ।
*5,255*
ननु च सङ्ग्राह्यस्य सङ्ग्रहो गुणो, न त्वसङ्ग्रह्यस्यापि ।
किन्नामातिव्याप्त्या दोष एव ।
नच स्मृत्यादि लक्षणसङ्ग्राह्यम् ।
प्रामाण्याभावादिति चेत् ।
तत्किं स्मृत्यादिप्रामाण्यं साधकप्रमाणाभावान्नाङ्गीकार्यम्, उत बाधकसद्भावात् ।
*5,256*
नाद्यः ।
लोकव्यवहारस्य सत्त्वात् ।
यथार्थज्ञानतत्साधने हि प्रमाणतया लोको व्यवहरति ।
नह्यस्ति प्रत्यक्षादिप्रामाण्यसाधकमन्यल्लोकव्यवहारात् ।
ननु प्रमाणाभियुक्तानां कणभुग(भक्षा)क्षपादादीनां तत्र (प्रामाण्य)प्रमाणव्यवहारो नास्तीति चेन्न ।
"स्मृतिः प्रत्यक्षमैतिह्यम्ऽ; इत्यादिश्रुति(स्मृति)सिद्धार्थमनङ्गीकुर्वतामाप्तत्वस्यासिद्धेः ।
स्मृतिः पौरुषेयो ग्रन्थ इति चेत् ।
किमत्रायमखण्डवृत्तिः शब्दः किंवा यौगिकः ।
नाद्यः ।
कृदन्ततायाः स्पष्टावभासत्वात् ।
न द्वितीयः ।
अव्याप्त्यतिव्याप्तिभ्यां योगानुपपत्तेः ।
तस्मान्मन्वादिस्मरणमूलत्वात्स्मृतिरित्युपचारो ग्राह्यः ।
ते हि श्रुत्यादिनानुभूतमर्थं स्मृत्वा तत्प्रतिपादकं ग्रन्थमारचयन्ति व्यासादिप्रणीतेषु तत्सादृश्यात्प्रयोगः ।
नच मुख्ये बाधकमन्तरेणोपचारो लभ्यते ।
सन्तु वाक्षचरणादयो(ऽप्या)ह्याप्ताः ।
तथापि तत्तद्वयवहाराभावमात्रेण स्मृत्यादिप्रामाण्यानभ्युपगमो ऽयुक्तः ।
नहि तैः प्रतिव्यक्ति पदार्था निरूपिताः ।
तथाप्युक्तलक्षणैः सङ्गृहीता इति चेत् ।
तुल्यं स्मृत्यादेरपि ।
प्रत्यक्षाद्यन्तर्भावस्य सुवचत्वात् ।
अपि च स्मृत्यादिकं प्रमाणपदवाच्यम् यथार्थत्वात् प्रत्यक्षवत् ।
न चानुभवत्वमुपाधिः ।
समव्याप्तिपक्षे संशयादौ व्याप्तिभङ्गात् ।
विषमव्याप्तित्वे(पक्षे)ऽपि करणरूपे प्रत्यक्षे साध्याव्यापकत्वात् ।
किञ्चेदमनुभवत्वं स्मृतिव्यतिरिक्तज्ञानत्वमिति चेत् ।
किमर्थमिदं विशेषणम् ।
पक्षव्यावृत्त्यर्थमिति चेत् ।
तर्हि पक्षेतरत्वेनानुपाधित्वम् ।
अन्यथेश्वरानुमाने ऽप्युपाधिरशक्यनिरासः स्यात् ।
एतेनानुभवतत्करणयोरन्यतरत्वमपि प्रत्युक्तम् ।
व्यास -(11)
*5,261*
अस्तु तर्हि बाधकसद्भावादिति द्वितीय इत्यत आह- अङ्गीकृतं चेदिति ॥
अङ्गीकृतं चेत् प्रामाण्यं स्मृत्यादेः का विरोधता

2.1.25

न्यायसुधा:
स्मृत्यादेः प्रामाण्यमिति सम्बन्धः ।
किमाक्षेपे ।
तर्हीति शेषः ।
समृतिरनुवादश्चाप्रमाणम् निष्फलत्वात् ।
यद्यत्प्रमाणं तत्तत्सफलं दृष्टं यथा प्रत्यक्षादीति बाधकसद्भावात्कथमेतदिति चेत् ।
किमत्र सर्वा स्मृतिः सर्वो ऽप्यनुवादश्च (सवर्श्चानुवादः) पक्षीक्रियते, किंवा तदेकदेशः ।
आद्ये भागासिद्धिरित्याह- न चेति ॥
नचाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः
न्यायसुधा:
कासाञ्चित्स्मृतीनां केषाञ्चिदनुवादानां च सफलत्वोपलम्भादिति चार्थः ।
उपपादयिष्यते चैतत् ।
अप्रयोजकश्चायं हेतुरित्याह- फलवत्त्वमिति ॥
फलवत्त्वं नचास्माभिः प्रामाण्यं हि विवक्षितम्

2.1.26

न्यायसुधा:
यदि हि फलवत्त्वं प्रामाण्यं प्रामाण्यस्य व्यापकमस्माभिः परीक्षकैर्विवक्षितं स्यात् ।
स्यान्नाम तदा व्यापकस्य तस्य निवृत्त्या स्मृत्यादेः प्रामाण्यनिवृत्तिः ।
न चैवमित्यर्थः ।
अयमभिसन्धिः ।
अप्रमाण(प्रामाण्य)व्यवहारे याथार्थ्याभाव एव प्रयोजकः, अप्रामाण्ये तु करणदोषबाधकप्रत्ययौ न निष्फलत्वमिति ।
एतेनाफलांशस्यैव पक्षीकरणमिति द्वितीयो ऽपि निरस्तः ।
*5,363*
करणदोषबाधकप्रत्ययाविव विफलत्वमप्यप्रामाण्यप्रयोजकं किन्न स्यादित्यत आह- तृणादीति ॥
तृणादिदर्शने किं च फलवत्त्वं निगद्यते
न्यायसुधा:
धर्मस्य धर्म्यधिकरणमिति सप्तमी ।
ग्रामं गच्छतः पथि परिततृणादिदर्शनस्य ।
उपलक्षणं चैतत् ।
स्व(क)कारणसामर्थ्यायातानुमितेश्चेत्यपि द्रष्टव्यम् ।
किमाक्षेपे ।
विफलत्वस्याप्रामाण्यप्रयोजकत्वे तृणादिदर्शनादेस्तथात्वेनाप्रामाण्यं स्यात् ।
न चैवम् ।
लोकव्यवहारविराधादित्याशयः ।
यद्वानैकान्तिकश्चायं हेतुरिति अनेनाचष्टे ।
प्रमाणतया सम्मते विपक्षभूते तृणादिदशर्ने किं फलवत्त्वं निगद्यते न किञ्चिद(किम)पीत्यफलत्वं तत्र गतमिति ।
*5,263f.*
ननु कार्यजातं प्राणिनां धर्माधर्माभ्यामुपजायत इति तावदविवादम् ।
ततश्च धर्माधर्माभ्यामुजनिततृणादिदर्शनं स्वयमसुखदुःखात्मकं यदि सुखं दुःखं वा तत्साधनं वा न जनयेत् तदा धर्माधर्मयोर्वैयर्थ्यं श्रुत्यादेरप्रामाण्यं वा(चा)पद्येत ।
ततश्च तृणादिदर्शनेनापि सुखदुःखादिकं किञ्चिदुपजनयितव्यमेव ।
अतः कथं तस्य विफलत्वमित्यत आह- सुखेति ॥
सुखदुःखादिकं किञ्चित् स्मृतावपि हि दृश्यते

2.1.27

न्यायसुधा:
अनेन न्यायेन सर्वस्या स्मृतेः सर्वस्य चानुवादस्य सफलत्वात्स्वरूपासिद्ध एव हेतुः स्यात् ।
भागासिद्धता तु स्पष्टफलोपलम्भा(भावा)भिप्रायेणोक्तेति भावः ।
इयांस्तु विशेषः ।
तृणादिदर्शनस्य फलं सर्वथा(प्य)व्यक्तम् नैवं स्मृत्यादेरित्युक्तं दृश्यते ऽपि हीति ।
अत्रानुवादो ऽपि ग्राह्यः ।
तथाहि ।
इष्यार्थस्मृतौ सुखं, तज्जातीये रागः, संस्कारपाटवं च ।
अनिष्यार्थस्मृतौ दुःखं, तज्जातीये द्वेषः, संस्कारपाटवं च ।
प्रशस्तार्थस्मरणे धर्मः, अप्रशस्तार्थस्मरणे त्वधर्मः ।
एवमनुवादे ऽपि द्रष्टव्यम् ।
अन्यथा प्रणिधानादिवैयथ्यर्प्रसङ्गात् ।
"शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात्ऽ; इति वदताक्षपादेनाप्यनुवादस्य साफल्यमङ्गीकृतम् ।
निगमनस्य च प्रयोजनानि न्यायविद्भिरुपपादितानीति ।
*5,268*
अथापि स्यात् ।
प्राकट्यापरपर्यायामर्थगतां ज्ञाततामुपजनयदेव प्रमाणम् ।
यथा प्रत्यक्षादि ।
नच स्मृत्यादिना ऽर्थे ज्ञाततोपजनिः सम्भवति ।
अनुभवेनैव तस्या जातत्वात् ।
नहि छिन्ने छिदा पुनरुत्पद्यते ।
तत्कथं तस्य प्रामाण्यं स्यादिति ।
तत्राह- नेति ॥
न परिच्छेदकार्येव प्रमाणमिति च प्रमा
न्यायसुधा:
परिच्छेदो ज्ञातता ।
एवेति प्रतिवाद्युक्तानुवादः ।
परिच्छेदकार्येव प्रमाणम् ।
तदभावात्स्मृत्यादिकमप्रमाणमिति नेत्यर्थः ।
कुतो नेत्यत आह- इति चेति ॥
इतिशब्देनार्थगतां ज्ञाततां परामृशति ।
नेत्यस्यानुकर्षणार्थश्चकारः ।
ज्ञाततायां प्रमा प्रमाणं नास्तीत्यर्थः ।
तथा च ज्ञातताजनकत्वं सपक्षे विभ्रमादाविव विपक्षे प्रत्यक्षादावपि वर्तत इति साधारणानैकान्तिकमिति भावः ।
किञ्च धारावाहिकविज्ञानानि स्मृत्यादिकमिव न ज्ञाततामुपजनयन्तीति कुतो नानैकान्त्यम् ।
अपि च संशयविपर्ययावपि ज्ञाततामुपजनयत इति त्वयाङ्गीकरणीयम् ।
समानन्यायत्वात् ।
ततश्च विपक्षा(त्प्रत्यक्षा)दिव सपक्षादपि व्यावृत्तेस्तवासाधारणो हेतुः स्यात् ।
यद्वा ज्ञाततालक्षणस्य परिच्छेदस्यैवाप्रामाणिकत्वात्परिच्छेदकार्येव प्रमाणमित्यस्यां व्याप्तौ न प्रमाणमस्तीत्येकग्रन्थतया योज्यम् ।
तथाच व्यापकानुपलब्धिलिङ्गकमनुमानं दूरापास्तमिति भावः ।
*5,270*
ननु चाज्ञातज्ञापकमेव प्रमाणम्, अज्ञातज्ञानमेव वा ।
न चैतत्स्मृत्यादावस्तीति तदप्रमाणमित्यतो वाऽह- नेति ॥
परिच्छेदो ऽज्ञातज्ञानं, तत्कर्तुं शीलमस्यास्तीति परिच्छेदकारि(री) ।
यद्वा परिच्छेद एव कार अकारः परिच्छेदकारः सो ऽस्यास्तीति परिच्छेदकारि ।
किं परिच्छेदकारित्वं प्रामाण्यस्य व्याप्यव्यापकभूतं लक्षणमिति तदभावात्स्मृत्यादेरप्रामाण्यमुच्यते, किंवा व्यापकमेवेति ।
*5,270f.*
आद्ये परिच्छेदकार्येव प्रमाणमिति लक्षणं न प्रमा नोपपन्नमिति योजना ।
अव्याप्तेरतिव्याप्तेश्चेति ।
तथाहि ।
धर्मिणमादायानधिगतार्थगन्तृत्वमुच्यते प्रकारं वा ।
आद्ये नित्यविषयाणामप्रामाण्यापातः ।
व्याप्यवत्तयावगतं धर्मिणं व्यापकवत्तया विषयीकुर्वतो ऽनुमानस्य पृथगवगतानर्थान्त्संसृष्टतया गोचरयतः शब्दस्य चाप्रामाण्यप्रसङ्गः ।
द्वितीये तु धारावाहिकविज्ञानानामप्रामाण्यं स्यात् ।
नहि वैनाशिकानामिव मीमांसकानामन्य एव घटः ।
नापि साङ्खयानामिव परिणामी ।
नापि प्रकारमप्युपजनापायवन्तमीक्षामहे ।
*5,271*
ननु यद्यपि स्वरूपस्य प्रकारस्य वा तादवस्थ्यम् ।
तथापि घटो ऽयं घटो ऽयमिति प्रत्यक्षज्ञानधारायां वर्तमान एवार्थः (परि)स्फुरति ।
नच क्रमभाविनां ज्ञानानामेक एव वर्तमानकाले विषयो नानाप्रतिपत्तृवत् ज्ञानयौगपद्यप्रसङ्गात् ।
(तत्प्र)प्रत्यभिज्ञानानुपपत्तेश्च ।
ज्ञानानेकत्वे ऽप्येककालावस्थानाकलनात् ।
तस्मात्पूवर्वूर्वविज्ञानैरनाकलित एव वर्तमानो ऽर्थ उत्तरोत्तरैरवसीयत इत्यनधिगतार्थत्वमेवेति ।
एवं तर्हि स्मृत्यादेरप्यनधिगतार्थत्वमेव ।
स्मृतिरपि वर्तमानतत्कालतयानुभूतमथर्मतीततत्कालतयावगाहते ।
अन्यथा स इति न स्यात् ।
अनुवादो ऽपि यदि वादविषयस्तदा स्फुटमनधिगतार्थत्वम् ।
यदि च पूर्वविज्ञानविशिष्टार्थगोचरस्तथापि धारावाहिकसमानो न्यायः ।
अधिकविधानेनैकवाक्यतायामपि तथेति ।
संशयविपर्यासयोरप्यनधिगतविषयत्वात् प्रामाण्यं स्यात् ।
अनधिगततथाभूतार्थ(गन्तृ)त्वं विवक्षितमिति चेन्न ।
अनधिगतविशेषणवैयर्थ्यात् ।
स्मृत्यादिव्यावृत्त्यर्थं तदिति चेत्(न) ।
स्मृत्यादिकमेव कुतो व्यावर्तनीयम् ।
लक्षणाभावादिति चेत् ।
तदिदमितरेतराश्रयत्वमिति ।
*5,286*
अस्तु तर्हि व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति द्वितीयः पक्षः ।
स्यादप्येवम् ।
यदि परिच्छेदकार्येव प्रमाणमिति प्रमा प्रमाणं स्यान्न च तदस्ति ।
तथाहि ।
प्रामाण्यस्यानधिगतार्थत्वेन व्याप्तिः किं साहचर्यदर्शनमात्रात्सिद्धयति, उत व्यभिचारदर्शनसहकृतात्, उत विपक्षे बाधकोपेतात् ।
नाद्यः ।
अतिप्रसङ्गात् ।
न द्वितीयः ।
धारावाहिनि व्यभिचारदर्शनात्, अतिप्रसङ्गापरिहाराच्च ।
न तृतीयः ।
तदभावात् ।
अधिगतमेवार्थमधिगमयता प्रमाणेन पिष्यं पिष्यं स्यादिति चेत् ।
किमिदं पिष्यपेषणं नाम ।
किमधिगते ऽर्थे ऽधिगत्यन्तस्यानुदयः, किंवा विफलत्वम्, उताविशिष्टफलत्वम्, अथ अनपेक्षितफलत्वम् ।
नाद्यः ।
स्यादप्येवं यदि ज्ञानाभवो ऽपि ज्ञानसामग्षेकदेशः स्यात् ।
ज्ञानं वा तत्प्रतिबन्धकं भवेत् ।
नचैवम् ।
तथात्वे स्मृतेरेवानुदयप्रसङ्गात् ।
न द्वितीयः ।
उक्तोत्तरत्वात् ।
न तृतीयः ।
आद्ये ऽप्यापत्तेः ।
न चतुर्थः ।
तृणादिदर्शने, हेयदशर्ने च प्रसङ्गात् ।
ननु च करणविशेषः प्रमाणम् ।
कारणं च साधकतमम् ।
नच साध्यसिद्धौ तज्जातीयस्यापि साधकतमत्वमस्ति, छिन्ने परशोरिवेति चेत् ।
मैवम् ।
नहि करणस्य साधकतमत्वं साधकतमान्तरापेक्षया ।
किन्तु प्रधानक्रियाकारकान्तरापेक्षया ।
अन्यथा यत्र करणानां समुच्चयस्तत्र परस्परापेक्षयानतिशयितत्वादकरणत्वं स्यात् ।
छिन्ने कुठारस्याकरणत्वं तु फलानुदयात् ।
नच प्रकृते तथास्तीत्युक्तमिति ।
*5,291*
नन्वनपेक्षत्वं प्रामाण्यस्य व्यापकम्, अन्योन्यनिरपेक्षा(स्तु) धारावाहिका बुद्धयः ।
अतः प्रामाण्यमश्नुवते ।
न चैवं स्मृत्यादीत्यप्रमाणमेवेति चेन्न ।
अस्या अपि व्याप्तेरप्रामाणिकत्वादित्याह- नेति ॥
परिच्छेदो ऽनपेक्षं ज्ञानम् ।
किञ्चानपेक्षत्वं सर्वथा चेदनित्यप्रमाणेषु नास्ति ।
ज्ञानान्तरानपेक्षत्वं चेदनुमित्यादौ तदभावः ।
उत्पत्तावेवानुमित्यादिकं लिङ्गाद्यपेक्षं नार्थपरिच्छेद इति चेत्(न) ।
ज्ञानव्यतिरिक्तस्यार्थपरिच्छेदस्यैवाभावात् ।
स्मृत्यादावप्येवमेव सुवचत्वाच्च ।
समानविषय(क)ज्ञानानपेक्षत्वं चेद्धर्मिणमादायानुमित्यादावपि तदभावः ।
प्रकारतो ऽपि स्मृत्यादावस्तीत्यसिद्धिरिति ।
अननुभवत्वात्स्मृतिरप्रमाणम् ।
अनुभवतत्साधनयोरेव प्रामाण्यादित्येतदप्यसत् ।
पूर्ववद्वयाप्तेरसिद्धेरित्याह- नेति ॥
परिच्छेदो ऽनुभवः ।
*5,294*

एवं प्रमाणसामान्यलक्षणमभिधाय तद्विशेषान् लिलक्षयिषुरादौ प्रत्यक्षस्योद्दिष्टत्वात्तल्लक्षणमाह- निर्दोषेति ॥
निर्दोषाक्षोद्भवं ह्य् अत्र प्रत्यक्षमिति गीयते

2.1.28

न्यायसुधा:
अत्र प्रमाणेषु ।
लोकवेदयोरिति वा ।
ननु कथमिदं विज्ञायते ।
किं निर्दोषैरक्षैरुद्भवो यस्येति, किंवा निर्दोषं च तदक्षोद्भवं चेति ।
नाद्यः ।
अव्याप्तेरतिव्याप्तेश्च ।
तथाहि ।
ईश्वरादिप्रत्यक्षं नाक्षोद्भवं नित्यत्वात् ।
अक्षकार्यं क्रियादिकमपि प्रत्यक्षं स्यात् ।
न द्वितीयः ।
द्वयोरपि विशेषणत्वेन समासानुपपत्तेः ।
उक्ताव्याप्त्यनिस्ताराच्चेति ।
उच्यते ।
अस्तु तावदाद्यः ।
अज्ञानविपरीतज्ञानहेतुभिः काचकामलादिदोषै रहितानि यान्यक्षाणीन्द्रियाणि तैरुद्भवो यस्येति ।
न चाव्याप्तिः ।
उद्भवशब्दस्योत्पत्त्यभिव्यक्त्यन्यतराथर्त्वात् ।
यथोक्तम्"सर्वमक्षात्मकं मतम्ऽ; इति ।
नाप्यतिव्याप्तिः ।
ज्ञानस्य प्रकरणप्राप्तत्वात् ।
तथाप्यक्षलिङ्गके ऽनुमाने ऽतिव्याप्तिरिति चेन्न ।
तस्याक्षज्ञानोद्भवत्वेनाक्षमात्रोद्भवत्वाभावात् ।
निर्दोषाक्षोद्भवमप्यर्थदोषादयथार्थमुत्पद्यते ज्ञानम् ।
यथोक्तम् ।
"अतिदूरादतिसामीप्यादिन्द्रियदोषान्मनो ऽनवस्थानात् ।
सौक्ष्म्याद्यवधानादभिभवात्समानाभिघाताच्चऽ; इति ।
तथापि निर्दोषार्थसन्निकृष्टेति विशेषणाददोषः ।
*5,298*
अत्र ज्ञानग्रहणं सुखादिव्यावृत्त्यर्थमिति केचित् ।
तदसत् ।
विषयसाक्षात्कारस्यैव सुखादिहेतुत्वात् ।
इन्द्रियार्थसन्निकर्षः(तु) तदर्थमभ्यर्थ्यते ।
नन्वेवं सति सर्वार्थसाक्षात्कारवतः परमेश्वरस्य सुखाद्युत्पादप्रसङ्ग इति चेत् ।
लीलाविग्रहग्रहणे तस्येन्द्रियार्थसन्निकर्षवतः कुतो न तत्प्रसङ्गः ।
अथ न तावन्मात्रं सुखादिकारणम् ।
किन्नाम धर्मादिकमपि ।
अतस्तदभावान्न तस्य सुखाद्युत्पाद इति चेत् ।
तुल्यम् ।
अत एव न योगिष्वपि प्रसङ्गः ।
तथाचाहुः ।
"देहे शीतोष्णादिसम्बन्धाद्धि शीतोष्याद्यनुभव आत्मनः ततश्च सुखदुःखेऽ; इति ।
अत्र देहशब्देन तदाश्रितानीन्द्रियाण्युपलक्ष्यन्ते ।
तदयं लक्षणाथर्ः ।
निर्दोषार्थसन्निकृष्टनिर्दोषेन्द्रियोद्भवं ज्ञानं प्रत्यक्षमिति ।
*5,300*
यद्वा निर्दोषार्थेन्द्रियसन्निकर्षजं ज्ञानं प्रत्यक्षमित्येवार्थः ।
जन्यप्रत्यक्षविषयमेव (वा त)एतद्वयाख्यातम्(नम्) इति नोक्तदोषः ।
अनुगतलक्षणसिद्धयर्थं तु द्वितीयं पक्षं परिगृह्णीमः ।
निर्दोषं यथार्थमक्षोद्भवमिति ।
अक्षोद्भवशब्देन (च)साक्षात्कारो लक्ष्यत इति न कश्चिद्दोषः ।
साक्षात्कारत्वं च ज्ञानगत एव विशेषो न करणोपाधिकः ।
तदनेन केवलं प्रत्यक्षं लक्षितम् ।
*5,301f.*
अत्रैव यतस्तदिति पदद्वयाध्याहारेण यथार्थापरोक्षज्ञानसाधनमित्यनुप्रमाणप्रत्यक्षलक्षणमपि व्याख्येयम् ।
तच्च विवक्षाभेदेन निर्दोषार्थेन्द्रियसन्निकर्षो वा निर्दोषार्थसन्निकृष्टमदुष्यमिन्द्रियं वेति ।
ननु"अदुष्यमिन्द्रियं त्वक्षम्ऽ; इति वचनादक्षशब्द एवादुष्यतामाचष्टे ।
तत्किमर्थं निर्दोषेत्यक्षविशेषणम् ।
मैवम् ।
इन्द्रियं त्वक्षं तच्चादुष्यमिह विवक्षितमिति तद्वयख्यानात् ।
*5,303*
नन्वेतल्लक्षणं प्रतिगतमक्षं प्रत्यक्षमित्येवं शब्दनिर्वचनादेव प्रतीयमानं लक्ष्यात्प्रत्यक्षान्न भिद्यते ।
नचैकस्यैव लक्ष्यलक्षणभावः सम्भवति ।
ज्ञाता(त्व)ज्ञातत्वासम्भवादिति चेन्न ।
अत्र प्रत्यक्षपदवाच्यतायाः साध्यत्वेन विवक्षितत्वादित्याशयेनोक्तम्- इति गीयत इति ॥
*5,303f.*
ननु निर्दोषतेन्द्रियाणां कुतो ऽवगन्तव्या ।
ज्ञानयाथार्थ्यादिति चेत् ।
तदपि किं करण(गतया)निर्दोषतया ज्ञातव्यं, किंवा विरुद्धप्रमाणाभावात् ।
नाद्यः ।
परस्पराश्रयतापत्तेः ।
न द्वितीयः ।
असञ्जातविरोधिविभ्रमे ऽप्यापत्तेः ।
मैवम् ।
ज्ञानयाथार्थ्यस्य साक्षिसिद्धत्वाङ्गीकारात् ।
परीक्षापेक्षायां तु प्रबलविरोध(धा)भावः साचिव्यमाचरति ।
यथोक्तम्"बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथाऽ; इति ।
असञ्जातविरोधी तु विभ्रम एवेति कुतः ।
देशकालपुरुषान्तरसम्बन्धिविपरीतप्रमावशादिति चेत् ।
कथं तर्ह्यसञ्जातविरोधित्वम् ।
एवं तर्हि सर्वथा विपरीतप्रमाभावो ऽङ्गीकृतः स्यात् ।
अद्धा ।
सो ऽपि तैस्तैः परीक्षाविशेषैर्निश्चीयते ।
निर्मूलं तु न शङ्कयते ।
अन्यथा सर्वत्रानाश्वासेनाभिमतमपि न सिद्धयेदिति ।
*5,307*
नन्विन्द्रियार्थसन्निकर्षस्य प्रत्यक्षत्वे गगननयनसन्निकर्षादपि ज्ञानमुत्पद्यताम् ।
मैवम् ।
अर्थशब्देन तत्तदिन्द्रियग्रहणयोग्यस्यैव विवक्षितत्वात् ।
गगनादौ च तद्योग्यताभावस्य कार्याभावादेव सिद्धेः ।
एतेन चक्षुरादिना गन्धादिग्रहणप्रसङ्गो ऽप्यपास्तः ।
*5,307f.*
अथ मतम् ।
यद्याश्रिता योग्यता, किमन्तर्गडुना सन्निकर्षेण ।
तत्तदिन्द्रियविषयस्तेन तेनेन्द्रियेण गृह्यते ।
कथमन्यथा काचाभ्रपटलाद्यन्तरितोपलब्धिः स्यात् ।
सान्तरग्रहणं च प्राप्तिपक्षे न सम्भवति ।
प्राप्यकारिषु तवगादिषु तदभावात् ।
किञ्च नयनं चेत्प्राप्यकारि तदा स्वसंयुक्तमात्रं गृह्णीयात् ।
कुठारादिषु तथा दर्शनात् ।
पृथुतरं च गृह्णाति ।
दिग्विशेषसन्देहश्चैव सति न स्यात् ।
प्राप्त्या तन्निश्चयप्राप्तेः ।
सन्निकृष्टविप्रकृष्टयोः शाखाचन्द्रमसोर्युगपद्ग्रहणाच्च ।
नहि प्राप्यकारिण्येवं भवितुमर्हति ।
अपि च चक्षुः अप्राप्यार्थप्रकाशकम् अत्यासन्नाप्रकाशकत्वात् ।
व्यतिरेकेण श्रोत्रादिवत् चक्षुर्गत्वा नार्थेन सम्बध्यते इन्द्रियत्वात् स्पर्शनादिवत् ।
नचार्थस्य आगमनं प्रत्यक्षविरोधात् ।
तथा चाप्राप्यप्रकाशकत्वसिद्धिरिति ।
*5,310*
अत्रोच्यते ।
विषयकरणयोर्योग्यतामात्रमुपादाय सन्निकर्षापाकरणं किं सर्वत्रोत नयन एवेति वक्तव्यम् ।
न प्रथमः ।
अप्राप्तैरेव कुठारादिभिः काष्ठादौ छिदाद्युदयप्रसङ्गात् ।
घ्राणरसनस्पर्शनैरप्राप्तैरेव गन्धाद्यवबोधोदयापत्तेश्च ।
तथाच योग्यतावदन्वयव्यतिरेकसिद्धा प्राप्तिरपि क्रियोत्पादोपयोगिनी ।
न द्वितीयः ।
विशेषकारणाभावात् ।
योग्यताया अन्वयव्यतिरेकदशर्नात्प्राप्तेश्चानुपलम्भादिति चेन्न चक्षुषो ऽपि करणत्वेन्द्रियत्वाभ्यां प्राप्त्युपलम्भात् ।
*5,311*
नन्वत्र किं गोलकं पक्षीक्रियते उत तदतिरिक्तं चक्षुः ।
आद्ये प्रमाणबाधः ।
द्वितीये त्वाश्रयासिद्धिरिति चेन्न ।
तवापि गोलकपक्षीकारे सिद्धसाधनम् ।
अन्यत्राश्रयासिद्धिरिति वक्तुं शक्यत्वात् ।
अथ विशेषं विहाय रूपदर्शनानुमितं करणमात्रं पक्षीक्रियत इति ब्रूषे ।
समं ममापि ।
अत एव गोलकातिरिक्तमपि तत्सेत्स्यति ।
सन्निकर्षश्च प्रत्यासत्तिमात्रं विवक्षितम्, न संयोगादिरिति न शब्दादिभिर्व्यभिचारः ।
*5,313*
का चेयं योग्यता यन्मात्रादसन्निकृष्टमपि चक्षुः प्रकाशयेत् ।
यदि रूपविशेषादिरूपा तदातीतानागतयोरपि तद्भावाच्चाक्षुषतापत्तिः ।
सन्निकर्षार्थं खलु वर्तमानताभ्यर्थनम् ।
सन्निकर्षस्यान्यथासिद्धौ प्रत्यभिज्ञायां तत्तांशस्य चक्षुषावभासनात् स चेदनपेक्षितः, किं तदा वतर्मानतया ।
अथ वर्तमानतापि रूपदिवद्योग्यतान्तर्गता, तदा प्रत्यभिज्ञा न सिद्धयेत् ।
कुड्यादिव्यवहितप्रतीतिप्रसङ्गश्च ।
प्राप्तिप्रतिबन्धकं हि कुड्यादिव्यवधानमिति प्राप्त्यर्थं तदभावो ऽन्वेषणीयः स्यात् ।

सा यदि नेष्यते तदा कुड्यादिकं कस्यापकुर्यात् ।
आवरणाभावो ऽपि योग्यतेति चेत् ।
न ।
कुड्य(ड्या)परभागावस्थितेनाप्यग्रहणप्रसङ्गात् ।
अथ नयनविषययोर्मध्ये निबिड(डावयव)द्रव्याभावो विवक्षित इति चेत् ।
स्फटिकाद्यन्तरितानुपलब्ध्रिप्रसङ्गात् ।
अस्वच्छद्रव्याभावो विवक्षित इति चेत् ।
तथाप्यव्यवहितदूरदर्शनापत्तिरेव ।
अथ क्षणभङ्गपरिणामावाश्रित्य तथाभूतस्योत्पादानुत्पादौ एव योग्यतायोग्यते मन्यसे, तदा सो ऽर्थः कदाचित्सर्वैरुपलभ्येत कदाचिन्न केनापि ।
द्रष्टृनिबन्धनो ऽपि तद्भेदो ऽस्तीति चेन्न ।
प्रमितसन्निकर्षपरित्यागेनाप्रमितानेककल्पनस्यानुचितत्वात् ।
*5,317*
किञ्चासन्निकृष्टप्रतीतौ च आसन्नसन्निकृष्टविप्रकृष्टयोर्वैशद्यावैशद्ये न स्याताम् ।
अस्माकं तु नयनरश्मयः सम्यगासन्नेन सन्निकृष्टन्ते विप्रकृष्टेन त्वसम्यक् प्रदीपरश्मय इवेति युक्ते प्रतीतेर्वैशद्यावैशद्ये ।
काचाद्यन्तरितोपलब्ध्या किमप्राप्यप्रकाशकत्वं कल्पयामः किंवा काचादीनां प्रप्तिप्रतिबन्धकत्वाभावात् ।
आद्यः प्रमाणविरुद्धो ऽनेकातिप्रसङ्गपराहत इति द्वितीय एवाश्रयणीयः ।
तथात्वे काचादेर्व्यूहान्तरतापत्ति(त्ते)रिति चेत् ।
(न) जलानलव्यतिभेदे ऽपि घटादेस्तदभावात् ।
तत्रापि सूक्ष्मतरतदभ्युपगमे ऽत्रापि सास्तु ।
सान्तरग्रहणमप्यसन्निकृष्टस्य ग्रहणं चेदसिद्धम् ।
सान्तर इति ग्रहणं चेत्प्रदीपे ऽनैकान्तिकम् ।
यथा खलु दीपो रश्मिभिरर्थसन्निकृष्टो ऽपि स्वरूपापेक्षया सान्तर इति प्रतीयते तथा चक्षुरप्यधिष्ठानापेक्षयेति किमनुपपन्नम् ।
पृथुतरग्रहणमपि नयनरश्मीनामुन्मत्तककुसुमवत्पृथ्वग्रतयोपपत्स्यते ।
अप्राप्तौ त्वल्पस्यापि ग्रहणं न स्यात् ।
प्राप्तौ दिग्विशेषसन्देहो न स्यादिति चेत्(न) ।
अप्राप्तौ सर्वत्र कल्पयिष्यति ।
युगपद्ग्रहणाभिमानस्तु तेजसः शीघ्रगामितानिबन्धनो भ्रम एव ।
प्राप्तेः प्रमाणसिद्धत्वात् ।
*5,323*
अपर आह ।
नयनरश्मयः शाखाचन्द्रसंयुक्तैः सौररश्मिभिरेकीभूता युगपच्छाखाचन्द्रमसौ ग्राहयन्तीति ।
तदसत् ।
सर्वार्थग्रहणप्रसङ्गात् ।
अदृष्टात्तद्वयवस्थेति चेत् ।
(न) बाह्यसाधनसाकल्ये ऽदृष्टवैकल्येन कार्यानुदयस्य क्वाप्यदर्शनात् ।
अदृष्टवैकल्ये हि बाह्यसामग्री विकला स्यात् ।
अन्यथा समनस्केन्द्रियसन्निकृष्टः स्फीतालोकमध्यमध्यासीनो ऽपि घटः कदाचिन्नोपलभ्येत ।
अप्राप्यार्थप्रकाशकमिति चाप्रसिद्धविशेषणता ।
अत्यासन्नाप्रकाशकत्वं प्राप्यप्रकाशकेषु घ्राणादिष्वपि विद्यते ।
स्वगतगन्धादेरग्रहणात् ।
परस्यैव अत्यासन्नकाचाद्यग्रहणमयुक्तम् ।
योग्यताया अनपायात् ।
*5,325*
गत्वा नार्थेन सन्निकृष्टत इत्यत्र किं गतिप्रतिषेधः साध्यः, किंवा सन्निकषर्प्रतिषेधः, उतोभयप्रतिषेधः ।
नाद्यः ।
कालातीतत्वादनैकान्त्याच्च ।
न द्वितीयः ।
अनैकान्तिकत्वादेव ।
अत एव न तृतीयो ऽपि ।
विशिष्टनिषेधो ऽयमिति चेन्न ।
सो ऽपि विशेषणाभावेन वेत्यादिविकल्पदूषणानिस्तारात् ।
सन्निकर्षार्थं गतिमन्न भवतीति साध्यमिति चेन्न स्पर्शनादावनैकान्त्यात् ।
शीलजलसन्निकर्षार्थं त्वगिन्द्रियगतये हि शरीरपरिस्पन्दो भवति ।
अथायमभिप्रायो ऽधिष्ठानाद्बहिर्न गच्छतीति ।
तदेन्द्रियत्वे समाने ऽपि घ्राणादीनामतैजसानामनेवम्भावः ।
चक्षुषस्तु तैज(से)सस्येत्थम्भूत(त्वा)तेत्यङ्गीकारे बाधकाभावादप्रयोजकत्वम् ।
चाक्षुषरश्मीनामुपलब्धिप्रसङ्ग इति चेन्न ।
अतीन्द्रियत्वोपपत्तेः ।
महत्तेजोजातीयमैन्द्रियकमुपलब्धमिति चेत् चाक्षुषमप्युपलब्धमिति वारिस्थं तथा स्यात् ।
अदृष्टवशादनुद्भूतरूपं तदिति चेत् ।
इदमप्यनुद्भूतरूपस्पर्शं कुतो न कल्प्यते ।
कल्पिकायां प्राप्यकारितायां प्रमाणस्योक्तत्वात् ।
यदि च नयनं निर्गत्यार्थं गृहीयात्तदा उन्मील्यनिमीलने ऽपि अर्थप्रतिपत्तिः स्यात् ।
यदि (चाक्षुष)वाक्षमधिष्ठानातिरिक्तं स्यादधिष्ठानोपघातचिकित्से व्यर्थे स्यातामिति तु प्रदीपेन समानयोगक्षेमम् ।
अपि च ।
छायायामुपविष्यस्या(प्यातपालोकने)तपावलोकनेन नयनस्याशिशिरत्वमातपोपविष्यस्यापि शिशिरद्रव्यावलोकनेन शिशिरत्वं चैतमेवार्थं गमयतः ।
न ह्यप्राप्तावेतदुपपद्यते ।
तदेतदखिलमपि प्रमाणप्रसिद्धमिति किमत्र वक्तव्यमिति हिशब्देनाचष्टे ।
॥ इति प्रत्यक्षसामान्यलक्षणनिरूपणम् ॥
*5,330*
यदक्षविशेषणं निर्दोषत्वमुक्तं तद्वयवच्छेद्यं दर्शयितुमक्षभेदं तावदाह- प्राकृमिति ॥
प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम्
न्यायसुधा:
प्रकृतिशब्देनाहङ्कारः पञ्चभूतानि चोच्यन्ते ।
सूक्ष्मरूपेण नित्यमप्यहङ्कारभूतांशैरुपचितत्वात्प्राकृतम् ।
शुद्धमित्यस्यैव विवरणं चैतन्यमिति ।
चेतिशब्दावध्याहार्यौ ।
तुशब्देनाचैतन्यमेवेन्द्रियं तच्चाहङ्कारिकमेवेति वदतां साङ्खयादीनां, भौतिकमेवेति भाषमाणानां वैशेषिकादीनां, द्रव्येन्द्रियभा(व्ये)वेन्द्रियभेदाद्द्विविधमिति जल्पतां जैनानां च मतं व्यवच्छिनत्ति ।
मतमिति स्वोक्तार्थस्य प्रमितत्वमाह ।
*5,333*
तत्र जडचैतन्यभेदमनुपदमेवोपपादयिष्यति ।
जडस्य च नित्याहङ्कारिकभौतिकत्वम्"सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्यप्यहङ्कृतेः ।
तेषां भूतैरुपचयः सृष्टिकाले विधीयतेऽ; इत्यादिस्मृतिसिद्धम् ।
नच केवलाहङ्कारिकत्वे भौतिकत्वे वा प्रमाणमस्ति ।
कपिलादीनामाप्तत्वासिद्धेः ।
घ्राणं पार्थिवं रसाव्यञ्जकत्वे सति गन्धव्यञ्जकत्वात् कुङ्कुमगन्धाभिव्यञ्जकघृतवत् ।
रसनमाप्यं रूपाव्यञ्जकत्वे सति रसव्यञ्जकत्वात् ।
लालावत् ।
चक्षुस्तैजसं स्पर्शाव्यञ्जकत्वे सति रूपव्यञ्जकत्वात् प्रदीपवत् ।
स्पर्शनं वायवीयं शब्दाव्यञ्जकत्वे सति स्पशर्व्यञ्जकत्वात् व्यजनवातवदिति ।
*5,335*
अत्र पार्थि(वादित्व)वत्वादिमात्रसाधने सिद्धसाधनत्वम् ।
तन्मात्रत्वसाधने दृष्टान्तानां साध्यवैकल्यम् ।
सर्वत्र पाञ्चभौतिकत्वाभ्युपगमात् ।
सर्वत्र चादृष्टेन व्यभिचारा(रः)त् ।
*5,336*
तत् सर्वव्यञ्जकमिति चेत् ।
किं व्यक्तिपुरस्कारेणोच्यते उतोपाध्यवच्छेदपुरस्कारेण ।
नाद्यः ।
यददृष्टमेकैकव्यञ्जकं तत्र व्यभिचारानिस्तारात् ।
तन्न निश्चितमिति चेत् ।
तथापि सन्दिग्धव्यभिचारिता ।
न द्वितीयः ।
इन्द्रियत्वावच्छेदेनासिद्धेः ।
*5,337*
किञ्च पार्थिवादिपदैः पृथिवीत्वाद्यभिधाने तत्तत्सन्निकर्षैरनैकान्त्यम् ।
इन्द्रियत्वेन हेतुविशेषणे दृष्टान्तानां साधनवैकल्यम् ।
पृथिव्यादिकार्यतासाधने प्रागुक्तसिद्धसाधनतापरिहाराय मात्रपदप्रयोगे पृथिव्यादिरूपादिव्यञ्जकसन्निकर्षेषु व्यभिचारतादवस्थ्यम् ।
*5,343*
अपि च ।
चर्मादिगन्धव्यञ्जकत्वं जलादेः, रसव्यञ्जकत्वम् लवणादेः, रूपव्यञ्जकत्वमञ्जनादेः, स्पर्शव्यञ्जकत्वं कर्पूरादेरप्यस्तीति व्यभिचार एव (इति) ।
*5,346*
इन्द्रियद्वैविध्यस्य प्रमितत्वमुक्तम् ।
तत्कथमित्यत आह- शुद्धमिति ॥
शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम्

2.1.29

न्यायसुधा:
प्राक् प्रसिद्धितारतम्यमपेक्ष्योद्देशे ऽपि प्राधान्यतारतम्यापेक्षयोपपादनमिति द्रष्टव्यम् ।
अन्यत्र संसारिषु ।
प्राकृतैरक्षैर्युतं शुद्धमस्तीत्यर्थः ।
अयमभिसन्धिः ।
उपपादयिष्यते हीशरमामुक्तानामक्षवत्ता ।
नच तदक्षं प्राकृतमिति युक्तम् ।
निर्गुणत्वादिश्रुतिस्मृतिविरोधात् ।
ततस्तच्छुद्धचैतन्यमेव भवितुमर्हति ।
संसारिषु चाक्षवत्ता सुप्रसिद्धा ।
नच तन्मुक्तावक्षप्रतिपादकप्रमाणबलायातं शुद्धमेवास्त्विति युक्तम् ।
संसारे ऽपि सम्यग्ज्ञाननियमाद्यापत्तेः ।
अतस्तत्र प्राकृतं शुद्धं चेति द्विविधमप्यस्तीति स्वीकार्यम् ।
ततः सिद्धमुक्तरूपाक्षद्वैविध्यमिति ।
परैरीशलक्ष्म्योर्लीलाविग्रहग्रहण(णा)मङ्गीकारिभिस्तदक्षस्य प्राकृतत्वमङ्गीक्रियते ।
तान्प्रति किं वादान्तरेणेति मुक्तग्रहणम् ।
स्वमते मुक्तानां लीलाविग्रहस्वीकारात् ।
किमन्यदापीन्द्रियोपपादनायासेनेतीशरमेति ।
*5,349*
किमतो यद्येवमक्षद्वैविध्यमित्यत आह- निर्दोषमेवेति ॥
निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते
न्यायसुधा:
तत्रोत्तमजीवसम्बन्धिचैतन्यमक्षं निर्दोषमेवेत्यर्थः ।
अन्यत्रापि निर्दोषतासद्भावादेवेत्युक्तम् ।
अन्यत्र मध्यमजीवसम्बन्धिचैतन्ये ।
सर्वत्र प्राकृते चाक्षे निर्दोषत्वं सदोषत्वं चोभयं कालादिभेदेनेष्यते ।
अधमसम्बन्धिचैतन्ये तु सदोषत्वमेवेति शेषः ।
इष्यते प्रामाणिकैरिति ।
अनेनागमं कार्यलिङ्गकमनुमानं चात्रार्थे दर्शयति ।
यावदत्र सदोषमुक्तं तन्निर्दोषग्रहणव्यवच्छेद्यमिति भावः ।
*5,354*
ननु च संसारिषु प्रवृत्तिसिद्धयर्थमिन्द्रियमवश्यमङ्गीकरणीयम् ।
नच तच्छुद्धम् ।
उक्तानुपपत्तेः ।
त(अ)तः प्राकृतेनैव सवर्स्योपपत्तेः संसारिषु शुद्धेन्द्रियाभ्युपगमो निर्बीज एव ।
नच मुक्तौ शुद्धसद्भावात्प्रागपि तदङ्गीकरणीयम् ।
मुक्तिवच्छुद्धेन्द्रियस्यापि पश्चात्प्राप्त्युपपत्तेरित्यत आह- सुखेति ॥
सुखदुःखादिविषयं शुद्धं संसारगेष्वपि

2.1.30

न्यायसुधा:
न केवलमीशरमामुक्तेषु (किन्तु) संसारगेष्वपि शुद्धमिन्द्रियमङ्गीकरणीयम् ।
कुतः सुखदुःखादिविषयम् ।
अयमर्थः ।
अस्ति तावत्संसारिणां सुखदुःखेच्छादिविषये(यो)ऽपरोक्षावभासः ।
लिङ्गाद्यननुसन्धानेनैवाहं सुखीत्यादिस्पष्टावभासदर्शनात् ।
नचेन्द्रियविषयतामन्तरेणापरोक्षावभासित्वं सुखादीनां युक्तम् ।
धर्मादेरपि तत्प्रसङ्गात् ।
तस्मात्सुखदुःखादिविषयमिन्द्रियमङ्गीकर्तव्यम् ।
तदेव शुद्धमिति ।
अस्तु सुखदुःखादिविषयमिन्द्रियं संसारिषु ।
तच्छुद्धमिति कुतः ।
प्राकृतेनापि तदपरोक्षावभासोपपत्तेरित्यत आह- निर्दोषत्वेति ॥
निर्दोषत्वातिनियमात् तद् बलिष्ठतमं मतम्
*5,355*
न्यायसुधा:
तत्सुखादिविषयमिन्द्रियं तावद्बलिष्ठतमं सर्वथा(प्य)ऽबाध्यं मतं सर्वेषां सम्मतम् ।
न हि कदाचिदप्यसति सुखे अहं सुखीति प्रत्ययो ऽस्ति ।
नापि सति नास्ति सुखीति ।
तथा हि सतीन्द्रियस्य बाध्यता स्यात् ।
बलिष्ठतमता चेन्द्रियस्य निर्दोषत्वादिनियमादेवोपपद्यते नान्यथा ।
सदोषाणां बाधदर्शना(नियमा)त् ।
निर्दोषत्वातिनियमश्च शुद्धस्यैव धर्मो न प्राकृतस्येति सुखादिविषयस्येन्द्रियस्य शुद्धतासिद्धिरिति ।
एतदुक्तं भवति ।
सुखादिकमिन्द्रियविषयः अपरोक्षावभासित्वात् घटवत् ।
सुखादिविषयमिन्द्रियं शुद्धम् निर्दोषतानियमवत्त्वात् ईश्वरादीन्द्रियवत् ।
विमतं निर्दोषतानिय(तिम)मवत् सर्वथाप्यबाध्यत्वात् तद्वदेवेति ।
यद्यपि मुक्तानां शुद्धेन्द्रियवत्त्वेन संसारिणां तद्वत्ता शक्यसाधना तस्य तत्स्वरूपतावगमात् ।
स्वरूपस्य चानागन्तुकत्वात् ।
तथापि साक्षिणो यत्प्रत्यक्षत्वमुक्तं तद्विभावयितुमयं प्रमाणान्तरोपन्यासः ।
सुखादिविषयं स्वरूपभूतं चैतन्येन्द्रियं हि साक्षीत्युच्यते ।
तदभिव्यक्तं ज्ञानं चेति ।
*5,356*
ननु प्राकृतशुद्धभेदात् द्विविधमिन्द्रियमित्यसत् ।
"श्रोत्रं चक्षुःस्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायम्ऽ; इति पञ्चेन्द्रियमनोभेदेनेन्द्रियषाड्विध्यस्मरणविरोधादित्यत आह- पञ्चेति ॥
पञ्चेन्द्रियमनोभेदात् प्राकृतं षड्विधं स्मृतम्

2.1.31

न्यायसुधा:
यत्पञ्चेन्द्रियमनोभेदादिन्द्रियं षड्विधमिति स्मृतं तत्प्राकृतं न तु सर्वमित्यतो न विरोधः ।
ज्ञानेन्द्रियाणामेवात्र(विवक्षित)उक्तत्वान्नैकादशत्वो(शो)क्तिविरोधः ।
बुद्धेरपि मनस्यन्तर्भावान्न सप्तत्वविरोधः ।
नन्वाकाशात्मकस्य श्रोत्रस्य कथं प्राकृतत्वात् ।
मैवम् ।
भूताकाशपरिणामत्वाभ्युपगमात् ।
अव्याकृताकाशात्मकत्वे सार्वत्रिकशब्दोपलब्धिप्रसङ्गः ।
कर्णशष्कुल्यवच्छेदाङ्गीकारे ऽपि बधिराभावप्रसक्तिः ।
अदृष्टोपग्रहान्नेति चेन्न ।
तथा सत्याकाशस्यैव तत्तदवच्छिन्नस्यादृष्टोपगृहीतस्य घ्राणादिभावोपपत्तौ पार्थिवत्वाद्यभ्युपगमवैयर्थ्यात् ।
गन्धादिमत्त्वात्तत्सिद्धिरिति चेन्न, असिद्धेः ।
यदिन्द्रियं यं विशेषगुणं गृह्णाति तत् तद्वदिति व्याप्तेः सुखादिग्राहिणि मनसि, सांसिद्धिकद्रवत्वस्नेहग्राहिणि चक्षुषि, शीतोष्णस्पर्शग्राहिणि स्पर्शने च भग्नत्वात् ।
आगमात्पृथिव्यादिप्राकृतिकतावगम्यत इति चेत् ।
तर्ह्यहङ्कारिकाकाशकार्यता श्रोत्रस्यापि तत एवाङ्गीकरणीया ।
*5,360*
ननु मनोनादिनित्यं कथं प्राकृतम् ।
मैवम् ।
प्रमाणाभावात् ।
स्पर्शरहितद्रव्यत्वादेः सत्त्वान्नेति चेत्(न) ।
तमस्मस्माकमनैकान्त्यात् ।
नित्यत्वादिमात्रसाधने सिद्धसाधनत्वात् ।
कूटस्थतासाधने त्वागमविरोधादिति ।
॥ इति प्रत्यक्षनिरूपणम् ॥
व्यास -(12)
*5,362*
क्रमप्राप्तं केवलमनुप्रमाणं च अनुमानं लक्षयति- अनुमेति ॥
अनुमा युक्तिरेवोक्ता ...
न्यायसुधा:
अत्रानुमेति लक्ष्यम् ।
युक्तिरिति लक्षणम् ।
यदि च युक्तेरेव बहुशः प्रकृतत्वात्तत्स्वरूपजिज्ञासायामिदं प्रवृत्तम् ।
तदा विपरीतो लक्ष्यलक्षणभावः ।
नन्वनुमा युक्तिरिति पर्यायावेतौ ।
तथाहि ।
फलप्रामाण्यपक्षे ऽनुमितिरनुमेति भावसाधनो ऽनुमाशब्दो लिङ्गदर्शनसमुत्थं लैङ्गिकविषयमनुमितिनामकं यथार्थज्ञानमाह ।
तदेव योजनं युक्तिरित युक्तिशब्दो ऽपि ।
साधनप्रामाण्यपक्षे ऽप्यपक्षे ऽअप्यनुमीयते ऽनयेति करणसाधनो ऽनुमाशब्दो यमर्थमाचष्टे तमेव युज्यते ऽनयेति युक्तिशब्दो ऽपि ।
तत्कथं लक्ष्यलक्षणभाव इत्यत उक्तम्- उक्तैवेति ॥
अत्रापि व्यवहार एव साध्यो न त्वनुमात्वं, युक्तित्वं वा ।
येनोक्तदोषः स्यादिति भावः ।
*5,363*
ननु युक्त्युपपत्तिशब्दावेकार्थौ तथा चान्यत्र निर्दोषोपपत्तिरनुमेत्यादौ यदि निर्दोषग्रहणस्य व्यावर्त्यमस्ति तदात्रापि तत्कर्तव्यं स्यात् ।
अन्यथातिव्याप्तिप्रसङ्गात् ।
न (नास्ति) चेन्न (तत्क)कर्तव्यमिति ।
उच्यते अस्ति खलु शब्दानां मुख्यामुख्यभेदेन द्वयी वृत्तिः ।
एवञ्चोपपत्तिशब्दादुपपत्ताविव तदाभासे ऽपि प्रतिपत्तावुत्पन्नायां तद्वयवच्छेदेन मुख्यार्थोपदर्शनार्थं तत्र निर्दोषग्रहणं कृतम् ।
अत्र पुनरन्तर्गतनिर्दोषत्वं मुख्यमेवार्थमुपादाय युक्तिरित्येवोक्तम् ।
समीचीनो हेतुरनैकान्तिको हेतुरिति यथेति ।
तदिदमप्युक्तं युक्तिरेवेति ।
नतु निर्दोषत्वविशेषिता ।
युक्तिशब्दमुख्यार्थविवक्षायां तदनपेक्षणादिति शेषः ।
*5,364*
अथवा नेदं पर्यायलक्षणम् ।
किन्नाम युज्यते सम्बद्धयते इति युक्तिरनुमोक्तेति योज्यम् ।
नन्वेवं सति विरुद्धानध्यवसितव्यवच्छेदे ऽप्यनैकान्तिकस्यानुमानत्वं स्यादित्यतो युक्तिरेवेत्युक्तम् ।
युज्यत एव न तु (वि)युज्यते ऽपीत्यर्थः ।
प्रमेयत्वादिकं ह्यनित्यत्वादिना युज्यते, न युज्यते च ।
नतु युज्यत एव ।
तदनेन साहित्यनियमवत् व्याप्यं, लिङ्गम्, अनुमानमिति चोच्यत इत्युक्तं भवति ।
*5,366*
सौगतास्तु मन्यन्ते ।
तादात्म्यतदुत्पत्ती एवानुमानाङ्गभूतौ सम्बन्धाविति ।
वैशेषिकास्त्वस्येदं कार्यं कारणं सम्बन्ध्येकार्थसमवायि विरोधि चेति लैङ्गिकनिमित्तसम्बन्धान्परिसञ्चक्षते ।
एवं
"मात्रानिमित्तसंयोगिविरोधिसहचारिभिः ।
स्वस्वामिवध्यघाताद्यैः साङ्खयानां सप्तधानुमाऽ; ॥
इति साङ्खयाः परिसङ्खयातवन्तः ।
तत्सर्वमपाकर्तुं वा युक्तिरेवेत्यवधारणम् ।
नियतसम्बन्धवदेवानुमानं न सम्बन्धविशेषवदित्यर्थः ।
एतच्चोपपादयिष्यामः ।
*5,370*
केचिदाहुः ।
पक्षधर्मताप्यनुमानाङ्गमिति ।
तदप्यपाकुर्वन्नुक्तमेव विवृणोति- व्याप्तिरेवेति ॥
... व्याप्तिरेव तु सा स्मृता
न्यायसुधा:
विशेषेणाप्यत इति व्याप्तिः ।
यदव्यभिचरितसाहित्योपेतमेव लिङ्गं सानुमा ।
न पक्षधर्मतावश्यम्भा(ववतीत्य)विनीत्यर्थः ।
यद्वा व्याप्तिरिति भावसाधनः ।
तथात्वे व्याप्तिरेव सानुमेति गौणो निर्देशः ।
व्याप्तिरेवानुमानाङ्गं न पक्षधर्मतेत्यर्थः ।
उपपादयिष्यते चैतद्वयधिकरणस्यापि साधकतामुपपादयताचार्येणैव ।
एतेन"ज्ञातसम्बन्धनियमस्यैकदेशस्य दर्शनात् ।
एकदेशान्तरे ज्ञानमनुमानमबाधितम्ऽ; इत्यपि निरस्तम् ।
एकदेशतानियमस्याप्रयोजकत्वात् ।
*5,372*
यदुक्तं पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद्वयावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वमिति पञ्चरूपोपपन्नमनुमानमिति ।
यथा(ऽऽह) ।
"अनुमेयेन सम्बद्धं प्रसिद्धं च चशब्दसङ्गृहीतमिति ।
तदसत् ।
केवलान्वयिनो विपक्षाद्वयावृत्त्यभावेन केवलव्यतिरेकिणश्च सपक्षे सत्ताभावेनाव्यापकत्वात् ।
क्वचिच्चतूरूपोपपन्नत्वं क्वचित्पञ्चरूपोपपन्नत्वमिति चेत्(न) ।
एकप्रयोजकालाभात् ।
व्याप्तिपक्षधमर्तौपयिकत्वेनैषां ग्रहणम् ।
वस्तुतस्तु ते एवानुमानाङ्गमिति चेन्न ।
पक्षधर्मताया अप्यप्रयोजकत्वात् ।
तथाच व्याप्तिरेव प्रयोजिकेति वक्तव्यम् ।
किमनेन जल्पितेनेत्याह- व्याप्तिरेवेति ॥
अविनाभावो व्याप्तिः ।
*5,376*
सा द्विविधा ।
अन्वयव्यतिरेकभेदात् ।
साध्येन साधनस्य व्याप्तिरन्वयः ।
साधनाभावेन साध्याभावस्य व्याप्तिर्व्यतिरेक इति केचिदाचक्षते ।
तद्द्वैविध्यं तुशब्देन व्यवच्छिनत्ति ।
तथाहि ।
यो ऽग्निमान्न भवति स धूमवान्न भवतीति व्यतिरेकव्याप्तिः किं धूमेनाग्निसाधने उपयुज्यते किंवाग्न्यभावेन धूमाभावसाधने ।
नाद्यः ।
यो धूमवानसावग्निमानित्यन्वयव्याप्त्यैव तत्सिद्धेः ।
अन्यथा केवलान्वयवतो ऽसाधकत्वप्रसङ्गात् ।
किञ्चात्राभावयोर्व्याप्यव्यापकभावो, भावेन भावसाधनमिति सुभाषितम् ।
अन्यगतया व्याप्त्यान्यस्य साधकत्वे ऽतिप्रसङ्गात् ।
यदभावयोर्व्याप्यव्यापकभावस्तयोरेव साध्यसाधनभाव इत्यभ्युपगमे नातिप्रसङ्ग इति चेन्न ।
तथापि व्याप्यं लिङ्गमित्यस्याव्याप्तिप्रसक्तेः ।
यदभावयोर्व्याप्यव्यापकभावस्तयोरेव साध्यसाधनभाव इत्यभ्युपगमे नातिप्रसङ्ग इति चेन्न ।
तथापि व्याप्यं लिङ्गमित्यस्याव्यप्तिप्रसक्तेः ।
यदभावो यदभावस्य व्यापकः स तस्य व्याप्य इति नियमाददोष इति चेत्(न) ।
तर्हि न व्यतिरेकव्याप्तिः प्रकृतसाध्यसिद्धयुपयोगिनी, किन्नाम प्रकृतसाधनव्याप्तिसाधनोपयोगिनी ।
तत्र चान्वयिरूपतैव तस्याः ।
द्वितीयस्त्विष्यत एव ।
किन्नाम साप्यन्वयरूपैवेति न सर्वथा व्याप्तिद्वैविध्यं सम्भवतीति ।
*5,377*
एतेनानुमानस्य केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदेन त्रैविध्यमपि परास्तम् ।
व्यतिरेकव्याप्तेरनुमानानङ्गत्वात् ।

सद्भावमात्रेण व्युत्पादनस्यातिप्रसङ्गित्वात् ।
कथं तर्हि केवलव्यतिरेकिणो गमकत्वमिति चेत् ।
को ऽयं केवलव्यतिरेकी नाम ।
केवलो व्यतिरेक एव यस्यासाविति चेत् ।
तर्हि कथमत्यन्तासतोः साध्यसाधनता स्यात् ।
दृश्यते तावदिति चेन्न ।
यतस्तस्यान्यैव गतिः ।
प्राणादिमत्त्वस्य सात्मकत्वेन व्याप्तिर्जीवच्छरीर एव गृहीता ।
अतस्तत्रैव विप्रतिपत्तौ न सोपदर्शयितुं शक्याभूत् ।
व्याप्तिमात्रमेवानुमानाङ्गं न पुनः सपक्षे तदुपदर्शनमपीत्यतो व्यतिरेकयोर्व्याप्त्या तदुपपादनं क्रियते ।
अयमत्र प्रयोगक्रमः ।
जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् यत्प्राणादिमत्तत्सात्मकं प्राणादिमच्चेदं तस्मात्सात्मकमिति प्रयुक्ते धूमस्याग्निनेवास्य न व्याप्तिर्दृश्यते ।
तत्कथमित्याकाङ्क्षायां प्रयोगान्तरं प्रवर्तते ।
प्राणादिमत्त्वं सात्मकत्वेन व्याप्तम् तदभावव्यापकाभावत्वात् ।
यो यदभावव्यापकाभावः ।
स तद्वयाप्तो यथा धूमो ऽग्निनेति ।
तदेतावति वक्तव्ये यदन्यथा प्रयुज्यते तद्विवेकिनां स्फुटप्रतीतिकतया सङ्ग्रहरुचितया वेति ।
*5,379f.*
स्यादेतत् ।
व्याप्यं चेदनुमानं तदा धूमः शब्दानित्यत्वे ऽप्यनुमानं स्यात् ।
व्याप्तो हि सो ऽप्यग्निनेति ।
मैवम् ।
व्याप्यमित्यस्य सम्बन्धिशब्दत्वात् ।
तथाच यो येन व्याप्यः स तस्मिन्ननुमानमित्युक्तं स्यात् ।
न चैवमतिप्रसङ्गो ऽस्ति ।
द्विविधा हि धर्मा भवन्ति ।
केचित्परस्परपरिहारेणैव वतर्मानाः ।
यथा कृतकत्वनित्यत्वे, स्वातन्त्र्यपारतन्त्र्ये चेत्येवमादयः ।
केचित्समाविष्याः ।
ते ऽपि त्रिविधाः ।
केचित्सङ्कीर्णाः ।
परस्परपरिहारेणैव वर्तमानयोरेकत्र समावेशः सङ्करः ।
यथा भूतत्वमूर्तत्वे, पुरुषत्वपाचकत्वे चेत्येवमादयः ।
केचित्परापरभावावस्थिताः ।
यथा सत्त्वद्रव्यत्वे, धूमवत्त्वाग्निमत्त्वे चेत्येवमादयः ।
केचित्तुल्यवृत्तयः ।
यथा कृतकत्वानित्यत्वे, गुरुत्वरसवत्त्वे चेत्या(त्येवमा)दयः ।
तत्राद्यानां परस्परसम्बन्ध एव नास्तीति नानुमानानुमेयभावः ।
विरुद्धसमाख्यया ते ऽभिधीयन्ते ।
द्वितीयानामपि सत्यपि सम्बन्धे परस्परव्यभिचारेण व्याप्यव्यापकभावाभावान्नानुमानानुमेयता ।
किन्तु परस्परमनैकान्तिकतयाभिधीयते ।
तृतीयेष्वपरेषां व्याप्यतयापरेषां व्यापकतयास्त्यनुमानानुमेयत्वम् ।
परे त्वव्याप्यतया नापरेष्वनुमानतामश्नुते ।
किन्नामानैकान्तिका एव ।
चतुर्थास्तु परस्परं व्याप्यव्यापकभावादन्योन्यमनुमानतामर्हन्तः प्रसिद्धयप्रसिद्धिभ्यां विशिष्टन्त इति सङ्क्षेपः ।
*5,382*
नन्वेवमपि धूमेनाग्निज्ञानं सर्वेषां स्यादित्यत उक्तं स्मृतेति ।
प्रमितत्वस्योपलक्षणमेतत् ।
स्मृता व्याप्तिरेव प्रमितमेव व्याप्यमनुमा ।
न त्विन्द्रियवत्सत्तामात्रेण प्रमाकरणमित्यर्थः ।
ननु तथापि नारिकेलद्वीपवासिनो धूमदर्शनादग्न्यनुमितिप्रसक्तिः ।
मैवम् ।
व्याप्यस्वरूपप्रमितिवद्वयाप्तिप्रमितेरप्यपेक्षितत्वात् ।
तथापि गृही(तविस्मृ)तास्मृतव्याप्तेस्तदवस्थः प्रसङ्ग इत्यत उक्तं स्मृतेति ।
स्मृता व्याप्तिरेव सानुमोपयोगिनीत्यर्थः ।
तथाच व्याप्तिस्मरणसव्यपेक्षं व्याप्यज्ञानमनुमानमित्युक्तं भवति ।
*5,383*
लिङ्गपरामर्शो ऽनुमानं परामर्शश्चानुसन्धानात्मकं तृतीयं ज्ञानमिति कश्चित् ।
तथाहि ।
महानसादौ धूमस्याग्निना व्याप्तिग्रहणसमये यज्ज्ञानं तत्प्रथमम् ।
गृहीतव्याप्तिकस्य पर्वतादौ यद्धूमज्ञानं तद्द्वितीयम् ।
ततः सम्बन्धिदशर्नसमुद्बुद्धसंस्कारकारण(क)स्य यो धूमवानसावग्निमानिति व्याप्तिस्मरणस्यानन्तरमयं चाग्निव्याप्तधूमवानिति प्रतिसन्धानात्मकं यद्धूमज्ञानं तत्तृतीयमनुमानमिति ।
ततेतदन्यो न मन्यते ।
व्याप्तिस्मरणं पक्षधर्मताज्ञानमित्येतावदेव ह्यनुमानसामर्थ्यम् ।
तत्राननुभूताया व्याप्तेः स्मर्तुमशक्यत्वात्प्रथमं ज्ञानमिष्यते ।
द्वितीय(ज्ञान)मपि पक्षधर्मताविषयत्वादङ्गीक्रियते ।
ततो व्याप्तिस्मृतौ सत्यां किमपरमवशिष्यते यदर्थं तृतीयं ज्ञानमेष्यव्यमिति ।
स स्थूलदृश्वेत्याद्यः ।
न खलु सहकारितानुपपत्तेः ।
किन्तु सङ्कलिते ।
नच तत्सङ्कलितत्वं विना तृतीयज्ञानादिति कथं तन्नैष्यव्यम् ।
आत्मा सङ्कलयतीति चेत् ।
सत्यम् ।
वृत्त्या ह्यसौ सङ्कलयेन्न तु स्वरूपेणैव ।
नचैवं तदेवास्त्विति वाच्यम् ।
पूर्वेण विना तदनुपपत्तेरिति ।
वयं तु ब्रूमः ।
यत्र लिङ्गदर्शनादेव व्याप्तिस्मृतिः अस्तु तत्रोक्तप्रकारः ।
यदा तु गृहीतव्याप्तेर्विनापि लिङ्गदर्शनाद्वचनादिनैव व्याप्तिस्मृतिराविरस्ति यदा द्वितीयमेव लिङ्गदर्शनं प्रतिसन्धानात्मकमुदेष्यतीति नावश्यम्भाविनीयं प्रक्रिया ।
यथा खलु संस्कारसाहित्ये सतीन्द्रियसन्निकर्षादेव सो ऽयमिति प्रत्यभिज्ञा जायते तथे(थात्रापी)त्यङ्गीकारे न कश्चिद्विरोध इति ।
*5,386*
ननु व्याप्तिरेव केन प्रमाणेन ग्राह्या ।
यथायथं प्रत्यक्षानुमानागमैरित्युक्तम् ।
यथा चैतत्तथा वक्ष्यामः ।
*5,387*
द्विविधमनुमानं स्वार्थं परार्थं चेति ।
तत्र यत्परोपदेशानुपे(क्ष्य)क्षं व्याप्तिस्मृतिमद्वयाप्यदर्शनं तत्स्वार्थम् ।
परोपदेशापेक्षं तु परार्थम् ।
ससामर्थ्यलिङ्गप्रतीतिजनकं वाक्यं परोपदेशः ।
तच्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनैः पञ्चभिरवयवैरुपेतमित्येके ।
तमिमं नियममरोचयमान आह- उक्तेति ॥
उक्ता व्याप्तिरेव सानुमा ।
व्याप्त्युक्तिरेव परोपदेश इति यावत् ।
एवशब्दो नियमनिराकरणपरो न पुनः पक्षान्तरनिवृत्त्यर्थः ।
पक्षान्तरस्य स्वयमेव वक्ष्यमाणत्वात् ।
ननु यो धूमवान्सो ऽग्निमानिति व्याप्त्युक्तिः कथं प्रत्यायनाङ्गम् ।
वादिप्रतिवादिनोरन्योन्यस्मिन्ननाश्वासादित्यत उक्तं स्मृतेति ।
तुशब्दश्चशब्दार्थो जिज्ञासितेति समुच्चिनोति ।
गृहीतव्याप्तेस्तदुक्तिः स्मरणहेतुरगृहीतव्याप्तेस्तु जिज्ञासाजनिकेत्युच्यते ।
न त्वागमतयोपयुज्यत इत्याशयः ।
*5,389*
ननु च व्याप्त्युक्तिरेव परोपदेश इत्ययुक्तम् ।
प्रथमत एव व्याप्त्युक्तेरसङ्गतत्वादित्याशङ्कां परिहरन्"उक्ता व्याप्तिरेव साऽ; इति प्रतिज्ञातमुपपादयति- प्रतिज्ञातेति ॥
प्रतिज्ञातार्थसिद्धयर्थं व्याप्तिरेव यदोदिता

2.1.32

अवशिष्यं किमत्रास्ति ...
न्यायसुधा:
प्रतिज्ञातार्थसिद्धयर्थमित्यसङ्गतेः परिहारः ।
तदेत्यध्यहायर्म् ।
किमाक्षेपे ।
अत्र वक्तव्ये ।
एतदुक्तं भवति ।
यो हि पर्वतमग्निमन्तं प्रतिपद्यमानः परेण निरग्निकं मन्यमानेन किं पर्वतस्याग्निमत्वे मानमित्यनुयुज्यते, स यदि यो धूमवानसावग्निमानिति व्याप्तिमात्रं (परं प्रति) स्वप्रतिपन्नार्थसिद्धयर्थं ब्रूयात्तदा का नामासङ्गतिः ।
परपृष्टप्रमाणस्योपन्यस्यमानत्वात् ।
किंवा (किञ्चा)परं वक्तव्यमवशिष्यं यदर्थं शब्दान्त(रमवशिष्यं)रं वक्तव्यं स्यात् ।
अतो व्याप्तिवचनमेव परोपदेश इति ।
*5,389f.*
स्यादेतत् ।
व्याप्तिपक्षधर्मतोपेततया लिङ्गानुसन्धानं खल्वनुमानम् ।
पक्षधर्मतामनङ्गं मन्यमानैरपि लिङ्गस्य सत्ता तावद(वश्यम)ङ्गीकरणीया ।
अन्यथा व्याप्त्यङ्गीकारव्याघातात् ।
सा च नाविवक्षितस्थाना ।
तथा सति यस्यकस्यचिद्धूमवत्त्वादिना सर्व(पर्वत)स्याप्यग्निमत्त्वादिप्रसङ्गात् ।
अतो व्याप्त्यनुसारेण नियतदेशधर्मताप्यङ्गीकरणीयैव ।
व्यधिकरणो ऽपि हि कृत्तिकागत एवोदयो रोहिण्युदयासत्तिं गमयति ।
नतु यत्रतत्रत्यः ।
ततस्तावदनेन वक्तव्यं यावता व्याप्तिविवक्षितस्थलधर्मतोपेततया लिङ्गस्यानुसन्धानं स्यात् तदप्याकाङ्क्षाक्रमेणाभिधातव्यमिति स्थिते, निराश्रयस्य प्रमाणस्याभिधातुमशक्यत्वात् प्रमाणजिज्ञासोत्थापनाय विषयोपक्षेपरूपं पर्वतो ऽग्निमानिति प्रतिज्ञावाक्यं वक्तव्यम् ।
ततः कस्मादिदं प्रमाणात्प्रतिपत्तव्यमित्याकाङ्क्षायां पराङ्गतापन्नलिङ्गस्वरूपमात्रप्रतिपादकं धूमवत्त्वादिति हेतुवचनम् ।
ततो ऽस्य सामर्थ्यजिज्ञासायां व्याप्तिप्रतिपादनाया यो धूमवानसावग्निमानित्युदाहरणवाक्यम् ।
पक्षादिविवक्षितस्थलधर्मताप्रतिपादनार्थं धूमवांश्चायमित्युपनयः ।
ततः सर्वस्य बुद्धयारोहायैकवाक्यतामापादयितुं तस्मादग्निमानेवेति निगमनम् ।
अत एव प्रतिज्ञाहेतुभ्यामुपनयनिगमनयोर्गतार्थतां मन्यमाना निरस्ता भवन्ति ।
तदेवमेतावति वक्तव्ये कथं व्याप्तिमात्रमुक्त्वा कृती स्यादिति ।
*5,390*
उच्यते ।
यत्तावत्प्रतिज्ञावश्यम्भावे कारणमुक्तं तदसत् ।
विवादेनैव विषयोपक्षेपस्य सिद्धतयाकाङ्क्षोदयस्य समर्थितत्वात् ।
तथाप्याकाङ्क्षितत्वाल्लिङ्गस्वरूपस्य तत्पक्षधर्मतायाश्च प्रतिपादनाय हेतूपनयौ वक्तव्याविति चेन्न ।
विकल्पानुपपत्तेः ।
तथाहि ।
किं येन धूमवत्त्वं पर्वतवृत्तितयावगतं तं प्रति हेतूपनयौ वक्तव्यौ, उत विपरीतं प्रति ।
आद्यं दूषयति- लिङ्गमिति ॥
... लिङ्गं तत्र विजानतः
न्यायसुधा:
तत्र विवक्षिते स्थले ।
अवशिष्यं किमस्तीति पूर्वेणान्वयः ।
लिङ्गस्वरूपतदीयपक्षधर्ज्ञताविज्ञापनाय हि हेतूपयनोपयोगः ।
तच्चेद्विज्ञानं परस्य स्वतस्सिद्धं तदा किं हेतूपनयाभ्यामिति भावः ।
द्वितीयमनूद्य दूषयति- यदीति ॥
यदि लिङ्गमसिद्धं स्यात् कुत एवास्य मानता

2.1.33

न्यायसुधा:
तत्रेत्यनुवर्तते ।
असिद्धं परेणाप्रसिद्धम् ।
तदास्य लिङ्गस्य स्वरूपासिद्धस्य मानतैव कुतः ।
नास्तीति यावत् ।
दूरे वक्तव्यतेति एवशब्दार्थः ।
*5,392*
नन्वेवं सति व्याप्तिरपि न वक्तव्या ।
सापि यदि विदितव्याप्तिकं प्रत्युच्यते तदाभिधानवैयर्थ्यम् ।
विपरतीतस्य तु व्याप्यत्वासिद्धया तत्प्रमाणमेव न भवति (इति)कुतो व्याप्त्यभिधानमिति तत्रापि वक्तुं शक्यत्वात् ।
तथाच वादिप्रतिवादिनोर्मौनमेवापतितमिति ।
मैवम् ।
उभयथाप्यदोषात् ।
व्याप्तिर्हि न स्वरूपेणोपयोगिनी ।
नापि ज्ञाततामात्रेण ।
अपि तर्हि स्मर्यमाणा ।
तथाच गृहीतव्याप्तिकं प्रति तस्मारकत्वेन, (तया) अगृहीतव्याप्तिकं प्रति तु (तदैव) तज्जिज्ञासाजनकतया व्याप्तिवचनमुपयुज्यत इत्युक्तमेव ।
एवं तर्हि हेतूपनयावपि नानुपयुक्तौ ।
नहि पक्षधर्मोपेतं लिङ्गं स्वरूपेणोपयुक्तम् ।
नापि विदितत्वमात्रेण ।
किन्तु ज्ञातचरम् ।
स्मर्यमाणतया ज्ञायमानमपि न वृक्षादिसाधारण्येन ।
किन्तर्हि लिङ्गतया ।
तथाच विदितलिङ्गस्वरूपपक्षधर्मत्वं प्रति तत्स्मारकत्वेन लिङ्गतयानुसन्धायकत्वेनेतरं प्रति तज्जिज्ञासाजनकत्वेन हेतूपनययोः सार्थक्यमेवेत्याशङ्कयाह- यदीति ॥
यदि स्मारकमात्रं स्यात् स्मर्तुर्नात्र प्रयोजनम्
न्यायसुधा:
स्मारकत्वमुक्तस्य सर्वस्योपलक्षणम् ।
मात्रग्रहणेन प्रत्यायकत्वं व्यावर्तयति ।
हेत्वादिकमिति शेषः ।
पक्षधर्मतोर्(मो)पेतस्य लिङ्गस्येति च ।
स्यादित्यतःपरं तन्न यत इत्यध्याहार्यम् ।
स्मर्तुरित्युपलक्षणम् ।
अत्र व्याप्तिवचने ।
निमित्तसप्तमीयम् ।
हेत्वादाविति च ।
*5,395*
ततश्च व्याप्तिवचनवद्धेत्वादिकमपि पक्षधर्मतोर्(मो)पेतस्य लिङ्गस्य स्मरणानुसन्धानजिज्ञासाजनकं स्यादिति यद्युच्यते तन्न ।
यतो व्याप्तिवचनेनैव तत्स्मरणादिमतस्तस्य हेत्वादिना प्रयोजनं नास्तीति योजना ।
एतदुक्तं भवति ।
यदि हि हेत्वादिकं वाक्यतया प्रत्यायकं स्यात्तदा समार्थ्यचिन्तोपयुज्यते ।
यदा तु तत्स्मारकत्वादिनैवोपयुक्तं तदा संस्कारोद्बोधोपयुक्तं सादृश्यसम्बन्धादिकं किमप्यन्वे(प्ये)ष्यव्यम् ।
तद्वयाप्तिवचने ऽपि समानम् ।
यो धूमवानसावग्निमानित्यभिहिते खल्वनुमानमुद्रावित् अत्र धूमवत्त्वं व्याप्यमित्यवबुध्यत एव ।
ततस्तदीयपक्षधर्मतादिस्मृत्यादिमानपि कथं न भवेदिति ।
*5,397*
यद्वा परोपदेशस्य पञ्चावयवतानियतिं वदन्प्रष्टव्यः ।
किमेतत्पञ्चावयवं वाक्यमागमतया व्याप्तिपक्षधर्मतोर्(मो)पेतस्य लिङ्गस्य प्रत्यायकम् ।
उत स्मारकादिमात्रम् ।
आद्ये तु स्यादे(वेदं)वं परव्युत्पादितरीत्या (वाक्यपरिमाणं) वाक्यं प्रमाणं कथञ्चित् ।
नचासौ युज्यते ।
वादिप्रतवादिनोरितरेतरस्मिन्ननाश्वासात् ।
आश्वासे वा प्रतिज्ञामात्रेणार्थसिद्धौ हेत्वाद्यभिधानवैयर्थ्यात् ।
द्वितीये त्वाह- यदीति ॥
*5,398*
परेपदेशं वाक्यं यदि स्मरणादिमात्रकारणमङ्गीक्रियते तदात्र व्याप्तिवचने सत्येव स्मर्तुर्व्याप्तिवचनादेव स्मरणाद्युत्पत्तेरिति यावत् ।
अत्र व्याप्तिवचनातिरिक्ते शब्दे प्रयोजनं नास्तीति नासाववश्यं वक्तव्यः ।
दृश्यते खलु लोके पदैकदेशादितो ऽपि पदार्थस्मरणादिकम् ।
शास्त्रे ऽपि च वाक्यैकदेशप्रयोगः ।
तत्र वक्तुराप्तत्वावधारणादनुसरणं प्रतिवादिनि तु तन्नास्तीति चेन्मा भूत् ।
न ह्येतदागमतया प्रत्यायकमित्यक्तम् ।
अन्यथा सांव्यावहारिकः केवलव्यतिरेकिप्रयोगो ऽपि नानुसरणीयः ।
वास्तवप्रयोगपरिमाणान्यथात्वस्योपपादितत्वात् ।
प्रतिवादिन्यप्यनुसरणे निग्रहस्थानोद्भावनं न स्यादिति चेत् ।
लौकिकशास्त्रीयसंव्यवहारातिक्रमे तदवकाशात् ।
अन्यथा प्रकरणाद्यापन्नस्यासङ्कीर्तनमपि निग्रहहेतुः स्यात् ।
किं प्रकरणाद्यापन्नतयायं न वदत्युताप्रतिपन्नत्वादिनेति सन्देहस्य प्रकृते ऽपि तुल्यत्वादिति ।
*5,402*
अपर आह ।
प्रमेयावधारणार्थं हि प्रमाणोपन्यासः ।
प्रमेयावधारणं च निर्विवादा तत्प्रतीतिः ।
नच सा प्रमाणस्वरूपमात्रोपदर्शने(न) भवति ।
किन्नाम तदाभासोद्धारेणापि ।
अन्यथा तत्प्रामाण्यस्यैवानवस्थानात् ।
तथाच प्रतिज्ञावाक्येन विषयमुपक्षिप्य तत्र हेतुना प्रमाणस्वरूपमुपदर्श्य तस्योदाहरणवाक्येन विरुद्धानध्यवसितानैकान्तिकत्वनिरासः क्रियते ।
उपनयेनासिद्धिरपास्यते ।
निगमनेनापि हेत्वनुवादेन तस्मादेव नान्यस्मादिति सिद्धसाधनतापक्षिप्यते ।
साध्यानुवादेन (तु)अग्निमानेव न तु निरग्निक इति बाधप्रतिपक्षप्रतिक्षेपः क्रियते ।
तदेवं विधूतविवादसाध्यप्रतिपत्तये पञ्चावयववाक्यमावश्यकमिति ।
तदयुक्तम् ।
एवं वदता हि (ऽपि) यावता विवादावसानं तावान्परोपदेश इत्युक्तं स्यात् ।
तथाच पञ्चावयवं वाक्यं परोपदेश इत्ययुक्तम् ।
पञ्चावयवोक्तावपि विवादावसितेरभावात् ।
किन्त्वाकथापरिसमाप्तेः परोपदेश इति वक्तव्यमित्याशयवानाह- नेति ॥
न पञ्चावयोक्तौ च विवादावसितिर्भवेत्

2.1.34

न्यायसुधा:
विवादाध्यवसितिः विवादावसानोपेता साध्यप्रतीतिः ।
*5,403*
नन्वेतदयुक्तम् ।
उदाहरणाद्यवयवत्रयेणाभासोद्धारस्य कृतत्वात् ।
निरस्तसमस्ताभासप्रमाणोपन्यासे ऽपि विवादानवसाने सर्व(दा)थापि तत्प्रसङ्गादित्यत आह- दृष्टान्तेति ॥
*5,404*
दृष्टान्तादिषु चैवं स्यात् साधनं पुनरेव हि
न्यायसुधा:
दृष्टान्तपदेनोदाहरणार्थमुपलक्षयति ।
आदिपदेनोपनयनिगमनार्थग्रहणम् ।
विषयसप्तमीयम् ।
एवं यथा प्र(तिज्ञा)तीतार्थे ।
साधनं वक्तव्यमिति शेषः ।
स्यादेवेति सम्बन्धः ।
तुशब्दो यस्मादित्यर्थे ।
अयमर्थः ।
सत्यमुद्धृताभासात्प्रमाणात्प्रमेयावधारणं भवतीति ।
किन्तु पञ्चभिरप्यवयवैस्तादृशप्रमाणप्रतीतिरेव न भवतीति ब्रूमः ।
आभासोद्धारपरोदाहरणाद्यर्थविप्रतिपत्तौ तत्साधनस्यापि वक्तव्यत्वात् ।
नच तत्र विप्रतिपत्तिर्न कर्तव्या ।
नापि वाङ्मात्रेण तन्निवृत्तिः ।
प्रतिज्ञार्थसमानयोगक्षेमत्वात् ।
नचोदाहरणादिष्वेव सर्वशङ्कोद्धारकारणमस्ति ।
अनुपलम्भात् ।
पञ्चावयवप्रयोग एव कथापुद्रणापातात् ।
अतः प्रमेयनिणर्यावधित्वे ऽनुमानप्रयोगस्य न पञ्चावयवत्वनियमो युज्यते ।
अपि तु कथपरिसमाप्त्यवधिकत्वमेवाङ्गीकार्यमिति ।
*5,405*
सत्यं निःशेषतो विवादनिवृत्तिर्न पञ्चावयवप्रयोगे ऽपि भवतीति ।
तथाप्यवान्तराकाङ्क्षानिवर्तकत्वेन पञ्चावयवमेवावान्तरवाक्यं परिसमाप्यत इत्यत आह- लिङ्गेति ॥
लिङ्गोक्तावपि चैवं स्यादनुमावसितिर्ध्रुवा

2.1.35

न्यायसुधा:
चो हेत्वर्थे ।
अनुमेति तत्सम्बन्धिवाक्यमुपलक्ष्यते ।
एवं सति किमत्र प्रमाणमित्यवान्तराकाङ्क्षानिवृत्तिहेतौ धूमत्वमिति लिङ्गोक्तौ कृतायामपि अवान्तरवाक्यपर्यवसानमवश्यं भवतीति तन्मात्रमेव वाक्यमङ्गीकरणीयम् ।
नतु पञ्चावयवत्वनियतिरिति ।
*5,406*
यदुक्तं स्मरणादिमात्रहेतुत्वेन वाक्यस्योपयोगस्तच्च व्याप्तिवचनमात्रेण भवतीति व्याप्तिरेव वक्तव्येति तदयुक्तम् ।
तथा सति लिङ्गमात्रवचनस्यापि प्रयोक्तव्यत्वापातात् ।
सम्भवति हि तस्यापि व्याप्तिपक्षधर्मतास्मरणादिहेतुत्वमि(ते)त्युक्ताभिप्रायमजानानस्य चोद्यं वा परिहरति- लिङ्गेति ॥
यथा व्याप्त्युक्तावेवं लिङ्गोक्तावप्यनुमावसितिर्ध्रुवा स्यात् ।
इष्यापादनमेतदित्यर्थः ।
चशब्दः प्रतिज्ञाहेतुगर्भैवेत्याद्युक्तपक्षान्तरसमुच्चये ।
नचैवं सति व्याप्तिरेवेत्यवधारणानुपपत्तिः ।
येन येन प्रकारेण व्याप्त्यादिस्मरणादिकं भवति ।
यश्च सांव्यावहारिकस्तं तमुपादाय नियमनिराकरणस्य तत्रेष्टत्वादित्यभिसन्धिः ।
एतेन प्रतिज्ञाहेतुभ्यामुपनयनिगमनयोर्गतार्थतापि समर्थिता वेदितव्येति ।
॥ इत्यनुमानलक्षणनिरूपणम् ॥
*5,407*
निर्दोषतामन्तर्भाव्य युक्तिरनुमेत्यक्तम् ।
दोषपरिज्ञान एव तद्वियुक्ता युक्तिः सुज्ञानेत्यतो युक्तिदोषो निरूपणीयः ।
धूमादेरग्न्यादिप्रमितिजनकत्वे ऽपि,यन्निमित्तं कश्चिदर्थो ऽर्थान्तरज्ञानं न जनयति, संशयविपर्ययौ वा करोति, स युक्तिदोषः ।
स द्विविधः ।
साक्षाद्वाचनिकश्च ।
तत्राद्यं विभागेनोद्दिशति- विरोध इति ॥
विरोधो ऽसङ्गतिश्चैव साक्षाद् युक्तेस्तु दूषणम्
*5,409*
न्यायसुधा:
प्रायेणानुमानदोषो विरोध एवान्तर्भव(न्ती)तीति प्राधान्यात्प्रथमं तदुद्देशः ।
एवेति परपरिसङ्खयातमाधिक्यं निराकरोति ।
दोषाणां सतामत्रैवान्तर्भावात् ।
अनन्तर्भूतानां च दोषत्वनिरासात् ।
साक्षादिति ॥
वचनोपधानेन विना अर्थनिष्ठम् (उक्तं) उक्तयुक्तेः सामर्थ्यम् ।
दूषणं त्विति तुशब्दसम्बन्धः, साक्षात्विति वा ।
युक्तेर्युक्तित्वाभिमतस्यार्थस्य ।
*5,411*
साधनाभिमतस्यार्थस्य साध्याभिमतेनार्थेन सम्भावितप्रतीतिकस्यापि साध्यसाधनभावस्य बाधलक्षणमयोग्यत्वं विरोध इति शिष्यैरेवोह्यतामित्याशयवानसङ्गतिं निरूपयति- प्रतिज्ञायामिति ॥
प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः

2.1.36

न्यायसुधा:
प्रतिज्ञापदेन तदर्थो लक्ष्यते ।
विषयसप्तमीयम् ।
असम्बन्धो ऽत्राकाङ्क्षालक्षणसम्बन्धविरहः ।
अत्रापि युक्तेरिति गौणो निर्देशः ।
असम्बन्धो ऽसङ्गतिरिति पर्यायावित्यतो व्यवहारसाध्यतासूचनायोक्तेत्युक्तम् ।
विरोधासङ्गतिस्वरूपस्य स्फुटत्वादन्यैरुपदर्शितत्वाच्च किमत्रोदाहरणोपदर्शनेनेति हिशब्देनाह ।
*5,413*
ननु कथं द्वे एवानुमानदूषणे परपरिगणितानामसिद्धत्वादीनां बहूनां सत्त्वादित्यतस्तेषामत्रान्तर्भावं विभावयितु विरोधविभागमाह- विरोधो ऽपीति ॥
विरोधो ऽपि त्रिधैव स्यात् ...
न्यायसुधा:
सामान्यविभागेन सह विशेषविभागस्य समुच्चये अपिशब्दः ।
असङ्गतिरप्यनेकविधेति वा त्रिधैव न त्वेकविधैव येनासिद्धयादीनामन्तर्भावो दुर्घटः स्यात् ।
यद्वा यावन्तो ऽनुमानाभासाः परपरिगणितास्तावद्भेदतां नि(राकर्तु)वतर्यितुमेवशब्दः ।
सर्वेषामत्रैवान्तर्भावात् ।
त्रैविध्यं दर्शयति- प्रतिज्ञार्थेति ॥
*5,414*
... प्रतिज्ञार्थविरुद्धता ।
लिङ्गराहित्यमव्याप्तिर् ...
न्यायसुधा:
साध्यधर्मविशिष्टो धर्मी प्रतिज्ञार्थः ।
तस्य प्रतिस्पर्धिसद्भावो विरुद्धता ।
यत्रार्थे लिङ्गप्रमितिः साध्यसिद्धयुपयोगिनी तत्र तदभावो लिङ्गराहित्यम् ।
व्याप्तेरभावो ऽव्याप्तिः ।
इतिशब्दो ऽध्याहार्यः ।
*5,415*
साध्यसाधनभावसम्बन्धयोग्यताविरहो हि साध्यसाधनाभिमतयोस्तद्भावासम्भवे भवति ।
नच साधनस्य तद्भावे ऽपि विरुद्धस्य साध्यता सम्भवति ।
निशितत्वे ऽपि परशोराकाशस्य छेद्यताभावात् ।
नापि साध्यस्य तथात्वसम्भवे ऽप्यसमर्थस्य
साधनतोपपद्यते ।
छेद्यत्वे ऽपि काष्ठस्य कुण्ठकुठारस्य छेदन(क)त्वाभावात् ।
अतः प्रतिज्ञार्थविरुद्धतादीनां युक्तं विरोधित्वम् ।
*5,416f.*
अस्तु लिङ्गराहित्याव्याप्त्योर्युक्तिदोषत्वम् ।
प्रतिज्ञार्थविरुद्धता तु कथं तद्दोषः ।
साध्यसम्बन्धित्वादिति चेन्न ।
साध्याभिमतस्य तद्भावासम्भवे साधनाभिमतस्याविषयवृत्तित्वात् ।
नन्वेवं सति सिद्धसाधनतापि विरोध एव स्यात् ।
नहि सिद्धस्य साध्यता सम्भवति ।
नचास्त्विति वाच्यम् ।
उक्तप्रकारत्रयानन्तर्भावात् ।
सिद्धसाधको ऽसङ्गत इति स्ववचनविरोधाच्चेति ।
मैवम् ।
सति साकाङ्क्षत्वे ऽन्वयायोग्यत्वं विरोधः ।
नच सिद्धसाधनस्य साकाङ्क्षता अस्तीति नासौ विरोधे ऽन्तर्भवति ।
*5,418f.*
ननु चान्यत्र त्रिविधो विरोध इत्यादिना लिङ्गराहित्याव्याप्त्योरेकतामुपादाय साध्यस्य साधनस्य वानुगमो दृष्टान्तविरोधस्तृतीयतया परिगृहीतः ।
अत्रापि साध्यसाधनवैकल्यं दृष्टान्तस्येति वक्ष्यति ।
तत्कथमेतत् ।
नचात्रापि तदध्याहारेण तथैव व्याख्यानं युक्तम् ।
दृष्टान्तदोषस्यानुमानदोषतानुपपत्तेः ।
नहि दृष्टान्तो ऽनुमानम् ।
तथाप्यनुमानाङ्गव्याप्तिदूषकतयानुमानदोषत्वमस्तु ।
दृष्टान्तस्य साध्यवैकल्ये साधनस्य साध्यपरित्यागात् ।
साधनवैकल्ये तु व्याप्तेरनुपदर्शनादिति चेन्न ।
तथा सत्यव्याप्त्यैव सङ्गृहीतत्वेन तृतीयत्वानुपपत्तेरिति ।
उच्यते ।
स्वार्थानुमाने हि दृष्टव्याप्तिकस्य लिङ्गस्य विवक्षितस्थले सिद्धिमात्रेण साध्यप्रमितिरुत्पद्यत इति तत्परिपन्थिनां दोषत्वमभिप्रेत्य प्रतिज्ञार्थविरुद्धतालिङ्गराहित्याव्याप्तीनामत्र ग्रहणम् ।
परार्थानुमाने(ऽप्य)त्वव्याप्त्यौपयिकस्यापि दृष्टान्तदोषस्य तदाश्रयतया प्रतीतत्वेन तथैवोद्भवनीयताज्ञापनाय तेन सह त्रिविधत्वमन्यत्रोक्तमिति न विरोधः ।
*5,420*
यद्वा साध्यसाधनोभयाश्रयहीनसाध्यसाधनोभयव्यावृत्ताश्रयहीनानष्टौ दृष्टान्तदोषानेके भाषन्ते ।
तन्निरासाय दृष्टान्तदोषस्य पृथगुपादानम् ।
तथाहि उभयविकलस्तावन्न परिसङ्खयेयः ।
अन्यतरवैकल्येनैव (दृष्टान्त)दुष्यतासिद्धावाधिक्यप्रसङ्गात् ।
अन्यथैकैकविकलपरिसङ्खयानानुपपत्तेः ।
कथं तर्ह्यन्वयव्यतिरेकीति चेत् ।
न कथञ्चिदित्युक्तमेव ।
साध्याद्यव्याप्तिस्तु दृष्टान्तस्य गुण एव न दोषः ।
सतो हि सता व्याप्तिं प्रदर्शयितुं दृष्टान्तो ऽन्वेष्यव्यः ।
वैधर्म्यदृष्टान्तस्यायं दोष इति चेत्स एव किमर्थः ।
व्यतिरेकव्याप्तिबोधयेति चेन्न ।
तस्याः साक्षादनुपयोगात् ।
पारम्पर्येणोपयोगो तु साधर्म्यदृष्टान्त एवासाविति किं पृथगुपादानेन ।
उभयाव्यावृत्तश्चाधिक्यान्नि(क्यनि)रस्तः ।
आश्रयहीनस्त्वाश्रयासिद्धिसमानयोगक्षेम इति द्वावेव दृष्टान्तदोषौ ।
असार्वत्रिकश्च दृष्टान्तदोषः ।
नहि सर्वत्र दृष्टान्त एव व्याप्तिरुपदर्शनीयेत्यस्ति नियमः ।
आनुमानिकागमिकव्याप्तेस्तदनपेक्षणात् ।
*5,423*
स्यादेतत् ।
प्रतिज्ञार्थविरुद्धतया हि कालातीतप्रकरणसमौ सङ्गृहीतौ ।
लिङ्गराहित्यमित्यसिद्धिः ।
अव्याप्तिश्च त्रिविधा भवति ।
साधनस्य साध्येन सम्बन्धाभावः ।
सत्यपि सम्बन्धे तदभावेनापि सम्बन्धः, साध्याभावव्या(प्त)प्यता चेति ।
तदेतत्त्रयं क्रमेणानध्यवसिता नैकान्तिकविरुद्धसंज्ञां लभते ।
तथाच परनिरूपितप्रस्तारस्य समसनमेवानेन कृतं स्यात् ।
नचानेन किमपि प्रयोजनम् ।
अन्यथा पुरुषमतिवैश्वरूप्येण प्रक्रियान्तरस्यापि सावकाशत्वात् ।
नच ब्रह्मतर्कादितर्कशास्त्रमनुसृत्येत्थं व्युत्पादनमिति वाच्यम् ।
प्रयोजनाभावे ऽन्धपरम्परापत्तेरिति ।
*5,423f.*
उच्यते ।
अस्ति प्रक्रियान्तरकरणस्य प्रयोजनम् ।
तथाहि ।
प्रतिज्ञार्थविरुद्धतया हि स्ववाक्यविरोधस्यापि सङ्ग्रहं वक्ष्यति ।
नच कालातीतत्वादिना स लभ्यते ।
अपि च व्यवहारो ऽपि प्रतिज्ञार्थविरुद्धतयोपपद्यते, न कालातीतत्वादिना, वैयर्थ्यप्रसङ्गात् ।
असाधकमिदं कालातीतत्वात् ।
सत्प्रतिपक्षत्वादित्यस्य प्रबलसमबलप्रमाणविरुद्धत्वादित्यर्थः ।
नचात्र विशेषणस्य किमपि प्रयोजनमस्ति ।
हीनबलस्य प्रमाणपदेनैव निरस्तत्वात् ।
प्रमाणतदाभासाविवेक एव हि प्रमाणशब्दप्रयोगो न त्वप्रामाण्यनिश्चये ।
अहीनबलतया वा विशेषणे सम्भवति तदवान्तरभेदोपादानं निरथर्कमेव ।
तथाचैकमेवेदं दूषणं स्यात् ।
लिङ्गराहित्यग्रहणेन चादूषणानामपि दूषणतया परपरिगणितानामाश्रयव्यधिकरणसाध्यान्यथासिद्धीनां निरासो लभ्यते अन्यथासिद्धेर्दूषणत्वे ऽपि प्रकारान्तस्य वक्ष्यमाणत्वात् ।
व्यास -(13)
*5,427*
अनध्यवसितत्वादिभेदो ऽपि किं व्याप्त्यभावे सम्भवतीत्येतावता परिसङ्खयेयो व्यवहारोपयोगित्वाद्वा ।
नाद्यः ।
व्यर्थव्युत्पादनस्यातिप्रसङ्गित्वात् ।
न द्वितीयः ।
वैयर्थ्यप्रसक्तेः ।
नेदं साधकमनैकान्तिकत्वादित्यस्य हि सपक्षवृत्तित्वे सति विपक्षवृत्तित्वादित्यर्थः ।
नचात्र विशेषणव्यवच्छेद्यं किञ्चिदस्ति ।
एवं विरुद्धत्वादित्यस्य सपक्षावृत्तित्वे सति विपक्षवृत्तित्वादित्यर्थः ।
तथाच वैयर्थ्यमेव ।
साध्यविपर्ययव्याप्यत्वादित्यत्रापि सम्बन्धमात्रेण कृतार्थत्वे व्याप्तिग्रहणं व्यर्थमेव ।
एवमवान्तरभेदव्युत्पादनमपि निरस्तम् ।
शिष्यमतिवैशद्याय व्युत्पादनं त्वनुमतमेवेति न स्वीयव्यवहारविरोध इति ।

विरोधवदसङ्गतेरपि प्रभेदाः स्वयमेवोहनीयाः ।
*5,429*
एवं साक्षाद्युक्तिदोषमभिधाय वाचनिकदोषमाह- न्यूनेति ॥
... न्यूनाधिक्ये तु वाचिके

2.1.37

न्यायसुधा:
न्यूनशब्दो भावप्रधानः ।
युक्तेर्दूषणमिति प्रकृतमनुवर्तते ।
अवश्यवक्तव्यापरिपूर्तिर्न्यूनत्वम् ।
कृतकार्यत्वमाधिक्यम् ।
वचनदोषात्तत्प्रतिपादिता युक्तिरपि दुष्या स्यादित्येतयोर्वाचनिकत्वम् ।
नन्वयुक्तो ऽयं विभागः ।
विरोधासङ्गत्योरपि वाचि(चनि)कत्वात् ।
नहि कृतकत्वं स्वयमेव दुष्यम् ।
अनित्यत्वसाधने ऽपि तथात्वापत्तेः ।
कृशानुशैत्यादौ तथेति चेत् ।
तत्किं कृतकत्वं कृशानुशैत्यं वा शब्दनित्यत्वं वा साधयितुं स्वयमेव प्रवृत्तम् ।
येन तत्र दुष्यं स्यात् ।
किन्नाम तत्साधनतया शब्देन प्रतिपादि(दर्शि)तम् ।
एवमसङ्गतावपि सिद्धसाधनतादिलक्षणायां वाच्यमित्याशङ्कानिरासार्थं तुशब्दः ।
न्यूनाधिक्ये एव वाचनिके, न विरोधासङ्गती ।
स्वार्थानुमाने ऽपि दर्शनादिति भावः ।
सन्तु तर्हि प्रतिपत्तृप्रतिपादकयोरेवैते दोषाः ।
यथा निशातम् कृशानुशैत्यादौ व्यापारयन्पुरुष एवापराधी स्यात् नतु कृतकत्वादिकमिति ।
मैवम् ।
कृतकत्वादेरदुष्टत्वे तद्वयापारयतो ऽप्यपराधानुपपत्तेः ।
अन्यथा शब्दनित्यत्वसाधने प्रयुञ्जानो ऽप्यपराध्येत ।
ततः कृशानुशैत्यादेः साध्यतानर्हत्वं नित्यत्वादिसाधने कृतकत्वादेरसमर्थत्वमित्यादिरर्थशब्दगत एव दोषो ऽङ्गीकरणीयः ।
न ह्युपाधिमन्तर्भाव्य भवन् दोषो न दोषो भवति ।
तथा सति बहुविप्लवापत्तेरिति ।
*5,433*
ननु कथमेत एवानुमानदोषाः ।
सोपाधिकत्वस्याप्यतिरिक्तस्य सत्त्वादित्यतस्तत्स्वरूपानुवादेनोक्तान्तर्भावमाह- साध्येति ॥
साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य च
न्यायसुधा:
साधनस्य यत्साध्यव्यापकवैलोम्यं साव्याप्तिः ।
चशब्दात्सत्प्रतिपक्षता च ।
साध्यस्याधर्मसाधनत्वादेर्व्यापको यो निषिद्धत्वादिधर्मः ।
यत्राधर्मसाधनत्वं तत्र निषिद्धत्वमिति नियमात् ।
तेन साधनस्य हिंसात्वादेर्वैलोम्यं साध्यापेक्षया वैपरीत्यमव्याप्तत्वमिति यावत् ।
यत्र हिंसात्वं तत्र निषिद्धत्वमिति नियमाभावात् ।
वैधहिंसायां सत्यपि हिंसात्वे निषिद्धत्वाभावात् ।
तदनेन सोपाधिकत्वस्य स्वरूपमुक्तम् ।
साध्यव्यापकत्वे सति साधनाव्यापको हि धर्म उपाधिः, तद्वत्त्वं च साधनस्य साध्यव्यापकाव्याप्यत्वमेव ।
एतत्प्रागनुमानाद्वयाप्तिग्रहणवेलायामव्याप्तिरेव ।
साध्यव्यापकं परित्यजतः साध्यपरित्यागावश्यम्भावात् ।
नहि साध्यमपरित्यजन् तद्वयापकं परित्यजतीति युज्यते ।
साध्यपरित्यागश्चाव्याप्तिरेव ।
*5,434*
अपरे तु निरुपाधिकः सम्बन्धो व्याप्तिः ।
सोपाधिकत्वे तु लक्षणाभावाद्वयाप्त्यभाव इत्याचक्षते ।
तदसत् ।
व्याप्तिज्ञानाधीनमुपाधिज्ञानं तदधीनं च निरुपाधिकत्वज्ञानं तदायत्तं व्याप्तिज्ञानमिति चक्रकप्रसङ्गेन तस्य व्याप्तिलक्षणत्वानुपपत्तेः ।
तत्किं सापाधिकस्याप्यस्ति व्याप्तिः ।
मैवम् ।
व्याप्तत्वानुपाधिकत्वयोः समनियमे ऽपि व्याप्तिबोधानङ्गतयोपाध्यभावस्य लक्षणत्वानुपपत्तेरुक्तत्वात् ।
*5,435*
नन्वेवं चेत्कथं साध्यसाधनव्यवहारः ।
आगामिसम्भावनापेक्षयेति ब्रूमः ।
वस्तुतस्तु यो धर्मो यद्वयापकाव्याप्तस्तस्य तेनाव्याप्तिरित्येव वक्तव्यम् ।
अनुमानप्रवृत्त्युत्तरकालं तु सत्प्रतिपक्षतैव ।
साधनस्य साध्यव्यापकपरित्यागो हि पक्षादन्यत्र वा स्यात्पक्षे वा ।
न तावदाद्यः ।
तथा सति स्फुटव्यभिचारपरित्यागेनोपाध्युद्भावनस्यानवसरत्वात् ।
द्वितीये तु साध्यव्यापकस्य पक्षाद्वयावृत्तिः साध्यमपि व्यावर्तयतीति सत्प्रतिपक्षतैव ।
एतेनोपाध्यभावस्य प्रतिपक्षत्वे नोपाधेर्दूषणत्वम् ।
नहि यदभावो यत्र दूषणं सो ऽपि तत्र दूषणमिति युक्त विरोधादिति परास्तम् ।
पक्षव्यावृत्तिप्राधान्येनैवोपाधित्वात् ।
एतदर्थं च साध्यव्यापकस्य वैलोम्यं पक्षाद्वयावृत्तिः साधनस्य सत्प्रतिपक्षतेति योजनीयम् ।
भावप्रधानस्यादोषत्वं त्विष्यमेव ।
*5,436f.*
ननु च प्रागनुमानादपि सत्प्रतिपक्षतानुमानोत्तरमव्याप्तिर्वा किन्न स्यात् ।
मैवम् ।
पक्षे हि साध्यस्योपसंहारे प्रतिपक्षावसरः ।
नच व्याप्तिग्रहणसमये पक्षादिप्रविभागो ऽस्तीति कथं तदा प्रतिपक्षत्वं स्यात् ।
अनुमानोत्तरमव्याप्तिः कथमिति वक्तव्यम् ।
साध्यव्यापक उपाधिः पक्षाद्वयावर्तमानः साध्यमपि व्यावर्तयति ।
तथाच साध्यरहिते तत्र वर्तमानं साधनं साध्यं व्यभिचरतीति चेन्न ।
तथा सति बाधितसत्प्रतिपक्षयोरपि व्यभिचारितापातात् ।
ओमिति चेन्न ।
निरसिष्यमाणत्वात् ।
बाधप्रतिपक्षाभ्यामेवानुमानदूषणसम्भवे किं तदुपजीविना व्यभिचारेणेति चेत्, तर्हि व्यापकव्यावृत्त्या प्रतिपक्षेणैवानुमाने दूषिते किं तदुपजीविना व्यभिचारेणेति तुल्यम् ।
*5,437*
किञ्च पक्षे व्यभिचारः किं निश्चित उत सन्दिग्धः ।
नाद्यः ।
विकल्पानुपपत्तेः ।
तथाहि ।
पक्षे साध्याभावो निश्चितो न वा ।
आद्ये किं प्रमाणान्तरेणोत साध्यव्यापकोपाधिव्यावृत्त्या ।
प्रथमे तत एवानुमानं दुष्यमिति किमुपाधिना ।
न द्वितीयः ।
परस्पराश्रयत्वप्रसङ्गात् ।
उपाधेः साध्यव्यापकत्वनिश्चये तद्वयावृत्त्या साध्यव्यावृत्तिनिश्चयः सति च तस्मिन्नसाविति ।
नेति पक्षे साध्यव्यापकत्वानिश्चयात् उपाधेः, कथं तद्वयावृत्त्या पक्षे साधनस्य निश्चितो व्यभिचारः स्यात् ।
पक्षे सन्दिग्धो व्यभिचारस्तु स्वत एव सिद्धो सोपाधिमुखनिरीक्षणापेक्षः ।
सर्वानुमानोच्छेदहेतुश्च ।
तस्मादनुमानोत्तरकालं सत्प्रतिपक्षतैवेत्युचितम् ।
एतदेवाभिप्रेत्य"स एवोपाधिदोषो ऽपिऽ; इत्यादिवचनात् ।
*5,439*
अनुकूलतर्कादिना साध्यव्यापकत्वनिश्चये सति पक्षे निश्चितव्यभिचारितासिद्धिरिति चेन्न ।
निश्चिसाध्यव्यापकव्यावृत्तेर्बाधकत्वेन तत एवानुमाने दूषिते व्यभिचारवैयर्थ्यात् ।
तथापि सोपाधिकत्वं सत्प्रतिपक्षत्वमिति गतः पक्ष इति चेन्न ।
प्रतिपक्षस्य यावज्जीवं तद्भावानङ्गीकारात् ।
सामर्थ्यानिर्धारणायामेव सत्प्रतिपक्षः, निर्धारिते तु सामर्थ्ये बाधको वा स्यात्, बाध्यो वेति को नाम नाभ्युपैति ।
*5,440f.*
अत्र सोपाधिकत्वमिति वक्तव्ये साध्यव्यापकवैलोम्यमिति वचनमुपाधिलक्षणस्यापि प्रदर्शनार्थम् ।
तदपि साध्यसमव्यापकत्वपक्षनिरासाय ।
नन्वेष पक्षष्टीकाकृताङ्गीकृतः ।
मैवम् ।
परमतानुवादत्वात् ।
अन्यथैकसाध्याविनाभाव इत्युदयनवचनोदाहरणवैयर्थ्यात् ।
दूषणं तु स्फुटत्वान्नोक्तम् ।
तथा हि ।
समपदं किं विषमव्याप्तिकव्यवच्छेदार्थमुत प्रयोजनान्तरार्थम् ।
नाद्यः ।
पार्थिवपरमाणुरूपादयो नित्याः परमाणुविशेषगुणत्वात् आप्यपरमाणुरूपादिवदित्यादौ पृथिवीविशेषगुणत्वाभावादेर्विषमव्याप्तिकस्याप्युपाधित्वेन तद्वयवच्छेदस्यायुक्तत्वात् ।
प्रतिपक्षोन्नायकत्वसम्भवेन दूषणत्वाच्च ।
विषमव्याप्तिकस्योपाधित्वे पक्षेतरत्वस्यापि तत्प्रसङ्ग इति चेत् ।
तत्किमुक्तविशेषणद्वयोपेतं न वा ।
नेति पक्षे तत एवानुपाधित्वम् ।
आद्ये तु तस्याप्युपाधित्वे को दोषः ।
पर्वतेतरत्वादेः सर्वत्र सम्भवेन नैवमिति चेन्न ।

अनुमानव्याप्त्यादिग्राहकप्रमाणप्राबल्ये सति साध्यव्यापकत्वभङ्गात् ।
तदभावे चानुमानभङ्गस्येष्टत्वात् ।
अन्यथा शब्दो ऽभिधेयः प्रमेयत्वाद्घटवदित्यादावशब्दत्वादेः समव्याप्तिकपक्षेतरस्यानिरासप्रसङ्गात् ।
तदिदमिष्यमपि त्यजति अनिष्यमपि गृह्णातीति न विशेषणम् ।
*5,445f.*
यदप्ययुक्तम् ।
"स्वसम्बन्धेन यःस्वीयं धर्ममन्यत्र योजयेत् ।
स उपाधिर्यथा लोके जपादिः स्फटिकादिषु ।
इहाप्यव्याप्यहेत्वर्थव्याप्यत्वभ्रमहेतुता ।
उपाधेः स्यात्तदा तस्य समव्याप्तिर्यदा भवेत्ऽ; इति ।
तत्र वक्तव्यम् ।
किमनेनोक्तं भवति ।
किं विषमव्याप्तिकस्य व्याप्यत्वाभावात्तत्सम्बन्धेन साधनाभिमते व्याप्यताभ्रमानुपपत्तेरदोषत्वेन तद्वयवच्छेदाय समपदमिति, किंवान्वर्थोपाधिशब्दसम्पादनार्थमिति ।
नाद्यः ।
प्रतिपक्षोन्नायकत्वेन दूषणत्वसम्भवे स्वगतव्याप्त्यवभासकताभावस्यादोषत्वात् ।
साध्यसाहचर्यदर्शनेनैव व्याप्यताभ्रमसम्भवाच्च ।
न द्वितीयः ।
उपाधिशब्दसम्बन्धस्य स्वकपोलकल्पितत्वात् ।
अत एव भगवानाचायर्वर्यः सोपाधिकत्वमित्यनभिधाय साध्यव्यापकवैलोम्यमित्याह ।
व्यवहारास्तु परकृतसङ्केतेनापि निर्वहणीयः ।
यद्वा क्वचित्साध्यव्याप्यतासद्भावेनोपाधित्वे ऽन्यत्रापि गौण्या वृत्त्या उपाधिव्यवहारोपपत्तिः ।
अत एव न द्वितीयो ऽपि ।
*5,449f.*
ननु च विषमव्याप्तिकस्य प्रतिपक्षोन्नायकत्वं न सम्भवति ।
क्वचित्पक्षेतरविपर्ययस्यासाधारणत्वादिति ।
मैवम् ।
असाधारणत्वस्य दूषणत्वासम्मतेः ।
सम्मतौ वा तत्रोपाधित्वाभावस्य व्युत्पादनात् ।
यत्रोपाधिः पक्षैकदेशाद्वयावर्तते तत्र कथं प्रतिपक्षः ।
भागासिद्धिप्रसङ्गात् ।
नचासौ नोपाधिः ।
पक्षैकदेशाद्वयावृत्त्यापि साधनाव्यापकत्वसम्भवात् ।
नचायं समव्याप्तिपक्षे ऽस्ति दोषः ।
उपाधिमत्येकदेशे साध्यसद्भावनियमेन तं विहायैकदेशान्तरस्यैव पक्षीकरणौचित्यादिति ।
उच्यते ।
अस्माभिरप्युपाधिव्यावृत्तिमा(नेवैक)नेकदेशः पक्षीक्रियते ।
एकदेशान्तरे ऽपि यदि साध्यसम्मतिस्तदा तस्यापक्षीकरणमेव ।
असम्मतौ तु तत्र दोषान्तरमेव भविष्यतीति किमनुपपन्नम् ।
ननु शङ्कितोपाधौ कथं प्रतिपक्षः सन्दिग्धासिद्धिप्रसङ्गेनासमबलत्वादिति चेन्न ।
पाक्षिकसिद्धयादिना सत्प्रतिपक्षताफलस्य संशयस्यानिवारणात् ।
संशयानङ्गत्वमेवासमबलत्वमभिप्रेतम् ।
*5,453*
स्यादेतत् ।
साध्यव्यापकत्वे सति साधनाव्यापकत्वं किमुपाधिसामान्यलक्षणं किंवा विशेषलक्षणम् ।
नाद्यः ।
समवायः समवेतः सम्बन्धत्वात्संयोगवदित्यत्र साधनावच्छिन्नसाध्यव्यापककृतकत्वोपाध्यव्यापनात् ।
वायुः स्पार्शनो ऽनुद्भूतरूपानधिकरणत्वे सत्युपलभ्यमानस्पर्शाधिकरणत्वाद्घटवदित्यत्र द्रव्यत्वावच्छिन्नसाध्यव्यापकचाक्षुषत्वोपाध्यव्याप्तेश्च ।
नच साधनावच्छिन्नसाध्यव्यापकस्य यत्किञ्चिदवच्छिन्नसाध्यव्यापकस्य च नोपाधित्वमिति वाच्यम् ।
तत्र तत्राचार्यैरङ्गीकृतत्वात् ।
व्यतिरेकोपाध्यव्यापकत्वाच्च ।
न द्वितीयः ।
सामान्यलक्षणान्तरस्य वक्तव्यतापातात् ।
न चान्वयव्यतिरेकिधर्मत्वं तदिति वाच्यम् ।
तस्यात्रायमुपाधिरिति व्यवहारकारणत्वाभावात् ।
तथात्वे च लक्षणवैयर्थ्यादिति ।
*5,458*
अत्र ब्रूमः ।
इदमेव सामान्यलक्षणम् ।
साध्यपदेनावच्छिन्नानवच्छिन्नसाध्यस्याभिधानात् ।
नच तत्र प्रतिपक्षासम्भवः ।
यदवच्छिन्नसाध्ये य उपाधिस्तद्वयावृत्तेस्तद्विशिष्टाभावे हेतुत्वोपपत्तेः ।
यथा समवायः सम्बन्धत्वे सति समवेतत्वेन हीनो ऽकार्यत्वादाकाशवत् ।
वायुर्द्रव्यत्वे सति स्पार्शनत्वेन हीनो ऽचाक्षुषत्वादाकाशवदिति ।
*5,460*
नचात्र साध्यविशेषणवैयर्थ्यम् ।
शब्दो न स्पर्शवद्विशेषगुणः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वादित्यादाविव व्यभिचारपरिहारार्थत्वात् ।
क्वचित्साध्यावच्छेदकावच्छिन्नस्योपाध्यभावस्य हेतुत्वात् ।
यथा वायुः स्पार्शनो न भवति द्रव्यत्वे सत्यचाक्षुषत्वादिति ।
व्यतिरेकव्याप्तौ तूक्तमेवोत्तरम् ।
साध्यसाधनपदाभ्यां च प्रकृतयोरेव विवक्षितत्वान्न कश्चित्क्षुद्रोपद्रवः ।
यो यत्साध्यव्यापको यत्साधनाव्यापक इति वास्यार्थ इति सर्वं सुस्थम् ।
*5,467*
ननु च सोपाधिकत्वस्य सत्प्रतिपक्षत्वे ऽपि तेनैवानुमानदोषाधिक्यमिति ।
मैवम् ।
प्रतिज्ञार्थविरुद्धतेत्यनेनैव प्रबलप्रमाणविरुद्धतालक्षणकालातीत(ता)वत्समबलप्रमाणविरुद्धतायाः सत्प्रतिपक्षताया अपि सङ्गृहीतत्वात् ।
प्रतिस्पर्धिसद्भावमात्रं हि प्रतिज्ञार्थविरुद्धतेत्युक्तम् ।
एवं तर्हि दुर्बलेन विरोधो ऽपि प्रतिज्ञार्थविरुद्धता स्यात्, उक्तलक्षणोपेतत्वादित्यत आह- दुर्बलेनेति ॥
दुर्बलेन विरोधे ऽपि न प्रमाणमसाधकम्

2.1.38

न्यायसुधा:
अयमर्थः ।
प्रकरणादिवशाद्धि सामान्यशब्दा अपि विशेषे वतर्न्त इति प्रसिद्धम् ।
यथा विशिष्टसमये पुरुषमानयेत्युक्ते पुरुषविशेष एवानीयते न तु यः को ऽपि पुरुषः ।
प्रकृते चानुमानस्यासाधकत्वनिमित्तपरिसङ्खयानम् ।
नच दुर्बलेन विरोधे ऽप्यनुमानमसाधकं भवति ।
प्रबलविरोधादिना तस्यैवाभासत्वात् ।
यथा विमतश्चक्षुष्मान्रूपापरोक्षज्ञानित्वादित्यत्र विमतो ऽन्धः पुरुषत्वादिति ।
अतः सामान्यशब्दप्रसक्तो ऽपि दुर्बलेन विरोधो (नानुमानसाध्यकतावच्छिन्नप्र) न प्रथिज्ञार्थविरुद्धता ।
किन्तु प्रबलसमबलप्रमाणविरुद्धतैव (इति) ।
*5,469*
नन्वेवमाधिक्यनिरासे ऽपि नानुमानविरोधत्रैविध्यं सम्भवति ।
प्रतिज्ञाविरोधस्याव्याप्त्यैव गतत्वात् ।
विरोधेनैव साध्यविरहिणि पक्षे वर्तमानस्य हेतोरर्व्याप्तिभर्वति ।
नहि विरेधस्याव्याप्त्यसङ्कीर्णमुदाहरणमस्ति ।
यत्र तु विरोधसम्भवस्तत्राव्याप्तेरेवान्यत्रावधृतसामर्थ्याया दूषणत्वात् ।
विरोधस्याव्याप्त्युत्थापनेन चरितार्थत्वादित्याशङ्कां भिक्षु(क)पादप्र(सारणन्यायेन)सारणेन परिहरति- स्ववाक्येनेति ॥
स्ववाक्येन विरोधे ऽपि नैव साधकतां व्रजेत्
न्यायसुधा:
प्रमाणमित्यनुवर्तते ।
न केवलं प्रमाणविरोधे, किन्तु स्ववाक्येन विरोधे ऽपि प्रमाणं नैव साधकतां व्रजेत् ।
एवशब्देन परेषामपि सिद्धो ऽयमर्थ इति दर्शयति ।
यथोक्तम् ।
अविरोधिग्रहणात्प्रत्यक्षानुमानगमस्वशास्त्रस्ववचनविरोधिनो निरस्ता इति (भवन्ति इति) ।
*5,472*
एतदुक्तं भवति ।
प्रतिज्ञार्थविरोधो द्वेधा भवति ।
प्रमाणविरोधः स्ववाक्यविरोधश्चेति ।
तत्राद्यः प्रबलसमबलप्रमाणविरोधात्मा द्विविधो भवति ।
द्वितीयो ऽप्यपसिद्धान्तजातिभेदेन द्वेधा ।
जातिश्च स्ववचनविरोधस्वन्यायविरोधस्वक्रियाविरोधभेदेन त्रेधा ।
तत्रास्तां तावत्प्रमाणविरोधः ।
स्ववाक्यविरोधग्रहणं तावत्पृथक्करणीयम् ।
तस्याप्यव्याप्त्युत्थापने व्यापारायोगात् ।
स्ववाक्यविरोधे हि किं साधनस्योभयाभिमत्या (पक्षे) व्यभिचारो भवेत्, किंवान्यराभिमत्या ।
नाद्यः ।
स्ववाक्यप्रामाण्यस्योभयासम्मतेः ।
न द्वितीयः ।
तस्य स्वतःसिद्धत्वेन स्ववाक्यविरोधानपेक्षत्वात् ।
अदोषत्वाच्च ।
तस्मादविषयवृवि(ताहेतु)त्वेन प्रतिज्ञार्थविरुद्धता पृथगेव पतिसङ्खयातव्येति ।
किञ्चायं न केवलं व्याप्त्यपेक्षप्रवृत्तेरनुमानस्यैव दोषः ।
किन्नाम तदनपेक्षस्य प्रत्यक्षादेरपि तथा चान्यत्रोपलब्धसामर्थ्यस्यानुमाने ऽपि स्वातन्त्र्यसिद्धिरित्याशयवता प्रस्तावादनुमानमिति वक्तव्ये प्रमाणमित्येवाधिकृतम् ।
*5,475*
एतेनैतदपि (परा)निरस्तम् ।
अस्तु स्ववाक्यविरोधस्य पृथग्दोषत्वमव्याप्त्युत्थापकत्वायोगात् ।
बाधप्रतिरोधरूपः प्रमाणविरोधस्तु न स्वतन्त्रदोषः ।
प्रमाणविरोधे हि हेतुरपक्षधर्मो वा स्यात् अनैकान्तिको वा (स्यात्) ।
जिज्ञासितधर्मणो धर्मिणः पक्षत्वात् ।
प्रमाणावगतसाध्यविरुद्धधर्मवतश्चापक्षत्वेन तद्धर्मस्यापक्षधर्मत्वनियमात् ।
साध्यधर्(म)र्मिण्येव प्रमाणोपस्थापितसाध्यधर्मविरुद्धधर्मवति दर्शनेन व्यभिचारात् ।
नच सपक्षविपक्षावेवान्वयव्यतिरेकगम्याविनाभावदर्शनविषयौ न पक्ष इति साम्प्रतम् ।
यदि हि पक्षं विहाय बहिरेवाविनाभावो ऽवगम्यते तदा बहिर्व्याप्तिबलेन पक्षधर्मो ऽपि हेतुर्न पक्षे साध्यं साधयेत् ।
असिद्धा हि तत्र तस्य साध्येन व्याप्तिः ।
तस्मादन्तर्बहिर्वा सर्वोपसंहारेणाविनाभावो ऽवगन्तव्यः ।
एवञ्च सिद्धः पक्षे व्यभिचारः साधनधर्मस्य ।
*5,477*
ननु प्रतिरोधे कथम् ।
तत्रापि व्याप्तिग्राहकस्य प्रमाणस्य प्राबल्यम् ।
उभयत्रापि प्रमाणसद्भावे व्याप्यत्वासिद्धावन्तर्भावादिति ।
प्रमाणविरोधस्य प्रमाणान्तरे ऽप्यविषयवृत्तिताहेतुत्वेनावगतस्वतन्त्रदूषणभावस्यानुमाने ऽपि तथैवाङ्गीकर्तुमुचितत्वात् ।
अपि च किं व्याप्तिग्रहणसमये ऽव्याप्तेरुपस्थापकः प्रमाणविरोधः स्यात्, उतानुमानप्रवृत्त्युत्तरमपि ।
आद्यस्त्विष्यत एव ।
"मानबाधे न तद्भवेत्ऽ; इति वक्ष्यमाणत्वात् ।
न द्वितीयः ।
उपजीव्यपरित्यागेनोपजीवकस्वीकारस्यायुक्तत्वात् ।
प्रमाणविरुद्धस्यापक्षधर्मत्वे सिद्धसाधनस्यापि तथात्वं स्यात् ।
समानन्यायत्वात् ।
ओमिति चेन्न ।
स्वार्थानुमाने ऽपि सिद्धसाधनस्य दोषत्वापत्तेः ।
नहि पक्षधर्मतासिद्धिः परार्थ एवानुमाने दोषः ।
तस्मात् परानाकाङ्क्षितत्वादसङ्गत एव सिद्धसाधन इति ।
॥ इत्यनुमानदोषनिरूपणम् ॥
*5,479*
एवमनुमानदोषान्निरूप्य प्रसङ्गात्परनिरूपिताशेषनिग्रहस्थानानामपि विरोधादिष्वेवान्तर्भाव इत्याह- संवादेति ॥
संवादानुक्तिसंयुक्ता एत एव च निग्रहाः

2.1.39

*5,479f.*
न्यायसुधा:
निगृह्यते पराजीयते एभिरिति निग्रहाः निग्रहस्थानानि ।
ननु च प्रतिज्ञाहान्यादीनां वक्तृदोषाणां कथमर्थवचनदोषेषु विरोधासङ्गतिन्यूनाधिक्येष्वनुप्रवेश इत्यत उक्तम्- संवादानुक्तिसंयुक्तां इति ॥
तथाप्यनुपपत्तिरेव ।
विरोधादिचतुष्ययस्यानुमानदोषत्वेनोक्तत्वात् ।
निग्रहस्थानानां च नियमेनानुमानाश्रयत्वाभावात् ।
नहि पुनरुक्तिरनुमान एव सम्भाविनी ।
प्रश्नादावप्युपपत्तेरित्यतो ऽस्त्यत्र विशेष इति तुशब्देनाह ।
द्विविधं हि विरोधादिचतुष्ययम् ।
समयबन्धादिकथासर्वरूपसाधारणमसाधारणं च ।
तत्रानुमानस्यैव यदसाधारणं विरोधादि तत्रानुमानदोषाणां सर्वेषां प्रवेशो ऽभिहितः ।
साधारणे तु सर्वनिग्रहस्थानानामिति न कश्चिद्विरोधः ।
यद्वा कथाबाह्यादीनामेषां निग्रहस्थानताव्यवच्छेदार्थस्तुशब्दः ।
*5,482*
ननु केयं कथा नामेत्यपेक्षायां तत्स्वरूपं निरूपयन्सामान्यलक्षणं विभागमुद्देशं चाह- वाद इति ॥
वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम्
न्यायसुधा:
अत्र कथेति लक्ष्यपदमावर्तनीयम् ।
विचारगोचरेत्युपस्कर्तव्यम् ।
विजानतामिति जातौ बहुवचनम् ।
तथा चानेकविद्व(त्कर्तृ)द्वक्तृकविचारगोचरा कथा वाक्यसन्दृद्धिः(न्दर्भः) कथेति सामान्यलक्षणसिद्धिः ।
ताश्च कथा वादादिभेदेन तिस्रः त्रिविधा इत्यर्थः ।
विजानतां मतेन तिस्र इति वा ।
तेन न्यूनाधिकसङ्खयोक्तिस्तद्विरोधादयुक्तेत्युक्तं भवति ।
*5,488*
वादलक्षणमाह- स्वार्थमिति ॥
स्वार्थं परार्थमपि वा तत्त्वनिर्णयसाधनी

2.1.40

केवलं तु कथा वादो ...
न्यायसुधा:
तत्त्वनिर्णयसाधनीत्यर्थाद्यर्थजल्पवितण्डाव्यवच्छेदः ।
तथापि वितण्डाविशेषे ऽतिव्याप्तिस्तदर्थं केवलमित्युक्तम् ।
साक्षादित्यर्थः ।
तुशब्देन तत्त्वनिर्णयसाधनादपि जल्पविशेषात् तदुद्देशेन प्रवृत्तत्ववैलक्षण्यं दर्शयित ।
यदा तु विदिततत्त्वौ वीतरागावविदिततत्त्वैः परैरभ्यर्थितौ कथां कुरुतस्तदा तत्राव्याप्तेमेतल्लक्षणम् ।
नचासौ न वादः ।
अन्यत्रानन्तर्भावेन तिस्र इत्यस्य व्याघातादित्यत उक्तम्- स्वार्थं परार्थमपि वेति ॥
अपिशब्द उभयार्थतासमुच्चयार्थः ।
*5,491*
जल्पलक्षणमाह- जल्प इति ॥
... जल्पो ऽर्थादिव्यपेक्षया ।
सतामेव कथा ज्ञेया ...
न्यायसुधा:
आदिपदेन ख्यात्यादेर्ग्रहणम् ।
अर्थादिव्यपेक्षयेति वादव्यावृत्त्यर्थम् ।
आनुषङ्गिकार्थादिसाधनत्वं वादस्यापि सम्भवतीति व्यपेक्षाग्रहणम् ।
वितण्डाव्यावृत्त्यर्थं सतामेवेति ।
सतामित्येवोक्ते न वितण्डाव्यावृत्तिसिद्धिः ।
वितण्डायामप्येकस्य सत्त्वात् ।
बहुवचनस्य जात्यर्थत्वात् ।
तेन एवेत्युक्तम् ।
*5,491*
वितण्डां लक्षयति- वितण्डेति ॥
... वितण्डा त्वसतां सताम्

2.1.41

अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम्
न्यायसुधा:
तुशब्दो वादजल्पव्यवच्छेदार्थः ।
कथेत्यनुवर्तते ।
कर्तृभेदेन कथाभेदे ऽतिप्रसङ्ग इत्यतो लक्षणान्तरमाह- अप्रकाश्येति ॥
सद्भिः स्वसिद्धान्तमप्रकाश्यासाधयित्वासतां पक्षस्य दूषणमेव क्रियते यत्सा वितण्डेत्यर्थः ।
प्रतिवादिनः स्वपक्षसाधनेन विना परपक्षप्रतिक्षेपमात्रेण पर्यवस्यन्ती कथा वितण्डेत्युक्तं भवति ।
नन्वेतदेव किन्निमित्तम् ।
प्राश्निकाद्यधीनमिति ब्रूमः ।
ते ऽपि कुत एतादृशनियमं कुर्युरिति चेत्(न) ।
तत्त्वज्ञानायोग्यानसतः प्रति सद्भिः स्वसिद्धान्तसाधने तेषां तत्त्वज्ञानोत्पादप्रसङ्गात् ।
तस्य च निषिद्धत्वादित्याशयेनासतामित्युक्तम् ।
एतेन प्रथमलक्षणस्यापि समर्थनं वेदितव्यम् ।
*5,494*
नन्वसम्भवीदं लक्षणम् ।
परपक्षदूषणं हि तत्प्रतिपादकप्रमाणदूषणेनैव भवेत् ।
नच स्वपक्षसाधनहीनायां वितण्डायां तत्सम्भवतीत्यत आह- उक्त इति ॥
उक्ते तैः प्रथमं माने वक्तव्यं तस्य दूषणम्

2.1.42

न्यायसुधा:
तैरसद्भिः प्रथमं स्वपक्षसाधनाय माने उक्ते सति सद्भिस्तस्य मानस्य दूषणं वक्तव्यम् ।
असतो वादिभूतस्य स्वपक्षसाधनं परपक्षनिराकरणं च करणीयम् ।
सतस्तु प्रतिवादिनः तत्प्रमाणदूषणेनैव चरितार्थत्वमित्युक्तं भवति ।
क्वचित्सतामेवेत्यादिसार्धश्लोको वादजल्पयोरित्यतःपरं पठितः ।
तत एतामेव सङ्गतिमाश्रित्य टीकाकृता तत्रैव व्याख्यातः ।
*5,496f.*
किञ्च गुरुशिष्यादयो ऽसमानविद्या अपि वादे ऽधिक्रियन्ते ।
तत्त्वनिर्णयार्थित्वात् ।
जल्पवितण्डयोस्तु सम्भावितसमानविद्ययोरेवाधिकारः ।
"ययोरेव समं वित्तं ययोरेव समं श्रुतम् ।
तयोर्विवाहो वादश्च नोत्तमाधमयोः क्वचित्ऽ; इति स्मरणात् ।
वादो जल्पवितण्डालक्षणो विवादः ।
अन्यथात्यन्तापकृष्टो ऽप्युत्कृष्टतमेन वैयात्यात् घटमानो यदि वा दैवायत्तमभिभावयेत् तदा वृथाख्यातिं लभेत ।
तथाच प्राश्निकादीनामसुज्ञात्वं प्रत्यवायश्च स्यात् ।
अपूज्यः पूज्यते यत्रेति वचनात् ।
एवं च वादाज्जल्पवितण्डयोर्भेदः ।
नन्वेतदयुक्तम् ।
परबुद्धेरप्रत्यक्षत्वेन विद्यासाम्यवैषम्ययोर्ज्ञातुमशक्यत्वादिति चेन्न ।
जल्पवितण्डार्थिनोर्विद्यासाम्यादेः परीक्षया निश्चयोपपत्तेः ।
तदेतदाह- विद्येति ।
विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च
न्यायसुधा:
विद्यापरीक्षा पूर्वा कारणभूता यस्याः सा तथोक्ता ।
विद्यापरीक्षया निश्चितसाम्ययोरेव वितण्डा दातव्या, न विषमविद्ययोः ।
जल्पश्चैवम् विद्यापरीक्षापूर्वं एवेति व्याख्येयम् ।
द्वितीयैवशब्दो वादव्यावृत्त्यर्थः ।
समानविद्ययोरेवेत्ययं नियमो न वादे ऽस्तीति ।
*5,498*
ननु जल्पवितण्डार्थिनोविर्द्यासाम्यादिनिश्चयाय कर्तव्या परीक्षा किं कथया, उतान्यथा ।
नान्यथा ।
अन्योन्यसङ्घर्षणेन विना तदसिद्धेः ।
आद्ये ऽपि किं वादेन जल्पवितण्डाभ्यां वा ।
न प्रथमः ।
ख्यात्यादिकामयोः स्पर्धावतोर्वादानुपपत्तेः ।
न द्वितीयः ।
अनवस्थापातादिति चेन्न ।
वादेन तावद्विद्यापरीक्षणस्येष्टत्वादित्याशयवान्वादस्य विद्यापरीक्षायां कार(तत्कार)णत्वमन्वयव्यतिरेकाभ्यां साधयितुमुपोद्घातं तावदाह- उच्चेति ॥
उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ

2.1.43

न्यायसुधा:
यतो विद्ययोच्चत्वेन निर्णीतत्वमेव जयो नीचत्वेन निर्णीतत्वं च पराजय इत्यर्थः ।
इति विद्यापरीक्षणं वादेनेति वक्ष्यमाणेनान्वयः ।
एवमुपयुक्तमभिधाय व्यतिरेकमाह- विनैवेति ॥
*5,498f.*
विनैव तत्त्वनिर्णीतिं नहि जल्पादिना क्वचित् ।
उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम्

2.1.44

न्यायसुधा:
निर्णीयते ऽनयेति निर्णीतिस्तत्त्वस्य निर्णीतिस्तत्त्वनिर्णीतिर्वाद इति यावत् ।
तत्त्वनिर्णीतिं विनोच्चनीचत्वविज्ञानं न हीत्येवोक्ते विना वादेनेति वक्ष्यमाणविरोधः स्यात् ।
अतो जल्पादिनेत्युक्तम् ।
इतिशब्दस्तस्मादित्यर्थे ।
विद्यापरीक्षणं वादेनेति वक्ष्यमाणमत्रापि सम्बद्धयते ।
यद्यपि सत्साधनोपलम्भे जल्पे ऽपि भवति वादिनोरुच्चनीचत्वविज्ञानम् ।
तथापि तदुद्देशेनाप्रवृत्तेस्तादर्थ्वस्य प्रथममनिश्चयान्न तदर्थं जल्पो दातुं शक्यते ।
*5,500*
व्यतिरेकस्यान्यदीयाकारणत्वमात्रनिश्चयहेतुत्वाद्वादस्य कारणतामवधारयितुमन्वयं चाह- वादेनेति ॥
वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम्
न्यायसुधा:
चशब्दो ऽन्वयस्य व्यतिरेकेण समुच्चयार्थः ।
अन्वयव्यतिरेकाभ्यां समर्थितमर्थमुपसंहरति- इतीति ॥
*5,501*
इति वादस्य पूर्वत्वं ...
न्यायसुधा:
इति तस्माद्वादस्य पूर्वत्वम् ।
जल्पवितण्डार्थिनोर्विद्यासाम्यादिनिश्चयहेतुपरीक्षार्थं प्रथमानुष्ठेयत्वं सिद्धमित्यर्थः ।
एतदुक्तं भवति ।
समानविद्ययोरेव जल्पवितण्डे ।
समानविद्यता च परीक्षानिश्चेया ।
परीक्षा च वादकथया विधेया ।
न जल्पवितण्डाभ्याम् ।
जयेन हि विद्याधिक्यं निर्णेतव्यम् ।
पराजयेन च तन्न्यूनता ।
जयपराजयौ च प्रमाणतर्काभ्यां प्रकृतप्रमेयसाधनसामर्थ्यासामर्थ्यलक्षणौ उच्चनीचत्वनिर्णयविषयताशब्दवाच्यावेव प्रकृतोपयोगिनौ ।
तौ च वाद एव सम्भवतो न जल्पवितण्डयोः ।
तत्र यत्किञ्चिन्निग्रहोद्भवनमात्रेण जयपराजयव्यवस्थापनात् ।
अतो जल्पवितण्डार्थं जल्पवितण्डाभ्यर्थनाभावान्नानवस्थेति ।
जल्पवितण्डार्थिनोर्विद्यापरीक्षायां वादेन कृतायां किं कार्यम् ।
समविद्यत्वसम्भावनायां जल्पवितण्डे कर्तव्ये इत्युक्तमेव ।
विषमविद्यतावधारणायां किं विधेयमित्यपेक्षायामाह- तत्सिद्धाविति ॥
... तत्सिद्धौ व्यर्थतान्ययोः

2.1.45

न्यायसुधा:
तेन वादेनैव तस्य नीचोच्चभावस्य सिद्धौ सत्यामन्ययोर्जल्पवितण्डयोर्व्यर्थता ।
ततश्च अकर्तव्यतेत्यर्थः ।
परीक्षार्थेन वादेनैवोपरम इति ।
बहुविद्यत्वसिद्धौ तु नैव वादो ऽपि ...
न्यायसुधा:
जल्पवितण्डार्थिनोर्विद्यापरीक्षार्थं वादकथा प्रथमं दातव्येत्युक्तस्यापवादमाह- बहुविद्यत्वेति ॥
प्राक् परीक्षातो लोकसंवादादिनान्यतरस्य प्रतियोग्यपेक्षया बहुविद्यत्वसिद्धौ तु वादो ऽपि नैव दातव्यः ।
किमु जल्पवितण्डे इति ।
कुत इत्यत आह- कारणमिति ॥
... कारणम्
न्यायसुधा:
विद्यापरीक्षाया इति शेषः ।
वाद इत्यनुवर्तते ।
वादो हि विद्यापरीक्षाकारणमित्येष्यव्यो न तु व्यसनितया ।
तत्फलं त्वन्यत एव जातमिति किं परीक्षया किं तदङ्गेन वादेनेति ।
*5,503*
यदुक्तं स्पर्धावतोः ख्यात्यादिकामयोर्वादो न सम्भवति, तत्रासत्साधनोत्तरप्रयोगस्यावश्यमवर्जनीयत्वात्, ततश्च विद्यासाम्यवैषम्यनिणर्यानुपपत्तेरिति तत्राह- सभेति ॥
सभासभापप्राश्नीकपूर्वस्तु स्पर्धिनामपि

2.1.46

वाद एव ...
न्यायसुधा:
प्रश्नशब्दात्करोतीत्यर्थे ईकक्प्रत्ययो वक्तव्यः ।
स्पर्धिनामिति जातौ बहुवचनम् ।
एवेत्यस्य युज्यत इत्यध्याहृतेनान्वयः ।
यतः सभादिपूर्वस्ततः स्पर्धिनामपि वादो युज्यत एवेति ।
तुशब्दो हेत्वर्थः ।
सभासभापतिप्राश्निकैर्नियतयोरसत्साधनादिप्रयोगवर्जनसम्भवादिति भावः ।
*5,505*
यदुक्तं"तत्सिद्धौ व्यर्थतान्ययोःऽ; इति तदयुक्तम् ।
वादेन तत्त्वनिर्णयसिद्धावपि अर्थाद्यसिद्धेः ।
तथाचाभिलषितं न सिद्धम्, सिद्धं चानभिलषितमिति तत्राह- उभयेति ॥
... उभयार्थः स्यान्निर्णीतिजयकारकः
न्यायसुधा:
वाद इत्यनुवर्तते ।
अस्यैव विवरणं निर्णीतीति ॥
न केवलं निर्णीतिकारकः किन्तु जयकारकश्च ।
जयशब्देन तत्साध्यमर्थ्यादिकमुपलक्ष्यते ।
विद्यापरीक्षार्थे वादे जयिनो ऽर्थादिकमपि सभापतिना सम्पादनीयमिति भावः ।
एवं तर्हि न कदापि जल्पवितण्डाप्रवृत्तिः"व्यर्थरतान्ययोःऽ; इति युक्तेः सम(मान)त्वात् ।
यथा हि विद्यावैषम्यनिर्णये जितवतो ऽर्थादिलाभः, तथा तत्साम्ये द्वयोरपि अर्थादिलाभः सम्भवत्येव ।
नच फलान्तरमस्ति येन पुनर्जल्पवितण्डारम्भः स्यादित्यत आह- तत्त्वाप्रकाश एवेति ॥
*5,506*
तत्त्वाप्रकाश एवैको वितण्डाजल्पयोः फलम्

2.1.47

न्यायसुधा:
तत्त्वाप्रकाश इति परवञ्चनसामर्थ्यमुच्यते ।
तेन तत्साध्यो ऽर्थादिलाभो लक्ष्यते ।
इदमुक्तं भवति ।
यद्यपि विद्यासाम्यवैषम्ययोर्निर्णीतिजयौ स्यातां तथापि तात्त्विककथाफलरूपावेव ।
पराच्छादनचातुर्यप्रयुक्तार्थादिलाभार्थं समानविद्ययोः पुनर्जल्पवितण्डाप्रवृत्तिरिति ।
नचैवं विषमविद्ययोरपि तत्प्रवृत्तिः, उपप्लवप्रसङ्गस्योक्तत्वादिति ।
यद्वा तत्त्वनिर्णयफलो वादः अर्थादिफले जल्पवितण्डे, इति फलभेदेन कथाभेद उक्तः ।
सो ऽनुपपन्नः ।
तथा सत्यर्थादीनां भेदेन कथाऽनन्त्यप्रसङ्गादित्यत आह- तत्त्वेति ॥
यद्यपि अर्थादयो ऽवान्तरभेदभिन्नास्तथापि तत्त्वाप्रकाश एक एव वितण्डाजल्पयोः फलम् ।
तत्त्वनिर्णयेतरत्वरूपेणार्थादीनामेकत्वान्नोक्तदोषः ।
तदवान्तरभेदविवक्षा तु व्यर्थैवेति भावः ।
*5,507*
एवं कथया विद्यापरीक्षणमिति पक्षः समर्थितः ।
इदानीमन्यथेति पक्षमपि समर्थयमान आह- विनेति ॥
विना वादेन विद्याया यदि शक्यं परीक्षणम् ।
स्याज्जल्पादिरपि क्वापि ... ॥ मनुव्_2,1.47अ-च् ॥
न्यायसुधा:
अविगीतविद्वत्प्रसिद्धयादिनेति शेषः ।
क्वापीत्यस्य पूर्वार्धेनान्वयः ।
तदा समविद्ययोः प्रथममपि जल्पादिः कथाविशेषः कार्यः स्यादित्यर्थः ।
तर्हि विद्यापरीक्षणं वादेनैवेत्युक्तिविरोध इत्यत आह- वा एवेति ॥
... वाद एवान्यथा भवेत्

2.1.48

न्यायसुधा:
वाद एव प्रथमं कर्तव्यो भवेदिति यदुक्तं तदन्यथा वादेन विना विद्यापरीक्षणस्य कर्तुमशक्यत्व एवातो न विरोध इति ।
अस्त्वेवमुपायान्तरविरहे कथयैव विद्यापरीक्षणम् ।
सा तु वाद इति कुतः ।
तत्त्वनिर्णयार्थिनोरधिकारित्वात्तत्फलत्वाच्चेति चेत्(न ।
एवं) ।
तर्हि विजिगीषावतोरधिकारित्वादर्थादिफलत्वात्सभाद्यङ्गोपेतत्वाज्जल्पो ऽपि स्यादिति ।
*5,508*
किमत्र जल्पशब्दवाच्यतामात्रमापद्यते, किंवा वादशब्दवाच्यताभावः, अथवा समाहाररूपं कथान्तरं यद्वा निमित्तद्वयसमावेशे वादशब्दस्यैव व्यवहारानुपपत्तिः ।
सर्वत्राप्युत्तरमाह- जल्प इति ॥
जल्प इत्यपि नाम स्याद् वादस्यैतादृशस्य तु
*5,508f.*
न्यायसुधा:
एतादृशस्य निमित्तद्वयोपेतस्यात्र जल्प इति नाम स्यादित्यभ्युपगमेनाद्यो निरस्तः ।
अपिशब्देन वादशब्दवाच्यतां प्रतिज्ञायै तादृशस्येत्यनेन हेतुरुक्तः ।
तेन द्वितीयो ऽपि निराकृतः ।
नहि निमित्तसद्भावे वाचकाप्रवृत्तिरिति युक्तम् ।
जल्पशब्दे ऽपि साम्यात् ।
अतस्तुलायां प्रमाणादितो विधान्तरवती स्यात् ।
वादस्य जल्प इत्यपि नाम स्यादिति वादसंज्ञा तु मुख्या जल्पसंज्ञा त्वमुख्येति सूचितम् ।
तेन चतुर्थो ऽपि निरस्तः ।
तत्र हेतुविशेषसद्भावं तुशब्देन द्योतयति ।
तथाहि ।
यद्यपि कथकावादितो विजिगीषू तथापि सभ्यादिभिविर्जिगीषां परिभाव्योत्पादिता तत्त्वनिर्णयार्थितैव कथोपयोगिनी ।
अर्थादिलाभश्चान्तरा प्राप्तो न त्वादित एवोद्दिष्य इत्यमुख्य एव ।
अत एव पूर्व उभयार्थः स्यादित्युक्ते साम्यप्रतीतिप्रसक्तौ निर्णीतिजयकारक इति तत्त्वनिर्णीतेः प्राधान्यप्रदर्शनार्थं विवरणं कृतम् ।
अन्यथा कथाफलद्वयस्यैवोभयशब्देन प्रतीतेर्विवरणं व्यर्थं स्यात् ।
अल्पाच्तरमिति लक्षणस्य व्यभिचारं कुर्वाणेनाप्येतदेव सूचितम् ।
अन्यथा जयनिर्णीतिकारक इत्यवक्ष्यत् ।
सभ्यादिसंवरणं च विजिगीषुतापरिभवार्थमिति वादताप्राधान्यमेवोपोद्बलयतीति ।
*5,513*
अपि चाधिकारिभेदादिकं बहिरङ्गतयैव कथाभेदकम् ।
अन्तरङ्गं तु प्रवृत्तिप्रकार एव ।
स च वादसम्बन्ध्येवास्यां कथायामस्तीत्यतो वादत्वमेव मुख्यमित्याशयवानाह- प्रतिज्ञेति ॥
व्यास -(14)
प्रतिज्ञामात्रसाध्यत्वमपि स्याद् याज्ञवल्क्यवत्

2.1.49

न्यायसुधा:
विद्यापरीक्षार्थायां कथायां क्वापि प्रमेये प्रतिज्ञामात्रेण प्रमाणोपन्यासरहितेन वचनेन साध्यत्वं प्रज्ञापनीयं स्यात् ।
कुत एतत् ।
कत्येव देवा याज्ञवल्क्येति शाकल्येन पृष्टे, (याज्ञवल्क्येन) त्रयस्त्रिंशदिति वचनमात्रेण प्रज्ञापनस्य कृतत्वात् ।
सा च विद्यापरीक्षार्था कथेत्युपक्रमपर्यालोचनया सिद्धम् ।
याज्ञवल्क्यशब्देन तत्कथोपलक्ष्यते ।
सप्तम्यर्थे वतिः ।
ततः किमित्यत आह- संवाद इति ॥
संवादे वादिनोः क्वापि ... ॥ मनुव्_2,1.48*अ ॥
न्यायसुधा:
एवम्भावो हि वादिप्रतिवादिनोः संवादे ऽन्योन्याप्तताऽश्वासे सत्येव स्यात् तदाश्वासो हि वाद एव सम्भवति न जल्पे ।
विजिगीषुणापसिद्धान्तादिपरिहारेण सर्वथा प्रमाणप्रश्नस्य कर्तव्यत्वात् ।
तेनायं वाद एवेति (प्रति)ज्ञायत इति ।
नन्वेवं तर्हि न विद्यापरीक्षा सम्भवति ।
प्रमाणोपन्यासे हि तत्समर्थनोपालम्भाभ्यां सा स्यात् ।
नतु प्रश्नप्रतिज्ञाभ्युपगममात्रेणेत्यत आह- विवाद इति ॥
... विवादे हेतुर् इष्यते ॥ मनुव्_2,1.48*ब् ॥
न्यायसुधा:
हेतुरिति प्रमाणमात्रोपलक्षणम् ।
प्रमाहेतुरिति वा ।
न ह्येकत्राप्तः सर्वत्राप्त एवेति नियमो ऽस्तीति भावः ।
याज्ञवल्क्येनापि तत्र तत्र प्रमाणोपन्यासः कृत एवेति सकलमनाकुलम् ।
*5,517*
प्रकृतानां सभ्यसभापतिप्राश्निकानां स्वरूपजिज्ञासायामाह- सभेति ॥
सभा सभापतिश्चैव प्राश्निकाश्चैव वैष्णवाः ।
रागद्वेषविहीनाश्च ... ॥ मनुव्_2,1.49अ-च् ॥
न्यायसुधा:
(द्वौ) चशब्दौ सभा(भ्या)दीनामन्योन्यसमुच्चये ।
तृतीयो विशेषणसमुच्चये ।
एवशब्दौ तु वैष्णवा एव रागद्वेषविहीना एवेति सम्बद्धयेते ।
अन्यथा कथानुपपत्तिसूचनं तत्प्रयोजनम् ।
स्युरिति वक्ष्यमाणमिहापि(मत्रापि) सम्बद्धयते ।
सभ्यानां प्राश्निकानां च विशेषणान्तरमाह- स्युरिति ॥
... स्युः सभ्याः सर्ववेदिनः

2.1.50

प्राश्निकाश् ...
*5,518*
न्यायसुधा:
सर्वशब्देन वादिप्रतिवादिदर्शनस्य कथोपयुक्तस्य व्याकरणादेश्च सङ्ग्रहः ।
पुनः सभ्यप्राश्निकग्रहणं सभापतिव्यवच्छेदार्थम् ।
तत्सार्वज्ञस्य कथोपयोगाभावात् ।
सभ्याः प्राश्निकाश्च सर्ववेदिनः स्युरित्यन्वयः ।
ननु प्राश्निकानां क्वोपयोगः ।
विवदमानयोर्गुणदोषावधारणादाविति ब्रूमः ।
एवं तर्हि तैरेवालं किं सभ्यैरित्यत आह- एतदिति ॥
... चैतदज्ञाने सभ्याश्च ...
न्यायसुधा:
अनन्तरोक्तान्प्राश्निकान् एतच्छब्देन परामृशति ।
क्वचित्सूक्ष्मे प्रमेये एतेषां प्राश्निकानां कारणान्तरद्वाज्ञाने सति वादिनोर्गुणदोषनिर्णयाय सभ्याश्च प्रमाणं स्युरिति वक्ष्यमाणेनान्वयः ।
प्रमाणाश्रयेषु प्रमाणत्वोपचारः ।
यद्येवं प्राश्निकेष्वज्ञानशङ्कया सभ्यानां वरणम्, तदा तेष्वप्यज्ञानशङ्कयान्ये ऽपि वरणीयाः ।
अन्यथा निर्णयाभावेन कथावैयर्थ्यापत्तेः ।
तेष्वप्येवमित्यत आह- एषां चेति ॥
... एषां च दूरगाः ।
प्रमाणं निर्णयाय स्युः ...
न्यायसुधा:
एषां सभ्यानां चाज्ञाने सति दूरगा देशान्तरस्थाः ।
नचैवं सभ्यसंवरणमप्यनर्थकम् ।
ततःपरं प्रायेणाज्ञानशङ्कानुदयात् ।
लौकिकश्चायमर्थ इति ।
दूरगान्निर्णायकत्वसम्भवाय विशिनष्टि- पक्षेति ॥
... पक्षपातविवर्जिताः

2.1.51

न्यायसुधा:
एकदेशोत्कीर्तनेन यथोक्तं सभ्यादिलक्षणमतिदिशति ।
*5,520*
अप्रकाश्य स्वसिद्धान्तमिति वितण्डालक्षणमुक्तम् ।
तत्कथं वादजल्पाभ्यां व्यावर्तकमित्यत आह- उभाभ्यामिति ॥
*5,521*
उभाभ्यां साधनं चैव दूषणं वादजल्पयोः
न्यायसुधा:
वादजल्पयोरुभाभ्यामेव स्वपक्षसाधनं परपक्षदूषणं कर्तव्यं, नतु प्रतिवादिनः परपक्षदूषणमात्रेण कृतार्थतेति ।
सतामेवेति सार्धश्लोकस्यात्र सन्निवेशे तु, लक्षितौ वादजल्पौ ।
इदानीं तु वितण्डाया लक्षणद्वयं विवक्षुस्तावदुपयुक्तमाह- उभाभ्यामिति ॥
कथा वादजल्पलक्षणा ।
एतेन जल्पो ऽर्थादिव्यपेक्षयेत्युक्तस्य वितण्डायामतिव्याप्तिरपि परिहृता ।
उभयसाधनवत्त्वेन सदेकाधिकारिकत्वेन वा ऽर्थादिव्यपेक्षकथाया विशेषितत्वात् ।
यदर्थं सतामेवेत्युक्तं तद्वितण्डालक्षणमाह- वितण्डा त्विति ॥
कथेत्यनुवर्तते ।
उभाभ्यामिति यदर्थमुक्तं तल्लक्षणान्तरमाह- अप्रकाश्येति ॥
उक्ते तैरिति पूर्ववदिति ।
उभाभ्यां साधनमित्याद्युक्तम् ।
तत्र साधनाय किं प्रमाणं प्रयोक्तव्यम् ।
यत्र यदस्ति तत्र तदेव (किं) वक्तव्यम् ।
सत्यम् ।
प्रमाणसम्प्लवे तु कथम् ।
किं सर्वमेवोतैकमेव तत्रापि किमित्यपेक्षायामाह- सद्भिरिति ॥
सद्भिरागम एवैकः प्रयोज्यो ऽभीष्यसाधकः

2.1.52

*5,522*
न्यायसुधा:
एक एव, नतु सम्भवत्सर्वमाधिक्यप्रसङ्गात् ।
स चागम एवेति योज्यम् ।
यद्वैकशब्दो मुख्यार्थः ।
ईश्वरादिप्रमेये मुख्यो वेदादिरागम एव वक्तव्यः (तस्य स्वातन्त्र्येण साध्यसिद्धयङ्गत्वात्) नानुमानमिति ।
नन्ववैदिकस्य वेदाद्यागमोपादाने ऽपसिद्धान्तः स्यादित्यत उक्तम्- सद्भिरिति ॥
कुतो वेदादिप्रयोगनियम इत्यत आह- अभीष्येति ॥
यत इति शेषः ।
अनुमानं खलु न स्वातन्त्र्येणेश्वरादिसाधनस्येष्ये ।
सर्वत्रोपाधिप्रतिपक्षयोः सम्भवात् ।
तदर्थमन्ततो ऽप्यागमो ऽनुसरणीयः ।
ततो वरं प्रथममेव (आगमो) वक्तव्यः ।
तस्य स्वातन्त्र्येण साध्यसिद्धयङ्गत्वात् ।
नन्ववैदिकं प्रति कथम् ।
आगमं प्रयुज्य तत्प्रामाण्यं साधनीयमिति ।
*5,524*
नन्वसद्भिः किं वक्तव्यम् ।
न तावत्प्रत्यक्षम् ।
अतीन्द्रिये तदयोगात् ।
न चागमः ।
स्वपरागमयोरन्योन्यं प्रामाण्यासम्मतेः ।
नाप्यनुमानम् ।
प्रयोगपरिमाणासम्मतेः ।
तथाहि ।
सौगतो यदि द्वयवयवप्रयोगं कुर्यात्तदा नैयायिकेन न्यूनेन निगृह्येत ।
अनिग्रहे वा प्रतिवादी पर्यनुयोज्यमुपेक्षेत ।
पञ्चावयवप्रयोगे त्वधिकेन निगृह्येत ।
तथा स्वीकारे चापसिद्धान्तेन ।
तथाच नियतावयवादिव्यतिरेकेण वितण्डैव न स्यादित्यत आह- स्वसिद्धान्तेति ॥
स्वसिद्धान्तानुसारेण ह्यसद्भिरनुमोच्यते
न्यायसुधा:
यथासिद्धान्तं वक्तव्यमिति प्राङ्नियमात्स्वसिद्धान्तनिर्णीतप्रयोगावयवपरिमाणापेक्षयैव न्यूनाद्यवतारादन्यथा(कथा)ऽनुपपत्तेरिति
हिशब्दाथर्ः ।
सद्भिरागमो वक्तव्य इति न (इत्य)युक्तम् ।
वैदिकस्य प्रतिवादिनस्तद्दूषणे ऽपसिद्धान्तात् ।
अदूषणे तु परपक्षादूषणेन कथाभावप्रसङ्गादित्यत आह- प्रत्यक्षेति ।
प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु

2.1.53

आगमे दशर्नीयात्र दोषो लिङ्गविलोमता
न्यायसुधा:
आगमे तु वादिना प्रयुक्ते प्रतिवादिना वैदिकेन तस्यान्यार्थतैव दशर्नीया ।
नानुमानस्येवाप्रामाण्यम् ।
येनापसिद्धान्तः स्यात् ।
तत एव कृतपरपक्षदूषणो ऽपि भवेत् ।
अन्यार्थतां दर्शितवताऽगमस्य पराभिमतार्थात्प्रच्यावितत्वात् ।
न ह्यपेक्षितार्थासाधकतवादन्यत्प्रमाणदूषणमस्तीति ।
नन्वेवं सति कथं कथापर्यवसानम् ।
स्वस्वाभिमतार्थाग्रहपरित्याजनोपायाभावादित्यत उक्तम्- प्रत्यक्षेत्यादि ॥
अत्र पराभिमते ऽर्थे प्रत्यक्षागमविरोधमाश्रित्य ।
न केवलमेतावत् ।
अत्रोपक्रमादिलिङ्गविलोमतादोषो ऽपि दर्शनीयः ।
अत्रान्यतम(र)मात्रे तात्पर्यम् ।
अन्यथाऽधिक्यप्रसङ्गात् ।
*5,527*
नन्वेतावतापि न कथासमाप्तिः ।
पराभिमतार्थानुपपत्तिमात्रेण स्वाभिमतार्थासिद्धेरित्यतः सत्यमित्याह- लिङ्गेति ॥
लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनामनुग्रहः

2.1.54

न्यायसुधा:
दर्शनीयपदमनुवर्तते ।
श्रुत्यादीनां वेदादीनां श्रुतिर्लिङ्गं समाख्या चेत्युक्तानां लिङ्गग्रहणेनैव गृहीतत्वात् ।
उपलक्षणं चैतत् ।
परार्थे प्रमाणानुकूल्यस्य स्वार्थे तत्प्रातिकूल्यस्य च निरासो दर्शनीय इत्यपि द्रष्टव्यम् ।
स्वसिद्धान्तप्रयोगपरिमाणानतिक्रमेण परार्थानुमानवाक्यप्रयोगः कर्तव्यः ।
तथात्वे च न न्यूनाद्यवतारः ।
तदतिक्रम एव तदवकाश इत्युक्तम् ।
*5,528*
अपर आह ।
यथावस्तु प्रयोक्तव्यम् ।
नच वस्तुतत्त्व एव वादिनां विप्रतिपत्तेरवश्यं न्यूनाद्यवतारसम्भवेनाप्रयोगप्राप्तिरिति वाच्यम् ।
(त)यस्य यत्र तात्त्विकत्वाभिमानस्तेन तत्प्रयोगानन्तरं परेण न्यूनादावुद्भाविते तथारूपतायाः साध(नीयत्वात्)नात् ।
नचैवमर्थान्तरापातः ।
हेतोरन्यतरासिद्धयुद्भावने तत्सिद्धिव्युत्पादनवत्प्रकृतोपयोगसद्भावादिति ।
तदयुक्तम् ।
द्वित्रिपञ्चावयवादिपक्षाणां सर्वेषामपि तात्त्विकतायाः समर्थितत्वात् ।
स्वस्वनियमस्यैव तात्विकत्वमुपेत्य तदनतिक्रमेणैव प्रयोगाङ्गीकारे तु सर्वथा कथोच्छेदापत्तेः ।
तत्तात्त्विकतायां प्रतिवादिना विप्रतिपद्यमानेनावश्यं न्यूनादेरुद्भावनात् ।
ननूक्तमत्र स्वस्वावयवकल्पना परं प्रति समर्थनीयेति ।
दुरुक्तं तत् ।
तत्समर्थनस्याशक्यत्वादित्याह- त्रिपञ्चेति ॥
*5,529*
त्रिपञ्चावयवामेव युग्मावयविनीमपि ।
नियमाद् यो ऽनुमां ब्रूयाद् तं ब्रूयाद् यदि तादृशी ।
नानुमेति तदा केन साध्यावयवकल्पना

2.1.57

न्यायसुधा:
त्रयः प्रतिज्ञाहेतूदाहरणानि, उदाहरणोपनयनिगमनानि वा, पञ्च प्रतिज्ञाहेतूदाहणोपनयनिगमनानि वावयवा यस्याः सा त्रिपञ्चावयवा ।
एवशब्देन पक्षद्वयनियममाह ।
युग्मौ द्वावुदाहरणोपनयावयवौ यस्याः सा युग्मावयविनी ।
नियमादिति सन्निहितेनैव सम्बद्धयते ।
अनुमेति तादर्थ्यात्प्रयोग उच्यते ।
वैशेषिकादीनां तत्रैव व्यवहारात् ।
तं ब्रूयाद्यदि परो ऽनियतवादीति शेषः ।
यद्वा यो मीमांसकस्तार्किकादिश्च त्रिपञ्चावयवामेवानुमां ब्रूयात् ।
तं प्रति यः सौगतो नियमाद्युग्मावयविनीं ब्रूयात् ।
स यदि तादृशी त्र्यवयवा पञ्चावयवा च नानुमेति ब्रूयादिति योज्यम् ।
एवं (वि)परिवर्तेनापि ।
तादृशी नानुमेत्यस्य प्रमाणाभावादिति शेषः ।
एतदुक्तं भवति ।
नैयायिकेन सौगतं प्रति पञ्चावयवप्रयोगे विहिते सौगतो ऽधिकमिति निगृह्णीयात् ।
ततो नैयायिकेन पञ्चावयवप्रयोगस्यैव तात्त्विकत्वान्नैवमिति वक्तव्यम् ।
ततः सौगतो नेदं तत्त्वमप्रमाणिकत्वादिति वदेदेव ।
अथ नैयायिकेनाप्रामाणिकत्वमसिद्धमिति वदता कथमिति सौगते पृष्टवति (सति) केन प्रमाणेन स्वीया पञ्चावयवकल्पना साध्या ।
तदगोचरत्वात् ।
नहि कार्यकारणभावः क्वापि प्रत्यक्षस्य विषयः ।
न चागमेन ।
तदभावात् ।
"पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित्ऽ; इति भारतादिवाक्यमस्तीति चेन्न"सौक्ष्म्यं सङ्खयाक्रमश्चैव निर्णयश्च प्रयोजनम्ऽ; इत्यादिना तत्रैवान्यथा व्याख्यातत्वात् ।
नाप्युपमानाभावाभ्याम् ।
नियतविषयत्वात् ।
नचार्थापत्त्या ।
तदभावात् ।
अनुपानानतिरेकाच्चेति ।
*5,531*
मा भूत्प्रत्यक्षादिनावयवकल्पनासिद्धिः ।
अनुमानेन तु भविष्यति ।
व्याप्तिपक्षधर्मतोपेतलिङ्गप्रतीतेः पञ्चावयववाक्यश्रवणान्वयव्यतिरेकानुविधायित्वादिति चेत् ।
न तावदिदमनुमानं त्वच्चेतसि परिवर्तमानं परं प्रत्यायनाङ्गम् ।
किन्नाम प्रयुज्यमानम् ।
तत्र किं पञ्चावयवप्रयोगो ऽस्य विधास्यते, अथ द्वयवयवः ।
नोभावपीत्याह- नियतेति ॥
***[नोते: जुम्प् इन् वेर्से नुम्बेरिन्ग्, नो लचुन इन् तेxत्!]***
नियतावयवासिद्धौ ...
न्यायसुधा:
नियतावयवस्य पञ्चावयवस्य द्वयवयवस्य च ।
यथासङ्खयं सौगतनैयायिकयोर्बोधौपयिकत्वासिद्धौ, नानुमानेनाप्यवयवकल्पनासिद्धिरिति शेषः ।
यद्वोत्तरवाक्ये नियतावयवासिद्धावित्यनुवादो ऽयम् ।
ततो नियतावयवासिद्धेरिति सिद्धयति ।
पञ्चावयवप्रयोगे परेणाधिक्योद्भावनात् ।
द्वयवयवप्रयोगे ऽन्यतरन्यूनत्वापसिद्धान्तयोरुद्भावनादित्यर्थः ।
ततः किमित्यत आह- व्याप्तीति ॥
*5,532*
... व्याप्तिमात्रेण साधनम् ।
कर्तव्यमेव तेन स्यात् ...
न्यायसुधा:
यत एवं नोपायान्तरं तेन कारणेन ।
तेन नैयायिकेन व्याप्तिमात्रेण यद्यस्यान्यवव्यतिरेकानुविधत्ते तत्तत्कार्यमित्यादिव्याप्तिवचनमात्रेणैव ।
उपलक्षणमेतत् ।
"लिङ्गोक्तौऽ; इत्यादिप्राग्व्युत्पादितप्रकारेष्वन्यतमेनेत्यपि द्रष्टव्यम् ।
साधनं पञ्चावयवनियमस्य, कर्तव्यं स्यात् ।
सौगतेनापि तदनुसरणीयम् ।
इतरथा तस्यापि प्रयोगानुपपत्तिप्रसङ्गादिति ।
*5,534*
ततो ऽपि किमित्यत आह- तस्मादिति ॥
... तस्मात् सैवानुमा मता

2.1.58

न्यायसुधा:
यस्मात्प्रयोगेयत्तासाधनं वादिप्रतिवादिभ्यामन्यतरेण वा स्वमतपरित्यागेनान्यमताभ्युपगमे कृत एवोपपद्यते नान्यथा ।
तस्मात्सैवानुमा मता ।
व्याप्तिवचनादिकमेव परार्थप्रयोगत्वेन सर्वत्र मन्तव्यम् ।
इदमुक्तं भवति ।
यदा नैयायिको द्वयवयवेन पञ्चावयवनियमं साधयति ।
तदा द्वयवयवस्य तात्त्विकत्वं स्वयं मन्यते न वा ।
नेति पक्षे प्रतारकः स्यात् ।
आद्ये ऽन्यत्रापि कथं तत्तत्वं न स्यात् ।
एवं कथाभावप्रसङ्गभीरुः सौगतो ऽपि पञ्चावयवेन द्वयवयवस्यावश्यकतां प्रतिपद्यमानस्तत्त्वं मन्यते न वा ।
द्वितीये कथं ततः प्रतिपद्येत ।
आद्ये ऽन्यत्रापि कुतस्तन्न तत्त्वम् ।
अतो ऽत्र सर्वसिद्धान्तप्रकाराणां तात्त्विकत्वाद्युक्तं स्वसिद्धान्तानुसारेणेति ।
अस्मादेव सङ्कटाद्बिभ्यदुदयनो यथावस्तु वक्तव्यमित्युक्त्वा यथासिद्धान्तं वा वक्तव्यमिति समयं बद्ध्वा प्रवृत्तायां कथायां न न्यूनाद्यवतार इति पक्षान्तरमवादीदिति ।
अवसितमनुमानम् ।
*5,535*
निर्दोषं वाक्यमागमः ।
स द्विविधः ।
पौरुषेयो ऽपौरुषेयश्च ।
तत्रापौरुषेयो वेदः ।
अन्यस्तु पौरुषेय इति सुप्रसिद्धत्वान्नोक्तम् ।
*5,537*
केचिद्वाक्यं वाक्यार्थे ऽनुमानमिति ब्रुवते ।
तदनुपपन्नम् ।
वाक्यवाक्यार्थयोर्देशतः कालतो वान्वयव्यतिरेकाभावात् ।
अथेदं वाक्यं वाक्याथर्वत् वाक्यत्वादिति साध्यते ।
तत्र किं वाक्यार्थमात्रं साध्यते तद्विशेषो वा ।
नाद्यः ।
विशेषप्रमितेर्निर्निबन्धनत्वापत्तेः ।
द्वितीये स विशेषः प्रतीतो न वा ।
आद्ये वाक्यवैयर्थ्यम् ।
द्वितीये ऽप्रसिद्धविशेषणता ।
विशेषस्यान्यत्राभावादनैकान्त्यं च ।
मतुबार्थश्च किं प्रतिपाद्यप्रतिपादकभावः, सम्बन्धान्तरं वा ।
आद्ये साक्षाल्लिङ्गतया वा ।
न प्रथमः ।
अनुमानवैयर्थ्यात् ।
अपसिद्धान्ताच्च ।
द्वितीये तु नेदं वाक्यार्थानुमानं किन्तु सिद्धे ऽर्थे वाक्यस्य लिङ्गतानुमानमेव ।
तत्र च दृष्टान्तो ऽन्यतरसाध्यविकलः ।
न द्वितीयः ।
तदभावेन बाधात् ।
*5,539*
अथैवं प्रयुज्यते, विवादाध्यसितानि पदानि स्वस्मारितार्थान्वयप्रमितिपूर्वकाणि आकाङ्क्षादिमत्पद(कदम्बक)त्वादिति ।
तदयुक्तम् ।
विनाप्यन्वयप्रमितिं दैवात्प्रयुक्तेष्वाकाङ्क्षादिमत्सु पदेष्वनैकान्त्यात् ।
आप्तप्रयुक्तत्वेन हेतुविशेषणे साध्यार्थस्य हेत्वर्थे प्रवेशापत्तेः ।
पुरुषविशेषप्रयुक्तत्वस्याध्यापकप्रयुक्तेषु व्यभिचारात् ।
मूलप्रमानुमाने ऽपि वेदेषु अनुपपत्तेः ।
तदपौरुषेयत्वस्य साधितत्वात् ।
*5,542*
अपरे त्वपौरुषेयस्यागमत्वमुपगम्य पौरुषेयस्यानुमानत्वमभ्युपगच्छन्ति ।
तेषां तु स्फुटो वेदे व्यभिचारः ।
किञ्च पदानामन्विताभिधाने शक्तिः ।
पदान्येव च वाक्यम् ।
नच वैदिकपदेभ्यो ऽन्यान्येव लौकिकानि पदानि ।
वक्ता तु पदज्ञान एवोपयुज्यते ।
तत्कथं लोकवेदयोः प्रकारभेदः स्यात् ।
अपि च वेदानुसारेण पठ्यमानेषु लौकिकवाक्येषु कथम् ।
अन्वयप्रतीतिरुत्पद्यत एव ।
किन्नाम पुनः पौरुषेयत्वज्ञानादपनीयत इति ।
एवं तर्हि वाक्यादेव वाक्याथर्ज्ञानम् ।
तत्प्रामाण्यनिश्चयाय तु वक्त्राद्यनुसरणमित्यायातमित्यास्ताम् ।
*5,544*
तदेवं सामान्यतो विशेषतश्च प्रमाणानि लक्षितानि ।
तत्र स्वीयसामान्यलक्षणसमर्थनेनार्थाद्वाद्यन्तरोक्तसामान्यलक्षणानि निरस्तान्येव ।
तथापि स्मृतिविषये वक्तव्य(वि)शेषस्य विद्यमानत्वात्प्राभाकरलक्षणं विशेषतो निराकरोति- अनुभूतिरिति ॥
अनुभूतिः प्रमाणं चेत् केन स्मृतिरपोद्यते
न्यायसुधा:
"तदा वक्तव्यं स्मृतिः प्रमा न वा ।
आद्ये ऽपसिद्धान्तःऽ; इति शेषः ।
द्वितीये त्वाह- केनेति ॥
यदि स्मृतिर्न प्रमा तदा स्मृतिः लक्षणेन व्यावर्तनीया ।
अन्यथातिव्याप्तेः ।
(तत्केन) तत्कुतः स्मृतिरपोद्यते व्यावर्त्यते ।
स्मृतिर्व्यावर्तकं न किमपि ।
लक्षणे ऽस्तीति यावत् ।
*5,544f.*
नन्वनुभूतिरित्युक्त एव स्मृतावप्रसङ्गः ।
स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरित्यभिधानात् ।
नहि स्मृतिः स्मृतिव्यतिरिक्ता भवतीति ।
मैवम् ।
स्मृतेरपि स्मृत्यन्तरव्यतिरिक्तत्वसम्भवेनाव्यवच्छेदकत्वात् ।
स्मृतित्वानधिकरणं ज्ञानमनुभूतिरिति चेत् ।
किमिदं स्मृतित्वम् ।
न तावज्जातिः ।
गुणेषु जातेरनङ्गीकृतत्वात् ।
संस्कारमात्रजन्यज्ञानत्वं तु न सम्भवति ।
अदृष्टादिजन्यत्वात् ।
असाधारणकारणविवक्षायामपि तथा ।
स्मृतेर्मानसत्वस्य वक्ष्यमाणत्वात् ।
एतेन नियमेन प्रत्युत्पन्नासाधारणकारणकप्रत्यग्रत्वमनुभूतित्वमित्यप्यवच्छेदकं द्रष्टव्यम् ।
स्मृतेरपि मानसप्रत्यक्षजन्यायास्तथात्वात् ।
संस्कारस्य कारणत्वे ऽपि नासौ सत्तामात्रेण स्मृतिं जनयति किन्नामोद्बुद्ध एव ।
तथाच कथं न प्रत्युत्पन्नासाधारणकारणजन्यत्वम् ।
अन्यथेन्द्रियादिमा(यमा)त्रमुपादायानुभूतेरपि तन्निराकुर्यात् ।
किञ्च स्मृतिरपि काचित्प्रत्युत्पन्नसंस्कारजन्या सम्भवत्येव ।
नचावच्छेदकेन विना नियमो ज्ञातुं शक्यत इति ।
*5,549*
यद्वा अनुभूतिः प्रमाणं चेत्तदा स्मृतावव्याप्तिरिति शेषः ।
ननु स्मृतिः प्रमाणमेव न भवति ।
तत्कथं तत्राव्याप्तिदोष इत्यत आह- केनेति ॥
स्मृतिः केन निमित्तेनापोद्यते प्रमाणाद्बहिः क्रियते न केनापीत्यर्थः ।
तथाहि ।
किमयथार्थत्वात् ।
याथार्थ्ये ऽप्यननुभूतित्वाद्वाप्रामाण्ये बाधकाभावाद्वा प्रामाण्ये साधकाभावाद्बाधकसद्भावाद्वा ।
आद्यं दूषयति- केनेति ॥
स्मृतिः केन प्रबलेन प्रमाणेनापोद्यते बाध्यते ।
येन यथार्था न स्यात् ।
बाधकाभावान्नायथार्थत्वं वाच्यमिति ।
द्वितीयं निराकरोति- केनेति ॥
किमनुभूतित्वं प्रमाणलक्षणमिति कृत्वाननुभूतित्वात्स्मृतिरप्रमाणमित्युच्यते किं वा घटादिदृष्टान्तावष्टम्भेन ।
आद्ये ऽन्योन्याश्रयत्वम् ।
तथाच केन स्मृतिरपोद्यते ।
द्वितीये ऽपि स्मृतिरेव केनापोद्यते ।
अस्मृतित्वेनानुभूतिः कुतो नापोद्यते विशेषाभावादिति ।
तृतीयमपाकरोति- पूर्वेति ॥
पूर्वानुभूते किं मानमित्युक्ते स्यात् किमुत्तरम्

2.1.59

न्यायसुधा:
यदि स्मृतिरप्रमाणं स्यात्तदा पूर्वानुभूते किं मानमिति प्रश्नो निरुत्तरः स्यात् ।
स्मृतिव्यतिरिक्तस्य
तत्प्रमाणस्याभावात् ।
तथाच साक्ष्यादिलोकव्यवहारो लुप्येत ।
स्मृतिरेव प्रमाणं किन्तु लिङ्गतयेति चेन्न ।
तथानुभवाभावात् ।
अन्यथा साक्षात्कारेण कार्येण कर्मकारकतया घटा(द्य)नुमानमित्यपि स्यात् ।
चतुर्थं प्रत्याह- पूर्वेति ॥
स्मृतिरित्येव हि वक्तव्यम् ।
वचनाच्चानुभवो ऽनुमीयत इति लोकव्यवहार एवात्र प्रमाणमित्यर्थः ।
*5,552*
ननु यदि स्मृतिः प्रमा स्यात्तदा तत्कारणस्य संस्कारस्यानुप्रमाणत्वं प्रसज्येत ।
तथाचानुप्रमाणत्रित्वं भज्येत ।
नहि संस्कारः प्रत्यक्षादिष्वन्तर्भवति ।
अनिन्द्रियसन्निकर्षत्वादज्ञातकरणत्वाच्चेति पञ्चममपाकरोति- मानसमिति ॥
मानसं तद्धि विज्ञानं ...
न्यायसुधा:
हि यस्मात्तत्स्मरणं मानसं मनःप्रत्यक्षजं न संस्कारकरणकं ततो नोक्तदोष इति शेषः ।
असाक्षात्काररूपत्वान्न प्रत्यक्षफलत्वमित्यत उक्तम्- विज्ञानमिति ॥
साक्षात्कार इत्यर्थः ।
स्मरणस्य मानसत्वं साक्षात्कारत्वं च कुत इत्यत आह- तच्चेति ॥
... तच्च साक्षिप्रमाणकम्

2.1.60

न्यायसुधा:
तदिति मानसत्वम् ।
चशब्दात्साक्षात्कारत्वं च ।
यद्वा द्वयमपि तच्छब्देन परामृश्यते ।
प्रकृतानुसन्धानार्थश्चशब्दः ।
*5,553*
नन्विन्द्रियाणां प्राप्यकारित्वनियमादतीतेन च मनसः प्राप्तेरयोगात्कथं स्मृतेर्मानसप्रत्यक्षजत्वमित्यत आह- अतीतेति ॥
अतीतानागतं यद्वद् योगिभिर्दृश्यते ऽञ्जसा ।
एवं पूर्वानुभूतं च मनसैवावगम्यते ॥ मनुव्_2,1.59च्-f ॥
न्यायसुधा:
सन्ति तावद्योगिनो ऽणिमादिसिद्धिसम्पन्ना अतीतानागतदर्शिनः श्रुतिस्मृतीतिहासपुराणप्रसिद्धाः ।
श्रुत्यादेः सिद्धार्थे प्रामाण्यस्य साधितत्वात् ।
कर्मविधिसमानयोगक्षेमत्वाच्च योगविधीनाम् ।
नच तज्ज्ञानमसाक्षात्कारः ।
श्रुत्यादिना साक्षात्कारत्वप्रतीतेः ।
तथाहि श्रुतिः"अपश्यमप्यये मायया विश्वकर्मण्यदो जगन्निहितं शुभ्रचक्षुःऽ; इति ।
पुराणं च"नारायणप्रसादेनऽ; इत्यादि ।
इतिहासो ऽपि"दिव्यं ददामि ते चक्षुःऽ; इत्यादि ।
तदिदमुक्तम्- अञ्जसेति ॥
साक्षादित्यर्थः ।
एवञ्च यथा योगिनामिन्द्रियेणैवातीतानागताथर्साक्षात्कारस्तथातीतमपि मनसा स्मर्यत इति को दोषः ।
नन्विन्द्रियस्यार्थप्राप्तिर्नाम न संयोगः समवायो वेति नियमः ।
किन्तु प्रत्यासत्तिमात्रम् ।
अस्ति च तद्योगीन्द्रियाणाम् ।
तत्तदुपदर्शकयोगजधर्मसहकृतत्वलक्षणमिति चेत् ।
एवं तर्हि मनसो ऽपि पूर्वानुभवजनितसंस्कारसाचिव्यलक्षणास्त्यतीतार्थेन प्रत्यासत्तिरित्याशयवतोक्तम्- पूर्वानुभूतं चेति ॥
*5,554*
एतदुक्तं भवति ।
यदि प्राप्तिः संयोगादिलक्षणा विवक्षिता तदा तदभावो ऽनैकान्तिकः ।
प्रत्यासत्तिमात्रविवक्षायां त्वसिद्धिरिति ।
दृष्टान्तकथनं तु प्रत्यासत्तिमात्रस्य साक्षात्कारहेतुतां सम्भावयितुम् ।
कार्यदर्शनवशाच्चेयं कल्पनासौ नातिप्रसङ्ग इति दर्शयितुं च ।
एतेन मानसं चेत्स्मरणं स्यान्न संस्कारजं तदाननुभूते ऽप्यु(व्यु)त्पद्येतेति परास्तम् ।
संस्कारस्य सन्निकर्षस्थानीयतयाङ्गीकृतत्वात् ।
*5,557*
यत्स्मृतेर्मानसत्वं साक्षिसिद्धमित्युक्तं तदभिनयेन दर्शयति- विज्ञातमिति ॥
विज्ञातं मनसा पूर्वं मयैतत् कृतमित्यपि ।
साक्षादनुभवात् सिद्धं ... ॥ मनुव्_2,1.60अ-च् ॥
न्यायसुधा:
एतन्मया पूर्वं कृतमित्येतन्मया मनसा विज्ञातं स्मृतमपीति स्मरणस्य मानसत्वं साक्षादनुभवात्साक्ष्यनुभवेन सिद्धमिति ।
यदुक्तं परैः पूर्वानुभवावच्छिन्नार्थगोचरा स्मृतिस्तद्याथार्थ्यादिकमनुविदधाना न स्वयं यथार्थेति, तदसत्, अनुभववच्छुद्धार्थविषयत्वस्यापि साक्षिसिद्धत्वादिति दर्शयितुं मयैतत्कृतमित्यपीत्युक्तम् ।
ननु मनसो ऽप्रत्यक्षत्वात्कथं स्मरणस्य मानसता साक्षिप्रत्यक्षगम्येति चेन्न ।
तस्य साक्षिवेद्यताया वक्ष्यमाणत्वात् ।
तथापि कार्यकारणभावो न प्रत्यक्ष इति चेदन्वयव्यतिरेकसचिवस्य साक्षिणस्तत्र प्रामाण्याभ्युपगमात् ।
ज्ञानं नित्यानुमेयमिति चेन्न ।
ज्ञातताया निराकरिष्यमाणत्वात् ।
स्वप्रकाशमिति चेन्न ।
अनात्वत्वात्, घटवत् ।
मानसवेद्यता तु निरसिष्यत इत्याशयवानाह- कथमेवेति ॥
... कथमेव ह्यपोद्यते

2.1.61

*5,561*
न्यायसुधा:
याथार्थ्यमेवेत्यादिनोक्तस्य प्रकृतोपयोगमाह- एवमिति ॥
एवं लक्षणके मानत्रये ब्रह्मादिवस्तुषु ।
प्रमाणं वेद एवैकस् ...
न्यायसुधा:
यस्मान्मानत्रयमेवंलक्षणकं तस्माद्ब्रह्मादिवस्तुषु वेद एव प्रमाणं न युक्त्यादेस्तत्रावकाशः ।
इन्द्रियं हि रूपादिमत्येव द्रव्ये प्रवतर्ते ।
नच ब्रह्मादिकं तथा ।
अनुमानं च व्याप्तिसापेक्षम् ।
नच वेदनिरपेक्षस्य तस्य ब्रह्मादौ सञ्चारो ऽस्ति ।
उपाधिप्रतिपक्षयोस्तु सर्वत्र सम्भवेन व्याप्त्यनिश्चयात् ।
वेदानुसरणे तु साध्याव्यापकत्वबाधितविषयत्वयोरावश्यकत्वात् ।
पौरुषेयागमस्तु परतन्त्र एवेति ।
ततः किमित्यत आह- तत्प्रामाण्यं चेति ॥
... तत्प्रामाण्यं च साधितम्

2.1.5

न्यायसुधा:
य(त)स्माद्वेदविषये न युक्तेरवकाशस्ततो विरोधो ऽपि स एवोक्त इत्युपपन्नम् ।
तथाच वेदस्य प्रमाणविरोधाभावात्तत्प्रामाण्यं च साधितम् ।
यदुक्तं प्राक्"तस्माद्वेदप्रामाण्यमिष्यतेऽ; इति तत्सिद्धमित्यर्थः ।
॥ इति श्रीमन्न्यायसुधायां न विलक्षणत्वाधिकरणम् ॥
व्यास -(15)
[======= ज्न्य्स्_2,1.इइइ: अभिमान्यधिकरणम् =======]
*6,1*
॥ अथ श्रीमन्न्यायसुधायां चतुर्थो भागः (अभिमान्यधिकरणम्) ॥
॥ ओं अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ओं ॥
युक्त्यन्तरविरोधं वेदस्य परिहर्तुमिदमारभ्यते ।
स्यादेतत् ।
युक्तिविरोधाः किं प्रत्येकं परिहरणीयाःऽ; उतोपलक्षणया ।
नाद्यः ।
निरसनीययुक्त्याभासानन्त्येन शास्त्रापर्यवसानप्रसङ्गात् ।
सूत्रत्वव्याघाताच्च ।
द्वितीये त्वनारम्भ एवास्याधिकरणस्य ।
निरन्तरातीताधिकरणेनैवोपलक्षणया सकलयुक्तिविरोधानां परिहृतत्वादिति ।
मैवम् ।
अभ्यधिकशङ्कासद्भावेन तदुपपत्तेरित्याशयवान्पूर्वपक्षं तावदाह- तथापीति ॥
अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम्

2.1.62

तथापि मृज्जलादीनां बुद्धिवागादिवाचकः ।
दृष्टव्याप्तिविरुद्धत्वात् तत्र मानं कथं भवेत्

2.1.63

यद्यपि फलव्यभिचारादिविरोधो वेदस्य परिहृतस्तथापीत्यर्थः ।
मृज्जलादीनामित्यादिपदेन तेजःप्रभृतीनां ग्रहणम् ।
बुद्धिर्ज्ञानं, वाग्वक्तृत्वज्ञ् ।
आदिग्रहणेन श्रोतृत्वादिकम् ।
वेद इत्यनुवर्तते ।
दृष्टा प्रमिता व्याप्तिर्यस्या युक्तेः सा तथोक्ता ।
व्याप्तिग्रहणं पक्षधर्मताया अप्युपलक्षणम् ।
क्वचित्तन्नियमानभ्युपगमात्स्वशब्देनासङ्कीर्तनम् ।
तया विरुद्धत्वात् ।
तत्र मृज्जलादीनां बुद्धिवागादौ ।
कथमित्याक्षेपे ।
प्रतिपाद्यान्तरं तु नास्त्यप्रतीतेरिति शेषः ।
*6,3f.*
एतदुक्तं भवति ।
"मृदब्रवीत्, आपो ऽब्रुवन्, तत्तेज ऐक्षत, ता आप ऐक्षन्त, ऋणोत ग्रावाणो, विदुषो ऽनुप्राणाः, अहं श्रेयसि व्यूदिरे, आपो वा अकामयन्तऽ; इत्यादिवेदस्तावन्न प्रमाणम्, युक्तिविरुद्धार्थाभिधायित्वात्, नीलं नभ इतिवत् ।
मृज्जलादीनां बुद्धिवागादिमत्त्वं खल्वस्यार्थः ।
स च, विमता मृन्न वक्त्री मृत्त्वात्सम्प्रतिपन्नमृद्वदित्यादियुक्तिविरुद्धः ।
तथाच वेदवाक्यान्तरे ऽप्यप्रामाण्यमनुमास्यते ।
*6,4*
ननु"न विलक्षणत्वात्ऽ; इत्यनेनैव न्यायेनायमपि विरोधः परिहरणीयः ।
मैवम् ।
(तन्न्या)न्यायसञ्चाराविषयत्वात् ।
तत्र हि यथोक्तानुष्ठाने ऽपि फलव्यभिचारश्चेद्धेतुः तदाऽपाततस्तावत्सन्दिग्धविशेषणासिद्धिः ।
कर्त्रादिवैगुण्यस्यापि सम्भवात् ।
नित्यत्वेन वेदप्रामाण्यस्य स्थितौ तु विशेषणासिद्धिनिश्चय एव ।
फलव्यभिचारमात्रस्य हेतुत्वे तु अनैकान्तिकत्वमित्येवं व्याप्तिपक्षधर्मताविरहव्युत्पादनेन युक्तिविरोधः परिहृतः ।
न चास्या युक्तेर्व्याप्त्याद्यङ्गवैकल्यं सम्बद्धम् ।
प्रसिद्धमृदादौ तथोपलम्भात् ।
नच तत्रापि बुद्धयादिसद्भावः, कदापि तत्कार्यस्यादशर्नात् ।
नापि सम्बद्धमपि व्यभिचीर्णम् ।
व्यभिचारानुपलम्भात् ।
नचानुपलम्भमानव्यभिचारमपि सोपाधिकम्, उपाधेरनिरूपणात् ।
बुद्धयादिमत्त्वे च मृदादीनां शरीरेन्द्रियवत्तापि स्यात् ।
अकरणकक्रियादर्शनात् ।
नच तद्युक्तमिन्द्रियादीनामपि वक्तृत्वादिवददर्शनात् ।
ततो ऽनुकूलतर्कसनाथेनोपाधिव्यभिचारानुपलम्भसहकृतेन सहभागग्राहकेण प्रमाणेन सिद्धा मृत्त्वादीनामवक्तृत्वादिना व्याप्तिः ।
नच मृदादिषु मृदादित्वं(मृत्त्वादिकं) नास्तीति युक्तम् ।
व्याघातात् ।
मृदब्रवीदित्यादिप्रयोगाच्च ।
ततः पक्षधर्मतापि सिद्धैवेति ।
*6,8*
ननु च नित्यतया वेदस्य प्रामाण्ये व्यवस्थिते तद्विरुद्धाया युक्तेरेवाप्रामाण्यमुचितमिति ।
मैवम् ।
व्याप्तिपक्षधर्मतोपेताया युक्तेरपि निरवकाशत्वात् ।
ततश्च सत्प्रतिपक्षतया निश्चायकत्वाभावेनाप्रामाण्यं वेदस्य ।
ननु प्रसिद्धमृदादिपक्षीकारे सिद्धसाधनता ।
पक्षसपक्षभेदाभावश्च ।
सपक्षान्तरस्वीकारे तत्र मृत्त्वाद्यभावः ।
जडत्वस्य हेतूकरणे त्वसिद्धिः स्यात् ।
तस्मादादिकालीनं मृदादिकं पक्षयितव्यम् ।
नच तत् प्रत्यक्षादिसिद्धमिति वेद एवोपजीव्यः ।
तथाच धर्मिग्राहकप्रमाणविरोधादप्रामाण्यं युक्तेरिति चेन्न ।
व्याप्त्यादिमत्यास्तदसम्भवात् ।
आदिकालीनमृदादिस्वरूपपरवाक्यान्तरेणपरिदृश्यमानकार्यलिङ्गेन धर्मिग्रहोपपत्तेः ।
एतेन वैदिके ऽर्थे युक्तेरवकाशाभावान्न तद्विरोधकत्वमित्यपास्तम् ।
तदेवं मृदब्रवीदित्यादिवेदवाक्यानां युक्तिविरुद्धत्वेनाप्रामाण्ये वेदत्वात्"यतो वा इमानि (भूतानि)ऽ; इत्यादिवाक्यानामप्यप्रामाण्यान्न वेदसमन्वयेन ब्रह्मणो जगत्कारणत्वसिद्धिरिति ।
*6,13*
सिद्धान्तमाह- तत इति ॥
ततस्तन्नामकः कश्चित् पुमानन्यो भवेदिति ।
युक्तयागमाविरोधेन प्राप्तमत्राभिधीयते

2.1.64

वेदस्य युक्तेश्च निरवकाशत्वं तत इति परामृशति ।
तन्नामको मृदादिनामकः कश्चिदिति अस्मदाद्यतीन्द्रियत्वमभिप्रैति ।
पुमांश्चेतनो ऽन्यो ऽस्मदादिविलक्षणो ऽन्तर्धानादिशक्तिमान्भवेत् ।
अस्यां श्रुतौ वक्तृत्वादिना प्रतिपाद्यत इति शेषः ।
इतिशब्दस्य प्राप्तमित्यनेनान्वयः ।
प्राप्तं प्रमितम् ।
युक्त्यागमविरोधेनेत्यर्थापत्तिं सूचयति ।
ततश्चायमर्थः ।
न मृदब्रवीदित्यादिवाक्यानां युक्तिविरोधेनाप्रामाण्यं वक्तव्यम् ।
अत्र मृदादिशब्दस्य चेतनविषयत्वात् ।
तथाच तत्पक्षीकारे हेतोरसिद्धेः ।
शब्दमात्रेण हेतुत्वे अतिप्रसङ्गात् ।
अचेतनमृदादिपक्षीकारे च प्रकृताविरोधात् ।
ननु कथं चेतनेषु मृदादिशब्द(प्र)वृत्तिः ।
अभिधानशक्त्येति ब्रूमः ।
मृदाद्यभिमानित्वात् ।
पृथिव्यादिषु तदभिमतत्वेन मृदादिशब्दप्रवृत्तिः ।
नन्वेते ऽभिमानिनः किमभिमतार्थव्यापिनस्तदेकदेशवृत्तयो वा ।
आद्ये(ऽपि) सदेहा विदेहा वा ।
आद्ये तदुपलम्भप्रसङ्गः ।
द्वितीये तेषामिन्द्रियाभावेन वक्तृत्वाद्यनुपपत्तौ पुनर्युक्तिविरोधतादवस्थ्यम् ।
तृतीये तद्वैयर्थ्यम् तदनधिष्ठितप्रदेशवत् प्रदेशान्तरप्रवृत्तिसम्भवादिति ।
मैवम् ।
व्यापकानां सदेहानामपि पिशाचादिवदन्तर्धानशक्तियोगाददृश्यत्वोपपत्तेः ।
*6,16*
नन्वेवं सति कल्पनागौरवमापद्येत ।
केषाञ्चिच्चेतनानां मृदाद्यभिमानित्वं ततस्तच्छब्दानां तेषु वृविर्व्यापकत्वं सदेहत्वमन्तर्धानशक्तिस्तत्परता च श्रुतेरित्यनेकस्य कल्प्यमानत्वात् ।
मैवम् ।
अर्थापत्तितः सर्वस्यास्य सिद्धत्वात् ।
श्रुतिर्हि मृदादीनां वक्तृत्वादिकं प्रतिपादयति, युक्तिश्च तदभावम् ।
न(च)वास्तवो विरोधः सम्भवति ।
वस्तुविकल्पापत्तेः ।
नचायं विरोधो विनैतत्कल्पनया शाम्यति ।
जडस्वीकारे युक्तिविरोधात् ।
अनभिमानिस्वीकारे च पृथक् शब्दशक्तौ प्रमाणाभावात् ।
अव्यापकत्वाद्यङ्गीकारे चोक्तानुपपत्तेः ।
नच श्रुतियुक्त्योरन्यतराप्रामाण्येनाप्युपपद्यत एतदिति वाच्यम् ।
उक्तरीत्या द्वयोरपि निरवकाशत्वात् ।
नहि परेणापि विद्वेषेणैवागमाप्रामाण्यमभिधातुं युक्तम् ।
किन्नामोपपत्तिमाश्रित्यैव ।
तथाच कथं वेदप्रामाण्ये ऽपि न दीयते दृष्टिः ।
तदेवं युक्त्यागमविरोधेनास्यार्थस्य प्राप्तत्वान्न किञ्चित्कल्पनागौरवमिति ।
नन्वेतदुत्सूत्रितं कथमुच्यत इत्यत आह- अत्रेति ॥
*6,16f.*
इत्युक्तमेतत्सर्वम् अत्र"अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामितिऽ; सूत्रे ऽभिधीयत इत्यर्थः ।
यद्वात्राभिधीयत इति सिद्धान्तोपक्रमवाक्यम् ।
तस्यैवं प्राप्ते सूत्रकृता समाधानमभिधीयत इत्यर्थः ।
एवं सूत्रमवतार्य तत इत्यादिना व्याख्यातमिति ।
*6,18*
यदुक्तं तन्नामक इति मृदादिशब्दवाच्यत्वं देवतायास्तदनुपपन्नम् ।
अयोगादनुयोगाच्च ।
मृदादिशब्दाः खल्वचेतनेष्वेव रूढाः ।
न देवतायाम् ।
लक्षणाश्रयणेनापि श्रुतियुक्तिविरोधशान्तिर्भविष्यति ।
नापि वचनवृत्तिं सूत्रकृदाहेत्यत आह- बालरूढिमिति ॥
बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात् ।
तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः

2.1.65

सन्ति ...
*6,19*
एते पृथिवीवरुणादयस्तत्तन्नामान एव सन्ति ।
तानि तानि मृदादीनि नामानि वाचकानि येषां ते तथोक्ताः ।
नतु तानि लक्षकाणीत्येवशब्दार्थः ।
सन्ति भवन्ति ।
अयोगपरिहाराय उक्तम्- बालेति ॥
अविद्वद्रूढ्यभावे ऽपि विद्वद्रूढिसद्भावात् ।
मृदादिशब्दास्तावद्देवताविषया इत्यर्थापत्तिसिद्धम् ।
मुख्यासम्भव एव च जघन्यवृत्तिराश्रयणीया ।
नचात्र बाधकमस्तीति वैदिकप्रयोगादेव बाधकाभावसहिताद्विद्वद्रूढिरवगम्यते ।
यच्चोक्तं वचनवृत्त्यङ्गीकारः प्रकृतानुपयोगीति तत्परिहारायोक्तं तत्तन्मृदादिवस्त्वभिमानिन इति ।
अयमर्थः ।
मृदादिशब्दानां चेतनविषयतामात्रेण प्रकृतविरोधशान्तावपि वस्तुस्थितिं विजिज्ञापयिषता सूत्रकारेण व्यपदेशस्त्विति तुशब्देन मुख्यवृत्तिः सूचिता ।
तत्रोपपत्तिज्ञापनायाभिमानीति चोक्तम् ।
अन्यथा चेननव्यपदेश इत्यवक्ष्यत् ।
अभिमानी खल्वभिमतस्य सत्तादेः प्रयोजकः ।
ततश्च तदधीनत्वादिति न्यायेन स एव (तन्मु)मुख्यार्थ इति ।
तदेतत् अस्माभिः सूत्रं व्याकुर्वद्भिरभिहितमिति ।
नन्वत्र तन्नामक इत्येकवचनं प्रक्रम्य तत्तन्नामान इति बहुवचनप्रयोगे किन्निमित्तम् ।
तथा भाष्ये ऽपि"अभिमानिदेवता तत्र व्यपदिश्यते ।
तासां चऽ; इत्यादि ।
उच्यते ।
अ(त्रा)भिमानिव्यपदेश इत्यभिमानिशब्दो ह्येकवचनान्तः समस्तः ।
व्यपदेशशब्दस्यैकवचनान्तत्वात् ।
नहि बहूनामेको व्यपदेश इति सम्भवति ।
उत्तरसूत्रे चैकवचनमेव ।
अतो यथासूत्रं प्रथमं व्याख्यातम् ।
अथेदानीं प्रा(प्रमा)णसंवादिघटनाय जाताविदमेकवचनमित्याशयवता बहुवचनं प्रयुक्तमिति ।
*6,23*
अभिमानिनां प्रादेशिकत्वविदेहत्वयोर्वैयर्थ्यवक्तृत्वाद्यनुपपत्ती ।
व्याप्तानां सदेहत्वे ऽनुपलम्भबाध इत्येतत्परिहाराय विशेषानुगतिभ्यामिति सूत्रखण्डं कश्चिदन्य इति तात्पर्यतो व्याख्यातम् ।
तत्प्रपञ्चयति- तेषामिति ॥
... तेषां विशेषेण शक्तिरन्येभ्य उच्यते
विशेषेणातिशयेन ।
अन्येभ्यो ऽस्मदादिभ्यः ।
व्याप्तिश्चोच्यत इति सम्बन्धः ।
देहवत्त्वस्याप्युपलक्षणमेतत् ।
यद्यप्येतत्सर्वमर्थापत्त्यैव लब्धम् ।
अन्यथा विरोधशान्तेरेवापयर्वसानात् ।
तथाप्युच्यत इति पृथिव्याद्यभिमानिन्य इत्यागममप्यत्र संवा(दयति)दिनं दर्शयति ।
यद्यप्यत्राकाङ्क्षानुसारेण व्याप्तिमादावुक्त्वा शक्तिविशेषो ऽनन्तरमभिधातव्यः ।
तथाप्यल्पाच्तरस्य पूर्वनिपातमनुसृत्य प्रवृत्तं सूत्रमनुगच्छता क्रमो भग्नः ।
*6,24*
ननु च पृथिव्याद्यभिमानिन्य इति वाक्यं कथमुपादेयम् ऽआत्मनि चैवं विचित्राश्च हिऽ, उत्क्रान्तिगत्यागतीनामित्याद्यागामिसूत्रेणाचिन्त्यशक्तेः सर्वगतत्वस्य च विरुद्धत्वादित्यत आह उक्तानुसारेणेति ।
व्याप्तिश्चोक्तानुसारेण ...
आत्मनि चैवमित्याद्युक्तानुसारेण शक्तिर्व्याप्तिश्चोच्यत इत्यन्वयः ।
स्यादयं विरोधो यदि शक्तिर्व्याप्तिश्च निरवधिकात्रोच्यते ।
न चैवम् ।
प्रमाणान्तरानुसारेणान्तर्धानादिशक्तेरभिमतार्थव्याप्तेश्च प्रतिपाद्यताङ्गीकारादिति ।
*6,25*
एवमस्मदाद्यपेक्षयाभिमानिनामनुपलम्भमङ्गीकृत्य तद्बाधः परिहृतः ।
इदानीमसिद्धश्चासावित्याह- दृश्यन्ते चेति ॥
... दृश्यन्ते चाधिकारिभिः

2.1.66

अधिकारिभिरन्तर्हितार्थदर्शनसमर्थैर्योगिभिः ।
एतच्च (भाष्योदा) उदाहृतस्मृतिसिद्धम् ।
एतेन"दृश्यते चऽ; इति सूत्रं व्याख्यातं भवति ।
*6,26*
ये तु मीमांसकंमन्या विग्रहवती देवतां न सहन्ते ते ऽप्यनेनैव निरस्ता भवन्ति ।
अर्थापत्त्या प्रत्यक्षेण च तत्सिद्धेः ।
समर्थितं चागमानां सिद्धार्थे प्रामाण्यम् ।
अनुपलम्भः अनेकत्र युगपत्सन्निधानं च शक्तिविशेषादुपपद्यते पिशाचादिवत् ।
नच पिशाचादयो ऽपि न सन्ति ।
मन्त्रौषधादिनास्मदादिभिरप्युपलभ्यमानत्वात् ।
अर्थक्रियया संवादेन च प्रामाण्योपपत्तेः ।
वक्ष्यति च सूत्रकारो"देवादिवत्ऽ; इत्युक्त्वा तत्रापि विप्रतिपन्नं प्रति"अपि लोकःऽ; इति ।
किञ्चेन्द्राग्निवरुणादिपदं कस्यचिद्वाचकं पदत्वात् गोपदवत् ।
नचाचेतनमात्रे तत्प्रयोगो ऽस्ति ।
नच चेतनो मुक्तः प्रलीनो वा तद्वाच्यः ।
जगद्वयापारसम्बन्धिन्यपि प्रयोगात् ।
नचासौ विग्रहविधुरः सम्भवतीत्यलम् ।
*6,29*
ननु तथापि मृदब्रवीदित्यादिवेदस्याबोधकत्वलक्षणमप्रामाण्यं दुर्निवारम् ।
तथाहि ।
यद्यपि वाक्यतापन्नानि पदानि वाक्यार्थं पदार्थानामन्योन्यसंसर्गविशेषरूपमपूर्वमेवावगमयन्ति, तथापि पदार्थैर्वाच्यवाचकभावरूपसम्बन्धप्रतिपत्तिलक्षणां व्युत्पत्तिमपेक्षन्ते अन्वयव्यतिरेकाभ्यां तथावधारणात् ।
नच मृदादिशब्दानां पृथिव्यादिषु देवतासु व्युत्पत्तिस्सम्भवति ।
सम्बन्ध(ज्ञान)स्य सम्बन्धिज्ञानसापेक्षत्वात् ।
प्रतिसम्बन्धिरूपायाश्च देवतायाः प्रत्यक्षेण दुरधिगमत्वात् ।
लिङ्गाभावेनानुमानायोगात् ।
नच शब्दतस्तदवगमः ।
सत्यां व्युत्पत्तौ शब्दतो देवतागमः, सति च तस्मिन्व्युत्पत्तिरिति परस्पराश्रयत्वात् ।
नच शब्दविशेषस्यागृहीतसङ्गतिकस्यैव बोधकत्वम् ।
अदृष्टकल्पनाप्रसङ्गात् ।
यद्यपि दृश्यते चेत्युक्तम् ।
तथाप्यस्मदादीनां व्युत्पत्यनुपपत्तिरेव ।
देवतादर्शनं तु (च)योगिनां वेदार्थज्ञानोत्तरभावनाजन्यमङ्गीक्रियत इति न व्युत्पत्तिहेतुः ।
लक्षणापि वाच्यार्थदर्शनं विनानुपपन्नैवेत्यत आह- शास्त्रोक्तेति ॥
शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः
चशब्दो ऽप्यर्थः ।
एवशब्दः सामर्थ्याच्छास्त्रशब्देन सम्बन्धनीयः ।
शास्त्रैकसमधिगम्यवस्तुन इति ।
प्रत्यक्षाद्यगम्याया अपि देवताया इति यावत् ।
वस्तुनो व्युत्पत्तिरति मृदादिशब्दस्य तत्सम्बन्धिवाचकत्वप्रतिपत्तिरित्यर्थः ।
युज्यत इति शेषः ।
अनेन च एवशब्दस्य सम्बन्धः ।
शास्त्रलिङ्गतस्तज्ज्ञानसम्भवादिति शेषः ।
*6,33f.*
यद्वा शास्त्रोक्तवस्तुनो ऽपि शास्त्रलिङ्गतो ऽधिगतिसम्भवात्तत्र शब्दस्य व्युत्पत्तिर्युज्यत इति योजना ।
देवताया
इति वक्तव्ये शास्त्रोक्तवस्तुनश्चेति वचनं शङ्कानुवादरूपम् ।
शास्त्रमेव लिङ्गं शास्त्रलिङ्गम् ।
मृदब्रवीदित्यादिशास्त्रादेवोपपत्तिविरोधसहितान्मृदादिशब्दवाच्यतयैव देवतास्वरूपमवगम्यत इति ।
*6,34*
यद्वा शास्त्रं तैस्तैः प्रणीतं तत्सद्भावे लिङ्गम् ।
नहि वेदादन्यद्वाक्यं वक्तारमन्तरेणोपपद्यते ।
ततश्च वचनलिङ्गानुमिते वक्तरि वृद्धैरन्यान्प्रति मृदादिशब्दाः शक्यव्युत्पादनाः ।
यद्वा शास्त्रं शासनम् ।
वर्षणाद्युपलक्षणमेतत् ।
नहि वर्षणादिक्रिया विकर्तृका सम्भवति ।
तथाच तयानुमिते कतर्रि शक्य(त)न्त एव वृद्धैः श(ब्दो)ब्दा व्युत्पादयितुम् ।
अथवा शास्त्रोक्तं लिङ्गमव्यभिचरितो धर्मः शास्त्रलिङ्गम् ।
पाशहस्तत्वसहस्राक्षत्वादिशास्त्रोक्ततत्तद्देवतालक्षणान्युपादाय व्युत्पादनं शक्यमेव ।
यथा खलु लोके यथा मुद्गस्तथा मुद्गपर्णी, यथा माषस्तथा माषपर्णी, दीर्घग्रीवादिमान्पशुरुष्ष इति लक्षणान्युपादाय मुद्गपर्णीत्यार्(ण्या)दिशब्दा व्युत्पाद्यन्ते, तथा यः पाशहस्तत्वादिमान्सो ऽबादिशब्दार्थ इति व्युत्पादनं सुवचन(कर)मेव ।
पाशादिशब्दास्तु लोकत एव गृहीतसङ्गतयः ।
समासस्य वाक्यत्वेन व्युत्पत्त्यनपेक्षत्वमिति न कश्चिद्विरोधः ।
न केवलं मृदादिशब्दानामयं व्युत्पत्तिप्रकारः ।
किन्नामातीन्द्रिये धर्मादावपि ।
ततश्चैवं वेदप्रामाण्यमाक्षिपतो ऽतीन्द्रियाथर्व्यवहारमात्रविलयप्रसङ्ग इति सूचयितुं शास्त्रोक्तवस्तुनश्चेति सामान्येनोक्तम् ।
*6,36*
एवं तर्हि कुटिलिकेयं व्युत्पत्तिर्दुबर्ला ।
साक्षात्कृते तु मृदादावेव प्रबला ततश्च देवतानां मुख्यप्रतिपाद्यत्वमित्ययुक्तम् ।
किन्तु मृदादीनामेव ।
व्युत्पत्त्यनुसारित्वात्प्रतिपादनस्येत्यत आह- व्युत्पत्तिरिति ॥
व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तिता हि यत्

2.1.67

*6,36f.*
सेति ।
या विदितशब्दशक्तिभिर्वृद्धैः शास्त्रलिङ्गतः सम्पादिता ।
मूर्खैरविदितशक्तिभिर्व्युत्पादिता ।
व्युत्पत्तिर्मूर्खव्युत्पत्तिः ।
हिशब्दो हेतुसूचकः ।
नहि व्युत्पत्तिविषयस्य परोक्षत्वमपरोक्षत्वं च व्युत्पत्तेर्दैर्बल्ये प्राबल्ये च कारणम् ।
अपि तर्हि व्युत्पादकस्य (शब्द)शक्तितत्त्वज्ञत्त्वम् ।
तदनुसारेण व्युत्पादनं प्राबल्ये, अन्यत्तु दौर्बल्ये ।
अन्यथैखण्डे साक्षात्कृते चन्दनशब्दस्य व्युत्पत्तिः प्रबला ।
लिङ्गतो ऽपि ज्ञापिते चन्दने दुबर्लेति स्यात् ।
अस्ति चेदं कारणं प्रकृते ।
इतीयमेव प्रबला नेतरेति ।
यत् यस्मादे(वं)वैतत् तस्मात्तत्तन्नामान एवैत इति पूर्वेण सम्बन्धः ।
*6,38*
नन्वेतदयुक्तम् ।
यद्युक्तिविरोधेन वेदस्य स्वार्थात्प्रच्यावनम् ।
तस्य सकलप्रमाणापेक्षया च प्राबल्यम् ।
यत्क्वचित्स्वार्थात्प्रच्यावनं तदुपजीव्यविरोध एव ।
नचात्र तथेत्यत आह- दृढेति ॥
दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः

2.1.7

विरोधे वेदस्येति शेषः ।
अयं भावः ।
श्रुतेरर्थप्रच्यावनस्यायुक्ततां वदतः को ऽभिसन्धिः ।
किं विरुद्धयोरेवाप्रामाण्यमुतागमविरुद्धाया युक्तेरप्रामाण्यम् ।
नाद्यः ।
वस्तुविकल्पप्रसङ्गात् ।
न द्वितीयः ।
व्याप्तिपक्षधर्मतोपेतायास्तदयोगात् ।
कथं तर्ह्युपजीव्यविरोधे त्वित्याद्युक्तमिति चेत् ।
उपलक्षणत्वेनेति ब्रूमः ।
उपजीव्यं खलु नोपजीव्यमित्येव बाधकम् ।
किन्तु प्रबलत्वेन ।
तद्यदि युक्त्यन्तरस्यापि स्यात्तदा कुतो न बाधकतेति ।
यद्वाधिकरणोपाधिमनेनाह ।
न केवलमत्रोदाहरणे ।
किन्तु सर्वत्रापि वेदवाक्ये प्रमितव्याप्तिपक्षधर्मतावद्यक्तिविरोधे सतीदृश एवान्यथार्थस्वीकारेण विरोधपरिहारो न्यायः प्रकारो द्रष्टव्य इति ।
[======= ज्न्य्स्_2,1.इव्: असदधिकरणम् =======]
*6,40*
॥ ओं असदिति चेन्न प्रतिषेधमात्रत्वात् ओं ॥
ननु च(चा)नारम्भणीयमेवेदमधिकरणम्"न विलक्षणत्वात्ऽ; इत्यनेनैव वेदस्य सकलयुक्तिविरोधानां परिहृततत्वात्, दृढयुक्तिविरोधपरिहारस्य चाभिमान्यधिकरणन्यायसिद्धत्वात्, इत्यतो गतार्थतां परिहरन्नधिकरणस्योपाधिमा(प्या)ह- अल्पवाक्येति ॥
असद् इति चेन् न प्रतिषेधमात्रत्वात्

2.1.67

अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी

2.1.68

यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ।
विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः

2.1.69

*6,41*
यत्र यदा वेदस्य वाक्ययुता युक्तिर्विरोधिनी स्यात्, तत्र तदा, वस्तुनिर्णयः कथं स्यात् इति पूर्वपक्षिणेरिते सति तद्विरोधियुक्तीनां बाहुल्यात् प्राबल्यात् वस्तुनिर्णयो भवेदिति सिद्धान्तः ।
इत्येषो ऽत्राधिकरणे न्यायो विनिश्चितः ।
एतदुक्तं भवति ।
पूर्वाधिकरणे प्रत्यक्षादिगृहीतव्याप्त्यादिमत्त्वेन दृढया युक्त्या विरुद्धत्वाद्वेदैकदेशस्याप्रामाण्ये सति तद्दृष्टान्तेन ब्रह्मणो जगत्कारणत्वाभिधायकस्यापि वेदस्य वेदत्वादप्रामाण्ये तदसिद्धिरिति पूर्वः पक्षः ।
सिद्धान्तस्तु युक्तिवद्वेदस्याप्यपौरुषेयत्वेन दृढत्वात् वास्तवविरोधस्यानुपपत्तेः अविरुद्धाथर्कल्पनोपपत्तेः नाप्रामाण्यमिति ।
*6,42*
इह पुनर्वेदवाक्यान्तरसंवादेन सुदृढया युक्त्या विरुद्धत्वाद्ब्रह्मणो जगत्कारणत्वाभिधात्रीणां श्रुतीनामेव तत्र प्रामाण्यानुपपत्तौ प्रथमाध्यायोक्तवस्तुनिर्णयो न भवेदिति पूर्वः पक्षः ।
सिद्धान्तस्तु ।
पूर्वपक्षिणोत्प्रेक्षिताभ्यः श्रुतिसहितयुक्तिभ्यो ऽपि प्रबलानां तद्विरोधियुक्तीनां सद्भावात्तद्विरुद्धानां पूर्वपक्षश्रुतियुक्तीनामप्रामाण्यादुपपन्नतरः प्रागुक्तो ऽर्थ इति ।
अतः पूर्वोत्तरपक्षन्याययोरगतत्वेन युक्तो ऽधिकरणारम्भ इति ।
एतच्चानुपदमेवोदाहरणेन प्रपञ्चयिष्यामः ।
*6,43*
नन्वेवं सति श्रुतीनां श्रुतियुक्तिविरोधपरिहारो ऽस्याधिकरणस्यार्थ इत्युक्तं भवति ।
सो ऽयं चतुर्थपादार्थ एवेति तत्रैवास्याधिकरणस्योपनिबन्धनमुचितम् ।
नात्रेत्यतो ऽस्य ततो ऽपि वैलक्षण्यं दर्शयितुमुक्तमल्पेति, बहुलेति च ।
अत्राल्पत्वमुपसजर्नत्वम्, बहुलत्वं (च) प्रधानत्वमिति ज्ञातव्यम् ।
एवशब्दस्तु"न गुणप्रधानभावव्यत्यासश्चतुर्थपाद इवऽ; इत्यर्थे ।
*6,44*
ननु श्रुतियुक्तिभ्यां पूर्वपक्षिते कथं प्रबलयुक्तिमात्राश्रयेण सिद्धान्तः ।
कथञ्चित्प्रतिपक्षतामात्रसम्भवादित्यत उक्तं विवृण्वन्नाह- युक्तेस्त्विति ॥
युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च ।
कथं न निर्णयं कुर्याद् ... ॥ मनुव्_2,1.69अ-च् ॥
पूर्वपक्षयुक्त्यपेक्षया विरोधियुक्तेर्बाहुल्यम् ।
तथा पूर्वपक्षागमापेक्षया विरोध्यागमस्य च बाहुल्यं कथं निर्णयं न कुर्यात् ।
पूर्वपक्ष्युत्प्रेक्षितयुक्त्यागमाभ्यां प्रबलौ विरोधियुक्त्यागमौ तद्बाधया वस्तुव्यवस्थां कुरुत इत्यर्थः ।
कुर्यादिति प्रत्येकं सम्बन्धः ।
न केवलं सिद्धान्ते प्रबलयुक्तिमात्रं, किन्नाम प्रबलागमो ऽप्यस्तीति भावः ।
इति अतः, अधिकरणारम्भः सम्भवतीति शेषः ।
अधिकरणोपाधिव्युत्पादनसमाप्तिद्योतको वा इतिशब्दः ।
*6,47*
तदिदमुदाहरणनिष्ठं व्युत्पादयितुं पूर्वपक्षमनुवदति सूत्रकारः- असदिति चेदिति ॥
अयमस्यार्थः ।
न ब्रह्मणो जगत्कर्तृत्वं युक्तम् ।
प्रमाणाभावात् ।
"सदेव सोम्येदमग्र आसीत्तत्तेजो ऽसृजतऽ; इत्यादिश्रुतिरस्तीति चेन्न ।
तस्या युक्तिविरुद्धत्वेन भवदभिमतार्थे प्रामाण्याभावात् ।
तथाहि ।
महाप्रलये तावदुत्पत्स्यमानकार्यप्रागभावो ऽवश्यमङ्गीकरणीयः ।
अन्यथा सर्गादौ
कार्योत्पादायोगात् ।
नचास्यान्यत्र चरितार्थतोपलभ्यते ।
ततश्च स एव सकलकार्यकारणं भविष्यति ।
अयमत्र प्रयोगः ।
महाप्रलयवर्ती कार्यप्रागभावो महदादिकायर्कारणं भवितुमर्हति, अन्यत्रानुपक्षीणत्वे सति नियमेन तत्पूर्वभावित्वात्, यो ऽन्यत्रानुपक्षीणत्वे सति नियमेन य(तः)त्पूर्वभावी, स तस्य कारणम्, यथा कुविन्दः पटस्येति ।
महदादिकं वा प्रागभावकार्यम् अनन्यथासिद्धनियतपश्चाद्भावित्वात्, यत् यदनन्यथासिद्धनियतपश्चाद्भावि तत् तत्कायर्म् ।
यथा पटः कुविन्दस्येति ।
नन्वत्र जगत्प्रागभावस्य जगत्कारणत्वमात्रं वा साध्यम्, अन्ययोगव्यवच्छेदेन वा ।
आद्ये ऽर्थान्तरता, प्रागभावस्य कारणत्वे ऽपि ब्रह्मकारणतासम्भवात् ।
द्वितीये व्याप्त्यभावः ।
न हि"यो यदपेक्षया पूर्वभावी, स एव तत्कारणं, नान्यःऽ; इति नियमो ऽस्ति ।
ततः प्रागभावस्य जगत्कारणत्वे ऽपि तत्समानन्यायानामीश्वरादीनामपि तत्कारणत्वमङ्गीकार्यमिति ।
मैवम् ।
स्यादेतदेवम् यदीश्वरादीनां प्रलये सत्त्वमेव स्यात् ।
नचैतदस्ति ।
सिद्धान्तिना कारणत्वेनाशास्यमानमीश्वरादिकं प्रलये ऽसद्भवितुमर्हति भावत्वान्महदादिकार्यवदिति युक्तिवि(रुद्धत्वतात्)रोधः ।
एवञ्च(ञ्चेदी) ईश्वरादीनां प्रलये ऽसत्त्वसिद्धौ प्रागभावस्य कारणत्वमात्रसाधने ऽपि तस्यैव कारणत्वमिति सिद्धयति ।
ननु च यत्कार्यं तत्सकर्तृकमिति नियमान्महदादिकर्तृत्वेनेश्वरो ऽवश्यमङ्गीकरणीयः ।
न ।
प्रलये तत्सत्ता(त्त्वा)ऽभावस्य प्रमितत्वेन प्रागभावस्यैव जगत्कर्तृत्वोपपत्तेः ।
न चैतदनुमानजातमुदाहृतश्रुतिविरुद्धत्वेनाप्रामाण्यमिति साम्प्रतम् ।
"असदेवेदमग्र आसीत् ।
तदसदेव सन्मनो ऽकुरुत ।
असतः सदजायतऽ; इत्यादिश्रुतिसंवादित्वेन श्रुतिमात्रतः प्राबल्यात् ।
प्रबलयुक्तिविरुद्धायाश्च श्रुतेः स्वार्थपरित्यागस्यातीताधिकरणे स्थितत्वात् ।
प्रागभावस्यापि स्वरूपसत्त्वादिना सदेवेत्यादिप्रयोगविषयतद्वोपपत्तेः ।
*6,47f.*
ननु"एतेन सर्वेऽ; इत्यसदादिशब्दानां ब्रह्मार्थत्वमुक्तम् ।
तत्किं शब्दानामन्यत्र शक्तिरेव नास्ति, किं वा श्रुतेस्तत्र तात्पर्याभावः ।
नाद्यः ।
समाकर्षाङ्गीकारात् ।
न द्वितीयः ।
युक्त्युपतायास्तत्र तात्पर्योपपत्तेः ।
तथापि प्रागभावस्यैव कारणत्वं कर्तृत्वं च न क्वाप्युपलब्धमिति चेन्न ।
अलौकिकार्थस्य यथागमं ग्राह्यत्वात् ।
सन्ततोत्पत्तिप्रसङ्गस्तु ब्रह्मवादिनो ऽपि समानः ।
इच्छादिकारणानां कादाचित्कत्वेन तत्समाधानं ममापि समानम् ।
अत एव श्रुतिराह"तन्मनो ऽकुरुतऽ; इति ।
तत् तस्मात्, तत्तत्प्रागभावस्यैव तत्तत्कर्तृत्वादुक्तमयुक्तमिति ।
तदिदमुक्तम्- असदिति ॥
अभावः श्रुत्या जगत्कर्तृत्वेनोच्यते ।
अनुमीयते च तथा ।
तस्मात्स एव जगत्कर्तेति ।
अत्रासच्छब्दो भावसाधनः श्रुत्यनुगमार्थमभावे प्रयुक्तः ।
*6,54*
अपरापि वृत्तिः ।
भावत्वहेतुना कार्यवदीश्वरादिकमपि प्रलये ऽसदनुमीयत इति ।
अत्रासच्छब्दः कर्तृसाधनः ।
इह प्रथमां वृत्तिमभिप्रेत्य नेति सिद्धान्तांशं व्याचष्टे(व्याख्याति)- असदिति ॥
... इत्यसत् कारणं न हि

2.1.70

श्रुत्यर्थो भवति ...
अभाव इत्यर्थः ।
कारणमिति तद्विशेषः कर्तोच्यते ।
हीत्यनेनेदमाह ।
उपपत्तिविरुद्धस्तावन्न वेदाथर्ः सम्भवति, तदविरुद्धे ऽर्थे सम्भवतीत्युक्तम् ।
प्रकृतश्चोपपत्तिविरुद्धः ।
तथाच वक्ष्याम इति ।
श्रुत्यर्थो न भवतीत्युपलक्षणम् ।
अनुमानप्रमेयमपीदं न भवत्युपपत्तिविरुद्धत्वादित्यपि द्रष्टव्यम् ।
किञ्च सम्भावित एव श्रुत्यर्थो वक्तव्यो ऽनुमातव्यश्च ।
नचैवं प्रकृतः ।
क्वाप्यभावस्य कर्तृत्वानुपलम्भादित्याह- क्वापीति ॥
... क्वापि ...
असत्कारणं न ह्यनुपलब्धमित्यनुवर्तते ।
*6,60*
चतुर्थपादस्याधिकरणस्य वैलक्षण्यं दर्शयितुमल्पेत्याद्युक्तम् ।
तदविशदम् ।
वैलक्षण्यज्ञानस्योभयस्वरूपज्ञानाधीनत्वात् ।
अतश्चतुर्थपादार्थं दर्शयति- श्रुतीति ॥
... श्रुतिप्रायोपपत्तिभिः

2.1.71

श्रुतीनां प्रायो बाहुल्यम् ।
तत्सहिताभिरुपपत्तिभिः ।
श्रुतिप्रधानकोपपत्तिभिरिति यावत् ।
अविरोधो विरोधाभावः ।
श्रुतीनामिति शेषः ।
यद्वा श्रुतिप्रायशब्देन श्रुतिकल्पत्वमुच्यते ।
श्रुतिगृहीताभिरुपपत्तिभिरित्यर्थः ।
अत्र तु स्वतन्त्राभिरिति स्फुटमेव ।
अथवात्रोक्तार्थस्यैव तत्र प्रपञ्चनान्न दोषः ।
यथा प्रथमपादार्थप्रपञ्चनात् द्वितीयपादस्य इत्याशयेनोक्तं सम्यगिति ।
यद्वा क्वापीति अत्र सम्बद्धयते ।
तेन क्वाप्यध्यात्मलक्षणे विषये, अत्र त्वन्यत्रेति भेदः सूचितो भवति ।
यद्यप्येतत्प्रागेव वक्तव्यम् तथाप्यसत्कार्यमित्यादेर्वक्ष्यमाणस्य, सूत्रस्य व्याख्यानान्तरत्वद्योतनाय व्यवधानेनोक्तम् ।
अन्यथा पूर्वमेव व्याख्यानम्, इदं तु तदुपपादनायोपयोगीति विज्ञायेत ।
*6,63*
अथ द्वितीयां वृत्तिमभिप्रेत्य"असदिति चेन्नऽ; इत्येतावत्सूत्रं व्याचष्टे- असदिति ॥
असत् कार्यं यथा दृष्टं वस्तुत्वात् कारणं तथा ।
इति चेन्न ...
कार्यं महदादिकम् ।
यथा प्रलये ऽसत् प्रमितं तथा वस्तुत्वाद्भावत्वात्कारणं कारणत्वेन सिद्धान्तिनाङ्गीकृतमीश्वरादिकमपि(मिति)प्रलये ऽसद्भवितुमर्हतीत्यर्थः ।
कुतो नेति चेत् ।
न तावदस्मादेवानुमानादभावस्य विश्वकर्तृत्वसिद्धिः ।
किन्त्वनेन प्रलयावस्थायामीश्वराद्यभावसिद्धौ कार्यस्य सकर्तृकत्वनियमे स्थिते प्रागभावस्य नियतपूर्वभावित्वेन विश्वकारणत्वं सिद्धयन् कर्तृतयैव सेत्स्यतीति वक्तव्यम् ।
तदिदं प्रत्यनुमानपराहतमित्याशयवान् प्रतिषेधमात्रत्वदिति सौत्रं हेतुं व्याकुवर्न् साध्यमध्याहरति- निषेधेति ॥
... निषेधैकस्वरूपस्य न कर्तृता

2.1.72

निषेधैकस्वरूपस्येति हेतुगर्भविशेषणम् ।
अयमत्र प्रयोगः ।
विप्रतिपन्नो ऽभावो न कर्ता प्रतिषेधमात्रत्वात् निषेधैकस्वरूपत्वात् सम्प्रतिपन्नघटाभाववदिति ।
कर्तृत्वमात्रस्याभावे विश्वकर्तृत्वं दूरोत्सारितम् ।
नच दृष्टान्तः साध्यविकलः ।
अन्वयव्यतिरेकाभ्यां कुलालादेः कर्तृत्वनिश्चये तु अभावस्य तत्कल्पकाभावात् ।
*6,65*
नन्वस्तु निषेधैकस्वरूपत्वं, कर्तृत्वं च को विरोधः ।
तथाच घटाद्यभावस्याकर्तृत्वे ऽपि प्रलयकालीनो ऽभावः कर्ता भविष्यतीत्यतः कर्तृत्वनिषेधैकस्वरूपत्वयोविर्रेधं स्फोरयितुं कर्तृत्वस्वरूपमाह- बुद्धीति ॥
बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिह निश्चितम्
प्रवृत्तिः इच्छाप्रयत्नादिका ।
निश्चितं सर्वैरपि परीक्षकैः ।
वृक्षेण स्थीयत इत्यादौ कर्तृत्वं पारिभाषिकं न तु स्वाभाविकमिति हि सर्वे ऽपि प्रतिपन्नाः ।
अत्र बुद्धिपूर्वप्रवृत्तिरित्येतद्बुद्धया विविच्य व्याख्येयम् ।
तथाहि ।
स्यात्कर्तृनिषेधैकस्वरूपत्वयोरविरोधः, यदि तृतीयादिविषयत्वमेव कर्तृत्वं स्यात् ।
न चैतदस्ति ।
अपि तर्हि इच्छाप्रयत्नादिरूपा प्रवृत्तिरेव ।
सर्वैरपि परीक्षकैस्तस्या एव कर्तृत्वेन निश्चितत्वात् ।
प्रकरणाच्चैतदेव निश्चितम् ।
अत्रैव हि विप्रतिपत्तिर्नान्यत्र ।
सा चेयं प्रवृत्तिर्बुद्धिपूर्वा बुद्धिव्याप्ता ।
कार्यायाः प्रवृत्तेर्बुद्धिकारणकत्वात् ।
अकार्यायाश्च बुद्धिव्यभिचाराद्यदशर्नात् ।
नच कर्तृत्वापरपर्यायायाः प्रवृत्तेर्व्यापिका बुद्धिरभावे सम्भवति ।
ततो व्याप्यं कर्तृत्वमपि न सम्भवत्येवेति कथं कर्तृत्वनिषेधैकस्वरूपत्वयोर्न विरोध इति ।
अत्र कर्तृत्वानुवादेन बुद्धिपूर्वप्रवृत्तिरिति व्याख्यानान्निश्चितमिति नपुंसकोपपत्तिः ।
भावे वा क्तप्रत्यय इति ।
*6,68*
ननु मा भूदप्रयोजकत्वं हेतोः ।
तथापि वैयर्थ्यमपरिहायर्म् ।
अभावपर्यायो हि प्रतिषेधशब्दः, कर्तृत्वं च कार्योत्पत्त्यनुकूलेच्छादियोग इत्युक्तम् ।
नच प्रतिषेधत्वं कर्तरि वर्तते, येनाकर्तृकं व्यभिचरेत् ।
तन्निरासार्थं च विशेषणं सार्थकं स्यात् ।
अतः प्रतिषेधत्वादित्येतावताकर्तृत्वव्यभिचाराभावात्सूत्रे मात्रग्रहणं व्याख्याने ऽप्येकग्रहणं व्यर्थमित्यत आह- प्रतिषेधेति ॥
प्रतिषेधात्मकत्वं तु भावस्य- ...
भावस्यापि कुलालादेः कर्तुः प्रतिषेधात्मकत्वं विद्यते ।
अतः प्रतिषेधत्वादित्यु(त्येवो)क्ते कुलालादौ, अकर्तृत्वेन हेतोः, व्यभिचारः स्यात् ।
तत्परिहारार्थं मात्रग्रहणम् ।
तद्वयाख्याने (च) एकग्रहणं च सार्थकमिति ।
*6,70*
ननु कुलालादेर्भावस्य कथं प्रतिषेधात्मकत्वमित्यत आह- अभावेति ॥
... -अभावधर्मतः
अभावो ऽत्रान्योन्याभावो विवक्षितः ।
स धर्मो ऽस्येत्यभावधर्मा ।
तस्य भावस्तत्त्वम् ।
तत इति भावप्रधानो निर्देशः ।
अस्ति खलु कुलालादेर्भावस्य भेदापरपर्याय(ः)प्रतिषेधात्मकः अन्योन्याभावो धर्म इति ।
व्यास -(16)
नन्विदमसङ्गतम् ।
यः कर्ता धर्मी कुलालादिः न तस्य प्रतिषेधात्मकत्वम्, यश्च प्रतिषेधात्मको ऽन्योन्याभावो न तस्य कर्तृत्वमित्तय आह- धर्मेति ॥
धर्मधर्मैक्यतश्चैव ...
धर्मधर्मिणोः कुलालान्योन्याभावोरेकत्वतः ।
चशब्दो हेतुसमुच्चये ।
अभावधर्मतो धर्मधर्म्यैक्यतश्च प्रतिषेधात्मकत्वं भावस्यास्तीत्यन्वयः ।
एवशब्दो भेदव्युदासार्थः ।
अन्योन्याभावो हि धर्मिणात्यन्ताभिन्नो ऽभ्युपेयते ।
न त्वयावद्द्रव्यभावी धर्म इव भिन्नाभिन्नः ।
*6,71*
अस्त्वेवं प्रतिषेधत्वस्य कुलालादौ व्यभिचारस्तथापि कथं मात्रग्रहणस्य सार्थक्यम् ।
न ह्यविशिष्टव्यभिचार एव विशेषणं प्रयोजयति ।
तथात्वे विशेषणनियमानुपपत्तेः ।
किन्नाम विशेषणस्य व्यभिचारनिरासौपयिकत्वे सति ।
तदत्र कथमित्यत आह- न त्विति ॥
... नतु तन्मात्रता भवेत्

2.1.73

*6,72*
कुलालादेः कर्तुर्भावस्य प्रतिषेधत्वे ऽपि(धात्मकत्वे ऽपि)तन्मात्रता प्रतिषेधमात्रता न भवेत् ।
अतो ऽस्ति मात्रग्रहणस्य व्यभिचारपरिहारौपयिकत्वम् ।
तुशब्दो ऽवधारणे सन्दिग्धव्यभिचारपरिहारार्थः ।
*6,72f.*
नन्वेवमेकं सन्धित्सतो ऽ(न्यत्)परं प्रच्यवते ।
यतो व्यर्थविशेषणतापरिहारे स्वरूपासिद्धिरापन्ना ।
तथाहि ।
पक्षीकृते अभावे प्रमेयत्वादिधर्माः सन्ति न वा ।
नेति पक्षे ऽप्रमिताश्रयत्वादिकं हेतोः ।
आद्ये न तावत्ते ऽप्यभावाः विधिप्रत्ययविषयत्वात्, प्रतियोग्यनिरूप्यत्वाच्च ।
षट्पदार्थातिरिक्तत्वमभावत्वमिति चेन्न ।
स्वेच्छापरिकल्पनाया अनुपादेयत्वात् ।
अन्यथा पञ्चैव भावास्तदतिरिक्तो ऽभाव इति कल्पनायां समवायादेरपि भावत्वं न स्यात् ।
ते च नाभावाद्धर्मिणो भिन्नाः ।
अन्योन्याभावसमानन्यायत्वात् ।
तथाच यथा कुलालादेर्विपक्षस्य विधिनिषेधात्मकत्वेन प्रतिषेधमात्रत्वाभावस्तथा पक्षीकृथाभावस्यापि (धर्मद्वारा विधिरूपस्य) प्रतिषेधमात्रत्वाभावात्स्वरूपासिद्धो हेतुः स्यात् ।
दृष्टान्तश्च साधनविकलः ।
घटाभावस्यापि धर्मद्वारा विधिरूपस्य प्रतिषेधमात्रत्वाभावादित्यत आह- अभावस्य चेति ॥
अभावस्य च भावो ऽपि धर्मो ऽथापि ...
प्रथमापिशब्दात्पूर्वं यदीत्यध्याहार्यम् ।
यद्यप्यभावस्य पक्षीकृतस्य दृष्टान्तीकृतस्य च भावः प्रमेयत्वादिधर्मो ऽस्ति ।
चशब्दाद्धर्मिणा अभिन्नश्च ।
भावस्याभावधर्म इवेति वा ।
अथापि न स्वरूपासिद्धयादिदोष इति शेषः ।
*6,74*
कथमित्यत आह- हि धर्मिण इति ॥
... हि धर्मिणः ।
तादृक्तवं मात्रतेहोक्ता ... ॥ मनुव्_2,1.73ब्-च् ॥
*6,75*
हिशब्दो हेतौ ।
तादृक्त्वं प्रतिषेधात्मकत्वम् ।
मात्रता प्रतिषेधमात्रता ।
इह सूत्रे ।
एतदुक्तं भवति ।
स्यादयं स्वरूपासिद्धयादिदोषो यद्यत्र प्रतिषेधमात्रशब्देन केवलप्रतिषेधत्वं विवक्षितं स्यात् ।
नचैवम् ।
किन्तु धर्मद्वारमन्तरेण धमिर्ण एव प्रतिषेधत्वम् ।
तच्च पक्षदृष्टान्तयेरस्त्येव ।
तयोधर्र्मद्वारेण विधित्वे ऽपि धर्मिणोः प्रतिषेधत्वस्योभयसिद्धत्वात् ।
व्यावृत्तं च विपक्षात्कुलालादेः ।
तस्य धर्मतो निषेधत्वे ऽपि धर्मि(णो) विधित्वा)णो ऽनिषेधत्वादिति ।
ननु कथमेतल्लभ्यते ।
उच्यते ।
मात्रशब्दो हि साकल्ये वर्तते ।
नच तत् क्वापि सम्भवति ।
प्रतिषेधे ऽपि विधिसद्भावस्य परेणैवोक्तत्वात् ।
ततः प्रतिषेधमात्रशब्दो विधेरप्राधान्यं लक्षयति,
अन्नमात्रं भुक्तमिति यथा ।
धर्मधर्मिणोश्च, अप्राधान्यं धर्मस्य, प्राधान्यं धर्मिणः ।
तेन धर्मिणः प्रतिषेधत्वं प्रतिषेधमात्रत्वमिति सिद्धयति ।
इच्छाप्रयत्नादिरूपायाः प्रवृत्तेः कर्तृतापरनामिकायाः व्यापिका बुद्धिः अभावाद्वयावृत्ता तामपि व्यावर्तयतीत्युक्तम् ।
तत्राभावाद्बुद्धिव्यावृत्तिरेव कुत इत्यत आह- बुद्धीति ॥
... बुद्धिराहित्यमेव तत्

2.1.74

तत्तस्मात्प्रतिषेधमात्रत्वादेव बुद्धिराहित्यमभावस्य घटाभाववत्सिद्धयतीत्यर्थः ।
द्विविधं हि प्रमेयम् स्वतन्त्रं परतन्त्रं च ।
परतन्त्रमपि द्विविधम् भावो ऽभावश्च ।
भावो ऽपि द्वेधा चेतनो ऽचेतनश्च ।
एवञ्च यदा भावस्यापि कस्यचिन्न चैतन्यं, का वार्ता तदाभावे चैतन्यस्य ।
कश्चिदभावो बुद्धिमान् किन्न स्यादिति चेन्न ।
निरुपाधिकसम्बन्धमनादृत्य निर्निमित्तायाः शङ्काया अतिप्रसङ्गित्वात् ।
"तन्मनो ऽकुरुतऽ; इति श्रुतेरिति चेन्न ।
अन्यथासिद्धत्वात् ।
अथ प्रतिषेधमात्रत्वमपि पक्षे नाभ्युपेयात् ।
तदासदिति ब्रह्मेति च संज्ञाभेदमात्रम् ।
अनेकत्वादेः परेणापि त्याज्यत्वात् ।
अनेकस्वातन्त्र्ये कार्योदयायोगात् ।
नन्विदं तत्रैव वक्तव्यम् ।
सत्यम् ।
प्रतिषेध(त्व)मात्रत्वे विदिते ततो बुद्धिराहित्यप्रतीतेः सौलभ्यादिहोक्तम् ।
टीकाकारस्तु प्रमेयत्वादिभावधर्माङ्गीकारे बुद्धिरपि तथा किन्न स्यादिति शङ्कावकाशादिहोक्तमित्याहुः ।
*6,80*
भावस्याभावो धर्मः, अभावस्य च भावो ऽपि धर्म इत्यनुपपन्नम् (भावस्याभावधर्मता, अभावस्य च भावधर्मतेत्यनुपपन्नम्) ।
भावाभावयोरभावभावधर्मित्वे प्रमाणाभावात् ।
सम्बन्धाभावाच्च ।
सम्बद्धयोरेव हि शौक्लयपटयोर्धर्मधर्मिभावो दृष्टो नासम्बद्धयोर्मरुमन्दरयोः ।
नच भावाभावयोः सम्बन्धो ऽस्ति ।
संयोगसमवाययोर्भावनियतत्वात् ।
विरुद्धस्वभावत्वाच्च ।
यावविरुद्धस्वभावौ गुणगुणिनौ तावेव हि धर्मधर्मिणावुपलब्धौ ।
न विरुद्धस्वभावावश्वमहिषौ ।
विरुद्धस्वभावौ च भावाभावौ ।
विधिनिषेधरूपत्वात् ।
अभेदाच्च ।
नहि घटः स्वयं स्वस्यैव धर्मो भवति ।
उक्तं च धर्मधर्म्यैक्यमित्यत आह- विशेष्यतैवेति ॥
विशेष्यतैव धर्मित्वं ...

2.1.8

विशेषणतैव च धर्मत्वमित्यपि द्रष्टव्यम् ।
यो हि विशिष्टते व्यवच्छिद्यते स तस्य धर्मी ।
धर्मश्चापरः ।
प्रकारान्तरस्य निर्वक्तुमशक्यत्वात् ।
प्रतीयते च विशेष्यविशेषणभावो भावाभावयोः ।
अन्यथा घटः पटो न भवतीत्यभावः प्रमेय इति च व्यवहारानुपपत्तेः ।
तत्कथं भावाभावयोर्न धर्मधर्मिभावः ।
पटशोक्लययोश्च न सम्बन्धप्रयुक्तो धर्मिधर्मभावः ।
नापि मेरुमन्दरयोस्तदभावः सम्बन्धाभावप्रयुक्तः ।
किन्तु स्वभावादेव विशेष्यविशेषणत्वातदभावरूपः ।
सम्बद्धयोरपि घटपटयोस्तदभाववत्, भूतलघटाभावयोस्तद्भावाच्च ।
*6,82*
एवमेव विरोधिस्वभावाभेदावपि परा(निर)स्तौ ।
सगुणनिर्गुणत्वेन नित्यानित्यत्वेन वा विरुद्धस्वभावयोरपि गुणगुणिनोर्धर्म्यादित्वस्य दर्शनात् ।
अदर्शनाच्च पटत्वशौक्लययोः ।
दृश्यते चाभेदे ऽपि तद्भावः ।
अस्तित्वाभिधेयत्वादीनां धर्माणां परैर्धर्म्यभेदस्याङ्गीकृतत्वात् ।
भिन्नानामपि तद्भावो नोपलभ्यते ।
तदेवमसम्बद्धयोरपि विलक्षणस्वभावयोरपि भावाभावयोरभेदे ऽपि विशेषशक्त्या विशेष्यविशेषणतालक्षणो धर्मिधर्मभावो युक्त एवेति ।
*6,84*
यद्येवं भावाभावयोरभावभावधर्मित्वं धर्मधर्मिणोश्चाभेदः स्यात्, तदा भावस्याप्यभावत्वेनाभावस्य च भावत्वेन, घटादीनां भावत्वमेव प्राक्प्रध्वंसात्यन्ताभावानामभावत्वमेवेति नियमो निर्निबन्धनः स्यात् ।
नचैवमस्त्विति वाच्यम् ।
सकललोकसिद्धस्य तथाभावानर्हत्वात् इत्यत आह- प्रथमेति ॥
... प्रथमप्रतिपत्तिषु ।
निषेधविधिरूपत्वं भावाभावत्वमत्र हि ॥ मनुव्_2,1.74ब्-द् ॥
रूपशब्दो धर्मिवचनः ।
भावाभावत्वमिति यथायोगं सम्बन्धः ।
अत्रैवं सत्यपि ।
हिशब्दः प्रसिद्धौ ।
अयमर्थः ।
किं भावाभावनिबन्धनं प्रमेयरूपमन्विष्यते प्रमाणं वा ।
आद्यस्योत्तरार्धमुत्तरम् ।
यद्यपि भावाभावात्मका घटादयः प्रागभावादयश्च ।
तथाप्यत्र पदार्थसार्थे यः पिण्डो विधिधर्मिको घटादिः स भावो, यस्तु निषेधधर्मिकः प्रागभावादिः सो ऽभाव इति व्यवस्थोपपद्यते ।
अभेदे ऽपि धमर्धर्मिभावो विशेषशक्त्या सङ्गच्छत इत्युक्तमेव ।
द्वितीयस्य उत्तरं प्रथमप्रतिपत्तिष्विति ।
यः प्रथमं विधितया परप्रतिक्षेपरूपतां विना प्रतीयते स घटादिर्भावः ।
यस्तु निषेधतया परप्रतिक्षेपेण प्रतीयते प्रागभावादिः सो ऽभाव इत्युत्तरार्धेनैकवाक्यतया योज्यम् ।
*6,87*
घटो हि प्रथमं विधित्वेन धर्मिरूपेण प्रतीतो ऽनन्तरं पटो न भवतीति पटनिषेधात्मतया प्रतीयते ।
प्रागभावादिरपि
प्रथमं निषेधत्वेन धर्मिस्वरूपेणावगतो ऽनन्तरं प्रमेय इति विधितया प्रतीयत इति सकलप्रतिपत्तृसिद्धमिति बहुवचनहिशब्दाभ्यां द्योतयति ।
विषयिविषययोराधाराधेयभावमभिप्रेत्य सप्तमीप्रयोगः ।
कारकेषु गौणमुख्यत्वविवक्षाभावस्य स्थितत्वादिति ।
*6,91*
एवं पूर्वपक्ष्युत्प्रेक्षितप्रमाणसमुदायलब्धस्यार्थस्य प्रमाणविरोधो दर्शितः ।
इदानीमसत्कार्यं यथा दृष्टमित्यनुमानं विशेषतो निराचिकीर्षुस्तत्प्रस्तावनाय असूत्रयत्सूत्रकारः ओं अपीतौ तद्वत्प्रसङ्गादसमञ्जसमिति ।
असमञ्जसमेतद्विश्वस्याभावकर्तृकत्वमतम् ।
कुतः ।
अभावस्य (एव) जगत्कर्तृत्वाङ्गीकारे ऽपीतौ प्रलये तद्वत्प्रसङ्गात् अभाववत्त्वप्रसङ्गात् ।
ईश्वरादेः सर्वस्या(प्य)भावाभ्युपगमप्रसङ्गादिति यावत् ।
न हीश्वरादौ सति तत्परित्यागेनाभावस्य जगत्कर्तृत्वमवधारयितुं शक्यमिति ।
ननु नेदमनिष्यमीश्वरादिकं प्रलये ऽसद्भवितुमर्हति ।
भावत्वात् घटवदित्यनुमानेनेश्वरादेः सर्वस्य प्रलये ऽभावाभ्युपगमादित्यत्रोक्तं सूत्रकृता"न तु दृष्टान्तभावात्ऽ; इति ।
नैव प्रलये सर्वस्यासत्त्वमङ्गीकर्तुमुचितम् ।
कस्मात् दृष्टान्तभावात् ।
दृष्टान्त इति तत्रावधारितव्याप्तिमूलमनुमानमुच्यते ।
दृष्टान्तमात्रस्य साधनबाधनानङ्गत्वात् ।
तथाच प्रलये परमेश्वरादिसद्भाव(स्य) साधकानुमानसम्भवादित्यर्थः ।
*6,93*
किं तदनुमानमित्यत आह भाष्यकारः- सर्वनाशेष्वपीति ॥
*6,94*
अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम्

2.1.75

सर्वनाशेष्वपि सदा शिष्टत्वाद् यस्य कस्य नुः ।
नाशो ऽयं विमतो ऽपि स्यान्नाशत्वात् कर्तृशेषवान्

2.1.76

अपिरभिव्याप्तौ ।
सर्वशब्दो वर्तमानमात्रविवक्षयापि स्यादित्यतः सदेत्युक्तम् ।
तदिदं व्यभिचारपरिहारायाभिहितम् ।
नः पुरुषस्य ।
अयमित्यस्यैव विवरणं विमत इति ।
अत्र पूर्वार्धेन व्याप्तिरुक्ता ।
उत्तरार्धेन प्रतिज्ञाहेतू ।
एतदुक्तं भवति ।
महाप्रलयलक्षणो नाशः पुरुषशेषवान्भवितुमर्हति नाशत्वात् सम्प्रतिपन्न(सम्मत)नाशवदिति ।
अत्र पुरुषावशेषमात्रं साध्यम् ।
नतु नाशकर्तुः पुरुषस्यावशिष्यता ।
अत एवोक्तं यस्य कस्येति ।
नाशस्य कर्तुरकर्तुर्वेत्यर्थः ।
तथापि कर्तृशेषवानिति वदतेदमभिप्रेतम् ।
प्रलये पुरुषसद्भावमात्रसाधने सति भग्नं तावत्परस्यानुमानम् ।
यदपि परस्याभावकर्तृकत्वं जगतो ऽभिमतम् ।
तदप्यत एवापास्तम् ।
अवशिष्यस्य पुरुष(विशेष)स्यैव विश्वकर्तृत्वसम्भवे ऽभावस्य तत्कल्पनानवकाशात् ।
दृष्टानुसारिणी हि कल्पना ।
नहि लोके प्रागुत्पत्तेः कुलालाभावयोः सतोरभावो घटस्य कर्ता दृष्टः ।
किन्नाम कुलाल एवेति ।
*6,96*
अभिप्रायमजानानः कर्तृशेषवानित्युक्त्वा विभ्रान्तश्चोदयति"यत्र सुन्दोपसुन्दन्यायेनाशेषा अपि पुरुषा नष्टास्तत्र नाशत्वहेतोरनैकान्तिकताऽ; इति, तत्राह- नचेति ॥
नचाशेषनृनाशस्तु दृष्टो दृश्यो ऽस्ति वा क्वचित्
चशब्दो ऽवधारणे ।
अशेषनृनाशस्तु नैव क्वचिद्दृष्ट इत्यतीतनिषेधो, दृश्यो वा नैवेत्यनागतस्य, नैवास्ति वा दृश्यमान इति वर्तमानस्य ।
इदमुक्तं भवति ।
अनैकान्तिकत्वं हि प्रमिते विपक्षे हेतुवृत्तौ सत्यां(हेतुवृत्त्या) वक्तव्यम् ।
नाप्रमिते ।
तथा सत्यनमिनमात्रोच्छेदप्रसङ्गात् ।
नचाशेषपुरुषनाशः कालत्रये ऽपि प्रमितः, येन नाशत्वस्य तत्र व्यभिचारः स्यात् ।
प्रमितत्वाङ्गीकारे च प्रमातुरेवोर्वरितत्वेन व्याघातश्च स्यात् ।
नच नाशकर्तुः पुरुषस्यावशिष्यता साध्यत्वेनेष्या ।
येन सुन्दोपसुन्दादिनाशः प्रत्युदाह्रियेत ।
किन्तु पुरुष(वि)शेषवत्त्वमात्रमिति ।
*6,97*
अनेन प्रलयकालः पुरुषवान्कालत्वादिदानीन्तनकालवदित्यप्यनुमानं सूचितम् ।
नच तदा कालाभावादाश्रयासिद्धिः ।
तथा सति तदेत्येव वक्तुमशक्यत्वात् ।
परकीयानुमाने च प्रलयविशेषणानुपपत्तेः ।
*6,99*
यद्यप्यत्र"कालो ऽङ्गीक्रियते न वा ।
आद्ये तत्रैव भावत्वहेतोर्व्यभिचारः ।
द्वितीये प्रलयविशेषणानुपपत्तिः ।
सकलकार्यविनाशविशिष्टकालस्य प्रलयत्वात् ।
अथ कार्यविनाश एव प्रलयस्तथापीश्वराभावस्य तेन सम्बन्धाभावादीश्वरादिकं प्रलये ऽसदिति प्रतिज्ञार्थानुपपत्तिः ।
देशादिद्वारा सम्बन्धाभ्युपगमे तत्रैव भावत्वस्य व्यभिचारः ।
प्रलयविशेषणपरित्यागे तच्छिष्यैरेवोह्यतामिति न सूत्रभाष्यकाराभ्यामभिहितम् ।
सूचितं चापीताविति सूत्रकृता ।
"लये मानं च किं भवेत्ऽ; इति भाष्यकृतापि ।
*6,100*
तदिदं जीवेश्वरसाधारणमनुमानमुक्तम् ।
इदानीं प्रलये जीवसद्भावसाधकमनुमानमाह- धर्मेति ॥
धर्माधर्माश्रयत्वेन स्वीकार्यो ऽपि नरो लये

2.1.77

*6,100f.*
न केवलमुक्तानुमानेन ।
किन्नाम धर्माधर्मश्रयत्वेनापीति सम्बन्धः ।
नरो जीवात्मा ।
अयमत्र प्रयोगः ।
प्रलयकालवर्ती धर्मः साश्रयः धर्मत्वादिदानीन्तधर्मवत् ।
एवमधर्ममपि पक्षीकृत्य प्रयोक्तव्यम् ।
नच धर्माधर्माश्रयो जीवात्मनो ऽन्यः सम्भवति ।
एवञ्च प्रलये जीवात्मसद्भावाद्भावमात्रासत्त्वसाधनमनुपपन्नमिति ।
यत्रेश्वरसद्भावसाधनमिदम् ।
आश्रयशब्दस्याधिष्ठातृपरत्वात् ।
तत्रैवं प्रयोगः ।
प्रलयकालवर्तिनौ धर्माधर्मौ केनचिदधिष्ठितौ ।
कारणत्वे सत्यचेतनत्वात् ।
वाश्यादिवदिति ।
नचातीन्द्रिययोर्धर्माधर्मयोरधिष्ठातृत्वमीश्वरादन्यस्योपपद्यते ।
अतो धर्माधर्माधिष्ठातृत्वेनापि नरः परमपुरुषो लये स्वीकार्य इति ।
*6,103*
ननु प्रलये भावमात्रस्यासत्त्वमभ्युपगच्छतो मम तदा धर्माधर्मावपि न स्त एवेत्याश्रयासिद्धिरिति ।
इदमिह वक्तव्यम् ।
किं धर्माधर्मसंज्ञितमदृष्टमस्ति कार्यमात्रस्य कारणं च भवतीत्यभ्युपगम्य प्रलये तदभावो ऽभीधीयते, उत सदपि तदकारणमित्यभ्युपेत्य, अथ तदेव नास्तीत्यङ्गीकृत्य ।
आद्यं दूषयति- अनादित्वमिति ॥
अनादित्वं विनादृष्टं कथं स्यात् कारणं क्वचित्
अनादित्वमिवानादित्वं प्रलये सत्त्वमित्यर्थः ।
क्वचिदिति सृष्टिकाले ।
यद्यदृष्टं प्रलये न स्यात्तदाऽदिकालीनस्य कार्यस्य कारणं न स्यात् ।
असतः कारणत्वायोगात् ।
तथाच सर्वोत्पत्तिमतां निमित्तमित्यभ्युपगमो भग्न इत्यथर्ः ।
स्यादेतत् ।
अधुनातनकार्यमदृष्टकारणकं न त्वादिकालीनमिति ममाभ्युपगमः ।
तत्किमदृष्टस्य प्रलये सद्भावेनेत्यत आह- अनादित्वमिति ॥
अनादित्वं विना तत एवादिकालीनकायर्कारणत्वं च विनादृष्टं क्वचिदधुनातने ऽपि कार्ये कारणं कथं स्यात् ।
न कथञ्चित् ।
अधुनातनं कार्यम् अदृष्टकारणकं न, कार्यत्वादादिकालीनकार्यवदित्यनुमानसम्भवात् ।
न चेदिदमिव तदप्यदृष्टकार्यमेवाङ्गीकार्यमिति ।
यद्वा मा भूदादिकालीनस्य कार्यस्यादृष्टं कारणम् ।
तथापि प्रलये तद्भावो ऽङ्गीकरणीयः ।
कुतः ।
अनादित्वं प्रलये सत्त्वं, विनादृष्टं क्वचिदिदानीन्तने ऽपि कार्ये कारणं कथं स्यात् ।
अन्तराल एवादृष्टोत्पत्त्ययोगादिति योज्यम् ।
*6,105*
नन्वदृष्टस्य सर्वोत्पत्तिमन्निमित्तत्वे ऽपि न प्रलये सद्भावो ऽभ्युपगन्तव्यः ।
आदिकाल एवोत्पन्नस्यापि महदादिकारणत्वोपपत्तेरिति ।
इदमत्र वक्तव्यम् ।
तदादिकाले जनिमददृष्टं ततः पूर्वादृष्टादुत्पद्यते न वेति ।
आद्यमुपादत्ते- पूर्वेति ॥
पूर्वादृष्टात् परादृष्टं यदि नैवोत्तरं कुतः

2.1.78

जायत इति शेषः ।
परिहरति- नैवेति ॥
एवं तर्हि तदुत्तरमादिकाले जनिमददृष्टं नैवास्माभिः पक्षीक्रियते ।
किन्तु तत्कारणं प्रलयकालीनं पूर्वादृष्टमेवेति कुत आश्रयासिद्धिरिति ।
द्वितीयमुपादत्ते- पूर्वेति ॥
नैवोत्पद्यत इति शेषः ।
दूषयति- उत्तरमिति ॥
तर्हि तदुत्तरमादिकालीनमदृष्टं कुतो जायते ।
न कुतश्चित् ।
सर्वोत्पत्तिमन्निमित्तस्यादृष्टस्याभावादादिकालीनादृष्टोत्पत्तिरेव न स्यादित्यर्थः ।
*6,105f.*
न ब्रूमो वयं सर्वं कार्यमदृष्टजन्यमिति ।
किं तर्ह्यादिकाले जनिमतो महदादिकारणाददृष्टादन्यदेवातो नोक्तदोष इत्याशङ्कामुत्थाप्य दूषयति- पूर्वेति ॥
यदि परादृष्टं सृष्टयुपक्रमे जनिमत्पूर्वादृष्टान्नैवोत्पद्यते ।
अपि त्वदृष्टनिरपेक्षमेव ।
तर्ह्युत्तरमहदादिकायर्मपि कुतो ऽदृष्टादुत्पद्यत इत्यङ्गीकरणीयम् ।
अदृष्टवत्तस्याप्यदृष्टिनिरपेक्षत्वसम्भवात् ।
अन्यथा कार्यत्वाददृष्टस्याप्यदृष्टापेक्षाङ्गीकार्येति ।
*6,107*
अस्तु तर्ह्यदृष्टं कारणमेव न भवतीति द्वितीयः पक्षः, अदृष्टमेव नास्तीति तृतीयो वा, उभयस्याप्यनुपलम्भात् ।
तथाचाश्रयासिद्धिरपरिहार्येत्याशङ्कयाह- अदृष्टमिति ॥
अदृष्टं कारणं नो चेल्लये मानं च किं भवेत्
यदि प्रत्यक्षेणानुपलम्भाददृष्टं न स्यात् ।
सदपि वा कारणं न स्यात् ।
तदा लये च किं मानं भवेत् ।
प्रलयो ऽप्यप्रामाणिकत्वान्न स्यात् ।
न ह्यसावपि प्रत्यक्षेणोपलभ्यते ।
तथाचेश्वरादिकं प्रलये ऽसद्भवितुमर्हतीत्यप्रसिद्धविशेषणः पक्षः परस्यापि स्यात् ।
*6,108*
अथ मतम् ।
कालविप्रकर्षादनुपलभ(भ्य)मानो ऽपि प्रलयो ऽनुमानसिद्धत्वादङ्गीकरणीयः ।
तथाहि ।
विश्वसन्तानो ऽयं दृश्यसन्तानशून्यैः समवायि(न्तानि)भिरारब्धः सन्तानत्वात् आरणेयसन्तानवत् ।
वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः नित्यत्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवत् ।
सर्वे सन्तानाः कदाचित्सहोच्छिद्यन्ते सन्तानत्वात् प्रदीपसन्तानवत् ।
सर्व एव परमाणवः कदाचित्समग्रोपादेयप्रबन्धशून्याः आरम्भकत्वात् नष्टपवनारम्भकपरमाणुवत् ।
भूगोलकसन्तानः कदाचित्साकल्येनोच्छिद्यते सन्तानत्वात् दीपसन्तानवत् ।
इयं क्रिया स्वान्यावययिकालीनत्वानधिकरणकिञ्चित्कालीनक्रियान्या क्रियात्वादन्यक्रियावदिति ।
एवं तर्हि धर्माधर्मावपि स्वरूपतो विप्रकृष्टत्वादनुपलभ्यमानावपि देवदत्तशरीरादिकं देवदत्तविशेषगुणजन्यं कार्यत्वे सति देवदत्तभोगहेतुत्वात् देवदत्तप्रयत्नजन्यस्रगादिवदित्याद्यनुमानेन विचित्रकार्यान्यथानुपपत्त्या,"ज्योतिष्योमेन स्वर्गकामो यजेतऽ,"यो ब्राह्मणायावगुरेत्तं शतेन यातया(ये)त्ऽ; इत्यादिश्रुतसाध्यसाधनभावान्यथानुपपत्त्या वा सिद्धत्वादभ्युपगन्तव्याविति समं समाधानम् ।
*6,117*
अथ मन्यसे ।
नानुमानादिना धर्मादिसिद्धिः ।
तस्याभासत्वात् ।
तथाहि ।
देवदत्तशरीरादेर्देवदत्तविशेषगुणजन्यत्वं किं साक्षात्साध्यमुत परम्परया ।
नाद्यः ।
धर्माधर्मयोरप्यारम्भकप्रेरणादिरूपेणैवोपयोगाङ्गीकारात् ।
देवदत्तशरीरं न साक्षाद्देवदत्तविशेषगुणजन्यं शरीरत्वाद्यज्ञदत्तशरीरवदिति सत्प्रतिपक्षत्वाच्च ।
द्वितीये तु जन्मान्तरीयप्रयत्नाराधितदेवताद्वारेणोपपत्तेरर्थान्तरता ।
देवदत्तविशेषगुणजन्यतया विनापि आकाशादेरिवेश्वरेच्छया देवदत्तस्य भोगहेतुता सम्भवतीत्यप्रयोजकता च ।
कार्यवैचित्र्यं च दृष्टकारणवैचित्र्यादेवोपपद्यते ।
आदिकालीनं च तत्तत्प्रागभाव एव वैचित्र्याङ्गीकारेण ।
स्वगर्यागादेः साध्यसाधनभावश्रवणं त्वसिद्धमेव योग्यताविरहात् ।
अन्यथाख्यातिमाश्रित्याभ्युपगमे ऽपन्यथासिद्धम् ।
यागाद्याराधितावज्ञातदेवताद्वारेण स्वर्गाद्युपपत्तेरिति ।
*6,118*
एवं तर्हि प्रलयसाधकानुमानानाम(प्य)भासत्वान्न तैस्तत्सिद्धिरिति तुल्यमुत्तरम् ।
तथा हि ।
विमतः कालो ऽवयवियुक्तः कालत्वादिदानीन्तनकालवत् ।
विमतो ब्राह्मणो ब्राह्मणपूर्वको ब्राह्मणत्वात्सम्मतवदित्यादिना सत्प्रतिपक्षं तावदुक्तानुमानजातम् ।
ननु प्रलयकालपक्षीकृतावाश्रयासिद्धिः ।
अन्यथा सिद्धसाधनम् ।
एवमाद्यब्राह्मणपक्षीकारे ऽन्यथा च दोष इति चेन्न ।
पर्वतो ऽग्निमानित्यादावप्यग्निमदनग्निमत्पक्षदूषणसम्भवेन सर्वानुमानोच्छेदप्रसङ्गात् ।
नन्वग्निमत्त्वदिव्यरिरेकेणाप्यस्ति पर्वतादेः स्वरूपं, शक्यं च विशेषान्तरेणावधारयितुम् ।
तत्कथं दोषावकाश इति चेत् ।
तत्किमवयविसम्बन्धासम्बन्धौ विहाय कालविशेषस्य स्वरूपमेव नास्ति, ब्राह्मणव्यक्तेर्वाऽद्यत्वानाद्यत्वे विहाय ।
अवधारणं च कालादेर्हिरण्यगर्भापवर्गोत्तरर्(गानन्तर)भावित्वादिना भविष्यति ।
*6,126*
किञ्च प्रथमप्रयोगे विश्वशब्देन किं ब्रह्माण्डमभिप्रेयते सकलकार्याणि वा ।
नाद्यः ।
अश्रयासिद्धेः ।
प्रलयमनभ्युपगच्छता ब्रह्माण्डस्यानङ्गीकृतत्वात् ।
ब्रह्माण्डाभावे ऽपि कार्यान्तरावस्थितिसम्भवेन प्रलयासिद्धेश्च ।
कपिकपोलान्तर्गतौदुम्बरोदरवर्तिमशकशरीरादिवत्कार्यान्तरावस्थानमसम्भावितमिति चेन्न ।
कुण्डबदरवदुपपत्तेः ।
कालाग्निरुद्रादिप्रक्रियाया असिद्धत्वात् ।
द्वितीये ऽपि न प्रलयसिद्धिः ।
यथा हीदानीन्तनानां दहनपवनसन्तानानां क्रमेणास्तमये ऽपि न प्रलयस्तथा तरुगिरिशरीरादिसन्तानानामपि क्रमारम्भसिद्धावप्यवयविशून्यसमया सिद्धेः ।
अथैकदैवेति विशेषणमुपादीयेत तदा क्रमारब्धदहनपवनादिसन्तानैर्व्यभिचारः स्यात् ।
एकदरम्भकहेतुसाकल्ये सतीति हेतुविशेषणे विशेषणासिद्धिः ।
द्वयणुकादिक्रमेणारम्भस्वीकारेण बाधादिप्रसङ्गश्च ।
एतेन द्वितीयानुमानमपि निरस्तम् ।
ब्रह्माण्डानभ्युपगमात् ।
अभ्युपगमे ऽप्यवयवानामावापोद्धाराभ्यामेवोत्पादविनाशयोरुपपत्तेः ।
कार्यान्तरावस्थानोपपत्तेश्च ।
तृतीये ऽप्यपसिद्धान्तः ।
क्रमेणोच्छेदस्याभ्युपगमा(तत्वा)त् ।
चतुर्थे ऽपि पटादिभ्यः पूर्वविनष्टैस्तन्त्वादिभिव्यर्भिचारः ।
परमाणुत्वेन हेतुविशेषणे ऽपि द्वयणुकाद्यवस्थानसम्भवेन दृष्टान्तस्य सन्दिग्धसाध्यता ।
पञ्चमे ऽपि किं भूगोलका एव सन्तानशब्देनोच्यन्ते तदतिरिक्तो वा कश्चित् ।
आद्ये सिद्धसाधनम् ।
अवयवानामावापोद्धाराभ्यां सन्ततोत्पत्तिविनाशसिद्धेः ।
द्वितीये त्वाश्रयासिद्धिः ।
षष्ठं त्वाभाससमानयोगक्षेमत्वादुपेक्षणीयमिति ।
*6,133f.*
अथ मा भूदनुमानैः प्रलयसिद्धिः, तथाप्यागमैर्भविष्यति, तेषां सिद्धार्थे ऽपि प्रामाण्यस्य साधितत्वात्, ततो नाप्रसिद्धविशेषणतेति ब्रूषे, तर्ह्यस्माकमपि धर्मादिसिद्धिरागमाद्भविष्यतीति कथमाश्रयासिद्धिरिति ।
एवं प्रलये जीवेश्वरसद्भावं साधयता धर्मादिसत्त्वमपि साधितमिति न प्रलये भावमात्रासत्त्वसाधनं युक्तम् ।
एवम् आदिकार्यं पक्षीकृत्य सोपादानत्वसाधने प्रकृत्यादिसिद्धिरपि द्रष्टव्येति ।
*6,135*
प्रथमसूत्रे ऽभावस्य कर्तृत्वनिरासायानुमानमुक्तम् ।

इदानीमितो ऽपि नाभावकर्तृकं जगत्, चेतनकर्तृकत्वे"दृष्टान्तभावात्ऽ; इति सूत्रस्य वृत्त्यन्तरमभिप्रेत्य चेतनकर्तृकत्वे अनुमानमाह- उत्पत्तीति ॥
उत्पत्तिनाशकारी हि बुद्धिमान् दृश्यते क्वचित्

2.1.79

तद्दृष्टान्तेन सर्वत्र कर्ता किं नानुमीयते
बुद्धिमानुत्पत्तिनाशकारीति बुद्धिपूर्वं तत्कर्तेत्यर्थः ।
क्वचित्पटादौ ।
सर्वत्र विप्रतिपन्ने कार्ये ।
महदादिकार्य इत्येवोक्ते ऽङ्कुरादौ व्यभिचारः शङ्कयेत, तदर्थं तस्यापि पक्षनिक्षेपार्थं सर्वत्रेत्युक्तम् ।
कर्ता बुद्धिमानिति शेषः ।
अन्यथाभावकर्तृत्ववादिनं
प्रति सिद्धसाधनताप्रसङ्गात् ।
किमाक्षेपे ।
अननुमाने न किमपि कारणम् ।
दृष्टान्ताभावेन प्रतिपक्षासम्भवादित्यर्थः ।
एतेन"स्वपक्षदोषाच्चऽ; इति सूत्रमपि व्याख्यातं भवति ।
अयमत्र प्रयोगक्रमः ।
विमतं कार्यं चेतनोत्पाद्यं कार्यत्वाद्घटवत् ।
चेतनविनाश्यं च तत एव तद्वदेव ।
विमतोत्पत्तिश्चेतनकर्तृका उत्पत्तित्वात्पटोत्पत्तिवत् ।
विमतो विनाशश्चेतनकर्तृको विनाशत्वात्सम्मतवदिति ।
अत्र विनाशस्य चेतनकर्तृकत्वसाधनं प्रासङ्गिकम् ।
यद्वा केचित्कारणस्य बीजादेः प्रध्वंसेनाङ्कुरादेः जन्मदर्शनात्तन्त्वादिनाशेन पटादिनाशदशर्नाच्च प्रध्वंसाभावस्यैव जगज्जन्मविनाशकर्तृत्वमास्थिताः ।
यथोक्तम् ।
नानुपमृद्य प्रादुर्भावादिति ।
तन्मतं वात्रासदित्यादिसूत्रैर्निराकृतमिति ज्ञापनार्थम् ।
दृष्टान्ताभावस्तु स्वयमूहनीयः ।
*6,138*
नन्विदमनुमानेनेश्वरस्य जगत्कर्तृत्वसाधनं सूत्रकारस्य उक्तविरुद्धम् ।
शास्त्रयोनित्वादितीश्वरे ऽनुमानप्रामाण्यस्य स्वयमेव निराकृतत्वादित्यत आह- आगमेति ॥
आगमानुगृहीता तु मानम् ...
अनुमेति वक्ष्यमाणमत्रापि सम्बद्धयते ।
न सर्वथापीश्वरे ऽनुमानस्य प्रामाण्यं सूत्रकृता निराकृतम् ।
किन्नामागमाननुगृहीतस्य ।
आगमानुगृहीता त्वनुमा ईश्वरे मानमेवाभिमता ।
अन्यथा वेदवाक्यार्थे युक्त्यनुसन्धानरूपजिज्ञासा नारभेतेति ।
किमतो यद्येवमित्यत आह- एषेति ॥
... एषानुमापितु

2.1.11

आगमानुगृहीतेत्यनुवर्तते ।
मानमिति च ।
एषा सम्प्रत्युपन्यस्ताप्यनुमा"यतो वा इमानि भूतानिऽ; इत्यागमानुगृहीता ।
ततो भवतीश्वरे मानमिति न कश्चिद्विरोध इति ।
*6,140*
एवमनुमानेनाभावकर्तृकत्वं विश्वस्याशङ्कयानुमानेनैवेश्वरकर्तृकत्वं समर्थितम् ।
तदेतन्मतान्तरेणाक्षिप्य समादधत्सूत्रम् ओं तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ओं इति ॥
तत्राक्षेपस्यायमर्थः ।
नायमनुमानावष्टम्भेन पूवर्पक्षः प्रमाणेन च सिद्धान्तो भवति ।
न चानुमानं नाम प्रमाणमस्ति ।
(कुतः) ।
अन्यथाप्यनुमेयम् ।
असत्प्रतिपक्षत्वं ह्यनुमानप्रामाण्यवादिभिरनुमानाङ्गमङ्गीकरणीयम् ।
प्रतिरुद्धस्य करणस्य क्वापि क्रियानिष्पादकत्वादर्शनात् ।
अनुमानप्रतिपन्नं चान्यथाप्यनुमेयम् अनुमातुं शक्यम् ।
कस्मात् ।
तर्काप्रतिष्ठानाम् ।
"एवमेवानुमातव्यम्, न पुनरन्यथाऽ; इति तर्कस्य व्यवस्थाभावात् ।
तथा चोक्तम् ।
"उपाधिप्रतिपक्षौ तु क्व नामातीव दुर्वचौऽ; इति ।
नन्विदं व्यधिकरणं, तर्कस्याप्रतिष्ठितत्वादन्यथानुमेयमिति ।
मैवम् ।
एतदनेन ज्ञापयति सूत्रकारः,"न तर्को ऽनुमानाद्भिद्यतेऽ; इति ।
अथवा तर्कस्यानुमानस्याप्रतिष्ठानादप्रमाणत्वान्नानुमानेन पूर्वोत्तरपक्षौ युक्तौ ।
कथमप्रमाणत्वात् ।
यतो ऽन्यथानुमेयमिति योजना ।
तत्र समाधानसूत्रं सङ्गमयितुमुत्सूत्रमेव भाष्यकारस्तावदुत्तरमाह- आगमेति ॥
तर्काप्रतिष्ठानाद् अप्य् अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः

2.1.80

आगमानुग्रहाभावे न तर्कः स्यात् प्रतिष्ठितः
आगमग्रहणं प्रमाणमात्रोपलक्षणम् ।
अत एवोत्तरार्धे ऽक्षजमपि सङ्गृहीतम् ।
प्रमाणानुग्रहप्रमाणमूलत्वशब्दाभ्यां प्रतिष्ठितप्रामाण्यप्रमाणान्तरावधृतपक्षलिङ्गव्याप्तिमत्त्वं तत्संवादित्वं चोच्यते ।
*6,142*
तत्राद्ययोजनायामस्यायमर्थः ।
यदुक्तमनुमानस्याव्यवस्थितत्वेन सर्वत्र प्रत्यनुमानसम्भव इति तदनुपपन्नम् ।
यतः प्रमाणानुग्रहाभावे तर्को न प्रतिष्ठितः स्यात् ।
किन्तु प्रमाणमूलस्यैवास्य प्रतिष्ठितिः स्यात् ।
एतदुक्तं भवति ।
प्रत्यनुमानं भवत्किं प्रमाणानुग्रहरहितं स्यात्, उत तन्मूलम् ।
आद्यं तु कथं स्वयमदृढभूमिकं परं प्रतिरुन्ध्यात् ।
नहि भवति तरक्षोः प्रतिपक्षो हरिणशावः ।
किन्त्वाद्येनैव प्रमाणमूलेन बाध्यते ।
द्वितीयं तु स्यादेव प्रमाणम् ।
आद्यं चापबाधेत ।
उभयथापि न सर्वानुमानाप्रामाण्यम् ।
यद तूभयोः अपि प्रमाणमूलत्वसन्देहः तदास्तु प्रतिरोधः ।
किन्तु नैवं सर्वत्र ।
अवधारणायां तु पूर्वैव गतिरिति ।
*6,144*
द्वितीययोजनायां तु प्रष्टव्यम् ।
किं प्रमाणानुग्रहरहितमनुमानं प्रत्यनुमानपराहतत्वादप्रमाणम्, उत तन्मूलम् ।
आद्ये सम्प्रतिपत्तिमुत्तरमाह- आगमेति ॥
(तथापि) नैवं सर्वत्रेति भावः ।
प्रतिष्ठितः प्रमाणभूतः ।
द्वितीये त्वाह- अक्षजेति ॥
अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः
प्रतिष्ठितः प्रामाण्यम् ।
तेनैव प्रतिप्रयोगस्य बाधितत्वात् ।
उभयोर्वास्तवप्रमाणमूलत्वासम्भवादिति भावः ।
यस्त्वेतां व्यवस्थामनभ्युपगम्य सर्वत्रापि प्रतिपक्षस्यास्त्यवकाश इति सर्वमनुमानमप्रमाणमिति च मन्यते तस्य सूत्रारूढमुत्तरमाह- अन्यथेति ॥
अन्यथास्याप्रतिष्ठा च स्ववाचा व्याहतैव हि

2.1.12

एतेनैवमुपपादिते ऽपि यो नैवं मन्यते तस्य स्ववचनव्याघातादनिर्मोक्षप्रसङ्ग इति सूत्रयोजना सूचिता ।
तथाहि ।
सर्वमनुमानप्रमाणं प्रतिपक्षप्रतिहतत्वादिति त्वदीयमनुमानं प्रतिपक्षपराहतं चाप्रमाणं च भवति न वा ।
आद्ये नानेन सर्वस्याप्रामाण्यसिद्धिः ।
द्वितीये त्वत्रैव बाधादिति ।
अन्यथा उक्तव्यवस्थां विहाय, अस्य सर्वस्याप्यनुमानस्य अप्रतिष्ठा अप्रमाणता, स्ववाचैव व्याहता हीति ।
*6,145*
अपरे तु"न विलक्षणत्वात्ऽ; इत्यादीनि सूत्राणि ब्रह्मणो जगदुपादानत्वाक्षेपसमाधानार्थतया व्याचक्षते ।
तत्प्रकृत्यधिकरण एव निराकृतम् ।
*6,149*
यच्चात्र सूत्रे तर्काप्रतिष्ठानादिति वाक्यं भित्त्वा सिद्धान्ततयैव वर्णयन्ति, तद्वा अनेन सार्धेन श्लोकेन निराचष्टे ।
तथाहि तर्कस्याप्रतिष्ठां वदन्वक्तव्यः ।
किं प्रमाणानुग्रहरहितस्योत तन्मूलस्य ।
आद्ये गूढाभिसन्धिरुत्तरमाह- आगमेति ॥
अयमाशयः ।
सत्यमेतत् ।
तथापि न साङ्खयः स्वतर्कस्यागमाद्यनुग्रहाभावं मन्यते ।
स्वमतेनेदमुच्यते चेत्पौनरुक्त्यम् ।
शास्त्रयोनित्वात्, ईक्षतेर्नाशब्दम्, आनुमानिकमित्यदिनास्यार्थस्योक्तत्वादिति ।
*6,149f.*
द्वितीयं दूषयति- अक्षजेति ॥
नहि ज्ञानकरणस्य प्रमाणगृहीतव्याप्त्यादिमत्त्वेनाप्रामाण्यकारणव्यभिचारादिशङ्काकलङ्कविकलस्य प्रामाण्यं नास्तीति युक्तमिति भावः ।
विपक्षे बाधकं चाह- अन्यथेति ॥
अन्यथोक्तानभ्युपगमेनास्य प्रमाणमूलस्याप्यनुमानस्याप्रतिष्ठा स्ववाचा व्याहतैव सूत्रकृतः स्यात् ।
स्वयमेव हि युक्त्यनुसन्धानरूपां ब्रह्ममीमांसामारभ्य प्रमाणमूलस्यापि तर्कस्याप्रामाण्यमभिदधानः सूत्रकारो न व्याहतभाषी कथं स्यात् ।
यदपि वृत्तिकारैरुक्तम्"एकेन तार्किकेणोत्प्रेक्षितं तर्कमपरो दूषयति, तेनोत्प्रेक्षितमप्यपरः, इत्यतः पुरुषमतिवैश्वरूप्यजन्मा तर्कः स्यादप्रतिष्ठितःऽ; इति ।
तच्चायुक्तम् ।
यतो ऽस्यापि तर्कस्य प्रामाण्ये ऽप्रामाण्ये वा अस्याप्रतिष्ठा च स्व(वाचा)व्याहतैवेति नायं वाक्यभेदो युक्त इत्युक्त एव सूत्रार्थः ।
व्यास -(17)
*6,152*
अत्र सूत्रम् ओं एतेन शिष्या अपरिग्रहा अपि व्याख्याता इति ।
तत्केचिद्वयाचक्षते ।
एतेन"नविलक्षणत्वात्ऽ; इत्यादिना प्रकृतेन शिष्यैः केनचिदंशेन परिगृहीतस्य प्रधानकारणवादस्य निराकरणेन शिष्यैर्मनुव्यासप्रभृतिभिः केनचिदप्यंशेनापरिगृहीता ये ऽण्वादिकारणवादास्ते ऽपि व्याख्याता द्रष्टव्या इति ।
तदिदं दूषयति- नचेति ॥
एतेन शिष्टापरिग्रहा अपि व्याख्याताः

2.1.81

न च शिष्यागृहीतत्वं निरीशादीशवादिनः
*6,152f.*
आस्तां तावदभ्यधिकाशङ्काप्रकारः, परिहारातिदेशप्रकारश्च ।
यत्तावदुक्तम्"साङ्खयादपि वैशेषिकादेरतिशयेन शिष्यागृहीतत्वम्ऽ; तदति(तीव)विरुद्धम् ।
साङ्खयस्य निरीश्वरत्वात् ।
वैशेषिकादेस्तु सेश्वरत्वात् ।
वैपरीत्यस्यैवोचितत्वात् ।
इह हि ब्रह्मणो जगत्कारणत्वे विप्रतिपत्तयो निरस्यन्ते ।
तत्र साङ्खयो ब्रह्मैव नाभ्युपैति ।
कुतस्तदीयं जगत्कारणत्वमित्यतिशयेन वेदान्तवादविरोधित्वाच्छिष्यापरिगृहीतः ।
वैशेषिकादिस्तु, ब्रह्म तस्य जगन्निमित्तत्वं चाङ्गीकृत्योपादानतामात्रं नाङ्गीकुरुत इतीषद्विरोधित्वात् ईषच्छिष्यापरिगृहीत इति युक्तम् ।
सत्कार्यवादित्वादिकं तु प्रकृतासङ्गतमेव ।
अन्यथा यागीयहिंसानिषेधादिना विपरिवर्तः स्यात् ।
अथ वेदसंवादबाहुल्याबाहुल्यप्रयुक्तमिदम् ।
मैवम् ।
(तन्न ।
तत्त्वानां) प्रतिपाद्यानामपरिसङ्खयातत्वादिति ।
*6,153*
किं तर्ह्यस्य सूत्रस्याभिधेयमित्यत आह- अत इति ॥
अर्थावशिष्टजीवादिकर्तृतात्र निषिध्यते

2.1.82

अर्थान्तरस्य निराकृतत्वादित्यर्थः ।
अपव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्याथर्त्वान्नासङ्गतमिति सूचयितुमत इत्युक्तम् ।
अवशिष्या निराकृताया अभावकर्तृतायाः, जीवादिकर्तृता, जगत इति शेषः ।
अनेन निराकृतादवशिष्या वेदापरिगृहीता जीवप्रधानासत्कालस्वभावादिवादा निराकृता इति व्याख्यातं भवति ।
तत्र शिष्या इत्येवोक्ते ब्रह्मकारणवादो ऽपि प्राप्नोति ।
तदर्थमपरिग्रहा इत्युक्तम् ।
तन्मात्रे तूक्ते अभावकर्तृत्ववादो ऽपि गृह्येत ।
तथाच पुनरुक्तिरतिदेशानुपपत्तिश्च स्यात् ।
अतः शिष्या इत्युक्तम् ।
अभ्यधिकाशङ्कासद्भावसूचनेन सूत्रारम्भोपपादनार्थं च शिष्याः शिष्यतया प्रतीताः, नतु तत एव निराकृततयेति ।
*6,158*
ननु जीवादीत्यासिदग्रहणेनासत्कर्तृकत्वं गृहीतम् ।
तस्य"असदिति चेत्ऽ; इत्यादिना निरस्तत्वेन पौनरुक्त्यादिप्रसङ्गादित्यत आह- तन्मन इति ॥
तन्मनो ऽकुरुतेत्यादेरसतो मनसो जनिः ।
निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना

2.1.83

असतो विश्वजननमाशङ्कयात्र निषिद्धयते
*6,159*
इत्यादेः प्रमाणात् ।
आशङ्कितेति शेषः ।
आदिपदेनोक्तयुक्तिर्गृह्यते ।
असतः अभावस्य ।
मनस इति ।
ज्ञानेच्छाप्रयत्नेभ्यः जनिः ।
जगत इति शेषः ।
पूर्वत्र त्विति सम्बन्धः ।
तच्च प्रतिषेधमात्रत्वादित्यादिना स्फुटमवगम्यत इति हिशब्दः ।
अकस्माद्धीदमाविरासीदित्यादिश्रुत्या ।
तत् मनो, विना ।
असतः शून्यात् ।
एतदुक्तं भवति ।
पूवर्मभावस्य जगत्कारणत्वं निराकृतमिदानीं तु शून्यस्य ।
किञ्च पूर्वं कर्तृत्वेनाधुना कर्तृतां विनैवेति न पौनरुक्त्यादीति ।
यद्वा भाष्यदिशा निष्कारणैवात्र जगज्जनिराशङ्कितेति न पौनरुक्त्यादिकम् ।
अत्र शङ्काप्रापकप्रमाणोपन्यासस्तु अस्यैव प्रमेयभेदस्योपपादनार्थम् ।
एतेनाभ्यधिका शङ्कापि सूचिता ।
तथाहि ।
मा भूदभावकर्तृकं जगत्, तथापि जीवादिभ्यो जनिमद्भविष्यति ।
"जीवाद्भवन्ति भूतानिऽ,"प्रधानादिदमुत्पन्नम्ऽ,"अकस्माद्धीदमाविरासीद्ऽ; इत्यादिश्रुत्यनुगृहीतेभ्यो घटदधिकण्टतैक्ष्णादिदृष्टान्तेभ्यः ।
नहि जीवादीनां प्रतिषेधमात्रत्वमस्ति, येनोक्तयुक्तिविरोधः स्यात् ।
असत्त्वाचेतनत्वादेरुपलक्षणमेतदिति चेत् ।
किमत्रासदादेः कारणत्वमात्रं नेत्युच्यते, किंवा कर्तृत्वम् ।
नाद्यः ।
उक्तदृष्टान्तेषु व्यभिचारात् ।
न द्वितीयः ।
कर्तृत्वस्यास्माभिरनङ्गीकृतत्वादिति ।
अत एवात्र सर्वत्र कर्तृशब्दः कारणत्वमात्रपरो द्रष्टव्यः ।
*6,165*
नन्वत्र जीवादेर्विश्वकारणत्वमात्रं शङ्कयते, तस्यैव वा ।
आद्ये न सिद्धान्तविरोधः ।
जीवस्य ह्यदृष्टाधारतया निमित्तत्वं प्रधानस्य चोपादानत्वमङ्गीकृतमेव ।
न द्वितीयः ।
प्रापकाभावात् ।
कार्यस्य सकर्तृकत्वनियमदर्शनाच्चेत्यत आह- प्रापकमिति ॥
प्रापकं वाक्यमात्रं तु ...
द्वितीय एवाशङ्कयते ।
तस्य च प्रापकं"न जीवात्कारणं परम्ऽ,"न ह्यन्यत्कारणं मतम्ऽ; इत्यादिवाक्यम् ।
नच लोकविरोधः ।
वाक्यमात्रसिद्धे ऽर्थे तत्प्रतिपन्नमेव गृह्यते नतु लोको ऽनुगम्यत इति पूर्वपक्षी मन्यत इति ।
ननु च प्रधानकारणत्वादिमतानि द्वितीयपादे निराकरिष्यते ।
तेषामत्रापि निराकरणे पुनरुक्तिदोषः स्यादित्यतो वाऽह- प्रापकमिति ॥
अत्र शङ्काप्रापकं वाक्यमात्रं नतु समय इत्यर्थः ।
इदमुक्तं भवति ।
अत्र श्रुत्यनुगृहीताभिर्युक्तिभिः प्राप्तं प्रधानादिकारणत्वं निराक्रियते ।
उत्तरं(रत्र) तु तु साङ्खयादिसमयप्राप्तम् ।
अतो ऽपि नोक्तदोष इति ।
नन्वेवं तर्ह्येतेनेत्यतिदेशः कथम् ।
उक्तपरिहारस्य पूर्वपक्षिणा परिहृतत्वादित्यत आह- परिहार इति ॥
... परिहारो विशेषितः

2.1.84

यद्यपि प्रतिषेधमात्रत्वं प्रधानादिष्वसिद्धम् ।
अचेतनत्वादिकं च कारणत्वमात्रवादे अनैकान्तिकम् ।
तथापि पूर्वपक्षाणां युक्तिविरुद्धत्वं यत्प्रतिषेधमात्रत्वात् दृष्टान्तभावादिति सामान्यतः सूचितम्, यच्च स्वपक्षदोषाच्चेत्यप्रामाणिकत्वं, स परिहारो ऽत्राप्यविशेषितः समानः, इत्यतिदेशो युज्यत इत्यर्थः ।
*6,167*
ननु कथं जगतो जीवकर्तृत्वादिवादस्य युक्तिविरुद्धत्वमित्यत आह- क्वचिदिति ॥
क्वचिज्जीवाकृतं दृष्ट्वा चेतनादेव चाकृतम् ।
तद्वदेवानुमान्यत्र वस्तुत्वात् क्रियते श्रुतेः

2.1.13

क्वचित् देशादौ ।
यद्वा क्वचित् जीवादौ ।
अकृतमिति च भावप्रधानो निर्देशः ।
कारणत्वमात्रमत्र पूर्वपक्षो न कर्तृत्वमित्यतो ऽचेतनादिति पञ्चमीप्रयोगः ।
अचेतनादकृतं च दृष्ट्वा ।
एवशब्देन दृष्टान्तानामसन्दिग्धसाध्यतामाह ।
अनुमा अनुमितिः ।
अन्यथा वस्तुत्वस्यैवानुमानत्वात्पञ्चमी न स्यात् ।
जीवाकृतत्वादेरिति शेषः ।
अन्यत्र महदादौ ।
अत्रैते प्रयोगाः ।
महदादिकार्यं न जीवकृतं वस्तुत्वाज्जीववत्, विमतं न प्रधानकार्यं वस्तुत्वात्प्रधानवत्, विमतं नासत्कार्यं वस्तुत्वाद्घटवदिति ।
यद्यपि जीवस्य निमित्तत्वेन प्रधानस्योपादानत्वेन जगत्कारणत्वमङ्गीकृतमेव तथापि स्वातन्त्र्याभावाभिप्रायेणेदं वचनमिति न विरोधः ।
*6,168*
नन्वेवं सत्यतिप्रसङ्गः स्यात् ।
विमतमश्वरकृतं न भवति वस्तुत्वादीश्वरवत् इत्यपि प्रयोक्तुं शक्यत्वादित्यत आह- श्रुतेरिति ॥
"स इदं सर्वमसृजतऽ; इत्यादिश्रुतेर्महदादेरीश्वरकृतत्वावधारणादतिप्रसङ्गानुमानस्य बाधितत्वेनाप्रामाण्यमिति ।
समं तर्हीदं भवदनुमानेषु ।
जीवाद्भवन्ति भूतानीत्यादिश्रुतेरित्यत आह- श्रुतेरिति ॥
भावप्रधानो निर्देशः ।
जीवादिशब्दानां ब्रह्मश्रुतित्वाद्ब्रह्मनामत्वान्न श्रुतिविरोध इत्यर्थः ।
तत्कुत इत्यत आह- श्रुतेरिति ॥
"नामानि सर्वाणि यमाविशन्तिऽ; इत्यादिश्रुतेः ।
शेषं भाष्ये ।
ननु जीवादिकारण(क)त्वे ऽपि घटादिदृष्टान्तावष्टम्भेनानुमानसम्भवात्कथमप्रामाणिकत्वमित्यत आह- श्रुतेरिति ॥
"नान्यो ऽतो ऽस्ति कर्ताऽ; इत्यादिश्रुतेर्बाधितविषयत्वात् दृष्टान्तानां साध्यवैकल्याच्च नानुमानानां प्रामाण्यम् ।
एतेनास्मदनुमाने ऽकार्यत्वमुपाधिरित्यपि निरस्तः(म्) ।
(स्वातन्त्र्येण) जीवाद्यकृते ऽपि घटादावकार्यत्वाभावात् ।
प्रतिपक्षे बाधादिदोषानुषङ्गाच्चेति सर्वं सुस्थम् ।
॥ इति श्रीमन्न्यायसुधायां असदधिकरणम् ॥
[======= ज्न्य्स्_2,1.व्: भोक्त्रधिकरणम् =======]
*6,170*
॥ अथ श्रीमन्न्यायसुधायां भोक्त्रधिकरणम् ।
॥ ओं भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ओं ॥
अतीताधिकरणे ब्रह्मणो जगज्जन्मादिकारणत्वे श्रुतिसंवादित्वेन प्रबलया युक्त्या विरोधः परिहृतः ।
इदानीं तु श्रुतिसिद्ध(लिङ्ग)त्वेन प्रबलया युक्त्या विरोधः परिह्रियते ।
तथाहि ।
न ब्रह्मणो जगत्कारणत्वं वास्तवं सम्भवति ।
असर्वकारणेन मुक्ते(क्तजीवे)नात्यन्ताभिन्नत्वात् ।
नहि यो येनात्यन्ताभिन्नः स तद्विरुद्धस्वभावो वस्तुत इति क्वचिदुपलब्धम् ।
नच मुक्तस्यासर्वकारणत्वमसिद्धम्, (सर्वकारणत्वस्य) संसारे ऽनुपलम्भात् ।
संसारे प्रतीयमानस्य कस्यचिदाकारस्यैवापगमो हि मोक्षो नतु अपूर्वाकारोत्पादः, अनित्यत्वप्रसङ्गात् ।
नचानन्दादेरिव विद्यमानस्यैवाविद्यया तिरोहितत्वात्सर्वकारणत्वस्यानुपलम्भ इति वाच्यम् ।
प्रमाणाभावात् ।
आनन्दादेः परमप्रेमास्पदत्वादिना ईषदुपलब्धेश्च ।
नच ब्रह्मणो जगत्कारणत्वश्रवणात्सवर्थानुपलभ्यमानमपि जगत्कारणत्वं संसारे कल्प्यमिति युक्तम् ।
श्रुतेः काल्पनिकजगत्कारणत्वानुवादित्वेनापि सावकाशत्वात् ।
नच तथाभूतमेव लक्षणमस्त्विति वाच्यम् ।
अनङ्गीकारात् ।
काल्पनिकस्य जगत्कारणत्वस्य प्रधानादिष्वपि सम्भवेनातिप्रसङ्गाच्च ।
स्यादेतत् ।
मुक्तस्य ब्रह्मणैक्यमेवासिद्धमिति ।
मैवम् ।
"कर्माणि विज्ञानमयश्च आत्मा परे ऽव्यये सर्व एकीभवन्तिऽ; इत्यादिश्रुतिसिद्धत्वादिति ।
तदिदमुक्तं सूत्रकृता भोक्तुर्जीवस्य मोक्षे ब्रह्मत्वापत्तिश्रवणात्तयोरविभागो भेदाभावः ।
ततश्च न ब्रह्मणो जगत्कारणत्वं वास्तवं युक्तमिति ।
*6,171*
एवं प्राप्ते सिद्धान्तितम् ।
भवेदेतदखिलं यदि मुक्तस्य ब्रह्मणाभेद एव प्रामाणिकः स्यात् ।
नचैतदस्ति ।
श्रौतस्त्वेकीभावप्रयोगः स्याल्लोकवत् ।
यथा लोके उदके उदकस्यैकीभावव्यवहारः स्थानैक्यनिबन्धनः ।
यथा वा प्राग्विभिन्ना ब्राह्मणाः साम्प्रतमेकीभूता इति मत्यैक्यनिबन्धनः ।
तथा प्राग्विभिन्नस्थाना भिन्नमतयश्च जीवा मुक्तौ ब्रह्मणा एकीभवन्ति ।
एकस्थाना एकमतयश्च भवन्तीत्युपपद्यते ।
तस्मादसिद्धेनासिद्धसाधनमेतदिति ।
तदेतदयुक्तम् ।
मुख्यार्थे बाधकाभावात् ।
विना बाधकेन जघन्यवृत्त्याश्रयणे चातिप्रसङ्गात् ।
इत्यतो मुख्यार्थे बाधकयुक्तिव्युत्पादनपरत्वेनापि स्याल्लोकवदिति सूत्रखण्डं व्याचष्टे- नान्यदिति ॥
भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत्

2.1.85

नान्यदन्यत्वमापन्नं क्वचिद् दृष्टं कथञ्चन ।
अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन

2.1.86

*6,176*
अत्र मुख्यमेवार्थमङ्गीकुर्वाणः प्रष्टव्यः ।
किं प्रागभिन्नस्यैव जीवस्य मुक्तौ ब्रह्मणैक्यमनेनोच्यते, उत भिन्नस्य, अथ(वा) भिन्नाभिन्नस्य ।
नाद्यः, अभूततद्भावार्थस्यैकीभवन्तीति च्विप्रत्ययस्यैव अनुपपत्तेः ।
अत एव न तृतीयः ।
ऐक्यस्य प्राक् सिद्धत्वात् ।
भेदनिवृत्त्यर्थत्वे तु गौणार्थत्वापत्तेः ।
द्वितीयनिराकरणेन निरस्तत्वात् (च) ।
द्वितीये त्विदमुपतिष्ठते, नान्यदिति ।
हिशब्दो हेतौ ।
यतो लोके अन्यत् वस्तु, अन्यत्वं वस्त्वन्तरेणाभेदमापन्नम्, क्वचित्काले, कथञ्चनोपायेन, न दृष्टम् ।
अतस्तद्दृष्टान्तेन जीवस्यापि कदाचन मुक्तावपि ब्रह्मभावो ब्रह्मत्वं न स्यात् ।
अयमत्र प्रयोगः ।
जीवो न कालान्तरे ऽपि ब्रह्मणैक्यमापत्स्यते ।
प्राक् ततो ऽत्यन्तभिन्नत्वात् ।
यः कदाचिद्यतो ऽत्यन्तं भिद्यते नासौ कदाचित्तदैक्यमापद्यते ।
यथा घटः पटेनेति ।
अथवा जीवब्रह्मणोः भेदः, सतोर्भेदिनोर्न निवृत्तिमान्, भेदत्वात्स्तम्भकुम्भादिभेदवदिति ।
आगमबाधितमेतदिति चेन्न ।
आगमानां मुख्यार्थतासम्भवे ऽनुमानबाधकत्वं, बाधिते चानुमाने तेषां मुख्यार्थतेति परस्पराश्रयत्वप्रसङ्गात् ।
सत्प्रतिपक्षत्वाच्च ।
तथाहि श्रुतिः ।
यथोदकमित्यादिका ।
प्रल्हादो ऽपि"परमात्मात्मनोर्योगः परमार्थ इतीष्यते(ताम्) ।
मिथ्यैतदन्यद्द्रव्यं हि नैति तद्द्रव्यतां यतःऽ; इति ।
*6,182*
अथ मतम् ।
नायमस्ति युक्तिविरोधः ।
प्रागप्यभिन्न एव ब्रह्मणा जीव इत्यङ्गीकारात् ।
नच च्विप्रत्ययानुपपत्तिः ।
प्रतीत्यपेक्षया तदुपपत्तेः ।
प्राग्विभिन्नतया दृष्टो ऽयं जीवो ब्रह्मणः ।
अथेदानीं मुक्तावभिन्नतया दृश्यते, इत्यत एकीभवन्तीत्युच्यत इति ।
अत्रेदं वक्तव्यम् ।
किं प्राक्तनी जीवब्रह्मणोर्भेददृष्टिर्भ्रान्तिरुत प्रमेति ।
नाद्यः ।
बाधकाभावात् ।
श्रुतयस्त्वद्याप्यव्यवस्थितार्था न बाधकतामश्नुवते ।
द्वितीये त्वाह- क्वचिदिति ।
क्वचिद् भिन्नतया दृष्टं तदभिन्नतया कथम् ।
दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते

2.1.14

क्वचित्काले यद्वस्तु यतो भिन्नतया प्रमितं तत् कालान्तरे ऽपि कथं तदभिन्नतया प्रती(मी)येत, न कथञ्चिदित्यर्थः ।
कुत इत्यत आह- नो दृष्टपूर्वं हीति ॥
तादृशं प्राग्भिन्नतया प्रमितं कालान्तरे ऽभिन्नतया प्रमीयमाणम् ।
अयमिह प्रयोगः ।
जीवो न कदाचिद्ब्रह्माभिन्नतया प्रमाविषयः ।
ततो ऽत्यन्तभिन्नतया प्रमितत्वात् ।
यदेवं तदेवं यथा घटः पटाद्भिन्नतयेति ।
यस्तु क्वचिदपि भेदप्रमां न मन्यते, तं प्रत्यारोपितभेदमेकं वस्तु व्यतिरेकोदाहरणं वाच्यम् ।
एवञ्च प्रतीतिमुपादायापि न च्विप्रत्ययोपपत्तिः ।
एतदर्थत्वेनापि स्याल्लोकवदिति योज्यम् ।
तदेवं ग्रावप्लवनादिश्रुतिवत् उपपत्तिविरुद्धत्वेन श्रुतेर्मुख्यार्थासम्भवादमुख्यार्थ एव स्वीकरणीये परकीयहेतोरसिद्धत्वान्न ब्रह्मणो जगत्कारणत्वे युक्तिविरोध इति सिद्धम् ।
*6,184*
केचिदिदं सूत्रमन्यथा व्याचक्षते ।
पूर्वं किल चेतनाचेतनात्मकस्य प्रपञ्चस्य ब्रह्मोपादनत्वेन ब्रह्मानन्यत्वमुक्तम् ।
तदाक्षिप्य समाधातुमिदं सूत्रम् ।
तथाहि ।
यदि चेतनाचेतनात्मकस्य जगतो ब्रह्मानन्यत्वं स्यात्तदा चेतनो भोक्ता भोग्यश्चाचेतना विषया इत्ययं विभागो न स्यात् ।
कुतः ।
भोग्यस्यापि भोक्तृत्वापत्तेः ।
भोक्तुरपि भोग्यत्वापत्तेः ।
भवितव्यं चानेन विभागेन ।
प्रत्यक्षादिसिद्धत्वादिति चेत् ।
स्याल्लोकवत् ।
यथा लोके समुद्रात्मनामपि फेनतरङ्गादीनां नेतरेतरभावापत्त्या विभागभङ्गः, यथा वा महाकाशात्मनामपि घटमठाद्याकाशानां, तथा प्रकृते ऽपि स्यादिति ।
तदिदं दूषयति- भोक्तृत्वेति ॥
भोक्तृत्वापत्तित इति यन्मतं तत् कुतो हरिः ।
भोक्त्रापत्तेरिति प्राह ... ॥ मनुव्_2,1.87अ-च् ॥
यत् यदि भोक्त्रापत्तेरित्यत्र भोक्त्रत्वापत्तेरिति व्याख्यानं सूत्रकारस्यापि(भि)मतं स्यात् तत् तर्हि कुतो हरिः सूत्रकृत् भोक्त्रापत्तेरिति (प्र)आह ।
भोक्तृत्वापत्तेरित्येव ब्रूयात् ।
नचैवमब्रवीत् ।
ततो नायमभिप्रायः सूत्रकारस्येति ।
यद्यप्यत्र परेषामस्माकं चाध्याहारसाम्यम् ।
तथापि भावप्रत्ययाभावः परस्याधिकः ।
*6,186*
ये तु व्याचक्षते"चिदचिद्वस्तुशरीरत्वे ब्रह्मणो जीववत्सुखदुःखादिभोक्तृत्वापत्तेर्जीवब्रह्मस्वभावविभागो न स्यादिति चेन्न ।
यथा कान्तारे निपतितस्य(स्यापि) नृपस्य न दंशमशकाद्युपद्रवस्तथात्रापि स्यात्ऽ; इति ।
तेषामप्ययं शब्ददोषः समानः ।
ननु भावप्रधाना निर्देशास्तत्र तत्र बहुलमुपलभ्यन्ते ।
तत्कथमयं दोषो ऽभिधीयते ।
अयमभिसन्धिर्भाष्यकारस्य ।
प्रतिपाद्ये व्यवस्थिते तद्बलाच्छाब्दी गौणता कथञ्चिदनुसर्तव्या ।
नचास्य सूत्रस्येदं प्रतिपाद्यं व्यवस्थितम् ।
जगदुपादानत्वस्य प्रागनुक्तत्वेनानुक्तोपालम्भप्रसङ्गात् ।
जगच्छरीरत्वस्यान्तर्याम्यधिकरणे प्रसक्ते ऽपि सम्भोगप्राप्तिरित्यनेनैव परिहृतत्वात् ।
तत्र जीवशरीरगतत्वेन (प्रस(क्तं)कतभोक्तृत्वमपास्तम् ।
अत्र तु जगच्छरीरत्वेनेति चेन्न ।
पूर्वोत्तरपक्षयोर्न्यायाविशेषे सूत्रारम्भानुपपत्तेः ।
अतो निर्निमित्तः शाब्ददोषो ऽपि नानुसरणार्ह इति ।
यद्वैतदर्थप्रतिपादनाय कथं चेत्याद्युत्तरवाक्यमत्रापि संयोज्य व्याख्येयमित्युक्त एव सूत्रार्थ इति ।
॥ इति श्रीमन्न्यायसुधायां भोक्त्रधिकरणम् ॥
[======= ज्न्य्स्_2,1.वि: आरम्भणाधिकरणम् =======]
अथ श्रीमन्न्यायसुधायां आरम्भणाधिकरणम् ।
*6,188*
॥ ओं तदनन्यत्वमारम्भणशब्दादिभ्यः ओं ॥
प्राक् प्रमाणमूलत्वतत्संवादित्वाभ्यां प्रबलया युक्त्या उक्ते(क्तार्)थे
विरोधो निरा(स्तः)कृतः ।
बाहुल्यलक्षणबलवद्युक्तिविरोधपरिहाराय इदमधिकरणमारभ्यते ।
तदिदं ब्रह्मपरिणामवादी व्याचष्टे"अनन्तराधिकरणे भोग्यवर्गस्य परिणामतःसिद्धप्रातिस्विकरूपभेदानपह्नवेन लोकसिद्ध(द्धं)कारणाभेदमङ्गीकृत्य साङ्खयसिद्धान्तेन शास्त्रतो भोक्तृवर्गस्य स्वाभाविकरूपब्रह्माविभागे भोग्यस्यापि ब्रह्मैक्यवद्भोक्तृत्वापत्तिमाशङ्कय अनैकान्तिकत्वेन निरासो(वि)ऽभिहितः ।
सम्प्रति वैशेषिकादिमतेन स्वरूपकार्यव्यपदेशादिभेदेन कार्यस्य कारणात्म(क)त्वासिद्धया प्रपञ्चस्य ब्रह्माद्वैतम् आक्षिप्य समाधीयते ।
तथाहि ।
तदनन्यत्वं तेन ब्रह्मणा अनन्यत्वं, कार्यस्य ।
कुतः? आरम्भणशब्दादिभ्यः"यथा सोम्यैकेन मृत्पिण्डेन विज्ञातेन सर्वं मृण्मयं विज्ञातं स्यात् ।
वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्ऽ; इत्यदिशब्दात् ।
"आदिऽग्रहणात्"ऐतदात्म्यमिदं सर्वम्ऽ,"यदयमात्माऽ,"सर्वं खल्विदं ब्रह्मऽ; इत्यादितादात्म्यावेदकश्रुतिपरिग्रहःऽ; इति ।
विवर्तवादी तु व्याख्याति"अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागम्,"स्याल्लोकवत्ऽ; इति परिहारो ऽभिहितः ।
न त्वयं विभागः पारमार्थिको ऽस्ति ।
यस्मात् तदनन्यत्वं कारणाद्ब्रह्मणः कार्यस्याकाशादेः परमार्थतो ऽनन्यत्वं व्यतिरेकेणाभावः, अवगम्यते ।
कुतः? आरम्भणशब्दादिभ्यःऽ; इति ।
*6,193*
तत्राद्यं व्याख्यानं तावन्निराकरोति- कथं चेति ॥
तदनन्यत्वम् आरम्भणशब्दादिभ्यः

2.1.87

... कथं च तदनन्यता

2.1.88

कथमित्याक्षेपे ।
चशब्दः पूर्वसूत्रापव्याख्यानाक्षेपेणास्य समुच्चयार्थः ।
जगत इति वक्ष्यमाणमत्रापि सम्बद्धयते ।
"अत्र प्रतिपाद्या स्यात्ऽ; इति शेषः ।
*6,194*
अयमाशयः ।
यो हि ब्रह्मोपादानतां जगतो ऽभ्युपगम्यापि तदन्यतां मन्यते सो ऽत्र पूर्वपक्षीकरणीयः ।
नच वैशेषिकादिस्तथेति प्राप्त्यभावान्न तदनन्यत्वोक्तेरवसरो ऽस्ति ।
ब्रह्मोपादानतामनङ्गीकुर्वाणं प्रति तु सैव समर्थनीया ।
नतु तदनन्यता ।
तदधीनसिद्धित्वादस्याः ।
अथ ब्रह्मोपादानताप्यत्र समर्थ्यत इति चेत् ।
न ।
तथा सति प्रकृत्यधिकरणवैयर्थ्यापत्तेः ।
प्रकृत्यधिकरणन्यायेनो(यो)पपादि(तं)तमभ्युपेत्यापि तदन्यतां मन्यमानो ऽत्र पूर्वपक्षीति चेत् ।
न ।
किमिदं ब्रह्मोपादानत्वं ब्रह्मसमवायित्वं वा, ब्रह्मपरिणामत्वं वा, यत्परेणाङ्गीकारितम् ।
नाद्यः (कल्पः) तस्यानन्यत्वविरोधात् ।
समवायस्य निराकरिष्यमाणत्वाच्च ।
द्वितीये प्रयत्नवैयर्थ्यमेव ।
नहि को ऽपि परिणामवादमङ्गीकृत्य कायर्कारणयोरत्यन्तभेदमङ्गीकुरुते, यं प्रतीदमारभ्येत इति ।
*6,195f.*
यद्वा कथं च तदनन्यता जगतो वक्तुं शक्यते ।
अनन्यत्वं हि भेदाभावः ।
अत्यन्ताभेद इति यावत् ।
भेदाभेदौ च परेणाङ्गीकृतौ ।
अतस्तादात्म्यमिति वक्तव्यं स्यात् ।
नैष दोषः, यावता कार्यस्य कारणेनाभेद एव, कारणस्य तु कार्याद्भेद एव, इत्येवं भेदाभेदावङ्गीकृताविति चेन्न ।
यदि ब्रह्म जगतो ऽन्यदेव तदा कथं च तदनन्यत्वं(ता) जगतः स्यात् ।
नहि यद्यतो ऽत्यन्तभिन्नं तत्तेनात्यन्ताभिन्नमिति सम्भवति, अतिप्रसङ्गादिति ।
*6,196*
अथवा कथं च तदनन्यता प्रतिज्ञातुं युक्ता ।
प्रमाणाभावादिति शेषः ।
ननु चारम्भणशब्दादिभ्य इत्युक्तत्वात्कथं प्रमाणाभाव इति चेत् ।
अत्र वक्तव्यम् ।
आरम्भणशब्दस्तावत्किं साक्षाज्जगतो ब्रह्मानन्यत्वमाचक्षीत, उत विकारस्य विकार्यनन्यत्वम् ।
आद्ये कथं च तदनन्यता जगतोस्यार्थः स्यात् ।
यथा सोम्येति मृत्पिण्डादेः प्रकृतत्वादित्युत्तरम् ।
द्वितीये भवतु नाम विकारस्य विकार्यनन्यत्वम्, जगतस्तु कथं तदनन्यतेति ।
*6,197*
(ननु) विकारस्य विकार्यनन्यत्वे तेनोक्ते ऽपि जगतो ब्रह्मानन्यत्वं सिद्धयत्येव ।
तस्यापि तद्विकारत्वादित्यत आह- जगतस्त्विति ॥
जगतस्त्वविकारत्व उक्तन्यायेन साधिते
अविकारत्वे ब्रह्मविकारत्वाभावे ।
उक्तन्यायेन"नच प्रकृतिःऽ; इत्यादिनेति शेषः ।
साधिते सति कथं च तदनन्यतेत्यन्वयः ।
यद्वा जगत इति पूर्वेणैव सम्बद्धयते ।
अविकारत्वे ब्रह्मण इति शेषः ।
न विद्यते विकारो यस्येत्यविकारम् ।
तस्य भावस्तत्त्वं, तस्मिन् ।
*6,198*
नन्वत्रारम्भणश(ब्दश)ब्देन"उत तमादेशमप्राक्ष्य(क्षः)ऽ; इत्याद्या श्रुतिरुपलक्ष्यते, तत्तात्पर्यपर्यालोचनायां च जगतो ब्रह्मविकारत्वं तदनन्त्यवं चावगम्यते इति चेन्न ।
महावाक्यावान्तरवाक्योपक्रमत्वप्रधानवाचित्वाद्यभावेनास्य श्रुत्युपलक्षणयोपादाने निमित्ताभावात् ।
अभ्युपेत्याप्युपलक्षणत्वमाह- अविकारत्व इति ॥
विकरात्वादन्यस्मिन्सादृश्यादौ श्रुत्यर्थतयोक्तन्यायेन साधिते सति श्रुतितात्पर्यपर्यालोचनया च कथं तदनन्यता सिद्धयेदिति ।
*6,201*
यदप्युक्तमादिपदगृहीतादैतदात्म्यमिदं सर्वमित्यादिवाक्यात्तदनन्यत्वसिद्धिरिति तदप्यसत् ।
आदिपदेन वाक्यान्तरग्रहणस्यानुपपत्तेः ।
तथा सत्येतेषामपि शब्दत्वेनारम्भणादिशब्देभ्य इति प्रयोगप्रसङ्गात् ।
अस्तु वा कथञ्चिदादिपदोपात्तता(त्वं)तेषां वाक्यानाम् ।
तथापि नैतेभ्यस्तदनन्यता सिद्धयति ।
उपपत्तिविरुद्धत्वादित्याशयेन पृच्छति- कथं चेति ॥
या सूत्रकृता प्रतिज्ञाता श्रुतिभिश्च प्रतिपादिता सा जगतस्तदनन्यता कथं किंप्रकारा ।
"किं पिकः कोकिलःऽ; इतिवदेकत्वलक्षणा किंवा मृद्घट इतिवद्विकार(रि)विकारि(र)त्वलक्षणेति प्रश्नार्थः ।
आद्यमाक्षिपति- कथं चेति ॥
एकत्वलक्षणा जगतस्तदनन्यता तु कथं सूत्रकृता प्रतिज्ञायेत ।
कथं च श्रुतिभिः प्रतिपाद्येत न कथञ्चिदित्यर्थः ।
अत्र हेतुमाह- अविकारत्व इति ॥
ब्रह्मणो ऽविकारत्व उक्तन्यायेन साधिते सति जगतस्तु विकारात्मकत्वे प्रत्यक्षादिप्रमिते सति विरुद्धधर्माधिकरणत्वादिति भावः ।
द्वितीयमाक्षिपति- कथं चेति ॥
विकारिविकारत्वरूप इति शेषः ।
आक्षेपे युक्तिमाह- जगतस्त्विति ॥
व्याख्यानं पूर्ववत् ।
*6,203*
नन्वेवमुपपत्तिविरुद्धापि जगतो ब्रह्मानन्यताङ्गीकरणीया ।
अन्यथैतदात्म्यमिदं सर्वमित्यादिश्रुतीनामप्रामाण्यप्रसङ्गादित्यत आह- कथं चेति ॥
अविकारित्वे ऽपि विकारत्वादन्यस्मिंस्तदधीनत्वादौ श्रुत्यर्थे"स्वातन्त्र्ये च विशिष्टत्वेऽ; इत्युक्तन्यायेन साधिते सति कथं तदनन्यताङ्गीकर्तुमुचिता ।
सावकाशश्रुतिप्रतीतो ऽप्यर्थो निरवकाशोपपत्तिविरोधात्त्याज्य एव ।
यथोक्तमभिमान्यधिकरण इति भावः ।
*6,203f.*
अपरमपि व्याख्यानं दूषयति- कथं चेति ॥
(इति) प्राहेत्यनुवर्तते ।
यद्यत्र कार्यमात्रप्रपञ्चस्यानृतत्वं सूत्रकृतो ऽभिमतं स्यात् ।
तदानृतत्वमित्येव ब्रूयात् ।
तदनन्यत्वमिति कथं प्राह ।
नहि ब्रह्मानन्यत्वशब्दो ऽनृतत्वावाची ।
तथा सति ब्रह्मणो ऽप्यनृतत्वप्रसङ्गात् ।
*6,204*
ननु च तदनन्यत्वं तद्वयतिरेकेणाभाव इति व्याख्यातम् ।
सत्यम् ।
न तथाप्यनृतत्वलाभः ।
तद्वयतिरेकेण नास्तीत्युक्ते तदात्मनास्तीति लभ्यते ।
न पुनः सर्वथाप्यनृतत्वम् ।
अन्यथा ब्रह्मातिरेकेणासतो जीवचैतन्यस्यापि सर्वथानृतत्वं स्यात् ।
प्रसिद्धं चैतत् ।
यद्विशिष्ट(विषयः)प्रतिषेधो विशेषणमुपसङ्क्रामतीति ।
सत्यम् ।
तथापि ब्रह्मविवर्तताज्ञापनायैवमुक्तमिति चेत्(न) ।
तथा सति तत्रारोपित(त्व)मिति वक्तव्यत्वात् ।
नहि शुक्तिकाशकले कलधौतमारोपितमिति वक्तव्ये ततोनन्यदिति प्रयुञ्ज(ज्य)ते ।
अथ ब्रह्मसत्तयैवेदं सत्, नापरा सत्तास्यास्तीति ज्ञापनमेतस्य प्रयोजनमिति चेत् ।
तर्हि परमार्थसदेवेदमित्यायातमिति कथमनृतत्वम् ।
अथ येयं प्रपञ्चे सत्तावगम्यते साधिष्ठानब्रह्मगतैवारोपितेत्यनेन ज्ञाप्यत इति चेत् ।
तत्मिन्यथाख्यातिवादिवदनिर्वचनीयख्यातिवादिनो ऽप्यारोपिताकारस्यान्यत्र पारमार्थ्यमावश्यकम् ।
तथात्वे चाकाशत्वादिकमपि ब्रह्मणि पारमार्थिकमङ्गीकार्यं(रणीयं) स्यात् ।
रजतत्वादिकं च शुक्तिकायामिति ।
*6,206*
यद्वा स्याल्लोकवदिति भोक्तृभोग्यप्रपञ्चस्य सत्यतामभिधायेदानीं कथं च तदनन्यतेति तद्विरुद्धमनृतत्वं प्राहेति योजना ।
ननु सूत्रकारः परमार्थाभिप्रायेण तदनन्यत्वमित्याह ।
व्यवहाराभिप्रायेण तु स्याल्लोकवदिति ।
तत्कुतो विरोध सति चेन्न ।
प्रतारकत्वप्रसङ्गात् ।
अन्यथा प्रत्याचक्षीत ।
अप्रत्याख्यायैव कार्यप्रपञ्चं, परिणामप्रक्रियामाश्रयति, सगुणेषूपासनेषूपयोक्ष्यत इ(ती)ति चेत् ।
किं सगुणोपासनविषयप्रयोजने प्रकृतविषयप्रयोजनानुकूले, उत तद्विरुद्धे, अथोदासीने ।
नाद्यः ।

भेदविषयत्वात्, सांसारिकफलत्वाच्च ।
भेदवासना हि सुदृढा तामेवोपोद्बलयेत् ।
अत एव न तृतीयो ऽपि ।
न द्वितीयः
अनाप्तत्वापरिहारादिति ।
*6,208*
अथवाऽस्तां तावदियं ग्रन्थार्जवचिन्ता ।
कथं च तदनन्यतानृतत्वलक्षणा जगतो युक्ता स्यात् ।
न कथञ्चिदिति योज्यम् ।
अत्र हेतुमाह- जगत इति ॥
अविकारित्व ब्रह्मविवर्तत्वाभावे ।
यच्चाविकृतमित्याद्युक्तन्यायेन ।
एवं प्रमाणाभावपरत्वेनापि पूर्ववद्वयाख्येयमिति ।
*6,209*
एवं तर्हि को ऽस्यार्थ इत्यत आह- स्वतन्त्रेति ॥
स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिद्धयते

2.1.16

*6,209f.*
यत एवं जगतो ब्रह्मानन्यत्वमनेकविधमपि नात्र प्रतिपाद्यं, तेनेत्यर्थः ।
अनेनापव्याख्याननिराकरणं स्वव्याख्यानदृढीकरणार्थत्वान्नासङ्गतमिति स्मारयति ।
कर्त्रनधीनसत्ताशक्त्यादिमत्कारणान्तरतव्यपेक्षा खलु घटादिसृष्टिर्दृष्टा ।
ततो, महदादिसृष्टिरपि कर्तृव्यतिरिक्तस्वतन्त्रकारणसव्यपेक्षा सृष्टित्वाद्घटसृष्टिवत्, महदादिकं वा कर्तृव्यतिरिक्तस्वतन्त्रकारणायत्तो सापेक्षोत्पत्तिकं कायर्त्वाद्घटवत्, प्रकृत्यादिकं वा स्वतन्त्रं कारणत्वान्मृदादिवत्, ईश्वरो वा स्वतन्त्रकारणसव्य(णान्तरसा)पेक्षः कर्तृत्वात्कुलाल(लादि)वदिति युक्तिविरुद्धत्वाज्जन्मादिसूत्रे ऽभिप्रेतं यत्परस्यैव ब्रह्मणः स्वातन्त्र्यं तन्नोपपद्यते ।
नच श्रुतिविरोधः ।
श्रुतीनां ब्रह्मणो जगत्कारणत्वमात्रपरत्वात् ।
स्वतन्त्रकारणान्तरनिरासे श्रुतेरभावात् ।
भावे ऽप्यपौरुषेयतया श्रुतिप्राबल्यवद्बाहुल्येन युक्तिप्राबल्यस्यापि सम्भवात्, सत्प्रतिपक्षतया श्रु(त्य)त्याभिप्रेतावधारणानुपपत्तेरित्येवं प्राप्तम् ।
स्वतन्त्रकारणान्यत्वं ब्रह्मणो ऽन्यस्य स्वतन्त्रकारणत्वमिति यावत् ।
अत्र अधिकरणे ।
तदनन्यत्वमित्यनेन निषिद्धयते ।
महदादिसृष्टौ यत्स्वतन्त्रकारणं तस्य तदनन्यत्वमिति ।
*6,210*
यद्यत्र स्वतन्त्रकारणाभाव इत्येव ब्रूयात्, तदा ब्रह्मणो ऽपि स्वातन्त्र्यं प्रतिषिद्धं स्यात् ।
तदनन्यत्वं स्वतन्त्रकारणस्येत्युक्ते हि स्वतन्त्रकारणं तदेव नान्यदिति लभ्यते ।
तदुपपादनाय यत्"आरम्भणशब्दादिभ्यःऽ; इति स्वपक्षे प्रमाणमुक्तम्, यश्च"भावे चोपलब्धेःऽ; इति विपक्षे प्रमाणाभावस्तदुभयं हिशब्देन सूचयति ।
*6,212f.*
नन्वारम्भणाद्याक्षेपशब्दादिभ्य इति वक्तव्यम् ।
सत्यम् ।
लक्षितलक्षणयैष एवार्थः प्रतिपाद्यत इत्यदोषः ।
तथापि"किंस्विदासीदधिष्ठानम्ऽ; इति (ऋ.सं.10-81-2) श्रौतनिर्देशानुसारेणाधिष्ठानस्योपादानमुचितमिति चेन्न ।
शाब्दादप्यर्थप्राधान्यस्य बलवत्त्वात् ।
साधकतमं करणमिति वचना(स्मरणा)त् ।
ननु च स्वतन्त्रकारणस्य ब्रह्मानन्यत्वं प्रतिज्ञाय कारणान्तराभावे प्रमाणोपन्यासो ऽसङ्गतः ।
मैवम् ।
अस्त्यत्राभिप्रायः ।
वक्ष्यते (हि) च ब्रह्मातिरिक्तप्रकृत्यादिकारणसद्भावः ।
आरम्भणशब्दादिभ्यस्तदभावो ऽवगम्यते ।
ततोर्थात्स्वतन्त्रकारणान्तरभावे च प्रमाणैरुपलब्धेः प्रसङ्ग इति वदन्प्रमाणाभावमाह ।
एवं मन्यते ।
शुष्काभ्यो बहुयुक्तिभ्यो ऽपि श्रुत्यनुगृहीतानां बह्वीनां युक्तीनां प्राबल्यात्तद्विरुद्धानां पूर्वपक्षयुक्तीनामप्रामाण्यमिति ।
*6,215*
स्यादेतत् ।
अद्भयः सम्भूत इत्यादिवचनात्कथं ब्रह्मातिरिक्तस्य स्वतन्त्रकारणस्यानुपलब्धिः ।
नचात्र न स्वातन्त्र्यं श्रूयत इति वाच्यम् ।
पारतन्त्र्यानुक्तौ स्वातन्त्र्यस्य लोकानुरोधादेव सिद्धेरिति ।
एतत्परिहाराय सूत्रम् ओं सत्त्वाच्चावरस्येति ओं ॥
तस्या(यमर्)थः ।
स्यादयं दोषो यदि वयं ब्रह्मातिरिक्तं कारणमेव नास्तीति वदामः ।
न चैवम् ।
अवरस्य तदधीनस्य प्रकृत्यादेः कारणस्य सत्त्वादिति ।
तदिदं परिहाराय न पर्याप्तम् ।
यावता पूर्वपक्षिणा पारतन्त्र्यानुक्तौ स्वातन्त्र्यमेव सेत्यस्यतीत्युक्तम् ।
अन्यथा पूर्वपक्षस्य निर्दलत्वापत्तेः, इत्यतः प्रकृत्यादेः कारणजातस्येश्वराधीनसत्ताकत्व प्रमाणं दर्शयन्सूत्रं व्याचष्टे- द्रव्यमिति ॥
सत्त्वाच् चापरस्य

2.1.17

असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषात्

2.1.89

द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ।
इति श्रुतेस्तद्वशस्य भावो ... ॥ मनुव्_2,1.89अ-f ॥
चेतनाः जीवाः ।
धृतिः चित्प्रकृतिः,"धारकत्वात्ऽ; इति श्रुतेः ।
प्रकृत्यादेस्तद्वशस्य भावः अङ्गीक्रियते ।
अतो ऽद्भयः सम्भूत इत्यत्रापि स्वातन्त्र्यासिद्धेर्नानुपलब्धिर्युक्तेत्यर्थः ।
यद्यपि आरम्भणशब्दादेरद्भयः सम्भूत इति श्रुतेश्च परस्परविरेधादर्थापत्त्यैवैषो ऽर्थो लभ्यते ।
तथापि मन्दापेक्षया स्पष्टश्रुत्युदाहरणम् ।
*6,217*
यद्वा स्वतन्त्रकारणान्यत्वं निषिद्धयत इत्यनेन परतन्त्रकाणान्तरसद्भावः सूचितः ।
अन्यथा कारणान्यत्वमित्येव स्या(ब्रूया)त् ।
(स) परतन्त्रकारणसद्भावः कृत इत्यत आह- द्रव्यमिति ॥
भावो गम्यत इति शेषः ।
अत्र तद्वशत्वं विधेयम् ।
काररसद्भावस्य परेणाप्यङ्गीकृतत्वात् ।
॥ ओं असद्वयपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ओं ॥
इति सूत्रम् ।
तत्र आक्षेपस्यायमर्थः ।
"नासदासीन्नोसदासीत्तदानीम्ऽ; इति महाप्रलये मूर्तामूर्तादेरशेषस्यासत्त्वव्यपदेशात्कारणोपलब्धिपरिचोदना, तस्येश्वरवशस्याङ्गीकारेण समाधानं च नोपपद्यते ।
नचायं पक्षः"असदिति चेत्ऽ; इत्यादिनैव निराकृतः ।
तत्रेश्वरस्याप्यनङ्गीकारात् ।
इह पुनरीश्वरमङ्गीकृत्य कारणान्तरनिराकरणात् ।
नच"अद्भयः सम्भूतःऽ; इत्यादिविरोधः ।
अत्र महाप्रलये कारणान्तरसद्भावस्याश्रवणात् ।
ईश्वरातिरिक्तकर्तृकासु सृष्टिष्वबादिकारणसद्भावपरत्वाच्च ।
एवञ्चारम्भणशब्दादयो ऽपि समञ्जसा भवन्तीति ।
(अत्र) नेति सिद्धान्तांशं व्याचष्टे- द्रव्यमिति ॥
न महाप्रलये कारणान्तरस्याभावो वाच्यः ।
किन्तु तद्वशस्य भाव एव ।
तस्य तद्वशत्वं कुत इति चेत् ।
द्रव्यमिति
श्रुतेरिति ।
व्यास -(18)
*6,219*
ननु"नासदासीत्ऽ; इति सर्वस्यासत्त्वव्यपदेशात्कथं नेत्यत उक्तं"धर्मान्तरेणऽ; इति ।
तद्वयाचष्टे- तद्वशस्येति ॥
सावधारणं चेदम् ।
तद्वशस्यैव भावः प्रलये, न स्वतन्त्रस्य ।
ततः स्वातन्त्र्यलक्षणधर्मविशेषाभिप्रायेणासत्त्वव्यपदेशो युज्यते ।
उपलक्षणमेतत् ।
यथोक्तं भाष्ये ।
यत्खलु परतन्त्रमव्यक्तं कार्यानभिमुखं तदसदिति व्यपदिश्यते ।
*6,221*
कुतः श्रुतेः मुख्यार्थपरित्यागेनामुख्यार्थो ऽङ्गीक्रियते ।
"तम आसीत्ऽ; इत्यादिवाक्यशेषात् ।
नच तमो ब्रह्म,"आनीदवातम्ऽ; इति तस्य पृथगवस्थानोक्तेः ।
नचानन्तप्रकाशस्य तमस्त्वमुपपद्यते ।
किन्तु प्रकृतेरेव, आच्छादकत्वादेरिति ।
*6,222f.*
ननु च प्रलये ऽवस्थितं चेत्प्रकृत्यादि तस्य स्वातन्त्र्यादिधर्माभावः कुतः, येनैवं व्याख्यायत इति चेत् ।
वाक्योपक्रमतच्छेषयोर्विरोधादर्थापत्त्यैवेति ब्रूमः ।
श्रूयते च स्पष्टमित्याशयवान्वाक्यशेषादित्येतत्प्रकारान्तरेण व्याचष्टे- न पर इति ॥
*6,223*
... न पर इत्यतः

2.1.18

"तस्माद्धान्यत्र परः किञ्च नासऽ; इत्यतो वाक्यशेषात्प्रकृत्यादीनां प्रलये स्वातन्त्र्याद्यभावो ऽवगम्यत इत्यर्थः ।
इह हि तस्माद्ब्रह्मणो ऽन्यत्प्रकृत्यादिकं परः परं स्वातन्त्र्यादिधर्मोपेतं नासेति तत्सद्भावाभ्युपगमेन परत्वं निषिद्धयते ।
अन्यथा परशब्दवैयर्थ्यादिति ।
*6,224*
स्यादेतत् ।
कारणान्तरसद्भावमभ्युपगम्य तस्येश्वराधीनतां वदता सिद्धान्तिनेदं वक्तव्यम् ।
किमीश्वरः प्रकृत्यादिभिर्विनापि कदाचित्सृष्टयादिकं करोत्युत तैरेवेति नियमः ।
आद्ये तेषां कथं कारणत्वमनियतत्वात् ।
अन्यथा रासभस्यापि घ(प)टकारणतापत्तेः ।
द्वितीये तु कथं तत्परित्यागेन कदाप्यकुर्वाणस्येश्वरस्य स्वातन्त्र्यम् ।
कथं च नियमेनापेक्षणीयानां तेषां पारतन्त्र्यम् ।
एवं पृकृत्यैव महान्तं महतैवाहङ्कारमित्यादिनियमं कदाचिदपहाय सृजति उतानेन नियमेनैव ।
आद्ये त्वनियतत्वेनाकारणत्वप्रसङ्गः ।
द्वितीये पुनरीश्वरादेः स्वातन्त्र्याद्यनुपपत्तिः ।
तथा प्रकृत्यादिकमुपादानीकृत्य कालादिकं निमित्तीकृत्य सृजतीति नियमे व्यत्यासे चोक्तदोषानुषङ्गः ।
*6,225*
अतो युक्तिबाधितत्वादस्यार्थस्य कारणान्तरनिरपेक्ष एव भगवन्त्सृष्टयादिकं करातीत्येव ज्यायः ।
एवञ्च निरर्गलमैश्वर्यमस्य समर्थितं स्यात् ।
नच प्रमाणबाधः ।
अद्भयः सम्भूतः पृथिव्यै रसाच्चेत्यादेरनीश्वरकर्तृकावान्तरसृष्टिविषयत्वस्योक्तत्वात् ।
तम आसीदित्यादौ तमःप्रभृतीनां प्रलये सत्त्वश्रवणे ऽपीश्वरकर्तृकायां सृष्टौ कारणत्वाश्रवणादित्याशङ्कापनोदनार्थं सूत्रम्- ॥
ओं युक्तेः शब्दान्तराच्च ओं ॥
इति ।
अस्यायमर्थः ।
नोक्तयुक्तिविरोधेन भगवतः कारणान्तरविधुरत्वमुररीकर्तव्यम् ।
कारणान्तरसद्भावाभ्युपगमे ऽपि प्रकृत्यादेः कारणत्वस्येश्वरादिस्वातन्त्र्यादिकस्य च युक्तेः ।
नचैवं तर्हि विनिगमने कारणाभाव इति वाच्यम् ।
अद्भयः सम्भूतो हिरण्यगर्भ इत्यादिशब्दान्तरात् ।
पूर्वोदाहृतशब्दविलक्षणशब्दः शब्दान्तरम् ।
तेनेदमुक्तं भवति ।
यद्यपि प्रागुदाहृताः शब्दाः कथञ्चिदन्यथा नेतु शक्यन्ते ।
तथाप्ययं न तथा ।
अत्रेश्वरकर्तृकायामेव सृष्टौ कारणान्तरसद्भावश्रवणात् ।
नहि हिरण्यगर्भसृष्टिरनीश्वरकर्तृका ।
तस्यैव प्रथमजत्वादिति ।
*6,227*
अत्र युक्तेरिति या स्वपक्षे कारणत्वादेर्घटनोक्ता सा कथमित्यपेक्षायामाह शक्तो ऽपीति ।
युक्तेः शब्दान्तराच् च

2.1.90

शक्तो ऽपि ह्यन्यथाकर्तुं स्वेच्छानियमतो हरिः ।
कारणैर्नियतैरेव करोतीदं जगत् सदा

2.1.91

अन्यथा, कारणैर्विना, कर्तुं शक्तो ऽपि हरिः कारणान्तराण्युपादायैव करिष्यामीति स्वेच्छानियमतः कारणैरेवेदं जगत्सदा सृजति ।
एवमन्यथा, प्रकृत्याहङ्कारमहङ्कारेण महान्तमिति एवम् तथा प्रकृतिं निमित्तीकृत्य कालादिकं चोपादानीकृत्य कर्तुं शक्तो ऽप्येतेनैवेदमेतदुपादानीकृत्यैवेदं स्रक्ष्यामीति स्वेच्छानियमतो नियतैः कॢप्तैरेव, तथा नियतैः स्वनियतसत्ताशक्त्यादिमद्भिरेव कारणैरिदं जगत्सदा करोतीति योजना ।
*6,228*
इदमुक्तं भवति ।
यदुक्तमीश्वरस्य कारणोपादानादिनियमो ऽस्ति न वेति ।
तत्रास्तीति ब्रूमः ।
तथाच प्रकृत्यादीनां कारणत्वं युक्तम् ।
सच नियमो न कुलालादेरिव तान्यपहाय व्यत्यस्य वा अकरणे शक्त्यभावनिबन्धनः ।
येन तस्य स्वातन्त्र्यम् तेषां च पारतन्त्र्यं न स्यात् ।
किन्नाम स्वेच्छायत्त एव ।
ततः स्वातन्त्र्यादिकमपि युक्तम् ।
नच तानि स्वाधीनसत्ताशक्त्यादिमन्ति, येनैश्वर्यं निरर्गलं न स्यात् ।
किन्तु भगवत्येव तदीयं सत्तादिकमायतते ।
ततस्तत्साचिव्यमतिशयेनैश्वर्यस्य द्योतकमेव ।
यथोक्तम्"साधनानां साधनत्वं यदाऽत्माधीनमिष्यते ।
तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत्ऽ; इति ।
ननु शक्तस्यापीश्वरस्य तन्नियमानुसरणेच्छा कुत इति चेत् ।
किं कारणं पृच्छस्युत ज्ञापकम् ।
आद्ये स्वभावो ऽयमिति ब्रूमः (वदामः) ।
द्वितीये तु श्रुतिप्रसिद्धेरिति ।
तदिदमुक्तं हिशब्देन ।
श्रुतिं चोदाहरिष्यति ।
अनेन शब्दान्तराच्चेति सूत्रं प्रकारान्तरेण व्याख्यातं ज्ञातव्यम् ।
शब्दान्तरं च शब्दविशेषो, विवक्षितार्थप्रतिपादकः शब्द इति यावत् ।
"पटवच्चऽ,"यथा प्राणादिःऽ; इति सूत्रे, भाष्य एव व्यक्ते ।
*6,229*
अन्ये पुनरन्यथैतानि सूत्राणि वर्णयन्ति ।
तथाहि ।
भावे चोपलब्धेः ।
मृदादेः कारणस्य भाव एव घटादेः कार्यस्योपलब्धेश्चानन्यत्वं कारणात्कायर्स्य ।
नहि यद्यतो भिन्नं तत्तद्भाव एवोपलभ्यते ।
न ह्यश्वो गोतो ऽन्यो गोर्भाव एवोपलभ्यते ।
किञ्च, भावे तिलादौ कारणे, तैलाद्युपलभ्यते ।
कार्ये च भावे कुण्डलादौ सुवर्णादिकम् ।
अतश्च तदभेदसिद्धिः ।
सत्वाच्चावरस्य ।
अवरकालीनस्य कायर्स्य प्रागुत्पत्तेः"सदेव सोम्येदमग्र आसीत्ऽ; इति सत्त्वावधारराच्चानन्यत्वं कारणात्कार्यस्य ।
*6,230*
असद्वयपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ।
"असदेवेदमग्र आसीत्ऽ,"असद्वा इदमग्र आसीत्ऽ; इति प्रागुत्पत्तेः कार्यस्यासत्त्वव्यपदेशान्नेति चेन्न ।
भवेदेतद्यदि कार्यस्वरूपाभिप्रायेणायं व्यपदेशः स्यात्किन्तु व्यक्तत्वलक्षणधर्मान्तराभिप्रायेण ।
कुतः ।
वाक्यशेषात् ।
असदेवेदमग्र आसीत् इत्यसच्छब्देनोपक्रमे निर्दिष्यं पुनस्तत्सदासीदिति वाक्यशेषे निर्दिशति ।
असद्वेत्यत्रापि"तदात्मानं स्वयमकुरुतऽ; इति ।
तेन ज्ञायते नासत्कार्यं धर्मान्तरेणैवासत्त्वव्यपदेश इति ।
युक्तेः शब्दान्तराच्च ।
युक्तेश्च कायर्स्य प्रागुत्पत्तेः सत्त्वं कारणादनन्यत्वं च गम्यते ।
शब्दान्तराच्च ।
युक्तिस्तावदसदकारणादित्यादिका साङ्खयोक्ता ।
वृत्तिविकल्पानुपपत्त्यादिका च सौगतोक्ता ।
शब्दान्तरं चासद्वयपदेशादन्यः"सदेव सोम्येदमग्र आसीत्ऽ; इत्यादिसद्वयपदेशः ।
पटवच्च ।
संवेष्यितप्रसारितपटन्यायेनेदं कारणात्कार्यस्यानन्यत्वं प्रागुत्पत्तेः सत्त्वं च प्रतिपत्तव्यम् ।
*6,238*
अत्र सूत्राक्षराणामार्जवानार्जवादिचिन्ता शिष्यैरेव क्रियतामित्याशयवान् यदुक्तं कारणात्कार्यस्यानन्यत्वं तत्तावन्निराकरिष्यन् किमनेन प्रबन्धेन निमित्तकारणानन्यत्वं कार्यस्योपपादितम्, उतोपादानकारणानन्यत्वमिति विकल्पं चेतसि निधायाद्यं निराकरोति- नित्यभेद इति ॥
नित्यभेदो निमित्तेन ह्य् ...
नित्यशब्दो नियमार्थः ।
भेद एवेति ।
कार्यस्येति शेषः ।
हीति सर्वप्रमाणप्रसिद्धिं सूचयति ।
तथाच सर्वमिदं बाधितविषयमिति ।
न द्वितीयः ।
प्रकृतानुपयोगात् ।
*6,240*
वियदादिप्रपञ्चस्य ब्रह्मानन्यत्वमुपपादयितुं खल्वस्योपन्यासः ।
तद्यदि नाम उपादानानन्यत्वं कार्यस्य तदा किमायातं प्रकृते ।
नहि ब्रह्म प्रपञ्चोपादानमित्येतदुक्तप्रायमिति मन्वानो दूषणान्तरमाह- उपादानेनेति ॥
... उपादानेन तु द्वयम्
हीत्यनुवर्त्यते ।
उपादानेन कार्यस्य द्वयं भेदाभेदौ प्रमितौ ।
ततो ऽस्मिन्नपि पक्षे बाधितविषयत्वमिति ।
*6,241*
कथं कार्यं कारणेन भिन्नाभिन्नं प्रमितमित्यत आह- असदिति ॥
असद् यत् कार्यरूपेण कारणात्मतयास्ति हि

2.1.92

यत् घटादिकं मृदादिकारणात्मतया प्रागुत्पत्तेरस्तीति प्रमितं परेणाङ्गीकृतं च तदेव पृथुबुध्नोदराकारादिना कार्यरूपेर प्रागुत्पत्तेरसत् हि यस्मात्तस्मादुपादानेन भिन्नाभिन्नमिति निश्चीयते ।
एतदुक्तं भवति ।
परो हि घटादेः कार्यस्य प्रागुत्पत्तेः सत्त्वमभ्युपगच्छति ।
तत्किं पृथगेवोत मृदादिकारणात्मतयेति वक्तव्यम् ।
नाद्यः ।
अनभ्युपगमात् ।
अनुपलब्धेश्च ।
द्वितीये तु कार्यस्योपादानाभेदस्तावदङ्गीकृतः ।
न चात्यन्ताभेदः ।
घटादेः कार्याकारेण प्रागुत्पत्तेरसत्त्वात् ।
यदा हि घटादिकं मृदादिनात्यन्ताभिन्नं स्यात् ।
तदा प्रागुत्पत्तेर्घटादिरूपेण सत्स्यात् ।
मृदादेस्तदा सत्त्वात् ।
न चैवम् ।
तेन जानीमो घटादिकं मृदादिना भिन्नाभिन्नमिति ।
अत्यन्तासत्कार्यवादिनं प्रति भेदाभेदसमर्थनं विरोधपरिहारश्चोत्तरत्र विधास्यत इति ।
*6,243*
यच्च कार्यस्य प्रागुत्पत्तेः सत्त्वमुक्तं तदपि नोपपन्नमित्याह- असदिति ॥
यत् घटादिकं प्रागुत्पत्तेरस्तीत्यावयोः सम्मतम् ।
तदेव तदासच्च यस्मात्तस्मात्सदेवेति सत्कार्यवादो ऽनुपपन्न एव ।
तस्यैव तदैव तत्रैव सत्त्वमसत्त्वं च विरुद्धमिति चेन्न ।
रूपभेदेन अविरोधात् इत्याशयेनोक्तं कारणात्मतया कार्यरूपेणेति ।
नन्वेवं सति किञ्चित्सदेव किञ्चित् असदेव सदसत्तु न किमपि स्यात् ।
न स्यात् ।
तयोरपि रूपयोरत्यन्तभेदाभावादिति ।
*6,244*
स्यादेतदुक्तं यद्यसत्त्वं प्रागुत्पत्तेः कार्यस्य स्यात्तदेव कुतः ।
तथा चात्यन्ताभिन्नं कार्यमुपादानेनेत्यतो विपक्षे बाधकप्रदर्शनेन कार्यस्य प्रागुत्पत्तेरसत्त्वमुपादानाद्भेदं चोपपादयति- अनवस्थेति ॥
अनवस्थान्यथा हि स्यात् सर्वत्रोत्पत्तिनाशयोः
अन्यथा कार्यस्य प्रागुत्पत्तेरात्यन्तिके सत्त्वे कारणेनात्यन्ताभेदे चाङ्गीकृते सर्वत्रोत्पत्तिनाशयोरनवस्था अव्यवस्था स्यात् ।
यथा हि ।
पटस्तन्त्वात्मकः प्रागपि सन्नेव ।
तथा तन्तवो ऽपि स्वकारणात्मकाः सन्त एवेत्यनेन क्रमेण सर्वस्य मूलकारणात्मकत्वेनात्यन्तिकं सत्त्वं स्यात् ।
नच मूलकारणमुत्पद्यते विनश्यति चेति पटादीनामप्युत्पत्तिविनाशौ न स्याताम् ।
तथाच पटादय उत्पत्तिविनाशवन्त आत्मादयस्तद्रहिता इति लोकवेदप्रसिद्धोत्पविनाशव्यवस्था न स्यादिति ।
उपलक्षणं चैतत् ।
पटादीनामुत्पत्तिविनाशाभावे तत्कारकव्यापारवैकल्यं स्यादित्यपि द्रष्टव्यम् ।
*6,246*
यद्वोत्पत्तिनाशशब्दाभ्यां सत्त्वमसत्त्वं चोपलक्ष्यते ।
ततश्चायमर्थः ।
यदि पटस्तन्त्वात्मकः प्रागुत्पत्तेरपि सन्नेव तदा(तदा)ऽप्युपलभ्येत तन्तुवत् ।
यदि चानुपलभ्यमानो ऽपि सन्नभ्युपेयते, तदा सर्वत्रोत्पत्तिनाशयोस्सदसत्त्वयोरनवस्था स्यात् ।
उपलभ्यमानं घटादिकमस्त्यनुपलभ्यमानं खरविषाणादिकं नास्तीति सर्वजनसम्मता व्यवस्था न स्यात् ।
*6,247*
अथवोत्पत्तिविनाशशब्दाभ्यां तदुपपादनस्योपलक्षणम् ।
तथा चैवं योजना आस्तां तावदन्यत् ।
सत्कार्यवादे सर्वत्र शिष्यं प्रतिवादिनं वा प्रति उत्पत्तिनाशयोर्नासदुत्पद्यते न सद्विनश्यतीत्येवंरूपोपपादनस्याप्यनवस्थावस्थानाभावः स्यात् ।
तथाहि ।
इदमुपपादनं किमर्थमिति वाच्यम् ।
शिष्यादेर्विद्योत्पत्तये ऽविद्यानाशाय वाद जल्पादौ तु ख्यात्याद्युत्पादायेति चेत् ।
तद्विद्यादिकं सच्चेन्नोत्पाद्यम्, सत्त्वादात्मवत् ।
असच्चेन्नोत्पादयितुं शक्यम्, अन्यथा सत्कार्यवादभङ्गप्रसङ्गात् ।
एवमविद्या सती चेन्न विनाश्या ।
अन्यथापसिद्धान्तापत्तेः ।
असती चेत्(नितरां) न तारम् ।
नित्यनिवृत्तत्वात् ।
ततः सर्वथा प्रतिपादनासम्भव एवेति ।
*6,248*
यदि वोत्पत्तिविनाशयोरिति विरुद्धधर्मोपलक्षणम् ।
तथाहि ।
यदि कार्यमुपादानात्मकमेव सदेव च प्रागुत्पत्तेः स्यात् ।
तदोत्पत्तिविनाशादिधर्माणामनवस्था स्यात् ।
तन्तवः प्रागेव सन्तो नेदानीमुत्पद्यन्ते ।
पटस्तूत्पद्यते ।
तन्तुष्वविनष्टेष्वेव पटो विनश्यति ।
तन्तवो बहवः पटस्त्वेकः ।
एवमाकाराभिधानबुद्धिकार्यभेदो ऽपि द्रष्टव्यः ।
सैषा व्यवस्था न स्यादिति ।
*6,249*
नन्वेतत्सकलमपि पटवच्च, यथा प्राणादिरिति व्यक्त्यव्यक्त्यवष्टम्भेन परिहृतम् ।
तथाहि ।
व्यक्त्यपेक्षयोत्पत्तिः पटादीनामव्यक्त्यपेक्षया च विनाशो युज्यते ।
व्यक्त्यव्यक्त्यर्थमेव च कारकाण्युपयुज्यन्ते ।
व्यक्त्यव्यक्तिभ्यामेवोपलब्ध्यनुपलब्धी भवतः ।
अत एव प्रतिपादनं सङ्गच्छते ।
व्यक्ताव्यक्तरूपेणैव विरुद्धधर्मा व्यवतिष्ठन्ते ।
यथा हि संवेष्यितः पटो न स्फुटं पट इति प्रतीयते ।
न प्राव्रियते न शीतमपनुदति ।
न बहुदेशव्यापी भवति ।
प्रसारितस्तु स्फुटप्रतीत्यादिमान् ।
न चैतावता भेदः ।
नापि प्रसारितः प्रागसत् ।
यथा च प्राणायामेन निरुद्धः शारीरो वायुर्जीवनमात्रं करोति नोत्क्षेपणादि ।
निरोधापगमे त्वासादितव्यक्तिस्तदपि करोति ।
न तावन्मात्रेण भिद्यते ।
प्रागसन्वा ।
तथैवैतदपि व्यक्त्यव्यक्तिभ्यां समञ्जसमिति ।
अत्र ब्रूमः ।
केयं पटस्य प्रागुत्पत्तेरूर्ध्वं च विनाशादव्यक्तिर्मध्ये च व्यक्तिः ।
अनुपलब्धिरव्यक्तिरुपलब्धिर्व्यक्तिरिति चेत्तत्राह- अनवस्थेति ॥
यद्युपलब्ध्यनुपलब्धी एवोत्पत्तिविनाशौ ।
तदा सर्वत्रोत्पत्तिनाशयोरनवस्था स्यात् ।
यद्यदोपलब्धं तत्तदैवोत्पन्नम् अनुपलब्धं च विनष्टमिति स्यादिति यावत् ।
किञ्च प्रागुत्पत्तेस्सत्त्वे पटस्य कस्मान्नोपलब्धिः कथं चोर्ध्वमुपलब्धिरिति प्रश्नस्य उपलब्ध्यनुपलब्धि(अनुपलब्ध्युपलब्धि)भ्यामेवेति परिहारं वदन्देवानांप्रियः श्लाघनीयप्रज्ञः स्यात् ।
अपि च प्रागूर्ध्वं च तन्तूपलब्धौ कथं तन्मात्रस्य सतः पटस्यानुपलब्धिः ।
अन्यथा तन्तूनामपि सा स्यात् ।
*6,251*
अथ पटधर्मावेव व्यक्त्यव्यक्ती ।
तदा तावपि तन्तूनां विद्येते न वा ।
न चेन्न कार्यकारणयेरत्यन्ताभेदः ।
विद्येते चेत्तत्राह- अनवस्थेति ॥
उत्पत्तिनाशव्यवहारहेतूव्यक्त्यव्यक्ती यदि तन्तुष्वपि विद्येते तदा सर्वत्रोत्पत्तिनाशयोरनवस्था स्यात् ।
तन्तवो नोत्पन्ना न नष्टाः ।
किन्तु पट एवेत्युत्पत्तिविनाशव्यवस्था न स्यादिति ।
*6,252*
किञ्चेयमभिव्यक्तिरुत्पत्त्यादिव्यवहारकारणतयोपादीयते ।
सा किं चक्रचीवरादिभिः प्रागसत्येवोत्पद्यते मुद्गराभिघातादिना च नश्यति, उत प्रागपि सत्येवाविनाशिनी च ।
एवमव्यक्तिरपि किं प्रागसती मुद्गराभिघातादिनोत्पद्यते ।
किंवा प्रागपि सती ।
उभयत्राद्यौ दूषयति- अनवस्थेति ॥
व्यक्त्यव्यक्त्योरुत्पत्तिनाशवत्त्वे सर्वत्रोत्पत्तिनाशयोरनवस्था व्यवस्थाभावः स्यात् ।
न किञ्चिदसदुत्पद्यते न किञ्चित्सद्विनश्यतीति सिद्धान्तविरोधः(हानिः) स्यादित्यर्थः ।
द्वितीयौ दूषयति- अनवस्थेति ॥
व्यक्त्यव्यक्त्योः सदा सत्त्वे सर्वत्रोत्पत्तिनाशयोरनवस्थाव्यवस्थितिः स्यात् ।
तथाहि ।
एतावन्तं कालमनुत्पन्नो घट इदानीमुत्पन्न इति तावन्न स्यात् ।
उत्पत्तिव्यवहारहेतोरभिव्यक्तेः प्रागपि सत्त्वात् ।
तथा मुद्गराभिघाताद्युत्तरकालमपि घटसत्त्वव्यवहारः स्यात् ।

तद्धेतोरभिव्यक्तेरविनष्टत्वात् ।
तथेदानीमेव नष्टो घट इत्यपि न स्यात् ।
विनाशव्यवहारकारणानभिव्यक्तेः प्रागपि सत्त्वादिति ।
कारकव्यापारवैफल्यतादवस्थ्यं स्फुटमेव ।
*6,253*
अथैतद्दोषपरिहाराय व्यक्त्यव्यक्त्योरपि व्यक्त्यव्यक्ती स्वीक्रियेते, तदा तयोरप्युक्तविकल्पदोषानुषङ्गः स्यात् ।
अथ तत्रापि व्यक्त्यव्यक्त्यन्तराङ्गीकारस्तदानवस्था स्यादित्याह- अनवस्थेति ॥
उत्पत्तिनाशयोरिति विषयसप्तमी ।
सन्त्वनन्ता व्यक्तयो ऽव्यक्तयश्च ।
मूलक्षयाभावान्नानवस्था दोष इत्यत आह- अनवस्थेति ॥
अन्यथानवच्छिन्नव्यक्त्यव्यक्तिपरम्पराङ्गीकारे सवर्त्र घटादावुत्पत्तिनाशयोरनवस्थानवकॢप्तिः स्यात् ।
उत्तरोत्तरव्यक्त्यव्यक्तिसिद्धौ हि पूर्वपूर्वव्यक्त्यव्यक्तीनामुत्पत्तिनाशव्यवहारनिदानत्वम् ।
ततः प्रयोजनपरिक्षयहेतुत्वादनवस्था दूषणमेव ।
*6,255*
नन्विदं भवतामपि समानम् ।
प्रागसतः सत्तासमवायो हि जनिरिष्यते ।
सत्तासमवायाह च सदा सन्ताविति प्राग्विनाशोत्तरमपि जनिः स्यात् ।
विनाशश्च न स्यादित्यत आह- अनवस्थेति ॥
इयं सर्वत्रोत्पत्तिविनाशयोरनवस्थाव्यवस्थितिः अन्यथा समवायस्य जनित्वाङ्गीकृतावेव हि स्यात् ।
नास्मन्मते ।
प्रकारान्तरेण जनेर्वक्ष्यमाणत्वादिति ।
ननु जनिः किं प्राक् सती उत कारकव्यापारजन्या ।
आद्ये प्रागुक्त एव दोषः ।
द्वितीये जनेर्जनिरपि तथेत्यनवस्था ।
एवं विनाशोपीत्यत आह- अनवस्थेति ॥
सर्वत्रोत्पत्तिनाशयोरियमुक्तानवस्था ।
अन्यथा घटजनेरन्या जनेर्जनिरित्यङ्गीकार एव स्यात् ।
न त्वेवमङ्गीक्रियते ।
अपि तर्हि घटजन्मैव जन्मनो जन्मेति ।
यथाऽहुः"यथा जनेर्जनिर्नान्या तस्या वस्तुजनिर्जनिःऽ; इति ।
घटो जायते घटजन्म जायत इत्यनयोरेकार्थतैव हि लौकिकपरीक्षकसम्मता ।
नच व्यक्त्यव्यक्त्योरप्येवमङ्गीकर्तुमुचितम् ।
जन्मविनाशावुपलब्ध्यनुपलब्धी वा विहाय व्यक्त्यव्यक्त्योरेवाप्रामाणिकत्वादिति ।
*6,257*
ननु यद्यसदुत्पद्येत सच्च विनश्येत तदा सर्वत्रोत्पत्तिनाशयोरनवस्थैव स्यात् ।
एवं सति हि (खर)शशविषाणमप्युत्पद्येत ।
आत्मा च नश्येदित्यत आह- अनवस्थेति ॥
अन्यथा कारणशक्त्यनादरणे हीमुत्पत्तिविनाशयोरनवस्था स्यात् ।
नचैवं किन्तु यस्योत्पत्तिकारणमस्ति तदसदप्युत्पद्यते ।
यस्य च विनाशकारणं विद्यते तत्सदपि निरुद्धयते ।
नच खरविषाणजन्मन्यात्मविनाशे वा कारणमस्तीति तयोर्जननविनाशाभावः ।
कारणस्वभावाननुगमे तु सत्कार्यवादिनो ऽप्यतिप्रसङ्ग एवेति ।
अथवा स्यादियमनवस्था यद्यत्यन्तासदेवोत्पद्यते सन्मात्रं विनश्यतीति ब्रूमः ।
सदसदेवोत्पद्यत इति चोक्तं विनाशकारणवदेव च विनश्यतीति ।
*6,258*
यच्चोक्तं भावे चोपलब्धेरिति सूत्रार्थत्वेन, तद्वयाप्यव्यापकभावेनैवोपपन्नं नात्यन्ताभेदसाधकम् ।
अथ कारणोपरक्तबुद्धिः सामानाधिकरण्यबुद्धिर्वात्राभिमतेति मतम् ।
सापि अभेदमात्रेण चरितार्था नात्यन्ताभेदसाधनायालम् ।
किञ्चैतद्युक्तेश्चेत्यनेनैव शक्यसङ्ग्रहं न पुनरभिधातव्यम् ।
अथानेन प्रत्यक्षमुपन्यस्यते तदपि नात्यन्ताभेदसाधकम् ।
अत एव भावाच्चोपलब्धेरिति सूत्रविपरिणामो ऽपि निरस्तः ।
सत्त्वाच्चावस्येति युक्तिश्चेद्युक्तेश्चेत्येतेनैव गतार्थता ।
श्रुतिश्चेच्छब्दान्तराच्चेत्यनेन ।
असद्वयपदेशादिति तु परिचोदनैवासङ्गता ।
परमार्थतो ब्रह्मकारणतापरत्वेनापाततस्तु शून्यस्याभावस्य वा कारणभावप्रतिपादकताप्रतिभासेन कार्यासत्त्वस्य श्रुतावप्रतीतेः ।
युक्तेरित्युक्तयुक्तिं तूत्तरत्रापाकरिष्यामः ।
शब्दान्तरं त्वाचार्येणैवान्यत्रान्यथैव व्याख्यातम् ।
पटे प्राणादौ च नात्यन्तानुपसञ्जातविशेषत्वमित्यनुदाहरणमेवेत्यलं प्रपञ्चेन ।
*6,264*
यदुक्तं शक्तो ऽपि हीति यच्च नित्यभेद इत्रत तदुभयं श्रुत्यापि साधयति- शक्तो ऽपीति ॥
शक्तो ऽपि भगवान् विष्णुरकर्तुं कर्तुमन्यथा

2.1.93

स्वभिन्नं कारणाभिन्नभिन्नं विश्वं करोत्यजः ।
इति श्रुतेरवसित उक्तार्थो ऽयमशेषतः

2.1.21

अकर्तुं शक्तो ऽपि करोति ।
अन्यथा विना कारणैस्तद्वयत्यासेन च कर्तुं शक्तो ऽपि नियतैः कारणैः करोतीच्छयेति योज्यम् ।
स्वस्मान्निमित्तकारणाद्भिन्नम् ।
उपादानकारणेनाभिन्नं भिन्नं च ।
संसारिणो हि विष्यिगृहीता इवेश्वरप्रेरिता अनिष्यमपि धारकप्रयत्नेनाकृत्वा न स्थातुमीशते ।
नच भगवांस्तथेत्यकर्तुं शक्तो ऽपीत्युक्तम् ।
अशेषतः प्रागिदानीं चोक्तो न तु सन्निहित एवेत्यर्थः ।
॥ इति श्रीमन्न्यायसुधायां आरम्भणाधिकरणम् ॥
[======= ज्न्य्स्_2,1.विइ: इतरव्यपदेशाधिकरणम् =======]
*6,265*
॥ अथ श्रीमन्न्यायसुधायां इतरव्यपदेशाधिकरणम् ॥
॥ ओं इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ओं ॥
अस्मिन्नधिकरणे जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तरान्निराक्रियत इति भाष्यम् ।
अत्र वक्तव्यम् ।
किमत्र जीवस्य सर्वथा कर्तृत्वं निराक्रियते ।
उतेश्वराधीनं तदङ्गीकृत्य स्वातन्त्र्यमात्रम् ।
नाद्यः ।
तथा सति कर्ता शास्त्राथर्वत्त्वादित्यादिवक्ष्यमाणविरोधापत्तेः ।
स्वतःकर्तृत्वानुपपत्तिरित्यादिविशेषणवैयर्थ्यप्रसङ्गाच्च ।
न द्वितीयः ।
हितकरणादिदोषप्रसक्तिरित्यादिसूत्राणां स्वातन्त्र्यनिराकरणपरत्वेन शक्ययोजनत्वे ऽपि
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोषो वेत्यस्य सूत्रस्याशक्यव्याख्यानत्वात् ।
इदं हि सूत्रं सर्वथा कर्तृत्वं निराकुर्वदुपलभ्यते ।
तथाहि ।
कर्तृत्वं कृत्स्नैकदेशाभ्यां व्याप्तम् ।
तत्र कृत्स्नप्रसक्तावनुभवविरोधः ।
एकदेशाङ्गीकारे च"अथ यः स जीवः स नित्यो निरवयवःऽ; इत्यनंशत्वश्रुतिव्याकोपः स्यात् ।
नहि सामर्थ्यापरपर्यायं प्रयत्नादिरूपं कर्तृत्वमस्माकं जीवाद्भिन्नम् ।
येन तस्य विचित्रत्वे ऽपि जीवस्य निरंशत्वं न व्याहन्येत ।
ततो व्यापकनिवृत्त्या व्याप्यं कर्तृत्वमपि विचित्रत्वे ऽपि जीवस्य निरंशत्वं न व्याहन्येत ।
ततो व्यापकनिवृत्त्या व्याप्यं कर्तृत्वमपि निवर्तत इति खल्वस्य(त्र) तात्पर्यं प्रतीयते ।
प्रसङ्गस्य विपर्यये पर्यवसानावश्यम्भावात् ।
अथ जीवकर्तृत्वस्येश्वराधीनतानङ्गीकार एवैतो प्रसङ्गावुक्तौ न कर्तृत्वमात्रे ।
तथा चेश्वराधीनत्वमेव विपर्ययवर्यवसानलभ्यं भविष्यतीति चेन्न ।
स्यादप्येवं यदि जीवकर्तृत्वस्येश्वराधीनत्वाङ्गीकारेणेमौ प्रसङ्गौ शक्यसमाधानौ स्याताम् ।
नचैवं पराधीनेनापि खल्वनेन कृत्स्नेन वा कर्तव्यमेकदेशेन वा ।
तृतीयप्रकाराभावात् ।
भावे वा तेनैवापराधीनत्वे ऽपि कर्तृत्वोपपत्तेः ।
*6,265f.*
अतो विपर्ययापर्यवसानान्नैवं व्याख्यानं युक्तमिति कर्तृत्वाभाव एव तात्पर्यम् ।
तथाच वक्ष्यमाणविरोधः ।
अथ वस्तुतो नास्त्येव जीवस्य कर्तृत्वम्, आभिमानिकं तु तदित्यविरोधः ।
मैवम् ।
विहारोपदेशादित्यादिना वास्तवस्यैव तस्य साधयिष्यमाणत्वात् ।
*6,266*
अतो दुर्घटमेतदधिकरणमित्यतो द्वितीयपक्षमङ्गीकृत्य प्रसङ्गौ जीवकर्तृत्वस्येश्वराधीनतानङ्गीकारविषयौ व्याकरिष्यन्नादौ तावदीश्वराधीनताङ्गीकारे प्रसङ्गनिवृत्तिप्रकारमागमवाक्योदाहरणेन दर्शयति- अनंशस्यापीति ॥
इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः

2.1.94

अनंशस्यापि जीवस्य किञ्चित् सामर्थ्ययोजनाम् ।
कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे

2.1.95

किञ्चित्सामर्थ्ययोजनां कार्यानुरूपसामर्थ्यप्रयोगात् ।
स्वयम्भुवे स्वतन्त्राय ।
इति वचनादवसितो ऽयमभिप्रेतः अर्थ इत्यनुवर्तते ।
ततश्चैतदुक्तं भवति ।
यदि जीवः परमेश्वराधीनतया कर्ताङ्गीक्रियते ।
तदोपपद्यते एव तस्य कर्तृत्वम् ।
प्रसङ्गयोः समाधातुं शक्यत्वात् ।
अनंशत्वस्याभ्युपगमेन हि न निरवयवत्वशब्दकोषः ।
अनंशस्यापि परमेश्वराचिन्त्यशक्तिवशेन कार्यानुरूपसामर्थ्यप्रयोगसम्भवान्न कृत्स्नप्रसक्तिरिति ।
एतचचानुपदं स्फुटीभविष्यति ।
*6,271*
एवमुपोद्घातप्रक्रियया विपर्ययपर्यवसानोपपत्तिमुक्त्वेदानीं विवक्षितार्थे सूत्रं योजयति- यदीति ॥
यदि भागेन कार्येषु जीवशक्तिं न योजयेत् ।
हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशितापि वा

2.1.96

भागेन कार्यानुगुणांशेन ।
अत्र यदीश्वराधीनतया कर्ता न स्यादिति वक्तव्ये यदि भागेनेत्यादिवचनं प्रसङ्गस्फुटीकरणार्थम् ।
ईश्वराधीनत्वप्रकारप्रपञ्चनार्थं च ।
सर्वत्र तृणादानादावपि कृत्स्नयत्नोंऽशितापि वा प्रसज्येत ।
तथा चानुभवश्रुतिविरोधः ।
तस्मात्परमेश्वराधीन एव जीवः कर्तेति शेषः ।
न चोपाधिकृतांशकल्पनया कर्तृत्वस्याविद्यकत्वेन (वो)चोपपत्तिः ।
अनंशस्यापीत्यादिप्रमाणसिद्धोपपन्नोपपादकपरित्यागेनाप्रामाणिकानुपपन्नस्वीकारस्यायुक्तत्वात् ।
*6,272f.*
ननु जीवशक्त्यैवेदं घटताम् ।
मैवम् ।
तस्याघटितघटकाचिन्त्यशक्त्यभावात् ।
भावे वा हिताकरणादिदोषप्रसक्तिः ।
न ह्यत्राधिकरणे पूर्वपक्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्याशङ्कितम् ।
किन्तु घटादिकर्तृत्वम् ।
तत्तावदनुभवसिद्धत्वात्कुलालादीनां न त्यक्तुं शक्यम् ।
तत्रेश्वरस्यापि कर्तृत्वाङ्गीकारे कल्पागौरवं स्यादित्यतो नेश्वरस्य सर्वकर्तृत्वमिति ।
तथाच कथमचिन्त्यशक्तिप्रसक्तिः ।
*6,276f.*
ननु च व्यतिरेको गन्धवदिति जीवानामनेकरूपतां सूत्रकार एव वक्ष्यति ।
उत्क्रान्तिगत्यागतीनामित्यणुत्वं च ।
न चाणोर्युगपदनेकरूपत्वं विना सांशतयोपपद्यत इति सांशतापि तत एव सिद्धा ।
तत्कथमत्र निरवयवत्वशब्दकोपो वेत्यवादीदिति गूढाभिसन्धेराशङ्कामविदिताभिप्रायैव परिहरति- अंशिनो हीत्यादिना ॥
सार्धेन श्लोकद्वयेन ।
*6,277*
अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम् ।
अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः

2.1.97

अतो ऽनंशिन इत्येव श्रुतिरेतेषु वर्तते ।
अप्यनेकस्वरूपेषु विशेषादेव केवलम्

2.1.98

बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता
तत्र बहुस्वरूपताख्येत्यनेन वक्ष्यमाणमभ्युपैति ।
बह्वित्यनेकत्वोपलक्षणम् ।
बहुस्वरूपतया ख्यायत इति बहुस्वरूपताख्या ।
तुशब्दः श्रुतिनिषेध्याया वैशिष्ययद्योतकः ।
तेषु चेतनेषु ।
हिशब्दः प्रमाणप्रसिद्धिं द्योतयति ।
अत एवास्त्येवेत्यवधारणम् ।
ततश्चायमर्थः ।
अस्त्येव वक्ष्यमाणानेकस्वरूपताणुत्वं च तदन्यथानुपपत्तिसिद्धा सांशता च ।
प्रामाणिकस्य त्यक्तुमशक्यत्वादिति ।
तर्हि कथमत्र तद्विरुद्धमुक्तमित्यत उक्तम्- अंशिन इत्यादि ॥
आद्यो हिशब्दः प्रमाणप्रसिद्धौ द्वितीयो यस्मादित्यर्थे ।
ये पटाद्या अंशिनः प्रसिद्धास्ते परस्परं भिन्नैरेवांशैरंशिना च वक्ष्यमाणप्रकारेण भिन्नाभिन्नैरेव न त्वत्यन्ताभिन्नैः तन्त्वादिभिरंशैरंशिन उच्यन्ते ।
चेतनास्त्वेवमेव पटादिवदुक्तरूपैरंशैरंशिनो न भवन्ति ।
किन्तु परस्परमंशिना चात्यन्ताभिन्नैः ।
यस्मादेवमतः प्रसिद्धांशिवैधर्म्यादेवानेकस्वरूपेषु तत एव सांशेष्वप्येतेषु चेतनेष्वनंशिन इति श्रुतिर्वर्तते ।
नतु सर्वथांशराहित्याभिप्रायेण ।
अतो न विरोध इति ।
ननु यदि भेदो नास्ति कथं तर्ह्यनेकत्वं तस्याभेदव्याप्तत्वात् ।
कथं चांशित्वम् ।
मत्वर्थस्य भेदेन विनानुपपत्तेरित्यत उक्तं विशेषादेवेति ।
भेदाभावे ऽपि केवलं तत्प्रतिनिधेर्विशेषादेवानेकस्वरूपेष्विति योजना ।
यद्वा"अप्यनेकस्वरूपेषुऽ; इत्यनेनैव वक्ष्यमाणमङ्गीकृत्यांशिन इत्यादिना विरोधः परिहृतः ।
तत्र भेदाभावे कथमनेकत्वमंशित्वं चेत्याशङ्कां
विशेषादेवेत्यादिपादत्रयेण परिहरति ।
केवलमेव भेदेन विनैव तेषु बहुस्वरूपता तया ख्यायमाना सांशता चास्ति ।
कथम् ।
विशेषादेवेति ।
कुत एतत्कल्प्यते ।
श्रुतिद्वयविरोधादेवेति हिशब्देनाह ।
अत्र जीवस्येति प्रकृते ऽपि यच्चेतना इति सामान्येनोक्तम् ।
तेन चेतनमात्रे ऽप्ययं न्याय इति सूचयति ।
अथवा यद्यंशिनो जीवास्तर्हि पटादिवदेव स्युरित्यस्याचेतनत्वमुपाधिमनेन द्योतयति ।
*6,281*
नन्वेवं तर्हि किं जीवकर्तृत्वस्येश्वराधीनत्वकल्पनया ।
तदभावे ऽपि स्वतो बहुरूपत्वसद्भावेनैकदेशतः क्रियोपपत्तौ कृत्स्नप्रसक्तेरभावात् ।
विभिन्नांशाभावेन निरवयवत्वशब्दकोपस्यापि परिहारात् ।
एतदतिरिक्तस्य चेश्वरकृत्यस्यादर्शनादिति पूर्वपक्षिणा स्वाभिसन्धावुद्घाटिते सत्याह- बहुत्वेनेति ॥
बहुत्वेनाविनाभावाद् भिन्नता नियमाद् भवेत्

2.1.99

यदि नैवं नियमकृद् भगवान् पुरुषोत्तमः
यदि भगवान्पुरुषोत्तम एवं न नियमकृद्बहुत्वे ऽपि भेदो जीवेषु मा भूदिति व्यवस्थायाः कर्ता न स्यात् ।
तदा बहुत्वेन हेतुना जीवेष्वपि भिन्नता भवेत् ।
बहुत्वसङ्खयाया भिन्नत्वेनाविनाभावलक्षणान्नियमात् ।
यथोक्तम्- तदनुविधानात्पृथक्त्वम्ऽ; इति ।
एतदुक्तं भवति ।
परमेश्वरानपेक्षस्य जीवस्य कर्तृत्वाङ्गीकारे न सर्वथोक्तप्रसङ्गद्वयपरिहारः ।
तथाहि ।
कृत्स्नप्रसक्तिस्तावत्कथं परिहरणीया ।
बहुत्वसद्भावेनेति चेत् ।
तर्हि बहुत्वस्य लोके भेदाविनाभूतत्वेन जीवस्य बहुत्वे भिन्नत्वमप्यापद्येत ।
तथाच दुरात्मा निरवयवत्वशब्दकोपो दुष्परिहारः ।
अथ तत्परिहारार्थं भेदो नेष्यते ।
तदा व्यापकनिवृत्त्या व्याप्यनिवृत्तेरावश्यकत्वाद्बहुत्वसङ्खयापि त्याज्या स्यात् ।
तथा च पुनः सैव कृत्या कृत्स्नप्रसक्तिरास्कन्देत ।
अथ जडेष्वेव यत्र बहुत्वं तत्र भेद इति नियमो न चेतनेष्विति चेत् ।
कुत एतत् ।
तथ दर्शनादिति चेन्न ।
यतः कारकप्रश्नो ऽयं न प्रमाणप्रश्नः ।
स्वभावो ऽयं पदार्थानामिति चेन्न ।
अनीश्वरवादपादप्रसारिकापातात् ।
किञ्च विरुद्धश्च स्वभावश्चेति कथम् ।
नहि स्वयमेव स्वेन सद्वितीय इति युक्तम् ।
प्रमितत्वान्न विरोध इति तु प्रत्युक्तम् ।
चैतन्यसामर्थ्यादिदं घटत इति चेत् ।
धूमवानपि कश्चिन्निरग्निको घटताम् ।
अथ विशेषशक्त्येदमुपपद्यत इति चेत् ।
घटे ऽप्युपपद्यताम् ।
नहि तत्र विशेषो नास्ति ।
विशेषवैचित्र्यान्नेति चेत् ।
तदेव कुतः ।
तस्माद्भगवानेव स्वरूपस्वभावविशेषाणां नियामकश्चैतन्यमवच्छेदकं विधाय विशेषं निमित्तीकृत्य विरुद्धे अप्यभेदबहुत्वे समावेश्याभेदेन निरवयवत्वशब्दकोपमपास्य बहुत्वेन कृत्स्नप्रसक्तिं न्यक्कृत्य कार्यानुरूपं सामर्थ्याविशेषं (नि)योजयञ्जीवेन कारयतीत्यङ्गीकर्तव्यमिति ।
नन्वेतत्सर्वं जीवसामर्थ्यादिनाशक्यसम्पादनं कथं भगवानपि सम्पादयेदित्यत आह- तस्य त्विति ॥
*6,282*
तस्य त्वशेषशक्तित्वाद् युज्यते सवर्मेव च

2.1.27

तदेवमस्य सूत्रस्यैवं तात्पर्यव्याख्याने न कश्चिद्विरोध इति स्थितम् ॥
॥ इति श्रीमन्न्यायसुधायां इतरव्यपदेशाधिकरणम् ॥
व्यास -(19)
[======= ज्न्य्स्_2,1.विइइ: शब्दमूलत्वाधिकरणम् =======]
*6,287*
॥ अथ श्रीमन्न्यायसुधायां शब्दमूलत्वाधिकरणम् ॥
॥ ओं श्रुतेस्तु शब्दमूलत्वात् ओं ॥
नन्वीश्वरस्यापि कर्तृत्वं न युज्यते ।
जीववत्कृत्स्नप्रसक्तेः ।
नहि ब्रह्माण्डपिपीलिका(ण्ड)निर्माणे समं सामर्थ्यं प्रयुञ्जानः प्रेक्षावान्भवति ।
गत्यन्तराभावान्न दोष इति चेन्न ।
ईश्वरत्वव्याघातात् ।
अथैतत्परिहाराथर्मेकदेशेन प्रवृत्तिरङ्गीक्रियते तदा"नेह नानाऽ; इत्यादिनिरवयवत्वशब्दकाषः स्यात् ।
शरीरेन्द्रियादिविकलत्वाच्च न कर्तृत्वम् ।
नहि कश्चिच्छरीरादिविकलः कर्तोपलब्धः ।
भूम्याद्याधारविधुरत्वाच्च ।
एवं दौर्घट्ये ऽपि यदि कर्तृत्वमीश्वरस्य स्यात्तदा जीवस्यापि किन्न स्यात् ।
विशेषादर्शनात् ।
एवञ्च सर्वकर्तृत्वं दूरनिरस्तमित्ययं पूर्वपक्षो ऽत्राधिकरणे निरस्यते ।
तस्य तात्पर्यमाह- तस्य त्विति ॥
श्रुतेस् तु शब्दमूलत्वात्

2.1.99

तस्य त्वशेषशक्तित्वाद् युज्यते सवर्मेव च

2.1.100

*6,288f.*
तुशब्दो जीवाद्विशेषं द्योतयति ।
चशब्दो हेतुसमुच्चये ।
ईश्वरस्यलौकिकत्वश्रुतेरागमैकागम्यत्वेन युक्तिविरोधानवकाशात् ।
विचित्रशक्तिः पुरुषःऽ,"सर्वैर्युक्ता शक्तिभिर्देवता साऽ; इत्यादिश्रुतिभिर्विचित्राशेषशक्तित्वावगमाच्च ।
सर्वं भिन्नांशरहितस्यापि कार्येषु कृत्स्नप्रसक्त्यभावः, स्वरूपांशबाहुल्ये ऽपि भेदाभावः, अंशतः कार्यकरणे ऽपि निरवयवत्वशब्दकोपाभावः, देहादिरहितस्यापि कर्तृत्वनिर्वाह इत्यादि युज्यत इति ।
ननु दुर्घटमपि जीवकर्तृत्वमीश्वरशक्त्या घटत इत्यतीताधिकरणे ऽभिहितम् ।
तथाच कथमत्र पूर्वपक्षावकाशः ।
यो हि परत्र प्रमितं घटयितुमीष्ये सः स्वस्मिन्न ईष्ये इत्यसम्भावितम् ।
उच्यते ।
नैषोर्थः सूत्रकृतातीताधिकरणे ऽभिहितः ।
किन्त्वागामिनमर्थं मनसि निधाय जीवकर्तृत्ववादनिरास एव विहितः ।
भाष्यकारेण तु शिष्यहितैषिणा वक्ष्यमाणमप्यर्थमाकृष्ट पूर्वोत्तरविरोधः परिहृत इति ।
*6,290*
परिणामवादिनो विवर्तवादिनश्च ब्रह्मणो जगदुपादानत्वं कृत्स्नप्रसक्तिरित्यनेनाक्षिप्य श्रुतेस्त्वित्यादिना समाधीयत इति व्याचक्षते ।
तथाहि ।
न ब्रह्म जगदुपादानम् ।
यतस्तथात्वे कृत्स्नस्यापि ब्रह्मणः कार्याकारताप्रसक्तिः स्यात् ।
स्थितौ च ब्रह्माभावे तद्दर्शनोपदेशानर्थक्यादि स्यात् ।
अथैतद्दोषपरिजिहीर्षया ब्रह्म एकदेशेन परिणमते एकदेशेन चावतिष्ठत इत्युच्यते तदा"निष्कलं शान्तम्ऽ; इत्यादिनिरवयवत्वशब्दकोपः स्यादिति ।
अत्रोच्यते ।
नायं दोषः ।
"तदात्मानं स्वयमकुरुतऽ; इत्यादिश्रुतेर्ब्रह्मणो जगदुपादानत्वस्य कृत्स्नपरिणामाभावस्य चावगमात् ।
शब्दमूलत्वेन युक्तिविरोधानवकाशाच्च ।
अपि च सर्वशक्त्युपेता च परदेवता श्रूयते ।
"सर्वकर्मा सर्वकामःऽ; इत्यादि ।
ततो निरवयवस्यापि ब्रह्मणः कृत्स्नप्रसक्त्यभावेनैव जगदुपादानत्वमुपपन्नमित्यादि ।
तदेतद्वयाख्यानमनुपपन्नम् ।
एवं सति एषां सूत्राणामेतदध्यायान्तर्भावलक्षणसङ्गत्यभावप्रसङ्गात् ।
तत्कथमित्यत आह- विरोध इति ॥
*6,291*
विरोधः सर्ववैशिष्टये यो द्वितीये निरस्यते ।
नारायणस्य त्वध्याये ... ॥ मनुव्_2,1.100अ-च् ॥
तुशब्दो ऽवधारणे ।
परब्रह्मणा नारायणस्य सर्वस्माच्चेतनादचेतनाच्च वैशिष्यये वैलक्षण्ये
परमोत्कृष्टत्वे ऽत्यन्तव्यावृत्तत्वे च यो युक्त्यादिविरोधः स एवात्र द्वितीये ऽध्याये निरस्यते ।
सकलजगदुपादनत्वेन सर्वात्मकत्वं तु न सर्ववैशिष्ययम् ।
नापि तदुपयुक्तम् ।
प्रत्युत विरुद्धमेव ।
तत्कथं तत्र विरोधपरिहारो ऽत्रान्तर्भावमासादयेत् ।
ननु जगदुपादानत्वादेव सर्ववैशिष्ययं ब्रह्मणः ।
नहि जगज्जगदुपादानमिति चेत् ।
तत्किमुपादानोपादेययोर्भेदं मन्यसे ।
तथाच तदनन्यत्वमित्युक्तविरोधः ।
जगत् ब्रह्मणो न भिद्यते ब्रह्म तु जगतो भिद्यत इति चेत् ।
न ।
उक्तोत्तरत्वात् ।
*6,293*
प्राग्ब्रह्मोपादानत्वस्यानुक्तत्वात्कृत्स्नप्रसक्त्यादिपरिचोदनैवानवकाशा ।
परिणामप्रतिपादकश्रुतेरभावेन गगनादिप्रपञ्चात्मकस्य तदसम्भविशब्दमूलत्वसर्वशक्तित्वाद्यसम्भवेन च समाधानमप्ययुक्तम् ।
विवर्तवादे तु सर्वथापि नैषा शङ्कावकाशमश्नुते ।
शुक्त्यादिकमिव रजताद्यारोपस्य ब्रह्माविद्यकप्रपञ्चारोपस्याधिष्ठानमिति स्पष्टमारम्भणाधिकरणे ऽभिहितम् ।
तत्र कथं कृत्स्नैकदेशविचारः ।
उक्तानवछानाच्छङ्गेति चेत् ।
तर्ह्युक्तं स्मरेति वक्तव्यम् ।
स्पष्टं चारोपितत्वं प्रपञ्चस्य ब्रह्मण्युपपादनीयम् ।
श्रुतेस्त्वित्यादेस्तु का सङ्गतिः ।
*6,295*
कश्चित्परिहारादर्शनसम्भ्रान्तचित्त आह ।
अविद्यासंवलितं खलु ब्रह्म जगदुपादानम् ।
तत्राविद्योपादानत्वस्यायमाक्षेपः परिहारश्चेति ।
तदतीव मन्दम् ।
न ह्यविद्याया उपादानत्वमपि वास्तवम् ।
तस्याविचारितरमणीयतयैव शङ्काविषयत्वात् ।
किञ्च कृत्स्नप्रसक्तिः सावयवत्वं चाविद्यायां किं करिष्यति ।
समाधानं तु सर्वथाप्यसङ्गतमेव ।
एतेन विकरणत्वादित्याक्षेपपरिहारावप्यसङ्गतौ वेदितव्यौ ।
नहि भ्रमाधिष्ठानता शरीरादिकमपेक्षते ।
ईश्वरविषयं तदिति चेन्न ।
तस्य किरणत्वाभावेनाक्षेपानुदयादित्यादिकं स्वयमेव शिष्यैरवगन्तव्यमित्यसङ्गतिरेवाचार्येणोक्ता ।
*6,296*
स्यादेवमसङ्गतिर्यदि ब्रह्मणः सर्ववैशिष्यये विरोधपरिहारो ऽध्याहायर्ः स्यात्तदेव कुत इत्यत आह- तदन्य इति ।
... तदन्ये तत्रतत्रगाः

2.1.101

*6,296f.*
तस्मात्सर्ववैशिष्ययविषयादन्ये विरोधास्तत्र तत्रैवाधिकरणेषु गताः परिहृताः ।
एतदुक्तं भवति ।
अविरोधलक्षणो द्वितीयो ऽध्याय इति तावत्सम्मतम् ।
न चानुक्ते ऽर्थे विरोधपरिहारः सङ्गत इति प्रथमाध्यायार्थे ऽविरोधो द्वितीयस्यार्थः ।
प्रथमे चादिसूत्रेण शास्त्रीयविषयप्रयोजनप्रदर्शनमुखेन ब्रह्मजिज्ञासायाः कतर्व्यत्वमुक्तम् ।
तच्चतुरध्यायीपरिसमाप्यं नैकत्र पर्यवस्यति ।
ततः किं तद्ब्रह्म ।
किं जीवो ऽथ जडमिति स्वरूपजिज्ञासायां शृङ्गग्राहिकया प्रदर्शयितुमशक्यत्वात् ।
द्वितीयसूत्रे सर्वतो वैलक्षण्यप्रदर्शनेन सर्वोत्कृष्टं सर्वस्माद्वयावृत्तं चेति प्रतिपादितम् ।
सजातीयविजातीयासम्भावितधर्मस्य लक्षणत्वात् ।
सकलेतरव्यावृत्तेश्च तत्प्रयोजनत्वात् ।
तृतीयसूत्रे शास्त्रं तत्र प्रमाणमभिधाय तस्योत्तरप्रबन्धेन सामान्यतो विशेषतश्च सकलजीवजडव्यावृत्तवस्तुविषयता समर्थिता ।
एवंच द्वये विरोधः परिहरणीया भवन्ति ।
द्वितीयसूत्रसिद्धसर्ववैशिष्ययविषयाः शास्त्रसमन्वयविषयाश्च ।
तत्र द्वितीया विकारशब्दादित्यादिना तत्र तत्रैवाधिकरणे परिहृता इति परिशेषात्सर्ववैशिष्ययविषयविरोधपरिहार एव द्वितीयार्थ इति ज्ञायत इति ।
*6,299*
ननु च श्रुतीनां परस्परविरोधो ऽपि द्वितीये ऽध्याये न वियदश्रुतेरित्यादिना परिहृतः ।
तत्कथमुच्यते ब्रह्मणः सर्ववैशिष्यये विरोधो द्वितीये निरस्यत इति तत्राह- सृष्टीति ॥
सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् ।
अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः

2.1.31

जीवरूपाभिधायिनां वाक्यानाम् ।
उपलक्षणमेतत् ।
प्राणादिविषयाणां चेत्यपि द्रष्टव्यम् ।
सृष्टयादिविशेषणमुपपत्तिसूचनार्थम् ।
तुशब्दो विशेषार्थः ।
यो द्वितीयाध्यायगोचरो वाक्यानामन्योन्यविरोधः सो ऽपि पारमेश्वरसर्ववैशिष्ययविरोधपरिहार एव ।
किन्तु प्रथमद्वितीयपादयोः साक्षत्तृतीयचतुर्थयोस्तु व्यवधानेनेति विशेषः ।
तथाहि ।
श्रुतीनां परस्परविरोधपरिहारः किं तत्प्रामाण्यनिर्णयमात्रफलः किं वा प्रमेयनिर्णयफलः ।
नाद्यः ।
मीमांसाया न्यायशास्त्रत्वापत्तेः ।
किञ्चैवं सति वियदादिसृष्टयादिविषयवाक्यविरोधपरिहार एव कस्मात्क्रियते ।
उदितहोमादिवाक्यानामपि न्यायदर्शन इवोपादानोपपत्तेः ।
आकाशवाय्वादिक्रमश्चात्र नात्यन्तमुपयुज्यते ।
द्वितीये ऽपि किं सृष्टयादिकमेव प्रमेयमुत तदङ्गिभूतमन्यत् ।
नाद्यः ।
तस्य स्वरूपतो ऽप्रयोजनत्वात् ।
प्रथमाप्रतिपाद्यत्वम् ।
अन्यथा पुनरुदितहोमादिवाक्यविरोधपरिहारो ऽपि कार्यः स्यात् ।
*6,300*
सृष्टयादिविषयनिष्कर्षो ऽपि निर्हेतुकः ।
अतो द्वितीय एव परिशिष्यते ।
नचान्यदस्ति सृष्टयादिप्रमेयस्याङ्गि प्रथमोक्तं द्वितीयसूत्राभिहिताद्ब्रह्मणः सर्ववैशिष्ययात् ।
अतो युक्तमुक्तम् ।
तदेवं परोक्तसूत्रार्थस्य द्वितीयाध्यायान्तर्भावलक्षणसङ्गत्यभावाद्विरोधाच्चोक्त एव सूत्रार्थ इति सिद्धम् ।
*6,302*
अत्रेश्वरस्य शरीरेन्द्रियादिकरणरहितत्वात्कर्तृत्वं नोपपद्यते इत्याक्षेपसमाधानार्थं सूत्रम् ॥
ओं विकरणत्वान्नेति चेत्तदुक्तम् ओं ॥
इति ।
एतदनारम्भणीयम् ।
पुनरुक्तत्वात् ।
श्रुतेस्तु शब्दमूलत्वात्, तात्मनि चैवं विचित्राश्च हि, सर्वोपेता च तद्दर्शनादिति सूत्रैरेवालौकिकत्वशब्दैकसमधिगम्यत्वविचित्रानन्तशक्तित्वादियुक्तिभिः सर्वस्यापि दौर्घट्यस्य परिहृतत्वात् ।
यो हि साक्षात्कारकाधिष्ठानस्य नेष्ये स शरीरव्यवधानमपेक्षते ।
यस्य चागन्तुकं ज्ञानं स तदर्थमिन्द्रियाणि ।
यश्च गुरुशरीरो नावस्थातुं शक्नोति स क्षित्यादिकमाधारम् ।
भगवांस्तु सर्वशक्तिः सर्वज्ञः किमर्थपपेक्षतेति ।
नच काचिदभ्यधिका शङ्कास्ति येन पुनरारम्भः स्यादित्यत आह- मानेति ॥
विकरणत्वान् नेति चेत् तद् उक्तम्

2.1.102

मानमेयविशेषेण पुनरुक्तिर्न जायते

2.1.32

यथा अत एव प्राण इत्यादौ मानैक्ये ऽपि मेयविशेषण न पुनरुक्तिदोषस्तथात्र मेयैक्ये ऽपि मानविशेषण न पुनरुक्तिदोषः ।
एतदुक्तं भवति ।
किमुक्तार्थोक्तिमात्रं दोषः ।
किं वोक्तानतिरिक्तोक्तिः ।
नाद्यः ।
उक्तपरिहारातिदेशोक्तेरपि दोषत्वानुषङ्गात् ।
द्वितीयस्तु प्रकृते न सिद्धः ।
प्रमेयैक्ये ऽपि प्रमाणभेदस्य सत्त्वात् ।
इह हि चिदानन्दाद्यात्मकदिव्यमङ्गलविग्रहवतो महापुरुषस्य प्राकृतशरीराद्यभावे ऽपि सकलकार्यकर्तृत्वमपाणिपाद इत्यादिश्रुतिमाश्रित्योक्तमिति ।
यद्वा मानमेययोर्विशेषेणेति योज्यम् ।
तथा चायमथर्ः ।
पूर्वसूत्रैः सामान्यविषयप्रमाणान्याश्रित्य सामान्यत एव सर्वानुपपत्तिपरिहारो विहितः ।
इह तु विशेषविषयेणैव प्रमाणेन विशेषानुपपत्तिपरिहारः क्रियत इति कथं पुनरुक्तिदोषावकाश इति ।
तथाप्याक्षेपो नोपपद्यत इति चेन्न ।
विशेषजिज्ञासयोपपत्तेरिति ।
॥ इति श्रीमन्न्यायसुधायां शब्दमूलत्वाधिकरणम् ॥
[======= ज्न्य्स्_2,1.इx: नप्रयोजनाधिकरणम् =======]
*6,304*
॥ अथ श्रीमन्न्यायसुधायां नप्रयोजनाधिकरणम् ॥
*6,304f.*
॥ ओं न प्रयोजनवत्त्वात् ओं ॥
ओं लोकवत्तु लीलाकैवल्यम् ओं ।
यत्प्रयोजनार्थं सृष्टयादिस्तदूनत्वादपूर्णतेत्याक्षेपपरिहारायेदमधिकरणमारभ्यते ।
तदेतदनुपपन्नमित्याभाति ।
तथाहि ।
यद्यत्र कर्तृत्वेन प्रयोजनवत्त्वं प्रसाध्यापूर्णत्वसाधनं पूर्वपक्षिणो विवक्षितं स्यात्तदा प्रथमसूत्रमयुक्तं स्यात् ।
अपूर्णतासाधकं प्रति प्रयोजनवत्त्वहेतोरसिद्धत्वात् ।
अथ कर्ता चेत्प्रयोजनवान्स्यात् तथा चापूर्णः स्यादित्यापादनं विवक्षितम् ।
तदा व्यर्थमेवेदं सूत्रम् ।
न चापूर्णस्ततो न प्रयोजनवानिति परेणैवाङ्गीकृतत्वात् ।
अन्यथा विपर्ययापर्यवसानात् ।
लोकवत्तु लीलाकैवल्यमिति द्वितीयसूत्रं तु पक्षद्वये ऽप्ययुक्तम् ।
साधनापादनदूषणस्यानुद्भावनादिति ।
मैवम् ।
ईश्वरस्य सृष्टयादिना प्रयोजनमस्ति न वा ।
आद्ये ऽपूर्णत्वं प्रसज्येत ।
द्वितीये तु कर्तृत्वानुपपत्तिः तस्य प्रयोजनव्याप्तत्वादित्युभयथापीश्वरस्य जगत्सृष्टयादिकर्तृत्वानुपपत्तिरित्यत्र पूर्वपक्षिणो विवक्षितम् ।
तत्र प्रथमसूत्रेण प्रयोजनाभावपक्षं सयुक्तिकमुपादत्ते ।
तत्रोक्तदोषपरिहारार्थं द्वितीयं सूत्रम् ।
यद्वा कर्तृत्वेन प्रयोजनस्य तेन चापूर्णत्वस्य इदं स धनं विवक्षितमुतापादनमिति सिद्धान्ती विकल्प्याद्यमाद्येन निराचष्टे ।
न कर्तृत्वेन प्रयोजनवत्त्वं साध्यम् ।
कृतकृत्यत्वेन प्रयोजनाभावस्यैव निश्चितत्वात् ।
नचासिद्धो हेतुः ।
अथैष एव परम आनन्दो निरनिष्यो निरवद्य इति श्रुतेः ।
प्रयोजनवत्त्वेनापूर्णतानुमानं तु गर्भस्रावेणैव ग(लि)तमिति ।
आद्यस्य दूषणान्तरं वदन्द्वितीयं द्वितीयेन निराकरोतीति ।
*6,308*
ननूक्तमत्र लोकवदिति सूत्रेण साधनस्यापादनस्य वा न किञ्चिद्दूषणमुद्भाव्यत इति ।
मैवम् ।
बाधादेरुद्भावनादित्याशयवान्द्वितीयसूत्रस्य तात्पर्यमाह- सदेति ॥
न प्रयोजनवत्त्वात्

2.1.33

लोकवत् तु लीलाकैवल्यम्

2.1.102

सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम्

2.1.103

*6,309*
यथा लोके ज्वलनपवनादीनां तथेशस्यापि सदा सृष्टयादौ केवलं प्रयोजनेन विना स्वभावादेव प्रवृत्तिः प्रमितेति शेषः ।
तदनेनेश्वरस्य प्रवृत्त्या प्रयोजनसाधनमनैकान्तिकं बाधितविषयं च ।
प्रसङ्गस्तु व्यप्तिविकलो विपर्ययापर्यवसायी चेत्युक्तं भवति ।
अथ मन्येत ।
चेतनप्रवृत्तिः न प्रयोजनेन विना दृष्टा ।
अतो नानैकान्त्यादीति ।
तदपि नास्ति ।
मत्तस्य सुखोद्रेकादेव नृत्तगानादिप्रवृत्तिदर्शनात् ।
*6,310*
ननु च प्रेक्षावत्प्रवृत्तिर्न प्रयोजनोद्देशेन विनोपलब्धा इयं च प्रेक्षावत्प्रवृत्तिः ।
अतः प्रयोजनोद्देशवती स्यादिति साध्यमापाद्यं चेत्यत आह- अङ्गेति ॥
अङ्गचेष्या यथा पुंसः काश्चिदुद्देशवर्जिताः
काश्चिद्वयाख्यानादावङ्गुलिचालनादिकाः ।
उद्देशवर्जिताः प्रयोजनोद्देशवर्जिताः ।
तथा ईशस्यापि प्रवृत्तिरिति पूर्वेणान्वयः ।
तथाप्यनैकान्त्याद्यनिस्तार इति भावः ।
*6,311*
यदुक्तमीश्वरस्य प्रवृत्तिः प्रयोजनेन विना स्वभावादेव प्रमितेति ।
तत्प्रमाणमिदानीमाह- देवस्येति ॥
देवस्यैष स्वभावो ऽयमित्याह श्रुतिरञ्जसा

2.1.104

"देवस्यैष स्वभावो ऽयमाप्तकामस्य का स्पृहाऽ; इति श्रुतिरञ्जसा स्फुटमुक्तमर्थमाह ।
देवस्यायं सृष्टयादिविषय एषः इच्छा ।
तत्पूर्विका प्रवृत्तिरिति यावत् ।
स्वभाव एव ।
न प्रयोजनाय ।
कुतः आप्तकामस्य प्रयोजनस्पृहासम्भवादित्यर्थः ।
*6,312*
केचिदिदं सूत्रमन्यथा व्याचक्षते ।
यथा लोके सप्तद्वीपां मेदिनीमधितिष्ठतः सम्पूणर्शौर्यवीर्यपराक्रमस्यापि महाराजस्य केवललीलैकप्रयोजनाः कन्दुकाद्यारम्भा दृश्यन्ते ।
तथैव परस्यापि ब्रह्मणः स्वसङ्कल्पमात्रावकॢप्तजगज्जन्मस्थितिध्वंसादेर्लीलैव प्रयोजनमिति तदेतन्निराकरोति- क्रीडामिति ॥
क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी
"भोगार्थं सृष्टिरित्यन्ये क्रीडाथर्मिति चापरेऽ; इति क्रीडाप्रयोजनां भगवतः सृष्टयादिप्रवृत्तिं वदतः पूर्वपक्षीकृत्य देवस्यैव स्वभावो ऽयमिति सयुक्तिकं प्रयोजनलेशाभावः श्रुत्या सिद्धान्तितः ।
अतः श्रुतिविरुद्धत्वादपव्याख्यानमेवैतत् ।
सूत्राक्षराननुगुणं चैतद्वयाख्यानमित्याह- इतीति ॥
इति केवललीलैव निर्णीता प्रभुणा स्वयम्

2.1.105

*6,312f.*
यत एवं"क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनीऽ; इति तस्मात् श्रुत्यनुसारिणा प्रभुणा स्वयं साक्षात्सृष्टं केवललीलैव सृष्टयादिप्रवृत्तिर्निर्णीता लीलाकैवल्यमिति ।
नतु लीलार्थेति ततो ऽप्ययुक्तमिदं व्याख्यानमिति ।
यद्वा पूर्ववाक्योक्तो हेतुः, अयं साध्यनिर्देशः ।
यस्माल्लीलां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी तस्मादेतत्सूत्रे केवललीलैव सूत्रकृता निर्णीता व्याख्याता न पुनर्लीलार्थेति ।
*6,313*
किञ्च कर्तृत्वेन प्रयोजनवत्तां साधयन्नापादयन्वा प्रष्टव्यः ।
किं प्रयोजनं स्वसम्बन्धि विवक्षितम्, उत परसम्बन्धि, अथ साधारणम् ।
आद्ये साधने ऽनैकान्त्यम् ।
आपादने व्याप्त्यभावः ।
विपर्ययपर्यवसाने व्यभिचार एव ।
दृश्यन्ते हि कृपालवः स्वप्रयोजनमनुद्दिश्य परप्रयोजनार्थमेव प्रवर्तमानाः ।
नचादृष्टार्थमिति वाच्यम् ।
पशूनां पशुप्रायाणां चापत्यपालनादौ प्रवृत्तिदर्शनात् ।
नच प्रयोजनोद्देशिता कृपालुता चेति सम्भवति ।
द्वितीये ऽप्यनैकान्त्यादिकमेव ।
स्वप्रयोजनार्थं प्रवृत्तेर्बहुलमुपलम्भात् ।
भगवतो ऽपि स्वप्रयोजनाभावे ऽपि परप्रयोजनोद्देशिताङ्गीकारेण क्रमेण सिद्धसाधनेष्यापादनासिद्धत्वप्रसङ्ग(ङ्गा)श्च ।
अत एव न तृतीयो ऽपि ।
अत एव (येन) केनचित्कर्तृत्व(त्वे)विशेषणं, प्रवृत्तिस्वभावत्वे सदा प्रवर्तेतेत्यतिप्रसञ्जनं च प्रत्युक्तम् ।
*6,314*
स्यादेतदेवम् ।
यदीश्वरप्रवृत्तौ परप्रयोजनोद्देशः स्यान्न चासावङ्गीकर्तुमुचितः ।
का स्पृहा न कापीति श्रुत्या नेति सूत्रकारेण च सर्वथा प्रयोजनोद्देशस्य निवारितत्वादित्यत आह- आत्मेति ॥
आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत्
श्रुतिरिति सूत्रकृतो ऽप्युपलक्षणम् ।
परप्रयोजनार्थतां त्वङ्गीकुरुत एवेति शेषः ।
*6,324*
कुत एतदवगम्यत इत्यत आह- नेति ॥
*6,325*
न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः

2.1.106

यतः परप्रयोजनमङ्गीकृत्यात्मप्रयोजनार्थतामेव नेति न्यवारयत् ।
अत एव हि प्रयोजनवत्त्वादिति तत्र हेतुमाह- अन्यथा नैतं ब्रूयात् ।
एतदुक्तं भवति ।
यदि नेति सौत्रीप्रतिज्ञा स्वपरप्रयोजनविषया स्यात् तदा प्रयोजनवत्त्वादिति हेतुरनैकान्तिकः स्यात् ।
स्वयं व्यापारसाध्यप्रयोजनवतो ऽपि परप्रयोजनोद्देशेन व्यापारदर्शनात् ।
स्वप्रयोजनमात्रविषयत्वे तु नायं दोषः ।
यो ऽवाप्तयत्प्रयोजनः स स्वार्थं न तदुद्दिशतीति व्याप्तेरनवद्यत्वात् ।
अतः प्रयोजनवत्त्वादिति हेतुं ब्रह्मणः सूत्रकृदात्मप्रयोजनोद्देशमेव नेति निवारितवान् ।
न परप्रयोजनोद्देशमपि ।
तथात्वे तद्वयाप्तमेव कमपि हेतुं ब्रूयात् ।
स्वप्रयोजननिषेधं कुर्वाणो विशेषनिषेधस्य शेषाभ्यनुज्ञाज्ञापकत्वात्परप्रयोजनस्पृहामभ्युपैतीति (मनुजानातीत्यपि) ज्ञायत इति ।
उपलक्षणमेतत् ।
श्रुतिरप्याप्तकामस्येति हेतुगर्भविशेषणं प्रयुञ्जानाऽत्मप्रयोजनस्पृहामेवाक्षिपति परप्रयोजनस्पृहामभ्युपैतीति ज्ञायत इत्यपि द्रष्टव्यम् ।
*6,326*
इह हि बुद्धिरेवेश्वरस्याव्याहता क्रियाशक्तिः, तथैव सर्वस्योपपत्तौ किमिच्छाप्रयत्नकल्पनया ।
यद्वा प्रयत्नः कर्तत्वम् ।
तस्यैवाख्यातार्थतया निर्णीतत्वात् ।
स च द्वेधा बुद्धिमपेक्षते ।
उत्पत्त्यर्थं विषयनियमार्थं च ।
तत्रेश्वरप्रयत्नो यद्यपि नित्यत्वान्नोत्पत्तावपेक्षते बुद्धिम् ।
तथापि विषयनियमार्थं तामपेक्षत एव ।
न हि निर्विषय एवासौ ।
व्यर्थत्वप्रसङ्गात् ।
नच स्वभावत एवार्थप्रवणः ।
बुद्धित्वप्रसङ्गात् ।
बुद्धिरेव हि स्वभावतो ऽर्थप्रवणा ।
अतो ज्ञानप्रयत्नाभ्यामेव सर्वनिर्वाहान्नेश्वरस्येच्छास्ति ।
न चेच्छया प्रयत्नस्य विषयनियमः ।
तस्या अपि स्वतो विषयप्रवणताभावात् ।
तदर्थं बुद्धयङ्गीकारे तयैव प्रयत्नस्य विषयनियमोपपत्तेः किमन्तर्गडुनेच्छयेति मन्वा(न्यमा)नाः केचित्,"का स्पृहाऽ; इत्रत श्रुतिर्नेश्वरस्य प्रयोजनेच्छामात्रनिषेधपरा, किन्त्विच्छालक्षणं गुणमेव निषेधतीति व्याचक्षते ।
तन्निराकरोति- इच्छामात्रमिति ॥
*6,327*
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।
इति प्रशंसया ... ॥ मनुव्_2,1.106अ-च् ॥
का स्पृहेति श्रुत्या नेश्वरस्येच्छामात्रं निषि(षे)ध्यते ।
कुतः ।
इच्छावत्त्वस्य प्रमाणतः सिद्धत्वात् ।
तथाहि ।
"विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ।
कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाःऽ; इति परिणामवादं विवर्तवादं कालादिनिमित्तवादं चान्यमतत्वेनोक्त्वेच्छामात्रमिति श्रुत्या स्वमतमुच्यते ।
ये सृष्टिविषये विशिष्टनिश्चयवन्तस्ते, प्रभोरिच्छामात्राधीना सृष्टिर्न ब्रह्मपरिणामो नच तद्विवर्तो नापि कालादिनिमित्तेति मन्यन्त इति ।
अनया प्रभोरिच्छामात्रायत्ततां सृष्टेर्मन्यमानानां विनिश्चिता इति प्रशंसया तस्येच्छावत्त्वमवगम्यते ।
यदीश्वरस्येच्छा न स्यात् तदा तदायत्ततां सृष्टेर्मन्यमाना विपयर्स्ताः स्युः ।
विशिष्टनिश्चयवन्त इत्येषा प्रशंसानुपपन्ना स्यात् ।
नच प्रशंसात्वादेवार्थासिद्धिः ।
पूर्वोत्तरपक्षावधारणप्रसङ्गे प्रशंसानुपपन्ना स्यात् ।
नच प्रशंसात्वादेवार्थासिद्धिः ।
पूर्वोत्तरपक्षावधारणप्रसङ्गे प्रशंसाया अपि याथार्थ्यावश्यम्भावात् ।
अन्यथा परिणामादिवादा अपि प्रशंस्येरन् ।
*6,330*
... कामश्रुतिभ्यश्चैव ...
न केवलं श्रुतार्थानुपपत्त्या ।
अपि तर्हि"कामस्तदग्रे समर्वताधिऽ,"सो ऽकामयतऽ; इत्यादिभ्यो भगवतः कामप्रतिपादकश्रुतिभ्यश्चेच्छावगम्यते ।
एवशब्दः श्रुतीनामर्थापत्तितः प्राबल्यसूचकः ।
इच्छाकामशब्दयोर्ज्ञानप्रयत्नोपलक्षणत्वस्य सम्भवान्नार्थापत्तिश्रुतिभ्यामिच्छासिद्धिरिति चेन्न ।
मुख्ये बाधकाभावात् ।
*6,331*
... युक्तितः
मा वा सैत्सीदिच्छा ऽर्थापत्तिश्रुतिभ्यां युक्तितस्तावत्सेत्स्यति ।
तथाहि ।
ईश्वर इच्छावान् आत्मत्वात् यज्ञदत्तवत् ।
नच मुक्तादौ व्यभिचारः ।
तत्रापि तस्याः साधयिष्यमाणत्वात् ।
ज्ञानवत्त्वात्, प्रयत्नवत्त्वात्, कर्तृत्वाद्वा ।
ईश्वरज्ञानं वेच्छासमानाश्रयं ज्ञानत्वादस्मदादिज्ञानवत् ।
एवं तत्प्रयत्नमपि पक्षीकृत्य प्रयोक्तव्यम् ।
यद्वा क्षित्यादिकमिच्छावज्जन्यं कार्यत्वाद्घटवत् ।
नन्वेवं दुःखादिकमपि साधयितुं शक्यमिति चेत्तत्किमतिप्रसङ्गभीरुणा क्षित्यादेर्बुद्धिमत्कारणकत्वानुमानमपि त्यक्ष्यते ।
दुःखादिसाधने बाधो ऽस्ति न बुद्धिसाधन इति चेत् ।
समं प्रकृते ऽपि ।
*6,333*
महातात्पर्ययुक्तेश्च ...
नन्वीश्वरस्य इच्छाभावे बाधकाभावादप्रयोजकत्वमनुमानानामिति ।
मैवम् ।
महातात्पर्ययुक्तेश्च ।
यदीश्वरस्य इच्छा न स्यात् तदा तस्मिन्सर्ववेदानां (वेदान्तानां) महातात्पर्यं न स्यादिति बाधकसद्भावात् ।
इच्छा निष्प्रयोजनेति चेत् ।
स्यादेवं यदि प्रयोजनमनुरुध्य कल्प्यते ।
अन्यतः सिद्धे ऽर्थे किं प्रयोजनगवेषणया ।
... नेच्छामात्रं निषिद्धयते

2.1.107

*6,333f.*
किञ्चैवं सति बुद्धिरपि नाङ्गीकरणीया ।
स्वरूपसामर्थ्येनैवेश्वरस्य कर्तृत्वोपपत्तेः ।
लोकवैरूप्यमिति चेत् ।
तत्किमुदासीनस्य बोद्धुः कर्तृत्वमुपलब्धं लोके, येनानिच्छतो ऽपि तदीश्वरस्याङ्गीक्रियते ।
प्रयत्नवत एव वा कर्तृत्वं भविष्यति ।
तस्य विषयनियमार्थं बुद्धिरेष्यव्येति चेन्न ।
बुद्धिवत्स्वतो विषयप्रवणतोपपत्तेः ।
तथात्वे बुद्धितो भेदो न स्यादिति चेन्न बुद्धित्वादिनैव तदुपपत्तेः ।
अन्यथा परोपाधिकविषयप्रवणत्वयोरिच्छाप्रयत्नयोरपि भेदा न स्यात् ।
विषयनियमार्थमिति च को ऽर्थः ।
किं विषयविशेषसम्बद्धतयोत्पादा(नार्)थम्, उतोत्पन्नस्य स्थितस्यैव वा तत्सम्बन्धार्थम्, अथ तज्ज्ञानार्थम् ।
नाद्यः ।
अनादित्वात् ।
सादित्वे ऽपि क(का)रणसापेक्ष(त)या बुद्धेरपि परतो विषयप्रवणतापत्तेः ।
न द्वितीयः ।
पौर्वापर्योभावात् ।
नहि प्रयत्नः उत्पाद्य स्थित्वा वा पश्चाद्विषयेण सम्बद्धयते ।
न तृतीयः ।
स्वरूपग्राहकप्रमाणेनैकतद्ग्रहणात् ।
बुद्धेरपि परापेक्षाप्रसङ्गाच्चेति ।
*6,348f.*
महातात्पर्ययुक्तेश्चेति यदुक्तं तदसत् ।
यदीश्वरो नेच्छावान्स्यात्तदा श्रुतिमहातात्पर्यविषयो न स्यादित्यत्र व्याप्त्यभावात् ।
इच्छारहितस्यापि धर्मादेस्तत्तच्छास्त्रमहातात्पर्यविषयत्वदर्शनात् ।
आपाद्यस्यानिष्टत्वाभावाच्चेत्यत उक्तं विवृणोति- मोक्षार्था इति ॥
*6,349*
मोक्षार्थाः श्रुतयो यस्मात् स च तस्य प्रसादतः ।
उन्निनीषतिवाक्याच्च लोकदृष्टानुसारतः

2.1.108

इच्छांनिमित्तको यस्मात् तदभावे कुतः श्रुतिः ।
महातात्पर्यरहिता प्रमाणत्वं गमिष्यति

2.1.109

यस्मात्कारणात्सर्वा अपि श्रुतयो मोक्षार्थाः मोक्षप्रयोजनास्तस्मात्तदभावे परमेश्वरस्येच्छाभावे तत एव मोक्षार्थताभावे श्रुतिस्तत्र महातात्पर्यरहिता स्यात् ।
तथाच कथं प्रमाणत्वं गमिष्यतीति योजना ।
मोक्षार्थत्वे किमीश्वरस्येच्छयेत्यत उक्तम्- स चेति ॥
स च मोक्षस्तस्य ईश्वरस्य प्रसादतो यस्मात्तस्मात्तदभाव इति सम्बन्धः ।
तथापीश्वरस्य प्रसादेन भाव्यं किमिच्छयेत्यत प्रसादत इत्येतद्वयाख्यातम्- इच्छानिमित्तक इति ॥
ईश्वरज्ञानादेव मोक्षसिद्धेः किं तत्प्रसादेनेत्यत उक्तम्- लोकेति ॥
विमतो बन्धमोक्षः प्रभुप्रसादसाध्यो मोक्षत्वात् शृङ्खलामोक्षवत् इत्यादिलोकदृष्टव्याप्त्युपेतानुमानानुसारतः इत्यथर्ः ।
न केवलमनुमानात्किन्त्वागमादपीत्युक्तं- उन्निनीषतीति ॥
"एष ह्येष साधुकर्म कारयति तं, यमेभ्यो लोकेभ्य उन्निनीषतेऽ; इति वाक्याच्च ।
अत्र कर्मेत्युपलक्षणम् ।
उन्निनीषते ऊर्ध्वं नेतुमिच्छति ।
यद्वा प्रसादशब्देनेच्छोच्यते इत्यत इदं वाक्यं (वाक्यमेतत्) ज्ञापकम् ।
लोकदृष्टा(दृष्ट)नुसारत इत्येतदप्यस्यैव अर्थस्य ज्ञापकमुक्तम् ।
श्रुतय इत्युपक्रम्य श्रुतिरित्येकवचनं कैमुत्यार्थम् ।
एकमपि वाक्यं न तत्र महातात्पर्यवत्स्यात् ।
किमुत सर्वाः श्रुतय इति ।
*6,351*
एतदुक्तं भवति ।
शास्त्रं हि साध्यसाधनभाववद्विषयप्रयोजनवत्तया व्याप्तम् ।
तत्र श्रुतीनां मोक्ष एव प्रयोजनम् ।
"तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्ततेऽ; इति वचनात् ।
मोक्षादन्यत्रात्यन्तिकदुःखप्रहाणायोगात् ।
स्वर्गादिप्रयोजनं भवदप्यवान्तरमेव न प्रधानम् ।
विषयस्तु परमेश्वर एव ।
"सर्वे वेदा यत्पदमामनन्तिऽ; इत्यादिवचनात् ।
धर्मादिकं त्ववान्तरप्रतिपाद्यम् ।
अभिप्रेतप्रयोजनसाधनं च विषयतामश्नुते ।
नच धर्मादिकं मोक्षसाधनम् ।
"पुण्यचितो लोकः क्षीयतेऽ; इति श्रुतेः ।
अतो भगवत्येव मोक्षसाधनत्वात्सवर्श्रुतीनां महातात्पर्यम् ।
नचाव्यापृतात्साधनात्फलसिद्धिः ।
व्यापारश्च प्रसाद एव ।
नतु श्रुतिजनितं तज्ज्ञान साक्षात्कारो वा ।
"यस्य प्रसादात्ऽ; इत्यादिवाक्यादुक्तानुमानाच्च ।
ज्ञानं तु प्रसादसाधनमिति न सम्बन्धानुपपत्तिः ।
प्रसादो नामेच्छाविशेषः ।
तथा सति"उन्निनीषतेऽ"तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितौऽ; इत्यादिश्रुतिभिः"यस्य प्रसादात्ऽ; इति श्रुतेरैकार्थ्यलाभात् ।
प्रसन्नो ऽस्मीति प्रतीतौ परोपचिकीर्षाया एव स्फुरणात् ।
तथाच यदीश्वरो नेच्छावांस्तदा न प्रसिदेद्घटवत् ।
सामान्याभावे विशेषाभावनियमात् ।
प्रसादरहितश्च न मोक्षसाधनं स्यात् ।
यद्यत्र विवक्षितावान्तरव्यापाररहितं न तत्तत्र साधनमिति व्याप्तेः ।
मोक्षं प्रत्यसाधनं च न मोक्षशास्त्रमहातात्पर्यविषयः स्यात् ।
तथाच मोक्षप्रयोजनता श्रुतीनां हीयेत ।
नच विषयान्तरं प्रयोजनान्तरं चास्तीति विषयप्रयोजनशून्यत्वादप्रामाण्यमेवापद्येत ।
नच तदपौरुषेयतायानाशङ्कितदोषस्य वाक्यस्योपपद्यते ।
अतो ऽवश्यमुक्तेन क्रमेणेच्छावत्त्वं भगवतो ऽङ्गीकरणीयमिति ।
*6,355f.*
ननु विषयाभावे स्यादप्रामाण्यम् ।
फलाभावे तु कथमप्रामाण्यापादनम् ।
नहि फलवत्त्वं प्रामाण्यम् ।
किन्तु याथार्थ्यमेवेत्युक्तम् ।
नापि प्रामाण्यस्य व्यापकम् ।
तृणादिदर्शनस्य प्रयोजनाभावे ऽपि प्रामाण्याभ्युपगमादित्यत आह- याथार्थ्यमेवेति ॥
*6,356*
याथार्थ्यमेव मानत्वमपि वाक्यं प्रयोजकम् ।
मानत्वमेति ... ॥ मनुव्_2,1.109अ-च् ॥
यद्यपि याथार्थ्यमेव मानत्वं न फलवत्त्वम् ।
नापि तेन व्याप्तम् ।
तथापि वाक्यं प्रयोजकमेव मानत्वमेतीति युक्तमापादनम् ।
एतदुक्तं भवति ।
प्रामाण्यमात्रस्य प्रयोजनवत्त्वेन व्याप्त्यभावे ऽपि तद्विशेषस्य वाक्यप्रामाण्यस्यास्त्येव ।
पदानामिष्यसाधन एव गृहीतसङ्गतिकत्वात् ।
पदसङ्गतिग्रहणसव्यपेक्षस्यैव वाक्यस्य बोधकत्वात् ।
फलस्य विषयविशेषे वाक्यप्रामाण्यनिर्णयहेतुत्वाच्च ।
अतो व्यापकाभावे व्याप्यवाक्यप्रामाण्याभावापादनमुपपन्नमेवेति ।
*6,357*
ननु च महातात्पर्यगोचरस्य विषयस्य परमप्रयोजनस्य चाभावे ऽप्यवान्तरविषयेण धर्मादिनाप्रधानप्रयोजनेन च स्वर्गादिना विषयप्रयोजनवती श्रुतिः प्रमाणं भविष्यति इत्यत आह- तत्रापीति ॥
... तत्रापि यत् सम्पूर्णप्रयोजनम्

2.1.34

वाक्ये ऽपि निर्धारणे सप्तमी ।
प्रयोजनवत्त्वे ऽपीति वा ।
यत् वाक्यं सम्पूर्णप्रयोजनं महाप्रयोजनम् ।
उपलक्षणं चैतत् ।
प्रधानविषयं चेत्यपि द्रष्टव्यम् ।
यदिति श्रवणात्तदिति लभ्यते ।
सम्पूर्णप्रयोजनमिति चावर्तनीयम् ।
मानत्वमेतीत्यनुवर्तनीयम् ।
तथा चायमर्थः ।
नावान्तरविषयप्रयोजनाभ्यां वाक्यस्य प्रामाण्यं सम्भवति ।
किन्नाम यद्वाक्यं यन्म(हा)हत्प्रयोजनमुद्दिश्य यं प्रधानं विषयं प्रतिपादयितुं प्रवृत्तं तत्ताभ्यां(एव) प्रयोजनविषटाभ्यामुपेतं प्रामाण्यमश्नुते ।
तदभावे ऽवान्तरप्रयोजनादेरप्यसिद्धेः ।
सिद्धौ वा वा तस्यैव प्राधान्यप्राप्तेः ।
वेदवाक्यं च मोक्षोद्देशेन महातत्पर्योपेतमित्युक्तम् ।
तत्तयोरेव विषयप्रयोजनयोरुपपत्तौ प्रमाणं स्यान्नान्यथेति ।
॥ इति श्रीमन्न्यायसुधायां न प्रयोजनाधिकरणम् ॥
व्यास -(20)
[======= ज्न्य्स्_2,1.x: वैषम्यनैर्घृण्याधिकरणम् =======]
*6,359*
॥ अथ श्रीमन्न्यायसुधायां वैषम्यनैर्घृण्याधिकरणम् ॥
॥ ओं वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ओं ॥
प्राणिनां विविधान्देहेन्द्रिय(यादि)विषयांस्तत्फलं च सुखदुःखलक्षणमुत्पादयन्नीश्वरः किं तदीयं धर्माधर्मरूपं कर्मापेक्षते न वा ।
आद्ये तस्य स्वातन्त्र्यप्रच्युतिः ।
द्वितीये निर्निमित्तं कांश्चित्सुखयन्विषमः स्यात् ।
कांश्चिद्दुःखयन्निर्घृणः स्यात् ।
इत्युभयथा न तस्य सर्वकर्तृत्वमित्येष(व) पूर्वपक्षो ऽत्राधिकरणे निराक्रियते ।
तत्र तावदाद्येन सूत्रेण कर्मादिसापेक्षस्य कर्तृत्वमभ्युपेत्य वैषम्यनैर्घण्ये परिहृते ।
अपेक्षणीयं कर्मादि ईश्वरायत्तं न वा ।
नेति पक्षे सर्वकारणत्वहानिः ।
आद्ये निर्निमित्तं विषमाणां कर्मणां कारयितुर्वैषम्यनैर्घृण्ये स्यातामित्याक्षिप्य कर्मादीनामनादिता(त्वा)भ्युपगमेन समाधानमुक्तं"न कर्माविभागादिति चेन्नानादित्वात्ऽ; इति सूत्रेण ।
एवं तर्हि कर्मादिसापेक्षस्य स्वातन्त्र्यं न स्यादित्याशङ्कयोक्तमुपपद्यते चेति ।
कर्माद्यपेक्षस्यापि तस्य स्वातन्त्र्यमुपपद्यते ।
कर्मादिसत्तादेरपि तदधीनत्वस्यारम्भणाधिकरणे समर्थितत्वात् ।
नहि स्वाधीनसत्तादिकमपेक्षमाणस्य स्वातन्त्र्यप्रच्युतिर्युक्तेति ।
एवं(च) तर्हि तदपेक्षा नामानपेक्षैव ।
तथाच पुनर्वैषम्याद्यापत्तिरित्याशङ्कयोक्तम्- उपलभ्यते चेति ॥
उपलभ्यते ही(चे)श्वरस्येदृशं वैषम्यं निर्घृणत्वं च प्रमाणैः ।
अतो नेदमनिष्यमिति ।
तदिदमयुक्तम् ।
वैषम्यनैर्घृण्ये हि वस्तुतो दूषणे न वा ।
आद्ये कथमन्ततो ऽप्यङ्गीक्रियेते ।
द्वितीये प्रथममेवाङ्गीकार्ये ।
किं सापेक्षतापक्षं कक्षीकृत्य तत्र दूषणपरिहारक्लेशेन ।
तथाच बकबन्ध(क)रीतिरित्यतो ऽभिप्रायमाह- वैषम्यमिति ।
*6,360*
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति

2.1.110

वैषम्यं चैव नैर्घृण्यं वेदाप्रामाण्यकारणम् ।
नाङ्गीकार्यमतो ऽन्यत्तु न वैषम्यादिनामकम्

2.1.37

द्विविधं खल्विदं वैषम्यं निर्घृणत्वं च ।
एकं (ध)कर्माद्यनपेक्षताप्रयुक्तम् ।
अपरं तु सापेक्षत्वे ऽपि कर्मादिसत्तादेरपीश्वराधीनत्वप्रयुक्तम् ।
तत्राद्यं वेदाप्रामाण्यकारणत्वेन दूषणत्वात् नेश्वरस्याङ्गीकर्तुमुचितम् ।
वेदो हि धर्मं सुखसाधनमधर्मं च दुःखसाधनमाह ।
तत्र यदीश्वरो धर्माधर्मानपेक्ष्य विषमो निर्घृणश्च स्यात् तदा वेदोदितं धर्माधर्मयोः सुखदुःखसाधनत्वमसत्स्यात् ।
तथाच तस्य कथं प्रामाण्यं स्यात् ।
अतः सूत्रकारेण कर्मादिसापेक्षतापक्षमुररीकृत्य तत्परिहृतम् ।
अतो ऽन्यत्तु द्वितीयं वैषम्यं नैर्घृण्यं च न वैषम्यादिनामकं दूषणरूपं न भवतीति यावत् ।
तथाहि वैषम्यादिकं तावन्न स्वरूपेण दोषः किन्तु दोषहेतुतया ।
न चेदं वेदाप्रामाण्यकारणम् ।
कर्मादिसापेक्षत्वाङ्गीकारात् ।
नापि जीवानामिवेश्वरस्य प्रत्यवायहेतुः ।
तदभावात् ।
अतो ऽदूषणत्वादङ्गीकृतं सूत्रकृतेति न कश्चिद्दोषः ।
तथाच भाग्यम् ।
"नच पुनर्वैषम्याद्यापातेन दोषःऽ; इति ।
॥ इति श्रीमन्न्यायसुधायां वैषम्यनैर्घृण्याधिकरणम् ॥
[======= ज्न्य्स्_2,1.xइ: सर्वधर्मोपपत्त्यधिकरणम् =======]
*6,366*
॥ अथ श्रीमन्न्यायसुधायां सर्वधर्मोपपत्त्यधिकरणम् ॥
॥ ओं सर्वधर्मोपपत्तेश्च ओं ॥
सर्वे चेतना अपूर्णगुणा दोषिणश्च दृष्टास्तद्दृष्टान्तेन चेतनत्वादीश्वरस्यापि समासव्यासाभ्यामपरिपूणर्गुणत्वं दोषित्वं च स्यादिति पूर्वपक्षो ऽत्राधिकरणे निरस्यते ।
तदिदमस्पष्टं भाष्ये ।
चशब्दसमुच्चितायाः श्रुतेरेवोदाहृतत्वात् ।
युक्तेरव्युत्पादनात् ।
ततः स्पष्टं यदधीना इति ॥
सर्वधर्मोपपत्तेश् च

2.1.111

यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ।
गुणास्तस्य कथं न स्युः स्युर्देषाश्च कथं पुनः

2.1.112

चापिशब्दावन्योन्यसमुच्चये ।
एवशब्दस्य यदधीना एवेत्यन्वयः ।
हिशब्दः सर्वस्य भगवदधीनतायां श्रुत्यादिप्रसिद्धिं द्योतयति ।
कथमित्याक्षेपे ।
द्वेधा हि वस्तु न प्राप्यते ।
तत्र स्वातन्त्र्याभावाद्वा प्रेप्साभावाद्वा ।
द्वेधा च न हीयते ।
स्वातन्त्र्याभावाद्वा जिहासाभावाद्वा ।
अस्ति तावदीश्वरस्य सर्वत्र स्वातन्त्र्यम् ।
अस्ति च मया सर्वदाऽनन्दादिगुणवता दुःखादिदोषवर्जितेन भाव्यमितीच्छा, प्रेक्षावत्त्वात् ।
अतः कथं तस्यानन्दादिगुणपूर्णत्वं दुःखादिसर्वदोषदूरत्वं न भवति ।
अत्रैते प्रयोगाः ।
ईश्वरः सकलगुणपूर्णः सर्वदोषदूरश्च, स्वतन्त्रत्वात् ।
व्यतिरेकेण यज्ञदत्तवत् ।
ईश्वरो विप्रतिपन्नगुणवान्, तत्र प्रेप्सावत्त्वे सति स्वतन्त्रत्वात् ।
यो यत्र प्रेप्सावत्वे सति स्वतन्त्रः स तद्वान् यथा सम्प्रतिपन्नः ।
ईश्वरो न विमतदोषवान्, तज्जिहासुत्वे सति स्वतन्त्रत्वात् ।
यो यत्र जिहासावत्त्वे सति स्वतन्त्रः स तदभाववान् ।
यथा सम्मत इति ।
*6,368*
सर्वधर्मापपत्तेस्तद् वाक्यैरपि हि तादृशैः ।
निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः

मूल पाठ: Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc