भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसुधा · अध्याय 1.3

1.3.1

न्यायसुधा:
तत् तस्मादज्ञप्राज्ञरूढित्वादेव ।
आनन्दमयाधिकरणान्ते व्युत्पादितन्यायादिति वेति ।
॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयः पादो ऽयं प्रथमविषये पर्यवसितः ॥
॥ इति श्रीमन्न्यायसुधायां प्रथमाध्यायस्य द्वितीयः पादः ॥ ॥
अध्यय 1, पद 3
[======= ज्न्य्स्_1,3.इ: द्युभ्वाद्यधिकरणम् =======]
*4,1*
भिन्नवाक्यत्वादिसिद्धये तृतीयपादप्रतिपाद्यमर्थं दर्शयति- तत्रेति ॥
तत्रान्यत्र च सिद्धानां लिङ्गनाम्नां पुनर्हरिः ।
विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्तयजः

1.3.1

*4,1f.*
न्यायसुधा:
हरिः सूत्रकारः अत्र पादे लिङ्गानां नाम्नां च स्वस्मिन्वृत्तिं वक्ति ।
ननु पूर्वेण पादद्वयेनोक्ता सेत्यत उक्तम्- पुनरिति ॥
ननु तर्हि वैयर्थ्यमित्यत उक्तं तत्र हरौ, अन्यत्र च तस्मात्, प्रसिद्धानामिति ।
पूर्वत्र त्वन्यत्र प्रसिद्धानामित्युक्तमेव ।
परमेश्वरे प्रसिद्धानि चेल्लिङ्गनामानि किं समन्वयप्रतिपादनेन ।
सिद्धत्वादित्यत उक्तम्- स्वस्मिन्नेवेति ॥
अन्ययोगव्यवच्छेदः, प्रयोजनमिति भावः ।
तत्किमन्यत्र शब्दवृत्तिरेव नास्ति ।
न नास्ति ।
किन्तु मुख्यतः परमेश्वरे अन्यत्र त्वमुख्येत्युक्तम्- मुख्यत इति ॥
एवं सत्यन्यत्र लक्षणादिकमेव प्राप्तमित्यत उक्तम्- विशेषादिति ॥
परममुख्या वृत्तिरीश्वरे अन्यत्र मुख्यादीति ।
एतदुक्तं भवति ।
ये शब्दाः लोकदृष्टया अन्यत्र शक्तिमन्तः तेषां वेदवाक्येष्वन्यपरत्वे प्राप्ते शक्तितात्पर्याभ्यां भगवदेकनिष्ठत्वं पादद्वयेन प्रतिपादितम् ।
अत्र तूभयत्र शक्तिमत्तया लोकप्रसिद्धानामन्यत्र तात्पर्ये प्राप्ते, भगवत्येव शक्तितात्पर्ये प्रतिपाद्येते इति ।
यद्यपि प्राधान्यक्रमानुरोधेन नामलिङ्गानामिति वक्तव्यम् ।
तथाप्युत्तरप्रतिपादनानुसारेण लिङ्गनाम्नामित्यभिहितम् ।
*4,5*
॥ ओं द्युभ्वाद्यायतनं स्वशब्दात् ओं ॥
द्युभ्वाद्यायतनं स्वशब्दात्

1.3.3

अत्र"यस्मिन् द्यौःऽ; इत्यदिवाक्यप्रतिपाद्यं द्युभ्वाद्यायतनं विष्णुरेवेति प्रतिपाद्य, पूर्वपक्षिणा शङ्कितानां रुद्रादीनां निराकरणार्थं सूत्रितम् ओं नानुमानमतच्छब्दात् ओं ।
॥ ओं प्राणभृच्चेति ओं ॥
तत्रातच्छब्दादिति तच्छब्दाभावादिति व्याख्यातं भाष्ये ।
तदयुक्तमिवाभाति ।
असामर्थ्येन समासानुपपत्तेः ।
तत्र"छन्दोवत्सूत्राणि भवन्तिऽ; इति वा ।
"अकर्तरि च कारकेऽ; इति ज्ञापकादसामर्थ्ये ऽपि क्वचित्समासो भवतीति वाऽ"अर्थाभावे यदव्ययम्ऽ; इत्यव्ययीभावो वेति समाधानमवधातव्यम् ।
अथवा तेभ्यः शिवादिभ्यो ऽन्यत् अतद् ब्रह्म तस्य, शब्दो ऽतच्छब्दस्तस्मादिति व्याख्यानमित्याशयवानाह- विष्णावेवेति ॥
नानुमानम् अतच्छब्दात्

1.3.8

विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् ।
श्रुतिर्वक्त्य्... ॥ मनुव्_1,3.2अ-च् ॥
न्यायसुधा:
रूढत्वात्प्रसिद्धत्वादित्यर्थः ।
नतु रूढिवृत्त्योपेतत्वादिति ।
महारूढियोगाभ्यां तस्य तत्र प्रवृत्तेः ।
तस्य चात्र श्रवणादिति शेषः ।
श्रुतिः"यस्मिन्द्यौःऽ; इत्यादिका ।
अथवा अन्यत्रापि सिद्धान्तसाधकस्यैव पूर्वपक्षनिरासे ऽपि हेतुत्वं द्रष्टव्यम् ।
तेन न न्यूनतादोष इत्येतत्प्रदर्शयितुं सिद्धान्तसाधकस्यैव पूर्वपक्षनिरासे ऽपि व्यापारं दर्शयितुमिदं सूत्रद्वयमित्यनेनोच्यते ।
ननु तर्हि तच्छब्दादित्येवास्तु ।
तदिति च ब्रह्मपरामर्शो व्याख्यास्यते ।
मैवम् ।
अनेकार्थत्वे तच्छब्दो ऽन्यार्थो ऽपि सम्भवति ।
अतस्तस्यैव शब्दादिति वक्तव्यम् ।
तदर्थमतच्छब्दादिति प्रयुक्तम् ।
(दित्युक्तम् । ) अत एवाह- विष्णावेवेति ॥
*4,14f.*
[======= ज्न्य्स्_1,3.इइ: भूमाधिकरणम् =======]
॥ ओं भूमासम्प्रसादादभ्युपदेशात् ओं ॥
इदं कश्चिद्वयाख्याति ।
भूमा परमात्मा ।
कुतः ।
सम्प्रसीदत्यत्रेति सम्प्रसादः सुप्तिः ।
तत्र जाग्रत्प्राणः सम्प्रसादशब्देन लक्ष्यते ।
तस्मादूर्ध्वमुपदेशादिति ।
अपर आह"सम्प्रसादो जीवात्मा ।
तस्मादूर्ध्वमुपदेशादिति ।
तदुभयमप्यसत् ।
प्रसिद्धप्राणादिपदपरित्यागेनाप्रसिद्धसम्प्रसादपदोपादाने कारणाभावात् ।
अतो ऽध्युपदेशादित्येव हेतुः ।
ननु कथं तस्य परमात्मत्वसाधकता ।
अन्यत्रापि सम्भवादित्यतो व्याख्याति- अखिलेशत्वादिति ॥
*4,15*
भूमा संप्रसादाद् अध्युपदेशात्

1.3.2

...अखिलेशत्वाद् भूमा विष्णुः सुखाधिकः

1.3.10

न्यायसुधा:
अधिशब्दो हीश्वरवाची ।
तथाच विशेषानुक्तेरखिलेशत्वमेवोक्तं भवति ।
नचैतदसिद्धम् ।
नामवागादीनां पूर्वपूर्वाधिपत्यस्योक्तत्वादिति ।
ननु तर्हि सम्प्रसादादित्येतदनाकाङ्क्षितत्वात् व्यर्थमापन्नमिति चेन्न ।
हेत्वन्तराभिधायकत्वादित्याशयेन व्याचष्टे- सुखाधिक इति ॥
प्रसीदत्य(न्त्य)नेनेति प्रसादः सुखम् ।
सम्यक् प्रसादः सम्प्रसादः ।
गुणगुणिभावाभ्युपगमेन सुखाधिक इति तात्पर्यार्थो ऽभिहितः ।
य(स्मात्तस्मा)तस्तस्मादिति शेषः ।
*4,18*
[======= ज्न्य्स्_1,3.इइइ: अक्षराधिकरणम् =======]
॥ ओं अक्षरमम्बरान्तधृतेः ओं ॥
अक्षरम् अम्बरान्तधृतेः

1.3.12

"एतद्वै तदक्षरं गार्गीऽ; इत्यत्रोक्तमक्षरं ब्रह्मैवेत्युक्तम् ।
अत्र सूत्रम्- ॥
ओं अन्यभावव्यावृत्तेश्चेति ओं ॥
तदिदमक्षरस्य ब्रह्मत्वोपपादनाय हेत्वन्तराभिधायकतया व्याख्यातं भाष्ये ।
आक्षेपनिवर्तकतयाप्यतो विरुद्धवदित्यादिना व्याख्यायते ।
तथाहि ।
नेदमक्षरं ब्रह्म ।
"अस्थूलमनण्वह्रस्वमदीर्घमलोहितमच्छायमतमो ऽवाय्वनाकाशमसङ्गमरसमवागमनो ऽचक्षुष्कमप्राणमसुखम(गोत्र)मात्रमनन्तरमबाह्यं न तदश्नाति किञ्चनऽ; इत्यक्षरस्यास्थूलत्वादिश्रवणात् ।
नचैतद्ब्रह्मणः सम्भवति ।
अस्थूलत्वादिपदैर्हि स्थूलत्वादिविपरीतम् अणुत्वाद्यभिधानं वा स्यात् ।
स्थूलत्वादिनिवृत्तिमात्रपर्यवसानं वा ।
आद्ये परस्परविरोधः ।
अस्थूलमित्यनेन ह्यणुपरिमाणं वक्तव्यम् ।
अनण्वित्यनेन च महत्त्वम् ।
नचोभयमेकत्र युज्यते ।
परस्परपरिहारेणैव वृत्तिदर्शनात् ।
एवमह्रस्वमदीर्घमित्यत्रापि विरोधो द्रष्टव्यः ।
नचैकपरिमाणोपेतमेवोत्कृष्टापेक्षयाणु महद्दीर्घं ह्रस्वं चेत्युच्यत इत्याश्रयणेन विरोधपरिहारः ।
घटादितुल्यत्वेनावक्तव्यत्वात् ।
उत्कृष्टापकृष्टपरिमाणद्रव्यान्तराभावाच्च ।
द्वितीये तु निःस्वभावं ब्रह्मेत्यापन्नम् ।
तथाच"सर्वत्र प्रसिद्धोपदेशात् ।
अत्ता चराचरग्रहणात् ।
रूपोपन्यासाच्चऽ; इत्युक्तविरोधः स्यादिति ।
तत्र तावत्प्रथमपक्षमभ्युपेत्य चशब्दसूचितं परिहारमाह- अत इति ॥
अन्यभावव्यावृत्तेश् च

1.3.3

अतो विरुद्धवद् भातमपि व्याख्याय तत्त्वतः ।
योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम्

1.3.4

ब्रह्मैव ...
*4,18f.*
न्यायसुधा:
यतो ब्रह्म विरुद्धैर्लक्षणैर्युतमेव अतो, विरुद्धवतुउक्तोभयविधविरुद्धार्थप्रतिपादकमिव, भातंउप्रतीतमपि वाक्यं तत्त्वतो व्याख्याय हरौ योजनीयम् योजयितुं शक्यमिति योजना ।
यतो ऽम्बरान्तधृत्यादिनाक्षरस्य विष्णुत्वं निश्चितमतो विरुद्धवद्भातमपि वाक्यं तत्त्वतो व्याख्याय हरौ योजयितव्यमिति वा ।
कथं तत्त्वतो व्याख्यानमित्यपेक्षायां विरुद्धैरिति सम्बद्धयते ।
अथवा अत इत्यस्य पूर्वत्र सम्बन्धः ।
यतः सुखाधिको ऽतो भूमा विष्णुरि(विष्णुरतो भूमे0ति ।
विरुद्धवदिति प्रतिज्ञायां विरुद्धैरिति हेतुतया सम्बद्धयते ।
*4,19*
एतदुक्तं भवति ।
नाक्षरस्य ब्रह्मत्वे ऽस्थूलमित्यदिवाक्यस्यानवकाशः ।
अस्थूलादिपदैस्तद्विपरीताणुत्वाद्यभिधानमिति व्याख्यानस्याङ्गीकारात् ।
नचैवं सति परस्परविरोध इति वाच्यम् ।
विरुद्धधर्माणां ब्रह्मण्यवस्थानस्य श्रुत्यादिसिद्धत्वादिति ।
*4,25*
विरुद्धैर्लक्षणैर्युतं ब्रह्मेत्युक्तम् ।
मे माता वन्ध्येतिवद्वयाहतत्वात् ।
यदि हि महत्त्वाणुत्वादीनि विरुद्धानि ।
कथं तर्हि तैर्युतमेकं स्यात् ।
विरोधस्य सहानवस्थानात्मकत्वात् ।
यदि चैकं तैर्युतं कथं तर्हि तानि विरुद्धानि स्युः ।
सहावस्थानस्याविरोधरूपत्वादित्याशङ्कयोक्तं विवृणोति- तानीति ॥
... तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि ।
अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च

1.3.5

न्यायसुधा:
विरुद्धैर्लक्षणैर्युक्तं ब्रह्मेत्यनेनैतदस्माभिरभिप्रेतम् ।
तान्यस्थूलादिकानि अणुत्वमहत्त्वादिकानि लिङ्गानि तस्माद्ब्रह्मणो ऽन्यत्र सहासन्त्यपि गोविन्दे ऽविरोधेनैव सहैवेति यावत् सन्तीति ।
न पुनर्विरोधमभ्युपेत्यैकत्रावस्थानमुच्यते येन व्याघातः स्यात् इत्यवधारणार्थस्य चशब्दस्याथर्ः ।
गोविन्द इत्यनेन यशोदादिप्रत्यक्षमप्यत्रार्थे प्रमाणमिति सूचयति ।
अयमभिसन्धिः ।
अणुत्वमहत्त्वादिकं ब्रह्मणि किं प्रमाणाभावान्नाभ्युपेयम् ।
किंवा विरुद्धत्वात् ।
नाद्यः ।
"अणोरणीयान्ऽ; इत्याद्यागमस्योभयकार्यदर्शनानुमानस्योदाहृतप्रत्यक्षस्य च तत्र प्रमाणत्वात् ।
द्वितीये ऽपि किं विरोधः प्रमाणेनाथ परस्परम् ।
न प्रथमः ।
विपरीतप्रमाणादर्शनात् ।
द्रव्यत्वादेस्तूक्तप्रमाणविरुद्धत्वेन कालात्ययापदिष्टत्वात् ।
*4,28*
किञ्चाकाशस्य परमाणुसंयोगः किमाकाशैकदेशे वर्तते, उताकाश एव ।
आद्ये किमेकदेशो नामावयवः, प्रदेशभेदो वा ।
नाद्यः ।
अनभ्युपगमात् ।
द्वितीये किमसावाकाशस्वरूपमेवाथार्थान्तरम् ।
आद्यो ऽन्त्ये ऽन्तर्भवति ।
द्वितीयो ऽप्यभ्युपगमविरुद्धः ।
औपाधिकाङ्गीकारे त्वात्माश्रयादिकम् ।
न द्वितीयः ।
भेरीसंयोगस्यापि तथात्वापत्तेः ।
तथाच सर्वत्र शब्दोपलब्धिप्रसङ्गात् ।
अतः परमाणुसंयोगार्थमाकाशो ऽणुरभ्युपगन्तव्य इति व्यभिचारश्च ।
न द्वितीयः ।
परस्परविरोधादन्यत्र सर्वत्र ।
स हि सर्वत्र सहानवस्थानदर्शनाद्वा कल्पनीयः ।
उत क्वचित् ।
किं वा विमतिपदादन्यत्र सर्वत्र ।
नाद्यः ।
ब्रह्मणि श्रुत्यादिना सहावस्थानस्य दर्शनात् ।
न द्वितीयः ।
आकाशमनसोः परस्परपरिहारेण वर्तमानयोरपि भूतत्वमूर्तत्वयोर्विरोधाभावात् ।
अन्यथा पृथिव्यादौ तदुभयं न स्यात् ।
न तृतीयः ।
नित्यत्वज्ञानत्वयोरशरीरत्वकर्तृत्वयोश्चान्यत्र सर्वत्र सहानवस्थितयोरीश्वरबुद्धावीश्वरे च समावेशाभावप्रसङ्गात् ।
*4,31f.*
किञ्च ।
संयोगादीनां प्रदेशवृत्तित्वमङ्गीकुर्वता न तावत्प्रदेशवृत्तित्वमवयववृत्तित्वमङ्गीकर्तुमुचितम् ।
आकाशादीनां तदभावात् ।
अन्यधर्मस्यान्यवृत्तित्वाभ्युपगमे ऽतिप्रसङ्गाच्च ।
किन्तु स्वात्यन्ताभावसमानाधिकरणत्वमेव वक्तव्यम् ।
तथाच भावाभावयोरन्यत्र सर्वत्र सहानवस्थितं कथं विरोधो न भवेत् ।
दर्शनादिति चेत्समं प्रकृते ऽपि ।
तस्मादन्यत्र सर्वत्र सहानवस्थितं कथं नाम सहावतिष्ठत इत्येवं प्रश्नमात्रमवशिष्यते ।
तत्र वस्तुस्वभाव एव तादृश इति परिहारः ।
न चैवमतिप्रसङ्गः ।
प्रमाणभावाभावाभ्यां तद्व्युदासात् ।
एवं सति वाक्यव्यवस्था न क्वाप्याश्रयणीयेति चेन्न ।
प्रमाणस्वरूपावधारणे त्वेवमेतदित्यङ्गीकारात् ।
अत एव न मीमांसावैयर्थ्यमिति ।
*4,34*
एवं तावदस्थूलादिपदानामणुत्वाद्यभिधायकत्वपक्षमुपादाय श्रुतेर्ब्रह्मविषयत्वमुपपादितम् ।
इदानीं स्थूलत्वादिनिवृत्तिपरत्वे ऽपि न दाष इत्येवंपरतया सूत्रं व्याचष्टे- अन्येति ॥
अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ।
नारायणे श्रुतिर्वक्ति नतु तस्यास्वभावताम्

1.3.6

*4,34f.*
न्यायसुधा:
ब्रह्मणो ऽन्यानि वस्तूनि घटादीनि ।
तत्स्वभावभूतानि यानि स्थौल्यादीनि जडानि परतन्त्राणि कार्याणि विनाशवन्त्यणुत्वादिभिः सहानवस्थितानि च ।
तथाविधानां स्थौल्यादीनामभावं नारायणे"अस्थूलमनणुःऽ; इत्यादिश्रुतिर्वक्ति ।
नतु तस्य निःस्वभावत्वं येनोक्तविरोधः स्यादित्यर्थः ।
कुत एवं श्रुतेरर्थसङ्कोचः क्रियते ।
निःस्वभावत्वमेवार्थः किं न स्यादित्यत आह- सर्वधर्मेति ॥
*4,35*
सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः ।
दोषाः श्रुताश्च नेत्याद्या प्रमाणं श्रुतिरत्र च

1.3.7

न्यायसुधा:
अत्र परमेश्वरस्य सस्वभावत्वे न केवलमत्र किं नाम पूर्वोक्ताणुत्वमहात्त्वादौ चेत्यर्थः ।
इहाच्छायमतम इत्यादेरसङ्कुचितवृत्तित्वमेव ज्ञेयम् ।
बहुपदविषटत्वादिदं व्याख्यानं स्वशब्देन विधाय सूत्रकारः, कतिपयपदविषयं पूर्वव्याख्यानं चशब्देन समुच्चितवानिति ।
*4,37*
[======= ज्न्य्स्_1,2.विइ: वामनाधिकरणम् =======]
अतःपराणि सूत्राणि भाष्य एव स्पष्टार्थानीति न तत्र वक्तव्यमस्ति ।
परमाख्यविद्याव्याख्यां करोमीति च प्रतिज्ञातम् ।
तदुभयसिद्धयर्थमेतत्पादाधिकरणविषयपूर्वपक्षसिद्धान्तन्यायान् सङ्ग्रहेण दर्शयति- लिङ्गमिति ॥
लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।
पुनः शब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह

1.3.8

बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ।
अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः

1.3.9

लिङ्गावकाशराहित्यभ्रमस्तादृग् द्वयं तथा ।
बहुतादृक्तवमुक्तस्य विरोधो ऽर्थात् तथा गतिः ।
समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः

1.3.10

त एव बलवन्तस्तु गत्यन्तरविवर्जिताः ।
सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः

1.3.11

न्यायसुधा:
एतच्च न्यायविवरणे स्वयमेवाचार्येण व्याख्यातमिति तत्रैवावगन्तव्यम् ।
*4,40*
सूत्रसूचितान्सिद्धान्तन्यायानभिधाय साक्षादुक्तानप्याह- मुक्तेति ॥
मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा ।
वैलक्षण्यं स्वभावस्य प्रेक्षापूर्वक्रिया तथा

1.3.12

अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा ।
वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता

1.3.13

अनामरूपता भेदस्योपजीव्यप्रमाणता ।
सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः

1.3.14

न्यायसुधा:
अत एव पूर्वं दृश्यन्त इत्युक्त्वात्र प्रदर्शिता इत्युक्तम् ।
सर्वतस्तथा इत्येतत्पूर्वेणोत्तरेण च सम्बद्धयते ।
प्राणादाधिक्यं तथा सर्वत आधिक्यमिति ।
स्वभावस्य सर्वतो वैलक्षण्यं तथाम्बरान्तधृत्यादीति ।
प्रेक्षापूर्वक्रिया तथेति तथाशब्द उत्तरत्र सम्बध्यते ।
तेनापहतपाप्मत्वादीनां ग्रहणम् ।
सूर्याद्यनुकृतिस्तथा सर्वप्रकाशकत्वम् ।
तच्छब्दानन्यसिद्धतेति ज्योतिःशब्दस्यान्यत्रासम्भव इत्यर्थः ।
उपजीव्यं प्रमाणं यस्यासौ तथोक्तस्तस्य भाव उपजीव्यप्रमाणता ।
ता इति सिद्धान्तयुक्तयः ।
*4,42*
नन्वत्र पादे चतुर्दशाधिकरणानि भाष्यादवगम्यन्ते ।
विषयाः पूर्वपक्षन्यायाः सिद्धान्तन्यायाश्चात्र द्वादशैवोक्ताः न च विषयादिना विनाधिकरणं सम्भवति ।
तत्कथमेतदिति चेत् ।
इत्थम् ।
"तदुपर्यपि बादरायणः सम्भवात्ऽ"शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हिऽ; इत्येतदधिकरणद्वयं न समन्वयसमर्थनार्थम् ।
किं नाम देवादीनां वेदविद्याधिकारसमर्थनार्थमाद्यम् ।
द्वितीयं तु त्रैवर्णिकव्यतिरिक्तानां तदभावसमर्थनाथर्मित्येतज्ज्ञापयितुमेतदधिकरणद्वयविषयविषयाद्यनुक्तिः ।
अन्यथा तत्रापि समन्वयसम्बन्धान्वेषणेन शिष्याणां वृथा प्रयासः प्रसज्येत ।
*4,44*
नन्वेतद्द्वयमत्र न विचारणीयम् ।
असङ्गतत्वात् ।
तथाहि ।
सङ्गतिस्तावद्द्विविधा भवति ।
अन्तर्भावलक्षणाऽनन्तर्यलक्षणा च ।
तत्राद्या तावदनयोरधिकरणयोर्न सम्भवति ।
समन्वयलक्षणे प्रथमाध्याये ऽनन्तर्भावस्य भवद्भिरेवोक्तत्वात् ।
अध्यायानन्तर्भूतयोश्च पादान्तर्भावासम्भवात् ।
उत्तरापि षोढा भवति ।
प्रसङ्गोपोद्घातावसरप्राप्तिकारणकार्यत्वैककार्यत्वभेदात् ।
तत्र न तावत्प्रथमात्रास्ति ।
स्मारकाभावात् ।
न द्वितीया ।
विनैव तेन प्रकृतसिद्धेः ।
न तृतीया ।
समन्वयशेषेणावरुद्धत्वात् ।
न चतुर्थी ।
उत्तरं प्रबन्धं प्रति कारणत्वानुपलम्भात् ।
न पञ्चमी ।
पूर्वप्रबन्धकार्यत्वादर्शनात् ।
नापि षष्ठी ।
पूर्वेणानेनोत्तरेण चैकस्याजननात् ।
तस्मादिदं नेहावकाशमर्हतीत्यत आह- अधिकारश्चेति ॥
अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ
न्यायसुधा:
अन्तर्भावलक्षणसङ्गत्यभावे ऽपि देवानां वेदविद्याधिकारः तदभावः शूद्रादीनामत्र प्रसङ्गादेव चिन्तितौ ।
प्रसङ्गश्च मनुष्याधिकारत्वादिति पूर्वसूत्रोक्त्योपोद्बलित इति भावः ।
नच प्रसक्तानुप्रसक्तविचन्तने ऽतिप्रसङ्गः ।
प्रयोजनभावाभावाभ्यां व्यवस्थानात् ।
प्रकृते च"विश्वेदेवा उपासतेऽ; इत्युक्तोपपन्नत्वादिकं प्रयोजनमस्ति ।
*4,50*
ननु चिन्तिताविति कथम् ।
विप्रतिषेधे परं कार्यमिति स्त्रीलिङ्गेन भाव्यम् ।
मैवम् ।
इतामौ विषयावित्यध्याहारम् ।
*4,58*
[======= ज्न्य्स्_1,3.विइइ: देवत्वाधिकरणम् =======]
अत्र देवानां वेदविद्याधिकाराक्षेपार्थं सूत्रद्वयम्"मध्वादिष्वसम्भवादनधिकारं जैमिनिःऽ"ज्योतिषि भावाच्चऽ; इति ।
तस्यार्थः ।
न देवा वैदिकोपासनादावधिक्रियन्ते ।
तान्प्रति वैदिकविधेरभावात् ।
"आत्मानमुपासीतऽ; इत्यादिविधिरेव तान्विषयीकरोतीति चेन्न ।
विकल्पानुपपत्तेः ।
तथाहि ।
किं तेषां सर्ववेदोक्तोपासनादावधिकारः ।
किं वा क्वचित् ।
नाद्यः ।
सर्वत्र तेषां नियोज्यत्वाभावात् ।
तत्साध्यफलकामो हि तत्र नियुज्यते ।
फलं च तदुच्यते ।
यदप्राप्तमननुष्ठितसाधनं च ।
नच सर्वोपासनादिफले देवानां कामः सम्भवति ।
मध्वाद्युपासनानां देवतापदप्राप्तिफलत्वात् ।
तस्य च तैः प्राप्तत्वात् ।
सर्वज्ञत्वेनोपासनासाध्यज्ञानस्यापि नित्यसिद्धत्वात् ।
अत एव न द्वितीयः ।
किञ्च जैमिनिरप्येवं मन्यत इति ।
*4,59*
एवमवान्तरफलस्य परमप्रयोजनस्य च पदादेः प्राप्तत्वेन विधेरसम्भवाज्जैमिनिवचनाच्च देवानामनधिकार इति प्राप्ते तत्प्रतिविधानार्थं सूत्रम् ।
ओं भावं तु बादरायणो ऽस्ति हीति ओं ॥
तत्फलाय विधिः सिद्धे चोपासाया निराकृतः

1.3.15

यतो जैमिनिनान्यार्थमसिद्धे ऽर्थे विधिस्तथा ।
विद्याधिराजस्य मतमविरोधस्तयोस्ततः

1.3.16

न्यायसुधा:
तत्र यत्पूर्वपक्षिणोदाहृतं जैमिनिवचनं तस्य परिहारो नास्ति ।
तत्किं भगवन्मतविरुद्धत्वेनाप्रमाणमेव प्रतिपत्तव्यमिति ।
मैवम् ।
भिन्नविषयत्वेन विरोधाभावादित्याह- तत्फलायेति ॥
तदिति "वसूनामेवैको भूत्वाऽ; इत्यादिश्रुतिप्रसिद्धं परामृशति ।
सिद्धे ज्ञाते ब्रह्मस्वरूपे, विषयसप्तमीयम् ।
उपासाया विधिरिति सम्बन्धः ।
अन्यार्थं फलान्तरार्थम् ।
तथा असिद्धे ऽर्थे विधिरुपासाया इत्यत्राप्यनुवर्तते ।
अत्रेतिशब्दाध्याहारेण मतमिति योज्यम् ।
तयोमर्तयोः ।
*4,61*
ननु किं तदन्यफलं कथं च सर्वज्ञानामसिद्धो ऽथर्ः ।
येन देवानामप्युपासनाविधानोपपत्तिरित्यत आह- मोक्ष इति ॥
मोक्षे फलविशेषो ऽस्ति नच सर्वं प्रकाशते ।
सर्वदा तेन देवानामपि युक्ता ह्युपासना

1.3.17

न्यायसुधा:
यच्च प्रकाशते, न तत्सर्वदा ।
तेन तदुभयार्थम् ।
हिशब्दो यस्मादित्यर्थे ।
ननु सर्वज्ञानां सर्वं न प्रकाशत इति विप्रतिषिद्धम् ।
मैवम् ।
परमेश्वरव्यतिरिक्तानां सर्वज्ञत्वासिद्धेरित्याह- नित्यमिति ॥
नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् ।
स्पष्टातिस्पष्टविशदं ब्रह्मणो ऽशेषवस्तुगम्

1.3.18

अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा
*4,62*
न्यायसुधा:
पूर्णम् अशेषार्थविषयम् ।
तुशब्दो ऽवधारणे, विष्णोरेवेति सम्बध्यते ।
स्पष्टातिस्पष्टविषयमिति ।
निरतिशयस्पष्टमित्यर्थः ।
ननु स्पष्टता नाम ज्ञानस्य विशेषविषयता ।
सा च पूर्णमित्यनेनैव गता ।
मैवम् ।
अपरोक्षत्वादिवत्स्पष्टताया विषयानपेक्षज्ञानधर्मत्वाङ्गीकारात् ।
तस्य चानुभवसिद्धत्वात् ।
ब्रह्मणो हिरण्यगर्भस्य ।
अशेषवस्तुगं परब्रह्मातिरिक्ताशेषवस्तुविषयम् ।
अत्राप्येवेति सम्बद्धयते ।
नतु सर्वार्थविषयत्वाद्युक्तविशेषणोपेतमित्यर्थः ।
अत्र ब्रह्मसंवेदनस्य पृथगुक्तिः कैमुत्यार्थम् ।
विष्णुसंवेदनोक्तिस्तु सर्वविषयत्वस्य विष्णुज्ञानलक्षणत्वेनेतरेषां तदसम्भावितमिति सूचयितुम् ।
मितवस्तुगतं परमेश्वरातिरिक्तकतिपयार्थविषयम् ।
एतेन भावमिति सूत्रं व्याख्यातं भवति ।
अत्र च"यावत्सेवाऽ; इत्यादिभाष्योदाहृतं वचनं प्रमाणमिति ।
ननु जैमिनिभगवन्मतयोरविरोध इति न युक्तम् ।
जैमिनिर्हि श्रुतफलाद्यतिरिक्तं फलादिकं विद्यानामस्तीति वा मन्यते नास्तीति वा ।
आद्ये कथमनधिकारं ब्रूयात् ।
द्वितीये तु कथं न विरोध इति चेन्न ।
भगवतः सूत्रकारस्याशेषविशेषज्ञत्वेन विशदं वचनम् ।
जैमिनिस्तु सामान्यवेदी फलान्तरादिकमजानन्न निराकुवर्न्यथाश्रुतमङ्गीकृत्यानधिकारमुक्तवानित्यविरोधोपपत्तेरित्याह- इत्यादय इति ॥
इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि

1.3.19

जैमिन्याद्यास्तु सामान्यवेत्तृत्वात् तत् तथावदन् ।
विद्येशमतमेतस्मान्नैव सद्भिर्विरुद्धयते

मूल पाठ: Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc