न्यायसुधा · अध्याय 1.4
न्यायसुधा:
मोक्ष इत्युक्तपरामर्शार्थ इतिशब्दः ।
तुशब्दो विद्यापतेस्तु इति योज्यः ।
हृदि वर्तन्ते ।
तस्मादसौ विशदमवादीदिति शेषः ।
तत देवतानधिकारादिकम् ।
तथेति ।
संमुग्धमित्यर्थः ।
अस्याप्युपपादनाय नित्यमित्यादिपूवर्वाक्यमनुसन्धेयम् ।
विद्येशेत्युपसंहारः ।
अयं न्यायो ऽन्यत्राप्यनुसन्धेय इति ज्ञापयितुमित्यादय इत्रत जैमिन्याद्या इति सद्भिरिति चोक्तमिति ।
॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयः पादो ऽयं प्रथमविषये पर्यवसितः ।
॥ इति श्रीमन्न्यासुधायां प्रथमाध्यायस्य तृतीयः पादः ॥
अध्यय 1, पद 4
[======= ज्न्य्स्_1,4.इ: आनुमानिकाधिकरणम् =======]
*4,67*
॥ अथ श्रीमन्न्यायसुधायां आनुमानिकाधिकरणम् ॥
अन्यत्रैव प्रसिद्धशब्दसमन्वयप्रतिपादनं पादार्थ इति भाष्यात्परिशेषाद्वा सिद्धम् ।
अन्यत्र प्रसिद्धेभ्यो ऽन्यत्रैव प्रसिद्धानां विवेकश्च भाष्य एवोपपादित इति नेहोच्यते ।
ओं आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ओं ॥
आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च
न्यायसुधा:
अत्र"महतः परमव्यक्तमव्यक्तात्पुरुषः परःऽ; इति वाक्यमुदाहृत्य, अव्यक्तशब्दं परं ब्रह्मैवेत्युपपादितम् ।
तत्र यदुक्तं पूर्वपक्षिणा"अव्यक्तं चेत्परं ब्रह्म तदा तस्य पुरुषादवरत्वं प्राप्नोति ।
नच तद्युक्तम् ।
सकलश्रुत्यादिविरोधात्ऽ; इति ।
तत्परिहारार्थं सूत्रम्
तदधीनत्वादर्थवदिति ।
तदधीनत्वाद् अर्थवत्
तस्यार्थं विवृणोति- दुःखीति ॥
दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः ।
शब्दा ब्रह्मणि वर्तन्ते ... ॥ मनुव्_1,4.1अ-च् ॥
न्यायसुधा:
अव्यक्तग्रहणमुपलक्षणम् ।
यत्र वाक्ये सर्वेश्वरत्वविरोधि दुःखित्वादिकं प्रतीयते"जीवा एव तु दुःखिनःऽ,"योनिमन्ये प्रपद्यन्तेऽ; इत्यादौ, तस्य सर्वस्यापि समन्वयो ऽत्र प्रतिपाद्यत इत्यतो दुःख्यादग्रहणम् ।
नाव्यक्तादिशब्दानां ब्रह्मपरत्वे ऽप्यवरत्वादिप्राप्त्या सर्वमानविरोधो ऽस्ति ।
यतः स्वस्मिन्नवरत्वाद्यभावे ऽपि तद्वतां प्रधानादीनां ब्रह्माधीनत्वेन हेतुना दुःखी,बद्धः,अवरः, इत्याद्या अपि शब्दा ब्रह्मणि वर्तन्त इत्यङ्गीकृतम् ।
एतदुक्तं भवति ।
दुःख्यादिशब्दबलादेव हि दुःखित्वादिप्राप्तिः ।
ततश्च प्रमाणविरोधो वाच्यः ।
नच दुःख्यादिशब्दो नियमेन दुःखादिसमवायस्य वाचकः ।
किन्तु तदस्यास्तीति तत्सम्बन्धमात्रस्य ।
सम्बन्धश्च समवाय इव स्वाम्यमपि भवति ।
"तत्र निरनिष्यो निरवद्यःऽ"नामानि सर्वाणि यमाविशन्तिऽ; इति निरवकाशश्रुतिद्वयान्यथानुपपत्त्या दुःखादिनियन्तृत्वेन दुःख्यादिशब्दप्रवृत्तिरित्यङ्गीकारे कानुपपत्तिरिति ।
*4,71*
भवत्वेवं तद्धितान्तेषु गतिः ।
कृदन्तेषु बद्धादिशब्देषु रूढेषु चावरादिशब्देषु कथम् ।
इत्थम् ।
बद्धशब्दस्य बन्धं प्रति कर्मत्वं प्रवृत्तिनिमित्तम् ।
तद्यस्यास्ति तत्र स शब्दो वर्तते ।
यस्यास्तीति च सम्बन्धमात्रमुच्यते ।
सम्बन्धविशेषे प्रमाणाभावात् ।
एवं कारकान्तरवाचिष्वपि द्रष्टव्यम् ।
अवरादिशब्दा अपि अवरत्वादिनिमित्ताधीनप्रवृत्तय एवमेव योज्याः ।
किञ्च"प्रातिपदिकाद्धात्वर्थःऽ; इति ण्यन्तेभ्यः पचाद्यचि विहिते सुलभैवावरादिशब्दप्रवृत्तिः ।
स्यादेषा व्याख्या, यत्र शब्दतो ऽवरत्वादिप्रतीतिः ।
यत्र पुनः"अव्यक्तात्पुरुषः पर इत्यादावर्थादवत्वादिप्राप्तिस्तत्र कथम् ।
नहि शब्दवदुपपत्तिर्व्याख्यानमर्हति ।
उच्यते ।
अव्यक्तादिति पञ्चम्या हि पुरुषगतं परत्वं प्रति अव्यक्तस्यावधित्वमस्तीत्येतावदेव लभ्यते ।
नच"तदस्यास्तिऽ; इत्यनेन समवाय एव प्राप्नोतीति नियमो ऽस्ति ।
तत्स्वामित्वेनाप्युपपत्तेः ।
ततश्च यद्गतं परत्वं प्रति अवधित्वं तस्यावरत्वमर्थादापद्यताम् ।
परगतं तु यत्स्वामिकं तस्यावरत्वादिकं प्रति स्वाम्यमेवार्थादापद्यत इति न कश्चिद्विरोधः ।
*4,76*
स्यादेतत् ।
यद्यपि तदस्यास्तीति सम्बन्धसामान्यं दुःख्यादिशब्दप्रवृत्तिनिमित्तमुच्यते ।
तथापि समवायादिरेव न स्वामित्वम् ।
प्रयोगानुसारित्वात्कृत्तद्धितसमासानाम् ।
प्रयोगश्च समवायादिनिमित्त एव दृश्यते ।
न स्वामित्वनिमित्तः ।
अत एव"तदस्यास्त्यस्मिन्निति मतुब्ऽ; इतीतिकरणो विविक्षितार्थो निबद्धः ।
तस्मान्न तदधीनत्वहेतुतो दुःख्यादिशब्दानां ब्रह्मणि प्रवृत्तिः इत्यतो ऽस्ति तदधीनत्वनिमित्तो ऽपि प्रयोग इत्याह- राज्ञीति ॥
... राज्ञि यद्वत् पराजयः
न्यायसुधा:
भृत्यसमवेतस्य पराजयस्य राजाधीनत्वेन यथा राज्ञि पराजयः पराजयनिमित्तकः पराजयीतिशब्दो वर्तते पराजयी भद्रसेन इति तथेत्यर्थः ।
किञ्च स्वाम्यसम्बन्धेन मतुबर्थाप्रवृत्तौ गोमान्देवदत्त इत्यादिकमपि न स्यात् ।
*4,78*
एतदेव विवृणोति- स्वातन्त्र्यमिति ॥
स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम्
न्यायसुधा:
यस्मात् प्रवृत्तिनिमित्तानां दुःखादीनां तद्गतत्वमिव परगतेषु स्वातन्त्र्यमपि दुःख्यादिशब्दप्रवृत्तेः कारणम् ।
अनुशासनप्रयोगयोरुभयत्र साम्यात् ।
तस्माद्दुःख्यादिशब्दा अपि उक्तार्थापत्तिबलात्तदधीनत्वहेतुतो ब्रह्मणि वर्तन्त इति सम्बन्धः ।
*4,79*
अस्तु स्वातन्त्र्यमपि शब्दप्रवृत्तिनिमित्तम् ।
किं त्वमुख्यमेव ।
तत्र प्रयोगस्याप्रचुरत्वात् ।
प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम् ।
तथाच दुःख्यादिशब्दानां जीवादिष्वेव मुख्यत्वाद्ब्रह्मण्यमुख्यत्वात्"तत्तु समन्वयात्ऽ; इत्यनुपपन्नमित्यत आह- स्वातन्त्र्यमिति ॥
स्वातन्त्र्यं तत्र मुख्यं स्यात् ...
न्यायसुधा:
तत्र स्वातन्त्र्यतद्गतत्वयोर्मध्ये स्वातन्त्र्यमेव मुख्यं शब्दप्रवृत्तिनिमित्तं स्यात् ।
नतु तद्गतत्वमित्यर्थः ।
*4,80*
स्वातन्त्र्यमपि शब्दप्रवृत्तिकारणमिति मुख्यमिति च क्रमेण प्रतिज्ञातम् ।
तत्क्रमेणैवोपपिपादयिषुः स्वातन्त्र्यस्य कारणत्वानभ्युपगमे बादकमाह- कुत इति ॥
... कुतो राज्ञि जयो ऽन्यथा
न्यायसुधा:
अन्यथा स्वातन्त्र्यस्य शब्दप्रवृत्तिकारणत्वाभावे, राज्ञि जयो जयनिमित्तको जयिशब्दः कुतः ।
कथम् ।
स्वधामोपविष्ये राज्ञि जयः कुतः, न कुतो ऽपि यतः, इत्यर्थः ।
जयस्य राजगतत्वाभावात्स्वातन्त्र्यमपि यदि शब्दप्रवृत्तिनिमित्तं न स्यात् तदा निमित्ताभावाद्राज्ञि जयिशब्दप्रवृत्तिर्न स्यात् ।
न चैवम् ।
तस्मात्स्वातन्त्र्यमपि कारणमङ्गीकरणीयमिति ।
लक्षणया प्रयोगो ऽस्त्विति चेन्न ।
तदस्यास्तीति निमित्तसाम्यात् ।
अन्यथा वैपरीत्यस्याप्यापातात् ।
पराजयस्य प्रकृतत्वे ऽपि जयग्रहणं व्याप्त्यर्थम् ।
*4,82*
स्वातन्त्र्यस्य मुख्यकारणत्वमुपपादयति- न हीति ॥
नहि भृत्यस्य विजयिशब्दस्तावत् प्रयुज्यते ।
यावद् राज्ञ्यन्यगत्वे ऽपि स्वातन्त्र्याभासमात्रतः
न्यायसुधा:
हिशब्दो यस्मादित्यर्थे ।
तावद्यावदिति क्रियाविशेषणे ।
जयस्यान्यगत्वे ऽपि भृत्यगतत्वे ऽपि तं जयं प्रति स्वातन्त्र्याभासमात्रेण राज्ञि विजयिशब्दो यावत्प्रयुज्यते तावज्जयाधिकरणस्यापि भृत्यस्य सम्बन्धितया न प्रयुज्यते यस्मात्तस्मात्स्वातन्त्र्यं तत्र मुख्यं स्यादिति सम्बन्धः ।
स्वातन्त्र्यादिति वक्तव्ये स्वातन्त्र्याभासमात्रत इति वचनं किमुतानुपचरितस्वातन्त्र्ये परमात्मनीति कैमुत्यद्योतनार्थम् ।
भृत्याज्ञाननिमित्तं राज्ञि प्रयोगप्राचुर्यमिति चेन्न ।
भृत्यज्ञाने ऽपि तदुपलम्भात् ।
ननु प्रयोगप्राचुर्यं न मुख्यताहेतुः ।
अज्ञातमुख्यलाक्षणिकादिप्रयोगेष्वपि दर्शनादिति चेत् ।
सत्यम् ।
प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम् ।
स्वातन्त्र्यं तु तदप्राचुर्यादमुख्यमिति परेण पर्यनुयुक्ते ऽसिद्धिरनेनाभिधीयते ।
नतु प्रयोगप्राचुर्येण मुख्यता साध्यते ।
येन व्यभिचारचोदना सङ्गता स्यात् ।
यद्यप्यत्र प्रयोगप्राचुर्यस्य मुख्याज्ञाननिमित्तत्वादिनान्यथासिद्धिर्व्यभिचारो वा शक्यते वक्तुम् ।
तथापि"जगद्वाचित्वात्ऽ; इति सूत्रदिशा शिष्यैरेव ज्ञातुं शक्यत इत्यसिद्धिरेवोक्ता ।
कुतस्तर्हि मुख्यतासिद्धिरिति चेत् ।
*4,86f.*
ननु यदि स्वास्यं प्रवृत्तिनिमित्तं स्यात्तदा भृत्ये बद्धे मृते वा, राजा बद्धो राजा मृत इति प्रयोगः स्यात् ।
न चैवमस्ति ।
तेन जानीमो न स्वाम्यं प्रवृत्तिनिमित्तमिति ।
नच वाच्यं प्रयोगे सति निमित्तानुसरणम् ।
नतु निमित्तमस्तीति प्रयोग इति ।
अमुख्यप्रयोगविषयत्वादस्य न्यायस्य ।
तत्र हि निमित्तं न सामग्री ।
किन्तु तदेकदेशः ।
मुख्यप्रयोगे तु निमित्तमेव सामग्री ।
नहि सिंहशब्दस्य शार्दूले प्रयोगाभाववत् उपगोरपत्ये ऽप्यौपगवशब्दप्रयोगाभावो भवतीति ।
अत्र वक्तव्यम् ।
को ऽयं प्रयोगो नाम ।
किं शब्दशक्तिः प्रयोगमूलं व्याकरणमिति यथा ।
किं वोच्चारणम् ।
नाद्यः प्रसङ्गस्येष्टत्वात् ।
विपर्ययपर्यवसाने चासिद्धेः ।
द्वितीये त्वन्यथासिद्धमाह- भृत्येति ॥
*4,87*
भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ।
कारणं संशयस्य स्यादिति नैव प्रयुज्यते
न्यायसुधा:
राजाधीनभृत्यबन्धादिकं विवक्षित्वा राज्ञि राजा बद्धो मृत इत्यादिवाक्यं न प्रयुज्यते ।
किं कारणम् ।
स प्रयोग संशयस्य कारणं स्यादित्येव ।
नतु स्वातन्त्र्यस्य अकारणत्वात् ।
कुतः संशयस्य कारणम् ।
राज्ञो ऽपि बन्धादियोग्यत्वात् ।
इदमुक्तं भवति ।
भवत्येव स्वातन्त्र्यं शब्दप्रवृत्तिनिमित्तं, प्रयोगभावस्तु प्रतिबन्धकनिमित्तः ।
राजा बद्धो मृत इति प्रयोगे हि संशयो व्युत्पन्नस्य स्यात् ।
किं राजाधीनस्य भृत्यस्य बद्धत्वादिनैवमुच्यते ।
किं वा राज्ञ एव बद्धत्वादिनेति ।
आकाङ्क्षासन्निधियोग्यतानामुभयत्र सद्भावेनार्थद्वयप्रतीतेरवर्जनीयत्वात् ।
नच संशयो मा भूदित्येवं निवृत्तः प्रयोगाकारणत्वं स्वातन्त्र्यस्य गमयति ।
नहि मणिमन्त्रादिप्रतिबद्धो ऽग्निर्नाधाक्षीदिति न तत्कारणमिति ।
*4,90*
न संशयकारणत्वमात्रं प्रयोगप्रतिबन्धकम् ।
व्याख्यानतः संशयनिवृत्तिसम्भवात् ।
यथोक्तम् ।
"व्याख्यानतो विशेषप्रतिपत्तिनर् हि सन्देहादलक्षणम्ऽ; इति ।
अन्यथा राजा जयीत्यपि प्रयोगो न स्यात् ।
तत्राप्युक्तविधया संशयावतारादित्यत आह- अमङ्गलतवादिति ॥
अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले ।
अप्रियत्वात्तु शब्दस्य स्यात् प्रयोगनिवर्तनम्
न्यायसुधा:
तुशब्दो ऽवधारणे ।
शब्दस्येति जात्येकवचनम् ।
राज्ञो बन्धनादावमङ्गले योगाद्योग्यतासद्भावात् ।
आकाङ्क्षादेश्च स्फुटत्वाद्राजा बद्ध इत्यादिपदानां पाक्षिकराजबन्धाद्यमङ्गलप्रतीतिजनकत्वसम्भवात् ।
राज्ञो ऽमङ्गलाभिधानस्य च राजतत्पुरुषाप्रीतिहेतुत्वादेव शब्दस्य प्रयोगनिवर्तनं स्यात् ।
अयमभिसन्धिः ।
न केवलं संशयप्राप्तेः प्रयोगाभावः ।
किन्तु संशयनिमित्ताप्रीतिहेतुकानर्थशङ्कयैव ।
न पुनः स्वातन्त्र्यस्याकारणत्वादिति ।
तर्हि राजा पराजयीत्यपि न प्रयोक्तव्यमिति चेत् ।
भृत्यद्वारैव राजा विजयते पराजयते चेति प्रसिद्धतया संशयानुत्पादात् ।
*4,93*
नन्वस्ति तावद् राजा बद्ध इत्यादिप्रयोगाभावः ।
स तु स्वाम्यस्याकारणत्वान्न भवति ।
किं तूक्तसंशयप्रतिबन्धादिति कुतो निश्चेयम् ।
नच वाच्यं मा भूदयं निश्चयः ।
प्रयोगाभावस्यान्यथासिद्धिशङ्कापि तर्कानुमाने शक्नोति दूषयितुमिति ।
वादिनो ऽपि निश्चयस्यावश्यकत्वात् ।
अन्यथा स्वातन्त्र्यनिमित्तकसमन्वयानवधारणापातादित्यत आह- गुणास्त्विति ॥
गुणास्तु तादृशा यत्र प्रयुज्यन्ते ऽखिला अपि
न्यायसुधा:
तादृशाः स्वाम्यनिमित्तकाः शब्दाः ।
यत्र यदि ।
गुणाः शुभाभिधायिनो नतु पक्षिकमप्यमङ्गलं प्रत्ययाययन्ति ।
तत्र तर्हि ।
ते अखिला अपि प्रयुज्यन्ते ।
यथा जितं राज्ञेत्यादयः ।
प्राप्ताप्राप्तविवेकेनानार्थशङ्कैव प्रयोगाभावकारणम्, नतु स्वातन्त्र्यस्यानिमित्तत्वमिति निश्चीयत इति भावः ।
अत एवोक्तमखिला अपीति ।
नचायं नियमो ऽस्ति ।
निमित्तसद्भावे प्रयोगो भवतीति ।
अनन्तानां हि शब्दानां लक्षणानि व्याकरणकारैरुक्तानि ।
नच तेषां प्रयोगो दृश्यत इति स्फुटत्वान्नोक्तम् ।
तदेवं स्वातन्त्र्यस्य शब्दप्रवृत्तिहेतुत्वं मुख्यत्वं च सिद्धमित्याह- पूज्येष्विति ॥
*4,94*
पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम्
न्यायसुधा:
यतः पूज्येषु स्वामिषु जयिप्रभृतयः शब्दाः प्रयुज्यन्ते ।
तेन ज्ञायते स्वातन्त्र्यं शब्दप्रवृत्तिकारणमिति ।
यतश्च पूज्येष्वेव विशेषेण प्राचुर्येण प्रयुज्यन्ते न भृत्येषु ।
तेन निश्चीयते स्वातन्त्र्यं शब्दप्रवृत्तौ तद्गतत्वादपि मुख्यं कारणमिति ।
व्यास -(1)
*4,97f.*
किमतो यद्येवमित्यत आह- अत इति ॥
ततो दोषातिदूरत्वात् संशयस्याप्यसम्भवात् ।
दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया
स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि
न्यायसुधा:
यतः स्वातन्त्र्यं कारणं मुख्यं चातः स्वातन्त्र्यार्थमभिप्रेत्य दुःखिबद्धावराद्या दोषशब्दा अपि विष्णवि विष्णौ"जीवा एव तु दुःखिनःऽ; इत्यादौ प्रयुज्यन्त इति सम्बन्धः ।
सत्यपि निमित्ते यथा राजा बद्ध इत्यादिप्रयोगाभावस्तथा विष्णुर्दुःखीत्यादिप्रयोगाभावो ऽपि कुतो न भवेत् अत्रापि पाक्षिकस्य विष्णुवैष्णवभयस्य प्रतिबन्धकत्वसम्भवादित्यत उक्तम्- दोषेति ॥
निरनिष्यो निरवद्य इत्यादिश्रुतेर्विष्णौ दोषातिदूरत्वनिश्चयात् ।
प्राज्ञबुद्धिव्यपेक्षया दोषाणां विष्णुगत्वस्य तद्विषयस्य संशयस्यासम्भवात् ।
निमित्तसद्भावात्प्रतिबन्धकाभावादपीत्यपेरर्थः ।
एतदुक्तं भवति ।
सत्यपि निमित्ते वैदिकप्रयोगनिवृत्तिर्हि विष्णुवैष्णवेभ्यो भयात्स्यात् ।
तत्कारणं च तदप्रीतिः ।
तत्रापि हेतुर्विष्णोरनेन दोषित्वमुच्यत इति संशयः ।
तस्य च निमित्तं वाक्यस्योभयार्थप्रतीतिजनकत्वम् ।
तस्याप्युभयत्र योग्यतादिसद्भावः ।
नचासावस्ति प्रकृते ।
विष्णुर्वैष्णवानां परमेश्वरनिर्दोषतानिश्चयवत्त्वेन योग्यताध्यवसायानुपपत्तेः ।
अन्यथा जरद्गवादिवाक्ये ऽपि तत्प्रसङ्गात् ।
यद्यपि वाक्यतात्पर्याज्ञे ऽप्रीतिसम्भवस्तथापि सदभिप्रायवाक्यप्रयोगनिवृत्तौ किमायातमिति ।
एतदप्युक्तम्- प्राज्ञबुद्धिव्यपेक्षयेति ।
स्वस्य परमवैदिकताख्यापनाय विष्णवीति वैदिकप्रयोगः ।
*4,100*
अत्र श्रुतिसंमतिमप्याह वासुदेवेति ।
वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम्
मङ्गलामङ्गले ऽन्यत्र ततो नामङ्गलं वदेत् ।
स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः
न्यायसुधा:
आह एतमर्हम् इति शेषः ।
यतो नैव विष्णौ अमङ्गलं दुःखादिकमस्ति ।
ततो योग्यताविरहेणार्थान्तरप्रतीत्यभावात्स्वातन्त्र्यापेक्षया विष्णावमङ्गलोक्तितो दोषोऽनर्थो नास्ति ।
तास्माद्दुःख्यादिशब्दा अपि विष्णौ वेदे प्रयुज्यन्त इति शेषः ।
अन्यत्र तु राजादौ यतो मङ्गलामङ्गले संभवतोऽतो योग्यतासंभवेनार्थान्तरप्रतिभासनात्पाक्षिकानर्थशङ्कया तत्रामङ्गलं राजा बद्ध इत्यादिकं न वदेत्यर्थः ।
एकस्यैव शब्दस्य क्वचिद्दोषप्रत्यायकत्वेनानर्थहेतुत्वं क्वचित्तदभाव इत्येतद्दृष्टान्तेन बोधयति बहुभुक्त्वम् इति ।
बहुभुक्तवं यथा दोषो नृषु नैव हरौ क्वचित्
*4,100f.*
न्यायसुधा:
यथा बहुभुग्देवदत्त इत्युक्ते बहुभोगवानिति निन्द्यश्चेति प्रतीयते ।
अस्वर्ग्यं चातिभोजनम् इति स्मृतेः ।
उभयस्यापि देवदत्ते संभवेन योग्यत्वात् ।
अत एव देवदत्ताद्भीरुणा नैवं प्रयुज्यते ।
परमेश्वरे तु संसारधर्माणामत्यन्तासंभावान्न ।
किन्तु सर्वसंहर्तृत्वादिकमेव प्रतीयत इति ।
तत्र तत्प्रयोगः ।
दार्ष्टान्तिकमाह एवम् इति ।
एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः
नैव दोषा हरौ ...
न्यायसुधा:
दोषा दोषहेतवः ।
प्रथमदृष्टान्तस्यापि दार्ष्टान्तिकमध्याहार्यम् ।
कथं तर्हि परमेश्वरे दुःखत्वादिवेदनमनर्थहेतुत्वेनोच्यतेऽसन्नेव स भवतीत्यादावित्यत आह तद्गबुध्येति ।
... तद्गबुद्धयोक्ता दोषकारिणः ।
तस्मात् ते दोषशब्दाश्च तत्रैव गुणवाचकाः
न्यायसुधा:
दुःखादीनां तद्गतत्वविक्षयेत्यर्थः ।
तस्मादिति श्रुतिः स्वोक्तार्थमुपसंहरति ।
अतोऽव्यक्तादिशब्दवाच्यः परमात्मेति सिद्धम् ।
॥ इति श्रीमन्न्यायसुधायां आनुमानिकाधिकरणम् ॥
*4,103*
[======= ज्न्य्स्_1,4.इइ: ज्योतिरुपक्रमाधिकरणम् =======]
॥ अथ श्रीमन्न्यायसुधायां ज्योतिरुपक्रमाधिकरणम् ॥
॥ ओं ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ओं ॥
ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके
ज्योतिष्योमेन स्वर्गकामो यजेत ।
वसन्त वसन्ते ज्योतिषा यजेतेत्यादिकर्मकाण्डगते वाक्ये सन्देहः किमेतत् ब्रह्मणि समन्वेत्युत नेति ।
नेति पूर्वः पक्षः ।
तथाहि ।
किमत्र वाक्यार्थो ब्रह्म किंवा पदार्थः ।
नाद्यः ।
ज्योतिष्योमकतर्व्यतादेर्वाक्यार्थतया प्रतीतेः ।
न द्वितीयः ।
पदानि हि अमूनि किं रूढ्या ब्रह्मवाचीनि किंवा योगेन ।
आद्ये ऽपि किं प्रसिद्धवसन्ताद्यात्मकत्वेन तत्पदानां ब्रह्मणि रूढिराश्रीयते उत पृथगेव ।
नाद्यः ।
तेषां जडत्वानियत्वादिना ब्रह्मणो ऽपि दूषणप्रसङ्गात् ।
न द्वितीयः ।
अनेकार्थतास्वीकारस्यान्याय्यत्वात् ।
न हीश्वरे वसन्तादिशब्दानां रूढिः प्रमाणवती ।
नच रूढ्या समन्वयसमाश्रयणष प्रयोजनमस्ति ।
गुणपूर्त्यसिद्धेः ।
नापि योगेन ।
योगस्य रूढेर्जघन्यवृत्तित्वेन मुख्यार्थतासिद्धेः ।
न चैवंविधं योगमपि पश्यामः ।
योगे च प्रकृत्यादिविभागः पूर्वोत्तरपदविभागश्चाङ्गीकरणीयः ।
तत्र प्रकृत्यादेरीश्वरवाचित्वमस्ति न वा ।
आद्ये योगानुपपत्तिः सामर्थ्याभावात् ।
द्वितीये ब्रह्मणि सर्वशब्दसमन्वयानुपपत्तिः ।
प्रकृत्यादेरन्यपरत्वात् ।
किञ्च सर्वेषां पदानां ब्रह्मपरत्वे विभक्तिवैयर्थ्यं कर्मानुष्ठानविलोपश्च प्राप्नोति ।
क्रियोपहितरूपत्वात्कारकाणां क्रियाभिधायकस्य चाभावात् ।
अनुष्ठापकप्रमाणान्तरदर्शनात् ।
तस्मादयुक्तं समन्वयसूत्रमिति ।
*4,106f.*
अत्रोच्यते ।
यत्तावदुक्तं किं ब्रह्मणि वाक्यस्यान्वयः किंवा पदानामिति ।
तत्र तावत्पदानामिति ब्रूमः ।
नच वृत्त्यसम्भवः ।
योगसद्भावादित्यभिप्रेत्य निर्वक्ति- जातमिति ॥
जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः
न्यायसुधा:
जिर्जातम् ।
जनेरौणादिको डिप्रत्ययः ओतिरोतम् ।
अवतेः क्तिन् ।
जातं जगत् ओतं प्रविष्यं यस्मिन्नसौ ज्योतिः ।
प्राणरूपतश्चेष्यकरूपत्वात् ।
षकारः प्राण आत्माऽ; इति श्रुतेः ।
ज्योतिश्चासौ षश्चेति ज्योतिषः ।
तस्य सम्बुद्धिर्ज्योतिष ।
*4,109*
आयज्ञेतश्चायजेतो ...
न्यायसुधा:
यजतेर्भावे ।
घञर्थे"कविधानम्ऽ; इति कप्रत्ययः ।
सम्प्रसारणाभावः (तु) छान्दसः ।
यजो यज्ञः ।
अथवा कर्तर्येव पचाद्यच् ।
तथाच आउसम्यक् समन्ताद्वा, यजेन यज्ञेन कर्मणा याजकेन पुरुषेण वा, इतः प्राप्तः, आयजेतः ।
सकलयज्ञभोक्ता यज्वभिर्ज्ञानद्वारा प्राप्यश्चेत्यर्थः ।
तस्य सम्बुद्धिरायजेत ।
*4,111*
... वसन्तिश्च वसन्ततः
न्यायसुधा:
वसतेः पचाद्यच् ।
वसतीति वसः ।
तनोतेरौणादिको डिप्रत्ययः ।
तनोतीति तिः ।
"वर्णागमो वर्णविपर्ययश्चऽ; इति पूर्वपदस्य नकारागमः ।
वसंश्चासौ तिश्चेति वसन्तिः ।
व्याप्तो वर्तत इत्यर्थः ।
तत्सम्बुद्धिर्वसन्ते ।
द्विरुक्तिरादरार्था ।
*4,112*
विगतच्छादनत्वात् तु गच्छ ...
न्यायसुधा:
अमेश्छदेश्च डोऽन्यत्रापि दृश्यत इति डप्रत्ययः ।
गं विगतं, छं छादनमविद्यादिकं यस्मादसौ गच्छस्तस्य सम्बुद्धिर् गच्छ ।
ऽइन्द्रागच्छेऽत्यादिव्याख्यानमेतत् ।
*4,115*
... भूतक्षयङ्करः ।
भुङ्क्षेत्युक्तो हरिर् ...
न्यायसुधा:
सुशब्दो भूतशब्दस्यादेशः क्षयशब्दस्य च क्ष्वः पूर्वपदस्य मकारागमः ।
पृष्टोदरादिरयम् ।
यद्वा क्षि क्षय इत्यस्मात् ड्वप्रत्ययः ।
अयमपि सम्बुद्ध्यतः ।
*4,117*
... हुं च हुतमस्मिन् जगद् यतः
न्यायसुधा:
जुहोतेरधिकरणे मकारप्रत्ययः ।
कृन्मेजन्त इत्यव्ययत्वम् ।
हुतं स्वेनैवास्मिन्विष्णौ जगत्प्रलयादौ यतो ऽतो हुं च असावित्यर्थः ।
कर्मविशेषानुक्तेर्जगदित्युक्तम् ।
*4,118*
स्फुटत्वात् फडिति प्रोक्तः ...
न्यायसुधा:
स्फौटविकसन इत्यस्मात्कर्तरि क्विप् ।
सकारलोपः ।
उकारस्याकारः ।
स्फुटत्वात्स्वात्मानं प्रति व्यक्तत्वादसङ्कुचितवृत्तित्वात् (इति) वा ।
... कवरक्षण इत्यतः ।
कवचं ...
न्यायसुधा:
कवरक्षण इत्यतः इत्यस्य(स्मात्) धातो रूपं कवचमित्येतदित्यर्थः ।
कवतेरच इत्येतावानेव प्रत्ययः ।
कवति रक्षतीति कवचम् ।
*4,119*
... वतर्ते यस्मात् षड्गुणत्वेन सर्वदा ।
वषत् ... ॥ मनुव्_1,4.14च्-ए ॥
न्यायसुधा:
वृतु वर्तने डप्रत्ययः, वर्तत इति वः ।
षड्गुणात्मकत्वात् षट् ।
वश्चासौ षट् चेति वषट् ।
तस्य तात्पर्यं वर्तत इत्यादि ।
ऐश्वर्यवीर्ययशःश्रीज्ञानवैराग्याणि षड्गुणाः ।
... तद्गत्वतस्तेषां वौषड् ...
न्यायसुधा:
विः विष्णुः ।
"अकयप्रविसम्भूमसखाहा विष्णुवाचकाःऽ; इति वचनात् ।
तस्मिन् वौ वर्तमानाः षट् गुणा वौषट् ।
सप्तम्या अलुक् ।
अस्य तात्पर्यार्थः ।
तेषां षण्णां गुणानां तद्ग(त)त्वतो वौषडिति ।
*4,120*
... इत्येव कथ्यते
न्यायसुधा:
नचैवं भगवन्नामत्वानुपपत्तिः ।
तद्गतगुणानामपि तदात्मकत्वात् ।
तदिदमुक्तम्- इत्येवेति ॥
तर्हि कथ्यत इति कथम् ।
भावे प्रयोगो न कर्मणीत्यतो न दोषः ।
*4,125*
स्वीयं स्वीकुरुते यस्मात् स्वाहेत्युक्तो जनार्दनः
न्यायसुधा:
हरतेर्जहातेर्वा डः ।
द्वावप्याङ्पूर्वौर्(वकौ) स्वीकारे वर्तेते ।
स्वं स्वभावतः स्वीयमेव हविरादि(इतरेषां) भ्रान्त्यास्ववत् प्रतीतं स्वीकुरुत इति स्वाहः ।
स चासौ अश्चेति स्वाहेति सम्बुद्धिः ।
*4,126*
नमन्त्यस्मिन् गुणा यस्यान्नम इत्येव कथ्यते
न्यायसुधा:
नमतेरधिकरणे ऽसुन्प्रत्ययः ।
नपुंसकलिङ्गता तु शब्दानुसारिणी ।
गुणा इति योग्यतया सम्बन्धः ।
नमनेनात्यन्तिकसम्बन्धमुपलक्षयति ।
अथवा अस्मिन् परमेश्वरे विषये गुणाः उपसर्जनभूता ब्रह्मादयो नमन्ति प्रह्वीभवन्तीति व्याख्येयम् ।
*4,127*
एवं योगवृत्या पदसमन्वये ऽङ्गीकृते लब्धं प्रयोजनमाह- इत्यशेषेति ॥
इत्यशेषक्रियानामशब्दैरेको जनार्दनः ।
उच्यते मुख्यतो यस्मात् पदवर्णस्वरादिभिः
तस्मादनन्तगुणता ...
न्यायसुधा:
इति उक्तदिशा ।
तेन च विभक्त्यर्थानुपपत्तिः ।
क्रियाशब्दा आख्यातपदानि ।
नामशब्दाः सुबन्ता(पदा)नि ।
"एकःऽ; इति शब्दान्तरन्यायेन प्राप्तं भेदमपाकरोति ।
अभिधेयभेदे हि नानन्तगुणता सिद्धयति ।
मुख्यतो योगवृत्त्या ।
क्रियानामशब्दैरित्यस्यानुवादः पदवर्णस्वरात्मभिरिति ।
न केवलं पदवर्णात्मभिः किं तूदात्तादिस्वरात्मभिश्च ।
ननु वर्णानामपि वाचकत्वे विभक्त्यन्तत्वे च पदत्वमेव ।
तत्किमर्थं पृथग्ग्रहणम् ।
एकानेकवर्णात्मकत्वविवक्षयेति ब्रूमः ।
अनन्तगुणता सिद्धयतीति शेषः ।
हिशब्दो ऽपर्यायत्वादिति सूचयति ।
अनेन रूढिमात्रेण पदसमन्वयाङ्गीकारो निष्प्रयोजनः अनन्तगुणत्वासिद्धेरिति पूर्वपक्षिणोक्तं परिहृतमित्युक्तं भवति ।
ननु च न निर्वचनस्य शक्यकारणत्वमात्रेणानन्तगुणत्वं परमेश्वरस्य वेदतः सिद्धयति ।
निर्वचनस्य व्याख्यातृमतिपरिकल्पितस्यार्थान्तरे ऽन्यथा च सम्भवात् ।
अन्यथा श्वित्री शोधनं करोति इत्यभिप्रायेण प्रयुक्तस्य श्वेतो धावतीति वाक्यस्य इतः सारमेयो द्रुतं गच्छतीत्यपि प्रमेयं प्रसज्येतेत्यत उक्तम्- श्रुतीति ॥
*4,128*
... श्रुतितात्पर्यतो ऽस्य हि
न्यायसुधा:
भवेदेवम् यदि वसन्त इत्यादिश्रुतीनामुक्तविधिनिर्वचनेन परमेश्वरगुणेषु तात्पर्यं न स्यात् ।
तच्चास्तीत्युपपादयिष्याम इति च हिशब्दः ।
योगवृत्त्यङ्गीकारस्य प्रयोजनान्तरमाह- विज्ञानेति ॥
विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम्
न्यायसुधा:
वैदिकानां सर्वशब्दानामेवं योगवृत्त्या विज्ञानार्थत्वतो ऽनन्तगुणोपेततया परमेश्वरज्ञानार्थत्वेनाङ्गीकृतत्वाद्वसन्ताद्यात्मकतया रूढ्यङ्गीकारप्रयुक्तं यदनित्यत्वादिदूषणमुक्तं तन्नास्तीत्यर्थः ।
तदनेन"ज्योतिःऽ; इति सूत्रस्य लेशतस्तात्पर्यमुक्तं भवति ।
एवं कर्मकाण्डस्य ब्रह्मणि प्रतिपदसमन्वयप्रतिपादनेन समन्वयसूत्रस्यानुपपत्तिः परिहृता ।
इदानीं वाक्यान्वयपक्षाङ्गीकारेणापि तां परिहरति- अङ्गीकृते ऽपीति ॥
अङ्गीकृते ऽपि नैवास्ति दोषो वाक्यसमन्वये
न्यायसुधा:
वाक्यसमन्वये ऽङ्गीकृते ऽपि ब्रह्मणि वसन्त इत्यादिवाक्यानां समन्वयाङ्गीकारादपि दोषः समन्वयसूत्रानुपपत्तिर्नैवास्तीत्यर्थः ।
अनेन वाक्यान्वयस्यादिति सूत्रस्य तात्पर्यमुक्तं भवति ।
*4,130f.*
ननूक्तमत्र न वाक्यानां ब्रह्मणि समन्वयो घटते ।
साङ्गकमर्परत्वावगमादागमनामिति तत्राह- तदर्थत्वेनेति ॥
तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये
न्यायसुधा:
तदिति विज्ञानं परामृशति ।
अल्पबुद्धय इति षष्ठयर्थे चतुर्थी ।
"अहल्यायै जारःऽ; इति यथा ।
न वाक्यान्वयानुपपत्तिरिति शेषः ।
यथा खलु यूपाहवनीयादिवाक्यानि न निष्फले तावन्मात्रे पर्यवस्यन्ति ।
किन्तु ज्योतिष्योमादीतिकर्तव्यतापराणि ।
तथा सर्वमपि कर्मकाण्डं नाल्पास्थिरफले पर्यवस्यति, किन्तु ब्रह्मज्ञानार्थमेव ।
तत्प्रतिपादितस्य कर्मादेर्ब्रह्मज्ञानाथर्त्वात् ।
"विविदिषन्ति यज्ञेन दानेन तपसानाशकेनऽ; इत्यादिश्रुतेरिति भावः ।
ननु च यः कर्मकाण्डस्य ब्रह्मणि प्रतिपदसमन्वयो ऽभिहितः स युक्तो न वा ।
नेति पक्षे न व्युत्पादनीयः ।
आद्ये किमनेन वाक्यान्वयाङ्गीकारेणेत्यत उक्तम्- अल्पबुद्धय इति ॥
प्रपञ्चयिष्यते चैतत् ।
अनेन"अन्यार्थम्ऽ; इत्यादिसूत्राणां तात्पर्यमुक्तं भवति ।
*4,133*
नन्वल्पबुद्धीनामपि प्रतिपदान्वय एव ब्रह्मज्ञानहेतुर्भ(विष्यतीति)वतीति किं वाक्यान्वयेत्यत आह- क इति ॥
कश्छन्दसां योगमिति श्रुतेर् ...
न्यायसुधा:
"कच्छन्दसां योगमावेद धीरःऽ; इति श्रुतेर्वैदिकपदयोगवृत्तेरल्पबुद्धिभिरशक्यज्ञानत्वाद्यु(त्वेन)क्तं वाक्यान्वयव्युत्पादनमिति शेषः ।
नन्वेवं तर्हि योगवृत्त्या प्रतिपदसमन्वयव्युत्पादनं न कर्तव्यम् ।
को धीरश्छन्दसां योगं ब्रह्मणि योगवृत्तिम् आवेद न को ऽपीति निरधिकारिकत्वश्रवणात् ।
नहि गायमानो बधिरेषु गायतीत्यत आह- योगार्थेति ॥
... योगार्थतत्त्ववित् ।
ब्रह्मैको नैव चान्यो ऽस्ति ...
न्यायसुधा:
योगस्यार्थो योगार्थः ।
तस्य तत्त्वं याथार्थ्यम् ।
चशब्दो ऽर्थद्वयसमुच्चयार्थः ।
अयमस्याः श्रुतेरर्थ इति शेषः ।
एतदुपपादयति- क इति ॥
... क इत्यस्यरोभयार्थतः
न्यायसुधा:
"प्रजापतिर्वै कःऽ; इति श्रुतेः कशब्दो ब्रह्मार्थः ।
किंवृत्तस्य चाक्षेपे वृत्तिः सुप्रसिद्धा ।
तथा च क इत्यस्योभयार्थत्वाद्ब्रह्मार्थत्वे तस्य योगवृत्तिज्ञाने सामर्थ्यकथनान्नानधिकारिकत्वम् ।
आक्षेपार्थत्वे तदन्येषामनधिकारकथनाद्युक्तो वाक्यान्वयाभ्युपगमः ।
ननु कथमेतत् ।
आवृत्तेस्तन्त्रधर्माद्वेत्यदोषः ।
प्रमाणं चात्रान्यथानुपपत्तिरिति ।
*4,135*
यदि ब्रह्मा एक एव पदानां योगवृत्त्या ऽर्थसम्बन्धं वेद तदा"एकस्य प्रतिभातं तु कृतकान्न विशिष्टतेऽ; इति न्यायात्कृतकत्वं शब्दार्थसम्बन्धस्येत्याद्यापद्यते ।
तथा"चौत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धःऽ; इति जैमिन्युक्तः शब्दानामर्थैर्नित्ययोगः परित्यक्तः स्यादित्यत आह- तस्यापीति ॥
*4,136*
तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात् ।
नित्ययोगो ऽपि शब्दानामर्थैर्नैव निषिद्धयते ॥ मनुव्_1,4.20अ-द् ॥
न्यायसुधा:
यद्यप्येक एव प्रतिपत्ता तथापि तस्य पूर्वसिद्धस्येव पूर्वस्थितस्यैव ज्ञातस्यैव च शब्दार्थसम्बन्धस्य प्रमितिरेव भवति न तूत्प्रेक्षामात्रम् इति अस्यार्थस्य श्रुत्यादिभ्यो निश्चयात् जैमिन्युक्तः अर्थैः शब्दानां नित्ययोगो नैवास्माभिस्त्यज्यत इति योजना ।
एतदुक्तं भवति ।
स्यादयं दोषो यदि ब्रह्मणः शब्दार्थसम्बन्धज्ञानमुत्प्रेक्षारूपं स्यात् ।
न चैवम् ।
किन्तु पूर्वजन्मनि प्रतीतं स्वतः सिद्धमेव सम्बन्धमिह जन्मनि सुप्तप्रबुद्धन्यायेनेश्वरप्रसादादवबुद्धयत इति ।
तथाच श्रुतिः"यो ब्रह्माणम्ऽ; इत्येवंजातीयका ।
एकदेशे पुरुषान्तरप्रतिपत्तिसंवादाच्चैतदेवम् ।
तथाच स्मृतिः ।
"जन्मान्तरे श्रुतास्तास्तुऽ; इत्यादिका ।
अत एव श्रुतिः"आवेदऽ; इत्याह ।
एतेन नैकाधिकारिकं शास्त्रमित्यपि परास्तम् ।
॥ इति श्रीमन्न्यायसुधायां ज्योतिरुपक्रमाधिकरणम् ॥
*4,138*
[======= ज्न्य्स्_1,4.वि: प्रकृत्यधिकरणम् =======]
[======= ज्न्य्स्_1,4.विइ: एतेनसर्वेव्याख्याताधिकरणम् =======]
॥ अथ श्रीमन्न्यायसुधायां प्रकृत्यधिकरणम् ॥
इदानीं"प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्ऽ"एतेन सर्वे व्याख्याता व्याख्याताःऽ; इत्यधिकरणद्वयस्य सङ्क्षेपतस्तात्पर्यमाह- स्त्रीशब्दाश्चेति ॥
प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात्
एतेन सर्वे व्याख्याता व्याख्याताः
स्त्रीशब्दाश्च निषेधार्थाः सर्वे ऽपि ब्रह्मवाचकाः
न्यायसुधा:
स्त्रीलिङ्गाः प्रकृथत्यादिशब्दाः स्त्रीशब्दाः ।
निषेधनं निषेधो ऽभावः ।
निषिद्धयत इति ।
निषेधः असत् ।
तदुभयार्थाः ।
शब्दा इति (च) वर्तते ।
*4,139*
अत्र न सर्वाणि सूत्राणि व्याख्यातानि ।
ततः प्रतिज्ञा व्याहन्येतेत्यतो विषयादिकथनेन व्याख्याततां मन्वानः सर्वाधिकरणविषयपूर्वपक्षसिद्धान्तयुक्तीराह- विरोधीति ॥
विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ।
पृथक् समन्वयार्थानि स्थानान्येतानि सर्वशः
न्यायसुधा:
यद्वा अत्राद्येन श्लोकेनाधिकर(णार्थो)णोपाधयः कथ्यन्ते ।
विरोधीति परमैश्वर्यविरोध्यर्थाः ।
सर्वेति उक्तवक्ष्यमाणव्यतिरिक्ताः ।
बाहुल्येति बाहुल्यविशिष्टार्थवाचिनः ।
कारणेति अवान्तरकारणवाचिनः ।
स्त्रीति स्त्रीलिङ्गाः ।
निषेधो वाच्यो येषामस्ति ते निषेधिनः ।
अथवा ।
द्वन्द्वात्पर इन्प्रत्ययो द्रष्टव्यः ।
तथात्वे विरोध्यादयो ऽर्था ग्राह्याः ।
शब्दानामिति शेषः ।
एतानि एतत्पादगतानि सर्वशः स्थानानि अधिकरणानि एषां शब्दानां समन्वयप्रयोजनानीत्युक्ते प्रत्येकं सर्वशब्दसमन्वयसिद्धिरित्यपि प्रतीयेत ।
अतः पृथगित्युक्तम् ।
*4,142*
सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ।
परस्परविरोधश्च विरोधः कार्यतद्वतोः ।
स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु हेतवः
दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा ।
बहुरूपत्वमीशस्य व्यक्तयव्यक्तिविशेषिता
उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा ।
इतयाद्या युक्तयः साक्षात् सिद्धान्तस्थापका इह
न्यायसुधा:
सर्वेत्यनेनैव समाकर्षाधिकरणार्थो ऽपि सङ्गृहीतः ।
तस्य ज्योतिरधिकरणार्थाक्षेपपरिहारार्थत्वात् ।
"सर्वमानैर्विरोधश्चऽ; इत्याद्यर्थो न्यायविवरणादाववगन्तव्यः ।
*4,144*
एवमानुमानिकमित्यादीनि सूत्राणि सङ्क्षेपतो व्याख्याय सिंहावलोकनन्यायेन समाकर्षाधिकरणं ज्योतिरधिकरणं"चान्वयःऽ; इत्यादिना किञ्चिद्विवृणोति ।
तथाहि ।
समाकर्षाधिकरणे प्रतिपाद्यमानो वाक्यान्वयः सूत्रकारस्याभिमानो न वा ।
आद्ये वक्तव्यम् ।
प्रागुक्तप्रतिपदान्वयो युक्तो न वेति ।
नेति पक्षे न वक्तव्यः ।
युक्तत्वे तु मुख्ये तस्मिन्विद्यमाने ऽस्य वैयर्थ्यम् ।
किञ्च वाक्यान्वयस्य स्वमतत्वे ऽन्यार्थं तु जैमिनिरित्यादिसूत्रेषु जैमिन्यादिग्रहणं व्यर्थं स्यात् ।
अपि च प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः उत्क्रमिष्यत एवं, भावादित्यौडुलोमिः अवस्थितेरिति काशकृत्स्न इति वाक्यान्वयस्त्रिप्रकारो ऽभिहितः ।
तस्य परस्परमविरोधे मतभेदो न स्यात् ।
विरोधे तु कथं सूत्रकाराभिमतत्वम् ।
अथ सूत्रकारस्यानभिमतो वाक्यान्वयस्तदा निराकरणसूत्रेणाभाव्यम् ।
न चैतदस्ति ।
तत्कथमेतदित्यत आह- अन्वय इति ॥
अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा ।
इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन्
विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः
न्यायसुधा:
प्रतिपदान्वये ऽभिहिते हि मन्दाधिकारिणां मोक्षमागर्वैमुख्यं स्यात् ।
सर्वशब्दानां ब्रह्मणि अञ्जसा मुख्यया वृत्त्या अन्वयस्तावज्ज्ञातुमशक्यः ।
"कश्छन्दसामितिऽ; श्रुतेः ।
नच तज्ज्ञानेन विना मोक्षः ।
नचाशक्ये प्रवृत्तिर्युक्ता ।
आकाशरोमन्थनादौ प्रवृत्त्यदर्शनात् ।
तथाचाहुः ।
"व्यसनानि दुरन्तानि समव्ययफलानि च ।
अशक्यानि च वस्तूनि नारभेत विचक्षणःऽ; इति ।
तस्मादास्तामयं मोक्षः ।
शक्यानुष्ठानसाधनधर्माद्यर्थमेव प्रवर्तेमहीति ।
एवं मन्दलोकस्य मोक्षमार्गवैमुख्यं भगवन्सूत्रकारः स्वयमेव जैमिन्यादिमतमेतदिति वदन्वाक्यान्वयप्रदर्शनेन निराकृतवान् ।
अनेन स्वाभिमत एव वाक्यान्वयो ऽतो न निराकरणसूत्राभावो दोषाय ।
प्रतिपदान्वयश्च युक्त एवेति तद्व्युत्पादनमुपपन्नमेव ।
तथापि प्रतिपदमन्वये सामर्थ्यवैकल्येन मोक्षमार्गाद्विमुखानां मन्दाधिकारिणामुपायान्तरप्रदर्शनेन समाश्वासार्थं वाक्यान्वयकथनं चोपपन्नमित्युक्तं भवति ।
*4,146*
तर्हि जैमिन्यादिग्रहणं व्यर्थमित्युक्तमित्यत आह- स्वशिष्याणामिति ॥
स्वशिष्याणां प्रसिद्धयर्थं मतमात्मीयमंशतः
विज्ञातं तैर्जगादात्र तारतम्यं नृणां वदन्
न्यायसुधा:
जैमिन्यादीनामिति शेषः ।
नात्र जैमिन्यादिग्रहणेन तदीयमेवैतन्मतमित्युच्यते ।
किन्तु मदीयमेव मतमेकदेशतो जैमिन्यादिभिर्विज्ञातमिति ।
एतच्च तेषां ख्यात्यर्थम् ।
गुरुणा श्लाघिता हि शिष्या लोके ख्यातिं लभन्ते ।
ननु वाक्यान्वयस्य प्रकारत्रयं परस्परविरुद्धं कथं सूत्रकाराभिमतं स्यादित्यत आह- तारतम्यमिति ॥
नृणामल्पाधिकारिणामवस्थातारतम्यं वदन्नित्यनेनावस्थातारतम्यव्यवस्थया मतभेदो न विरोधेनेत्युक्तं भवति ।
एतेनाङ्गीकृते ऽपीत्याद्युक्तं विवृतं वेदितव्यम् ।
*4,147*
ज्योतिरधिकरणे योगवृत्त्या परमेश्वरे ऽखिल(पदानां)शब्दसमन्वयो ऽभिहितः ।
नासौ युज्यते ।
प्रकृत्यादेरन्यपरत्वाभावे निर्वचनानुपपत्तेः ।
नहि जातादिपदानामन्यपरत्वानङ्गीकारे जातमोतं यस्मिन्निति व्युत्पत्तिः सम्भवति ।
प्रकृत्यादेरन्यपरत्वे तु सर्वशब्दानां भगवद्वाचित्वमिति गतः पक्षः ।
किञ्च वसन्त इत्यादीनां भगवत्परत्वे कर्मानुष्ठानलोपो लोकव्यवहारविलोपश्च प्रसज्येतेत्युक्तमित्यत आह- तेष्विति ॥
कल्पनोपदेशाच् च मध्वादिवदविरोधः
तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः
प्रयोजनबहुत्वेन तस्य तस्याविरोधतः ।
उपदेशादिसामर्थ्याद् विष्णौ शक्तिश्च गृह्यते
*4,148*
न्यायसुधा:
व्युत्पत्त्युपपत्तिः कर्मानुष्ठानसम्भवो लोकव्यवहारानुच्छेदश्चेत्येवं प्रयोजनानां बहुत्वेन कारणेन तेषु तेषु तत्तच्छब्दवाच्यतया प्रसिद्धेष्वर्थेषु तत्तच्छब्दानां, रूढिरित्युपलक्षणं, वृत्तिरङ्गीकृता यतस्तस्मात्तस्य तस्याविरोधतः तं तमर्थमपरित्यज्य उपदेशलिङ्गप्रकरणादिबलेन सर्वशब्दानां विष्णौ च शक्तिर्गृह्यते ।
यद्यपि अत्रैतावदेव वक्तव्यम् ।
"नैष दोषः ।
सर्वशब्दानां भगवद्वाचिनामपि प्रसिद्धार्थान्तरवाचकत्वस्यापि स्वीकारात् ।
ज्योतिरादिशब्दानां हि ज्योतिष्योमाद्वयर्थत्वस्याङ्गीकृतत्वान्नानुष्ठानलोकव्यवहारविलोपः ।
जातमोतमित्यवयववृत्त्या परमेश्वरे वृत्तौ जातातिपदानामन्यतरत्वमङ्गीक्रियत इति व्युत्पत्त्युपपत्तिः ।
पुनस्तदवयवस्याप्यन्यपरत्वमुपादाय परमेश्वरे जातपदव्युतपत्तिसम्भव इत्रत ।
तथापि स्यादेतदेवम् ।
यदि शब्दानामनेकार्थत्वं स्यात् तदेव कुत इति शङ्कानिरासार्थमिदमुक्तमिति ज्ञातव्यम् ।
तथाहि ।
पदार्थान्तरवाचित्वं तावदुक्तप्रयोजनसिद्धये ऽङ्गीकरणीयम् ।
परमेश्वरवाचित्वं च सर्वशब्दानां"नामानि सर्वाणि यमाविशन्तिऽ; ।
"ता वा एताः सर्वा ऋचःऽ; इत्याद्युपदेशबलाच्छतिलिङ्गादिसामर्थ्याच्च तत्तच्छब्दानामवश्यमङ्गीकरणीयमिति ।
अनेन"कल्पनोपदेशाच्च मध्वादिवदविरोधःऽ; इति सूत्रस्य तात्पर्यमुक्तं भवति ।
*4,150*
यदि सर्वशब्दानामुभयार्थत्वं तर्हि"विश्वस्मादिन्द्र उत्तरःऽ"असदेवेदमग्र आसीत्ऽ; इत्यादौ कथम् ।
उभयोः सर्वोत्तमत्वादेर्विरुद्धत्वेनात्रोभयार्थत्वानुपपत्तेः ।
पदानामुभयार्थवाचितवे ऽपि तत्र विरोधः, तत्रान्यतरमात्रे तात्पर्यमङ्गीकार्यमिति चेत् ।
तत्रापि किमुपादेयं किं परित्याज्यमिति न ज्ञायत इत्यत आह- तथापीति ॥
तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते
न्यायसुधा:
यद्यप्युभयार्थाः शब्दा इति सामान्येनोक्तम् ।
तथापि परमेश्वरपरत्वविरोधे ऽन्यपरत्वमपोद्यते ।
तुशब्दो विशेषद्योतनार्थः ।
उभयपरत्वं तावद्विरुद्धमिति परेणैवोक्तम् ।
अन्यतरपरित्यागे च परमेश्वरपरित्यागो न युक्तः ।
निश्चिततात्पर्यवाक्यान्तरविरोधात् ।
अतः परिशेषादितरपरित्याग एवोचित इति ।
तर्हि कल्पनोपदेशादित्यादिविरोधः ।
तत्र सर्वशब्दानामुभयपरत्वस्योक्तत्वादिति चेन्न ।
निरपवादस्थले पर्यवसायित्वात्तस्येत्याह- अविरोध इति ॥
*4,151*
अविरोधे तु बह्वर्था एतन्मूलतया मताः
न्यायसुधा:
बहुशब्दो ऽनेकार्थः ।
मताः तत्रतत्र सूत्रे ऽभिमताः ।
नन्वविरोधे ऽप्युभयार्थत्वाङ्गीकारो न युक्तः ।
तत्तु समन्वयादित्यवधार(णविरोधा)णशदित्यत उक्तम्- एतन्मूलतयेति ॥
एष परमेश्वरो मूलं मुख्यो येषां ते तथोक्तास्तेषां भावस्तत्ता ।
तयेतीत्थंम्भूतलक्षणे तृतीया ।
मुख्यमर्थान्तरं वारयितुमवधारणम् ।
न त्वर्थान्तरमात्रम् ।
उक्तप्रयोजनव्याघातादिति भावः ।
एतेननान्यायश्चा(य्यं चा)नेकार्थत्वमित्यपि समाहितम् ।
मुख्यार्थस्यैकत्वात् ।
*4,154*
ननु पुरन्दरादिष्वपीन्द्रादिशब्दा रूढियोगाभ्यां प्रवृत्ताः ।
रूढियोगौ च मुख्यवृत्ती कथ्येते ।
अतो ऽक्षादिशब्दानामिवेन्द्रादिशब्दानामुभयं मुख्याभिधेयं युक्तम् ।
नेश्वर एवेत्यत आह- इतो हीति ॥
इतो हि रूढतान्येषामुपजीव्यत्वमत्र हि
न्यायसुधा:
सत्यमस्ति पुरन्दरादीनामपीन्द्रादिशब्दरूढिविषयता तथापि सा इतः परमेश्वरादेव हि यस्मात्, यस्माच्च अत्र योगविषयत्वे परमेश्वरस्यैवोपजीव्यत्वं तस्मात्स एव मुख्यार्थो न पुरन्दरादयः ।
स्वत एवानवधिकैश्वर्यादिमतीश्वर एवेन्द्रादिशब्दानां योगरूढी ।
तत्सन्निधानात्तदायत्त(तत्प्र)प्रवृत्तिनिमित्तत्वादेव च पुरन्दरादिषु ।
प्रसिद्धं चैतत् ।
यद्यत्सन्निधानाद्यच्छब्दप्रतिपाद्यं तदमुख्यमन्यन्मुख्यमिति ।
यथा दग्धृशब्दस्यायो ऽग्निश्च ।
न चाक्षादिशब्दार्थानामित(रेत)रापेक्षास्तीति वैषम्यमिति ।
नन्वेवं चेदीश्वरस्याप्यमुख्यत्वं प्रसक्तम् ।
अर्थान्तरापेक्षयैव तत्र शब्दप्रवृत्तेः ।
न खलु जातादिशब्दानामन्यार्थतामनपेक्ष्य ज्योतिषेत्यादिशब्दानां भगवति प्रवृत्तिः सम्भवतीत्यत आह- तत्सिद्धिरिति ।
तत्सिद्धिस्तदपेक्षा च ...
न्यायसुधा:
चशब्दो ऽवधारणे ।
नायमस्ति दोषः ।
यतः परमपुरुषे तत्तच्छब्दप्रवृत्तिप्रतीतिरेवार्थान्तरापेक्षा नतु प्रवृत्तिः ।
नहि घटस्य रूपं प्रदीपापेक्षया प्रतीयत इत्येतावता तदायत्तं भवति ।
यथान्यत्र शब्दप्रवृत्तिरेव परमेश्वरापेक्षा ।
नैवं परमात्मनि वृत्तावितरापेक्षां कामपीक्षामह इति ।
*4,155*
इतश्च नायं दोष इत्याह- सापेक्षा चेति ॥
... सापेक्षा च हरीच्छया
न्यायसुधा:
या परमेश्वरे शब्दानां वृत्तावर्थान्तरापेक्षा सा च भगवदिच्छानिबन्धनैव न त्वनन्यगतिकतयेत्यतो न तस्यामुख्यार्थताप्राप्तिः ।
न हीच्छया प्रकृत्यादिकमुपाददानस्य सृष्टिः परायत्ता ।
नापि पटुकरणा लीलानिमित्तमिच्छया दण्डमवष्टभ्य गच्छन्दण्डायत्तगतिर्भवतीति ।
यद्येवं हरिसन्निधानादिना शब्दानामन्यत्र वृत्तिस्तत्किमयसीव दग्धृशब्दस्य लोके सर्वशब्दानां लक्षणैव ।
तथा सति गङ्गातीरयोरविशेषप्रसङ्गः ।
ईक्षत्यधिकरणोक्तार्थस्य मूले निहितः कुठार इत्याशङ्कां परिहरन्नेतन्मूलतयेत्यादिनोक्तमर्थमुपसंहरति- तस्मादिति ॥
तस्मात् परममुख्यत्वं विष्णावन्यत्र मुख्यता
*4,156*
न्यायसुधा:
नायसि दग्धृशब्दस्येवेन्द्रादिशब्दानां पुरन्दरादिषु लक्षणैव ।
रूढेरभिधानादिसिद्धत्वात् ।
योगनिमित्तस्य च परमैश्वर्यादेः सद्भावात् ।
किन्तु परमेश्वरविषययो रूढियोगयोरपराधीनत्वनिरङ्कुशत्वाभ्याम्, अन्यत्र तदधीनत्वाल्पत्वाभ्यां, मुख्याथर्तायामेवायं मुख्यामुख्यविभागो ऽभिहित इति ।
तदिदमुक्तं परममुख्यत्वमिति मुख्यतेति च ।
*4,157*
उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः
न्यायसुधा:
गौणी(चे)त्यतः परमितिशब्दो ऽध्याहार्यः ।
एतदेव दर्शयन्परममुख्यादिवृत्तिलक्षणान्याह- प्रवृत्तीत्यादिना ॥
तत्र परममुख्यवृत्तिर्द्वेधा ।
महायोगो महायोगरूढिश्चेति ।
महारूढिस्तु न सम्भवति ।
"सा योगादेव लभ्यतेऽ; इत्युक्तत्वात् ।
तत्र महायोगस्वरूपमाह- प्रवृत्तिहेतोरिति ॥
प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता
न्यायसुधा:
निर्वचनलभ्यो ऽर्थः प्रवृत्तिहेतुस्तस्य बाहुल्यं निरवधिकत्वम् ।
यद्यपि स्वातन्त्र्यं चात्र वक्तव्यम् ।
प्रकृतत्वात् ।
तथाप्यन्यतरमात्रेणेतरव्यावृत्तिसिद्धेर्लक्षणपदानां च तन्मात्रप्रयोजनत्वान्नाभिहितम् ।
परममुख्यतेति ज्ञेयमिति योजना ।
ननु बाहुल्यं प्रवृत्तिहेतोर्धमर्ः ।
बहुलप्रवृत्तिहेतुमत्त्वं चाभिधेयस्य ।
पररममुख्यता तु शब्दधर्मः ।
तत्कथं सामानाधिकरण्यम् ।
नैष दोषः ।
उपचरितत्वात् ।
निरवधिकं स्वतन्त्रं वा प्रवृत्तिहेतुमपेक्ष्य या शब्द(स्य प्र)वृत्तिः सा परममुख्यता महायोगलक्षणा ज्ञातव्येति तात्पर्यार्थः ।
*4,160*
महायोगरूढिस्वरूपं निरूपयन्नाह- तत्रेति ॥
तत्र प्रयोगबाहुल्यं यदि तत्परता किमु
न्यायसुधा:
यत्रार्थे प्रवृत्तिहेतोरनवधिकत्वं तत्रैव चेत्प्रयोगबाहुल्यं स्यात्तदा तस्या वृत्तेः परता परममुख्यता किमु वक्तव्येति ।
अत्रानवधिकप्रवृत्तिनिमित्तवति यत्रार्थे यस्य शब्दस्य प्रयोगबाहुल्यमस्ति तस्य तत्र महायोगरूढिलक्षणा परममुख्यवृत्तिरित्येतावदेव वक्तव्यम् ।
कैमुत्यकथनं तु शङ्कानिरासार्थम् ।
तथाहि ।
किमत्र प्रयोगबाहुल्यमात्रं लक्षणमुतानवधिकप्रवृत्तिनिमित्तविशेषितम् ।
नाद्यः ।
रूढिमात्रत्वात्परममुख्यत्वायोगात् ।
न द्वितीयः ।
अनवधिकप्रवृत्तिनिमित्तेनैव परममुख्यत्वे विशेषवैयर्थ्यात् ।
नच समाहारेण विधान्तरं भवति ।
तथा सति असिद्धबाधितसमाहारो ऽपरो हेत्वाभासः स्यादिति ।
अत्र द्वितीय एवाभ्युपगम्यते ।
नचोक्तदोषः ।
विशेषणमात्रेण परममुख्यत्वे, विशेष्यसद्भावेन सुतरां तत्सिद्धेः ।
न ह्यस्माभिः परममुख्यतामात्रसिद्धये विशिष्टोपादानं क्रियते ।
किन्तु समाहाररूपविधान्तरसिद्धये ।
न चातिप्रसङ्गः ।
वैषम्यात् ।
अनवधिकप्रवृत्तिनिमित्तापेक्षप्रयोगबाहुल्यं खलु विवक्षितम् ।
न समाहारमात्रम् ।
एतदर्थं च तत्र प्रवृत्तिहेतोर्बाहुल्ये सतीति योज्यम् ।
नचैवं महायोगस्यात्र प्रवेशः ।
अतिबहुलप्रयोगाभावस्य तत्र विवक्षितत्वादिति ।
*4,164*
अत्र कतरा वृत्तिर्विष्णौ ।
येन परममुख्यत्वं विष्णावित्युक्तमित्यत आह- उभयमिति ॥
उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः
न्यायसुधा:
उभयं वृत्तिद्वयं, दृश्यते, प्रमाणैः ।
सर्वशो ऽपि शब्दानामित्यस्यायमर्थः ।
नारायणादिशब्दानां महायोगरूढिः ।
तदितरेषां महायोग इति ।
अथवा विष्णौ परममुख्यवृत्तिरित्युक्तमनेनोपपादयति ।
उभयं प्रवृत्तिहेतोर्बाहुल्यं च ।
यद्वा ।
प्रमितान्वाख्यानं परीक्षकधर्मो नतु स्वेच्छया ऽर्थकल्पनम् ।
नचैते वृत्ती क्वचित्प्रमिते ।
अतो न निरूपणीये इत्यत्रेदमुदितम् ।
प्रमाणानि तु वक्ष्यन्ते ।
ननु योगो योगरूढिश्चैते किं न स्याताम् ।
किमेवं भेदकाभावादाशङ्कयते अथवा तद्विवक्षाकारणाभावात् ।
नाद्यः ।
तस्योक्तत्वात् ।
न द्वितीयः ।
यौगिकादीनामप्यर्थानाममुख्यतामभिधाय विष्णोर्मुख्यत्वाभिधानस्य कारणत्वादिति ।
*4,165*
मुख्यवृत्तिरपि त्रेधा भवति ।
योगो रूढिर्योगरूढिश्चेति ।
तत्र प्रवृत्तिनिमित्तापेक्षा वृत्तिर्योगः ।
यथा कुम्भकारः, औपगवो, राजपुरुष इति ।
ननु नैते ऽपि यौगिकाः किं नाम रूढा एव ।
कृत्तद्धितसमासकरणं तु व्युत्पत्तिमात्रार्थम् ।
यथोक्तम् ।
वृक्षादिवदमी रूढा इत्यादि ।
मैवम् ।
शब्दार्थविभागस्यावापोद्धाराभ्यां प्रतीतस्यापलापे कारणाभावादित्यादि शिष्यैरेवोह्यतामिति मत्वा रूढेः स्वरूपमाह- प्रयोगेति ॥
प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते
*4,169*
न्यायसुधा:
यत्रार्थे यस्य शब्दस्य प्रयोगमात्रबाहुल्यं तत्र तस्य वृत्ती रूढिरित्यभिधीयते मात्रेत्यवयवार्थसादृश्यादिसापेक्षताव्युदासार्थम् ।
तेन परममुख्यवृत्तेर्योगरूढे रूढोपचारलक्षणाभ्यां च व्यवच्छेदः ।
बाहुल्यमिति स्वरूपकथनम् ।
सर्वेऽपि यौगिका ।
नास्ति रूढ इति शाकटायनः ।
तदसत् ।
घटपटादिशब्दानां बहुलमुपलम्भात् ।
ते ऽप्युणादिप्रत्ययान्ता यौगिका एवेति चेन्न ।
अर्थानुगमादर्शनात् ।
अन्ततः प्रकृतिप्रत्यययोस्तदर्थे रूढेराश्रयणीयत्वाच्चेति ।
प्रवृत्तिनिमित्तापेक्षो यत्र बहुलप्रयोगस्तत्र योगरूढिः ।
यथा पङ्कजादिशब्दानां तामरसादाविति प्रसिद्धत्वान्नोक्तम् ।
विरोधाद्वैफल्याच्च योगरूढिरयुक्तेति केचित् ।
तथाहि ।
अवयववृत्तिर्योगः रूढिस्त्वखण्डवृत्तिः ।
नह्येतयोरेकत्र समावेशो युज्यते ।
नच योगरूढ्यङ्गीकारे किमपि प्रयोजनमस्ति ।
पङ्कजादिशब्दानां सम्प्रतिपन्नवृत्त्यैवोपपत्तेरिति तदयुक्तम् ।
नहि योगरूढयोः समाहारो योगरूढिरिति ब्रूमः ।
येन विरोधः स्यात् ।
किं नाम यथा रूढलक्षणा लक्षणामात्रात् रूढगौणी च गौणीमात्रात्प्रयोगप्राचुर्येण भिद्यते ।
तथा प्रवृत्तिनिमित्तापेक्षित्वाद्रूढिमात्रात्प्रयोगबाहुल्येन योगमात्राच्च भिन्ना तृतीयेयं वृत्तिरिति ।
व्यास -(2)
*4,173*
किञ्च पङ्कजादिशब्दाश्च किं केवलं रूढा अङ्गीकरणीया उत यौगिकाः ।
नाद्यः ।
अवयवार्थप्रतीतिविरोधात् ।
सप्तम्यां जनेर्ड इत्याद्यनुशासनविरोधाच्च ।
अनेनैव न्यायेन यौगिकाभावप्रसङ्गाच्च ।
न द्वितीयः ।
भेकादिष्वपि प्रयोगप्रसङ्गात् ।
गवादिशब्दानामिव व्यवहारप्राचुर्याप्राचुर्यकृते शक्तिसाम्ये ऽपि प्रसिद्धयप्रसिद्धी, इति चेन्न वैषम्यात् ।
गवादिशब्दाना(नां सम्प्रतिपन्नवृत्याने)मनेकार्थत्वे शास्त्रतो निश्चिते हि प्रसिद्धयादेः कारणान्तरं मार्गणीयम् ।
नचैवमेषां शब्दानामनेकत्र शक्तिरवधृता ।
*4,176*
किञ्च शमिधातोः संज्ञायां स्तम्बकर्णयो रमिजपोर्हस्तिसूचकयोरित्यादिनावयवार्थव्यतिरेकेणोपाधीनपि वदता शास्त्रकारेणाङ्गीकृतैवेषा वृत्तिरित्यलम् ।
*4,180*
एवमव्यवहितामभिधावाचकत्वादिशब्दवेद्यां मुख्यवृत्तिं निरूप्येदानीं व्यवहितां गौणीं लक्षणां चामुख्यवृत्तिं निरूपयति- प्रयोगेति ॥
प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यतः ।
वृत्तिहेतुरिति ज्ञेयः ... ॥ मनुव्_1,4.34अ-च् ॥
न्यायसुधा:
सम्बन्धः प्रयोगयुक्तेन ।
वाशब्दो व्यवस्थितविभाषायाम् ।
अपिशब्दो मुख्यवृत्तिलक्षणेनामुख्यवृत्तिलक्षणस्य समुच्चयार्थः ।
अमुख्यत इति समासे गुणभूताया अपि वृत्तेर्बुद्धया पृथक्कृताया विशेषणम् ।
अमुख्याया गौण्या लक्षणायाश्च वृत्तेहेर्तुरिति ज्ञेय इत्यर्थः ।
यस्य शब्दस्य यत्रार्थे प्रयोगः सामर्थ्यं तस्य प्रवृत्तिनिमित्तातिरिक्तं तत्सादृश्यं निमित्तीकृत्यान्यत्र वृत्तिर्गौणी ।
तत्सम्बन्धं निमित्तीकृत्य वृत्तिस्तु लक्षणेत्युक्तं भवति ।
कश्चिदाह ।
गौणी नाम वृत्तिर्नास्ति ।
सादृश्यस्यापि सम्बन्धत्वेन लक्षणायामन्तर्भूतत्वादिति ।
तन्निराकर्तुं पश्चादुद्दिष्यापि गौणी प्रथमं लक्षिता ।
स्वातन्त्र्यं ह्येवमस्या ज्ञापितं स्यात् ।
*4,183f.*
यदि खलु कश्चिद् ब्रूयात् ।
लक्षणा नाम नास्ति सम्बन्धस्याप्येकस्थानत्वादिसादृश्यरूपत्वेन गौण्यमन्तर्भूतत्वादिति ।
तदा किं वक्तव्यम् ।
नैवं लौकिकी प्रतीतिरिति चेत् ।
तत्किं सादृश्यं सम्बन्धत्वेन प्रतियन्ति लौकिकाः ।
तत्र गौणी द्विविधा ।
रूढारूढभेदात् ।
तत्राद्या यथा ।
मृद्गवकादौ गवादिशब्दस्य ।
द्वितीया यथा गौर्वाहीक इति ।
अत्र स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा गोशब्दस्य वाहीके वृत्तौ निमित्ततामुपयान्तीति केचित् ।
तदसत् ।
गौण्या लक्षणातो भेदाभावप्रसङ्गात् ।
गोशब्दस्य वाहीके वृत्तौ लक्ष्यमाणगुणानां निमित्ततायाश्चोपपत्तिशून्यत्वात् ।
लक्ष्यमाणगुणसादृश्याद्गुणान्तरं ततो गुणी लक्ष्यत इति तु नानुभाविकम् ।
स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्त इत्यपरे ।
तदप्यसत् ।
गुणानां भेदस्य साधयिष्यमाणत्वात् ।
वाहीके वृत्तौ निमित्ताभावाच्च ।
तसमात्सदृशगुणाश्रयत्वं निमित्तीकृत्य परार्थे वृत्तिर्गौणीति साधूक्तम् ।
*4,191*
लक्षणापि द्वेधा ।
रूढारूढभेदात् ।
तत्राद्या यथा ।
राजायं गच्छतीति ।
द्वितीया यथा ।
गङ्गायां घोष इति ।
केचिदभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यत इत्याहुः ।
तेषां मञ्चाः क्रोशन्तीत्यादौ लक्षणा न स्यात् ।
स्याच्च शब्दातप्रतीतेन लिङ्गेनानुमितार्थस्य ।
अथाविनाभावो ऽत्र सम्बन्धमात्रम् ।
तथापि लक्षितलक्षणायामव्याप्तिः ।
नहि तत्राभिधेयसम्बन्धिनी वृत्तिः ।
किन्तु लक्षितसम्बन्धिनी ।
यथा प्राग्विरुद्धा इदानीं परस्परमेकीभूता इति ।
परम्परयायमर्थो ऽभिधेयसम्बन्धीति चेत् ।
तर्हि किमनया क्लिष्यकल्पनया ।
प्रयोगयुक्तसम्बन्ध इति यथोक्तमेवास्तु ।
*4,194*
व्यञ्जनं नामापरा वृत्तिरस्तीति चेन्न ।
अनुमानतया तस्य शब्दशक्तित्वानङ्गीकारात् ।
यथोक्तम् ।
वचनलिङ्गानुमा हि सेति ।
तात्पर्यवृत्तिस्तु नातिरिच्यत इति स्वयमेवाचार्यो वक्ष्यति ।
*4,205*
ननु मुख्यार्थानुपपत्तिं तत्सादृश्यं प्रयोजनं चापेक्ष्य गौणी प्रवर्तते ।
मुख्यार्थानुपपत्तितत्सम्बन्धप्रयोजनान्यपेक्ष्य तु लक्षणा ।
यथोक्तम्
"मुख्यार्थबाधे तद्योगे रूढितो ऽथ प्रयोजनात् ।
अन्यार्थो लक्ष्यते यत्सा लक्षणारोपिता क्रियाऽ; ॥
इति ।
तत्कथं सादृश्यसम्बन्धावेवोक्तावित्यत आह- पूर्वेति ॥
... पूर्वायोगे परग्रहः
*4,209*
न्यायसुधा:
न मुख्यानुपपत्तिरमुख्यवृत्तेः कारणम् ।
प्रयोगोत्तरकालीनत्वादनुपपत्तिदशर्नस्य ।
किन्तु मुख्यार्थानुपपत्तिदर्शनममुख्यार्थग्रहणस्य हेतुः ।
अत एव हि न शब्देनापेक्ष्यते ।
नापि प्रयोक्त्रा ।
किन्तु प्रतिपत्त्रैव ।
शब्दो हि व्युत्पत्तिवशान्मुख्यमेवार्थं प्रथमं बुद्धावारोहयति ।
नच प्रतिपत्ता तं सहसोत्स्रष्टुमुत्सहत इति तदर्थमेवानुपपत्तिमपेक्षते ।
अतो न वृत्तिकारणचिन्तायामियं वाच्या ।
प्रयोजनमपि न वृत्तिहेतुः ।
किन्तु सति मुख्ये ऽस्मदायत्ते शब्दप्रयोगे(ऽ)कस्मादमुख्यं प्रयुञ्ज्मह इति वक्त्रा प्रतिपत्त्रा चानुसन्धीयते ।
अतो ऽत्र न वक्तव्यमिति ।
अत्रायोगग्रहणं प्रयोजनस्याप्युपलक्षणम् ।
(यथा)अयोगः सार्वत्रिको न तथा प्रयोजनं रूढायां गौण्यां लक्षणायां चाभिधातुल्यत्वेनानपेक्षितत्वादिति विशेषसूचनाय न स्वशब्देनोपात्तम् ।
निर्दलत्वात् ।
मुख्यायोगे ऽमुख्यग्रह इति वक्तव्ये पूर्वयोगे परग्रह इति वचनं लक्षितलक्षणाद्यनुगमार्थम् ।
नहि लक्षितलक्षणा मुख्यासम्भवमात्रेणाश्रीयते ।
किन्तु लक्षितस्य अपि ।
अत एवैतदयुक्तं मुख्यार्थबाध इति ।
*4,211*
किञ्च यथा मुख्यवृत्तिष्वपि स्वीकारे तारतम्यमस्ति तथामुख्यवृत्तिष्वपि ।
कुत इति चेत् ।
अर्थप्रतीतिसन्निकषर्विप्रकर्षाभ्यामिति ब्रूमः ।
ननु च सादृश्यसम्बन्धयोस्तद्धितमुपत्पाद्य तस्यापि लुपि कृते सर्वं सेत्स्यति ।
किममुख्यवृत्तिस्वीकारेणेत्यतो वेदमुदितम् ।
यदि गोशब्दस्य गवि वाहीके च गङ्गाशब्दस्य गङ्गायां तीरे चोक्तविधयाभिधैव स्यात्तदा गोगङ्गाशब्दोच्चारणे गोगङ्गयोः पूर्वं प्रतीतिस्तदयोगे चानुसंहिते ऽर्थान्तरे प्रतीतिरिति न स्यात् ।
नहि हरीतक्यादिशब्दोच्चारणे सत्ययं प्रतीतिक्रमो ऽस्ति ।
किन्तु वृक्षे फले च स्वातन्त्र्येण प्रतीते प्रकरणादिवशेनान्य(त्र)तरनियन्त्रणं क्रियते ।
अस्ति चायं पूर्वायोगे परग्रहः ।
तेन जानीमो नोभयत्रोक्तविधाभिधेति ।
*4,215*
नन्वत्रानुपपत्तेरथर्प्रतीतिहेतुत्वे ऽर्थापत्तिरेवास्तु ।
किं शब्दशक्तिसमाश्रयणेन ।
तथाहि ।
किमाप्तप्रणीताच्छब्दादसावर्थः प्रतीयते ।
अन्यथा वा ।
नान्यथा ।
उन्मत्तवाक्यादौ तदभावात् ।
आद्ये त्वर्थापत्तिरेव ।
वक्तुराप्तेः प्रतीतार्थानुपपत्तेश्च विरोधेनार्थान्तरस्य कल्प्यमानत्वात् ।
स्यादेवं यदि वक्तुराप्तत्वं निश्चीयेत ।
तस्य पदस्य तत्र शक्त्यभावे ऽसम्बद्धभाषिणि तस्मिन्नाप्तत्वमेव कथं निश्चीयेतेति ।
तदर्थमवश्यं (शब्द)शक्तिराश्ररणीयेति सर्वमवदातम् ।
एतेनैतदपि परिहृतम् ।
यदभिहितं पूर्वपक्षिणा ।
योगस्य रूढितो दुर्बलत्वेन न परमेश्वरस्य मुख्याथर्त्वमिति ।
महायोगस्याविद्वद्रूढिमात्रात्प्राबल्योपपत्तेः ।
विद्वद्रूढेरप्युक्तत्वेन तत्सहितस्य योगस्य सुतरां तदुपपत्तेरिति ।
*4,216*
यदुक्तम्"उभयं दृश्यते विष्णौऽ; इति, यच्च सूचितं विशिष्टयोगस्य रूढितः प्राबल्यमिति तदुपपादयति- एतमेवेति ॥
एतमेव तथा सन्तं शतर्चीत्यादिनामभिः ।
आचक्षत इति ह्यत्र सन्तमित्यवधारणा
योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् ।
बहुशो दर्शयत्यञ्जस्तात्पर्यात् सनिरुक्तिकम्
न्यायसुधा:
"तं यच्छतं वर्षाण्यभ्यार्चत्तस्माच्छतर्चिनस्तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तं स यदिदं सर्वं मध्यतो दधे यदिदं किञ्च तस्मान्मध्यमास्तस्मान्मध्यमा इत्याचक्षत एतमेव सन्तम्ऽ; इत्यादिका श्रुतिः ।
सनिरुक्तिकं योगवृत्तिसाहित्येन ।
तत्रगां परमेश्वरविषयाम् ।
शतर्च्यादिशब्दोपलक्षितानां सर्वशब्दानां विद्वद्रूढिं दर्शयति ।
आचक्षत इत्युक्तत्वात् ।
यच्चात्र बहुशो ऽतिबहुवारं दर्शयति तेन ज्ञायते अञ्जस्तात्पर्यादेव नतु प्रासङ्गिकत्वेनेति ।
किञ्चात्र सन्तमिति वचनादेतमेवेत्यवधारणाच्च लौकिकरूढितो भगवद्विषयस्य योगस्य प्राबल्यं दर्शयति श्रुतिः ।
एतमेव परमात्मानं शतर्च्यादिनामार्थं सन्तम् उक्तेन योगेन शतर्च्यादिशब्दवाच्यमाचक्षते विद्वांसः ।
मधुच्छन्दःप्रभृतींस्तु रूढार्थानमुख्यत इत्यस्यार्थस्य पदद्वयसामर्थ्येन प्रतीतेः ।
सन्तमित्यनेन ह्यगङ्गां गङ्गेत्याचक्षते यथा न तथा हरिमिति मुख्यार्थतोच्यते ।
तदुपपादनार्थम् आचक्षत इति निर्वचनं च सम्बद्धयते ।
अवधारणेन त्वन्यस्य तच्छब्दा(मुख्यार्)थत्वं प्रतिषिद्धयते ।
नच सवर्था प्रतिषेधो युक्तः ।
प्रागुक्तप्रयोजनव्याघातात् ।
ततः परमेश्वरसमकक्षतया वाच्यत्वप्रतिषेधो ज्ञायते ।
रूढार्थेभ्यो यौगिकार्थस्याधिक्ये ऽभिहिते तद्विषयस्य विशिष्टयोगस्य लौकिकरूढितः प्राबल्यं सिद्धम् ।
अवधारणेति क्वचित्पाठः ।
अत्र सन्तमिति पदं अवधारणा चेति (पद)द्वयं दर्शयतीति योजना ।
हि यस्मादेवं तस्मादुक्तं युक्तमिति ।
*4,218*
वाक्यान्तरैरपि विष्णोः सर्वशब्दवाच्यतामुपपादयति- अः इतीति ॥
अ इति ब्रह्म कथितं तद्वयाख्यानान्मता तथा ।
शब्दानामपि सर्वेषां ... ॥ मनुव्_1,4.37अ-च् ॥
न्यायसुधा:
"अः इति ब्रह्मऽ; इति श्रुतावकारस्य ब्रह्मवाचकत्वं तावत्कथितम् ।
अन्यथा इतिकरणवैयर्थ्यात् ।
"अकारो वै सर्वा वाक्ऽ; इति श्रुतौ सर्वेषामपि शब्दानामकारव्याख्यानता च कथिता साक्षादैक्यस्य प्रत्यक्षादिविरुद्धत्वेन लक्षणाश्रयणस्यावश्यकत्वात् ।
नच व्याख्यानव्याख्येययोर्भिन्नविषयता युक्ता ।
तस्मादेतद्वाक्यद्वयपर्यालोचनया सर्ववागभिधेयत्वं ब्रह्मणः प्रतीयते ।
*4,218f.*
किञ्च"यद्वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु तद्वियूय कवयो ऽन्वविन्दन्नामायत्ता समतृप्यञ्छृतेधि इत्यस्यां श्रुतौ (ऐ.2-3-8) वाचो वाक्समूहस्य मध्ये यत् ओमिति पदमङ्गीकारवाचीति यावत्, यच्च नेति पदं प्रतिषेधार्थं, यच्चास्या वाचो मध्ये क्रूरम् अर्थतः कठिनं (च), यच्चोल्बणिष्णु शब्दत कठिनम् ।
उपलक्षणमेतत् ।
यावद्वैदिकं पदजातं तत्सर्वं, वियूय विचार्य कवयो विवेकिनः, (नामायत्ता)नामायत्तानि नामप्रकाश्यतया नामाधीनानि त(त्त)च्छब्दप्रवृत्तिनिमित्तानि, अन्वविन्दन् विदितवन्तः ।
तस्मिंश्च वेदने ऽधिश्रुते परिपक्वे इति अ(तद)नन्तरं समतृप्यन् कृतकृत्या मुक्ता अभूवन्निति, नाममात्रविदः कृतकृत्यता तावत्कथिता ।
तमेवं विद्वानिति परमेश्वरज्ञानादेव मोक्षः श्रूयते ।
तदेतदुभयान्यथानुपपत्त्या सर्वाण्यपि वैदिकानि नामानि परमेश्वरार्थानीति गम्यत इत्याह- नामेति ॥
*4,219*
... नामवित्कृतकृत्यता
न्यायसुधा:
अथान्यच्च सकलवैदिकसंहितानां पूर्वोत्तरवर्णानां च विष्णुनामार्थ(रूप)त्वं तत्प्रतिपादकत्वमब्रवीद्वेदः ।
तेन सर्वे वर्णाः सर्वाश्च संहिता विष्णुमेव प्रतिपादयन्तीति ज्ञायत इत्याह- विष्णुनामेति ॥
विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत्
न्यायसुधा:
क्वाब्रवीदित्यतस्तद्वाक्यमर्थतः पठति- णकारं चेति ॥
णकारं च षकारं च बलचेष्टात्मकं वदन्
तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा
न्यायसुधा:
"णकारो बलं षकारः प्राण आत्माऽ; इति विष्णुनामगतौ णकारषकारौ परमेश्वरबलचेष्याप्रतिपादकौ वदन् वेदो ऽनन्तरं"स यो ह एतौ णकारषकारावनुसंहितमृचो वेदेत्यृचामनुसंहितं सर्वसंहितासु णकारषकारौ यो वेद णकारषकारतत्संहिताभिः प्रतिपाद्यो यो ऽर्थः स एव सर्वत्र पूर्वोत्तरवर्णतत्सहिताभिः प्रतिपाद्यत इति यो वे(त्ति)द, इति विष्णुनामसमानार्थताज्ञानपूर्वकत्वेन सर्वसंहिताध्ययनमब्रवीदित्यर्थः ।
नन्वत्र णकारषकारार्थप्रतिपादकत्वं सर्ववर्णादेरुच्यते ।
नतु विष्णुनामार्थत्वम् ।
नहि णकारषकारावेव विष्णुनामेत्यत आह- उपसर्गत्वत इति ॥
उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा
णकारश्च षकारश्च नामरूपतया मतौ
*4,220*
न्यायसुधा:
सत्यं सन्ति विष्णुनाम्नयन्ये ऽपि वर्णाः ।
तथापि वीत्यस्योपसर्गत्वेनोत्तरपदार्थविशेषकत्वात् उन्प्रत्ययस्य ताच्छील्यार्थत्वादुपसर्जनत्वं मन्वानस्य वेदस्य प्राधान्यात् णकारश्च षकारश्च द्वावेव नामस्वरूपतयाभिमतावित्यदोषः ।
ननूपसर्गाः क्रियायोगे ।
नचात्र क्रिया योगो ऽस्ति ।
तत्कथमुपसर्गत्वम् ।
मैवम् ।
षोन्तकर्मणि, णुस्तुताविति धातुद्वयरूपत्वाङ्गीकारात् ।
अत एव ताच्छीलिकप्रत्ययोत्पत्त्युपपत्तिः ।
उदाहृतानां श्रुतीनां प्रयोजनमाह- तस्मादिति ॥
तस्मात् समन्वयो विष्णौ स्वरवर्णपदात्मनः
अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः
न्यायसुधा:
यौ पुरा सर्वशब्दानां प्रतिपदसमन्वयो वाक्यसमन्वयश्च विष्णावुक्तौ तावताभिः श्रुतिभिः सिद्धावित्यर्थः ।
*4,221*
उपपत्त्यपेक्षाः श्रुतयः प्रागुदाहृताः ।
इदानीं स्पष्टं पदवाक्यसमन्वयप्रतिपादिनीरुदाहरति- घोषा इति ॥
घोषाः सर्वे ऽपि वेदाश्च सर्वे वेदाश्च यत् पदम्
इन्द्रं मित्रं यमिन्द्रं च प्रथमः सङ्कृतिस्तथा ।
नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः
प्रमाणमुक्तविषये ...
न्यायसुधा:
"ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राणा एवऽ,"सर्वे वेदा यत्पदमामनन्तिऽ,"इन्द्रं मित्रं
वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।
एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुःऽ,"यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुःऽ,"स प्रथमसं(स्कृ)कृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणोगिनःऽ; ।
"यो देवानां नामधा एक एवऽ; इत्येतानिवाक्यान्येतैः प्रतीकैरुपात्तानि ।
आदिपदेन"नामानि सर्वाणिऽ; इत्यादेर्ग्रहणम् ।
अत्राद्यद्वितीयान्तिमश्रुतयः समन्वयद्वये प्रमाणम् ।
अन्यास्तु वाक्यान्वये ।
इन्द्रादिनाम्नां परमेश्वरपरत्वे सति"इन्द्रस्य नु वीर्याणि प्रवोचम्ऽ; इत्यादिवाक्यानां तत्परत्वं हि सिद्धयति ।
*4,222*
... तदेवोक्तमुपक्रमात् ।
इति स्वयं भगवता ब्रुवताशेषमन्वयम् ॥ मनुव्_1,4.43ब्-द् ॥
न्यायसुधा:
नन्वेतदर्थप्रतिपादकसूत्रस्यादर्शनादुत्सूत्रितो ऽयमर्थः कस्मादुक्त इत्यत आह- तदेवेति ॥
तदेतद्भगवता सूत्रकारेण स्वयमुक्तमेव नोत्सूत्रितं कथ्यते ।
तथाच सूत्रम् ।
"ज्योतिरुपक्रमात्तु तथा ह्यधीयत एकेऽ; इति ।
अत्र ज्योतिरिति सूत्रप्रतीके ग्राह्ये यदुपक्रमादित्याह, तेन"ज्योतिरुपक्रमात्ऽ; इति परेषामपपाठ एवेति सूचयति ।
अथवात्र ज्योतिर्मात्रग्रहणात्कथं सर्वशब्दप्रतिपादनम् ।
ज्योतिःशब्दस्योपलक्षणत्वादिति वदामः ।
कथमुपलक्षणाभिप्रायो ऽवगम्यत इत्यत उक्तम्- उपक्रमादिति ब्रुवतेति ॥
*4,223*
अत्र हि"ज्योतिः इति प्रतिज्ञाय उपक्रमात्तु तथा ह्यधीयत एकेऽ; इति हेतुरुच्यते ।
तस्य चायमर्थः ।
"एष इमं लोकमभ्यार्चत् इत्युपक्रमात् उपक्रमं विधाय ता वा ता इत्याद्यधीयत एक इति ।
तथाच यदि ज्योतिःशब्दमात्रसमन्वयो ऽत्र विवक्षितः स्यात्तदा तन्मात्रोपपादकं किमपि वक्तव्यम् ।
सर्वशब्दवाच्यतोपपादकस्योपादानं क्वोपयुज्यते ।
नहि विशेषविषयं प्रमाणं नास्ति, येन सामान्यद्वारा साधनं विधेयम् ।
अतः सर्वविषयं प्रमाणमुपाददानेन सूत्रकृता ज्योतिःशब्दो लाक्षणिको विवक्षित इति ज्ञायते ।
किञ्च तत्तु समन्वयादिति ब्रह्मणि सर्वशब्दसमन्वयः प्रतिज्ञातो न कतिपयशब्दसमन्वय इत्युपपादितम् ।
तद्विवरणार्थमध्यायशेषस्य प्रवृत्तिरिति चोक्तम् ।
तत्रानन्दमयाद्यधिकरणैः प्राकरणिकशब्दसमन्वयः प्रतिपादितः ।
अस्मिंश्रच पादे विरोध्यादिशब्दसमन्वयः ।
तथाच कर्मक्रमाद्यभिधायिनः शब्दाः, इदं च अधिकरणमवशिष्यमिति परिशेषात्तत्समन्वयार्थमेतदिति ज्ञायत इत्याशयवानाह- ब्रुवतेति ॥
अस्त्वत्र सर्वशब्दसमन्वयप्रतिज्ञानम् ।
तथापि यो ऽत्र तदुप(त्प्रति)पादनार्थं जातमोतमित्यादिनान्वयो(न्यायो)भिहितः स न सूत्रित इत्यतो वोक्तम्- उपक्रमादिति ॥
"एष इमं लोकमभ्यार्चत्ऽ; इत्युपक्रमवाक्यमुपादाय तथा ह्यधीयत एक इति वदता सूत्रकारेण तदेवोक्तं यदस्माभिरुक्तम् ।
उपक्रमे सर्वस्यास्य दर्शनात् ।
यथा चैतत्तथा एतमेव इत्यादिनोक्तमिति ।
*4,224*
एवं सङ्क्षेपविस्तराभ्यां आनुमानिकमित्यादिसूत्राणि व्याख्याय परेषां व्याख्यानं प्रत्याख्याति ।
तथाहि ।
केचिदेतत्पादप्रमेयमन्यथा वर्णयन्ति ।
यदुक्तं प्रधानस्याशाब्दत्वमीक्षतेर्नाशब्दमिति ।
तदसिद्धम् कासुचिच्छाखासु प्रधानसमर्पणपराणां शब्दानां श्रूयमाणत्वादिति ।
तदेतद्याबन्न निराक्रियते न तावद्ब्रह्मकारणवाद(स्य)स्थैर्यं भवति ।
अतः प्रधानस्याशाब्दत्वं प्रतिपादयितुमयं पाद आरभ्यत इति ।
तत्तावन्निराचष्टे- न शब्दवाच्यतैवेति ॥
न शब्दवाच्यतैवात्र प्रधनस्य निषिद्धयते
न्यायसुधा:
अत्रैव प्रथमे ऽध्याये प्रधानस्य शब्दवाच्यता निषिद्धयत इति नोपपद्यते ।
तथा सति समन्वयलक्षणे ऽन्तर्भावाभावेन पादस्यासङ्गतत्वप्रसङ्ग इति भावः ।
ननूक्तमत्र समन्वयस्थेम्ने प्रधानस्याशाब्दत्वमत्रोपपाद्यत इति, तथाच कथमसङ्गतिरिति ।
मैवम् ।
तथा सत्यविरोधलक्षणे ऽन्तर्भावप्रसङ्गात् ।
अन्यथा द्वितीया(ध्यायार्)थो ऽपि समन्वयस्थैर्यायैवेति सो ऽप्यत्र वक्तव्यः स्यात् ।
केवलं शब्दवाच्यतैवात्र प्रधानस्य निषिध्यते इति न युज्यते ।
विशेषाभावात् ।
*4,226*
किञ्चात्रपादे जगत्कारणादि(वाचि)शब्दवाच्यत्वं प्रधानस्य निषिध्यते शब्दवाच्यतैव वा ।
नाद्यः ।
अत्रोदाहृतवाक्येषु"महतः परमव्यक्तम्ऽ,"यस्मिन्पञ्चपञ्चजनाःऽ; इत्यादिषु प्रधानस्य जगत्कारणत्वाश्रवणात् ।
कश्चिदाह ।
"महतः परमव्यक्तम् इति परशब्देन कालविप्रकृष्टत्वमुच्यते, ततः कारणत्वशङ्केति ।
तदयुक्तम् ।
किं कालविप्रकर्ष एव कारणत्वमुत तेनानुमेयम् ।
अथ सम्भाव्यम् ।
न प्रथमद्वितीयौ ।
कार्यकारणभावविकलयोरपि परापरभावदर्शनात् ।
न तृतीयः ।
सम्भावनामात्रस्येयन्तं सूत्रसन्दर्भं प्रति प्रयोजकत्वायोगात् ।
अजामेकामित्यादौ कारणत्वं प्रतीयत इति चेत् ।
तत्किं ब्रह्मपरं करिष्यते ।
तेजो ऽबन्नविषयं हि तद्वयाख्यातं भवता ।
तथाच लौकिकमाभाणकं नातिवर्तते"व्याघ्रेणोरणे नीते का हानिः वृके(णोरणे)नीते को लाभःऽ; इति ।
द्वितीये त्विदमुपतिष्ठते ।
न शब्दवाच्यतैवात्र प्रधानस्य निषिध्यते, प्रकृतानुपयोगादिति ।
शाब्दत्वे हि प्रधानस्य स्वरूपमात्र सिद्धयति नच स्वरूपसिद्धिमात्रेण काचिल्लक्षणक्षतिः ।
न ह्यस्माभिरिव परेण सर्वशब्दसमन्वयः प्रतिज्ञातः ।
नापि प्रधानं निषिध्य ब्रह्म तत्र निवेशितम् ।
येनास्मदीयदिशाप्युपयोगः स्यात् ।
तदिदमुक्तम् ।
ब्रह्मनिवेशं(शनं) विना प्रधानस्य शब्दवाच्यतैवात्र निषिध्यत इति न युक्तमिति ।
*4,229*
किञ्च प्रधानस्य शब्दवाच्यता ईक्षत्यधिकरणानन्तरमेव निषेध्या ।
त्रिपादीं अतिक्रम्य अत्र निषिध्यत इति (न युज्यते) व्यवधान(ने) कारणानिरूपणादिति ।
किञ्च पादप्रतिपाद्यो ऽर्थस्तथाविधो भवति, यस्तत्पादस्थसकलसूत्रप्रतिपाद्यः ।
नच अत्र पादे सर्वेषु (अपि) सूत्रेषु प्रधानस्य शब्दवाच्यतैव निषिध्यत इति नियमो ऽस्ति, येनायमेतत्पादार्थः स्यात् ।
कारणत्वेनेत्यादौ तदभावात् ।
तत्रापि परम्परया तदेव साध्यमिति चेत् ।
तर्हि पारम्पर्यस्यातीतपादार्थे ऽपि सुवचत्वात् अत्रैव प्रधानस्य शब्दवाच्यता निषिध्यत इति नास्ति ।
स हि पादार्थो यो नान्यत्र प्रतिपाद्यत इति ।
*4,233*
एवं सामान्यतः पादार्थं निराकृत्येदानीं प्रथमाधिकरणव्याख्यां निराकरोति- न शब्दवाच्यतैवेति ॥
आनुमानिकमित्यादिसूत्रं यत्परेण व्याख्यातम् ।
आनुमानिकमप्यनुमाननिरूपितं प्रधानमप्येकेषां शाखिनां शब्दवदुपलभ्यते ।
काठके हि पठ्यते ।
"महतः परमव्यक्तमव्यक्तात्पुरुषः परःऽ; इति ।
तत्र य एव, यन्नामानो, यत्क्रमका(मा)श्च, महदव्यक्तपुरुषाः स्मृति(प्र)सिद्धास्त एवेह प्रत्यभिज्ञायन्ते ।
तत्राव्यक्तमिति रूढियोगाभ्यां प्रधानमुच्यते ।
एवं तस्य शब्दवत्वादशब्दत्वमनुपपन्नमिति चेत् ।
नैतदेवम् ।
न ह्येतत्काठकवाक्यं प्रधानपरमिति ।
अत्र पृच्छामः ।
किमत्र काठकगताव्यक्तशब्दवाच्यतैव प्रधानस्य निषिध्यते किंवा कुत्रापि केनापि शब्देन नोच्यत इति ।
आद्यस्योत्तरम् ।
अत्र काठके (वाक्ये) अव्यक्तशब्दवाच्यतैव प्रधानस्य निषिध्यत इति नोपपन्नम् ।
तन्मात्रेणाशब्दत्वासिद्धेः ।
द्वितीये ऽपि किं परममुख्यया वृत्त्या उत शब्दवाच्यतैव निषिध्यते ।
आद्ये तन्मात्रमनुमतमेव ।
सर्वथा शब्दवाच्यतैवात्र प्रधानस्य निषिध्यत इति द्वितीयस्तु नोपपद्यते ।
कुत इत्यत आह- सर्वेति ॥
सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात्
न्यायसुधा:
सङ्ग्रहात् प्रधानस्येति शेषः ।
वेदे तावदाथर्वणिकाः पठन्ति"विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् ।
ध्यायते ऽध्यासिता तेन तन्यते प्रेर्यते पुनःऽ; इत्यादि ।
इतिहासपुराणे तूदाहरिष्यमाणे द्रष्टव्ये ।
ननूक्तमत्र न ह्यत्र स्मृतिप्रसिद्धं कारणं त्रिगुणं प्रधानमुच्यते ।
तेन यद्यदुदाह्रियते तत्तद्विप्रतिपन्नमेव, इत्यतः त्रिगुणत्वादिलक्षणोपेतप्रधानप्रतिपादकं इतिहासवाक्यं पठति- सत्त्वमिति ॥
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम्
इत्यादिवाक्यरूपेण ...
न्यायसुधा:
आदिपदेन"भूमिरापो ऽनलो वायुःऽ; इत्यादेर्ग्रहणम् ।
इत्यादिवाक्यप्रतिपाद्येन त्रिगुणत्वादिना रूपेणोपेतस्य प्रधानस्य सङ्ग्रहादिति सम्बन्धः ।
*4,234*
किञ्च"अव्यक्तात्पुरुषः परःऽ; इत्यव्यक्तशब्दवाच्यं न चेत्प्रधानं तर्हि तद्वाच्यं वाच्यम् ।
*4,235*
नन्वत्र सूत्रकृतैवोक्तं"शरीररूपकविन्यस्तगृहीतेःऽ; इति,"आत्मानं रथिनं विद्धि शरीरं रथमेव चऽ; इति प्राग्यच्छरीरं रथरूपकतया विन्यस्तं तदत्राव्यक्तशब्देन गृह्यते, प्रकरणात्परिशेषाच्चेति ।
नैव सूत्रकृदाह ।
तथात्वे हि रूपकविन्यस्तशरीरगृहीतेरित्यवक्ष्यत् ।
अस्तु वा कथञ्चिद्विशेषणस्य परनिपातः ।
इदं तु वक्तव्यम् ।
कथमव्यक्तशब्देन शरीरमुच्यत इति ।
न ह्येषा रूढिः ।
नापि योगः सम्भवति ।
शरीरस्य व्यक्तत्वात् ।
ननु परिहृतमेतत्सूत्रकारेण(कृता)"सूक्ष्मं तु तदर्हत्वात्ऽ; इति ।
यद्यपीदं शरीरं व्यक्तम्, तथाप्यस्य यन्मूलमुपादानकारणं तेजो ऽबन्नलक्षणं भूतसूक्ष्मं तत्तावदव्यक्तम् ।
अनादेस्तस्य सूक्ष्मस्याव्यक्तता ऽर्हत्वात् ।
कार्यकारणशब्दाश्च सङ्कीर्यन्ते ।
"गोभिः श्रीणीत मत्सरम्ऽ; इति यथेति ।
अत्र वक्तव्यम् ।
किमनेनोक्तं भवतीति ।
किं शरीरमेवात्रोच्यते, अव्यक्तशब्दस्तत्रोपचरितः, शरीरमूलापादानस्य तेजो ऽबन्नात्मकस्य भूतसूक्ष्मस्यानादेरव्यक्तत्वादिति, किंवा भूतसूक्ष्ममेवाव्यक्तश(ब्दवाच्यं)ब्दम्, शरीरशब्दस्तु तत्रोपचरितः, शरीरस्य तत्कार्यत्वादिति ।
पक्षद्वये ऽपि दोषमाह- यत्रेति ॥
तेजो ऽबन्नात्मकं वापि यद्युपादानमिष्यते
अनाद्येवापराधः कः प्रधानमिति चोदिते
न्यायसुधा:
यत्र वाक्ये, यदि अव्यक्तशब्दस्यान्यार्थो नेष्यते, परब्रह्मलक्षणः, अपि तु तेजो ऽबन्नात्मकं शरीरमूलोपादानमनादि भूतसूक्ष्ममेवेष्यते ।
प्रथमे स्वरूपेण(एव) ।
द्वितीये ऽव्यक्तशब्दवाच्यतया तत्र तर्हि तत्प्रधानमिति चोदिते को दोषो ऽस्ति ।
येन नेति प्रतिषिद्धयते ।
अयमभिसन्धिः ।
सर्वथा तावन्नाव्यक्तपदं ब्रह्मपरं त्वयोच्यते, किन्तु भूतसूक्ष्मकार्यशरीरस्य भूतसूक्ष्मस्य वा वाचकमिति ।
परेण तु प्रधानवाचकमिति ।
यदि वाव्यक्तस्य कारणत्वमभिप्रेतं तदा पक्षद्वयमपि ब्रह्मवादस्य प्रतिपक्षभूतमिति ।
शरीराङ्गीकारेण प्रधाननिरसो व्यर्थः ।
कारणत्वाविवक्षायां तु पक्षद्वयस्याप्यविरुद्धत्वात्किमनेनान्यतरपरिग्रहेणान्यतरनिराकरणाग्रहेण विफलत्वादसङ्गतत्वाच्चेति ।
अथवानादेरुपादानस्य जडस्य भूतसूक्ष्मा(शब्दा)भिधेयस्याङ्गीकारे प्रधानं नेति रिक्तं वचः, तल्लक्षणत्वात्प्रधानस्य ।
नाम्नि विवादायोगादिति अभिप्रायः ।
*4,241*
नन्विदमाशङ्कय सूत्रकारेणैव परिहृतम्, तदधीनत्वादर्थवदिति ।
स्यादेतदेवम् ।
यदि वयं स्वतन्त्रं तेजो ऽबन्नात्मकं कारणम्(इति) अभ्युपगच्छामः ।
नैतदस्ति ।
तस्य ब्रह्माधीनताङ्गीकारात् ।
अवश्यं चैतद(देवम)ङ्गीकर्तव्यम् ।
अर्थवद्धि तत् ।
न हि तेन विना ब्रह्मणो जगत्कारणत्वं निर्वहतीति ।
अत्रोच्यते ।
किमनेनोक्तं भवति ।
अस्ति प्रधानमिति सम्प्रतिपन्नम् ।
तद्धर्मेषु तु स्वातन्त्र्यादिषु विप्रतिपत्तिरिति ।
एवं चेत्प्रधानस्य स्वातन्त्र्यादिकं साङ्खयेन चोदनीयम् ।
त्वया तु पारतन्त्र्यादिकं व्युत्पादनीयम् ।
किमनेनाव्यक्तादिशब्दानां प्रधानपरतानिरासप्रयासेन ।
न ह्यत्र प्रधानस्य स्वातन्त्र्यादिकमवभासते ।
प्रत्युताव्यक्तात्पुरुषः पर इत्यव्यक्तस्य पुरुषाधीनत्वं प्रतीयते ।
तदिदमप्युक्तं"प्रधानमत्रोच्यत इत्येवोक्ते ऽपराधः कः ।
किन्तु स्वतन्त्रमित्युदिते ।
न चैवमत्रोच्यतेऽ; इति ।
*4,242*
चमसवदविशेषादित्यादिकमधिकरणमपि प्रधानस्याशाब्दत्वप्रतिपाद(क)नार्थमिति व्याचक्षते ।
तथाहि ।
"अजामेकां लोहितशुक्लकृष्णां (बह्वीं प्रजां जनयन्तीसरूपाम्) ।
बह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्येको जुषमाणो ऽनुशेते जहात्येनां भुक्तभोगामजो ऽन्यःऽ; इत्यस्मिन्मन्त्रे प्रधानस्य प्रतिपादनात्कथं तदशब्दमिति ।
अत्रोच्यते ।
यथा हि"अर्वाग्बिलश्चमसःऽ; इत्यस्मिन्मन्त्रे स्वातन्त्र्येण"अयं नामासौ चमसःऽ; इति न शक्यते निरूपयितुम्, विशेषाभावात् ।
ऊर्ध्वबुध्नत्वादेर्यथाकथञ्चित्सर्वत्र योजयितुं शक्यत्वात् ।
तथा"अजामेकाम्ऽ; इत्यत्रापि प्रधानप्रतिपादनं न शक्यावधारणम्, विशेषाभावादिति ।
तदिदमनुपपन्नम् ।
"गौरनाद्यन्तवती सा जनित्री भूतभाविनी ।
सितासिता च रक्ता च सर्वकामदुघा विभोःऽ; ॥
इत्यदिश्रुतिसमाख्यया निर्णयोपपत्तेः ।
किञ्च न तावदत्र अजाशब्देन रूढार्थत्वाच्छागी स्वीकर्तुमुचिता, विद्याप्रकरणत्वात् ।
नापि परं ब्रह्म, लोहितादित्वासम्भवात् ।
भोग्यत्वानुपपत्तेश्च ।
अत एव न जीवो ऽपि, भोक्तृतया पृथगभिधानात् ।
नाप्यन्यत्किञ्चिदचेतनम्, अजननानुपपत्तेः ।
अतः प्रकृरिवाजा, जन्माभावात् ।
लोहितशुक्लकृष्णा च रजःसत्त्वतमोरूपत्वात् ।
प्रसिद्धं च रज आदीनां लोहितादित्वमागमेषु ।
तदनुषक्तश्च जीवःसंसरति ।
असंसक्तस्तु मुच्यत इत्येतदपि सुप्रसिद्धम् ।
न चेदेवम्, मन्त्रस्य निर्विषयत्वापत्तिरिति ।
*4,245*
ननु न मन्त्रस्य निर्विषयत्वमापद्यते ।
यतःसूत्रकृदेवाह ज्योतिरुपक्रमेति ।
अत्र मन्त्रे प्रतिपादिताजा ज्योतिरुपक्रमा तेजो ऽबन्नरूपा ।
कुतः ।
"यदग्नेर्(लो)रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यऽ; इति लोहितादिरूपवत्तया तेजो ऽबन्नान्यधीयते ह्येके ।
तत्समाख्ययात्र(त्रापि) तेजो ऽबन्नात्मैवाजा प्रतिपत्तव्या ।
तस्याश्चतुर्विधभूतग्रामोपादानभूताया बहुप्रजाजननीत्वं जडत्वेन भोग्यत्वं च उपपन्नमिति ।
अत्र दूषणमाह- अजामिति ॥
अजामेकामिति प्राह श्रुतिरेतां यदा तदा ।
को दोषः ... ॥ मनुव्_1,4.47च्-ए ॥
न्यायसुधा:
यद्यत्र मन्त्रे परिणामि जडं तेजोबन्नलक्षणं प्रतिपाद्यमङ्गीक्रियते ।
तर्ह्यजामेकामिति श्रुतिरेतां प्रकृतिं प्राहेति पक्षो यदा तदा को दोषो ऽस्ति ।
न को ऽपीति ।
*4,246*
ननु कथं नास्ति ।
ईक्षतेर्नाशब्दमित्युक्ताशब्दतासिद्धेर्विद्यमानत्वादिति चेत् (न) तस्यास्माभिरन्यथाव्याख्यातत्वादित्याशयेनोक्तम्- सर्वथेति ॥
... सर्वथैवास्ति परिणामि जडं यदि
न्यायसुधा:
अपरिहार्य इत्यर्थः ।
इदमत्राकूतम् ।
जगत्कारणत्वेन खल्वत्राजा प्रतीयते ।
सा ब्रह्मवादिना ब्रह्मतया समर्थनीया ।
तेजो ऽबन्नात्म(क)तया तु समर्थने प्रधानरूपापि कुतो नाङ्गीकरणीया ।
लक्षणातिव्याप्तेस्तुल्यत्वादिति ।
तेजो ऽबन्नान्यपि परमेश्वराधीनानि ।
अतो तत्रातिव्याप्तिरिति न चेत् ।
एवं तर्हि किं मन्त्रस्य प्रकृतिपरत्वनिराकरणेन ।
किन्तु प्रकृतिपरत्वमङ्गीकृत्यैव"यो योनिमधितिष्ठत्येकःऽ; इत्यादिवाक्यबलेनेश्वराधीनत्वमेवोपपादनीयम् ।
*4,247*
किञ्च तेजो ऽबन्नादिषु न तावदजाशब्दो रूढः ।
नापि यौगिकः ।
तत्तेजो ऽसृजतेत्यादिश्रुतेरजननासम्भवात् ।
नच स्त्रीलिङ्गत्वमुपपद्यते ।
नाप्येकवचनम् ।
त्रिवृत्करणादिति चेन्न ।
अथ मन्येत तेजो ऽबन्नापादानं जडमनादिद्रव्यं किमप्येकमस्ति ।
तत्कार्यत्वादुपचारादजादिशब्दोपपत्तिरिति ।
तर्हि तदेवात्र प्रतिपाद्यमस्तु, शब्दानां मुख्यवृत्तिलाभात् ।
अस्त्विति चेत्तर्हि प्रकृतिरत्र प्रतिपाद्येति वदता पूर्वपक्षिणा किमपराद्धम् ।
तल्लक्षणत्वात्प्रकृतेः ।
नाममात्रे विवादायोगाच्च, तदिदमुक्तमजामेकामिति ।
*4,249*
नन्वत्रोत्तरमुक्तं कल्पनोपदेशादिति ।
यथा (हि) मधुविद्यादावादित्यादीनां मध्वादित्वेन कल्पना क्रियते, एवमत्रापि तेजो ऽबन्नानामजादिकल्पनोपदेशादविरोध इति ।
एतदयुक्तम् ।
कल्पनायाः प्रयोजनाभावात् ।
नहीदं पामर(जन)मनोरञ्जनार्थं काव्यम् ।
अत एव दृष्टान्तो ऽपि निरस्तः ।
कश्चिज्ज्योतिरुपक्रमेत्येतदन्यथा व्याचष्टे ।
ज्योतिर्ब्रह्म ।
तदुपक्रमा तत्कारणैवेयमजा न स्वतन्त्रेति ।
तस्य प्रथमसूत्रं व्यर्थम् ।
अनेनैव चरितार्थत्वात् ।
किञ्च तदधीनत्वादि(त्यने)नैव प्रधानस्य ज्योतिरुपक्रमत्वं प्रतिपादितम् ।
प्रतिपादनीयं च साङ्खयपरीक्षायामपि ।
अस्याः श्रुतेः प्रधानपरत्वे(ऽपि) न दोष इत्ययुक्तं"तत्तु समन्वयात्ऽ; इत्यवधारणानुपपत्तेरिति चेत् न, तेजो ऽबन्नपरत्वे ऽपि तदनिस्तारात् ।
*4,354*
अस्तु परस्यैवम् ।
भवतां तु कथं न दोष इत्यत आह- अस्माकमिति ॥
अस्माकं परममुख्यार्थो भगवानेक एव तु ।
मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते
सर्वेषामपि शब्दानां गौण्याद्यं तदयोगतः
न्यायसुधा:
अस्माकं तु मते तत्तु समन्वयादित्यवधारणस्यायमर्थः सर्वेषामपि शब्दानां भगवानेक एव परममुख्यार्थो नान्य इति ।
अतो रूढं, यस्य शब्दस्य यदर्थतया प्रसिद्धं, तदपि सर्वं तन्मुख्यार्थमात्रतयाभ्युपगम्यते ।
मुख्यायोगे गौणाद्यपि ।
एवं चाजादिशब्दाः परममुख्यया वृत्त्या परब्रह्मपरा मुख्यमात्रतया प्रधानस्यापि प्रतिपादका इत्यङ्गीकारे कानुपपत्तिरिति ।
नन्वेवं तर्हि सौत्रमवधारणं किमिति परममुख्यार्थान्तरव्यावृत्त्यर्थं व्याख्यायते ।
वाच्यान्तरमात्रव्यावृत्त्यर्थं कुतो न व्याख्यातव्यम् ।
न चोक्तप्रयोजनानुपपत्तिः ।
अमुख्यया वृत्त्या सङ्केतमात्रेण वा तदुपपत्तेरिति चेन्न ।
सूत्रकारेणैव ग्रन्थान्तरे वैदिकानां शब्दानामुक्तविधानेकार्थत्वस्याभ्युपगतत्वादित्याह- अर्थद्वयमिति ॥
तदेव पठति- कार्याणामिति ॥
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।
योगानां परमां सिद्धिं परमं ते पदं विदुः
इति ...
न्यायसुधा:
वचसां वैदिकानामुत्तमं वाच्यम् ।
तदपेक्षयान्यान्यमुख्यवाच्यानि ।
कुत एतत् ।
योगानां योगवृत्तीनां परमां सिद्धिम् ।
सिद्धयन्त्यस्मिन्निति सिद्धिः ।
इन्द्रादयस्त्वपरमसिद्धयः ।
एतदपि कुतः ।
कार्याणां महदादीनां पूर्वं मुख्यं कारणम् ।
प्रकृत्यादीनि त्वमुख्यकारणानि ।
पदं स्वरूपम् ।
तस्मात्परमं विदुः ।
यद्यपि रूढिरविलम्बेनार्थप्रत्यायकतामात्रेणबलवती ।
तथापि विशेषज्ञानहेतुत्वाद्योग एव बलीयानिति मत्वा स एव गृहीतः ।
तत्र साक्षादर्थद्वयस्यानुक्तत्वे ऽप्युत्तमं वाच्यमिति विशेषणाद्वाच्यान्तरसद्भावो ऽवगम्यते ।
अत एव प्रागभिप्रेत्येत्युक्तम् ।
*4,256*
वैदिकानां शब्दानामुभयार्थत्वे प्रमाणान्तरमाह- बुद्धाविति ॥
... बुद्धौ समारोहादुभयोर्योगरूढयोः ।
त्यागे च कारणाभावादुभयार्थत्वमिष्यते ॥ मनुव्_1,4.51अ-द् ॥
न्यायसुधा:
योग इति योगवृत्तिविषयः परमेश्वरः ।
रूढः प्रसिद्धः प्रकृत्यादिः ।
अयमर्थः ।
अस्ति तावद्विदितपदपदार्थसङ्गतेरधिगतशाब्दन्यायस्याजादिशब्दश्रवणे ब्रह्मण इव प्रधानस्यापि बुद्धावारोहः, धियां च (तु) स्वत एव प्रामाण्यम् ।
अप्रामाण्यं तु बाधकाधीनमित्युपपादितं प्रथमसूत्रे ।
नचात्रार्थद्वययाभ्युपगमे बाधकमस्ति ।
येन बुद्धावारूढमपि त्यज्येत ।
अतो निरपवादप्रतीतिबलात्सर्वेषामपि शब्दानामुभयार्थत्वमेष्यव्यमिति ।
एतदेव विवृणोति- विपरीतेति ॥
विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् ।
सा भवेद् यत्र स व्यर्थः पूर्वारोहो भ्रमो यथा ॥ मनुव्_1,4.52अ-द् ॥
न्यायसुधा:
कारणं स्वीकारस्येति शेषः ।
सा विपरीतप्रमा ।
स स्वीकारकारणत्वेनोक्तो ऽपि पूर्वारोहः, व्यर्थः, स्वीकारकारणं न भवति ।
भ्रमो यथेति ।
प्रसिद्धशुक्तिरजतादिविपर्ययो यथेत्यर्थः ।
यद्वा ।
अजादिपदानि द्वयर्थानि बाधकविधुरायां बुद्धौ तथा रूढत्वादिति प्रतिज्ञाहेतू कथितौ ।
अनेनान्वयव्यतिरेकाभ्यां व्याप्तिमाचष्टे ।
तत्र पूर्वार्धे यथा स्तम्भादिप्रत्यय इति दृष्टान्तोक्तिरपि द्रष्टव्या ।
नन्वत्राजायाः कारणत्वमुच्यते ।
तच्च ब्रह्मलक्षणत्वेनोक्तमित्यतो बाधकाद् बुद्धावारूढमपि प्रधानं त्याज्यमिति चेन्न ।
निमित्तमात्रत्वस्य ब्रह्मलक्षणत्वेन जगदुपादानत्वस्य प्रधाने ऽपि सत्त्वादय तदर्थत्वोपपत्तेरित्याशयवानुपसंहरति- अत इति ॥
अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः
न्यायसुधा:
व्यास -(3)
सङ्खयोपसङ्ग्रहात्ऽ; इत्येतदपि प्रधानस्याश(शा)ब्दत्वप्रतिपादनार्थतया वयाचक्षते (शां.भा) ।
तथाहि ।
"यस्मिन्पञ्चपञ्चजना इति पञ्चसङ्खयाविषयापरा पञ्चसङ्खया श्रूयते ।
पञ्चशब्दद्वयदशर्नात् ।
न एते पञ्चपञ्चकाः पञ्चविंशतिः सम्पद्यते ।
तथाच श्रुतिप्रसिद्धया पञ्चविंशतिसङ्खयया तेषां स्मृतिप्रसिद्धानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहात्प्राप्तं श्रुतिमत्त्वं प्रधानादीनां इत्यत्रोच्यते ।
न सङ्खयोपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वप्रतयाशा कर्तव्या ।
कस्मात् ।
नानाभावात् ।
नाना ह्येतानि पञ्चविंशतितत्त्वानि नैषां पञ्चशः पञ्चशः साधारणो धर्मो ऽस्ति ।
येन पञ्चविंशतेरन्तराले पञ्च पञ्च सङ्खया निवेशेरन् ।
न ह्येकं निबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः सङ्खया निविशन्ते ।
अतिरेकाच्च ।
अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसङ्खयायाः ।
आत्मनो हि पञ्चविंशतावन्तर्भावे यस्मिन्नित्यधिकरणत्वोक्तिविरोधः ।
आकाशस्यापि पृथगुक्तिविरोधः ।
किं पञ्चविंशतितत्त्वप्रक्रिया सर्वथाप्रामाणिकीत्यभिप्रायः ।
उतैतद्वाक्यं तत्परं न भवतीति ।
पक्षद्वयमप्यनुपपन्नमित्याह- यत्तदिति ॥
*4,262*
यत्तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत्
न्यायसुधा:
सदसात्मकं कार्यकारणात्मकम् ।
अविशेषत्वादकार्यत्वात्प्रधानं विशेषवत्त्वात्कार्यत्वात्प्रकृतिं प्राहुः ।
विशेषवदित्यस्य विवरणम्- पञ्चभिरिति ॥
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः
इति भागवते प्राह विद्याधीशः स्वयं प्रभुः
न्यायसुधा:
पञ्चभिः महाभूतैः पञ्चभिस्तन्मात्राभिः चतुर्भिर्महदहङ्कारमनोबुद्धिभिः दशभिरिन्द्रियैश्च ब्रह्म पूरितम् ।
"एतच्चतुर्विंशतिकं गणं प्रधानकार्यं विदुः इति सूत्रकृतैव ग्रन्थान्तरे पञ्चविंशतितत्त्वानां प्रतिपादितत्वान्न तावदाद्यः कल्पः ।
अनुवादो ऽयमिति चेत् ।
किं प्रमितस्योत कल्पितस्य ।
आद्य तत्प्रमाणैरेव सिद्धिस्तत्त्वानाम् ।
न द्वितीयः वैयर्थ्यात् ।
दूषणार्थमिति चेन्न ।
तदभावात् ।
नहि ग्रन्थान्तरे अनुवादो ग्रन्थान्तरे दूषणमिति सम्भवति ।
न द्वितीयः ।
विरोधाभावात् ।
*4,269*
यदुक्तं नानाभावादिति तदसत् ।
सूत्रकारस्यापि सङ्ग्राहकाभावेन पञ्चभिरित्याद्युक्त्यनुपपत्तिप्रसङ्गात् ।
अथ तत्र भूतत्वादिति सङ्ग्राहकाणि सन्ति इति चेत् तर्हि तान्येव भूतत्वतन्मात्रत्वज्ञानेन्द्रियस्वकर्मेन्द्रियत्वतदितरत्वानि (च)श्रुतावपि सन्तीति समानम् ।
न चायमस्ति नियमो ऽन्तराले सङ्ग्राहकेण विना न सङ्खयानिवेशो ऽस्तीति ।
"पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुःऽ,"व्रतमेतदनुष्ठेयं वर्षाणि नव पञ्च चऽ; इत्यादौ व्यभिचारात् ।
यदप्यतिरेकाच्चेति ।
तदप्यसत् ।
पातञ्जलैरीश्वरस्याङ्गीकृतत्वात् ।
आकाशश्चेत्याकाशाद्या इति व्याख्यानोपपत्तेः ।
*4,272*
किञ्चेदं वाक्यं पञ्चविंशतितत्त्वसिद्धये साङ्खयेन स्वशास्त्रे गृहीतत्वाद्वा शङ्कितं सम्भावितत्वाद्वा ।
न द्वावपि सम्भवतः ।
पञ्च पञ्चजना इत्यस्य पञ्चविंशत्यप्रत्यायकत्वात् ।
पञ्चजना इतयस्य समासत्वे हि द्वितीयः पञ्चशब्दो न तावत्पञ्चशब्देन सम्बद्धयते ।
विशेषणस्यापेसर्जनेन सम्बन्धायोगात् ।
नापि जनशब्देन ।
पञ्चजनाः कतीत्याकाङ्क्षानुदयेन विशेषणायोगात् ।
असमासत्वे ऽपि न तावत्पञ्चशब्देन सम्बन्धः ।
एकार्थयोर्विशेषणविशेष्यभावानुपपत्तेः ।
नापि जनशब्देन ।
निराकाङ्क्षत्वात् ।
कथञ्चिदाकाङ्क्षायामपि दशत्वस्य प्राप्तेः ।
*4,279*
ननु पञ्चजना इति समाहारद्विगुः ।
तस्य पञ्चेति विशेषणे पञ्चविंशतिः सम्पद्यते ।
यथा पञ्चपञ्च(फ)पूल्यं इत्युक्ते पञ्चविंशतिपूल्योलभ्यन्त इति ।
मैवम् ।
तथा सति पुंलिङ्गानुपपत्तेरित्यलम् ।
कारणत्वेनेत्यादिसूत्राणामपव्याख्यानं स्फुटदूषणमिति न दूषितम् ।
*4,283*
प्रकृतिश्चेत्येतद(त्य)धिकरणं ब्रह्मणो जगदुपादानताप्रतिपादनार्थमिति व्याचक्षते ।
तथाहि ।
जन्माद्यस्य यत इति जगत्कारणं ब्रह्मेत्युक्तम् ।
तत्र संशयः किमुपादानत्वेनोत निमित्तत्वेनेति ।
"स ईक्षांचक्रे स प्राणमसृजतऽ; इतीक्षापूर्वककर्तृत्वश्रवणादिना केवलं निमित्तत्वेनैवेति प्राप्ते ऽभिधीयते"प्रकृतिश्च पतिज्ञादृष्टान्तानुपरोधात्ऽ; ।
न केवलं निमित्तकारणमेव ब्रह्म ।
किन्तु प्रकृतिः उपादानं च ।
कुतः, प्रतिज्ञादृष्टान्तानुपरोधात् ।
एवं हि प्रतिज्ञादृष्टान्तौ नोपरुध्येते ।
"येनाश्रुतं श्रुतं भवतिऽ; इति ब्रह्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् ।
तच्चोपादानत्व एवोपपद्यते ।
कार्यस्योपादानाव्यतिरेकात् ।
नहि निमित्तकारणाव्यतिरेकः कार्यस्यास्ति ।
तक्ष्णः प्रासादव्यतिरेकदर्शनात् ।
दृष्टान्ताश्च"यथा सोम्यैकेन मृत्पिण्डेनऽ; इत्यादय उपादानगोचरा आम्नायन्ते ।
"यतो वा इमानि भूतानिऽ; इति पञ्चमी चोपादानत्वं गमयतीति ।
जनिकर्तुः प्रकृतिरिति विशेषस्मरणात् ।
"अभिध्योपदेशाच्चऽ"सो ऽकामयत बहु स्यां प्रजायेयऽ; इत्यभिधानपूर्वकबुहभवनोपदेशाच्च निमित्तत्वमुपादानत्वं च गम्यते ।
"साक्षाच्चोभयाम्नानात्ऽ; ।
इतश्चोपादानं ब्रह्म ।
"सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्तिऽ; इति साक्षाद्ब्रह्मैव कारणमुपादायोभयोः प्रभवप्रलययोराम्नानात् ।
यद्धि यस्मात्प्रभवति यस्मिंश्च लीयते तत्तस्योपादानं प्रसिद्धम् ।
यथा व्रीह्यादीनां पृथिवी(ति) ।
प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः ।
"आत्मकृतेः परिणामात्ऽ; तदात्मानं स्वयमकुरुतेत्यात्मनः कर्मत्वकर्तृत्वश्रवणा(व्यपदेशा)च्चोपादनं ब्रह्म ।
कथं पुनः पूर्वसिद्धस्य क्रियमाणत्वम् ।
परिणामात् ।
पूर्वसिद्धो ऽप्यात्मा विकारात्मना विशेषेणात्मानं परिणामयामासेति ह्युपपन्नम् ।
परिणामादिति वा पृथक् सूत्रम् ।
सच्च त्यच्चाभवदित्यादिना ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाम्नायते ।
अतश्चोपादानं ब्रह्म ।
"योनिश्च हि गीयते ।
ऽ"यद्भूतयोनिम्ऽ; इति योनिश्च ब्रह्म गीयते ।
योनिशब्दश्चोपादानवचनः समधिगतो लोके ।
अतश्चोपादानं ब्रह्मेति ।
*4,284*
तदेतन्निराकरोति- नचेति ॥
नच प्रकृतिशब्देन ब्रह्मोपादानमुच्यते
*4,288*
न्यायसुधा:
कुतो नोच्यत इति चेत् ।
प्रमाणान्तराविरुद्धो हि सूत्रार्थो वर्णनीयः ।
उपादानत्वं च ब्रह्मणः श्रुत्यादिविरुद्धम् ।
परिणामिकारणं ह्युपादानमुच्यते ।
यथा घटरुचकादीनां मृत्सुवर्णादि ।
ब्रह्मणश्च स्वरूपान्तरापत्तिलक्षणो विकारापरपर्यायः परिणामो निषिद्धयते श्रुत्यादाविति कथं सूत्रार्थतया वक्तुं शक्यत इत्याह- अविकार इति ॥
*4,289*
अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः ।
सदैकरूपविज्ञानबल आनन्दरूपकः
निर्विकारो ऽक्षरः शुद्धो निरातङ्को ऽजरो ऽमरः ।
अविश्वो विश्वकर्ताजो यः परः सो ऽभिधीयते
निर्विकारमनौपम्यं सदैकरसमक्षयम् ।
ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः
इति श्रुतिपुराणोक्तया न विकारी जनार्दनः
न्यायसुधा:
सदाशब्दद्वयस्याविकारः शुद्ध इत्याभ्यां सम्बन्धः ।
विकारो द्वेधा भवति ।
धर्मिणो धर्मस्य चेति ।
तत्राविकारःसदेत्याद्यस्य निषेधः ।
सदैकरूपेति द्वितीयस्य ।
एकरूपे निर्विकारे विज्ञानबले यस्यासौ तथोक्तः ।
उपमाविषय औपम्यम् ।
न औपम्यम् अनौपम्यम् ।
एकरसं स्वगतभेदवर्जितम् ।
प्रधानानन्दात्मकं वा ।
न विकारीति गम्यत इति शेषः ।
*4,290*
युक्तिविरुद्धं च ब्रह्मणो विकारित्वमिति वक्तुं विकारप्रकारांस्तावदाह- पराधीनेति ॥
पराधीनविशेषाप्तिरनिवर्त्यान्यथाभवः
क्षीरादिवद् विकारः स्यान् ...
*4,291*
न्यायसुधा:
विकारस्तावद् द्विविधो भवति ।
विशेषाप्तिर्विशेषिपरिवतर्(वृत्ति)श्चेति ।
तत्र विशेषाप्तिर्नाम धर्मिणस्तदवस्थ्ये सति धर्ममात्रपरिवृत्तिः ।
विशेषिपरिवर्तवृत्तिस्तु धर्मिस्वरपूस्यैव परिणामः ।
द्विविधो ऽप्ययं पराधीनो भवति ।
प्रत्येकं च द्वेधा ।
अनिवर्त्यो ऽन्यथाभावो निवर्त्यश्चेति ।
अत्रैकैकप्रकारानुक्तिः स्फुटत्वादिति ज्ञातव्यम् ।
अन्यथा वाक्यस्यासामञ्जस्यं स्यात् ।
क्षीरादिवदिति चतुर्णामुदाहरणम् ।
क्षीरादीनामिव दधित्वाद्यापत्तिरित्यर्थः ।
*4,292*
तत्रानिवर्त्यविशेषाप्तिर्यथा ।
श्यामस्य फलस्य पीतत्वापत्तिः ।
तत्र हि धर्मिणस्तादवस्थ्यं पीतत्वे ऽपि फलव्यवहारानिवृत्तेः ।
केवलं श्यामत्वापगमेन पीतत्वमुत्पन्नं सौरातपादिवशान्न निर्निमित्तम् ।
नच पुनर्निवर्तते ।
निवर्त्यविशेषाप्तिर्यथा ।
कुण्डलाद्याकारस्य सुवर्णस्य कटकादित्वापत्तिः ।
अत्रापि हि धर्मिणस्तादवस्थ्यम् ।
कटक(कादि0त्वापन्ने ऽपि सुवर्णव्यवहारदर्शनात् ।
परं कुण्डलत्वापायेन स्वर्णकाराद्यधीनकटकभावो जातः ।
निवर्त्यश्चासौ ।
पुनः कुण्डलीकर्तुं शक्यत्वात् ।
*4,293*
अनिवर्त्यो विशेषिपरिवर्तो यथा ।
क्षीरस्य दधिभावः ।
अत्र हि न धमिर्णस्तादवस्थ्यम् ।
दधित्वापत्तौ क्षीरव्यवहारानुपलम्भात् ।
किन्तु धर्मिभूतं क्षीरमेव आतञ्चनादिवशाद्दधिभूतम् ।
नच दधिभावनिवृत्त्या क्षीरं भवति ।
निवर्त्यो धर्मिपरिवर्तो यथा ।
शुल्बस्य तारत्वम् ।
अत्रापि न धर्मिणस्तादवस्थ्यज्ञ् ।
तारतायां शुल्बव्यवहारानुपलब्धेः ।
किं नामौषध्य(धा)धीनतया शुल्बमेव तारं संवृत्तम् ।
प्रबलौषधिबलात्तारतानिवृत्त्या शुल्बं च सम्पद्यते ।
नच पञ्चमी विधा दृष्टा, (सम्भाविता) श्रुता वेति ।
*4,294*
किमतो यद्येवंभूतो विकार इत्यत आह- नैवेति ॥
... नैव स स्याद्धरेः क्वचित्
न्यायसुधा:
क्वचिदिति निमित्तसप्तमी ।
अयमाशयः ।
सकलो ऽपि खलु विकारः पराधीनो भवतीति निदर्शितम् ।
नचैवमेवासौ क्वापि दृष्टः ।
तथात्वे वा सर्वदा स्यात् ।
नच ब्रह्मणो विकारनिमित्तं किञ्चिदस्ति ।
"सदेव सोम्यऽ; इति प्राक् सृष्टेवर्स्त्वन्तरनिषेधात् ।
नच कालादिकमपि परेण प्रलये ऽभ्युपगतम् ।
अभ्युपगमे ऽपि पराधीनताऽपत्तेश्च ।
अस्तु जडेषु पराधीनो विकारः ।
चेतनं ब्रह्म तु स्वेच्छयैव जगादाकारेण विक्रियते ।
"तदात्मानं स्वयमकुरुतऽ; इत्यादिश्रुतेरिति चेन्न ।
प्रेक्षावतस्तस्य नानाविधानार्थरूपप्रपञ्चीभवनेच्छाया एवानुपपत्तेः ।
न ह्युन्मत्तो ऽप्यात्मनो ऽनर्थरूपतामिच्छति ।
दूरे प्रेक्षावान् ।
नच प्रपञ्चस्यानर्थरूपतां न जानाति ब्रह्म ।
असर्वज्ञतापातात् ।
नायं प्रपञ्चो ब्रह्मणो ऽनर्थरूप इति चेन्न ।
दुःखादिरूपेण परिणतस्य न दुःखादिरूपता इत्यस्य व्याहतत्वात् ।
नहि विवर्तवादिनामिव कल्पितो ऽयं प्रपञ्चो भवताम् ।
सत्यत्वाभ्युपगमात् ।
दुःखादिमत्त्वमनिष्यम्, नतु तद्रूपतेत्यभिप्राय इति चेन्न, तथा सति सुखरूपस्येष्टत्वमपि न स्यात् ।
ततश्च न मोक्षाय प्रवर्तेत ।
*4,296*
किञ्च ब्रह्मणो ऽनर्थाभावे कस्या(यम)नर्थ इति वक्तव्यम् ।
जीवस्य चेति चेत् ।
स किं ब्रह्मणो भिन्नो ऽभिन्नो वा ।
नाद्यः ।
अपसिद्धान्तात् ।
द्वितीये कथं ब्रह्मणो नानर्थः ।
भिन्नाभिन्न इति चेत्(न) अभेदेनानर्थप्रसङ्गात् ।
निराकरिष्यते चायं पक्षः"अत एव चोपम्ऽ; इति ।
अपिच, चेतनस्यापि विक्रिया दृष्टादृष्टकारणायत्ता दृष्टेति कथं ब्रह्मणः स्वेच्छामात्रेण स्यात् ।
सर्वशक्तित्वादिति चेत्(न) अनर्थीभवतः सर्वशक्तित्वानुपपत्तेः ।
न तर्कावसेयं ब्रह्म येन दृष्टान्तानुगुण्यवैगुण्यचिन्तात्रोपयुज्यते ।
किं नाम श्रुतिमात्रसिद्धम् ।
श्रुतिश्चान्यानपेक्षमेव प्रपञ्चा(त)पत्तिमाचष्ट इति चेन्न ।
तथा सति विचारशास्नानवतारप्रसङ्गात् ।
युक्तश्चायं तर्कागोचरत्ववादो यत्र श्रुतीनामविगानं स्यात् ।
न चैवमत्रेत्युक्तम् ।
अतो न सामान्यतो विकारित्वं ब्रह्मणो युज्यते ।
नापि विशेषतः ।
*4,298*
तथाहि ।
न तावदप्रच्युतस्वरूपस्यैव ब्रह्मणो ऽयमाकारपरिणामः प्रपञ्च इति युक्तम् ।
अस्थूलत्वादिश्रुतिविरोधात् ।
स्वरूपापेक्षया तदुपपत्तिरिति चेत् (न) स्वरूप एव स्थूलत्वादिजननात् ।
नहि कुण्डलत्वानपगमेन कटकत्वं सुवर्णस्य भवति ।
स्वभावापेक्षयास्त्विति चेन्न ।
कालभेदेन स्थूलत्वादिभावाभाववतः"अयं स्वभावः, अयं (न) त्वस्वभावःऽ; इति विवेकायोगात् ।
नहि ब्रह्मणः कारणान्तरात्प्रपचतापत्तिं मन्यसे येन सा न स्वभावः स्यात् ।
प्रपञ्चकारतायाश्चानिवर्त्यत्वे प्रलयश्रुतिव्याकोपः स्यात् ।
निष्प्रपञ्चब्रह्मभावापत्तिलक्षणमोक्षाभावप्रसङ्गश्च ।
एकदेशपरिणामस्तु निराकरिष्यते ।
नापि स्वरूपप्रच्युत्या प्रपञ्चरूपताऽपत्तिः स्थितिसमये ब्रह्माभावप्रसङ्गेन ब्रह्मज्ञानस्य निरालम्बनत्वापातात् ।
तस्याश्चानिवर्त्यत्वे न कदापि ब्रह्मणो ऽस्तित्वमित्येषा दिक् ।
*4,302*
अत्र कश्चित् अन्धानुगतान्ध इव प्रकृतिश्चेत्यादीनि सूत्राणि ब्रह्मणो जगदुपादानताप्रतिपादकतया व्याख्यायोक्तदूषणगणाद्भीतः सूत्रतात्पर्यमाह"परमसूक्ष्माचिद्रूपप्रधानशरीरं ब्रह्म"यो ऽव्यक्ते तिष्ठन्यस्याव्यक्तं शरीरम्ऽ; इत्यादिश्रुतिसिद्धम् ।
तथाच ब्रह्माधिष्ठितं ब्रह्मात्मकं प्रधानं जगदुपादानमिति ब्रह्मैव जगदुपादानतया(ऽङ्गीक्रि)गीयते ।
अतो नोक्तदोषःऽऽ; इति ।
तं प्रत्याह- उपादानत्वमेवेति ॥
अपादानत्वमेवास्य यद्युपादानतेष्यते
अङ्गीकृतं तत् पितृवन् ...
न्यायसुधा:
एवं हि वदता पितुरिव पुत्रजन्मनि जगदुत्पत्तौ ब्रह्मणो ऽपायावधित्वलक्षणमपादानत्वमिष्यं स्यात् ।
सर्वथा निर्विकारस्य ब्रह्मणो विकारिप्रधानशरीरकस्य तदधिष्ठातृत्वेनापादानतयोदितत्वात् ।
एवंभूतं चोपादानत्वम् (ब्रह्मणः) अस्माभिरप्यङ्गीकृतमेवेति नात्रास्माकं प्रद्वेषः ।
*4,303*
ननूपादानत्वं चेद्ब्रह्मणो ऽङ्गीकृतं कथं तर्हि तन्निराकरणमित्यत आह- न त्विति ॥
... नतु विश्वात्मना भवः
न्यायसुधा:
शुद्धचैतन्यस्यैव ब्रह्मणो विश्वात्मना भवो भास्कराद्यभ्युपगतो नास्माभिर(ङ्गीक्रिय)भ्युपगम्यते ।
अतस्तन्निराकरणमुपपन्नमि(मेवे)ति ।
अत्रायमभिसन्धिः ।
यद्यपि परव्युत्पादितं जगदुपादानत्वं ब्रह्मणो नास्माकमर्थतो विरोधि ।
तथापि नैतेषां सूत्राणामर्थः ।
तथाहि ।
किमत्रास्य व्युत्पादनस्य प्रयोजनम् ।
न तावद्भास्करस्येव निमित्तोपादानभेदनिराकरणम् ।
प्रधानस्योपादानतयाङ्गीकृतत्वात् ।
विकारिवस्त्वधिष्ठातृत्वमेव मुख्यमुपादानत्वमिति चेन्न ।
लोकविरोधात् ।
लोकव्यवहारानुसारेण हि परीक्षकैर्लक्षणं कार्यम् ।
नतु स्वाभिप्रायानुसारेण लोकव्यवहारो नियन्तव्यः ।
लोके च विक्रियावदुपादान(मु)मित्युच्यते ।
अथ पातञ्जलाः प्रधानस्यैव स्वातन्त्र्येण जगदुपादानत्वम् ईश्वरस्य तु तदनुग्राहकत्वमेवेति मन्यन्ते ।
तन्निरासार्थं ब्रह्मशरीरतया ब्रह्मात्मकमेव प्रधानम् ।
तदीयमुपादानत्वमपि ब्रह्मण एवेत्यत्र व्युत्पाद्यत इति ब्रूषे ।
तदानवसरदुःस्थत्वम्, अस्य समयपादे कर्तव्यत्वात् ।
करिष्यते च"अन्यत्राभावात्ऽ; इति ।
तस्मान्नेदं सूत्रतात्पर्यमिति ।
*4,304*
पितृत्वादित्युक्तं दृष्टान्तममृष्टमाणो ब्रह्मपरिणामवादी वदति"पिता पुत्रस्योपादानमेवातो नायं दृष्टान्तो युक्तःऽ; इति, तत्राह- न चेति ॥
न चोर्णनाभिजनितृमातृणां च विकारिता
न्यायसुधा:
आद्यश्चशब्दो ऽवधारणे ।
द्वितीयः परोक्तानुवाद(कः) ।
जनितृशब्दं प्रयुञ्जानः स्वग्रन्थस्य मन्त्रतुल्यतां (दर्श)सूचयति भगवानाचार्यः ।
जनिता मन्त्र इति स्मरणात् ।
अत्र प्रकृतत्वात्पितृमात्रग्रहणे प्राप्ते यदूर्णनाभिमातृग्रहणं तेनैतदपि निराकृतं भवति ।
यद्ब्रह्मपरिणा(मि)मवादिनोक्तं,"ब्रह्मणो जगत्कारणत्वे"यथोर्णनाभिः सृजते(गृह्णते च)ऽ"पिताहमस्य जगतो मताऽ; इत्यूर्णनाभ्यादिदृष्टान्तोपादानादुपादानत्वमेव विवक्षितम् ।
ऊर्णनाभ्यादीनां तन्त्वादिकं प्रत्युपादानत्वात्ऽ; इति ।
यच्च"योनिश्च हि गीयतेऽ; इत्यत्रोक्तम् ।
"यद्यपि योनिशब्दो"योनिष्ठ इन्द्र निषदे अकारिऽ; इत्यादौ स्थानाद्यर्थः प्रतीयते ।
तथापि यथोर्णनाभिरिति वक्ष्यमाणदृष्टान्तबलादुपादानवाचीति निश्चीयत इतिऽ; ( । ) उदाहरिष्यमाणं ब्रह्मतर्कवचनमपि व्याख्यातं भवति ।
*4,306*
कुतो नेति चेत् ।
अत्र पित्रादीनां पुत्रादीनां च चेतनाचेतनसमाहाररूपत्वाच्चत्वारः पक्षाः सम्भवन्ति ।
पित्रादिचेतनं प्रति वोपादानं, पुत्राद्यचेतनं प्रति वा, पित्राद्यचेतनः पुत्रादिचेतनं प्रति वा, पुत्राद्यचेतनं प्रति वेति ।
तत्राद्यं पक्षत्रयं तावन्नोपपद्यत इत्यत्र हेतुमाह- चेतनत्वादिति ॥
चेतनत्वात् तदन्नं हि कार्यरूपतया भवेत्
न्यायसुधा:
आद्ये द्वयोश्चेतनत्वात् ।
उत्तरयोरन्यतरस्य ।
चतुर्थं त्वङ्गीकरोति तदन्नं हीति ।
तैरूर्णनाभ्यादिभिरुपभुक्तमन्नं तत्परिणतास्तच्छरीरधातव इति यावत् ।
तन्त्वादिकार्यरूपतया परिणतं भवेदित्यर्थः ।
एतदुक्तं भवति ।
पित्रादिदृष्टान्तानामयं खलु निष्कृष्टो ऽर्थः ।
यत्पित्राद्युपभुक्तमन्नं तच्छरीरी(र)भूतं पुत्रादिगताचेतनांशोपादानं भवतीति ।
पक्षान्तरस्यासम्भावितत्वात् ।
नचायमस्माकमनिष्यः ।
महाप्रलये परमेश्वरेण निगीर्णं महदादिकार्यं तच्छरीररूपकप्रधानतां गच्छति ।
तच्च प्रधानं पुनर्महदादिकार्योपादानं भवतीत्यङ्गीकारादिति ।
एतेनोर्णनाभ्यादीनां न विकारित्वं(ता)चेन्निरुपादाना तन्त्वाद्युत्पत्तिः प्रसज्यत इत्यपि निरस्तम् ।
*4,307*
एवं श्रुतिपुराणयुक्तिभिर्ब्रह्मणो निर्विकारत्वावगमान्न जगदुपादानकारणत्वं किन्तु निमित्तत्वमेवेत्युक्तम् ।
अधुना श्रुतिस्मृति(पुराणयुक्ति)भिर्निमित्तत्वस्यैवोक्तत्वादपीत्याह- अपादानतयेति ॥
अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम्
उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम्
*4,308*
न्यायसुधा:
विश्वकर्तृत्वमित्येवेत्युक्ते कुलालादीनामिव तटस्थकर्तृत्वं प्रतीयते ।
तन्निवृत्त्यथर्मपादानतयेत्युक्तम् ।
अपादानत्वमि(त्येवो)क्ते परस्य नानिष्यम् ।
उपादानस्याप्यपादानविशेषत्वेनापादानत्वापादानत्वयोरविरोधात् ।
अपादानविशेषविवक्षायां च पर्णपतने वृक्षस्येवावधित्वमात्रं प्रतीयते ।
अतो विश्वकर्तृत्वमित्युक्तम् ।
तथापि बुद्धिपूर्वकमिति व्यर्थम् ।
कर्तुर्बुद्धिमत्वनियमादिति ।
मैवम् ।
अशेषविशेषज्ञानस्य विवक्षितत्वात् ।
एतदुक्तं भवति ।
सकलकार्यक्रियाकारकफलविषयबुद्धयादिमानीश्वरो बाह्येन रूपेणानुगृह्णन्नान्तरेण प्रधानादीनां परिणामादिशक्तीः प्रेरयन् स्वशरीररूपकप्रधानादिपरिणामभूतमहदादिकार्यापगमे ऽवधिर्भवतीति ।
सादरत्वं दर्शयिष्यामः ।
तदेव वाक्यद्वयं क्रमेण पठति- इच्छामात्रादिति ॥
इच्छामात्रात् प्रभोः सृष्टिरविकारस्य सर्वदा
स्वभावो ऽयमनन्तस्य रजो येनाभवज्जगत् ।
स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः
ससर्ज मातापितृवदूर्णनाभिवदेव वा
न्यायसुधा:
नतु परिणामितयेति मात्रार्थः ।
तत्र हेतुरविकारस्येति ।
किं प्रयोजनाद्देशेनेत्यत उक्तम्- स्वभाव इति ॥
उपादानाभावात्कथमित्यत उक्तम्- रज इति ॥
येन प्रेरितं रजःशब्दोपलक्षितं गुणत्रयात्मकं प्रधानं जगदभवत् ।
अत्रोपपादनेनादरः प्रतीयते ।
स्वदेहात्सच्चिदानन्दाद्यात्मकावदधेः ।
अथवा स्वदेहात्प्रधानादुपादानात् ।
भुक्तपूर्वं पूर्वकल्पे (भुक्तेन) संहृतेन सदृशम् ।
भुक्तपूर्वं सूक्ष्मभावस्थोपादानकमिति वा ।
एवशब्देन नतु मृदादिवदित्याह ।
वाशब्दो दृष्टान्तसमुच्चये ।
स्वदेहादिति भुक्तपूर्वमिति च विवृणोति- प्रधानमिति ॥
प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा
न्यायसुधा:
एवशब्दोक्तस्योपपादनं निर्विकार इति ।
अत्रापि पूर्ववदादरो गम्यते ।
*4,310*
प्राक् चेतनत्वादित्यनेन त्रयः प्रयोगाःसूचिताः ।
पितापुत्रौ नोपादानोपादेयभूतौ चेतनत्वाद्देवदत्तयज्ञदत्तवत् ।
पुत्राद्यचेतनो, न पित्रादिचेतनोपादानकः, अचेतनत्वात् घटवत् ।
पुत्रादिचेतनो न पित्राद्यचेतनेपादानकः, चेतनत्वाद्ब्रह्मव(ह्मादिव)दिति ।
सर्वत्र पक्षधर्मतायाश्च निश्चितत्वात् ।
द्वितीये तावद्वयाप्तिमुपपादयति- न चेतनविकारः स्यादिति ॥
न चेतनविकारः स्याद् यत्र क्वापि ह्यचेतनम्
*4,311*
न्यायसुधा:
यदि खलु यत्र क्वापि देशे काले वाचेतनं चेतनविकारो दृष्टः स्यात्तदैवं व्याप्तिर्भज्येत ।
नचैवमित्यर्थः ।
महदादिजगत् ब्रह्मकार्यमुपलब्धमिति चेन्न ।
अद्याप्यसिद्धेः ।
उक्तवक्ष्यमाणप्रमाणैर्निराकृतत्वात्(च) ।
तृतीये व्याप्तिमुपपादयति- नाचेतनेति ॥
नाचेतनविकारो ऽपि चेतनः स्यात् कदाचन
न्यायसुधा:
व्याख्यानं पूर्ववत् ।
एवं न चेतनविकारश्चेतनो ऽप्युपलब्ध इत्याद्ये ऽपि व्याप्तिरुपपादनीया ।
*4,312*
अथवा महदादिकं न चेतनविकारः, अचेतनत्वाद्घटवदिति युक्त्यन्तरविरुद्धं च ब्रह्मणो जगदुपादानत्वमिति चेतसि निधायास्य व्याप्तिमुपपादयति- न चेतनेति ॥
ननु घटादयो ऽपि ब्रह्मविकारा इति चेन्न ।
मृदादिविकारत्वस्य प्रमितत्वात् ।
परम्परयेति चेत् ।
एवं तर्हि न स्वयं चेतनविकाराः ।
किन्तु तत्कारणानीत्युक्तं स्यात् ।
तथाच कथं न दृष्टान्तता ।
तर्हि तत्कारणेषु व्यभिचार इति चेन्न ।
तेषामेव पक्षत्वात् ।
सुखदुःखादिष्वनैकान्तिकत्वमिति चेन्न ।
तेषामन्तःकरणविकारत्वाभ्युपगमात् ।
एतेनैतदपि प्रत्युक्तम् ।
जगत्, अभिन्ननिमित्तोपादानम् प्रेक्षापूर्वजनितकार्यत्वात्सुखादिवदिति ।
घटादिषु व्यभिचार(राच्च)श्च ।
तेषामपि पक्षीकरणे प्रमाणबाधः स्यात् ।
नन्वचेतनमपि जगच्चेतनविकारश्चेत्तदा को दोषः स्यात् ।
एवं तर्हि चेतनो ऽप्यचेतनविकारः स्यात् ।
न चैतदस्तीत्याह- नाचेतनेति ॥
अयमभिसन्धिः ।
यदि महदादिकं ब्रह्मणो विकारः स्यात्तर्हितत्स्वरूपानुगतिमत्प्रसज्येत ।
कार्ये कारणस्वरूपानुगमदर्शनात् ।
घटादयो मृद्विकारा मृदनुगतिमन्तो दृष्टाः ।
न चैतदस्ति ।
तस्मान्न महादादि(ः) ब्रह्मविकारः ।
यदि पुनः कारणस्वरूपानुगममन्तरेण विकारिविकारभावो ऽभ्युपगम्यते तदा चेतनो ऽप्यचेतनविकारः किं नाभ्युपगन्तव्यः ।
नचैवमङ्गीकृतं परेण ।
तथाहि सति"एक आत्मनः शरीरे भावात्ऽ; इत्यत्र परस्य भूतचतुष्ययपरिणाम एवायं चेतनवान्काय इति वदन्तं चार्वाकं प्रति भूतेष्वविद्यमानं चैतन्यं कथं कार्ये स्यादिति परिहारो मदिराद्रव्ये मदशक्तिवत्स्यादिति पुनश्च चार्वाकेण चोदिते मदिरोपादाने ऽपि सूक्ष्मरूपमदशक्तिव्युत्पादनं च व्याहतं स्यादिति ।
*4,315*
यद्वा ब्रह्मजगती नोपादानोपादेयभाववती विलक्षणत्वाद्देवदत्तघटवत् ।
ननु विलक्षणानामपि मृद्घटादीनामुपादानोपादेयभावो दृश्यत इति चेन्न ।
चेतनाचेतनरूपवैलक्षण्यस्य विवक्षितत्वात् ।
*4,316*
अनुमानान्तरं वक्तुं व्याप्तिनिश्चयाय व्यतिरेकव्याप्तिं तावदाह चेति ।
नचान्यस्यान्यरूपत्वं विकृतत्वे ऽपि दृश्यते
न्यायसुधा:
अपि चेति युक्तिसमुच्चये ।
विकृति(त)त्वे विकृतिदशायामन्यस्यान्यरूपत्वमन्यविकारत्वं न दृश्यते ।
विकारविकारिणावन्योन्यमन्यतया क्वापि नोपलब्धाविति यावत् ।
अत्र दृष्टान्तमाह- नेति ॥
न क्षीरादन्यता दध्नः केनचिद् दृश्यते क्वचित्
न्यायसुधा:
यस्य क्षीरस्य विकारो यद्दधि तस्मात्क्षीरादन्यता तस्य दध्नः केनापि क्वापि न दृश्यत इत्यर्थः ।
एवमन्यतादर्शनस्य सिद्धा विकारविकारिभावाद्वयावृत्तिः ।
ततः किमित्यत आह- सर्वज्ञादिति ॥
सर्वज्ञाद् ब्रह्मणो ऽन्यत्वं जगतो ह्यनुभूयते
न्यायसुधा:
हिशब्दो यस्मादित्यर्थे ।
तस्मान्न तयोर्विकारविकारिभाव इति शेषः ।
अयमत्र प्रयोगः ।
जगत् ब्रह्मविकारो न भवति
ततो ऽन्यत्वेनोपलभ्यमानत्वात् ।
यो यतो ऽन्यत्वेनोपलभ्यते न स तद्विकारो यथा घटः पटस्य ।
यश्च यद्विकारो नासौ ततो ऽन्यत्वेनोपलभ्यते, यथा दधि क्षीरादिति ।
*4,317*
यद्वा जगद्ब्रह्मणी नान्योन्यविकारविकारिणी ।
अन्योन्यमन्यत्वेनोपलभ्यमानत्वात् ।
घटपटवदिति प्रयोगः ।
नचायमसिद्धो हेतुः, यः सवर्ज्ञ इति ब्रह्मणः सर्वज्ञत्वश्रवणात् ।
ज्ञानकार्यस्य सर्वथाप्यनुपलम्भेन जगतो ज्ञानाभावानुमानात् ।
विरुद्धधर्माधिकरणयोश्चान्योन्यमन्यत्वोपलम्भनियमादिति भावेनोक्तम्- सर्वज्ञादिति ॥
ननु विकारविकारिणोर्भेदाभ्युपगमात् कथमयं हेतुरिति चेन्न, भेदेनैवोपलम्भस्य हेतुत्वात् ।
तत्किं त्वदभ्युपगममात्रेण घटपटयोरभेदः, उतोपलम्भात् ।
नाद्यः, मदभ्युपगमेन शुद्धभेदस्यैव ग्राह्यत्वात् ।
न द्वितीयः ।
असिद्धेः ।
अभेदानुपलम्भो वा हेतुत्वेन विवक्षितः ।
*4,318*
नन्वयमसिद्धो हेतुः ।
जगत् ब्रह्मणाभिन्नं सत्त्वाद्ब्रह्मवदित्यनुमानेनाभेदोपलम्भादिति चे(त्)न्न ।
खर्वं स्वर्णेनाभिन्नं, सत्त्वात्स्वणर्वदित्याभासमानयोगक्षेमत्वादित्याह- अभेद इति ॥
अभेदः सत्त्वमात्रेण स्याद् खर्वस्वणयोरपि
न्यायसुधा:
यदि जगद्ब्रह्मणोः साध्येत तर्हीति शेषः ।
खर्वम् अयः खर्परं वा ।
नन्विदमिष्यमेव ।
खर्वसुवर्णयोरभेदस्य मयाङ्गीकृतत्वादिति चेन्न ।
अभेदशब्देन भेदाभावस्य विवक्षितत्वात् ।
अत्र प्रमाणविरोध इति चेत् ।
जगत् ब्रह्मणो ऽत्यन्तं भिद्यते तत्स्वरूपानुगम(ति)शून्यत्वादिति, त्वदनुमानस्यापि, प्रमाणविरोध इत्रत समं समाधानम् ।
अत्यन्तभेदो मम न क्वापीत्यप्रसिद्धविशेषणतेति चेन्न ।
मोक्षाभावप्रसङ्गात् ।
तथाहि ।
ज्ञानेन निवृत्तकर्मणा च मोक्षो ऽभ्युपेयसे ।
त(च्च)त्र ज्ञानमज्ञानमपि भवति ।
निवृत्तं कर्म प्रवृत्तमपि भवतीति कथं मोक्षसाधनं स्यात् ।
ज्ञानत्वादिना तद्भावे ऽज्ञानादेरपि (तद्भावः) तथात्वं स्यात् ।
ज्ञानादिकं ज्ञानादिस्वरूपेणात्यन्ताभिन्नम् अज्ञानादिस्वरूपेण(तु)भिन्नाभिन्नमतो न कार्यसङ्कर इति चेत् ।
तथाप्यज्ञानाद्यभेदेन स्वकार्यस्य कर्तव्यत्वात् ।
एवं मोक्षो ऽपि संसाराभिन्न इत्यमोक्षःस्यात् ।
मोक्षात्मता(ना)सद्भावेन मोक्षत्वे संसारो ऽपि तथा स्यात् ।
यदि वा(चा)यमभेदो ऽनुपलभ्यमानो ऽर्थक्रियासु नोपयुज्यते, तदा व्यसनितयैवाभ्युपगन्तव्यः स्यादिति ।
*4,320*
ब्रह्मस्वरूपानुगतिशून्यत्वान्न तत्परिणामो ऽयं प्रपञ्च इत्युक्तम् ।
तत्र किं सर्वस्वरूपानुगतिशून्यताभिप्रेता, उत किञ्चिदनुगमशून्यता ।
नाद्यः ।
सर्वानुगमाभावे ऽपि घटादीनां मृदादिविकारत्वदशर्नात् ।
न द्वितीयः, सत्त्वानुगमेन विकारविकारिभावोपपत्तेरित्यत आह- अभेद इति ॥
अभेदो विकारविकारिभावः ।
*4,322*
ननु न सुवर्णगतं सत्त्वं खर्वे ऽनुगतम् ।
तत्कथं(अयं)प्रसङ्गः ।
तत्किं ब्रह्मसत्त्वमेव वियदादीनाम् ।
अद्धेति चेन्न, प्रमाणाभावात् ।
"प्राणा वै सत्यं तेषामेव सत्यम्ऽ; इत्यादिश्रुतेः प्राणसत्यत्वस्य ब्रह्माधीनतार्थत्वोपपत्तेः ।
ब्रह्मण एव सामान्यसत्ता वियदादावनुगतेति चेत्तर्हि कथं न स्वर्णसत्ता खर्वे ऽनुगता ।
*4,323*
अथ मन्यसे कारणमेव कार्यात्मना भवतीति परिणामवादिनां मतम् ।
ततश्च कारणं यत्स्वभावाव्यभिचारि तदनुगमः कार्ये ऽवश्याभ्युपगन्तव्यः ।
अन्यथा कारणमेव कार्यात्मना भवतीति रिक्तं वचः स्यात् ।
अव्यभिचरितस्वभावाननुगमे कारणस्यैवाननुगमप्राप्तेः ।
नच सन्मात्रस्वभावं सुवर्णम् ।
येन खर्वं तद्विकारः स्यात् ।
किन्तु तदव्यभिचारिसुवर्णत्वाद्यनुगमे सतीति ।
एवं तर्हि जगदपि कथं ब्रह्मपरिणामः स्यात् ।
नहि सन्मात्रस्वभावं ब्रह्म ।
किन्तु विज्ञानमानन्दं ब्रह्मेत्यादिश्रुत्या विज्ञानादीनामपि तदव्यभिचारिस्वभावत्वावगमात् ।
नच विज्ञानानन्दाद्यनुगमः प्रपञ्चे ऽस्तीति समम् ।
ननु च क्षीराव्यभिचारिस्वभावमाधुर्यानुगतिविधुरं दधि तद्विकारो दृष्टमिति चेन्न ।
सत्कार्यवादभङ्गप्रसङ्गात् ।
किञ्च क्षीरकार्यं दधीति निश्चये न माधुर्यं क्षीरस्वभाव इति कल्प्यते ।
माधुर्यस्य क्षीरस्वभावतानिश्चये वा क्षीरविनाशे तत्कारणस्य दध्युपादानत्वं कल्प्यत सति न दोषः ।
अपि चागमैरनुमानैश्च ब्रह्मणो निर्विकारत्वे सिद्धे सति अप्रच्युतस्वरूपस्वभावस्यैव (ब्रह्मणो) जगदुपादानत्वं यो मन्यते तं प्रत्येतौ प्रसङ्गविपर्ययावुक्ताविति को विरोधः ।
एतेन प्रधानस्य जगदुपादनत्वे ऽप्ययं समानो दोष इति निरस्तम् ।
*4,328*
अथ मतम् ।
द्विरूपं ब्रह्माभ्युपगम्यते अनन्तानन्दचिदात्मकं सदात्मकं चेति ।
तत्राद्येन रूपेण निमित्तम् ।
द्वितीयेनोपादानम् ।
अतो न कश्चिदुक्तो दोषः ।
तथाहि ।
यत्तावदुक्तं निर्विकारत्वं तच्चिच्छक्तिविषयत्वाच्छत्यादेरदूषणम् ।
निमित्तकारणेन चिच्छक्तिकेन प्रकृतिप्रधानाद्यभिधानं सच्छक्तिकं ब्रह्म परिणमतीत्यङ्गीकारे न युक्तिविरोधो ऽपि सदात्मकस्य जगदुपादानत्वाच्चैतन्याद्यननुगमे ऽपि न दोषः ।
सदनुगमस्य विद्यमानत्वात् ।
अन्यत्वदर्शनं च न विरुद्धयते सर्वज्ञात्, तन्निमित्तमेव नोपादानम् ।
यच्चोपादानं सद्रूपं तस्माद्भेदेनोपलभ्यत इत्याशङ्कयाह- भोगेनेति ॥
भागेन परिणामश्चेद् भागयोर्भेद एव हि
न्यायसुधा:
यदि ब्रह्मणः परिणामः चिद्भागेन निर्विकारत्वमङ्गीक्रियते, तदा वक्तव्यम्, तयोर्भोगयोरभेदो भेदाभेदौ वा ।
न तावदभेदः द्वयोरपि परिणामित्वादिप्राप्त्या भागाद्वयकल्पनावैयर्थ्यात् ।
नापि भेदाभेदौ, अभेदेन सङ्करप्रसङ्गात् ।
भेदो ऽभेदकार्यं निरुणद्धीति चेत् ।
किं तर्ह्यप्रयोजकेनाभेदेन, तस्माद्भागयोरत्यन्तभेद एवाङ्गीकरणीयः ।
*4,329*
ततः किमित्यत आह- यो भाग इति ॥
यो भागो न विकारी स्यात् स एवास्माकमीश्वरः
न्यायसुधा:
परस्परमत्यन्ताभिन्ने द्वे वस्तुनी ।
तत्रैकं निर्विकारं जगन्निमित्तमेव ।
अपरं तु परिणामि जगदुपादानतमेवेत्यङ्गीकारे नेश्वरस्य केवलनिमित्तत्ववादिनामस्माकं कश्चिद्विवादः ।
निर्विकारस्य जगन्निमित्तस्यास्माभिरीश्वरत्वेन, परिणामिनो जगदुपादानस्य प्रधानत्वेन स्वीकृतत्वात् ।
विवादाभावाच्च प्रकृतिश्चेति(त्यादि)सूत्राणामनारम्भ एवेति ।
अत्र यो भाग इति पराभ्युपगमेनोक्तम् ।
स्वमतेन तु यद्वस्त्विति ज्ञातव्यम् ।
नहि भागिन विना भागः सम्भवति ।
नापि विकार्यविकारिणोः कश्चिद्भागी विद्यते ।
*4,331*
नन्वस्ति विवादविषयः ।
निमित्तोपादानभेदवादिना निमित्तस्यैव ब्रह्मत्वमभ्युपगम्यते ।
मया तु सदनन्तानन्दचितां समुदायस्येति तदर्थमधिकरणारम्भ इति चेत् ।
किमिदं ब्रह्मत्वम् ।
(किं) ब्रह्मनामवत्वमुत जगत्कारणत्वादिलक्षणार्थ(वत्)त्वम् ।
आद्यं दूषयति- भिन्नानामिति ॥
भिन्नानां समुदायस्य नाम ब्रह्मेति चेद् भवेत्
न्यायसुधा:
तद्भवेदित्यभ्युपगममाह ।
ततश्चायमर्थः ।
यद्यर्थे न विवादो ऽस्ति तदानारम्भणीयमेवाधिकरणम् ।
शब्दमात्रे परेण विवादाकरणात् ।
करणे ऽप्यशब्दशास्त्रत्वादिति ।
*4,332*
द्वितीये ऽपि विवेक्तव्यम् ।
किं परस्परं भिन्नाः सच्चिदानन्दाद्याः प्रत्येकं ब्रह्माणि ।
उत ते न ब्रह्माणि किन्तु तत्समुदाय एवेति ।
नाद्यः ।
एकमेवाद्वितीयमित्यादिश्रुतिविरोधात् ।
द्वितीये ऽपि तत्समुदायो नाम किं तदुपादानकं द्रव्यान्तरं सङ्खया वा संयोगो वा ।
सर्वत्रापि दोषमाह- ब्रह्मेति ।
ब्रह्मोपादानता न स्यात् तदा विश्वस्य हि क्वचित्
*4,332f.*
न्यायसुधा:
तदेति ।
मनसि स्थितानां विकल्पितानां पक्षाणां (वा)अङ्गीकारे ।
क्वचित्पक्षे ।
हिशब्देनानुपपत्तेः प्रसिद्धतामाह ।
अत्र हि ब्रह्मोपादानस्य वा तद्गुणिनो वा जगदुपादानत्वं प्राप्तमिति विश्वस्य ब्रह्मोपादानकता न स्यात् ।
न ह्युपादानगुणिगताः शक्तयः कार्यद्रव्ये गुणे वा सम्भवन्ति ।
तदुपादानत्वादेरसम्भवात् ।
अथवा ब्रह्मणः कार्यत्वाद्गुणत्वाच्च न विश्वोपादानत्वं सम्भवतीति व्याख्येयम् ।
अत्र ब्रह्मोपादानतेत्युपलक्षणम् ।
ब्रह्मनिमित्तकता च न युक्तेत्यपि द्रष्टव्यम् ।
*4,335*
स्यादेतत् ।
कालात्ययापदिष्यमेतदनुमानजातम् ।
"यतो वा इमानि भूतानि जायन्तेऽ"आत्मन आकाशः सम्भूतःऽ"जन्माद्यस्य यतःऽ; इतयादिविरोधात् ।
"जनिकर्तुः प्रकृतिःऽ; इति प्रकृतावुपादानलक्षणायां हि पञ्चमी विधीयते ।
तथा चैवोदाहृतम् ।
"शृङ्गाच्छरो जायते, गोमयाद् वृश्चिको जायतेऽ; इति ।
प्रसिद्धश्चात्रोपादानोपादेयभाव इति ।
तदिदमसङ्गतम् ।
पञ्चमीबलात्किलोपादानत्वं सिषाधयिषितम् ।
नचेदं सूत्रमुपादाने पञ्चम्या विधायकम् ।
अथ मतम् ।
अपादाने तावत्पञ्चमी विहिता ।
अपादाने पञ्चमीति ।
उपादानं चापादानविशेषः ।
जनिकर्तुः प्रकृतिरिति स्मरणात् ।
ततो ऽपादाने विहिता पञ्चम्युपादाने ऽपि भविष्यति ।
नचैवं सति पञ्चम्या नियमेनोपादानत्वासिद्धिः ।
विशेषस्मरणस्य ग्राह्यत्वादित्यत आह- शृङ्गादिति ।
*4,336*
शृङ्गाच्छरो ऽविलोमभ्यो दूर्वा गोमयतस्तथा ।
वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते
न्यायसुधा:
तथाशब्दो द्वितीयोदाहरणेन सम्बद्धयते ।
एवमाद्येषूदाहरणेषु शृङ्गादीनां शरादीन्प्रत्यपादानत्वमिष्यते ।
पञ्चम्यर्थतयेति शेषः ।
उपलक्षणं चैतत् ।
सूत्रे चेत्यपि ज्ञातव्यम् ।
एतदुक्तं भवति ।
भेवेदेवं कथञ्चिद्यदि सूत्र(स्य)तदुदाहरणानां(च) परपरिकल्पितो ऽर्थो भवेत् ।
न चैवम् ।
किं नाम जनिकर्तुः प्रकृतिरित्यनेनेदमुच्यते ।
जनेः कर्तुर्जायमानस्य या प्रकृतिरुपादानसंसृष्टमपायावधिभूतं द्रव्यं तत्कारकमपादानसंज्ञं भवतीति ।
उदाहरणेष्वपि यच्छृङ्गादीनां शरादीन्प्रत्यपायावधित्वमेव पञ्चमीप्रतिपाद्यमिति ।
*4,339*
एतदेव प्रपञ्चयति- उपादानेति ॥
उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते ।
अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत्
न्यायसुधा:
यद्यप्यत्र शृङ्गादौ शराद्युपादानभूतैकदेशवत्त्वं प्रतीयते ।
तथापि यात्रापादानता अपायावधित्वलक्षणास्ति सैव ब्रह्मणो दृष्टान्तो भवेत् ।
पञ्चम्यर्थतायामुदाहरणं भवेत् न तूपादानतेत्यर्थः ।
अयमभिप्रायः ।
शृङ्गादिकं ह्येकदेशेन शरादीन्प्रत्युपादानमेकदेशेन चापायावधितया कारकं भवति ।
तस्मिन्नसत्येकदेशान्तरस्योपादानतानुपपत्तेः ।
मुद्गमाषादयो हि यद्यपि तुषान्तरावस्थितेनैवांशेनाङ्कुरोपादानम् ।
तथापि न तुषविकालानामुप्ता(मंशा)नामङ्कुरजनकतास्ति ।
तत्रावधिभाग एवापादानं पञ्चमीवाच्यश्च ।
तद्दृष्टान्तेन ब्रह्मणो ऽपि पञ्चमीबलादुपादानप्रधानसंसृष्टावधित्वमेव भवति ।
न तूपादानत्वमिति ।
ननु कथं तर्हि प्रकृतेर्महान्मतो ऽहङ्कार इत्यादिप्रयोगः ।
तत्रापि परिणतभागसंसृष्टस्य अपरिणतभागस्य अवधिभूतस्य पञ्चमीविषयत्वमिति वदामः ।
यत्र सर्वस्यापि परिणामस्तत्रकथम् ।
न प्रयोक्तव्यैव तत्र पञ्चमी ।
नहि क्षीराद्दधि जातिमिति प्रयुञ्जते ।
किन्तु क्षीरमेव दधि जातमिति ।
यत्र क्वचित्प्रयोगो दृश्यते स गौणो वा सूत्रस्यार्थान्तरकल्पनामूलो वेति ।
व्यास -(4)
*4,341*
अथ मन्येत ।
शृङ्गमेव शरोपादानम् ।
नतु केचिदवयवा उपादानं केचित्तदवधय इति विभागः ।
तथा सति शृङ्गाच्छरो जायत इति प्रयोगानुपपत्तेः ।
यदि चेयं पञ्चम्युपादाने यदि वावधौ तथापि शृङ्गावयवादिति वक्तव्यम् ।
नच तर्हि अवधित्वमेवास्तु इति वाच्यम् ।
निरुपादानोत्पत्तिप्रसङ्गात् ।
अतः शृङ्गस्यैवोपादनत्वात्तत्र पञ्चमीश्रवणादुपादाने पञ्चमीति ।
तत्राह- न हीति ॥
न ह्य् उपादानतैवात्र ...
न्यायसुधा:
अत्र शृङ्गादावुपादानते(तैये)ति न वक्तव्यम् ।
अपरिणतभागस्य शराङ्कुरादेरत्यन्तभिन्नस्य प्रमितत्वात् ।
अन्यथेदमस्योपादानमिदं नेति व्यवस्थानुपपत्तेरिति हिशब्दार्थः ।
कथं तर्हि शृङ्गादिति प्रयोग इत्यत आह- बाह्यावयवेति ॥
*4,342*
... बाह्यावयवगौरवात्
न्यायसुधा:
बाह्याः शराकारेण परिणतेभ्यो ऽन्ये ये ऽवधिभूतावयवास्तेषां गौरवाद्बहुत्वात् ।
एतदुक्तं भवति ।
कतिपयावयवेषु परिणतेषुच बहूनामवशिष्टत्वेन शृङ्गान्तरोत्पत्त्या शृङ्गबुद्धिमात्रोत्पत्त्या वा शृङ्गशब्दोपपत्तिरिति ।
*4,343*
ननु कुतः सूत्रादेरर्थान्तरकल्पना ।
शब्दार्थविरोधादिति ब्रूमः ।
उपादीयते कार्यमनेन स्वरूपतया स्वीक्रियत इत्युपादानम् ।
अपादीयते परित्यज्यते कार्यमनेनेत्यपादानम् इति स्फुटो विप्रतिषेधः ।
किञ्च भाष्यकारेणायमपि योगः शक्यो ऽवक्तुमिति प्रत्याचक्षाणेनायमेव सूत्रार्थः सूचितः ।
यदि तर्हि जनिकर्तुः प्रकृतिरिति सूत्रमुपादानस्यापादानसंज्ञा विदध्यात् ।
कथं तर्हि ध्रुवमपाये ऽपादानमित्यनेनैव गतार्थतामाह ।
न ह्यपादानस्यापाये ध्रुवत्वमिति ।
तस्मादुचपादानसंसृष्टस्यैवावधिभागस्यापादानसंज्ञायामनेन विहितायां भाष्यकारीयं दूषणं सम्बध्यते ।
तथा सूत्रं समादधानैरपि तस्यैवायं प्रपञ्च इत्युक्तम् ।
अन्यथा प्रागवधेरपादानसंज्ञोक्ता ।
अत्र तूपादानस्य ।
न ह्यवधिरुपादानमित्येको ऽथर् इत्यवक्ष्यन् ।
अतस्तेषामपि संमतो ऽयमर्थ इति गम्यते ।
*4,346*
अस्तु वोपादाने ऽपि पञ्चमी ।
तथापि (यत इति) पञ्चमीबलादुपादानत्वनिश्चयो नोपपद्यते ।
अनेकार्थत्वात् ।
विशेषस्मरणादित्युक्तमिति चेत् ।
किमिदं विशेषस्मरणात् ।
जनिधातुग्रहणेनेति चेत् ।
तर्ह्यात्मन आकाशः सम्भूत इत्यादीनामनुदाहरणीयत्वं स्यात् ।
कुतश्च यत इति पञ्चमीत्यवधृतम् ।
तसेः सार्वविभक्तिकत्वात् ।
आत्मन आकाश सत्यनेनैकार्थत्वादिति चेन्न, तस्याः पञ्चम्यां"भुवः प्रभवःऽ; इति विशेषावि(वक्षि)हिताभिव्यक्त्यवधितार्थत्वात् ।
तथा चैवोदाहृतम् ।
हिमवतो गङ्गा प्रभवति प्रथममुपलभ्यत इत्यथर् इत्यास्तां विस्तरः ।
*4,359*
अथवा यदुक्तं न ब्रह्मविकारो विश्वं ततो भेदेनोपलम्भादिति ।
तदसत् ।
शरादिषु व्यभिचारात् ।
शरादयो हि शृङ्गादयो हि शृङ्गाद्युपादानास्तता भेदेनोपादानास्ततो भेदेनोपलभ्यन्त इत्यतो गूढाभिसन्धिराह- शृङ्गादिति ॥
एवमाद्येषु स्थलेषु शरादीन्प्रति शृङ्गादीनाम(प्य)पायावधित्वलक्षणमपादानत्वमेवेष्यते ।
न पुनरुपादानत्वम् ।
अतो विपक्षत्वाभावाद्भेदेनोपलम्भो न तत्र साध्यं व्यभिचरतीति ।
ननु कथमुच्यते शृङ्गादीनां शरादीन्प्रति नोपादानत्वमिति ।
तथा सत्युपादानान्तरानुपलम्भाच्छरादीनां निरुपादनोत्पत्तिः प्रसज्येतेत्यतो ऽभिसन्धिमुद्घाटयति- उपादानेति ॥
*4,360*
शृङ्गादेरुक्तरूपापादानत्वे ऽपि नच शरादीनां निरुपादानत्वोक्तिप्रसङ्गः ।
कतिपयानां शृङ्गाद्यवयवानां शराद्युपादानत्वाभ्युपगमात् ।
नचैवमनैकान्त्यतादवस्थ्यम् ।
यद्यप्यत्र शृङ्गादौ शराद्युपादानैकदेशत्वं प्र(ती)दृश्यते ।
तथाप्यत्र शृङ्गादौ यस्यैकदेशस्योक्तस्य रूपापादानता स एव ब्रह्मणो दृष्टान्तो भवेत् ।
तत एव शरादीनां भेदोपलम्भात् ।
न तूपादानभागः ।
ततस्तदभावात् ।
एतदुक्तं भवति ।
शृङ्गादेरवयवा हि केचिच्छरादीनामुपादानभूताः केचिन्निमित्तभूताः ।
तत्र ये निमित्तभूतास्तेषु हेतुवृत्तावपि नानैकान्त्यम् ।
तेषां सपक्षप्रविष्टत्वात् ।
ये तूपादानभूतास्तेषां विपक्षप्रवेशे ऽपि न तत्र हेतुवृत्तिरिति कुतो ऽनैकान्त्यमिति ।
यस्तु वैयात्यान्मन्यते ।
नात्रापादानतास्ति ।
किन्तूपादानत्वमेव केवलम् ।
तथा चानैकान्तिकत्वमिति ।
स प्रष्टव्यः ।
किमत्राविनष्ट एव शृङ्गावयव्युपादानमित्यभिप्रायः, किं वा शृङ्गे ऽविनष्टे तदवयवाः सर्वे ऽपीति, उत नष्टे शृङ्गे तदवयवाः सर्वे ऽपीति ।
नाद्य इत्याह- नहीति ॥
अत्र शृङ्गे ।
तथात्वे सुवर्णवच्छरे शृङ्गस्यापि प्रतीतिप्रसङ्गादिति हिशब्दार्थः ।
न द्वितीय इत्याह- नहीति ॥
अविनष्टृङ्गेषु तदवयवेषु सर्वेषु शराद्युपादानतैवेति न युक्तम् ।
तथा सति शृङ्गशरयोः समानदेशताप्रसङ्गादिति हिशब्देन सूचयति ।
न तृतीय इत्याह- नहीति ॥
अत्र सर्वेष्वपि शृङ्गावयवेषु शृङ्गनाशोत्तरं शराद्युपादानतैवेति न युज्यते ।
अतो नानैकान्त्यमिति हिशब्दः ।
कुतो न युज्यत इत्यत आह- बाह्येति ॥
कार्याद्बाह्यानामपरिणतानामवयवानामुपलम्भात् ।
अपरिणतस्याप्युपादानत्वे ऽतिप्रसङ्गात् ।
*4,363*
ननु शृङ्गं चेन्नष्टं कथं तर्हि शरोत्पत्त्यनन्तरमपि शृङ्गप्रत्ययप्रयोगावित्यतो गौरवादित्युक्तम् ।
समाधानं पूर्ववत् ।
मा भूद्भेदोपलम्भस्यात्र व्यभिचारः ।
तथापि यदुक्तं नाचेतनविकारश्चेतन इति तदत्र व्यभिचरति ।
अचेतनाद्गोमयादेः चेतनस्य वृश्चिकादेर्जननदर्शनादित्यत आह- नचेति ॥
न चाचेतनतस् तत्र चेतनस्य समुद्भवः
न्यायसुधा:
तत्र गोमयादेर्वृश्चिकादिजन्मनि ।
नन्वनादिश्चेतन इति पूर्वाभ्यस्ताहाराभिलाषादिना प्रसिद्धम् ।
अन्यथा पूर्वकर्माभावे जन्मनो ऽप्यसम्भवात् ।
मध्ये कथञ्चित्सम्भवे ऽप्यादिसर्गे सर्वथा(अपि) अनुपपत्तेः ।
तत्कथं निर्दलमिदमाशङ्कितम् ।
सत्यम् ।
तथापि परेण स्वग्रन्थे निवेशितत्वात् ।
अचेतनाच्चेतनस्य जन्माभावे गोमयाद् वृश्चिको जायत इत्यादिव्यवहारविरोध इत्यत आह- उपादानतयेति ॥
उपादानतया ...
न्यायसुधा:
पूर्वेणैव सम्बन्धः ।
न वयं कारणत्वमात्रं निषेधामो येन व्यवहारविरोधः स्यात् ।
किन्तूपादानतया ।
तस्यैव प्रकृतत्वात् ।
*4,366*
यदि गोमयादिकं वृश्चिकादिकं प्रति नोपादानम्, किंरूपं तर्हि कारणम् ।
येन व्यवहारोपपत्तिरिति पृच्छति- किं तर्हीति ॥
उत्तरमाह- अपादानमिति ॥
... किं तर्ह्यपादानं ह्यचेतनम् ।
कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते
न्यायसुधा:
अस्य वृश्चिकादिशब्दाभिधेयस्य ।
प्रदृश्यते हीति ततो निर्गतत्वोपलम्भादित्यर्थः ।
नन्वेकदेशेनापादानत्वमभ्युपगतमिति ।
सत्यम् ।
तच्छरीरापेक्षयेत्युक्तम्- कार्यदेहगतस्येति ॥
गोमयाद्युपादानकदेहगतस्येत्यर्थः ।
अयमत्र समुच्चयार्थः ।
वृश्चिकादिशब्देन द्वयमुच्यते देहश्चेतनश्च ।
तत्र गोमयाद्यचेतनमचेतनस्य देहस्योत्पत्तावेकदेशेनोपादानमेकदेशेनापादानं च भवति ।
चेतनस्य तु प्रादुर्भावलक्षणे जनने निमित्तमेव ।
देवहेतुत्वात् ।
तत्रैव चास्य प्रादुर्भावात् ।
अत एवास्येति प्रत्यक्षवन्निर्देशः कृतः ।
अपगमने तु अवधित्वेनापादानमेव ।
अतो नोक्तनियमभङ्ग इति ।
*4,367*
एवं ब्रह्मणो जगदुपादानत्वाभावे प्रमाणान्यभिधाय परोपन्यास्तानि प्रमाणानि निराकरिष्यन् क्रमस्याप्रयोजकत्वपरिणामादिति सूत्रार्थतयोक्तां श्रुतिं तावन्निराचष्टे- सच्चेति ॥
*4,368*
सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते
न्यायसुधा:
"सच्च त्यच्चाभवत् निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत्ऽ; इत्यस्यां श्रुतावस्य ब्रह्मणः सत्त्यदादिशब्दाभिधेयमूर्तामूर्ताराशिद्वयात्मकविश्वभाव उच्यत इति नास्ति ।
कुतो नेत्यत आह- तत्सृष्ट्वेति ॥
तत् सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सिद्धितः
न्यायसुधा:
"स इदं सर्वमसृजत ।
यदिदं किञ्च ।
तत्सृष्ट्वा तदेवानुप्राविशत् ।
तदनुप्रविश्य ।
सच्च त्यच्चाभवत्ऽ; इति वचनेन ब्रह्मणः सत्त्यदादिभवनात्पूर्वमेवास्य मूर्तामूर्तरूपस्य विश्वस्योत्पत्तेरवगतत्वात् ।
एतदुक्तं भवति ।
नेदं सत्त्यदादिभवनं विश्वो(स्योश्व)त्पादानात् ।
विश्वोत्पत्त्युत्तरकालीनत्वात् ।
या क्रिया यदुत्तरकालीना, नासावसौ ।
यथा भुक्त्वा चरतीत्युक्तं चरणं न पूर्वकालीनं भोजनमिति ।
अनुपपन्नार्थं चान्यथा वाक्यमापद्येत ।
नहि मृत्सुवर्णादिकं घटरुचकादि सृष्ट्वा तदनुप्रविश्य तद्भवति ।
यद्वा विश्वं सत्त्यदादिशब्दार्थतयात्र न विवक्षितम् तद्भवनात्पूर्वकालीनोत्पत्तिकत्वाद्भोजनवदित्यादि प्रयोक्तव्यम् ।
*4,370*
कस्तर्हि श्रुत्यर्थ इत्यत आह- सत्त्वादिति ॥
सत्त्वात् ततेर्वैदिकत्वात् सम्यग् वक्तुमशक्यतः ।
आश्रयत्वात् स्वाश्रयत्वाज्ज्ञानत्वाद् दुर्विदत्वतः
सत्ततेर्यातनाच्चैव ह्यप्राप्तत्वाच्च दुर्जनैः ।
नित्यासाधुगुणव्याप्तियन्तृरूपत्वतः सदा ।
जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते
न्यायसुधा:
जगद्भावं विना सत्त्वादिधर्मयोगेन ब्रह्मैव तथा सत्त्यदादिकमुच्यते ।
तर्हि तदनुप्रविश्येत्यस्यान्वयो नास्ति ।
नहि ब्रह्मणः सत्त्वादिधर्मयोगे सदादिशब्दवाच्यत्वे वा जगत्प्रवेशस्योपयोगो ऽस्ति ।
नापि ततः पूर्वकालीनता ।
किञ्चैवं सति प्रसिद्धिविरोधः सत्त्यदादिशब्दानां"द्वे वा व ब्रह्मणो रूपेऽ; इत्यादौ मूर्तामूर्तवाचितया प्रसिद्धत्वात् इत्यतो जगद्गतेन रूपेणेत्युक्तम् ।
यद्यप्यनन्यापेक्षया सर्वदा सत्त्वादिधर्मयोगः सदादिशब्दवाच्यता च ब्रह्मणः ।
तथापि तत्तद्वस्तुगतरूपेणैव तत्तच्छब्दवाच्यत्वमित्यस्ति व्यवस्था ।
तथाच मूर्तामूर्तजगद्गतेन रूपेण ब्रह्मसदादिशब्दवाच्यमित्यतः तदनुप्रविश्येति सम्बद्धयते ।
परमेश्वरसन्निधानादेव मूर्तामूर्तादेरपि सदादिशब्दवाच्यता चोपपद्यत इति ।
*4,372*
सत्त्वादुत्तमत्वात्सत् ।
ततेर्व्याप्तेस्त्यत् ।
तनु विस्तार इत्यस्माड्ड्यत्प्रत्ययः ।
वैदिकत्वान्निरुक्तम् ।
निश्चयेनोक्तं हि निरुक्तम् ।
नहि वेदादृते ऽन्येन ब्रह्म निश्चयेन वक्तुं शक्यते ।
सम्यग्वस्तुमशक्यत्वतो ऽनिरुक्तम् ।
यद्यपि निश्चयेनोक्तं न भवतीत्यनिरुक्तम् ।
तथापि निरुक्तमित्यनेन विरोधात्सम्यक् कात्स्नर्येन वक्तुमशक्यत्वत इत्युक्तम् ।
ननु वेदेतरप्रमाणेनानिरुक्तमिति कुतो न व्याख्यायते ।
न ।
प्रकृतपरित्यागप्रसङ्गात् ।
वेदेन निरुक्तमिति (हि) प्रकृतम् ।
किञ्चोक्तेः शब्दधर्मत्वात्प्रत्यक्षानुमानाभ्यामनिरुक्तमित्ययुक्तम् ।
स्मृतीनामपि वेदात्मकत्वेन विरोधतादवस्थ्यम् ।
महिमाधिक्यं चात्र लभ्यत इति ।
जगदाश्रयत्वान्निलयनम् ।
निश्चितमयन्ते प्रवर्तन्ते ऽस्मिन्निति ।
रो ल इति योगविभागाल्लत्वम् ।
निपूर्वस्य ली(ङ्)श्लेषण इत्यस्य वाधिकरणे ल्युटि कृते रूपमेतत् ।
स्वाश्रयत्वादनिलयनम् ।
न विद्यते स्वातिरिक्तं निलयनं यस्येति ।
ज्ञानत्वाद्विशेषज्ञानरूपत्वाद्विज्ञानम् ।
दुर्विदत्वतो दुर्ज्ञेयत्वादविज्ञानम् ।
न विद्यते विज्ञानं सकलविशेषावगाहिजीवज्ञानं यद्विषय इति ।
सत्ततेः सम्यग्व्याप्तेर्यातानाद्यतनं प्रति हेतुत्वाच्च सत्यम् ।
तनोतेः ड्विप्रत्यये तकारमात्रं रूपम् ।
तेन सच्छब्दस्य बहुव्रीहिः ।
यती प्रयत्न इत्यस्यान्तर्णीतण्यर्थस्य डप्रत्यये (यमिति) रूपम् ।
ततः कर्मधारयः ।
"अयस्मायदीनि छन्दसिऽ; इति भसंज्ञाश्रयणाज्जश्त्वाभावः ।
दुर्जनैरप्राप्यत्वादेवानृतञ्च ।
नतु मिथ्यात्वात् ।
यद्यपि ऋतं प्राप्तं नेत्यनृतम् ।
तथापि"ब्रह्मविदाप्नोति परम्ऽ; इत्यादिश्रुतिविरोधपरिहाराय दुर्जनैरित्युक्तम् ।
हिशब्दो ब्रह्मणो मिथ्यात्वाभावे प्रसिद्धिं द्योतयति ।
नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सत्यम् ।
अत्र नित्यत्वत इत्येकं व्याख्यानम् ।
नित्यसत्यशब्दयोरैकाथ्यर्स्य वक्ष्यमाणत्वात् ।
सत् साधुगुणाः"सद्भावे साधुभावे चऽ; इति ।
वचनात् तेषां व्याप्तिर्बाहुल्यं तकारेणोक्तम् ।
पूर्ववत्तनोतेर्भावे ड्विप्रत्ययः ।
तस्य यन्तृरूपत्वाद्यम् ।
यम उपरम इति धातोः (इत्यतो) डः ।
भक्तेषु साधुगुणबाहुल्यप्रेरकत्वादिति यावत् ।
अभवदिति वचनाद्ब्रह्मणः सत्त्वादिकं सादीति शङ्कानिरासायोक्तम्- सदेति ॥
प्रत्येकं चास्य सम्बन्धः ।
*4,386*
तर्हि कथमभवदिति प्रयोग इत्यत आह- व्यक्तिरिति ॥
व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् ।
भवेदभवदित्याद्यः प्रयोगश्चात्र युज्यते
न्यायसुधा:
उक्तगुणानां सदादिशब्दोक्त(क्तानां)धर्माणां व्यक्तिः प्रतीतिः ।
नृणामुपदेष्यृपुरुषापेक्षया सृष्टौ सत्यावेव भवेत् हि यस्मा(दस्मा)त्कारणात् ।
अत्र च नित्यगुणे ऽपि ब्रह्मणि सदादिकमभवदितिप्रयोगो युज्यते ।
ततश्चायं श्रुत्यर्थः सम्पद्यते ।
तत् ब्रह्म मूर्तामूर्तात्मकं विश्वं सृष्ट्वा तत्प्रेरकत्वेन नानारूपैस्तदेव विश्वं प्रविश्य प्राक् सृष्टेरुपदेष्यॄणामुपदेश्यानां च शरीरेन्द्रियवतामभावादप्रतीतगुणकं सत् अथेदानीमुपदेष्यॄणामुपदेश्यानां च शणीरेन्द्रियवत्त्वे सति प्रतीतसत्त्वादिगुणमभवदिति ।
तदनेन पारमेश्वरी सृष्टिर्योग्यानां स्वगुणज्ञानार्थेत्युक्तं भवति ।
यथोक्तम् ।
"सो ऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव भूत्याःऽ; इति ।
*4,387*
ब्रह्मपरिणामनिराकरणमुपसंहरति- तस्मादिति ॥
तस्मादशेषकर्तैको निर्विकारो रमापतिः
न्यायसुधा:
निर्विकार एवाशेषकर्तेति सम्बन्धः ।
द्विभागं ब्रह्मेति यन्निराकृतं तस्योपसंहार एक इति ।
परिणामानुपपत्तावुक्तयुक्तेरनुवादो वा ।
अतो न ब्रह्मोपादानत्वं प्रकृत्यधिकरणार्थ इति (सम्बन्धः) शेषः ।
कस्तर्हि तदर्थ इत्यत आह- शब्दैरिति ॥
शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते
न्यायसुधा:
इत्यर्थोस्येति शेषः ।
अनेनापव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्यार्थत्वात् नासङ्गतिरित्यपि सूचितम् ।
*4,388*
ननु वक्तव्यार्थस्यावशिष्टत्वात्कथमुपसंहारः क्रियते ।
तथाहि ।
प्रतिज्ञादृष्टान्तानुपरोधादित्युक्तं तावद्दूषणीयम् ।
सत्यम् ।
विवर्तनिराकरणेन निराकरिष्यते ।
तर्ह्यभिध्योपदेशाच्चेत्यत्रोक्तं"बहु स्यां प्रजायेयऽ; इति वाक्यं दूषणीयमिति चेन्न ।
अस्यापि सच्च त्यच्चऽ; इति वाक्यव्याख्यानन्यायेनैव व्याख्यातत्वादित्याह- बहु स्यामिति ॥
बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते
न्यायसुधा:
तस्यैव निर्विकारस्यैव ।
उक्तमार्गेणेत्यस्य (एव)विवरणं तत्तद्गतेन रूपेणेति ॥
तत्तद्गतेन रूपेण ...
न्यायसुधा:
तत्तदनन्तपदार्थप्रेरकानन्तरूपैर्बहु स्यामिति सो ऽकामयतेत्यस्याः श्रुतेरर्थ इत्यर्थः ।
एवं तर्हि"स इदं सर्वमसृजतऽ; इत्युत्तरवाक्यमसङ्गतं स्यात् ।
न ह्यन्यार्थं सङ्कल्पमभिधायान्यक्रियाभिधानं सङ्गच्छते ।
नहीश्वरो ऽस्वतन्त्रो ऽसत्यकामो वेत्यत आह- तदर्थमिति ॥
... तदर्थं ह्यसृजज्जगत्
*4,389*
न्यायसुधा:
तत्तत्पदार्थनियामकबहुस्वरूपत्वकामनानन्तरं नियम्यापेक्षत्वात् नियामकत्वस्य, तदर्थं नियामकबहुस्वरूपत्वार्थं, नियम्यं जगत्तावदसृजत्, ततो नियामकबहुस्वरूपो भूत्वा, तदेवानुप्राविशदिति, वाक्ययोजनोपपत्तेः कात्रासङ्गतिरित्यर्थः ।
अनेनैव"तदात्मानं स्वयमकुरुतेतिऽ; श्रुतिर्व्याख्याता वेदितव्या ।
न ह्यत्रात्मानं प्रपञ्चात्मनाकुरुतेति श्रूयते ।
उभयाम्नानं च ऊर्णनाभिदृष्टान्ताक्त्यैव निरस्तम् ।
नह्यूर्णनाभेरुत्पद्यमानस्य, तस्मिन्नेव लीयमानस्य च, तन्तोरूर्णनाभिरुपादानम् ।
किन्तु तदुपभुक्तमन्नमेवेत्युक्तम् ।
योनिश्चेत्येतत्प्रागेव निरस्तमिति युक्त एवोपसंहार इति ।
*4,390*
अपव्याख्यानानन्तरं दूषयितुमनुवदति- यच्चेति ॥
*4,391*
यच्चाविकृतमेवैतद् ब्रह्म विश्वात्मना मृषा ।
दृश्यते मन्ददृष्टयैव स सर्ग इति कथ्यते
न्यायसुधा:
ब्रह्म विश्वात्मना दृश्यत इति यत्, स सर्ग इति कथ्यत इत्येतावत्परिणामवादे ऽपि समम् ।
अत उक्तमविकृतमेवेति ।
अविकृतत्वं कुत इत्यत उक्तमेकमिति ।
अद्वितीयम् ।
निरवयवं चेत्यर्थः ।
तथाहि ।
किं ब्रह्मणः स्वत एव विश्वाकारपरिणामः ।
किं वा परतः ।
नाद्यः, क्वाप्यदर्शनात् ।
यदपि क्षीरवद्धीत्युदाहृतम् ।
तत् कालादेर्विद्यमानत्वादयुक्तम् ।
स्वेच्छयैवेति चेन्न ।
प्रयोजनाभावात् ।
स्वभावो ऽयमिति चेन्न ।
प्रेक्षावत्त्वहानेः ।
न द्वितीयः ।
अद्वितीयत्वात् ।
नच निरवयवं क्वापि परिणतं दृष्टम् ।
आकाशं संयोगादिमदुपलब्धमिति चेन्न ।
द्रव्याकारणपरिणामस्य प्रकृतत्वात् ।
परमाण्वादयस्तु स्वरूपेणैव न सिद्धा इति ।
*4,394*
अविकृतमेवान्यदन्यात्मना दृश्यत इत्यसम्भवि इत्यत उक्तम्- मृषेति ॥
मृषाशब्देन विश्वस्य ब्रह्मतादात्म्यस्य तद्दर्शनस्य चानिर्वचनीयतोच्यते ।
यथा रज्जुरविकृतैव मृषा भुजङ्गाद्याकारेणाभासते तथैवेति ।
तर्हि विश्वोपादानमन्यद्वक्तव्यमित्यत उक्तं मन्ददृष्टयैवेति ।
मन्दा भवति दृष्टिर्यया सा मन्ददृष्टिस्तया माययेत्यर्थः ।
अथवासम्भवपरिहारार्थमुक्तं मन्ददृष्टयैवेति ।
मन्दा चासौ दृष्टिश्च मन्ददृष्टिर्भ्रान्तिस्तयेत्यर्थः ।
भ्रान्तेरपि याथार्थ्याद्विश्व(स्य)सत्यतापत्तिरित्यत उक्तम्- मृषेति ॥
तदेतन्मिथ्याप्रपञ्चारोपाधिष्ठानत्वमेव ब्रह्मणः प्रकृतिश्चेत्यादिना कथ्यत इति ।
*4,399*
एतदुक्तं भवति ।
प्रकृतिश्चेत्यादिसूत्रैरुक्तरीत्या ब्रह्मणो जगदुपादानत्वमुच्यते ।
उपादानत्वं च न परिणामितया ।
अपि तर्हि अविद्यापरिणाममृषाविश्वभ्रमाधिष्ठानत्वेनैव ।
अतो नोक्तदोष इति ।
*4,400*
दूषयितुमुपक्रमते- कथ्यत इति ॥
यद् ब्रह्म विवर्तवादिना कथ्यते, तस्य दूषणं कथ्यत, इत्यावृत्त्या योजनीयम् ।
तच्च नेति नञनुवृत्तिर्वा कर्तव्या ।
कुतो नेत्यतो विकल्पेन पृच्छति- सेति ॥
सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततो ऽन्यगा
न्यायसुधा:
विश्वस्य ब्रह्मविवर्तत्वे निराकर्तव्ये मन्ददृष्टयाश्रयप्रश्नो ऽनुपपन्न इत्यत उक्तम्- सेति ॥
एकस्य तच्वाप्रच्युतस्य पूवर्विपरीतासत्यानेकरूपावभासलक्षणविवर्ततया, तदुपादानतया, चोक्तेत्यर्थः ।
मन्ददृष्टावाश्रयानिरूपणादिना निराकृतायां सर्वमिदं निराकृतं भवतीति भावः ।
तस्यैव, यदवष्टम्भो विश्वो विवर्त, इत्यर्थः ।
ततो ऽन्यगा जीवगतेत्यर्थः ।
किंशब्दस्योभयतः सम्बन्धः ।
*4,402*
मायावादिनो हि केचित् ब्रह्मैव स्वाविद्यया जगदाकारेण विवर्तते स्वप्नादिवदिति मन्यन्ते ।
बिम्बस्थानीयं ब्रह्म मायाशक्तिमत् कारणं, जीवाश्च प्रत्येकमविद्यानुबद्धाः, इत्यपरे ।
मायाविद्याप्रतिबिम्बितं ब्रह्म जगत्कारणम्, विरुद्धं च ब्रह्माभूतत्वालम्बनं जीवाश्चाविद्यानुबद्धा इत्यन्ये ।
जीवा एव स्वाविद्यया प्रत्येकं प्रपञ्चाकारेण ब्रह्म विभ्राम्यन्ति, सादृश्याच्च प्रपञ्चैकतावभासः अनेकावगतद्वितीयचन्द्रवत्, स्वरूपापेक्षया च ब्रह्म जगत्कारणमित्येके ।
तत्रावान्तरभेदमविवक्षित्वा द्वेधैव विकल्पितम् ।
इह जीवगेत्यनुक्त्वा ततो ऽन्यगेति वदता स जीवः किं ब्रह्मणो ऽन्यो(ऽनन्यो वा) न वा इत्यपि विकल्पः सूचितः ।
तत्र द्वितीयः प्रथमे प्रविशतीति तं दूषयति- ब्रह्मणश्चेदिति ॥
ब्रह्मणश्चेत् क्व सार्वज्ञ्यम् ...
*4,403*
न्यायसुधा:
यदि ब्रह्मणो वि(श्व)भ्रमस्तदा भ्रमस्य विशेषाज्ञानपूर्वकत्वात्तदपि ब्रह्मणो ऽङ्गीकरणीयम् ।
तथाच तस्य सार्वज्ञ्यं न स्यात् ।
यदि च न ब्रह्मणि सार्वज्ञ्यं, तर्हि क्व तत्स्यात् ।
न तावज्जीवे, अनुभवविरोधात् ।
नापि जडे, ज्ञानमात्रासम्भवात् ।
तथाच"यः सर्वज्ञःऽ; इत्यादिश्रुतिवैयर्थ्यं स्यात् ।
ननु सार्वज्ञ्यमपि ब्रह्मणो भ्रान्त्यैवेति चेन्न ।
यादृशतादृशस्यापि विशेषज्ञानविरोधित्वात् ।
अन्यथा शुक्तिज्ञानवतो ऽपि तदज्ञानं न विरुद्धयतेति भ्रमानुच्छेदप्रसङ्गः ।
उपलक्षणं चैतत् ।
ब्रह्मणो विशेषाभावात्तदनवभासनिमित्तो भ्रमो नोपपद्यते ।
स्वरूपं तु स्वप्रकाशतया सिद्धम् ।
असिद्धत्वे वा(च) सुतरां विभ्रमानुपपत्तिः ।
अधिष्ठानानुपलम्भादित्यपि द्रष्टव्यम् ।
द्वितीयस्याद्यं दूषयति- अन्यगा चेदिति ॥
... अन्यगा चेत् स्वतो ऽन्यता
न्यायसुधा:
यदि ब्रह्मव्यतिरिक्तजीवाश्रया विश्वभ्रान्तिरङ्गीक्रियते तदा भ्रान्त्याश्रयस्य भ्रान्तिकल्पितत्वायोगात् जीवब्रह्मणोरन्यता स्वाभाविकीत्यापन्नम् ।
ततश्चापसिद्धान्त इति ।
*4,408*
नन्वस्तु जीवब्रह्मभेदो वास्तवः ।
अनात्मप्रपञ्चो ऽस्तु भ्रान्तिकल्पितो ब्रह्मणीत्यत आह- नेति ॥
नादेहयोगिनो दृष्टिरिति तत् कारणं स्वतः
न्यायसुधा:
यद्यपि नैवं मायावादिनो मन्यन्ते ।
तथापि सूत्रार्थनिराकरणाय प्रवृत्तस्य तत्रैवानुपपत्तिव्युत्पादनं श्लाघ्यमित्यारम्भः ।
न केवलं ब्रह्मव्यतिरिक्तानां जीवानामकल्पितत्वम् ।
किन्तु देहयोगरहितस्येन्द्रियाभावातत्पदार्थदर्शनं न सम्भवतीत्यतो हेतोः आरोपकारणमिन्द्रियं तदाश्रयो देहश्च कल्पनां विनैवास्तीत्यङ्गीकरणीयम् ।
नहि सुखादिवद्रजतादिवद्वास्य प्रपञ्चस्य साक्षिमात्रसिद्धत्वं परो मन्यते देहेन्द्रियाणामप्युत्पत्तिमत्वात् ।
तत्कारणं च स्वत इत्यङ्गीकरणीयम् ।
*4,410*
अस्तु ब्रह्मव्यतिरिक्तानां जीवानां सकारणानां तदीयदेहेन्द्रियाणां चाभ्रान्तिकल्पितत्वम् ।
द्रष्टृत्वेन दर्शनकरणत्वेन तदाश्रयत्वेन तत्कारणत्वेन च भ्रान्तेः पूर्वभावित्वात् ।
तदतिरिक्तास्तु प्रपञ्चो ऽस्तु भ्रान्तिकल्पित इत्यत आह- देहिन इति ॥
देहिनः कारणयुता देहाश्च यदि न भ्रमात्
किं भ्रान्तिकल्पितं तत्र ...
न्यायसुधा:
कारणशब्देन ज्ञानकारणानामिन्द्रियाणां देहेन्द्रियकारणानां च ग्रहणम् ।
सिद्धा इति शेषः ।
किं आक्षेपे ।
तत्र तर्हि प्रपञ्चे ब्रह्मणीति वा ।
अनन्तजीवसकारणदेहेन्द्रियातिरिक्तस्य प्रपञ्चस्याभावात् ।
विषयाणामपि देहेन्द्रियनिर्वाहार्थत्वादिति भावः ।
तथाच न केवलमपसिद्धान्तः ।
प्रकृतिश्चेत्यादिसूत्राणां निर्विषयत्वापत्तिश्च स्यादिति शेषः ।
*4,411*
ननु अन्यगा चेत्स्वतो ऽन्यता इत्युक्तम् ।
जीवब्रह्मभेदस्यापि भ्रान्तिसिद्धत्वात् ।
भ्रान्त्या ब्रह्मणो भिन्नस्य बाह्याध्यात्मिकार्थभ्रम इति हि मन्यत इत्यत आह- भेदो ऽपीति ॥
... भेदो ऽपि भ्रमजो यदि
न्यायसुधा:
न केवलं प्रपञ्चः, किन्तु जीवब्रह्मणोर्भेदो ऽपि यदि भ्रमजो भ्रमसिद्धः अङ्गीक्रियते ।
तदा अन्योन्याश्रयता स्यादिति सम्बन्धः ।
अत्रान्योन्याश्रयताशब्देन चक्रकमुच्यते तस्यापि बहुष्वन्योन्याश्रयत्वात् ।
कथमन्योन्याश्रयता इत्यत उक्तम्- भ्रान्तेरिति ॥
भ्रान्तेरज्ञानमूलत्वात् तस्य भेदव्यपेक्षया
न्यायसुधा:
भ्रान्तेर्जीवब्रह्मभेदहेतोर्भावरूपाज्ञानकारणत्वात् ।
तस्याज्ञानस्य च भेदसापेक्षत्वात् ।
अज्ञानमनादित्वात्कथं भेदव्यपेक्षया स्यादित्यत उक्तम्- नाज्ञानेति ॥
नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः
न्यायसुधा:
यतो ब्रह्मव्यतिरिक्तजीवादृते नाज्ञानकल्पकं किञ्चिदस्ति ।
*4,412*
एतदुक्तं भवति ।
जीवब्रह्म(णोः)भेदो यया भ्रान्त्या सिद्धः, सा तावदज्ञानापेक्षा ।
भ्रान्तेः स्वरूपतो विषयश्चाज्ञानकार्यत्वाङ्गीकारात् ।
यद्यपि भेदविषया भ्रान्तिः साक्षिचैतन्यम् ।
तथापि तस्यासङ्गस्यारोपितार्थसंसृष्टरूपं(पता) नाज्ञानेन विनोत्पद्यते ।
तच्चाज्ञानं भेदसापेक्षम् ।
अनादित्वे ऽपि भ्रान्तिकल्पितत्वस्याङ्गीकृतत्वात् ।
अन्यथा सत्यतापातात् ।
भ्रान्तेः (च) जीवाश्रितत्वस्याङ्गीकृतत्वात् ।
भेदकल्पनया विना च जीवस्याभावात् ।
न चाविद्यारोपो ब्रह्मण्येवेति युक्तम् ।
सर्वस्यापि तदाश्रयत्वोपपत्तौ अर्धजरतीयानुपपत्तेः ।
अतो भ्रमज्ञानजीवभेदानामन्यसापेक्षत्वाच्चक्रकमिति ।
अथवा भेदस्य भ्रान्तिकल्पितत्वे भ्रान्तेश्च भेदसापेक्षत्वादन्योन्याश्रयत्वमनेनोक्तम् ।
व्युत्पादनार्थमेवाज्ञानं मध्ये निवेशितमिति द्रष्टव्यम् ।
अनेन जीवाज्ञानवादो(पक्षो)ऽपि निरस्तः ।
इतरेतराश्रयादिदोषसाम्यात् ।
बीजाङ्कुरवददोष इति चेन्न ।
वैषम्यात् ।
व्यक्तिभेदेन हि तत्रादोषत्वम् ।
नच जीवाविद्यव्यक्तिभेदो ऽस्तीति ।
*4,415*
यदुक्तं नादेहयोगिन इत्यादि तदनुपपन्नम् ।
देहादेरपि भ्रान्तिकल्पितत्वात् ।
नच तत्र कारणाभावः पूर्वदेहादेर्विद्यमानत्वात् ।
नचैवमनवस्था, अनादित्वादिति ।
मैवम् ।
आदिसर्गे देहादिदर्शनानुपपत्तेः ।
न ह्ययं साक्षिमात्रसिद्धो ऽर्थ इत्युक्तम् ।
किञ्च स्यादयमनवस्थापरिहारः, यदि पूर्वपूर्वतरादिदेहादेरपि भ्रान्तिसिद्धत्वं प्रमितं स्यात् ।
अन्यथैवं, सर्वत्रानवस्थापरिहारः प्रसज्येत ।
नचात्र प्रमाणं अस्ति ।
ननु कथं नास्ति,"नेह नानाऽ; इत्यादिश्रुतेर्विद्यमानत्वादिति एतदाह(इत्यत आह)- भ्रमत्वे त्विति ॥
भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्नहि
*4,416*
न्यायसुधा:
यद्वा सर्वो ऽप्ययं प्रसङ्गो विपर्ययपयर्वसानहीनत्वादाभास एव ।
नेह नानेत्यादिश्रुत्या सर्वस्यापि वियदादेः प्रपञ्चस्य भ्रान्तिकल्पितत्वाभिधानात् इत्याशङ्कयेदमुदितम् ।
उपपत्त्यविरुद्धो हि वेदार्थो ग्राह्यः ।
अन्यथा अन्धो मणिमविन्दत् इत्यादेरपि ग्रहणप्रसङ्गात् ।
विचारशास्नानारम्भप्रसङ्गाच्च ।
नेह नानेत्यादिवाक्यं चोपपत्तिविरुद्धम् ।
तथाहि ।
यदि वियदादिकं सर्वं भ्रमसिद्धं स्यात् तदा तदन्तःपातित्वादियं श्रुतिश्च तथा स्यात् ।
भ्रमारोपितं वियदादिकं सर्वं भ्रमसिद्धं स्यात् तदा तदन्तःपातित्वादियं श्रुतिश्च तथा स्यात् ।
भ्रमारोपितं चासदिति श्रुतेरप्यसत्त्वान्नार्थधीहेतुत्वमिति ।
भ्रमशब्दः ज्ञाने अर्थे च परेषां प्रसिद्ध इति भ्रमत्व इत्युक्तम् ।
यद्यप्ययमर्थः प्रथमसूत्रे वर्णितः तथापि तत्राध्यात्मिकः प्रसङ्गः (प्रपञ्चो) अत्र तु बाह्यषवषय इति भेदः ।
अधिकविवक्षया चोक्तस्य पुनरुक्तिरिति ।
*4,419*
ननु सर्वो ऽप्ययं प्रपञ्चो भ्रान्तिसिद्धो ऽपि व्यावहारिको भवत्येव ।
अतस्तदन्तःपतिता श्रुतिरपि व्यावहारिकत्वादर्थहेतुर्भविष्यतीत्यत आह- व्यावहारिकतेति ॥
व्यावहारिकता चास्य स्यादबाध्यत्व एव हि
न्यायसुधा:
चस्त्वर्थः ।
स्यादप्येवं यदि प्रपञ्चस्य व्यावहारिकता तावत् (तव) शक्याङ्गीकारा स्यात् ।
न चैवम् ।
यतो ऽस्य प्रपञ्चस्य व्यावहारिकता तु अबाध्यत्व एव स्यात् ।
एतदुक्तं भवति ।
यदि प्रपञ्चो व्यावहारिको ऽङ्गीक्रियेत, तर्ह्यबाध्यो ऽप्यङ्गीकर्तव्यः प्रसज्येत ।
नच तथाङ्गीक्रियते भवता ।
अतो न व्यावहारिकाप्यङ्गीकर्तुमुचित इति ।
सत्यत्वाङ्गीकारापादने त्विष्यापादनं स्यात् ।
परेणापि कथञ्चित्सत्यत्वस्याप्यङ्गीकृतत्वात् ।
अतो ऽबाध्यत्व एवेत्युक्तम् ।
ननु शक्तिरजतादेर्बाध्यस्याप्यभिज्ञाभिवदनरूपव्यवहारविषयत्वाद्वयाप्तिहीनो ऽयं तर्क इत्यत आह- बाध्यमिति ॥
बाध्यं नार्थक्रियाकारि ...
*4,420*
न्यायसुधा:
सत्यं बाध्यं शुक्तिरजतादिकम्, अभिज्ञादिकं व्यवहारविषय इति ।
तथाप्यर्थक्रियाकारि न भवति ।
नहि तेन रजतोचिता वलयनिर्माणाद्यर्थक्रियाजायमाना दृष्टा ।
अर्थक्रियाकारित्वलक्षणमेव व्यावहारिकत्वमिह प्रकृतम् ।
नाभिज्ञादिविषयत्वम् ।
श्रुतेरर्थधीजनकत्वोपन्यस्तत्वात् ।
अतो न तर्कस्याङ्गवैकल्यमिति ।
ननु बाध्यत्वं शुक्तिकाद्यधिष्ठानस्य धर्मः ।
"विज्ञातस्यान्यथाऽ; इत्युक्तत्वात् ।
शुक्तिकादिकं चार्थक्रियाकारीति कथमुच्यते बाध्यं नार्थक्रियाकारीति ।
मैवम् ।
निषेध्यत्वलक्षणबाध्यत्वस्य पराभ्युपगतस्यात्राश्रयणात् ।
*4,421*
ननु तथाप्यसत्यस्य स्वाप्नकामिनीसम्भोगादेः चरमधातुविसर्गाद्यर्थक्रियाकारित्वदर्शनात् व्याप्तिविकलस्तर्क इत्यत आह- न चेति ॥
... नच स्वप्नो ऽपि नो मृषा
न्यायसुधा:
स्वप्न इति स्वप्नावस्थोपलब्धो ऽर्थः ।
नो ऽस्माकं बादरायणीयानां मते ।
तर्हि मम मतेन व्याप्तिभङ्गो ऽस्तु मया मृषात्वेनाङ्गीकृतत्वात् इति चेन्न, बादरायणीयेन तथाङ्गीकर्तुमशक्यत्वात् ।
ननु कथं बादरायणस्य न मृषा स्वप्न इत्यत आह- वासनेति ॥
वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः
न्यायसुधा:
तस्य स्वप्नस्यापि मायामात्रमिति वदता सूत्रकारेण वासनाजनितत्वेनाङ्गीकृतत्वात् इदं ज्ञायते, यत् न तस्य स्वप्नो मृषाभिमत इति ।
नहि कश्चिदविद्यमानस्य कारणं निरूपयेत् ।
किञ्च श्रुत्यनुसारी हि सूत्रकारस्य सिद्धान्तः स्यात् ।
श्रुत्या च स्वाप्नार्थस्य कर्तारं वदन्त्या सत्यत्वमेवाभिप्रेतमिति न मृषात्वं सूत्रकृतो ऽभिमतमित्याह- स हीति ॥
*4,422*
स हि कर्तेति वाक्याच्च ...
न्यायसुधा:
ननु कथं स्वप्नो न मृषा ।
"मायामात्रम्ऽ; इति सूत्रकृतैव तन्मिथ्यात्वस्य वक्ष्यमाणत्वादित्यतो वाह- वासनेति ॥
न मायामात्रपदेन स्वप्नस्य मृषात्वमभिमतम्, किन्तु वासनाजनितत्वम्, अतो न मृषेत्यर्थः ।
यथा चैतत्तथा उपपादयिष्यते ।
तस्यागामिनः सूत्रस्य वासनाजनितत्वप्रतिपादकत्वेन अस्माभिरङ्गीकृतत्वादिति वा योज्यम् ।
न केवलं वक्ष्यमाणोपपत्तिवशात् मृषात्वं न सूत्रार्थः ।
किन्तु श्रुतिवशाच्चेत्याह- स हीति ॥
*4,423*
यद्वा स्वाप्नार्थो न तावदनादिनित्यः, पश्चात् अदृष्टयादिविरोधात् ।
नापि सादिविनाशी, उपादाननिमित्तयोरनिरूपणात् ।
नच प्रकारान्तरं सम्भवति ।
तत्कथं न मृषेत्यत आह- वासनेति ॥
नोपादानाभाव इति शेषः ।
"न मृषाऽ; इति पूर्वेण वा सम्बन्धः ।
एवम् उपादानं निरूप्य निमित्तमुपपादयति- सहीति ॥
निमित्तं चेश्वरो ज्ञायते, इति शेषः ।
"न मृषाऽ; इति पूर्वेणैव वा अन्वयः ।
*4,424*
ननु कथं तर्हि"स्वप्नमायासरूपाऽ; इत्यादौ स्वप्नस्य भ्रान्तित्वोक्तिरित्यत आह- जाग्रत्वमिति ॥
... जाग्रत्त्वमिति हि भ्रमः
न्यायसुधा:
इतिशब्द आद्यर्थे, उल्लेखार्थे वा ।
जाग्रदहमस्मीति द्रष्टुर्यज्जाग्रत्त्वं, यच्चैतत्पदार्थानां जाग्र(द्दृशा दृशादृष्टपदार्थैः ऐक्यं, बाह्यमृदादिजन्यत्वं वा, एवमादिप्रतिभासो भ्रमः ।
बाध्यत्वादिति हिशब्दार्थः ।
तदपेक्षया श्रुत्यादिवचनानीति भावः ।
*4,425*
ननु च रज्जौ सर्पभ्रमे, असत्यस्यापि सर्पस्य सर्पोचितभयकम्पाद्यर्थक्रियाकारित्वं दृश्यते, तथा सर्पे समारोपितायाः कुसुममालायाः सन्तोषकारिता उपलभ्यते, अतो व्याप्तिभङ्गस्तर्कस्येत्यत आह- सर्पेति ॥
सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम्
न्यायसुधा:
"ना भूदत्र सर्पःऽ; इतिवत्"न सर्पज्ञानमभूत्ऽ; इति बाधकानुदयात् ।
अभूदेवेत्यनुवृत्तेश्च ।
भ्रमत्वस्य विषयवैपरीत्यमात्रेणोपपत्तेरिति हिशब्दार्थः ।
कि(मतो)न्ततो यदि ज्ञानमस्त्येवेत्यत आह- तदेवेति ॥
तदेवार्थक्रियाकारि ...
न्यायसुधा:
एवशब्देन सर्पादिकं व्यावतर्यति ।
सत्यपि सर्पादौ असति च ज्ञाने, भयकम्पाद्यनुत्पत्तेः ।
सति च (तस्मिन्) तदुत्पत्तेर्ज्ञानकार्यमेव भयकम्पादिकं न सर्पकार्यम् ।
तत्कार्यं तु अभिसर्पणदंशनादिकम् ।
मरणमपि धातुव्याकुलतानिमित्तकम् ।
सा च विषद्रव्येणेव भयादिनापि भवतीति न बाध्यस्य(स्यापि) सर्पादेरर्थक्रियाकारित्वम् ।
*4,427*
ननु किं ज्ञानमात्रं भयादिजनकं किंवा विषयावच्छिन्नम् ।
नाद्यः ।
घटज्ञानस्यापि ज्ञानत्वेन तदापत्तेः ।
द्वितीये न तावद्विषयो रज्ज्वादिः ।
रज्जुरियमित्यादि ज्ञानस्यापि भयादिहेतुतापातात् ।
सर्पादिश्चेद्विशेषणतया तस्यापि भयादिहेतुत्वं प्राप्तम् ।
*4,428*
अत्र कश्चिदाह ।
नायं दोषः, ज्ञानव्यावर्तकतयोपयुक्तस्य सर्पादेर्विषयस्य ज्ञानजन्यार्थक्रियायामप्रवेशात् ।
नहि कुरूणां क्षेत्रे वसति, गुरूणां टीकां पठति इत्यादौ विशेषणस्यापि कारकत्वमस्ति ।
किन्त्वतिप्रसक्तयोः क्षेत्रटीकयोर्व्यावृत्तिमात्रेण चरितार्थत्वमिति ।
तदसत् ।
एवमपि बाध्यस्य सर्पादेर्व्यावर्तकत्वस्यावश्याभ्युपगमनीयत्वात् ।
व्यावृत्तिबुद्धिजनकत्वं हि व्यावर्तकत्वम् ।
तत्रापि ज्ञानाभ्युपगमेन परिहारे व्यावर्तकोपादानेन प्रसङ्गतादवस्थ्यमिति ।
तत्राह- तादृशमिति ॥
यादृशं सत्यसर्पोल्लेखि ज्ञानं, तादृशमित्यर्थः ।
सत्यसर्पज्ञानं तावद्घटादिज्ञानाद्वयावृत्तमनुभूयते ।
व्यावृत्तिश्च व्यावर्तक(धर्म)योगकृता सर्वत्रोपलब्धा ।
नच विषयो व्यावर्तकः, तस्यातद्धर्मत्वात् ।
सम्बद्धं हि व्यावर्तकं भवति ।
अन्यथातिप्रसङ्गात् ।
विषयसम्बन्धो व्यावर्तको ऽस्त्विति चेन्न ।
तस्य संयोगादिरूपस्याभावात् ।
अतः कश्चिज्ज्ञानगत एव धर्मो ऽभ्युपगन्तव्यः ।
किञ्च विलक्षणसमाग्रीजन्मनोर्ज्ञानयोर्यथा परोक्षत्वापरोक्षत्वरूपो विशेषः विषयोपाधिना विनाभ्युपगम्यते, एवमपरोक्षज्ञाने ऽपि कथं स्वगतो विशेषो नाङ्गीकरणीयः ।
अपि च सर्पज्ञानस्य विलक्षणार्थक्रिया न स्वगतेनातिशयेन विनोपपद्यते ।
नहि
देवदत्तसम्बन्धितामात्रेण कलमबीजं कलमबीजान्तरकार्यविलक्षणं कार्यमुपजनयति ।
स चायं विशेषः सत्यसर्पज्ञाने समीचीनया सामग्षा जातः, मिथ्यासर्पज्ञाने त्वसमीचीनया इति न कश्चिद्विशेषः ।
अतो विषयान्तर्भावमन्तरेण स्वगतेनैव विशेषेण सर्पादिज्ञानस्य भयादिजनकत्वान्न सर्पस्य किञ्चित्करत्वमिति ।
तदेवं यत्राथर्क्रिया निश्चिता न तत्र मिथ्यात्वम्, यत्र तु मिथ्यात्वं न तत्रार्थक्रियेति न तर्कमूलव्याप्तेः क्वापि भङ्गः, इत्युपसंहरति- तदिति ॥
व्यास -(5)
... तत् सदेवार्थकारकम्
*4,433*
न्यायसुधा:
नन्वर्थक्रियाकारित्वं यथा विपक्षान्मिथ्याभूताद्वयावृत्तम् एवं सपक्षाद्ब्रह्मणो ऽपि व्यावृत्तत्वादसाधारणम् ।
नच ज्ञानस्य सत्यस्यार्थक्रियोक्तेति वाच्यम्, तस्यापि प्रपञ्चान्तर्भावेन विप्रतिपन्नत्वादित्यत आह- ब्रह्म त्विति ॥
ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा ।
अङ्गीकृतं हि तेनैव ... ॥ मनुव्_1,4.89अ-च् ॥
न्यायसुधा:
तेन मायावादिनैव ब्रह्म प्रपञ्चादप्यतिशयेनार्थक्रियाकार्यमङ्गीकृतमेव हि जन्मादिसूत्रे जगत्कारणत्वेनोक्तत्वात् ।
अतः सपक्षप्रवेशित्वान्नासाधारण्यं मन्तव्यम् ।
ननु मयाङ्गीक्रियमाणं ब्रह्मणो ऽर्थक्रियाकारित्वं च न स्वाभाविकम् ।
किन्तु परत एव ।
मायायां तदाप(यत्तमि)तत इत्यङ्गीकारात् ।
अतः कथमापादकस्य सपक्षप्रवेश इत्यत आह- परत इति ॥
अङ्गीकृतं तावदर्थक्रियाकारित्वं ब्रह्मणः, तत्स्वतः परतो वास्तु किमनेन प्रकृतानुपयुक्तेन ।
नहि स्वतो ऽर्थक्रियाकारित्वमापादकत्वेनास्माभिरभिहितम्, परेण वा प्रस्तावितम् ।
अन्यथा सामान्यतः प्रयुक्तस्य धूमादेर्विशेषाकारेण सपक्षाप्रवेशितयासाधारण्य(ण)स्य वक्तुं शक्यत्वेन तद्भङ्गः स्यात् ।
*4,435*
स्यादेतत् ।
ब्रह्मणोऽर्थक्रियाकारित्वं परत इत्यस्य नायमर्थः दारुयन्त्रस्येव पराधीनम् इति, नापि कुलालस्येव प्रयोजनाद्यपेक्षमिति; किन्तु गगने मलिनतेव निष्क्रिया एव ब्रह्मणि मायासम्बन्धादर्थक्रिया(दि) अवभासत इति ।
न चैवंविधेन सपक्षप्रवेशो भवत्यापादकस्येत्यत आह परतस्त्व इति ।
... परतस्त्वे नच प्रमा
न्यायसुधा:
ब्रह्मणोऽर्थक्रियाकारित्वस्येति शेषः ।
परतस्त्वे निरूपितरूपे ।
प्रमा प्रमाणम् ।
*4,436*
अयमत्राशयः ।
ब्रह्मणो जगन्निर्माणाद्यर्थक्रिया प्रतीता न वा ।
न चेत्कथं लक्षणत्वेनोच्यते ।
कस्य च मायामयत्वमङ्गीक्रियते ।
प्रतीतत्वे ऽपि न तावत्प्रत्यक्षानुमानाभ्याम् ।
तदगोचरत्वात् ।
अतः श्रुत्यैवेति वक्तव्यम् ।
तथाच कथं मायिकत्वम् ।
तत्किं श्रुतिप्रतीतं सर्वमेव सत्यम् ।
अद्धा ।
बाधकाभावे तु तथैव ।
नचैवं ब्रह्मणो ऽर्थक्रियायाः परतस्त्वे प्रमाणमस्ति यद्बाधकं भवेत् ।
बाधकाभावमात्रेण कथं सत्यार्थत्वमिति चेत् ।
प्रामाण्यस्य स्वतस्त्वादिति ब्रूमः ।
परतस्त्वे च प्रामाण्यस्यानवस्थापातेन न प्रमा निश्चीयेत ।
सन्ति"निष्फलं निष्क्रियम्ऽ; इत्यादिश्रुतयो बाधिका इति चेत् ।
एवं श्रुतिबलेन परस्त्वे ऽर्थक्रियायाः स्वीकृते तदभिधात्री"स इदं सर्वमसृजतऽ; इत्यादिश्रुतिर्न प्रमा स्यात् ।
प्रतिपादितार्थमिथ्यात्वातिरिक्तस्याप्रामाण्यस्याभावात् ।
किञ्चाविशेषात्"निष्कलं निष्क्रियम्ऽ; इति श्रुतिरेतच्छतिविरोधात्परतस्त्वे न प्रमेति किं न स्यात् ।
अन्यदुत्तरत्र वक्ष्याम इति ।
*4,439*
नन्वस्त्वबाध्यमेवार्थक्रियाकारि प्रपञ्चमप्यबाध्यमङ्गीकरोमि ।
आत्यन्तिकाबाध्यत्वाभावे ऽपि प्राग्ब्रह्मात्मैक्यज्ञानादबाध्यत्वात् ।
अतस्तदन्तर्गता श्रुतिरप्यमुख्यसत्यत्वात्साधिका भविष्यतीत्यत आह- अमुख्येति ॥
अमुख्यसत्यमानस्य साधकत्वे सदाऽवयोः ।
न हि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा
न्यायसुधा:
सदा इत्य(नेन)स्य प्रमेयस्य प्रागेवोपपादितत्वमित्याचष्टे ।
ततश्च पुनरुक्तिदोषः परिहृतो भवति ।
तिष्ठतु न वक्तव्येति यावत् ।
सा प्रमा ब्रह्मज्ञानबाध्यं प्रमाणमित्यर्थः ।
यस्मात्सा श्रुतिरप्रमा तस्मात्तिष्ठत्विति वा ।
प्रपञ्चमिथ्यात्वं हि तदथर्ः ।
न चासौ ब्रह्मस्वरूपम् ।
सोपाधिकत्वात् ।
ततो ऽस्य बाध्यत्वमावश्यकम् ।
बाध्यार्थं चाप्रमाणमिति प्रसिद्धमेव ।
बाध्यार्थत्वे ऽपि प्राग्ब्रह्मज्ञानादबाध्यार्थत्वेन प्रामाण्यमस्त्वित्यत उक्तम्- अमुख्येति ॥
सत्यमबाध्यार्थम् ।
नहि कालविलम्बेन बाधितार्थं प्रमाणं भवतीति वक्ष्यामः ।
अस्त्वेवं स्वरूपतो विषयतश्चासत्यत्वात्साधकत्वेन विप्रतिपन्ना श्रुतिः, तथापि प्रपञ्चमिथ्यात्वसाधनाय तदुपन्यासः कुतो न कार्यः इत्यत आह- न हीति ॥
न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित्
न्यायसुधा:
तथात्वे स्वरूपासिद्धकालातीतयोरप्युपन्यासः स्यात् ।
आरोपमात्रस्य तत्रापि सुलभत्वादिति भावः ।
*4,441*
स्यादेतत् ।
आस्तामियं प्रमाणसदसत्त्वचिन्ता ।
प्रमाणेनैव प्रमेयसिद्धेः ।
अन्यथा भवतामपि प्रपञ्चमिथ्यात्वनिराकरणे तत्सत्यत्वसाधने च प्रमाणाभावेन कथाभावप्रसङ्गात् ।
युष्माभिरुपन्यस्यमानं प्रमाणं सत्यमसत्यं वा स्यात् ।
न तावत्सत्यं मां प्रति वक्तुमुचितम् मया सत्यस्य साधकत्वानङ्गीकारात्, यत्सत्यं न तत्र क्रियाऽवेशः यत्र च क्रियाऽवेशो न तत्सत्यमिति ।
नच वाच्यं साक्षिणः सत्यस्य साधकत्वं त्वयाङ्गीकृतमिति ।
कथच्चित्सुखादौ तस्य शक्योपन्यासत्वे ऽपि बाह्यप्रपञ्चे तदयोगात् ।
बाह्यप्रमाणविषयो ह्यसौ ।
अन्यथान्धबधिराद्यभावप्रसङ्गात् ।
स एव चात्र प्रकृत इति ।
नाप्यसत्यं भवद्भिरनङ्गीकृतत्वादित्यत आह- साधकत्वमिति ॥
*4,442*
साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः ।
सम्यक् सम्प्रतिपन्नं तन्न विवतर्ममतं भवेत् ॥ मनुव्_1,4.91च्-f ॥
न्यायसुधा:
सत्यस्य त्विति सम्बन्धः ।
सम्यगिति मुख्यत एव, न त्वधिकरणसिद्धान्तत्वेन ।
हिशब्दः, सर्वं वस्तु ज्ञाततयाज्ञाततया वा साक्षिचैतन्यस्य विषय एवेत्यादितत्प्रसिद्धिद्योतकः ।
तदित्यव्ययम् ।
तेन साक्षिणा ।
विश्वविवर्तमतं न भवेत् ।
निराकुर्म इति यावत् ।
उपलक्षणं चैतत् ।
विश्वस्य सत्यतामपि तेनैव साधयाम इत्यपि द्रष्टव्यम् ।
तथाच वक्ष्यते ।
*4,444*
न कापि प्रमाणप्रमेयादिव्यवस्था मयाङ्गीकृता ।
किन्तु परकीयरीत्यैव सर्वमुच्यते ।
तत्कथं किमप्यनङ्गीकुर्वाणं मां प्रति साक्षिणः साधकत्वं त्वयाङ्गीकृतमित्युच्यत इत्यत आह- यदीति ॥
यदि नाङ्गीकृतं किञ्चिदनङ्गीकृततापि हि ।
नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता
न्यायसुधा:
न विद्यते ऽङ्गीकृतमङ्गीकारो यस्येत्यनङ्गीकृतः ।
तस्य भावो ऽनङ्गीकृतता ।
अनङ्गीकारित्वमित्यर्थः ।
इतिशब्दद्वयं हेतौ ।
यदि परो ब्रूयान्मया किञ्चिन्नाङ्गीकृतमिति ।
तदासौ वक्तव्यः ।
सर्वथानङ्गीकृतत्वम् आत्मनस्त्वयाङ्गीकृतं न वा ।
आद्ये(ऽपि) किञ्चिदपि नाङ्गीकृतमिति पक्षहानेः आत्मनो ऽनङ्गीकर्तृतापि नाङ्गीकृतेति द्वितीय एवाङ्गीकरणीयः ।
तथाच असौ मूकः स्यात् ।
अङ्गीकारानङ्गीकारोदासीनस्य मृतकस्येव वाक्यप्रवृत्तेरयुक्तत्वात् ।
तथाच मौनमवलम्बमानस्य नास्मत्प्रतिवादितेति किमत्र वक्तव्यम् ।
सत्यमेतत् ।
वस्तुतस्तु वयं सर्वतो निवृत्ताः स्वतः सिद्धे चिदात्मनि ब्रह्मतत्वे केवले भारमवलम्ब्य चरितार्थाः सुखमास्महे ।
ये तु स्वपरिकल्पितसाधनदूषणादिव्यवस्थया विचारमवतार्य तत्त्वं निर्णेतुमिच्छन्ति तान्प्रति ब्रूमो न साध्वीयं भवतां विचारव्यवस्थेति ।
मैवम् ।
एवमपि परकीयविचारव्यवस्थितेरसाधुत्वस्यावश्यमङ्गीकरणीयत्वात् ।
अन्यथा तद्व्युत्पादनं व्यर्थं स्यात् ।
अथ तन्मात्रमङ्गीकृत्य प्रमाणादिव्यवस्था नाङ्गीकृतेति मन्यसे ।
तन्न ।
प्रमाणादिना विना परव्यवस्थाया असाधुत्वस्य व्युत्पादयितुमशक्यत्वात् ।
भवत्कल्पितव्यवस्थैव व्याहतत्वादसाध्वी भवद्वयवस्थेति ब्रूमो न पुनरत्र किमपि प्रमाणमङ्गीकुर्म इति चेन्न, यत्स्वाभ्युपगतव्यवस्थाविरुद्धं तदसाध्वित्यस्यापि प्रमाणस्याङ्गीकर्तव्यत्वात् ।
एतदपि परेणाभ्युपगतमेवाश्रीयत इति चेत् न ।
किं परकीयव्यवस्थाया असाधुत्वस्वयमवबुद्धय परं प्रति बोध्यते ऽनवबुद्धयैव वा ।
द्वितीये विप्रलम्भकत्वं स्यात् ।
विजिगीषुकथायामेवमेवेत चेत् न ।
शिष्यस्यापि बोद्धयत्वात् ।
आद्ये ऽस्मादन्यस्माद्वा प्रमाणात्स्वयं बोद्धव्यम् ।
तत्कथं प्रमाणाद्यनङ्गीकर्तृत्वम् ।
प्रमितिकरणत्वादिनोपादानस्यैव प्रमाणाद्यङ्गीकारित्वात् ।
तस्मात् सत्त्वासत्त्वा(सत्यत्वासत्यत्वा)भ्युपगमोदासीनैः प्रमाणादिकमङ्गीकृत्योच्यत इति वक्तव्यम् ।
तच्च प्रागेव निरस्तमिति ।
*4,448*
एवं विश्वस्य ब्रह्मविवर्तत्वं निराकृत्य तत्स(त्ता)त्यतायां प्रमाणमाह- विश्वमिति ॥
विश्वं सत्यं यच्चिकेत प्रघान्वस्य यथार्थतः ।
इत्यादिश्रुतयः सर्वा विश्वसत्यत्ववाचकाः
*4,448f.*
न्यायसुधा:
यथार्थत इत्यनेन"कविर्मनीषीऽ; इति श्रुतिमुपादत्ते ।
व्यावहारिकसत्यतापराः श्रुतय इति चेन्न ।
"तत्सत्यम्ऽ; इत्यस्या अपि तथात्वप्रसङ्गात् ।
श्रुत्यन्तरविरोधादिति चेदत्रापि"असदेवेदम्ऽ; इति श्रुतिविरोधात् ।
अपुरुषार्थत्वान्न प्रपञ्चसत्यतायां तात्पर्यमिति चेन्न ।
सत्यजगन्निर्मातृत्वादिपारमेश्वरमाहात्म्यज्ञानस्यैव पुरुषार्थहेतु(प्रयोजन)त्वात् ।
निष्प्रपञ्चात्मज्ञानसाध्याद्वितीयतापत्तिरुपपुरुषार्थविरुद्धं प्रपञ्चसत्यत्वमिति चेत् तर्हि ब्रह्मसत्यत्वमपि शून्यपरिभावनालभ्यशून्यतापत्तिलक्षणमोक्षविरुद्धमिति समानम् ।
तत् प्रमाणाननुगुणमिति चेत् ।
सममेतदपीति वक्ष्यामः ।
अनुमानमपि प्रपञ्चसत्यतायामथर्क्रियाकारित्वं द्रष्टव्यम् ।
प्रागुक्ततर्कोपपादनेनैव अस्योपपादित्वादिति ।
*4,452*
एवमागमानुमानाभ्यां सिद्धे विश्वसत्यत्वे प्रत्यक्षमप्याह- सत्यत्वमिति ॥
सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम्
न्यायसुधा:
चशब्दः प्रमाणसमुच्चये ।
न केवलमान्तरस्य सुखादेः किन्तु बाह्यस्य गगनादेश्चेति वा ।
तत्रापि कालगगनदिगादयः साक्षात्साक्षिसिद्धसत्यत्वाः ।
स्तम्भकुम्भादयस्तु वक्ष्यमाणेन प्रकारेणेति ज्ञापयितुं गगनादेरित्युक्तम् ।
अन्यथा विश्वस्य प्रकृतत्वात्तदेवात्रानुवर्तिष्यते किमनेन ।
साक्षीत्येवोक्ते साक्षिणो ऽप्रामाण्यात् प्रामाण्ये वा प्रमाणत्रित्वभङ्गात् न विश्वसत्यत्वं प्रमितमिति शङ्का स्यात् ।
तन्निवृत्त्यर्थं प्रत्यक्षेत्युक्तम् ।
तथाच वक्ष्यते ।
प्रत्यक्षेत्येवोक्ते अतीन्द्रियार्थसत्यतायां न प्रमाणमुक्तं स्यात् ।
नच साक्षिरा विना बाह्यप्रत्यक्षमात्रेणैन्द्रियकाणामपि सत्यता सिद्धयतीत्यतः साक्षीत्युक्तम् ।
उभयवादिसिद्धं प्रमाणमस्मत्पक्षे ऽस्तीत्युक्तेनैव अस्यार्थस्य लब्धत्वात्साधितमित्याह ।
तथापि तदुपपादनाय पुनुरुपन्यासः ।
*4,455*
केचिदिह विहङ्गमः पततीति चक्षुर्व्यापारानन्तरं प्रतिभासनादाकाशादेः(दीनां) चाक्षुषतामास्थिषत ।
तदनुपपन्नम् ।
रूपरहितद्रव्यत्वेन चाक्षुषतासामग्रीवैकल्यात् ।
अन्यथाऽत्मपवनयोरपि तत्प्रसङ्गात् ।
कथं तर्ह्येष प्रतिभास इति चेत् ।
साक्षिसिद्धाकाशादिसम्बन्धितयेति ब्रूमः ।
दृष्टो हि प्रमाणान्तरोपनीतेनापि सुरभि चन्दनमित्यादिविशिष्टप्रत्ययः ।
परेषां च इह भूतले घटाभाव इति ।
*4,459*
अपर आह ।
आलोकमण्डलमाश्रित्यायं प्रत्यय इति ।
तदसत् ।
इहालोक इत्यपि प्रत्ययदर्शनात् ।
सो ऽपि तदवयानाश्रित्येति चेन्न ।
लौकिकानामवयवाश्रयतयावयविबुद्धेरभावात् ।
नहि ते हस्तादिषु शरीरमिति व्यवहरन्ति ।
किन्तु तदात्मकतयैव ।
किञ्चैवमपि नेहालोक इतीहालोकत्र्यणुकमिति च प्रत्ययो दुःसम्पादः ।
प्रमाणान्तोपनीतावयवमाश्रित्येति चेत् ।
एवं तर्हि तथाभूतमाकाशादिकमेवाश्रित्य"इह पक्षीऽ; इत्यादिप्रत्ययः कुतो न समर्थनीयः ।
तथाच लौकिकानुभवो ऽप्यनुसृतः स्यात् ।
तथाप्यनुमानवेद्यमाकाशमस्त्विति चेन्न ।
लिङ्गाभावात् ।
*4,462*
अथ मतम् ।
"शब्दस्तावत्प्रत्यक्षसिद्धः ।
स च गुणः सामान्यवत्त्वे सत्यस्मादादिबाह्यैकेन्द्रियग्राह्यत्वाद्रूपवत् इति ।
गुणत्वात् द्रव्याश्रितस्तद्वदेवऽ; इति सामान्यतो द्रव्यसिद्धेः (द्रव्यसिद्धौ) (द्रव्ये सिद्धे)"शब्दो न स्पर्शवद्विशेषगुणः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वात्, अयावद्द्रव्यभावित्वात् ।
सुखादिवत् ।
स्पर्शव(द्विशेषगुण)त्वे तदनुपलम्भप्रसङ्गः ।
शब्दो हि श्रोत्रेण प्राप्तो वा गृह्यते ऽप्राप्तो वा ।
अप्राप्तग्रहणे ऽतिप्रसङ्गः ।
प्राप्तिस्तु शब्दश्रवसोर्न सम्भवति ।
सा हि न तावच्छ्रोत्रस्य गमनेन सम्भवति ।
तस्यामूतर्स्य गत्यभा(तेरसम्भ)वात् ।
नापि शब्दस्यागमनेन ।
स हि न तावच्छङ्खादिकमाश्रयं परित्यज्यागन्तुमलम् ।
गुणत्वात् ।
नापि शङ्खाद्यागमनेन श्रोत्र(स्य)प्रत्यासत्तिः ।
तदनुपलम्भात् ।
नच शब्दान्तरोत्पादपरम्परया ।
गुणस्य स्वाश्रये स्वाश्रयाश्रिते वा गुणे ऽसमवायिकारणत्वात् ।
नच शङ्खश्रवसोर्मध्ये शङ्खो वा तदारब्धद्रव्यं वास्ति ।
तस्माच्छङ्खादिनिमित्तान्यपहायाश्रयान्तरे वर्तमानो वीचीतरङ्गन्यायेन कर्णशष्कुली(ग)मन्तमाकाशदेशमापन्न उपलभ्यते नान्यथेति स्थितम् ।
नाप्यात्मगुणः ।
बाह्येन्द्रियप्रत्यक्षत्वादात्मान्तरग्राह्यत्वादात्मन्यसमवायात् अहङ्कारेण विभक्तस्य ग्रहणादूपादिवत् ।
न विक्कालमनसां (गुणः), प्रत्यक्षत्वाद्विशेषगुणत्वाच्चऽ; इति प्रसक्तप्रतिषेधे परिशेषादेभ्यो ऽतिरिक्तं द्रव्यं सिद्धयति ।
तदाकाशमिति ।
तदयं प्रमाणार्थः ।
शब्दो ऽष्यद्रव्यातिरिक्तद्रव्याश्रितः ।
तद्वृत्तौ बाधकोपपन्नत्वे सति गुणत्वाद्रूपत्वादिति ।
तदिदमयुक्तं जातिबधिराणामाकाश(शादि)प्रतिभासानुपपत्तिप्रसङ्गात् ।
ततश्चेहालोको नास्तीति प्रतीतिर्न स्यात् ।
मूर्तावकाशेन तेषामाकाशानुमानमिति चेन्न ।
मूर्तान्तराभावेनान्यथासिद्धत्वात् ।
मर्ताभावस्याधिकरणेन भाव्यमिति चेत् ।
सत्यम् ।
तथापि तस्याप्रतीतावाश्रयासिद्धेः ।
प्रतीतौ च साधिकरणस्यैव प्रतीतत्वादनुमानानवकाशः ।
*4,471*
किञ्च शब्दो वर्णात्मा वा पक्षो ध्वनिरूपो वा ।
नाद्यः ।
तस्य गुणत्वासिद्धेः ।
न चोक्तानुमानात्तत्सिद्धिः ।
घटादीनामेकेन्द्रियग्राह्यत्वाभावे ऽपि आत्मनस्तथात्ववद् द्रव्यस्यैव सतो बाह्यैकेन्द्रियग्राह्यत्वे ऽपि विरोधाभावात् ।
यदि (शब्दो) द्रव्यं स्यात् बाह्येन्द्रियग्राह्यो न स्यात् ।
निरवयवद्रव्यस्य बाह्येन्द्रियाग्राह्यत्वेन प्रतिबन्धादिति चेत्(न) ।
निरवयवस्यापीन्द्रियग्राह्यत्ववद्बाह्येन्द्रियग्राह्यत्वे(ऽपि) बाधकाभावेन प्रतिबन्धानिश्चयात् ।
द्वितीये त्वाश्रयद्रव्यसिद्धावपि नाकाशसिद्धिः ।
पृथिव्यादिगुणत्वोपपत्तेः ।
प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वायावद्द्रव्यभावित्वयोः पिठरपाकपक्षे तद्गतरूपादिना व्यभिचारात् ।
प्रत्यक्षत्वे सतीति च किमर्थं वक्तव्यम् ।
पार्थिवपरमाणुरूपादि(व्यावृत्त्य)परिहारार्थमिति चेत्, कुतस्तत्परिहरणीयम् ।
प्रमितत्वादिति चेत् ।
तर्हि शब्दस्यापि शङ्खाद्याश्रयतया प्रमितत्वाद्वयाप्तिग्रहणसमये तद्वयवच्छेदार्थं (अपि) विशेषणमुपादेयमेव ।
नच स्पर्शवद्विशेषगुणत्वे बाधकं पश्यामः ।
अनुपलब्धिस्तु न प्रसज्यते ।
चक्षुष इव श्रोत्रस्य गत्या सन्निकर्षोपपत्तेः ।
अमूर्तस्य तदनुपपत्तिस्तु आकाशसिद्धयुत्तरकालीनैव ।
श्रोत्रस्य चक्षुष इव गत्वाग्राहित्वे शब्दे दिक्संशयो न स्यादिति चेत् ।
अगत्वाग्राहित्वे दिङ्निश्चयो ऽपि न स्यात् ।
संशयादपि निश्चयो महीयान् (गरीयान्) ।
शङ्खाद्यवयवागमनेन वा सन्निकर्षोपपत्तिः ।
न चोक्तदोषः ।
घ्राणगन्धसन्निकर्षतुल्ययोगक्षेमत्वात् ।
*4,477*
किञ्च वायुगुणत्वे हेतुद्वयमसिद्धम् ।
तर्कश्चानुपपन्नः ।
नैवं युक्तम् ।
श्रोत्रस्य प्रअतिनियतार्थग्राहकत्वेन बहिरिन्द्रियत्वात् ।
बहिरिन्द्रियस्य ग्राह्यसजातीयविशेषगुणवत्त्वनियमात् ।
शब्दस्य वायवीयत्वे श्रोत्रस्यापि तथात्वप्रसङ्गादिति चेन्न ।
"प्रतिनियतार्थग्राहकःऽ; शब्दस्येन्द्रियान्तराग्राह्यग्राहकार्थत्वे मनसि व्यभिचारात् ।
इन्द्रियान्तराग्राह्यस्यैव ग्राहकमित्यभिप्राये सत्तादिग्राहकत्वेनासिद्धिः ।
बहिरिन्द्रियत्वे ऽपि न ग्राह्यसजातीयविशेषगुणवत्त्वनियमः ।
स्नेहग्राहके चक्षुषि व्यभिचारात् ।
श्रोत्रस्य वायवीयत्वे ऽपि न बाधकं पश्यामः ।
सामग्रीभेदेन प्रतिनियतार्थत्वोपपत्तेः ।
घ्राणादीनामप्येवमेकप्रकृतित्वं स्यादिति चेत् ।
अस्तु ।
बाध(क)सद्भावे तु तत एवान्या गतिर्भविष्यति ।
शब्दो न वायवीयः विशेषगुणत्वे सति त्वगिन्द्रियावेद्यत्वाद्गन्धवदिति चेन्न ।
विपक्षे बाधकाभावात् ।
अन्यथा पाकजरूपादयो ऽपि न पार्थिवाः, घ्राणावेद्यत्वात् शब्दवदि(ति)त्यपि स्यात् ।
*4,482*
किञ्चात्मगुणः कस्मान्न स्यात् ।
धर्मादीनामप्रत्यक्षत्वेऽपि सुखादीनां प्रत्यक्षत्ववदस्य बाह्येन्द्रियप्रत्यक्षत्वोपपत्तेः ।
अन्यथा प्रत्यक्षत्वोनाष्टद्रव्यातितिक्तगुणोऽपि न स्यात् ।
तत्सिद्धौ बाधः ।
असिद्धावप्रसिद्धविशेषणतेति चेन्न परिशेषानुमानेऽपि साम्यात् ।
आत्मान्तरग्राह्यत्वस्य च कोऽर्थः ।
अकेनप्रतिपत्तृसाधारणत्वमिति चेन्न सन्धिग्धासिद्धेः ।
सन्तानानुमानेन मूलप्रत्यभिज्ञानन्नैष दोष इति चेत्तर्हि सुखादीनामप्यनुमानेनानेकप्रतिपत्तृसाधारण्ये(णत्वे)नानैकान्तिकत्वं स्यात् ।
आत्मसमवेतस्यैव वीचीतरङ्गन्यायेन मूलप्रत्यभिज्ञानोपपत्तौ विपक्षे बाधकाभावाच् च ।
*4,485f.*
अपर आह ।
ग्राहकस्थत्वेनाग्रहणमात्मान्तरग्राह्यमिति ।
तदसिद्धम् ।
आत्मन्यसमवायात्तत्सिद्धिरिति चेन्न ।
तस्याप्यसिद्धेः ।
अहङ्कारेण विभक्तस्य ग्रहणात्तत्सिद्धिरिति चेन्न ।
पादे मे सुखं शिरसि मे दुःखं मनो मे दुःखितमिति दर्शनात्सुखादिषु व्यभिचारात् ।
ग्रहणं प्रमितिरिति चेन्न ।
सन्दिग्धासिद्धत्वात् ।
कालादिगुणो वा किं न स्यात् ।
प्रत्यक्षत्वादिति चेन्न ।
स्पर्शस्यापि प्रत्यक्षत्वेन अवायवीयत्वप्रसङ्गात् ।
कालादीनां विशेषगुणवत्त्वे बाधकाभावात् ।
तद्विरहिततयैव तत्सि(द्धिरि)द्धेर्नेति चेन्न ।
अन्यथा तत्सिद्धेर्वक्ष्यमाणत्वात् ।
*4,487*
किञ्चात्र सर्वत्र साहचर्यदर्शने सङ्कोच एव द्रव्यान्तरकल्पनाया लघीयान् ।
परिशेषानुमानं त्वष्टद्रव्यातिरिक्तद्रव्याप्रसिद्धविशेषणम् ।
प्रसिद्धौ चानुमानवैयर्थ्यम् ।
अष्टद्रव्यातिरिक्ताश्रित इत्येव साधने गुणादिवृत्तिसामान्यादपि व्यावृत्तत्वेनासाधारणता स्यात् ।
शब्दाश्रयः इतरेभ्यो भिद्यते शब्दाश्रयत्वात् व्यतिरेकेण पृथिवीवत् इति प्रयोग इति चेत्(न) ।
पृथिव्यादिप्रतियोगिकानेकभेदानां प्रत्येकं साधने ऽबादीनां सपक्षत्वेन तत्रावृत्तेरसाधारण्यात् ।
समुदितसाधने पुरनप्रसिद्धविशेषणत्वात् ।
अभावस्य साध्यत्वादभावाभावस्य च भावत्वेन प्रतियोग्यनपेक्षतया व्याप्तिग्रहणसम्भवान्न दोष इति चेन्न ।
तथापि प्रतिषेधमुखेन प्रतीतेरनिवारणात् ।
शब्दाश्रयो नेतरेभ्यो भिद्यते प्रमेयत्वाद्घटवदिति सत्प्रतिपक्षत्वाच्च ।
सर्वप्रतियोगिकैकभेदसाधने तु प्रमाणबाधश्चाधिकः ।
प्रतियोगिभेदेन भेदभेदस्यापि दर्शनादिति ।
*4,492*
अस्तु वा शब्दगुणकाकाशसिद्धिरनुमानात् ।
तथाप्यव्याकृताकाशसिद्धिः साक्षिणैव ।
तत्साधकलिङ्गाभावात् ।
आकाशद्वैतं च वियदधिकरणे वक्ष्यते ।
जातिबधिराणामप्याकाशप्रतीतेर्नागमो ऽपि तत्र प्रमाणमिति साक्षिसिद्धमेव गगनम् ।
तद्भागा एव दिशो न द्रव्यान्तरमिति तासामपि साक्षिवेद्य(सिद्ध)तैव ।
अन्यत्स्वावसरे वक्ष्यामः ।
*4,493*
(ननु) अस्तु गगनादिकं साक्षिसिद्धम् ।
न तावता तस्य त्रैकालिकबाधवैधुर्यलक्षणं सत्त्वं सिद्धयति, प्रतीतस्यापि शुक्तिरजतादेः बाधदर्शनात्, इत्यत आह- साक्षिसिद्धस्येति ॥
साक्षिसिद्धस्य न क्वापि बाध्यत्वं तददोषतः
*4,494*
न्यायसुधा:
क्वापि काले तस्य साक्षिणः अदोषत्वात् ।
औत्सगिर्कं हि प्रत्ययानां प्रामाण्यम् ।
अप्रामाण्यं तु दोषापवादात् ।
नच साक्षिज्ञानं दोषजन्यम्, तस्य अनादित्वात् ।
एवमेवायथार्थत्वे मुक्तावपि (तथात्व)तथाप्रसङ्गात् ।
अविद्यादोषसंसर्गात् साक्षिणः बाध्यार्थप्रतिभास(सि)त्वम् इति चेन्न, अविद्यासम्बन्धस्य त्वन्मते अनुपपत्तेः उक्तत्वात् ।
अस्माभिरपि अविद्यायाः कार्यान्तरस्यैव अभ्युपगतत्वात् इति ।
*4,496*
ननु तर्हीदमापन्नम् ।
गगनादिस्वरूपं साक्षिसिद्धम् ।
कालत्रयाबाध्यत्वं तु तस्य साक्षिप्रामाण्यग्राहकेणेति ।
प्रामाण्यस्यापि अबाध्यविषयतानतिरेकात् ।
तथाच"सत्यत्वं गगनादेश्च, इत्ययुक्तमित्यत आह- सर्वेति ॥
सवर्कालेष्वबाध्यत्वं साक्षिणैव प्रतीयते
न्यायसुधा:
अबाध्यत्वं गगनादीनामिति शेषः ।
साक्षिण एव हि साक्षिप्रामाण्यग्राहकत्वस्य वक्ष्यमाणत्वादिति भावः ।
यद्वा गगनादिस्वरूपं साक्षिसिद्धम्, तस्य त्रैकालिकाबाध्यत्वं तु तत्प्रामाण्यग्रहणद्वारा सिद्धयतीत्युक्तम् ।
इदानीं साक्षिणस्त्रैकालिकाबाध्यार्थगोचरत्वस्य वक्ष्यमाणत्वात्सार्वकालिकबाधाभावविशिष्टतयैव गगनादिग्राहकत्वमस्तीत्याह- सर्वकालेष्विति ॥
*4,497*
ननु काल एव कुतः सिद्धः ।
येन सर्वकालेष्वबाध्यत्वं साक्षिणा प्रतीयत इत्यत आह- कालो हीति ॥
कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः
न्यायसुधा:
सुषुप्तौ हीन्द्रियाणामुपरतत्वान्न बाह्यप्रत्यक्षानुमानागमानां तत्र प्रवृत्तिः ।
अस्ति तदापि कालप्रतिभासः ।
एतावन्तं कालं सुखमहमस्वाप्समिति सुषुप्त्युत्थितस्य परामर्शदर्शनात् न ह्यननुभूतस्य परामर्शो युज्यते, अतिप्रसङ्गात् ।
अतः परिशेषात्साक्षिवेद्य एवेति गम्यते ।
*4,498*
अत्रायं प्रयोगः ।
कालः बाह्यप्रत्यक्षाद्यतिरिक्तप्रमाणवेद्यः, असत्स्वपि तेषु प्रतीयमानत्वात्, यद्यस्मिन्निति प्रतीयते तत्ततो ऽरिक्तप्रमाणवेद्यम् ।
यथासति चक्षुषि प्रतीयमानो गन्धस्तदतिरिक्तघ्राणवेद्य इति ।
*4,499*
स्यादेतदेवम् ।
यदि सु(षु)प्तावनुभूयमानस्यायं परामर्शो भवेत् ।
नैतदस्ति ।
किन्तु तदैवातीतं सुषुप्तिकालमनुभूय तदातनो दुःखाभावो ऽनुमीयत इत्यत आह- अतीतेति ॥
अतीतानागतौ कालावपि नासाक्षिगोचरौ
न्यायसुधा:
उत्थितस्य किं साक्षिणातीतकालानुभवमभ्युपगम्य सुखपरामर्शो निराक्रियते उत प्रमाणान्तरेण ।
आद्ये सिद्धं नः समीहितम्, परेणापि कालस्य साक्षिवेद्यतया अङ्गीकृतत्वात् ।
द्वितीये त्विदमुपतिष्ठते ।
असाक्षिगोचरौ साक्षीतरप्रमाणविषयौ ।
अथवा सौषुप्तिकप्रतीतिबलादस्तु वर्तमानकालस्य साक्षिवेद्यत्वम् ।
अतीतानागतकालयोस्तु साक्षिवेद्यत्वाभावात्कथं त्रैकालिकाबाध्यभावः साक्षिणा प्रपञ्चस्य सिद्धयतीत्यत आह- अतीतेति ॥
अपिपदेन साक्षिप्रतीताविति समाकृष्टते ।
कुत इत्यत आह- नेति ॥
साक्षीतरप्रमाणगोचरौ ।
प्रतीयते च ।
तस्मात्साक्षिगोचरावित्यर्थः ।
*4,501*
तत्कथमेतदिति चेत् (न) ।
न तावत्पत्यक्षवेद्यः काल इत्युक्तम् ।
जातिबधिराणामपि प्रतिभासनात् नागमवेद्यो ऽपि ।
अनुमानमपि, कालमेव पक्षीकृत्य प्रवर्तते ऽन्यद्वा ।
नाद्य इत्याह- पक्षीकर्तुमिति ॥
पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते
न्यायसुधा:
कालस्यासिद्धौ आश्रयासिद्धया, सिद्धौ सिद्धसाधनत्वेन पक्षीकर्तुमशक्यत्व(त्वात्)म् ।
द्वितीये ऽप्येतदेवोत्तरम् ।
पक्षीकर्तुमशक्यत्वादित्युपलक्षणम् ।
व्याप्तिस्मरणपक्षधर्मताज्ञानयोरयोगादित्यपि द्रष्टव्यम् ।
कालप्रतीतिमन्तरेणेति शेषः ।
*4,503*
तदेव प्रपञ्चयति- तदेतदिति ॥
तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।
साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते
तस्मान्न तं विना किञ्चित् स्मर्तुं द्रष्टुमथापि वा ।
शक्यं ... ॥ मनुव्_1,4.98अ-च् ॥
न्यायसुधा:
यस्मात्तदिति स्मृतिगोचरमेतदिति दृश्यं वा सर्वमपि साक्षिसिद्धेन कालेन खचितं सम्बद्धमेव वर्तते ।
तस्मात्तं कालं विना कालप्रतिभासं विना किञ्चिद्वयाप्त्यादिकं स्मर्तुं वा धर्म्यादिकं द्रष्टुमिति वा न शक्यमित्यर्थः ।
इदमुक्तं भवति ।
अनुभूतव्याप्तिकस्य पुंसो ऽनुभूयमाने स्मर्यमाणे वा धर्मिणि व्याप्यधर्मस्यानुभवात् स्मरणाद्वा प्रागनुभूतां व्याप्तिं स्मृतवतो व्याप्तस्य पक्षे ऽनुसन्धानमनुमानम् ।
तच्च व्यापकसम्बन्धप्रमितिलक्षणानुमितिकारणम् ।
स्मृत्यनुभवरूपाश्च सर्वाः प्रतीतयो न केवलमर्थमवगाहन्ते ।
अपि तु कालकलितमेव ।
तदिति हि स्मृतिरुत्पद्यते ।
न पुना रूपमित्येव तत्ता च पूर्वकालसम्बन्धितैव ।
एवमनुभवो ऽपि चक्षुरादिजन्यस्तावत् एतदिति जायते ।
अनुमानादिजन्यो ऽप्यभूदिति वा भवतीति वा भविष्यतीति वोदेति ।
एतत्त्वादिकं च न वर्तमानादिकालसम्बन्धित्वातिरिक्तं किञ्चित् ।
एतच्च सर्वानुभवसिद्धत्वान्नापलापमर्हति ।
न चैवं सति कालस्य चाक्षुषत्वादिप्रसङ्गः ।
साक्षिसिद्धविशेषणविशिष्टप्रत्ययोपपत्तेः ।
तथाच व्याप्त्यादिविषया अपि प्रतीतयो न कालाविशिष्टं स्वार्थं गोचचयितुं शक्नुवन्ति ।
तासामपीदं तदित्येवमाकारेणैवोत्पत्तेरिति ।
*4,504*
ततः किमित्यत आह- तदिति ॥
... तन्नित्यसिद्धेर्हि नानुमावसरो भवेत्
न्यायसुधा:
तस्य कालस्य नित्यसिद्धेर्व्याप्त्यादिग्रहण एव साक्षिणा सिद्धत्वान्न कालानुमानस्यावसरो भवेत् अनिश्चिते ह्यर्थे न्यास्यावसरः ।
निश्चितविषयं तु सिद्धसाधनत्वात् परेषामाश्रयासिद्धम् अस्माकं त्वसङ्गतमिति ।
*4,505*
एवं कालविषयाणि सर्वानुमानानि सामान्यतो निराकृत्य विशेषतो निराकरोति- तदेतदिति ॥
तथाहि ।
कालः परापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रत्ययलिङ्ग इति परेषां भाष्यम् ।
तदेवं केचिद्वयाचक्षते ।
अस्ति तावत्स्थविरे परो ऽयमिति प्रत्ययः ।
यूनि चापर इति ।
सो ऽयं दिक्कृतपरापरप्रत्ययविलक्षणत्वात् परापरव्यतिकरप्रत्ययः ।
तथा युगपदागतौ अयुगपदागतौ चिरेणागतः क्षिप्रमागतः इति प्रत्ययाः ।
(त) एते षट्प्रत्ययाः कालस्य लिङ्गानि ।
कथम् ।
स्थविरादिविषयेषु जायमानानामेषां कालमन्तरेण विषयानवकॢप्तेः ।
नहि द्रव्यादिकमेवैषामालम्बनम् ।
तत्प्रत्ययविलक्षणत्वादिति ।
एतदयुक्तम् ।
तथाहि ।
तदिति परमिति एतदपरमिति ।
युगपदादीनामुपलक्षणमेतत् ।
दृश्यं वा स्मृतिगोचरं (वा) प्रतीयमानमिति यावत् ।
तत्सर्वं साक्षिसिद्धेन कालेन खचितमेव वर्तते ।
तस्मात्तन्नित्यसिद्धेः नानुमानावसरो भवेत् ।
तस्मादित्यस्यैव विवरणं न तं विनेति ।
न शक्यं हीति सम्बन्धः ।
*4,506*
एतदुक्तं भवति ।
परापरादि(विषयाः)प्रत्ययास्तावत् कालविशिष्टपिण्डविषयाः इति परेणैवोक्तम् ।
तथाच लिङ्गप्रतीतावेव लिङ्गिनः कालस्य स्फुरणात्कथं तेन तदनुमानम् ।
नहि दण्डिज्ञानेन दण्डो ऽनुमीयते ।
*4,508*
अथ विशिष्टज्ञानत्वादिदं विशेषणज्ञानपूर्वकम् ।
विशेषणं च न कालातिरिक्तमस्तीत्यनुमीयते ।
तर्हि नेदं कालानुमानम् ।
किन्तु ज्ञानानुमानम् ।
तच्च सिद्धसाधनम् ।
साक्षिसिद्धकालविशिष्टप्रत्ययाभ्युपगमादिति ।
*4,509*
अथ बलीपलितकार्कश्यादिना कालसम्बन्धे ऽनुमिते, विप्रतिपन्नं प्रति परापरादिप्रत्ययानां कार्यत्वेन निमित्तानुमानमिदं भाष्यमिति ।
मैवम् ।
शरीरावस्थया हि तस्य कालसम्बन्धो ऽनुमीयते, यत्किञ्चिद्द्रव्यसम्बन्धो वा ।
आद्ये किमस्मादनुमानात्प्राक्कालः सिद्धो ऽथवा नेति वाच्यम् ।
आद्ये तन्नित्यसिद्धेस्तस्य कालस्य प्रागनुमानान्नित्येन साक्षिणा सिद्धेः ।
द्वितीये चाप्रसिद्धविशेषणत्वान्नानुमानावसरो भवेत् ।
किञ्च वलीपलिता(कार्कश्य)दिशरीरावस्था कारणत्वेन कालानुमाने तन्नित्यसिद्धेस्तस्य कालसम्बन्धस्य नित्यं सर्वदा वलीपलितादिवैधुर्यदशायामपि सिद्धेर्नित्ये परमाणावपि सिद्धेर्बाधितविषयत्वेन नानुमानावसरो भवेत् ।
अथ बहुकालसम्बन्धो ऽनुमीयते ।
तन्न ।
बहुत्वं हि कालस्य किं परमाणूनामिव सहैव, उत क्रियाणामिव पूर्वापरभा(वित्वे)वेन ।
नाद्यः ।
तत्सम्बन्धस्यापि नित्यसिद्धेः नेतरः (नोत्तरः) तस्य कालस्य नित्यसिद्धेः ।
नित्यतयाङ्गीकृतत्वात् ।
न द्वितीयः ।
तस्य नित्यसिद्धेः सिद्धसाधनत्वात् ।
अथ परिशेषादितरनिषेधः करिष्यत इति चेन्न ।
परिशेषावधारणानुपपत्तेरिति ।
*4,515f.*
अन्ये तु व्याचक्षते ।
बहुतरणिपरिस्पन्दान्तरितजन्मत्वं परत्वम् ।
अल्पतरसौरसञ्चारान्तरितजन्मत्वं चापरत्वम् ।
एकतपनप्रचारविशिष्टत्वं यौगपद्यम् ।
अनेकतद्विशिष्टत्वमयौगपद्यम् ।
बहुक्रियाविशिष्टत्वं चिरत्वम् ।
कतिपयक्रियाविशिष्टत्वं क्षिप्रत्वम् ।
तत्प्रत्ययैः कालो ऽनुमीयते ।
तरणिपरिस्पन्दा हि पदार्थसार्थे विशिष्टप्रत्ययोत्पत्तौ स्वप्रत्यासत्तिमपेक्षन्ते ।
स्वरसतो ऽप्रत्यासन्नत्वे सति विशिष्टव्यवहारजनकत्वात् ।
चन्दनसौरभवत् ।
परम्परसम्बन्धिनश्च साक्षात्सम्बन्धविरहे सति सम्बन्धित्वात् ।
पटसंसृष्ट(सम्बन्धि)नीलिमवत् ।
अतः पिण्डतपनपरिस्पन्दयोः संयुक्तसंयोगिसमवायात्मनि परम्परासम्बन्धे यद्द्रव्यं निमित्तं स काल इति ।
*4,520*
एतदप्यसत् ।
घटशून्यं भूतलमित्यादिवत्स्वभावप्रत्यासत्त्यैव विशिष्टप्रत्ययोपपत्तेः ।
अन्यथा अभावे परापरयौगपद्यादिप्रत्ययानुपपत्तिप्रसङ्गात् ।
दृश्यते च युगपदुत्पन्नावभावावित्यादिप्रत्ययः ।
अत्र सम्बन्धे बाधकाभावान्नैवमिति चेन्न ।
अन्यसमवेतत्वस्यैव बाधकत्वात् ।
उपनायकद्रव्यान्तरकल्पनया तदुपपत्तिरिति चेत् ।
तर्हि भूतलघटाभावयोस्तृतीयसम्बन्धकल्पनयोपपत्तौ बाधकाभावात् ।
स्वारसिकसम्बन्धेनैव विशिष्टप्रत्ययोपपत्तौ किमप्रतीयमानसम्बन्धकल्पनया इति चेत् ।
तर्हि तथैव परापरादिविशिष्टप्रत्ययोत्पत्तौ किमप्रतीयमानद्रव्यकल्पनयेति समानम् ।
तदिदमुक्तम् तेषां विशिष्टप्रत्ययानां नित्यसिद्धेर्द्रव्यान्तरकल्पानां विना स्वभावादेव सिद्धेः द्रव्यान्तरानुमानावसरो न भवेदिति ।
तदनेन स्वरसतो ऽप्रत्यासन्नत्वे सतीति विशेषणासिद्धिः ।
विशिष्टव्यवहारजनकत्वमात्रस्य चानैकान्त्यमुक्तं भवति ।
*4,524*
ननु विषम उपन्यासः ।
भूतलाभावयोरस्ति सान्निध्यम् ।
तेन सम्बन्धाभावे ऽपि भविष्यति विशिष्टव्यवहारः ।
दर्शनस्य दुरपह्नवत्वात् ।
सम्बन्धान्तरकल्पनस्य च व्यर्थत्वात् ।
नच तरणिपरिस्पन्दानां पिण्डसान्निध्यमस्ति ।
ततो भवितव्यं मध्ये द्रव्यान्तरेणेति ।
मैवम् ।
विनापि सान्निध्येन घटज्ञानमिति विशिष्टप्रत्ययदर्शनात् ।
किञ्चाभावस्यापि न भूतलसान्निध्यं परपक्षे किमपि पश्यामः ।
अस्तु वा तपनपरिस्पन्दानां पिण्डं प्रत्युपनायकं द्रव्यान्तरम् ।
तच्च पृथिव्यादिकं किं न स्यात् ।
तपनपिण्डाभ्यामसंसर्गान्नेति चेन्न ।
एकैकस्याव्यापकत्वे ऽपि बहूनां संयुक्तसंयोगभूयस्त्वेन क्रियोपनायकत्वोपपत्तेः ।
नच तरणिपिण्डान्तकाले तानि न सन्त्यनुपलम्भादिति वाच्यम् ।
सूक्ष्माणां कल्पनीयत्वात् ।
नच विनिगमनायां कारणाभावः ।
संशये ऽपि परिशेषावधारणानुपपत्तेः ।
धर्मिकल्पनातो धर्मकल्पनस्य लघीयस्त्वात् ।
आकाशो वा किं न स्यात् ।
न स्यात् ।
विशेषगुणवत्त्वात्पृथिव्यादिवदिति चेन्न ।
विशेषणगुणवतो ऽपि नीलद्रव्यस्य पटे नीलिमोपसङ्क्रामकत्वदर्शनात् ।
सूर्यगत्युपनायकत्वं च द्रव्यस्वरूपं वा अतीन्द्रियशक्तिर्वा सहकारिशक्तिर्वा ।
नाद्यः ।
द्रव्यमात्रे प्रसङ्गात् ।
न द्वितीयः ।
अनभ्युपगमात् ।
तृतीये(ऽपि) किं तद्वयापकत्वं वा, विशेषगुणविरहो वेति व(विवे)क्तव्यम् ।
व्यास -(6)
*4,528*
वयं तु ब्रूमः ।
व्यापकत्वमेव तदिति ।
अन्यथा मनसो ऽपि तत्प्रसङ्गात् ।
व्यापकत्वस्य प्रयोजकतायामात्मनो ऽपि तत्प्रसङ्ग इति चेन्न ।
तद्वयापकत्वाभावस्य वक्ष्यमाणत्वात् ।
व्यापकत्वे ऽप्यनिष्याभावात् ।
क्रियोपनायकत्वं खल्वान्तरालिकस्य द्रव्यस्य नोभयसंयोगातिरिक्तं किञ्चित् ।
तदेकस्येवानेकेषामपि समानम् ।
यद्याकाशं(ः) स्वसम्बन्धेनान्यगतं धर्मम् अन्यत्र सङ्क्रामयेत्, तदा सर्वं सर्वत्र सङ्क्रामयेत् अविशेषादिति चेन्न ।
नियतोपसङ्क्रामकत्वस्यैव कल्पनीयत्वात् ।
गुर्वी हि धर्ममात्रकल्पनातो धर्मिकल्पना ।
अन्यथा काले ऽपि समानः प्रसङ्गः ।
*4,530*
तत्सिद्धयसिद्धिभ्यामनवसरदुःस्थत्वमिति चेन्न ।
भावानवबोधात् ।
विशिष्टप्रत्ययदर्शनानन्तरं बहवः पक्षाः प्राप्नुवन्ति ।
किमयं स्वरसम्बन्धनिबन्धनः किं वा अतिरिक्तसम्बन्धाधीन इति ।
द्वितीये ऽपि किं साक्षात्सम्बन्धो ऽत्र निमित्तमुत द्रव्यान्तरकृत इति ।
उत्तरत्राप तद्द्रव्यं प्रसिद्धेष्वन्यतमं वा भवत्वन्यद्वेति ।
सर्वत्र बाधकानि पर्यालोचयन्प्रसिद्धद्रव्येषु यद्बाधकं पश्येत्तदप्रसिद्धे ऽपि कल्प्यमाने कथं नानुसन्दध्यात् ।
अनुसन्दधानश्च तत्स्वाभाव्येन परिहारं चिन्तयन्कल्पनागौरवव्यसनमपहाय लघीयांसमेव पक्षं न कथं(वा) रोचयत इत्यस्यार्थस्य विवक्षितत्वात् ।
पर(प्र)सिद्धत्वेन प्रसङ्गस्य न दोष इत्यस्याप्ययमेवाभिप्रायः ।
*4,534*
किञ्चायं प्रसङ्गो वस्तुतः साधुः अथाभासः ।
नाद्यः ।
कालप्रतीत्युत्तरकालं व्याप्तिभङ्गात् ।
द्वितीये कथमाकाशस्य क्रियोपनायकत्वं त्याजयेत् ।
अन्यथा जातिनिराकरणमपि न स्यादिति ।
अस्तु वाऽकाशस्य विशेषगुणवतः क्रियोपनायकत्वाभावः दिशस्तु स्यात् विशेषगुणशून्यत्वात् व्यापकत्वाच्च ।
तस्याः संयोगोपनायकत्वेन सिद्धत्वान्नेति चेन्न ।
उभयोपनायकत्वे ऽपि बाधकाभावात् ।
सहकारिभेदेन च व्यवस्थिताव्यवस्थितप्रतीतिजनकत्वं कल्प्यतां लाघवादेव ।
अन्यथा काले ऽपि भेदकल्पनाप्रसङ्गादिति ।
तदिदमुक्तम् ।
तस्य विशिष्टप्रत्ययस्य नित्येन नियतेन प्रसिद्धेनैव पृथिव्यादिना सिद्धेर्नाप्रसिद्धे द्रव्ये ऽनुमानावसरो भवेदिति ।
*4,538*
अन्ये तु परम्परशब्दाभ्यां परत्वापरत्वे गुणौ युवस्थविरपिण्ड(वर्तिनौ)गतौ आचक्षते ।
तौ असमवायिकारणसंयोगाश्रयतया निमित्तकारणापेक्षाबुद्धिसम्पादकतया वा कालमनुमापयत इति ।
तदप्युक्तन्यायेन निरस्तमिति ।
*4,542*
किञ्च परापरादिप्रत्ययानां सूर्यगतयो वा परा(त्वा)परत्वे वा यद्यालम्बनं तदा अस्तु कालानुमानम् ।
न चैतदस्ति ।
कालभेदानामेव विशेषणतया प्रतीतेः ।
तथाहि ।
परो ऽयमित्यादि प्रयुक्तवन्तः को ऽस्यार्थ इति पृष्टाः लौकिकाः परीक्षिकाश्च बहुकालीन(नो ऽयमित्यादि) इति व्याचक्षाणा दृश्यन्ते ।
तत्र कालस्वरूपं साक्षिसिद्धम् ।
तद्बहुत्वादि च क्वचित्साक्षिणा क्वचिदनुमानादिना च ज्ञायत इति ।
एतदप्युक्तम् तदेतदिति श्लोकाभ्याम् ।
अनयैव दिशा दिशो ऽपि परापरप्रत्ययादिलिङ्गत्वं निराकर्तव्यम् ।
*4,544*
त(मे)देतं चिरन्तनं पन्थानमरोचयमाना नवीनास्तु दिक्कालयोरन्यथानुमानमाहुः ।
विवादाध्यासितं कार्यं विशेषगुणरहितद्रव्याभ्यां जन्यते कार्यत्वात् अन्तःकरणद्वयसंयोगवदिति ।
(ए)तद(प्य)युक्तम् ।
साध्ये बहुवचनप्रयोगे(क्षेपे)ऽतिप्रसङ्गात् ।
नच दृष्टान्ताभावः ।
अन्तःकरणगतबहुत्वस्य सत्त्वात् ।
न चान्तःकरणद्वयसंयोगे प्रमाणमस्ति, मनो मनसा संयुज्यते मूर्तत्वाच्छरीरवदिति च आकालिके विद्यदादौ सन्दिग्धव्यभिचारम् ।
*4,547*
अपर आह ।
परममहत्परिमाणं द्रव्यचतुष्ययवृत्ति परिमाणत्वादणुत्ववदिति ।
अत्र यद्याकाशात्म(गत)परिमाणपक्षीकारस्तदा सिद्धसाधनम् आत्मनां बहुत्वात् ।
आत्मत्वेनैक्यमुपादाय प्रयोगे ऽपि बाधः ।
परिमाणद्वयस्य द्रव्यचतुष्ययवृत्तित्वायोगात् ।
एकैकद्रव्यवृत्ति खलु परिमाणम् ।
अत एव न कालादिगतस्य पक्षीकारः ।
आश्रयासिद्धिश्चाधिका ।
*4,548*
परममहत्परिमाणसामान्यं विशेषगुणशून्यद्रव्याधिकरणानेकव्यक्तिवृत्ति परिमाणतारतम्यविश्रान्तिविषयजातित्वात् अणुपरिमाणवृत्तिजातिवत् इति चानुपपन्नम् ।
परममहत्परिमाणसामान्यं हि परिमाणत्वं वा तदवान्तरजातिर्वा ।
आद्ये मनःसिद्धयाप्यस्य सम्भवेनार्थान्तरता ।
सामान्यस्याप्यनेकवृत्तिताया निराकरिष्यमाणत्वेन बाधाश्रयासिद्धी च ।
न द्वितीयः ।
तस्याः (तस्य) निराकरिष्यमाणत्वात् ।
वर्णसिद्धया अर्थान्तरत्वाच्च ।
अनेकपदस्थाने बहुपदप्रक्षेपे अतिप्रसङ्गाच्च ।
अस्तु कालस्य दिशश्च बहुत्वम्, आत्मवदुपसङ्ग्राहकैक्येन द्रव्याणां नवत्वोपपत्तिरिति चेत्तर्हि दिशा कालेन वा साध्यपर्यवसाना(सम्भवा)दुभयसाधकत्वमस्य न स्यात् ।
मा भूदिति चेन्न ।
अनेकपदवैयर्थ्यात् ।
अन्यतरसाधने ऽन्यतरेणार्थान्तरताप्रसङ्गात् ।
हेतुदृष्टान्तयोश्चानुपपत्तिर्वक्ष्यत इत्यलं पल्लवेन ।
*4,554*
गगनादेःसकलप्रपञ्चस्य त्रैकालिकाबाध्यत्वं साक्षिसिद्धमित्युक्तमर्थमुपसंहरन्विवृणोति- अत इति ॥
अतो ऽदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम्
न्यायसुधा:
न विद्यते दोषः कारणं यस्य ज्ञानस्य तेन प्रतीतस्य विषयीकृतस्यादोषेण प्रत्यक्षादिना वा प्रतीतस्य गगनादेः प्रपञ्चस्य सत्यत्वं त्रैकालिकाबाध्यत्वं साक्षिणा मतं सिद्धम् ।
प्रामाण्यग्रहणादिनेति शेषः ।
*4,555f.*
अयम(त्रा)भिप्रायः ।
आकाशकालदिगात्ममनांसि सुखादयश्च साक्षात्साक्षिसिद्धाः ।
तदितरे तु पदार्था यथास्वम्(यथायथम्) इन्द्रियलिङ्गशब्दगम्याः ।
ज्ञानं च भावाभावलक्षणं स्वविषयं सत्त्वेनैवावगाहते, नासत्त्वेन, नाप्युदासीनेन रूपेण ।
नचैवं घटो ऽस्ति घटो नास्तीतिप्रत्ययानुपपत्तिः पौनरुक्त्याद्वयाघाताच्चेति युक्तम् ।
घटो ऽस्तीति देशकालविशेषसम्बन्धिसत्ताविषयत्वात्, क्वचिद्विपरीताकाङ्क्षाव्यवच्छेदाथर्त्वात्, क्वापि व्याख्यानव्याख्येयभावात् ।
नास्तीत्यस्य च देशकालविशेषसम्बन्धिसत्ताप्रतिषेधपरत्वात् ।
नहि सता सकलदेशकालसता भवितव्यमिति नियामकमस्ति ।
ज्ञानगतं च याथार्थ्यलक्षणं प्रामाण्यं ज्ञानग्राहकेणैव गृह्यते ।
ज्ञानग्राहकश्च साक्षीत्यविवादं वादिप्रतिवादिनोः ।
तथाच साक्षिणा ज्ञानप्रामाण्यं गृह्णता तद्विषयस्य सकलप्रपञ्चस्य त्रैकालिकाबाध्यत्वलक्षणं सत्यत्वमेव गृहीतं भवति ।
यदि हि ज्ञानगोचरस्य नित्यस्य वा अनित्यस्य वा सर्वगतस्य वा असर्वगतस्य वा अर्थस्य स्वदेशकालप्रकारोपाधावसत्त्वाऽवेदनलक्षणो बाधः स्यात्, को ऽर्थस्तदा ज्ञानप्रामाण्यं साक्षिणा प्रमितमित्यस्येति ।
यदि तर्हि ज्ञानस्वरूपग्राहकः साक्षी तत्प्रामाण्यमपि गृह्णन्प्रपञ्चसत्यतां निश्चिनुयात्, शुक्तिरजतादिज्ञानस्वरूपग्राहको ऽपि स एवेति तत्प्रामाण्यमपि गृह्णन् शुक्तिरजतादिकमपि सत्यं व्यवस्थापयेत् ।
नच शुक्तिरजतादिज्ञानानां प्रामाण्यमेव नास्ति, किं साक्षिणा गृह्यताम् इति युक्तम्, प्रपञ्चगोचराणामपि ज्ञानानां प्रामाण्याभावात्किं साक्षिरा गृह्यत इत्यपि वक्तुं शक्यत्वात् ।
तस्मात्साक्षिणा प्रपञ्चसत्यतासिद्धिमभिलषता ज्ञानग्राहकस्य साक्षिणः प्रामाण्यग्राहकत्वं स्वभाव इति वक्तव्यम् ।
तथा चोक्तो ऽतिप्रसङ्ग इत्यत उक्तम्- अदोषेति ॥
*4,562*
अयमर्थः ।
न साक्षी ज्ञानं गृह्णन्प्रमाणमेवैतदिति गृह्णाति ।
किन्तर्ह्य(त्व)दोषं चेत्प्रमाणं सदोषमप्रमाणमिति
व्यवस्थया ।
यदा त्वर्थित्वेन प्रामाण्यं निर्दिधारयिषितं तदा सजातीयविजातीयसंवादविसंवादभावाभावलक्षणया परीक्षया दोषभावं निश्चित्य
प्रामाण्यमवधारयति दोषदशर्ने त्वप्रामाण्यम् ।
प्रपञ्चप्रतीतेश्च प्रयत्नेनान्विष्यापि दोषमपश्यन्प्रामाण्यमेवावधारयतीवति तत्सत्यत्वं साक्षिसिद्धम् ।
नचैवम् शुक्तिरजतादीनाम् ।
दोषाप्रतीतिदशायां प्रामाण्यानवधारणात्, तत्प्रतीतौ त्वप्रामाण्यनिश्चयात् ।
ननु शुक्तिरजतादिज्ञानस्यापि प्रामाण्यं निर्धार्यत एव ।
कथमन्यथा निःशङ्का प्रवृत्तिरिति चेत् ।
सत्यम् ।
नासौ साक्षिरूपावधारणा ।
अपि तु मानसीति वक्ष्यामः ।
मनसश्च दोषसंसर्गसम्भवेन न तावता प्रामाण्यसिद्धिरिति ।
*4,564*
ननु यदि परीक्षासहकृतःसाक्षी ज्ञानप्रामाण्यं गृह्णीयात् तदानवस्था स्यात् ।
परीक्षापि हि स्वयं प्रमाणत्वेनावधृता परप्रामाण्यावधारणायालम् ।
नान्यथा ।
तथाच तत्रापि परीक्षान्तरमवतरणीयमिति ।
किञ्च साक्षिणो ऽप्यनवधृतप्रमाणभावस्य स्वयं दुःस्थस्य न परप्रामाण्यावधारणसमार्थ्यमिति तत्प्रामाण्यावधारणाय परीक्षान्तरापेक्षा ग्राहकान्तरापेक्षा चेत्यनवस्थैवेत्यत आह- परीक्षादेश्चेति ॥
परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत्
न्यायसुधा:
आदिपदेन साक्षी गृह्यते ।
चस्त्वर्थः ।
सत्यत्वं यथार्थत्वम् ।
तेन साक्षिणैव केवलेन न तु परीक्षायुक्तेन(सहकृतेन) ।
हिशब्दो ऽस्यार्थस्यानुभवसिद्धत्वं द्योतयति ।
तस्मान्नानवस्थेति हेतौ वा ।
*4,566*
एतदुक्तं भवति ।
दोषाभावावधारणार्थं न्यायानुसन्धानं हि खलु परीक्षा ।
सन्दिग्धश्चार्थो न्यायविषयः ।
सन्देहश्चोभयकोटिप्रापकसद्भावे भवति ।
एवञ्च यत्र यत्र दोषसम्भावनया तत्सन्देहस्तत्र तत्रैव परीक्षापेक्षा नान्यत्र ।
नच सर्वत्र दोषसन्देहो ऽस्ति ।
साक्षिसिद्धे ऽर्थे तत्प्राप्त्यभावात् ।
अतो न तावत्परीक्षानवस्था ।
तथाहि ।
अस्त्यत्र पुरतः पानीयमिति वाक्यं श्रुतवतो भवति सन्देहः किमिदं विपर्ययादिमूलमुत नेति ।
पुरुषवचसामुभयथा दर्शनात् ।
तत एवार्थे सन्दिहानः प्रत्यासीदन् रूपविशेषादिनानुमिनोति पानीयमेतदिति ।
तत्रापि भवति संशयः ।
किमिदमनुमानमुताभासम्(स) इति ।
व्याप्त्यादिग्राहिणां याथार्थ्यायाथार्थ्योपलम्भात् ।
प्रत्यासन्नश्चोदकाभ्यवहारानन्तरं रसविशेषाणानुमायापि पूर्ववत्सन्दिग्धे ।
पीतोदकस्तूदन्यादिनिमित्तदुःखाभावं सुखं चानुभवन्न तत्र संशेते ।
सुखादौ तदभावे च साक्षिसिद्धे कदाप्यन्यथाभावाद्यनुपलम्भात् ।
नच प्रतीतत्वसामान्येन तत्रापि संशयः ।
विशेषनिष्ठस्य निश्चायकस्य सद्भावात् ।
अन्यथा संशयानुच्छेदेन व्यवहाराभावप्रसङ्गात् ।
संशयाभावे च न तत्पूर्विका परीक्षेति कुतो ऽनवस्था ।
अत एव साक्षप्रामाण्यावधारणे परीक्षानवस्थापि परिहृता ।
ग्राहकानवस्था तु नास्त्येव ।
साक्षिणः स्वप्रकाशत्वेन स्वप्रामाण्यग्राहकत्वात् ।
*4,568f.*
एतावानत्र विशेषः ।
इन्द्रियलिङ्गशब्दजन्येषु ज्ञानेष्वनादौ संसारे द्वयीं गतिमनुसन्दधत्साक्षी न सहसैव प्रमाणमेतदिति निश्चेतुं शक्नोति ।
किन्तु दाषाभावनिश्चयद्वारैव ।
दोषाभावं च न स्वयम्(एव) अवधारयितुमीष्ये ।
(अपि) किं तु परीक्षासहकृत एव ।
परीक्षायां चेन्द्रियलिङ्गशब्दजायां पूर्वन्यायेन परीक्षान्तरमनुसरति यावत्साक्षात्स्वविषये सुखादाववतरति ।
नच स्वात्मन्यनेन कदाप्यन्यथाभावो ऽवगत इति सन्देहाभावात्परीक्षानुसरणान्निवर्तते ।
नहि ज्ञानस्वरूपं प्रामाण्यं च विषयीकर्तुं स्वमहिम्नैव शक्नोति ।
तस्य तु मानस्या दोषशङ्कया प्रामाण्यग्रहणशक्तिः प्रतिबद्धा ।
अतो व्यवस्थैव तत्स्पृशति ।
न त्ववधारणस्येष्ये ।
परीक्षया च प्रतिबन्धे ऽपगते निजयैव शक्त्या प्रामाण्यमवधारयति ।
नचास्य व्युत्पादनस्याप्रामाण्ये ऽपि समत्वात्तस्यापि स्वतो ग्रहणमिति वाच्यम् ।
वैषम्यात् ।
प्रामाण्यावधारणे हि परीक्षायाः प्रतिबन्धकनिवर्तकत्वमात्रं शक्यते ऽवधारयितुम् ।
प्रतिबन्धकरहिते साक्षिप्रामाण्यग्रहे तदनपेक्षणात् ।
सहकारित्वे हि सर्वत्र तदपेक्षा स्यात् ।
तथा चानवस्थेत्युक्तम् ।
अन्यथा कारणत्वं व्याहन्येत ।
न चाप्रामाण्यं क्वापि परीक्षानपेक्षेण साक्षिणा निश्चितचरम् ।
येन प्रतिबन्धकनिवर्तकत्वं तस्याः प्रतीमः ।
किन्तु सार्वत्रिकत्वात्कारणत्वमेव ।
प्रतिबन्धकस्य सार्वत्रिकत्वादन्यथासिद्धं सार्वत्रिकत्वमिति चेन्न ।
प्रतिबन्धकनिवृत्तावप्रामाण्यग(हे)हणे च परीक्षायाः कारणत्वोपपत्तेः ।
एवं सति गौरवमिति चेन्न ।
विशेषावधारणाया अशक्यत्वस्यैव कल्पकाभावात् ।
तथापि परीक्षान्वयव्यतिरेकानुविधायि(यक)त्वस्यान्यथासिद्धिः शङ्कयत इति चेत् (न) ।
प्रतिबन्धकस्य सार्वत्रिकतायाः क्वाप्यदर्शनेनान्यथासिद्धिशङ्कानिरासात् ।
अन्यथा सर्वत्र सहकारिणां तथात्वं स्यात् ।
यदि ज्ञानग्राहकातिरिक्तस्य यथाकथमपि प्रवेशात्प्रामाण्यस्य परतस्त्वमिति मतम्, तदा साक्षिण एव स्वतःप्रामाण्यमन्यस्य परत इत्यङ्गीकारे ऽपि न कश्चिद्विरोध इति सङ्क्षेपः ।
विस्तरस्तु स्वयम्(एव)आचार्येण वक्ष्यते ।
*4,573*
अथ मतम् ।
साक्षी प्रत्यक्षादीनां प्रामाण्यं गृह्णन्नपि कतिपयकालकतिपयपुरुषसम्बन्धिबन्धिवैधुर्यरूपमेव ।
न पुनरस्य कदाचित्कुत्रापि केनापि स्वार्थव्यभिचारो न भविष्यतीत्येवंरूपम् ।
तत्कथं तेनात्यन्तिकबाधाभावलक्षणं सत्यत्वं विश्वस्य
सिद्धयेदित्यत आह- अन्यथेति ॥
अन्यथा श्रुतियुक्तयादिप्रमाणैश्च सहैव तु ।
अकस्माद् विनिवृत्तिश्च किं विश्वस्य न शङ्कयते
न्यायसुधा:
साक्षिणः सर्वथा बाधवैधुर्वलक्षणप्रामाण्याग्राहकत्वे विश्वस्य पूर्णस्य ब्रह्मणो ऽपि प्रपञ्चवद्विनिवृत्तिः किं कस्मान्न शङ्कयते ।
निवर्तकाभावादित्यत उक्तम्- अकस्मादिति ॥
ननु च"सत्यं ज्ञानम्ऽ"तत्सत्यम्ऽ; इत्यादिश्रुत्या, ब्रह्म न निवृत्तिमत् अज्ञानतत्कार्यातिरिक्तत्वात् इत्याद्यनुमानेन, निरधिष्ठानकस्यासाक्षिकस्य भ्रमस्य, निरवधिकस्य बाधस्य चादर्शनात्प्रपञ्चारोपाद्यन्यथानुपपत्त्या, ब्रह्मणःसत्यतावगमात्तन्नेत्यत उक्तम्- श्रुतीति ॥
एतेषामपि प्रमाणानां प्रत्यक्षादीनामिव विनिवृत्तिः शङ्कयतामित्यर्थः ।
एतदुक्तं भवति ।
"प्रपञ्चविषयाणां प्रत्यक्षादिप्रमाणानां नात्यन्तिकं प्रामाण्यं साक्षी गृह्णाति ।
किन्तु तात्कालिकमेवऽ; इति वदन्वक्तव्यः ।
साक्षिणः किमात्यन्तिकप्रामाण्यग्रहणे शक्तिरस्त्युत नास्ति ।
आद्ये कथं प्रपञ्चविषयाणां प्रत्यक्षादीनां प्रामाण्यमात्यन्तिकं न गृह्णीयात् ।
द्वितीये ब्रह्मणः सत्यताप्रतिपादकानां श्रुत्यादीनामपि नात्यन्तिकं प्रामाण्यं गृह्णीयात् ।
तथाच न ब्रह्मणो ऽबाध्यत्वमात्यन्तिकं सिद्धयेत् ।
ततश्च साधकबाधकप्रमाणाभावात्तस्यापि बाधः शङ्कयेत ।
एवंच तज्ज्ञानमपि न तत्त्वज्ञानमिति न तदर्थः प्रयत्नः स्यात् ।
अथ क्वचिच्छक्तिः क्वचिन्नेति ब्रूयात्तदा नियामकं वाच्यमिति ।
*4,574*
ननु यदि ब्रह्म बाधार्हं स्यात्तर्हीयता कालेन कुतो न निवृत्तम् ।
तस्मादितःपूर्वं बाधरहितत्वान्नोत्तरत्रापि बाधः शङ्कयत इति चेन्न ।
उक्तोत्तरत्वात् ।
अस्या अप्युपपत्तेः साक्षिग्राह्यप्रमाणभावाया आत्यन्तिकप्रामाण्यासिद्धेः ।
अन्यथा प्रपञ्चग्राहिणां प्रत्यक्षादीनामपि तथात्वस्यानिवारणात् ।
व्यवस्थापकाभावात् ।
दूषणान्तरमाह- इतःपूर्वमिति ॥
इतः पूर्वं तथाभावाद् यदि नो संसृतेर्गतिः
न्यायसुधा:
तथाभावात् निवृत्त्यभावात् ।
यदि ब्रह्मणो निवृत्तिनर् शङ्कयत इति सम्बन्धः ।
तर्हीत्यध्याहारः ।
गतिर्निवृत्तिः स्यादिति शेषः ।
अयमाशयः ।
इतःपूर्वमनिवृत्तत्वादिति किं ब्रह्मणो निवृत्त्यभावे सम्भावनोक्ततानुमानम् ।
नाद्यः ।
सम्भावनाया अपि संशयरूपत्वेन शङ्कानिवारणासामर्थ्यात् ।
न द्वितीयः ।
तथा सति संसृतेरविद्याया निवृत्त्यभावप्रसङ्गात् ।
न हीतःप्राङ्मूलाविद्या निवृत्ता ।
अन्यथा तस्यामेव व्यभिचारःस्यादिति ।
किञ्च शुक्तिरजतादिकं प्रागनिवृत्तमेव निवर्तते ।
निवृत्तस्य निवृत्त्ययोगात् ।
अतो विरुद्धता च ।
*4,578*
अन्यथेत्याद्यन्यथा व्याख्यायते ।
अन्यथा साक्षिणः प्रपञ्चग्राहकप्रत्यक्षाद्यात्यन्तिकप्रामाण्याग्राहकत्वे, विश्वस्य वियदादेरुत्तरक्षण एव निवृत्तिर्विनाशः किं न शङ्कयते ।
तथाच सर्वप्रवृत्तिविलयः स्यात् ।
परमेश्वरसञ्जिहीर्षाद्यभावादित्यत उक्तम्- अकस्मादिति ॥
(अनु-1117 पृष्ठे द्रष्टव्यम् । ) नन्वीश्वरेच्छयैव श्रुतिस्मृतीतिहासपुराणानि प्रपञ्चप्रलयं प्रतिपादयन्ति, विश्वविनाशो न निर्हेतुको विनाशत्वात्पटनाशवदित्यनुमानमपि ।
तत्कथमेवं शङ्कयत इत्यत उक्तम्- श्रुतीति ॥
प्रमाणानां निवृत्तिर्नामात्यन्तिकप्रामाण्याभावः ।
तात्पर्यं पूवर्वत् ।
ननु प्रागितो न प्रपञ्च(वि)लयो ऽकस्मादभूत् ।
तत्कथमुत्तरत्रापि शङ्कयेत इत्यत (उक्तम्) आह- इतः पूर्वमिति ॥
किमत्र यत्पूर्वं नाभूत्तदुत्तरत्रापि न भविष्यतीति व्याप्तिः, किंवा यत्पूर्वं न निर्हेतुकं विनष्टं न तदुत्तरत्रापि तथा विनाशवदिति, यद्वा यन्निर्हेतुकं न तद्भविष्यतीति व्याप्तिः, पूर्वोक्तिस्तु तदुपपादनायेति ।
नाद्यः ।
संसृतेरविद्याया निवृत्त्यभावप्रसङ्गात् ।
न द्वितीयः ।
संसारनिवृत्तिप्रसङ्गात् ।
तथाहि ।
विद्या संसारनिवृत्तिहेतुः ।
साप्यविद्यात्मकत्वात्संसृतिरेव ।
नच तस्या निवर्तकान्तरमस्ति ।
तथाचाकस्मात्किमपि न निवर्तत इत्यङ्गीकारे नो संसृतेर्गतिः ।
विद्या स्वयमेव स्वनिवृत्तिहेतुरविद्यामात्रविरोधित्वादिति चेन्न ।
एवं तर्हि प्रपञ्चो ऽप्युत्तरक्षणे (स्वयमेव) निवर्तिष्यत इति शङ्का स्यात् ।
अत एव न तृतीयो ऽपीति ।
*4,581*
उक्तमेवार्थं विवृणोति- वाक्येति ॥
वाक्यानुमादितश्चेत् स्यात् तत्प्रामाण्यं च साक्षितः
न्यायसुधा:
अथवा नो संसृतेर्गतिरित्युक्तम् ।
संसारगतेः श्रुत्यादिसिद्धत्वात् ।
तदसिद्धया च हेतोर्विशेषणादित्यत आह- वाक्येति ॥
ब्रह्मणो ऽपि निवृत्त्याशङ्कायामापादितायां यदि परो वाक्यानुमादितो निवृत्त्यभावनिश्चयः स्यादिति ब्रूयात्, यदि वा आकस्मिकोत्तरक्षणे प्रलयशङ्कापादने वाक्यानुमादितः परमेश्वरेच्छादिनैव स्यादिति मन्येत, यदि च वाक्यानुमादितः संसारनिवृत्तिः स्यादिति वदेत्, तदा तस्य वाक्यादेः प्रामाण्यं केन निश्चितमिति वक्तव्यम् ।
साक्षीतरेणेत्यङ्गीकारे ज्ञानस्य साक्षिवेद्यत्वेन परतः प्रामाण्यग्रहापत्तेः साक्षिणैवेति वक्तव्यम् ।
*4,583*
ततः किमिति चेत् ।
साक्षी किं ब्रह्मसत्यत्वादिप्रतिपादकानां वाक्यादीनां प्रामाण्यं तात्कालिकमेव गृह्णाति किंवाऽत्यन्तिकम् ।
आद्ये न तेन ब्रह्माबाध्यत्वादिसिद्धिरिति नोक्तशङ्कानिवृत्तिः ।
द्वितीये त्वाह- तत्प्रामाण्यमिति ॥
तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि ।
सर्वकालेष्वपि स्थैर्याद् व्यभिचारमपोह्य च
एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम् ।
किमिति स्थापयेन्नायं ... ॥ मनुव्_1,4.103अ-च् ॥
न्यायसुधा:
यथाशब्दस्यात्रोत्तरत्र च सम्बन्धः ।
तस्य ब्रह्मसत्यत्वादिप्रतिपादकवाक्यादेः प्रामाण्यं यथा साक्षी वर्तमानकालीनं स्थापयति गृह्णाति ।
एवमेव सर्वकालेष्वपि स्थैर्येण गृह्णाति ।
हिशब्दः परप्रसिद्धिद्योतकः ।
स्थैर्यमेव विवृणोति ।
व्यभिचारं बाधम् अपोह्य निराकृत्यैवेति ।
न केवलं ब्रह्मसत्यत्वत्वादिवाक्यादिप्रामाण्यं साक्षी तात्कालिकं गृह्णाति किन्त्वात्यन्तिकमेवेत्यर्थः ।
*4,584*
अथवा यथाशब्दस्योत्तरेणैव सम्बन्धः ।
स्थापयत्यान्तिकमेव गृह्णातीत्यर्थः ।
अस्यैव विवरणमेवमेवेति ।
इतिशब्दो ऽध्याहार्यः ।
सर्वकालेष्वपीदमेवमेव न कदापि विषयापहारलक्षणं बाधमाप्नोतीति व्यभिचारमपोह्य तत एव स्थैर्येण गृह्णातीति ।
यद्वैवंशब्दः समुच्चये ।
साक्षी ब्रह्मादिविषयवाक्यादिप्रामाण्यं स्थापयत्यात्यन्तिकं गृह्णाति ।
अत एव तद्विषयमपि ब्रह्मादिकं सर्वकालेष्वपि स्थैर्यादतिशयेन व्यभिचारमपोह्यैव स्थापयतीति ।
प्रामाण्या(त्यन्तिकत्वा)न्तर्गतत्वाद्विषयाबाध्यताया इति हिशब्दाथर्ः ।
एवमिति दार्ष्यान्तिकोक्तिः ।
अयं साक्षी यदि तत्सत्यमित्यादिप्रमाणप्रामाण्यमात्यन्तिकं गृह्णन् तद्विषयस्य ब्रह्मादेस्त्रैकालिकाबाध्यत्वं व्यवस्थापयेत्तर्हि तथैव विश्वविषयस्याक्षजादिज्ञानस्यात्यन्तिकं प्रामाण्यं गृह्णन् तदन्तर्गतां विश्वस्याबाध्यतामपि स्थापये(देव)त् अविशेषादिति समुदायार्थः ।
*4,586*
ननु गृह्णात्वात्यन्तिकं प्रामाण्यमक्षजादीनां साक्षी ।
तस्य तथात्वं तु कुतः ।
ततश्च न विश्वसत्यतासिद्धिरित्यत आह- निर्दोषेति ॥
... निर्दोषज्ञानशक्तितः
न्यायसुधा:
साक्षिणो निर्दोषज्ञानरूपत्वशक्त्या तथात्वमपि सिद्धयति ।
अन्यथा ब्रह्मसत्यत्वाद्यपि न सिद्धयेत् ।
यद्वा तत्सत्यमित्यादेरात्यन्तिकं प्रामाण्यं गृह्णाति साक्षी, विश्वविषयस्याक्षजादेस्तु तात्कालिकमेवेति किं न स्यादित्यत आह- निर्दोषेति ॥
अयमर्थः ।
तत्सत्यमित्यादिज्ञानस्यात्यन्तिकं प्रामाण्यं गृह्णाति साक्षीत्यत्र किं निमित्तम् ।
ज्ञानं गृह्णन् तस्य निर्दोषतायां प्रामाण्यमपि गृह्णातीति साक्षिणः स्वभावो ऽयमिति चेत् ।
कथं तर्ह्यक्षजादेरपि आत्यन्तिकं प्रामाण्यं न गृह्णीयात् ।
तस्यापि निर्दोषज्ञानरूप(त्व)शक्तिसद्भावादिति ।
अथवा किं साक्षी कुत्रापि प्रामाण्यमात्यन्तिकं ग्रहीतुं न शक्नोति ।
किंवा क्वचिच्छक्तः क्वचिदशक्तः ।
आद्यस्योत्तरम्- अन्यथेत्यादि ।
द्वितीयस्योत्तरम्- वाक्येति ॥
*4,587*
स्यादेतदेवं यद्यक्षजादिज्ञानं निर्दोषं स्यात् ।
न चैवम् ।
अविद्याकृतप्रपञ्चविषयत्वात् शुक्तिरजतादिज्ञानवत् ।
नन्वविद्या किमाश्रितेति चेत् ।
जीवाश्रितेति ब्रूमः ।
नन्वत्रापि दूषणमुक्तम्"स्वतो ऽन्यताऽ; इति ।
नैतदस्ति ।
तद्भेदस्याप्याविद्यकत्वात् ।
नच चक्रकादिदोषः ।
प्रपञ्च(विश्व)स्य जीवाज्ञानकृतत्वेन श्रुत्यादिसिद्धत्वात् ।
प्रमिते चार्थे तर्काणामवकाशाभावात् ।
नच कल्प्याभावदोषः ।
विश्वस्यैकाज्ञानकृतत्वाङ्गीकारात् ।
तदतिरिक्तजीवजडप्रपञ्चस्य कल्प्यत्वोपपत्तेः ।
एकजीववादो हि मायावादिनां परं हृदयम् ।
बहुजीववादस्तु मन्दानामाभिमुख्यायावतारित इत्यत आह- एकेति ॥
एकज्ञानकृतं विश्वमिति यच्चोष्यते मृषा ।
बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत्
न्यायसुधा:
उच्यते ब्रह्मविवर्तवादिभिः, मृषा प्रमाणेन विना ।
एतदुक्तं भवति ।
स्यादपीदं कथञ्चित् ।
यदि विश्वस्यैकजीवाज्ञानकल्पितत्वं स्यात् ।
न चैतदस्ति ।
प्रमाणाभावात् ।
श्रुत्यादेरनुपदमेव सम्यग्व्याख्यास्यमानत्वात् ।
बहूनामीश्वरस्य तत्प्रेरितानां ब्रह्मादीनां च ज्ञानेच्छाप्रयत्नैर्निमित्तत्वे श्रुत्यादिप्रमाणसद्भावेन तद्विरुद्धत्वाच्चेति ।
*4,591*
किञ्चैकजीवाज्ञानपरिकल्पितं जीवजडात्मकं समस्तमिति वदन्प्रष्टव्यः किमसावेको जीवस्त्वम् उतान्य इति ।
अन्यश्चेत्तदज्ञानकल्पितस्य तव बन्धमोक्षाभावाद्वयर्थं पारिव्राज्यादिकमा(मित्या)पद्येत ।
आद्ये ऽपि प्रतिवादिप्रमुखान्जीवान्पश्यसि न वा ।
प्रथमे ऽपि (किं) सन्तीत्युत न सन्तीति ।
आद्यं दूषयति- परस्येति ॥
परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ।
परो नास्तीति वदति ... ॥ मनुव्_1,4.105अ-च् ॥
न्यायसुधा:
यः परस्य प्रतिवाद्यादेः सत्यतां जानन्नपि परो नास्तीति वदति ।
स स्वात्मतस्कर इति योजना ।
स्वात्मानमिव परमपि सत्यतया पश्यतो ऽहमेक एव सत्यो मदज्ञानकल्पिताः सर्वे जीवा जडाश्चेति वचनं स्वानुभवविरुद्धमित्यर्थः ।
नहि त्वदज्ञानपरिकल्पितं समस्तमित्यत्र बलवत्प्रमाणमस्ति ।
येन दर्शनमपि बाध्येत ।
नहि सत्त्वेन प्रतीयमानस्यापि गन्धर्वनगरादेरसत्त्वमेवाङ्गीक्रियते ।
किन्तु बलवत्प्रमाणबाधात् ।
अन्यथा प्रतिवाद्यज्ञानकल्पितस्त्वमिति कथं न स्याः ।
तथा चानिश्चयेन न मोक्षार्था प्रवृत्तिः स्यादिति ।
*4,592*
द्वितीयतृतीयौ निराचष्टे- किमिति ॥
... किमित्युन्मत्तवद् वदेत्
न्यायसुधा:
यदि परः प्रतिवाद्यादिजीवान्न पश्यति, पश्यन्वा न सन्तीति पश्यति, तदा किमित्युन्मत्तवद्ववदेत् ।
न कथायां प्रविशेत् ।
न शास्त्रं विरचयेद्वयाकुर्याद्वा ।
अन्यथोन्मत्तवन्नायं लौकिको नापि परीक्षक इत्युपेक्षणीयः स्यात् ।
कुतो न वदेत् ।
येन वदन्तुन्मत्तपदवीमासादयेदित्यत आह- पराभाव इति ॥
*4,593*
पराभावे हि वाग् व्यर्था ...
न्यायसुधा:
वाचः परबोधनार्थत्वात् ।
पराभावे च तद्वैयर्थ्याद्वयर्थ्यां वाचं न प्रयुञ्जीत ।
प्रयुञ्जानश्च कथमुन्मत्तो न स्यादिति ।
सत्यं पराभावे वचनमनर्थकम् ।
मयापि किमपि नोच्यत इत्यत आह- यदीति ॥
... यदि नैवोच्यते तदा ।
कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ॥ मनुव्_1,4.106ब्-द् ॥
न्यायसुधा:
मया किमपि कदापि नैवोच्यत इति यद्युच्यते तदा स्वक्रियाविरोधिश्रः सकललोकावगतार्थापलापिनस्तस्य तस्करस्यैव दण्ड एवोचितो न प्रत्युत्तरम् ।
परमार्थतो नोच्यत इत्युच्यत इति चेत् ।
तत्किं प्रतीयोग्यभावे निश्चिते व्यवहारतो ऽपि वदन्तः प्रेक्षावन्तो भवन्ति, येनेदमुच्येतेति ।
*4,594*
प्राक् प्रपञ्चमिथ्यात्वसिद्धये परोदाहृतानां श्रुतीनां बाह्योपपत्तिविरोधः (प्रतिपा)व्युत्पादितः ।
इदानीमान्तरानुपपत्तिप्रदर्शनपूर्वकं तासामविरुद्धार्थव्याख्यानार्थमुत्तरो ग्रन्थः ।
अथवा सर्वश्रुतिसाधारणानुपपत्तिः प्राक् प्रपञ्चिता ।
इदानीमसाधारणानुपपत्तिर्व्युत्पाद्यते ।
तत्र तावत्प्रपञ्चो यदि विद्येतेत्यादिवाक्यद्वयं पठित्वा पराभिमते ऽर्थे ऽनुपपत्तिमाह- प्रपञ्च इति ॥
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादो ऽज्ञाते द्वैतं न विद्यते
इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् ।
विश्वस्य सत्यतामाहुर् ... ॥ मनुव्_1,4.109अ-च् ॥
न्यायसुधा:
नन्वत्र सूत्रगृहीततया परेणोपात्तानां श्रुतीनामनुपपत्त्यादिकं प्रथमता वक्तव्यम् ।
सत्यम् ।
तथाप्येकजीवाज्ञानपरिकल्पितत्वे समस्तस्य, न प्रमाणमस्तीत्यनन्तरमेवोक्तम् ।
अस्यां च तदापाततः प्रतीयते ।
"अनादिमायया सुप्तो यदा जीवः प्रबुद्धयतेऽ; इत्युक्तत्वात् ।
अत उभयानुगुण्यादस्याः प्रथमप्राप्तिः ।
इत्यत्र श्लोकद्वये यदिशब्दद्वयं निवर्तेतेति लिङ्प्रयोगद्वयं च ।
उपलक्षणं चैतत् ।
विद्येतेत्यपि ग्राह्यम् ।
तथा केनचिदिति ।
सत्यतामित्युपलक्षणम् ।
अनादितां चेति ग्राह्यम् ।
आहुरित्यवगमयन्तीत्यर्थः ।
तथाच विश्वमिथ्यात्वपरतया व्याख्याने तदनुपपत्तिरिति शेषः ।
यद्यत्र प्रपञ्चमिथ्यात्वमभि(सं)धित्सितं स्यात्तदा यो ऽयं प्रपञ्चो विद्यत इव दृश्यते स निवर्तिष्यते ।
अज्ञानेन कल्पितो विकल्पो विनिवर्तिष्यत इति वक्तव्यम् ।
यद्याद्यास्तुशब्दा विगतार्था विरुद्धार्थाश्च ।
तत्प्रयोगे हि प्रसङ्गद्वयपरमेतद्वाक्यद्वयमिति विज्ञायते ।
यदि पर्वतो निरग्निको भवेत् तर्हि निर्धूमो ऽपि स्यादिति यथा ।
*4,597*
प्रसङ्गस्य च विपर्यये पर्यवसानादनिवृत्त्यादिकमेव वाक्यसामर्थ्याल्लभ्यत इति परकीयमर्थमपाकुर्वतैव श्रुतितात्पर्यं सूचितम् ।
तत्स्पष्टीकुर्वन्विद्येतेत्यस्यार्थं तावदाह- विद्येतेति ॥
... विद्येतोत्पत्तिमेव च
न्यायसुधा:
इत्येतच्छब्दरूपमुत्पत्तिमेवाह ।
नतु सत्तामिति प्रकृत्यर्थकथनम् ।
चशब्देन निवर्तेतेति विनाशमाह ।
नतु बाधमिति समुच्चिनोति ।
विद्यतेरुतपत्त्यर्थत्वं कुत इत्यत आह- विदेति ॥
विदोत्पत्ताविति ह्यस्माद् धातोर् ...
न्यायसुधा:
विदोत्पत्ताविति ह्यस्माद्धातोः ।
धातोर्धातुव्याख्यानादित्यर्थः ।
विद्यतेरुत्पत्त्यर्थत्वं प्रत्येतव्यमिति पूर्वेण सम्बन्धः ।
धातोरिति षष्ठयन्तं वा ।
तस्य व्याख्यानादिति शेषः ।
मन्दानामप्रसिद्धमपीदं धातुव्याख्यानं बहुज्ञानां प्रसिद्धमेवेति हिशब्द(ब्दार्थः)ः ।
तथाप्युत्पविरेवेति कुतः, सत्तात्र कुतो नेत्यत आह- उत्पत्तिरेवेति ॥
... उत्पत्तिरेव हि ।
निवृत्तिव्याप्तियुक् प्रायः प्रपञ्चो भेदपञ्चकः ॥ मनुव्_1,4.110ब्-द् ॥
न्यायसुधा:
अत्र हि प्रपञ्चो यदि विद्येत तर्हि निवर्तेतेति यदिशब्दादिबलात्प्रसङ्गो ऽयमिति ज्ञायते ।
प्रसङ्गश्च व्याप्तिमूलः ।
व्याप्याङ्गीकारे ऽनिष्यव्यापकप्रसञ्जनं तर्क इति तल्लक्षणात् ।
तथाच विद्येतेत्यापादकतयोक्तस्यार्थस्य निवर्तेतेत्यापाद्यतयोक्तया निवृत्त्या व्याप्तिरवश्यम्भाविनी ।
उत्पत्तिरेव निवृत्तिव्याप्तिक्(क्ता) ।
न सत्ता ।
अस्माकं व्यभिचारित्वात् परस्य विरुद्धत्वात् ।
अतः प्रतीयमानान्वययोग्यताभावान्न सत्ता विद्यतेरर्थः ।
किन्तूत्पत्तिरेव तद्योग्यत्वादिति ।
प्रध्वंसव्युदासाथ प्राय इत्यक्तम् ।
उत्पत्तिर्निवृत्तियुगित्ययं प्रायो बाहुल्यमित्यर्थः ।
तथाच भावत्वे सतीत्यापादकविशेषणं विवक्षितमित्युक्तं भवति ।
एतेनाल्पज्ञानां धातुव्याख्याने विप्रतिपत्तिरिति निरस्ता वेदितव्या ।
*4,598*
ननूत्पत्तिर्नाम कारणायत्तसत्तालाभः ।
नचाभावे सत्तास्तीत्यभावस्य प्रसक्त्यभावात्प्राय इति व्यर्थम् ।
मैवम् ।
केयं सत्ता नामानुगतरूपा वा स्वरूपमेव वा नाद्यः ।
तस्या घटादावप्यभावस्य वक्ष्यमाणत्वात् ।
न द्वितीयः ।
अभावे तद्भावस्यास्त्यभावो ऽस्ति च ध्वंस इत्यादौ वक्ष्यमाणत्वादिति ।
*4,602*
नन्वस्मिन्नपि व्याख्याने नान्वययोग्यतास्ति ।
तर्कस्य व्याप्तिरिव विपर्यये पर्यवसानमवश्यम्भावि ।
तथाच प्रपञ्चो यद्युत्पद्येत तर्हि विनश्येत ।
नच विनश्यति ।
तस्मान्नोत्पद्यत इति वक्तव्यम् ।
न चैतद्युक्तम् ।
क्षित्यादेः प्रपञ्चस्योत्पत्तिविनाशयोः प्रमाणदृष्टत्वात् ।
अत एव तर्काङ्गभूतमापाद्यस्यानिष्टत्वं च नोपपद्यत इत्यतः प्रपञ्चशब्दमन्यथा व्याचष्टे- प्रपञ्च इति ॥
... प्रपञ्चो भेदपञ्चकः
न्यायसुधा:
नायं प्रपञ्चशब्दो विश्वविस्तारवाची ।
येनोक्तदोषः स्यात् ।
किन्तु पञ्चानां वर्गः पञ्चः ।
पञ्चशतौ वर्गे वेति वाशब्देन पञ्चशब्दस्यापि निपातनाङ्गीकारात् ।
प्रकृष्टः पञ्चः प्रपञ्चः ।
प्रकृष्टता च मोक्षाङ्गज्ञानतया भवति ।
सा च भेदसम्बन्धिन एव पञ्चकस्योपपन्ना ।
"वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते बद्धयते ऽन्यथाऽ; इत्यादेः ।
अतः प्रपञ्चो भेदपञ्चकः ।
सच जीवेश्वरप्रकृत्यादिनित्यस्वरूपभूतो ऽनादिनित्य एवेति नोक्तदोषः ।
टीकाकारस्तु मन्यते ।
भेदो नामान्योन्याभावः ।
स चान्योन्यतादात्म्यापत्त्यैव निवर्तनीयः ।
प्रतियोग्याप(ग्युत्प)त्तेरेवाभावविपत्तित्वस्य प्रागभावे दृष्टत्वात् ।
नच कदापि पदार्थानामन्योन्यं तादात्म्यमस्तीत्यनित्यानामपि भेदो नित्य एवेति ।
अन्ये ऽप्याहुः ।
"नित्ये च त्रयाणां सिद्धिःऽ; इति ।
व्यास -(7)
*4,607*
प्रपञ्चशब्दोभेदपञ्चकवाचीत्येतत्कुत इति चेत् ।
परोक्तानुपपत्तेरेवेति ब्रूमः ।
समानार्थायाः श्रुतेश्चेत्याह- जीवेति ॥
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।
जीवभेदो मिथश्चैव जडजीवभिदा तथा ।
मिथश्च जडभेदो यः प्रपञ्चो भेदपञ्चकः
सो ऽयं सत्यो ह्यनादिश्च ...
न्यायसुधा:
अत्र चशब्दास्तथाशब्दौ चान्योन्यसमुच्चये ।
एवशब्दावभेदसाहित्यव्यवच्छेदार्थौ ।
एष भेदपञ्चकः प्रपञ्च उक्तः ।
प्रपञ्चो यदि विद्येतेत्यादावित्यर्थः ।
सो ऽयं सत्यो ह्यनादिश्चेत्यनेन अत्रापि प्रतिज्ञाद्वयं बहिरेव कर्तव्यमिति ज्ञायते ।
तत्रानादित्वानङ्गीकारे बाधकं सादिश्चेदिति ।
... सादिश्चेन्नाशमाप्नुयात्
*4,608*
न्यायसुधा:
अनेन प्रथमश्लोकस्य पूर्वार्धो व्याख्यातो भवति ।
सत्यत्वाभावे बाधकं स्वयमूहनीयमित्यभिप्रेत्य तदुपसंहृतम्- द्वैतमिति ॥
द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम्
इति श्रुतेर् ...
न्यायसुधा:
तेनाज्ञात इत्युक्तार्थं भवति ।
श्रुत्यन्तरेणाव्याख्यातत्वान्मायामात्रमित्येतद्वयाचष्टे- मतमिति ॥
... मितं त्रातं मायाख्यहरिविद्यया
न्यायसुधा:
माङ् माने त्रैङ् पालन इत्याभ्यां घञऽर्थे कविधानमिति कर्मणि कप्रत्यये मात्रमिति भवति ।
धातुद्वयादप्येकः प्रत्ययः अदिभूभ्यां डुतच् अद्भुतमित्यादौ दृष्टः ।
"विष्णोः प्रज्ञप्तिरेवैका शब्दैरेवाभिधीयतेऽ; इत्यतो मायाख्यहरिविद्ययेत्युपपन्नम् ।
*4,618*
अद्वैतं परमार्थत इत्येतद्वयाख्याति- उत्तमो ऽर्थ इति ॥
उत्तमो ऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाध्यमम्
न्यायसुधा:
तस्योपपादनम्- तदन्यदिति ॥
यतस्तस्माद्धरेरन्यत्किञ्चिन्मध्यमं किञ्चिदधमं तस्मादुत्तमो ऽर्थो हरिरेवैक इति ।
"विकल्पो विनिवर्तेतऽ; इत्येतत्प्रपञ्चसत्यतायां स्फुटमिति न व्याकृतम् ।
इयमत्र योजना ।
"अनादिमायया सुप्तो यदा जीवः प्रबुद्धयते ।
अजमनिद्रमस्वप्नमद्वैतं बुद्धयते तदाऽ; ॥
इति
पूर्वश्लोके ऽनादिमायया परमेश्वरप्रज्ञया तदिच्छया वा जीवजातस्य प्रकृत्यादिजडावृतज्ञानत्वलक्षणं सुप्तत्वं तयैव परमेश्वरादितत्त्वविषयपरोक्षज्ञानलक्षणं प्रबोधमभिधाय अपरोक्षज्ञानमप्युक्तम् ।
तेन जीवेश्वरयोर्जडेश्वरयोर्जीवजडयोश्च भेदाः प्रतिपादिता ।
प्रभोरिच्छया निगडादिना पुरुषे बद्धे मुक्ते वा भेद(त्रय)दर्शनात् ।
*4,620*
प्राक्"प्रभवःसर्वभावानाम्ऽ; इति भावशब्दोक्तानां जीवानां मिथो भेदो ऽप्युक्तः ।
तत एवावरणानां जडानामपि मिथो भेदो ऽर्थाल्लभ्यते ।
तेषां च पञ्चानामपि भेदानाम्"अनादिमाययाऽ"अजमनिद्रम्ऽ; इत्यादिविशेषणसामर्थ्यादिनानादित्वमपि लब्धम् ।
तदेतत्पञ्चभेदस्य सत्यत्वमनादित्वं चोपपादयितुमिदं श्लोकद्वयम् ।
तत्र तावदनादित्वं विपक्षे बाधकप्रदर्शनेनोपपादयति- प्रपञ्च इति ॥
यदि च जडजीवभेदो निवर्तेत तदा जीवानां जडत्वापत्त्या मोक्षशास्त्रवैयर्थ्यमित्यादिरूपेण निवर्तेतेत्यस्यानिष्टत्वं द्रष्टव्यम् ।
न संशय इत्रत व्याप्तेनिर्श्चायकमाह ।
एवं भेदपञ्चकस्यानादितामुपपाद्य सत्यतायां प्रमाणमाह- मायामात्रमिति ॥
यस्मादिदं प्रपञ्चशब्दोक्तं द्वैतमुक्तरीत्या मायामात्रं तस्मात्सत्यम् ।
न ह्यविद्यमानमीश्वरप्रज्ञाविषयो भवति ।
भ्रान्तित्वप्रसङ्गात् ।
नाप्यविद्यमानं केनापि रक्ष्यते ।
अत्र द्वयोर्भावो द्विता ।
तदीयो वर्गो द्वैतम् ।
सामान्ये नपुंसकम् ।
प्रपञ्चसम्बन्धस्तु प्रकरणाल्लभ्यत इति ज्ञातव्यम् ।
तर्ह्यद्वैतःसर्वभावानामित्यादि कथमुक्तमित्यत आह- अद्वैतमिति ॥
यदिदं परमेश्वरस्याद्वैतत्वं(च) विशेषणमुक्तं न तत् द्वितीयवस्तुराहित्याभिप्रायेण ।
किन्तु परमार्थतः ।
ल्यब्लोपनिमित्ता पञ्चमी ।
उक्तममर्थमभिप्रेत्येति ।
सप्तम्यर्थे वा तसिः ।
उत्तमार्थविषय इति ।
भेदसत्यतानङ्गीकारे बाधकं चाह- विकल्प इति ॥
विकल्पः प्रकृतो भेदो यदि केनचिदज्ञानादिना कल्पितः स्यात्तर्हि चन्द्रभेदवन्निवर्तेत ।
बाध्येत ।
नच बाध्यते ।
तस्मान्न कल्पितः ।
किन्तु सत्य एवेति ।
उपसंहरति- उपदेशादिति ॥
तदेवमुपदेशाच्छत्याद्यनुसारित्वात् अयमेव सतां वादः ।
यो भेदसत्यत्वादिविषयः ।
द्वैतं न विद्यत इति तु तत्त्वे ऽज्ञाते सति भवति ।
अतो दुर्वाद इति ।
*4,625f.*
अधुना परिणामवादिना विवर्तवादिना च प्रतिज्ञादृष्टा तानुपरोधादिति सूत्रार्थतया गृहीताम्"उत तमादेशमप्राक्षऽ; इत्यादिकां श्रुतिं व्याख्याति ।
तत्र परिणामवादिनो व्याख्यानम्"उत तमादेशमप्राक्षः, येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ; इत्रत जगतो ब्रह्मपरिणामतया ततो ऽनन्त्वाभिप्रायेण तद्विज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् ।
तत्र सर्वस्य ब्रह्मोपादानतामजानता उपादानोपादेययोरपि भेदं मन्यमानेन श्वेतकेतुना अन्यज्ञाने सत्यन्यज्ञानस्य क्वाप्यदर्शनात् ।
"कथं नु भगवः स आदेशो भवतिऽ; इति चोदिते जगतो ब्रह्मोपादानतया तदनन्यत्वमुपदेक्ष्यन् लौकिकप्रतीतिसिद्धं कारणात्कार्यस्यानन्यत्वं, तज्ज्ञानेन तज्ज्ञानं च दर्शयति-"यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् ।
वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ।
यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् ।
वाचारम्भणं विकारो नामधेयं लोहमणिरित्येव सत्यम् यथा ।
सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात् ।
वाचाऽरम्भणं विकारो नामधेयं कार्ष्णायसमित्येव सत्यम्ऽ; इति ।
यथैकमृत्पिण्डादिपरिणामानां घटादीनां तदनन्यया तज्ज्ञानेन ज्ञाततेति दृष्टान्तत्रयार्थः ।
अनन्यत्वे कथं कार्यत्वमित्याशङ्कय व्यवहारार्थमित्याह- वाचाऽरम्भणमिति ।
वाचेति षष्ठयर्थे तृतीया ।
वाग्ग्रहणं समस्तेन्द्रियव्यवहारोपलक्षणम् ।
विकारो ऽभिधेयो घटादिः, नामधेयं तदभिधानमिति कुम्भादेर्वाच्यस्य तद्वाचकानां च स्वरूपकार्यव्यपदेशादिभेदात्परस्परं भेदो वास्तव इत्युक्तम् ।
एतैर्हेतुभिः परस्परं भेदश्चेत्कारणादपि तैरेव भेद इति पूर्वपक्षं निषेद्धुमाह- मृत्तिकेत्येव सत्यमिति ॥
इतिशब्दः प्रकारवचनः ।
यत्प्रकारेण यत्सत्तया मृत्तिका सती तत्प्रकारेणैव मृण्मयं सत्यम् ।
नाश्वमहिषादिवन्नैरपेक्ष्येणेति ।
*4,626*
विवर्तवादी तु व्याचष्टे ।
एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्ताकाङ्क्षायामुच्यते- यथा सोम्येति ॥
एतदुक्तं भवति ।
एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृण्मयं घटादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् ।
यतो वाचारम्भणं विकारो नामधेयम् ।
वाचा केवलमस्तीत्यारभ्यते ।
विकारो घटः शराव उदञ्चनं चेति ।
नतु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति ।
नामधेयमात्रं ह्येतदनृतम् ।
मृत्तिकेत्येव सत्यमित्येष ब्रह्मणो दृष्टान्त आम्नात इति ।
*4,630*
तत्रैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं मृत्पिण्डादिदृष्टान्ताश्च विकारविवर्ताभिप्राया इत्ये(वं)तत् न तावद्वाक्यात्प्रतीयते ।
किन्तु वाचारम्भणमित्युपपादकवाक्यबलादिति वक्तव्यम् ।
अतस्तदेव प्रथमं व्याकुवर्न्वाचारम्भणशब्दार्थमाह- वाचारब्धमिति ॥
वाचारब्धं तु साङ्केत्यं नाम स्याद् ...
न्यायसुधा:
नन्वारम्भणशब्दो ल्युडन्तः ।
ल्युट् च भावे करणाधिकरणयोश्च विहितो न कर्मणि नच"कृत्यल्लुटो बहुलम्ऽ; इति कर्मणि ल्युट् ।
प्रबलनियामकमन्तरेण बहुलग्रहणस्य कर्मणि व्याख्यातुमशक्यत्वात् ।
"न चारभ्यस्यारम्भणमिति युज्यते शब्दःऽ; इति स्ववचनविरोधाच्च ।
तत्कथमारब्ध इति व्याख्यानमिति ।
मैवम् ।
भाव एवारम्भणशब्दस्याङ्गीकारात् ।
वाचा वागिन्द्रियेणारम्भणमुत्पादनं यस्येति तृतीयाया अलुक् ।
"टापं चापि हलन्तानां यथा वाचा निशा दिशाऽ; इति वचनात्, वाचयाऽरम्भणं यस्येति वा बहुव्रीहिरयम् ।
तस्यार्थकथनं वाचाख्यमिति ।
तुशब्दो ऽवधारणार्थ उत्तरत्र सम्बद्धयते ।
वाचारम्भणशब्दादेव विकारत्वलाभाद्विकार इति पुनरुक्तं स्यादतस्तात्पर्यमाह- साङ्केत्येति ॥
वाचारम्भणशब्देन साङ्केतिकं नामैव वाच्यं स्यात् ।
अवयवार्थकथनं तु वैशद्यार्थमेव ।
यथा चष्टे ऽनेनेति चक्षुरिति निर्वचनलभ्येति दर्शनकारणत्वे चक्षुषा पश्यतीति नोक्तार्थता ।
तस्यां दशायामवयवार्थस्याविवक्षितत्वात् ।
तथाच वाचारम्भणशब्दो ऽपि साङ्केतिकपर्याय इति ।
*4,634*
... विकृतं बहु
न्यायसुधा:
विकारशब्दार्थमाह- विकृतमिति ॥
अनेन विक्रियत इति विकार इति कर्मणि घञित्युक्तं भवति ।
विकृतत्वोपपादकमर्थान्तरं चाह- वह्निति ॥
विविधः मृत्तिकेत्येव सत्यमित्यस्यार्थमाह- त्विति ॥
नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम्
न्यायसुधा:
सत्यशब्दार्थो नित्यमिति ॥
तुशब्दो ऽवधारणे ।
आदिशब्देन लोहमण्यादेर्ग्रडणम् ।
यन्मृत्तिकेत्यादि संस्कृतं नामधेयम् तदेव नित्यमिति सम्बन्धः ।
वैदिकमिति तदुपपादनम् ।
*4,635*
ततश्चैवं योजना ।
वाचारम्भणं साङ्केतिकं नामधेयं विकार उत्पत्तिमत् ।
तत एवानित्यम् ।
कुतः ।
बहुविधत्वात् ।
पुरुषेच्छानुसारेणानेक(विध)प्रकारत्वात् ।
मृत्तिकेत्यादिनामधेयं वैदिकत्वान्नित्यमनादि चेति ।
नच वाचारम्भणं विकार इति लिङ्गवैषम्यदोषः ।
नामधेयविकारशब्दयोर्नियतलिङ्गत्वात् ।
वाचारम्भणशब्दस्य च नामधेयविशेषणत्वात् ।
विशेषणानां च विशेष्यनिघ्नत्वात् ।
अत एव साङ्केत्यमित्येव वक्तव्ये साङ्केत्यनामेत्यवोचत् ।
यदा तु वाचा यस्यारम्भणं तन्नामधेयं विकारो जनिमदिति, वाचा नाम्नामारम्भणं विविधाकारः, आकाराकारिणोरभेदात् ।
विकारित्वादुत्पत्तिविनाशवदिति यावदिति वा ग्रन्थान्तरोक्ता योजना, तदा(तु) लिङ्गव्यत्यासशङ्कैव नास्तीति ।
*4,638f.*
ननु च साङ्केतिकानामनामुत्पत्तिविनाशवत्त्वं संस्कृतनाम्नामनादिनित्यत्वं किमर्थमत्रोच्यते ।
परमप्रकृते ब्रह्मविज्ञानेन सर्वविज्ञाने ऽवान्तरप्रकृते ऽस्माकमिवदृष्टान्ते (वो)चोपयोगाभावात् ।
अतो ऽसङ्गतत्वान्नायं श्रुत्यर्थ इति ।
मैवम् ।
यद्यपि परस्येव नेदं दृष्टान्तोपपादकम् ।
तथापि ब्रह्मज्ञानेन सर्वविज्ञाने दृष्टान्तान्तरतयोपयोक्ष्यते ।
यथा तेन तद्विज्ञातं स्यादिति, प्रकृतानुवृत्तेरित्याशयवानाह- प्राधान्यादिति ॥
*4,639*
प्राधान्यात् तत्परिज्ञानात् प्राकृताज्ञो ऽपि पूरुषः ।
विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित्
न्यायसुधा:
इदमुक्तं भवति ।
कृतकत्वादनित्यत्वाच्च परापेक्षत्वेन साङ्केतिकं नामाप्रधानम् ।
अनादिनित्यत्वात्परानपेक्षत्वेन संस्कृतं प्रधानम् ।
तत्र यथा प्राधान्यात्संस्कृतज्ञानमात्रेण साङ्केतिकं ज्ञानं भवति ।
तज्ज्ञानेन यत्फलं विद्वद्वयवहारगोचरत्वादिकं तद्भवतीति यावत् ।
एवमनित्यत्वादिनाप्रधानस्य देवताकर्मादिमिश्रस्य सकलस्यापि जगतो ज्ञानेन यत्फलं तत्समस्तमपि नित्यत्वादिना प्रधानस्य परमात्मनो ज्ञानाल्लभ्यते ।
तत्फले ऽन्तर्भवतीति ।
अत्र प्राकृताज्ञो ऽपीत्यनेन फलापेक्षयेदमिति सूचितं (भवति) ।
एवं तर्ह्येकविज्ञानेन सर्वविज्ञानममुख्यं स्यादिति चेत् ।
सत्यम् ।
नहि परेणापि तन्मुख्यं व्याख्यातुं शक्यम् ।
तथा सति दृष्टमृदः पुरुषस्य घटशरावादिसंस्थानविशेषादिजिज्ञासाभावप्रसङ्गात् ।
पामरा न हि विद्वानिति वदन्ति, अतः सद्भिरित्युक्तम् ।
एवं नित्यपरात्मविदिति वाक्यस्योक्तानुसारेण शेषो ज्ञातव्यः ।
*4,641*
ननु सत्यशब्दः कथं नित्यार्थः ।
रूढेर्योगस्य चाभावादित्यतो योगं तावद्दर्शयति- सदातनमिति ॥
सदातनं सत्यमिति नित्यमेवोच्यते बुधैः
*4,642*
न्यायसुधा:
सत्यमितीत्यावर्तनीयम् ।
सदातनं सत्यमिति निर्वचनेन सत्यमिति पदेन नित्यमुच्यत एव ।
न तूपचर्यत इति ।
बुधैर्वैयाकरणैरिति निर्वचनमूलं सूचयति ।
सदाशब्दात्तत्र भव इत्यर्थे"अव्ययात्त्यप्ऽ; इति त्यप्प्रत्यये कृते"सर्वस्य सो ऽन्यतरस्यां दिःऽ; इत्यत्र योगविभागात्सदाशब्दस्य सो ऽन्यतरस्यां भवति ।
सदाशब्दाद्भवार्थे तद्धिता इति ड्यप्रत्ययो वोत्पाद्यः ।
दकारस्य च तकारः ।
*4,643*
इदानीं रूढिमपि दर्शयति- प्रयोगश्चेति ॥
प्रयोगश्चोत्तरत्रास्ति ...
*4,644*
न्यायसुधा:
उत्तरत्राष्यमे प्रपाठ(घट्ट)के सत्यशब्दस्य नित्यत्व एव प्रयोगश्चास्तीति सम्बन्धः ।
तमेव प्रयोगं दर्शयितुं"यदैनं जरावाप्नोति प्रध्वंसते वा किं ततो ऽ(स्याति)वशिष्यत इति स ब्रूयान्नास्य जरयैतज्जीयर्ते न वधेनास्य हन्यते एतत्सत्यं ब्रह्मपुरम्ऽ; इति वाक्यमर्थतः पठति- जरेति ॥
... जरा यद्येनमाप्नुयात्
देहः प्रध्वंसते वायं किं ततो ऽस्यातिशिष्यते ।
हन्यते न वधेनायं जरया च न जीर्यति
एतत् सत्यं ब्रह्मपुरमिति नित्यत्व एव हि
न्यायसुधा:
यदैनं देहं जरावाप्नोति प्रध्वंसते वायं देहः, (तदा)ततस्तदस्य देहस्यान्तर्गतः परमात्मा दह्यमानगेहान्तर्गतगगनवत्किमतिशिष्यते किंवा पटादिवन्नश्यतीति पृष्टे, नास्य देहस्य जरयायं परमात्मा जीर्यते, अस्य वधेन न हन्यते, किन्त्वेतद्ब्रह्म पूर्णत्वात्पुरं सत्यं नित्यमिति परिहारो ऽभिधीयते ।
इतिशब्दस्य पूर्वेणान्वयः ।
अत्रापि सत्यशब्दः कुतो नित्यार्थ इत्यत आह- नित्यत्व एव हीति ॥
*4,644f.*
अत्र सत्यशब्दो नित्यार्थश्चेत्सङ्गच्छते ।
विनाशस्य प्रकृतत्वात् ।
तथ्यार्थतायामसङ्गतिः ।
अनृतताया अप्रस्तुतत्वादिति हिशब्दार्थः ।
एतदेव स्पष्टीकर्तुमेतत्सत्यं ब्रह्मपुरमित्येतावति पठितव्ये पूर्ववाक्यमपि पठितम् ।
पूर्वेणैव सम्बन्धः ।
ब्रह्मणो जरावधयोरभावे सत्यत्वं हेतुत्वेनोच्यत इति चेत् ।
न ।
त्वया ब्रह्मव्यतिरिक्त(स्य)सत्यस्यानभ्युपग(मे)तत्वेनान्वयाभावात् ।
जराद्युपेतानां देहानामसत्यत्वास्यासिद्धेः असत्यानां च शुक्तिरजतादीनां जराद्यभावेन व्यतिरेकस्याप्यभावात् ।
ननु तथापि वाचारम्भणवाक्यं त्रिवारं कस्मात्पठ्यते ।
शब्दान्तरं दृष्टान्तीकर्तुमिति ब्रूमः ।
तर्हि षडेते दृष्टान्ताः स्युः ।
एवमैवैतत् ।
तथा सति संस्कृतशब्ददृष्टान्तत्रयमेकत्रैव वक्तव्यम् ।
मैवम् ।
तत्तदभिधेयप्रसङ्गायत्तस्य तदभिधानस्य तदैव वक्तव्यत्वात् ।
तथापि प्रतिशब्दं दृष्टान्तीकरणे ऽपर्यवसानप्रसक्तेरुपलक्षणत्वे चैकेनापि कृतत्वाच्छब्दत्रयोपादानमनुपपन्नमिति चेन्न ।
मृत्पिण्डादिदृष्टान्तत्रयोपादाने ऽप्यस्य समानत्वात् ।
गहने प्रमेये त्रयोपादानं न दोषाय ।
किन्तु बुद्धिवैशद्यहेतुतया गुणयैवेति चेत् ।
समं प्रकृते ऽपीति ॥
*4,646*
एवं स्वमतेन वाचारम्भणमित्यादिवाक्यं व्याख्याय विवर्तवाद(दि)व्याख्याने दोषमाह- वाचारम्भणमिति ॥
वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम्
न्यायसुधा:
उक्तम्- उक्तिः शब्द इति यावत् ।
वाचारम्भणमिति शब्दे मिथ्येतिव्याख्यायमाने सतीति शेषः ।
तथाहि ।
किं रूढिमाश्रित्य वाचारम्भणमित्यस्य मिथ्येति व्याख्यानं क्रियते ।
किंवा योगम् ।
आद्ये रूढिज्ञापकप्रमाणाभावादश्रुतकल्पनम् ।
अथारभ्यत इत्यारम्भणमिति द्वितीयः ।
तथापि कृद्योगे षष्ठयां प्राप्तायां तृतीयाङ्गीकारे ऽश्रुतकल्पनम् ।
ल्युटः कर्मणि विधानाभावाच्चाश्रुतकल्पनमेव ।
अस्मिन्नपि पक्षे मिथ्यात्वस्यालाभादश्रुतकल्पनम् ।
वाचारभ्यत्वमात्रेण तथात्वे ब्रह्मणो ऽपि तत्प्रसङ्गात् ।
वाचा केवलमारभ्यते विकारो न तु वस्तुवृत्तेनास्तीति व्याख्याने मिथ्यात्वं लभ्यत इति चेन्न ।
यतः श्रुत्या वाचारम्भणमित्येवोक्ते केवलशब्दप्रक्षेपेण मिथ्येति व्याख्याने ऽश्रुतकल्पनमेवेति ।
*4,648*
दूषणान्तरमाह- पुनरुक्तिरिति ॥
पुनरुक्तिर्नामधेयम् ...
*4,648f.*
न्यायसुधा:
इतिशब्दो ऽत्राध्यहार्यः ।
आगामिनो वा काकाक्षिन्यायेनोभयत्र सम्बन्धः ।
नामधेयमित्येतन्नामधेयमात्रं ह्येतदनृतमिति परेण व्याख्यातम् ।
तस्य वाचारम्भणमित्यनेनैव गतार्थत्वान्नामधेयमिति पुनरुक्तिः स्यात् ।
अथ विकारो नामधेयं च द्वयमपि वाचारम्भणमिति व्याख्यानं, तथापि विकारशब्देनैवाभिधेयाभिधानयोर्ग्रहणसम्भवान्नामधयेमिति पुनरुक्तिरेवेति ।
तन्नामरूपाभ्यां व्याक्रियत इत्यादिश्रुतेः ।
*4,649*
दोषान्तरमाह- इतीत्यस्येति ॥
... इतीत्यस्य निरर्थता
*4,649f.*
न्यायसुधा:
मृत्तिकायाः सत्यत्वं हि परस्य विवक्षितम् ।
तत्र मृत्तिकैव सत्येति वक्त(व्यम्)व्ये इतिशब्दस्तु निरर्थक एव ।
स हि क्वचित्पदार्थविपर्यासकृत्, क्वचिद्धेतौ, क्वाप्येवमित्यर्थे, कुत्रचिदादिशब्दार्थे, क्वचित्प्रकारार्थे, क्वचित्परिसमाप्तौ ।
न चात्रै(ते)वमादिष्वन्यतमेनार्थेनार्थवान् ।
अस्माकं तु"शब्दादर्थे सम्प्रत्ययःऽ; इति मृत्तिकार्थे प्राप्ते तत्परिहारेण शब्दस्वरूपग्रहणार्थं तदुपपत्तिः ।
परिणामवादिनो ऽपि कृद्योगे तृतीयाया अङ्गीकृतत्वात् ल्युटः कर्मणि व्याख्यातत्वाद्वाचारम्भणं विकारो नामधेयमित्येतेषां पदानामन्वयाभावेन पदान्तराध्याहारस्येष्टत्वादश्रुतकल्पनम्, नामधेयस्यापि विकारग्रहणेन ग्रहणसम्भवात्पुनरुक्तिः, इतिशब्दस्य निरर्थकता चेति स्फुटत्वान्नोक्तम् ।
*4,651*
ननु तेनेतिशब्दः प्रकारवचन इत्युक्तम् ।
तत्कथं निरर्थकता ।
उच्यते ।
कार्यकारणयोर्भेदशङ्कानिरासार्थं हीदमुच्यते ।
तत्र यत्सत्तया मृत्तिका सती तयैव मृण्मयं सत्यमिति व्याचक्षाणेन वक्तव्यम्, केयं सत्ता विवक्षितेति ।
स्वरूपसत्ता चेत्साध्याविशिष्टता ।
यो हि कार्यकारणयोर्भेदं मन्यते, स कथं कारणस्वरूपेणैव कार्यं स्वरूपवदित्यङ्गीकुर्यात् ।
अथ सामान्यसत्ता ।
सानैकान्तिकी ।
नहि महिषसत्तया सन्नश्वो महिषान्न भिद्यते ।
अथ मृत्तिकासत्ताधीनसत्ताकं मृण्मयमिति विवक्षितमिति, तथापि कुलालादिसत्ताधीनसत्ताकमपि भवतीत्यनैकान्त्यमेव ।
विरुद्धं च(चै)तत् ।
यद्यदधीनं तदेव तदिति ।
अतो विवक्षितसाधनानुपयोगित्वादितिशब्दस्य तन्मते ऽपि निरर्थकतैवेति ।
*4,652*
इदानीं यथा सोम्येत्यादीनि दृष्टान्तवाक्यानि स्वमतेन व्याकरिष्यन्परकीयव्याख्यायां तावद्दोषमाह- एक इति ॥
एकः पिण्डो मणिश्चेति पदवैयथ्यर्मेव च
विकारत्वविवक्षायां ...
*4,652f.*
न्यायसुधा:
पदसमुच्चये प्रथमश्चशब्दः ।
इतिशब्दस्य प्रत्येकं सम्बन्धः ।
वैयर्थ्यं विगतार्थत्वं विरुद्धार्थत्वं च ।
एवशब्देन वैयर्थ्यस्यापरिहार्यतामाह ।
चशब्दस्य विवर्तविवक्षायां चेत्यर्थः ।
जगतो ब्रह्मविकारत्वेन तदारोपितत्वेन चैकविज्ञानेन सर्वविज्ञाने विवक्षिते मृदा विज्ञातया मृण्मयं विज्ञातं स्यात् ।
लोहेन विज्ञातेन लोहमयं विज्ञातं स्यात् ।
कृष्णायसा विज्ञातेन कार्ष्णायसं विज्ञातं स्यादित्येतावता पूर्णत्वात्त्रयाणामेकशब्दानां पिण्डमणिनखनिकृन्तनशब्दानां सर्वशब्दानां च विगताथर्त्वं स्यात् ।
सर्वमृण्मयादीनामेकमृत्पिण्डादिविकारत्वाभावाद्विरुद्धार्थता च स्यात् ।
आरोपितत्वं त्वेकस्यापि मृण्मयस्यैकस्मिन्मृत्पिण्डे नास्ति ।
कुतः सर्वस्य ।
युक्त्या समथ्यर्त इति चेत् ।
तर्हि विवादपदत्वेन दृष्टान्ततानुपपत्तिः ।
"लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तःऽ; इति हि न्यायविदः ।
किन्तु घटादीनामबाधितप्रत्यक्षादिसिद्धत्वेन युक्तिरेवाभासभूतेति परमाणुपुञ्जवादनिरासे वक्ष्यते ।
आरोपितत्वे ऽपि नैकस्मिन्सर्वमित्येकादिपदानां वैयर्थ्यमेव ।
नन्वकेनेति परमाकारणस्यैकत्वं पिण्डेनेति कार्याभिमुख्यं सर्वमिति कार्यनानात्वं विवक्षितम् ।
अतः कथं वैयर्थ्यमिति ।
मैवम् ।
दार्ष्यान्तिकवाक्ये तद्विवक्षायामत्र वैयर्थ्यापरिहारात् ।
*4,655*
अपि चाद्ययोर्दृष्टान्तयोः कार्यकारणभावमात्रमस्ति ।
किन्त्वेकादिपदवैयर्थ्यमेव ।
इदन्तु सर्वथा नोपपद्यते, यथा सोम्यैकेन नखनिकृन्तनेनेति ।
नखनिकृन्तनस्यान्त्यावयवित्वेन कार्ष्णायसान्तरं प्रति कारणत्वस्यैवासम्भवात् ।
किम्वेकस्य सर्वं प्रतीत्याह- नचेति ॥
... नचैकनखकृन्तनम् ।
सर्वकार्ष्णायसं च स्याद् ...
न्यायसुधा:
सर्वं चेति द्वितीयचशब्दसम्बन्धः ।
यद्यत्र दृष्टान्तत्रये न विकारविवर्तविवक्षा किं तर्हि विवक्षितमित्यत आह- अत इति ॥
... अतः सादृश्य एव च
विवक्षात्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना
*4,655f.*
न्यायसुधा:
अर्थान्तरस्य दूषितत्वादित्यर्थः ।
चशब्दावितरोतरसमुच्चये ।
तुशब्देन नित्यत्वं विशिनष्टि ।
नित्यत्वं प्राधान्योपपादकमेव न तु स्वतन्त्रमेकविज्ञानेन सर्वविज्ञानस्येति ।
मृत्पिण्डादिदृष्टान्तत्रयं सादृश्यविषयम् ।
वाचारम्भणमित्यादि तु प्राधान्यविषयमिति विवेक्तव्यम् ।
वाचारम्भणदृष्टान्तस्य पूर्वमेव व्याख्यातत्वात्किं पुनर्वचनेनेति चेन्न ।
बुद्धयारोहार्थमुक्तस्याप्यनुक्तेन सहैकेन वाक्येनोक्तिसम्भवादित्याशयेनोक्तम्- उक्तेति ॥
सादृश्यादेकविज्ञानेन सर्वविज्ञानमाचार्येणान्यत्र व्युत्पादितमत्रानुसन्धेयम् ।
तथा मृत्पिण्डादिदृष्टान्तानामवान्तरभेदो ऽपीति ।
*4,657f.*
नन्वस्मिन्नपि पक्षे"सदेव सोम्येदमग्र आसीत्ऽ; इत्यादेरुत्तरग्रन्थस्य सङ्गत्यभावो दोषः ।
अस्माकं तु कार्यकारणभावादिप्रपञ्चार्थत्वेन अस्त्युपयोग इत्यत आह- प्राधान्येति ॥
प्राधान्यप्रतिपत्त्यर्थं सृष्टयादेश्चैव विस्तरः
न्यायसुधा:
आदिपदेन प्रलये ऽवस्थानं त्रिवृत्करणं जीवरूपेण प्रवेशनमित्यादिकं गृह्यते ।
प्राधान्याद्ब्रह्मज्ञानेन सर्वज्ञानस्य फलं भवतीत्युक्ते, कुतस्तस्य प्राधान्यमित्याशङ्कायां, तत्प्रतिपत्त्यर्थं सृष्टयादेः प्रतिपादक एव ग्रन्थविस्तरः प्रवृत्तो ऽतः कथमसङ्गतिरिति ।
चशब्दो ऽवधारणे ।
न तूपादानत्वादिप्रतिपत्त्यर्थमिति ।
न ह्युपादनां प्रेक्षापूर्वं कार्यं करोति ।
नाप्यधिष्ठानमध्यस्तम् ।
एष चेति वा सम्बन्धः ।
तेन"अपागादग्नेरग्नित्वम्ऽ; इत्याद्यपि परस्य ब्रह्मणः प्राधान्यप्रतिपत्त्यर्थमेवेत्युक्तं भवति ।
तथाचोक्तं भाष्ये ।
*4,659*
विवर्तमतनिराकरणमुपसंहरति- तस्मादिति ॥
तस्मात् केनापि मार्गेण न विवर्तमतं भवेत्
न्यायसुधा:
केनापि मार्गेणेति ॥
ब्रह्माविद्यापेक्षया वा, जीवाविद्यापक्षेण वा, एकजीवमतेन वा, अनेकजीवमतेन वा, स्वपक्षसाधनेन वा, परपक्षनिरासेन वा, युक्तिपर्यालोचनया वा, श्रुतिपर्यालोचनया वा, विचारितमिति शेषः ।
न भवेत् उपपन्नमित्यध्याहारः ।
ततः किमित्यत आह- तदिति ॥
तदसङ्खयातदोषेतं हेयमेव शुभार्थिभिः
न्यायसुधा:
तत् विवर्तमतम् ।
तस्मादित वा ।
तस्यैव विवरणं असङ्खयातदोषेतं यस्मादिति ।
हेयमेव तत् ।
नतु तदुक्तरीत्या सूत्रार्थो ग्राह्यः ।
एतेन परमतनिराकरणस्यासङ्गतिरपि निरस्ता वेदितव्या ।
यद्युक्तातिरिक्तदोषाः सन्ति ।
तर्हि दूषणाभिधानाय प्रवृत्तैर्वक्तव्याः ।
किमुपरमेणेत्यत आह- असङ्खयत्वेनेति ॥
*4,660*
असङ्खयत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ।
उपरम्यते ... ॥ मनुव्_1,4.123अ-च् ॥
न्यायसुधा:
दोषाणामतिबहुत्वेन कांश्चिदुक्त्वा केषाञ्चिदुपलक्षणे(णत्वे)नैवोपरन्तव्यम् ।
उपलक्षणं चैतावतापि भवतीत्युपरम्यत इति ।
सर्वे ऽपि वक्तव्याः, किमुपलक्षणत्वेनेत्यत उक्तम्- ग्रन्थेति ॥
ग्रन्थाधिक्ये हि श्रोतॄणां प्रवृत्तिर्न स्यात् ।
तथाच कृतमप्यकृतं स्यादिति भयादपीत्यर्थः ।
यदि नोपादानतया विभ्रमाधिष्ठानतया वा, ब्रह्मणो जगत्कारणत्वं, कीदृशं तर्हि जन्मादिसूत्रे ऽभितिहमित्यत आह- तत इति ॥
... ततो विष्णुरिच्छापूर्वकमश्रमः ।
करोति पितृवद् विश्वं ...
न्यायसुधा:
परिणामादिवादस्य निरस्तत्वादित्यर्थः ।
पितृवदिच्छापूर्वकमिति कतृत्वेन निमित्तत्वमभिप्रैति ।
विचित्रानेककार्यकर्तृत्वे श्रमादिदोषाः प्रसज्यन्त इत्यत उक्तम्- अश्रम इति ॥
तदुक्तमन्तर्याम्यधिकरणे ।
यद्वाश्रम इत्येनेनेदमभिप्रैति ।
"अधिकं तु भेदनिर्देशात्ऽ; इत्यादिना ब्रह्मणः श्रमादिर्निरसिष्यते ।
नचापादानादेः श्रमादिप्रसक्तिरस्ति ।
अतो ऽपि कर्तृत्वमेवाभिप्रेतं सूत्रकारस्येति ।
एवमस्मिन्नध्याये परब्रह्मणि नारायणे प्रतिपादितस्य सकलश्रुतिसमन्वयस्य फलं जन्मादिसूत्रोदितलक्षणसिद्धिमुपसंहरति- पूर्णेति ॥
... पूर्णशेषगुणात्मकः
मूल पाठ: Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0